वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
[ अ० ५३ श्लो० ५६-८१ ] वायुपुराणम् । १७३
( ज्योतिःसंनिवेशः )
सूर्याचन्द्रमसोर्द्दिव्ये मण्डले भास्वरे खगे । ज्वलत्तेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥ ५६ घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् । घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ॥ ५७ विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः । मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥ ५८ तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च । ) सौरं सूर्यो विशः स्थानं सौम्यं सोमस्तथैव च ॥ ५९ शौक्रं शुक्रो विशः स्थानं षोडशार्चिः प्रतापवान् । बृहद्बृहस्पतिश्चैव लोहितं चैव लोहितः शनैश्चरं तथा स्थानं देवश्चैव शनैश्चरः ॥ ६० आदित्यरश्मिसंयोगात्संप्रकाशात्मिकाः स्मृताः । नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ॥ ६१ त्रिगुणस्तस्य विस्तारा मण्डलं च प्रमाणतः । द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥ ६२ तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाऽऽधस्तात्प्रसर्पति । उद्धृत्य पार्थिवच्छायां निर्मितो मण्डलाकृतिः ॥ ६३ स्वर्भानोस्तु बृहत्स्थानं निर्मितं यत्तमोमयम् । आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ॥ ६४ आदित्यमेति सोमाच्च पुनः सोमं च पर्वसु । स्वर्भासा नुदते यस्मात्ततः स्वर्भानुरुच्यते ॥ ६५ चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते । निष्कम्भान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः ॥ ६६ भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः । बृहस्पतेः पादहीनौ कुजसौरौवुभौ स्मृतौ ॥ विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ ६७ तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै । बुधेन समतुल्यानि विस्तारान्मण्डलादथ ॥ ६८ प्रायश्चन्द्रयोगिनि(णि) विद्यादृक्षाणि तत्त्ववित् । तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥ ६९ शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने पूर्वापरनिकृष्टानि तारकामण्डलानि तु ॥ योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ ७० उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरौऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ ७१ तेभ्योऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ ७२ यावन्त्यस्तारकाः कोट्यस्तावदृक्षाणि सर्वशः । वीथीनां नियमाच्चैवमृक्षमार्गो व्यवस्थितः ॥ ७३ गतिस्तास्वेव सूर्यस्य नीचोच्चत्वेऽयनक्रमात् । उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः ॥ बौधं बौधोऽथ स्वर्भानुः स्वर्भानोः स्थानमास्थितः ॥ ७४ नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत । गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्मनाम् ॥ ७५ कल्पादौ संप्रवृत्तानि निर्मितानि स्वयंभुवा । स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् ॥ ७६ मन्वन्तरेषु सर्वेषु देवतायतनानि वै । अभिमानिनोऽवतिष्ठन्ति स्थानानि तु पुनः पुनः ॥ ७७ अतीतैस्तु सहातीता भाव्या भाव्यैः सुरासुरैः । वर्तन्ते वर्तमानैश्च स्थानानि स्वैः सुरैः सह ॥ ७८ अस्मिन्मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः । विवस्वानादितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे ॥ ७९ त्विषिमान्धर्मपुत्रस्तु सोमदेवो वसुः स्मृतः । शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः ॥ ८० बृहत्तेजाः स्मृतो देवो देवाचार्योऽङ्गिरःसुतः । बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः ॥ ८१
१७४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५३श्लो०८२-१०७] (ज्योतिःसंनिवेशः)
अग्निर्विकल्पात्संजज्ञे युवाऽसौ लोहिताधिपः। नक्षत्रऋक्षगामिन्यो दाक्षायण्यः स्मृतास्तु ताः ॥ ८२ स्वर्भानुः सिंहिकापुत्रो भूतसंतापनोऽसुरः। सोमर्क्षग्रहसूर्ये तु कीर्तितास्त्वभिमानिनः ॥ ८३ स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः। शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ॥ ८४ सहस्रांशोस्त्वपः स्थानमम्मयं शुक्लमेव च। आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम् ॥ ८५ शुक्रस्याप्यम्मयं स्थानं सद्म षोडशरश्मिवत्। नवरश्मेस्तु सूनो हि लोहितस्थानमम्मयम् ॥ ८६ हरिश्वा(चाऽऽ)प्यं बृहच्चापि द्वादशांशोर्बृहस्पतेः। अष्टरश्मेर्वृहं प्रोक्तं कृष्णं बुधस्य अम्मयम् ॥ ८७ स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम्। विज्ञेयास्तारकाः सर्वास्त्वम्मयास्त्वेकरश्मयः ॥ ८८ आश्रयः पुण्यकीर्तीनां सुशुक्लाश्चैव वर्णतः। वनतोयात्मिका ज्ञेयाः कल्पादौ वेदनिर्मिताः ॥ ८९ उच्चत्वादृश्यते शीघ्रमभिव्यक्तैर्गभस्तिभिः। तथा दक्षिणमार्गस्थो नीवीवीथीसमाश्रिताः ॥ ९० भूमिलेखावृत्तः सूर्यः पूर्णिमावास्ययोस्तथा। न दृश्यते यथाकालं शीघ्रमस्तमुपैति च ॥ ९१ तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः। दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ॥ ९२ ज्योतिषां गतियोगेन सूर्याचन्द्रमसावुभौ। समानकालास्तमयौ विषुवत्सु समोदयौ ॥ ९३ उत्तरासु च वीथीषु व्यन्तरास्तमयोदयौ। पौर्ण(पूर्णा)मावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्तिनौ ॥ ९४ दक्षिणायनमार्गस्थो यदा भवति रश्मिवान्। तदा सर्वग्रहाणां स सूर्योऽधस्तात्प्रसर्पति ॥ ९५ विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं*चरते शशी। नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ ९६ नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं बृहस्पतिः। तस्माच्छनैश्चरश्चोर्ध्वं तस्मात्सप्तर्षिमण्डलम् ॥ ऋषीणां चैव सप्तानां ध्रुव ऊर्ध्वं व्यवस्थितः ॥ ९७ द्विगुणेषु सहस्रेषु योजनानां शतेषु च। ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ॥ ९८ ग्रहाश्च चन्द्रसूर्यो तु दिवि दिव्येन तेजसा। नित्यमृक्षेषु युज्यन्ति गच्छन्ति नियमक्रमात् ॥ ९९ ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृद्ववस्थिताः। समागमे च भेदे च पश्यन्ति युगपत्प्रजाः ॥ १०० परस्परस्थिता ह्येते युज्यन्ते च परस्परम्। असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः ॥ १०१ इत्येष संनिवेशो वः पृथिव्यां ज्योतिषस्य च। द्वीपानामुदधीनां च पर्वतानां तथैव च ॥ १०२ वर्षाणां च नदीनां च ये च तेषु वसन्ति वै। एते चैव ग्रहाः पूर्वे नक्षत्रेषु समुत्थिताः ॥ १०३ विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेऽन्तरे। विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ॥ १०४ त्विषिमान्धर्मपुत्रस्तु सोमो विश्वाससुस्तथा। शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ॥ १०५ षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादिनन्तरम्। ताराग्रहाणां प्रवरस्तिष्यक्षेत्रे समुत्थितः ॥ १०६ ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः। फाल्गुनीषु समुत्पन्नः सर्वासु च जगद्गुरुः ॥ १०७
* अत्राऽऽत्मनेपदं छन्दोनुरोधात्।
[अ० ५३-५४ श्लो० १०८ १२३ । १-३] वायुपुराणम् । १७५
( नीलकण्ठस्तवः )
नवार्चिर्लोहिताङ्गस्तु प्रजापतिसुतो ग्रहः । आषाढास्विह पूर्वांसु समुत्पन्न इति श्रुतिः ॥ १०८ रेवतीष्वेव सप्तार्चिस्तथा सौरः शनैश्चरः । रेवतिषु समुत्पन्नौ ग्रहौ चन्द्रार्कमर्दनौ ॥ १०९ एते ताराग्रहाश्चैव बोद्धव्या भार्गवादयः । जन्मनाक्षत्रपीडासु यान्ति वैगुप्यतां यतः ॥ (+ स्पृशन्ते तेन दोषेण ततस्ता ग्रहभक्तिषु ) ॥ ११० सर्वग्रहाणामेतेषामादिरादित्य उच्यते । ताराग्रहाणां शुक्रस्तु केतूनां चैव धूमवान् ॥ १११ ध्रुवः कीलो ग्रहाणां तु विभक्तानां चतुर्दिशम् । नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ॥ ११२ वर्षाणां चापि पञ्चानामाद्यः संवत्सरः स्मृतः । ऋतूनां शिशिरं चापि मासानां माघ एव च ॥ ११३ पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा । अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ॥ ११४ मुहूर्तानां तथैवाऽऽदिर्मुहूर्त्तो रुद्रदैवतः । अक्ष्णोश्चापि निमेषादिः कालः कालविदो मतः ॥ ११५ श्रवणान्तं प्रविष्ठादि युगं स्यात्पञ्चवार्षिकम् । भानोर्गतिविशेषेण चक्रवत्परिवर्तते ॥ ११६ दिवाकरः स्मृतस्तस्मात्कालस्तं विद्धि चेश्वरम् । चतुर्विधानां भूतानां प्रवर्तकनिवर्तकः ॥ ११७ इत्येष ज्योतिषामेव संनिवेशोऽर्थनिश्चयात् । लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः ॥ ११८ उन्नन्नः श्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा । सर्वतोऽन्तेषु विस्तीर्णो वृत्ताकार इति स्थितिः ॥ ११९ बुद्धिपूर्वं भगवता कल्पादौ संप्रकीर्तितः । साश्रयः सोऽभिमानी च सर्वस्य ज्योतिषात्मकः ॥ विश्वरूपं प्रधानस्य परिणामोऽयमद्भुतः ॥ १२० नैव शक्यं प्रसंख्यातुं याथातथ्येन केनचित् । गतागतं मनुष्येषु ज्योतिषां मांसचक्षुषा ॥ १२१ आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः । परीक्ष्य निपुणं भक्त्या श्रद्धातव्यं विपश्चिता ॥ १२२ चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिसत्तमाः । पञ्चैते हेतवो ज्ञेया ज्योतिर्गणविचिन्तने ॥ १२३ इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे ज्योतिःसंनिवेशनं नाम त्रिपञ्चाशोऽध्यायः ॥ ५३ ॥
आदितः श्लोकानां समष्टयङ्काः-४१५२
अथ चतुष्पञ्चाशोऽध्यायः नीलकण्ठस्तवः ।
ऋषय उवाच-- कस्मिन्देशे महापुण्यमेतदाख्यानमुत्तमम् । वृत्तं ब्रह्मपुरोगाणां कस्मिन्काले महाद्युते ॥ एतदाख्याहि नः सम्यग्यथावृत्तं तपोधनः ॥ १
सूत उवाच-- यथा श्रुतं मया पूर्वं वायुना जगदायुना । कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रके ॥ २ नीलता येन कण्ठस्य देवदेवस्य शूलिनः । तदहं कीर्तयिष्यामि शृणुध्वं शंसितव्रताः ॥ ३
+ इदमर्धं नास्ति ख. घ. पुस्तकयोः
१७६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ५४- श्लो० ८२-४-२५]
(नीलकण्ठस्तवः)
उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः। पुण्योद्यानेषु तीर्थेषु देवतायतनेषु च॥ गिरिशृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च॥ ४ देवभक्ता महात्मानो मुनयः शंसितव्रताः। स्तुवन्ति च महादेवं यत्र यत्र यथाविधि॥ ५ ऋग्यजुःसामवेदैश्च नृत्यगीतार्चनादिभिः। ओंकारं हुं नमस्कारैरर्चयन्ति सदा शिवम्॥ ६ प्रवृत्ते ज्योतिषां चक्रे मध्यव्योम्नि दिवाकरे। देवता नियतात्मानः सर्वे तिष्ठन्ति तां कथाम्॥ अथ नियमप्रवृत्ताश्च प्राणशेषप्यवस्थिताः॥ ७ नमस्ते नीलकण्ठाय इत्युवाच सदागतिः। तच्छ्रुत्वा भावितात्मानो मुनयः शंसितव्रताः॥ वालखिल्येतिविख्याताः पतङ्गसहचारिणः॥ ८ अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्। तस्मात्पृच्छन्ति वै वायुं वायुपर्णाम्बुभोजनाः॥ ९
ऋषय ऊचुः— नीलकण्ठेति यत्प्रोक्तं त्वया पवनसत्तम। एतद्गुह्यं पवित्राणां पुण्यं पुण्यकृतां वरः॥ १० तद्वयं श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन। नीलता येन कण्ठस्य कारणेनाम्बिकापतेः॥ ११ श्रोतुमिच्छामहे सम्यक्तव वक्त्राद्विशेषतः। यावद्वाचः प्रवर्तन्ते सार्थास्ताश्च त्वयेरिताः॥ १२ वर्णस्थानगते वायौ वाग्विधिः संप्रवर्तते। ज्ञानं पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्तते॥ १३ त्वयि निष्पन्दमाने तु शेषा वर्णप्रवृत्तयः। यत्र वाचो निवर्तन्ते देहबन्धाश्च दुर्लभाः॥ १४ तत्रापि तेऽस्ति सद्भावः सर्वगस्त्वं सदाऽनिल। नान्यः सर्वगतो देवस्त्वदृतेऽस्ति समीरण॥ १५ एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल। वेत्थ वाचस्पतिं देवं मनोनायकमधीश्वरम्॥ १६ ब्रूहि तत्कण्ठदेशस्य किंकृता रूपविक्रिया। श्रुत्वा वाक्यं ततस्तेषामृषीणां भावितात्मनाम्॥ प्रत्युवाच महातेजा वायुर्लोकनमसकृतः॥ १७
वायुरुवाच— पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः। वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतेः॥ १८ पप्रच्छ कार्तिकेयं वै मयूरवरवाहनम्। महिषासुरनारीणां नयनाञ्जनतस्करम्॥ १९ महासैनं महात्मानं मेघस्तानितनिस्वनम्। उमामनःप्रहर्षेण बालकं छद्मरूपिणम्॥ २० क्रौञ्चजीवितहर्तारं पार्वतीहृदि नन्दनम्। वसिष्ठः पृच्छते भक्त्या कार्तिकयं महाबलम्॥ २१
वसिष्ठ उवाच— नमस्ते हरनन्दाय उमागर्भ नमोऽस्तु ते। नमस्ते अग्निगर्भाय गङ्गागर्भ नमोऽस्तु ते॥ २२ नमस्ते शरगर्भाय नमस्ते कृतिकासुत। नमो द्वादशनेत्राय षण्मुखाय नमोऽस्तु ते॥ २३ नमस्ते शक्तिहस्ताय दिव्यघण्टापताकिने। एवं स्तुत्वा महासेनं पप्रच्छ शिखिवाहनम्॥ २४ यदेतद्दृश्यते वर्यं शुभं शुभ्राञ्जनप्रभम्। तत्किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसप्रभे॥ २५
मत्प्रियार्थं महाभाग वक्तुमर्हस्यशेषतः ॥ २६
[अ० ५४ श्लो० २६-५०] वायुपुराणम् १७७
(नीलकंठस्तवः)
एतदाचाय भक्ताय दान्ताय ब्रूहि पृच्छते । कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् ॥
मत्प्रियार्थं महाभाग वक्तुमर्हस्यशेषतः ॥ २६
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः । प्रत्युवाच महातेजाः सुरारिबलसूदनः ॥ २७
शृणुष्व वदतां श्रेष्ठ कथ्यमानं वचो मम । उमोत्सङ्गन्निविष्टेन मया पूर्वं यथा श्रुतम् ॥ २८
पार्वत्या सह संवादः सर्वस्य च महात्मनः । तदहं कीर्तयिष्यामि त्वत्प्रियार्थं महामुने ॥ २९
कैलासशिखरे रम्ये नानाधातुविचित्रिते । [*तरुणादित्यसंकाशे तप्तचामीकरप्रभे ॥ ३०
वज्रस्फटिकसोपाने चित्रपट्टशिलातले । जाम्बूनदमये दिव्ये नानाधातुविचित्रिते ] ॥ ३१
नानाद्रुमलराकीर्णे चक्रवाकोपशोभिते ॥ ३२
षट्पदोद्गीतबहुले धारासंपातनादिते । मत्तक्रौञ्चमयूराणां नादैरुद्धुष्टकन्दरे ॥ ३३
अप्सरोगणसंकीर्णे किंनरैरुपशोभिते । जीवञ्जीवकजातीनां वीरूद्भिरुपशोभिते ॥ ३४
कोकिलारावमधुरे सिद्धचारणसेविते । सौरभेयीनिनादाढ्ये मघस्तनितनिस्वने ॥ ३५
विनायकमयोद्विग्नैः कुञ्जरैर्मुक्तकन्दरे । वीणावादित्रनिर्घोषैः श्रोत्रेन्दियमनोरमैः ॥ ३६
दोलालम्बितसंपाते वनितासंघसेविते । ध्वजैलम्बितदोलानां घण्टानां निनदाकुले ॥ ३७
मुखमर्दलवादित्रैर्बलिनां स्फोटितैस्तथा । क्रीडारवविचाराणां निर्घोषः पूर्णमन्दिरे ॥ ३८
हासैः संत्रासजननौर्विकरालमुखैस्तथा । देहगन्धैर्विचित्रैश्च प्रक्रीडितगणेश्वरैः ॥ ३९
÷वज्रस्फटिकसोपानचित्रपट्टशिलातलैः । व्याघ्रसिंहमुखैश्चान्यैर्गजवाजिमुखैस्तथा ॥ ४०
बिडालवदनश्चान्यैः क्रोष्टुकाकारमूर्तिभिः हस्वैर्दीर्घैः कृशौः स्थूलैर्लम्बोदरमहोदरैः ॥ ४१
हस्वजङ्घैश्च लम्बोष्ठैस्तालजङ्घैस्तथा परैः । गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ॥ ४२
बहुपादैर्महापादैरेकपादैरपादकैः । बहुशीर्षैर्महाशीर्षैराशीर्षैरशीर्षकैः ॥ ४३
बहुनेत्रैर्महानेत्रैरेकनेत्रैरनेत्रकैः+ । एवंविधैर्महायोगी भूतैर्भूतपतिर्वृतः ॥ ४४
विशुद्धमुक्तामणिरत्नभूषिते शिलातले हेममये मनोरमे ।
सुखोपविष्टं मदनाङ्गनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥ ४५
देव्युवाच--
भगवन्भूतभव्येश गोवृषाङ्कितशासन । तव कण्ठे महादेव भ्राजतेऽम्बुदसंनिभम् ॥ ४६
नात्युल्बणं नातिशुभ्रं नीलाञ्जनचयोपमम् । किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन ॥ ४७
को हेतुः कारणं किंच कण्ठे नीलत्वमीश्वर । एतत्सर्वं यथान्यायं ब्रूहि कौतूहलं हि मे ॥ ४८
श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पार्वतीप्रियः । कथां मङ्गलसंयुक्तां कथयामास शंकरः ॥ ४९
मध्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः । अग्रे समुत्थितं तस्मिन्विषं कालानलप्रभम् ॥ ५०
तं दृष्ट्वा सुरसंघाश्च दैत्याश्चैव वरानने । विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तिकम् ॥
* धनुश्चिन्हान्तर्गतग्रन्थः क. पुस्तके नास्ति । ÷ इदमर्धं नास्ति ङ. पुस्तके । + नैत्रैकीर-
त्युत्तरं बहुशीर्षैरित्याद्यर्धं ख. ग. घ. ङ. पुस्तकेषु ।
२३
१७६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५४श्लो०५१--७४] ( नीलकण्ठस्तवः)
दृष्ट्वा सुरगणान्भीतानब्रह्मोवाच महाद्युतिः । किमर्थं भो महाभागा भीता उद्विग्नचेतसः ॥ ५१ यथाऽष्टगुणमैश्वर्यं भवतां संप्रकल्पितम् । केन व्यावर्तितैश्वर्या यूयं वै सुरसत्तमाः ॥ ५२ त्रैलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः । प्रजासर्गे न सोऽस्तीह आज्ञां यो मे निवर्तयेत् ॥ ५३ विमानगामिनः सर्वे सर्वे स्वच्छन्दगामिनः । अध्यात्मे चाधिभूते च अधिदैवे च नित्यशः ॥ प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्तितुम् ॥ ५४ तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव । किं दुःखं केन संतापः कुतो वा भयमागतम् ॥ एतत्सर्वं यथान्यायं शीघ्रमाख्यातुमर्हथ ॥ ५५ श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणो वै महात्मनः । ऊचुस्ते ऋषिभिः सार्धं सुरदैत्येन्द्रदानवाः ॥ ५६ सुरासुरैर्मथ्यमाने पाथोधौ च महात्मभिः । भुजङ्गभृङ्गसंकाशं नीलजीमूतसंनिभम् ॥ प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ॥ ५७ कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् । त्रैलोक्योत्सादि सूर्याभं प्रस्फुरन्तं समन्ततः ॥ ५८ विषेणोत्तिष्ठमानेन कालानलसमत्विषा । निर्दग्धो रक्तगौराङ्गः कृतः कृष्णो जनार्दनः ॥ ५९ दृष्ट्वा तं रक्तगौराङ्गं कृतं कृष्णं जनार्दनम् । भीताः सर्वे वयं देवास्त्वामेव शरणं गताः ॥ ६० सुराणामसुराणां च श्रुत्वा वाक्यं पितामहः । प्रत्युवाच महातेजा लोकानां हितकाम्यया ॥ ६१ शृणुध्वं देवताः सर्वे ऋषयश्च तपोधनाः । यत्तदग्रे समुत्पन्नं मध्यमाने महोदधौ ॥ ६२ विषं कालानलप्रख्यं कालकूटेति विश्रुतम् । येन प्रोद्भूतमात्रेण कृतः कृष्णो जनार्दनः ॥ ६३ तस्य विष्णुरहं चापि सर्वे ते सुरपुङ्गवाः । न शक्नुवन्ति वै सोढुं वेगमन्ये तु शंकरात् ॥ ६४ इत्युक्त्वा पद्मगर्भाभः पद्मयोनिरयोनिजः । ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः ॥ ६५ नमस्तुभ्यं विरूपाक्ष नमस्तेऽनेकचक्षुषे । नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ ६६ नमस्त्रैलोक्यनाथाय भूतानां पतये नमः । नमः सुरारिसंहर्त्रे तापसाय त्रिचक्षुषे ॥ ६७ ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः । सांख्याय चैव योगाय भूतग्रामाय वै नमः ॥ ६८ मन्मथाङ्गविनाशाय कालकालाय वै नमः । रुद्राय च सुरेशाय देवदेवाय ते नमः ॥ ६९ कपर्दिने करालाय शंकराय कपालिने । विरूपायैकरूपाय शिवाय वरदाय च ॥ ७० *त्रिपुरघ्नाय वन्द्याय मातृणां पतये नमः। बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च ॥ ७१ नमः कमलहस्ताय दिग्वासाय शिखण्डिने । लोकत्रयविधात्रे च रुद्राय वरुणाय च ॥ ७२ अग्र्याय चैव चोग्राय विपायानेकचक्षुषे । रजसे चैव सत्त्वाय तमसेऽव्यक्तयोनये ॥ ७३ नित्यायानित्यरूपाय नित्यानित्याय वै नमः । व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ॥ ७४
* नास्त्ययं श्लोको घ. पुस्तके ।
बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने । नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥ ७७
[अ० ५४ श्लो० ७५--९६] वायुपुराणम् । १७९
(नीलकण्ठस्तवः) चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः । भक्तानामार्त्तिनाशाय नरनारायणाय च ॥ ७५ उमाप्रियाय शर्वाय नन्दिचक्राङ्किताय च । पक्षमासार्धमासाय नमः संवत्सराय च ॥ ७६ बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने । नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥ ७७ ध्वजिने रथिने चैव येमिने ब्रह्मचारिणे । ऋग्यजुःसामवेदाय पुरुषायेश्वराय च ॥ इत्येवमादिचरितैस्तुभ्यं देव नमोऽस्तु ते ॥ ७८
श्रीमहादेव उवाच-- एवं स्तुत्वा ततो देवः प्रणिपत्य वरानने ॥ ७९ ज्ञात्वा तु भक्तिं मम देवदेवो गङ्गाजलाप्लावितकेशदेशः ॥ सूक्ष्मोऽतियोगातिशयादचिन्त्यो न हि प्लुतो व्यक्तमुपैति चन्द्रः ॥ ८० ॥ एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा । स्तुतोऽहं विविधैस्तोत्रैर्वेदवेदाङ्गसंभवैः ॥ ८१ ततः प्रीतोऽस्म्यहं तस्मै ब्रह्मणे सुमहात्मने । ततोऽहं सूक्ष्मया वाचा पितामहमथाब्रुवम् ॥ ८२ भगवन्भूतभव्येश लोकनाथ जगत्पते । किं कार्यं ते मया ब्रह्मन्कर्तव्यं वद सुव्रत ॥ ८३ श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः । भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ॥ ८४ सुरासुरैर्मथ्यमाने पयोधावम्बुजेक्षण । भगवन्मेघसंकाशं नीलजीमूतसंनिभम् ॥ ८५ प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् । कालमृत्युखिरोद्भूतं युगान्तादित्यवर्चसम् ॥ ८६ त्रैलोक्योत्सादनार्थं विस्फुरन्तं समन्ततः । अग्रे समुत्थितं तस्मिन्विषं कालानलप्रभम् ॥ ८७ तं दृष्ट्वा तु वयं सर्वे भीताः संभ्रान्तचेतसः । तत्पिबस्व महादेव लोकानां हितकाम्यया ॥ भवानग्रस्य भोक्ता वै भवांश्चैव वरः प्रभु ॥ ८८ त्वामृतेऽन्यो महादेव विषं सोढुं न विद्यते । नास्ति कश्चित्पुमांश्शक्तस्त्रैलोक्येषु च गीयते ॥ एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः । बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ ८९ ततोऽहं पातुमारब्धो विषमन्तकसंनिभम् । पिबतो मे महाघोरं विषं सुरभयंकरम् ॥ कण्ठः समभवत्तूर्णं कृष्णो मे वरवर्णिनि ॥ ९० तं दृष्ट्वोत्पलपत्राभं कण्ठे सकमिवोरगम् । तक्षकं नागराजानं लेलिहानमिव स्थितम् ॥ ९१ अथोवाच महातेजा ब्रह्मा लोकपितामहः । शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ॥ ९२ ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे । पश्यतां देवसंघानां दैत्यानां च वरानने ॥ ९३ यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम् । धृतं कण्ठे विषं घोरं नीलकण्ठस्ततो ह्यहम् ॥ ९४ तत्कालकूटं विषमुग्रतेजः कण्ठे मया पर्वतराजपुत्रि । निवेश्यमानं सुरदैत्यसंघो दृष्ट्वा परं विस्मयमाजगाम ॥ ९५ ॥ ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः । ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि ॥ ९६
| १८० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ५४ श्लो० ९७-११५] |
|---|---|---|
| ( नीलकण्ठस्तवः ) |
अहो बलं वीर्यपराक्रमस्ते अहो पुनर्योगबलं तथैव ।
अहो प्रभुत्वं तव देवदेव गङ्गाजलास्फालितमुक्तकेश ॥ ९७
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ।
त्वमेव सूर्यो रजनिकरश्च त्वमेव भूमिः सलिलं त्वमेव ॥ ९८
त्वमेव यज्ञो नियमस्त्वमेव त्वमेव भूतं भविता त्वमेव ।
त्वमेव चाऽऽदिनिधनं त्वमेव स्थूलश्च सूक्ष्मः पुरुषस्त्वमेव ॥ ९९
त्वमेव सूक्ष्मस्य परः परस्य त्वमेव वह्निः पवनस्त्वमेव ।
त्वमेव सर्वस्य चराचरस्य लोकस्य कर्ता प्रलये च गोप्ता ॥ १००
इतीदमुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्ना ।
गता विमानैरनिगृह्यवेगैर्महात्मनो मेरुमुपेत्य सर्वे ॥ १०१
इत्येतत्परमं गुह्यं पुण्यात्पुण्यतरं महत् । नीलकण्ठेति यत्प्रोक्तं विख्यातं लोकविश्रुतम् ॥ १०२
स्वयं स्वयंभुवा प्रोक्तां कथां पापप्रणाशनीम् । यस्तु धारयते नित्यमेनां ब्रह्मोद्भवो कथाम् ॥
तस्याहं संप्रवक्ष्यामि फलं वै विपुलं महत् ॥ १०३
विषं तस्य वरारोहे स्थावरं जङ्गमं तथा । गात्रं प्राप्य तु सुश्रोणि क्षिप्रं तत्प्रतिहन्यते ॥ १०४
शमयत्यशुभं घोरं दुःस्वप्नं चापकर्षति । स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ १०५
विवादे जयमाप्नोति युद्धे शूरत्वमेव च । गच्छतः क्षेममध्वानं गृहे च नित्यसंपदः ॥ १०६
शरीरभेदे वक्ष्यामि गतिं तस्य वरानने । नीलकण्ठो हरिच्छ्मश्रुः शशाङ्काङ्कितमूर्धजः ॥ १०७
त्र्यक्षस्त्रिशूलपाणिश्च वृषयानः पिनाकधृक् । नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः ॥ १०८
विचरत्याचिरात्सर्वान्सर्वलोकान्ममाऽऽज्ञया । न हन्यते गतिस्तस्य अनिलस्य यथाऽम्बरे ॥
मम तुल्यबलो भूत्वा तिष्ठत्याभूतसंप्लवम् ॥ १०९
मम भक्ता वरारोहे ये च शृण्वन्ति मानवाः । तेषां गतिं प्रवक्ष्यामि इह लोके परत्र च ॥ ११०
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम् । वैश्यस्तु लभते लाभं शुद्रः सुखमवाप्नुयात् ॥ १११
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥
नष्टं च लभते सर्वमिह लोके परत्र च ॥ ११२
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं भवति श्रुत्वा विभोर्दिव्यामिमां कथाम् ॥ ११३
पादं वा यदि वाऽप्यर्धं श्लोकं श्लोकार्धमेव वा । यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ ११४
+( इतिहासमेनं गिरिराजपुत्रि मया सुतुष्टेन तवाम्बुजेक्षणे ।
निवेदितं पुण्यफलादियुक्तं मया च गीतं चतुराननेन ) । ११५
+ धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
[अ० ५४-५५ श्लो० ११६-११७-१-१७] वायुपुराणम् १८१
(लिङ्गोद्भवस्तवः)
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्याः शशिबद्धमूर्धजः । वृषस्य पृष्ठेन सहोमया प्रभुर्जगाम किष्किन्धगुहां गुहप्रियः ॥ ११६ क्रान्तं मया पापहरं महापर्द निवेद्य तेभ्यः प्रददौ प्रभञ्जनः । अधीत्य सर्वे त्वखिलं सलक्षणं जगाम आदित्यपथं द्विजोत्तमाः ॥ ११७ इति महापुराणे वायुप्रोक्ते नीलकण्ठस्तवो नाम चतुष्पञ्चाशोऽध्यायः ॥ ५४ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४१५२
अथ पञ्चपञ्चाशोऽध्यायः । लिङ्गोद्भवस्तवः ।
ऋषय ऊचुः-- गुणकर्मप्रभावैश्च कोऽधिको वदतां वरः । श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम् ॥ १
सूत उवाच-- अत्राप्युदाहरन्तीममितिहासं पुरातनम् । महादेवस्य माहात्म्यं विभुत्वं च महात्मनः ॥ २ वै त्रैलोक्यविजये विष्णुना समुदाहृतम् । बलिं बद्ध्वा महौजास्तु त्रैलोक्याधिपतिः पुरा ॥ ३ प्रनष्टेषु च दैत्येषु प्रहृष्टे च शचीपतौ । अथाऽऽजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सवासवाः ॥ ४ यत्राऽऽस्ते विधरूपारमा क्षीरोदस्य समीपतः । सिद्धब्रह्मर्षयो यक्षा गन्धर्वाप्सरसां गणाः ॥ ५ नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः । अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम् ॥ ६ त्वं धाता त्वं च कर्ताऽस्य त्वं लोकान्सृजसि प्रभो । त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम् असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया ॥ ७ एवमुक्तः सुरैर्विष्णुः सिद्धैश्च परमर्षिभिः । प्रत्युवाच ततो देवान्सर्वांस्तान्पुरुषोत्तमः ॥ ८ श्रूयतामभिधास्यामि कारणं सुरसत्तमाः । यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः ॥ ९ येनहं ब्रह्मणा सार्धं सृष्टा लोकाश्च मायया । तस्यैव च प्रसादेन आदौ सिद्धत्वमागतम् ॥ १० पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रासिते मया । उदरस्थेषु भूतेषु लोकेऽहं शयितस्तदा ॥ ११ सहस्रशीर्षो भूत्वाऽथ सहस्राक्षः सहस्रपात् । शङ्खचक्रगदापाणिः शयितो विमलेऽम्भसि ॥ १२ एतस्मिन्नन्तरे दूरात्पश्यामि ह्यमितप्रभम् । शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ॥ १३ चतुर्वक्त्रं महायोगं पुरुषं काञ्चनप्रभम् । कृष्णाजिनधरं देवं कमण्डलुविभूषितम् ॥ निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ॥ १४ ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः । कस्त्वं कुतो वा किं चेह तिष्ठसे वद मे विभो ॥ १५ अहं कर्ताऽस्मि लोकानां स्वयंभूर्विश्वतोमुखः । एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच तम् ॥ १६ अहं कर्ता च लोकानां संहर्ता च पुनः पुनः । एवं संभाषमाणाभ्यां परस्परजयैषिणाम् ॥ उत्तरां दिशमास्थाय ज्वाला दृष्टाऽव्यधिष्ठिता ॥ १७
१८२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५५ श्लो० १८-४२]
( लिङ्गोद्भवस्तवः )
ज्वालां ततस्तामालोक्य विस्मितौ च तदाऽनघाः । तेजसा चैव तेनाथ सर्वं ज्योतिष्कृतं जलम् ॥ १८
वर्धमाने तदा वह्नावत्यन्तपरमाद्भुते । अतिदुद्रावं तां ज्वालां ब्रह्मा चाहं स सत्वरौ ॥ १९
दिवं भूमिं च विष्टभ्य तिष्ठन्तं ज्वालमण्डलम् । तस्य ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् ॥ २०
प्रादेशमात्रमव्यक्तं लिङ्गं परमदीपितम् । न च तत्काञ्चनं मध्ये न शैलं न च राजतम् ॥ २१
अनिर्देश्यमचिन्त्यं च लक्ष्यालक्ष्यं पुनः पुनः । महौजसं महाघोरं वर्धमानं भृशं तदा ॥ २२
ज्वालामालायतं न्यस्तं सर्वभूतभयंकरम् ॥
अस्य लिङ्गस्य योऽन्तं वै गच्छेते मन्त्रकारणम् । घोररूपणिमत्यर्थं भिन्दन्तामिव रोदसी ॥ २३
ततो मामब्रवीद्ब्रह्मा अधो गच्छत्वतन्द्रितः । अन्तमस्य विजानीमो लिङ्गस्य तु महात्मनः ॥ २४
अहमूर्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते । तदा तौ समयं कृत्वा गतावूर्ध्वमधश्च ह ॥ २५
ततो वर्षसहस्रं तु अहं पुनरधो गतः । न च पश्यामि तस्यान्तं भीतश्चाहं न संशयः ॥ २६
तथा ब्रह्मा च श्रान्तश्च न चान्तं तस्य पश्यति । समागतो मया सार्धं तत्रैव च महाम्भसि ॥ २७
ततो विस्मयमापन्नावुभौ तस्य महात्मनः । मायया मोहितौ तेन नष्टसंज्ञौ व्यवस्थितौ ॥ २८
ततो ध्यानगतं तत्र ईश्वरं सर्वतोमुखम् । प्रभवं निधनं चैव लोकानां प्रभुमव्ययम् ॥ २९
बद्धाञ्जलिपुटौ भूत्वा तस्मै शर्वाय शूलिने । महाभैरवनादाय भीमरूपाय दंष्ट्रिणे ॥
अव्यक्ताय महान्ताय नमस्कारं प्रकुर्महे ॥ ३०
नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महान्त ।
नमोऽस्तु ते शाश्वत सिद्धयोने नमोऽस्तु ते सर्वजगत्प्रतिष्ठ ॥ ३१
परमेष्ठि( ष्ठी ) परं ब्रह्म अक्षरं परमं पदम् । अष्टस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ॥ ३२
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परं पदम् । स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ॥ ३३
स्वधाकारश्च जाप्यश्च व्रतानि नियमास्तथा । वेदा लोकाश्च देवाश्च भगवानैव सर्वशः ॥ ३४
आकाशस्य चै शब्दस्त्वं भूतानां प्रभवाव्ययम् । भूमेर्गन्धो रसश्चापां तेजोरूपं महेश्वर ॥ ३५
वायोः स्पर्शश्च देवेश वपुश्चन्द्रसम(मस)स्तथा । बुधो ज्ञानं च देवेश प्रकृतौ बीजमेव च ॥ ३६
त्वं कर्ता सर्वभूतानां कालो मृत्युर्यमोऽन्तकः । त्वं धारयसि लोकांस्त्रींस्त्वमेव सृजसि प्रभो ॥ ३७
पूर्वेण वदनेन त्वमिन्द्रत्वं(स्त्वं) च प्रकाशसे । दक्षिणेन च वक्त्रेण लोकान्सांक्षियसि प्रभो ॥ ३८
पश्चिमेन तु वक्त्रेण वरुणत्वं करोषि वै । उत्तरेण तु वक्त्रेण सौम्यत्वं च व्यवस्थितम् ॥ ३९
राजसे बहुधा देव लोकानां प्रभवायव्यः । आदित्या वसवो रुद्रा मरुतश्चाश्विनीसुतौ ॥ ४०
साध्या विद्याधरा नागाश्चारणाश्च तपोधनाः । वालखिल्या महात्मानस्तपःसिद्धाश्च सुव्रताः ॥ ४१
त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः । उमा सीता सिनीवाली कुहूर्गायत्रिरेव च ? ॥ ४२
| [अ०५५श्लो०४३-६०] | वायुपुराणम् । | १८३ |
|---|
( लिङ्गोद्भवस्तवः )
लक्ष्मीः कीर्तिर्धृतिर्मेधा लज्जा क्षान्तिर्वपुः स्वधा । तुष्टिः पुष्टिः क्रिया चैव वाचां देवीं सरस्वती
त्वत्तः प्रसूता देवेश संध्या रात्र्रिस्तथैव च ॥ ४३
सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चन्द्रसहस्रगोचर ।
नमोऽस्तु त पर्वतरूपधारिणे नमोऽस्तु ते सर्वगुणाकराय ॥ ४४
नमोऽस्तु ते पट्टिशरूपधारिणे नमोऽस्तु ते चर्मविभूतिधारिणे ।
नमोऽस्तु ते रुद्रपिनाकपाणये नमोऽस्तु ते शायकचक्रधारिणे ॥ ४५
नमोऽस्तु ते भस्मविभूताभूषिताङ्ग नमोऽस्तु ते कामशरिरनाशन ।
नमोऽस्तु ते देव हिरण्यवाससे नमोऽस्तु ते देव हिरण्यवाहवे ॥ ४६
नमोऽस्तु ते देव हिरण्यरूप नमोऽस्तु ते देव हिरण्यनाभ ।
नमोऽस्तु ते नेत्रसहस्रचित्र नमोऽस्तु ते देव हिरण्यरेतः ॥ ४७
नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यगर्भ ।
नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते देव हिरण्यदायिने ॥ ४८
नमोऽस्तु ते देव हिरण्यमालिने नमोऽस्तु ने देव हिरण्यवाहिने ।
नमोऽस्तु ते देव हिरण्यवर्त्मने नमोऽस्तु ते भैरवनादनादिने ॥ ४९
नमोऽस्तु ते भैरववेगवेग नमोऽस्तु ते शंकर नीलकण्ठ ।
नमोऽस्तु ते दिव्यसहस्रबाहो नमोऽस्तु ते नर्तनवादनप्रिय ॥ ५०
एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः । भाति देवो महायोगी सूर्यकोटिसमप्रभः ॥ ५१
अभिभाष्यस्तदा हृष्टो महादेवो महेश्वरः । वक्त्रकोटिसहस्रेण ग्रसमान इवाम्बरम् ॥ ५२
एकग्रीवस्त्वेकजटो नानाभूषणभूषितः । नानारत्नावाचित्राङ्गो नानामाल्यानुलेपनः ॥ ५३
पिनाकपाणिर्भगवान्वृषभासनशूलधृक् । दण्डकृष्णाजिनधरः कपाली घोररूपधृक् ॥ ५४
व्यालयज्ञोपवीती च सुराणामभयंकरः । दुन्दुभिस्वननिर्घोषपर्जन्यनिनदोपमः ॥ ५५
मुक्तो हासस्तदा तेन नभः सर्वमपूरयत् ॥ ५६
तेन शब्देन महता वयं भीता महात्मनः । तदोवाच महायोगी प्रीतोऽहं सुरसत्तमौ ॥ ५७
पश्येतां च महामायां भयं सर्वं प्रमुच्यताम् । युवां प्रसूतौ गात्रेषु मम पूर्वं सनातनौ ॥ ५७
अयं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः । वामो बाहुश्च मे विष्णोर्नित्यं युद्धेषु तिष्ठति ॥
प्रीतोऽहं युवयोः सम्यग्वरं दद्मि यथेप्सितम् ॥ ५८
ततः प्रहृष्टमनसौ प्रणतौ पादयोः पुनः । ऊचतुश्च महात्मानौ पुनरेव तदाऽनघौ ॥ ५९
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ । भक्तिर्भवतु नो नित्यं त्वयि देव सुरेश्वर ॥ ६०
एवमस्तु महाभागौ सृजतां विविधाः प्रजाः । एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत ॥ ६१
१८४ श्रीमद्द्वैपायनमुनिप्रणीतम्– [अ०५५-५६श्लो०६१-६८-१-८] ( पितृवर्णनमः )
भगवानुवाच— एवमस्तु महाभागौ सृजतां विविधाः प्रजाः । एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत ॥ ६१ एवमेष मयोक्तो वः प्रभावस्तस्य योगिनः । तेन सर्वमिदं सृष्टं हेतुमात्रा वयं त्विह ॥ ६२ एतद्रूपमज्ञातमव्यक्तं शिवसंज्ञितम् । अचिन्त्यं तददृश्यं च पश्यन्ति ज्ञानचक्षुषः ॥ ६३ [*तस्मै देवाधिपत्याय नमस्कारं प्रयुञ्ज्वहे । येन सूक्ष्ममचिन्त्यं च पश्यन्ति ज्ञानचक्षुषः ] ६४ महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते । सुरासुरवरश्रेष्ठ मनोहंस नमोऽस्तु ते ॥ ६५
सूत उवाच— एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम् । नमस्कारं प्रयुञ्जानाः शंकराय महात्मने ॥ ६६ इमं स्तवं पठेद्यस्तु ईश्वरस्य महात्मनः । कामांश्च लभते सर्वान्पापेभ्यस्तु विमुच्यते ॥ ६७ एतत्सर्वं सदा तेन विष्णुना प्रभविष्णुना । महादेवप्रसादेन उक्तं ब्रह्म सनातनम् ॥ एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ॥ ६८ इति श्रीमहापुराणे वायुप्रोक्ते लिङ्गोद्भवस्तवो नाम पञ्चपञ्चाशोऽध्यायः ॥ ५५ ॥
॥ आदितः श्लोकानां समष्ट्यङ्काः-४३३८
अथ षट्पञ्चाशोऽध्यायः । पितृवर्णनम् ।
शांशपायन उवाच-- अगात्कथममवास्यां मासि मासि दिवं नृपः । ऐडः पुरूरवाः सूत कथं वाऽतर्पयत्पितॄन् ॥ १
सूत उवाच-- तस्य चाहं प्रवक्ष्यामि प्रभावं शांशपायन । ऐडस्याऽऽदित्यसंयोगं सोमस्य च महात्मनः ॥ २ अपां सारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः । ह्रासवृद्धी पितृमतः पक्षस्य च विनिर्णयः ॥ ३ सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा । कव्याग्नेश्चाऽऽत्तसोमानां पितॄणां चैव दर्शनम् ॥ ४ यथा पुरूरवाश्चैडस्तर्पयामास वै पितॄन् । एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ॥ ५ यदा तु चन्द्रसूर्यौ तौ नक्षत्रेण समागतौ । अमावास्यां निवसतः एकरात्रैकमण्डले ॥ ६ स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ । अमावास्याममावास्यां मातामहपितामहौ ॥ अभिवाद्य तदा तत्र कालापेक्षः प्रतीक्षति(ते) ॥ ७ प्रसीदमानात्सोमाच्च पित्रर्थं तत्परिस्रवात् । ऐलः पुरूरवा विद्वान्मासि मासि प्रयत्नतः ॥ उपास्ते पितृमन्ते तं ससोमं स दिवा स्थितः ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थोः घ. पुस्तके नास्ति ।
[अ० ५६श्लो० ९-३२] वायुपुराणम् १८५
( पितृवर्णनम् )
द्विलवं कुहुमात्रं तु ते उभे तु विचार्य सः । सिनीवालीप्रमाणेने सिनीवालीमुपासकः ॥ ९
कुहुमात्रां कलां चैव ज्ञात्वोपास्ते कुहुं पुनः । स तदा भानुमत्येककालावेक्षी प्रपश्यति ॥ १०
सुधामृतं कुतः सोमात्प्रस्रवेन्मासतृप्तये । दशाभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ॥ ११
कृष्णपक्षे तदा पीत्वा दुह्यमानं तथांऽशुभिः । सद्यः प्रक्षरता तेन सौम्येन मधुना च सः ॥ १२
निर्वापणार्थं दत्तेन पित्र्येण विधिना नृपः । सुधामृतेन राजेन्द्रस्तर्पयामास वै पितॄन् ॥
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥ १३
ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः । जज्ञिरे ह्यृतवस्तस्मादृत्तुभ्यश्चाऽऽर्तवाश्च ये ॥ १४
आर्तवा ह्यर्धमासाख्याः पितरो ह्यब्दसूनवः । ऋतुः पितामहा मासा ऋतवश्चाब्दसूनवः ॥ १५
प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः । सौम्यास्तु सोम्यजा ज्ञेयाः काव्या ज्ञेयाः कवे सुताः॥
उपहूताः स्मृता देवाः सोमजाः सोमपास्तथा । आज्यपास्तु स्मृताः काव्यास्तृप्यन्ति पितृजातयः॥
काव्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा । गृहस्था ये च यज्वान ऋतुर्बार्हिषदो ध्रुवम् ॥ १८
गृहस्थाश्चापि यज्वानो अ(ह्य)ग्निष्वात्तास्तथाऽऽर्तवाः । अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत ॥
एषां संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः । सोम इद्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ॥ २०
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः । लेखाश्चैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ॥ २१
एते पिबन्त्यमावास्यां मासि मासि सुधां दिवि । तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ॥ २२
यस्मात्प्रस्रवते सोमान्मासि मासि निबोधत । तस्मात्सुधामृतं तद्वै पितॄणा सोमपायिनाम् ॥ २३
एवं तदमृतं सौम्य सुधा च मधु चैव ह । कृष्णपक्षे यथा चेन्दोः कलाः पञ्चदश क्रमात् ॥ २४
पिबन्त्यम्बुमयीर्देवास्यत्रिंशत्तुछन्दजाः । पीत्वा च मासं गच्छन्ति चतुर्दश्यां सुधामृतम् ॥ २५
इत्येवं पीयमानस्तु दैवतैश्च निशाकरः । समागच्छदमावास्यां भागे पञ्चदशे स्थितिः ॥ २६
सुषुम्नाप्यायितं चैव अमावास्यां यथाक्रमम् । पिबन्ति द्विकलं कालं पितरस्ते सुधामृतम् ॥ २७
ततः पीतक्षये सोमे सूर्योऽसावेकरश्मिना । आप्याययत्सुषुम्नेन पितॄणां सोमपायिनाम् ॥ २८
निःशेषायां कलायां तु सोममाप्याययत्पुनः । सुषुम्नाप्यायमानस्य भागं भागमहःक्रमात् ॥
कलाः क्षीयन्ति ताः कृष्णाः शुक्लाश्चाऽऽप्याययन्ति तम् ॥ २९
एवं सूर्यस्य वीर्येण चन्द्रस्याऽऽप्यायिता तनुः । दृश्यते पौर्णमास्यां वै शुक्लः संपूर्णमण्डलः ॥
संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥ ३०
इत्येष पितृमान्सोमः स्मृत इद्वत्सरः क्रमात् । क्रान्तः पञ्चदशैः सार्धं सुधामृतपरिस्रवैः ॥ ३१
अतः पर्वाणि वक्ष्यामि पर्वणां संधयस्तथा । ग्रन्थिमान्ति यथा पर्वाणीक्षुवेणोर्भवन्त्युत ॥ ३२
२४
१८६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५६-श्लो० ३३-५१] ( पितृवर्णनम् )
तथाऽर्धमासपर्वाणि शुक्लकृष्णानि वै विदुः । पूर्णीमावास्ययोर्भेदैर्गन्थिर्या संधयश्च वै ॥ ३३ अर्धमासास्तु पर्वाणि तृतायाप्रभृतीनि तु । अग्नयाधानाक्रिया यस्मात्क्रियते पर्वसंधिषु ॥ ३४ (*सायाह्ने ह्यनुमत्याऽसौ द्वौ लवौ काल उच्यते । लवौ द्वावेव राकायाः कालो ज्ञेयोऽपराह्निकः ३५ +प्रतिपत्कृष्णपक्षस्य कालेऽतीतेऽपराह्निकः । ) सायाह्ने प्रतिपच्चैव स कालः पौर्णमासिकः ॥ ३६ व्यतीपाते स्थिते सूर्ये लेखोर्ध्वं ? तु युगान्तरे । युगान्तरोदिते चैव लेखोर्ध्वं ? शशिनः क्रमात् ॥ ३७ पौर्णमासे ध्यतीपाते यदीक्षेते परस्परम् । यस्मिन्काले स सोमान्ते स व्यतीपात एव तु ॥ ३८ कालं सूर्यस्य निर्देशं दृष्ट्वा संख्या तु सर्पति । स वै पथं ? क्रियाकालः कालात्सद्यो विधीयते ॥ ३९ र्णैन्दोः पूर्णपक्षे तु रात्रिसंधिषु पूर्णिमा । × यस्माच्चामनुपश्यन्ति पितरो दैवतैः सह ॥ तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता ॥ ४० अत्यर्थं भ्राजते यस्मात्पौर्णमास्यां निशाकरः । रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ॥ ४१ अमा वसेतामृक्षे तु यदा चन्द्रादिवाकरौ । एकां पञ्चदशीं रात्रिममावास्या ततः स्मृता ॥ ४२ ततोऽपरस्य तैर्व्यक्तः पौर्णमास्यां निशाकरः । यदीक्षेते व्यतीपाते दिवा पूर्णौ परस्परम् ॥ चन्द्रार्कविपराह्ने तु पूर्णात्मानौ तु पूर्णिमा ॥ ४३ विच्छिन्नां ताममावास्यां पश्यतश्च समागतौ । अन्योन्यं चन्द्रसूर्यौ तौ यदा तद्दर्श उच्यते ॥ ४४ द्वौ द्वौ लवावमावास्यां यः कालः पर्वसंधिषु । द्व्यक्षरं कुहुमात्रं तु एवं कालस्तु स स्मृतः ॥ नष्टचन्द्राप्यमावास्या मध्यसूर्येण संगता ॥ ४५ दिवसार्धेन रात्र्यर्थं सूर्यं प्राप्य तु चन्द्रमाः । सूर्येण सहसा मुक्तं गत्वा प्रातस्तनोत्सवौ ॥ द्वौ कालौ संगमश्चैव मध्याह्ने निष्पतेद्रविः ॥ ४६ प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात् । निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै ॥ ४७ स तदा ह्याहुतः कालो दर्शस्य च वषट्क्रिया । एतद्दृतुमुखं ज्ञेयममावास्याऽस्य पर्वणः ॥ ४८ दिवा पर्वण्यमावास्यां क्षीणेन्दौ बहुले तु वै । तस्माद्दिवा ह्यमावास्यां गृह्यतेऽसौ दिवाकरः ॥ गृह्यते वै दिवा ह्यस्मादमावास्यां दिविक्षयैः ॥ ४९ कलानामपि वै तासां बहुमान्याऽजडात्मकैः । तिथीनां नामधेयानि विद्वद्भिः संज्ञितानि वै ॥ ५० दर्शयेतामन्योन्यं सूर्याचन्द्रमसावुभौ । निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् ॥ ५१
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तकेषु । + इदमर्धं नास्ति ख. घ. पुस्तकेषु । × यस्मादित्याभ्य ततः स्मृतेत्यन्तग्रन्थस्य क्रमव्यत्यासः । ख. घ. ङ. पुस्तकेषु वर्तते ।
[अ० ५६ श्लो० ५२-७८] वायुपुराणम्। १८७
(पितृवर्णनम्ः)
द्विलवेन सहोरात्रं भास्करं स्पृशते शशी। स तदा ह्याहुतेः कालो दर्शस्य च वषट्क्रिया ॥ ५२
कुहेति कोकिलेनोक्तो यः कालः परिचिह्नितः। तत्कालसंज्ञिता यस्मादमावास्या कुहूः स्मृता ॥ ५३
सिनीवालीप्रमाणेन क्षीणशेषो निशाकरः। अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता ॥ ५४
(*अनुमत्याः सराकायाः सिनीवाली कुहूस्तथा। एतासां द्विलवः कालः कुहूमात्रा कुहूस्तथा ॥
इत्येष पर्वसंधीनां कालो वै द्विलवः स्मृतः ॥) ५५
पर्वणः पर्वकालस्तु तुल्यो वै तु वषट्क्रिया। चन्द्रसूर्यव्यतीपाते उभे ते पूर्णिमे स्मृते ॥ ५६
प्रतिपत्पञ्चदश्यांश्र्च पर्वकालो द्विमात्रकः। कालः कुहूसिनीवाल्योः समुद्रो द्विलवः स्मृतः ॥ ५७
अर्काग्निमण्डले सोमे पर्वकालः कलाश्रयः। एवं स शुक्लपक्षो वै रजन्याः पर्वसंधिषु ॥ ५८
संपूर्णमण्डलः श्रीमांश्चन्द्रमा उपरज्यते। यस्मादाप्यायते सोमः पञ्चदश्यां तु पूर्णिमा ॥ ५९
दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्। तस्मात्कलाः पञ्चदशी सोमे नास्ति तु षोडशी ॥
तस्मात्सोमस्य भवति पञ्चदश्यां महाक्षयः ॥ ६०
इत्येते पितरो देवाः सोमपाः सोमवर्धनाः। आर्तवा ऋतवो यस्मात्ते देवा भावयन्ति च ॥ ६१
अतः पितॄन्प्रवक्ष्यामि मासश्राद्धभुजस्तु ये। तेषां गतिं च तत्त्वं च गतिं श्राद्धस्य चैव हि ॥ ६२
न मृतानां गतिः शक्या विज्ञातुं पुनरागतिः। तपसाऽपि प्रसिद्ध्येन किं पुनर्मांसचक्षुषा ॥ ६३
श्राद्धदेवान्पितॄनेतान्पितरो लौकिकाः स्मृताः। देवाः सौम्याश्च यज्वानः सर्वे चैव ह्ययोनिजाः ॥ ६४
देवास्ते पितरः सर्वे देवास्तान्भावयन्त्युत। मनुष्याः पितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः ॥ ६५
पिता पितामहश्चैव तथैव प्रपितामहः। यज्वानो ये तु सोमेन सोमवन्तस्तु ते स्मृताः ॥ ६६
ये यज्वानः स्मृतास्तेषां ते वै बर्हिषदः स्मृताः। कर्मस्वेतेषु युक्तास्ते तृप्यन्त्यादेहसंभवात् ॥ ६७
अग्निष्वात्ताः स्मृतास्तेषां होमिनो याज्ययाजिनः। +तेषां ते धर्मसाधर्म्यात्स्मृता सा योज्यैर्द्विजैः ॥
ये वाऽप्याश्रमधर्मेण प्रख्यानेषु व्यवस्थिताः ॥ ६८
अन्ते च नैव सीदन्ति श्रद्धायुक्तेन कर्मणा। ब्रह्मचर्येण तपसा यज्ञेन प्रजया च वै ॥ ६९
श्रद्धया विद्यया चैव प्रदानेन च सप्तधा। कर्मस्वेतेषु ये युक्ता भवन्त्यादेहपातनात् ॥ ७०
देवैस्तैः पितृभिः सार्धं सूक्ष्मकैः सोमपायकैः। स्वर्गता दिवि मोदन्ते पितृमन्तमुपासते ॥ ७१
प्रजावतां प्रशंसैव स्मृता सिद्धा क्रियावताम्। तेषां निवापदत्तान्नं तत्कुलीनैश्च बान्धवैः ॥ ७२
मासं श्राद्धभुजस्तृप्तिं लभन्ते सोमलौकिकाः। एते मनुष्याः पितरो मासि श्राद्धभुजस्तु ते ॥ ७३
तेभ्योऽपरे तु ये चान्ये संकीर्णाः कर्मयोनिषु। भ्रष्टाश्चाऽऽश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः ॥ ७४
भिन्नदेहा दुरात्मानः प्रेतभूता यमक्षये। स्वकर्माण्येव शोचन्ति यातनास्थानमागताः ॥ ७५
दीर्घायुषाऽतिशुष्काश्च विवर्णाश्च विवाससः। क्षुत्पिपासापरीताश्च विद्रवन्ति ततस्ततः ॥ ७६
सरित्सरस्तडागानि वापींश्चैव जलेप्सवः। परान्नानि च लिप्सन्ते काल्यमानास्ततस्ततः ॥ ७७
स्थानेषु पाच्यमानाश्च यातायातेषु तेषु वै। शाल्मलौ वैतरण्यां च कुम्भीपाकेषु तेषु च ॥ ७८
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति। + इदमर्धं नास्ति क. पुस्तके।
१८८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५६-५७-श्लो०७९-९४-१-२] ( यज्ञवर्णनम्ः )
करम्भवालुकायां च असिपत्रवने तथा । शिलासंपेषणे चैव पात्यमानाः स्वकर्मभिः ॥ ७९ तत्र स्थानानि तेषां वै दुःखानमप्यनाकवत् । तेषां लोकान्तरस्थानां विविधैर्नामगोत्रतः ॥ ८० भूम्यापसव्यं ? दर्भेषु दत्त्वा पिण्डत्रयं तु वै । पतितांस्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठिताः ॥ ८१ अप्राप्ता यातनास्थानं सृष्टा ये भुवि पञ्चधा । पश्वादिस्थावरान्तेषु भूतानां तेषु कर्मसु ॥ ८२ नानारूपासु जातीषु तिर्यग्योनिषु जातिषु । यदाहारा भवन्त्येते तासु तास्विह योनिषु ॥ तस्मिंस्तस्मिंस्तदाहारं श्राद्धे दत्तोपतिष्ठति ॥ ? ८३ काले न्यायागतं पात्रं विधिना प्रतिपादितम् । प्राप्नोत्यन्नं यथादत्तं बन्धुर्यत्रावतिष्ठते ॥ ८४ यथा गोषु प्रनष्टासु वत्सो विन्दन्ति मातरम् । तथा श्राद्धे तद्दिष्टानां मन्त्रः प्रापयते पितॄन् ॥ ८५ एवं ह्यविकलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः । सनत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा ॥ गतागतिज्ञः प्रेतानां प्राप्तश्राद्धस्य चैव हि ॥ ८६ बर्हीकाश्चोष्मपाश्चैव दिवाकीर्त्यांश्च ते स्मृताः । कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वमाय शर्वरी ॥ ८७ इत्येते पितरो देवा देवाश्च पितरश्च ये । ऋतार्तवा अनेके तु अन्योन्यपितरः स्मृताः ॥ ८८ एते तु पितरो देवा मानुषाः पितरश्च य । प्रीतेषु तेषु प्रीयन्ते श्रद्धायुक्तेन कर्मणा ॥ ८९ इत्येवं पितरः प्रोक्ताः पितॄणां सोमपायिनाम् । एतत्पितृमतत्वं हि पुराणे निश्चयो मतः ॥ ९० इत्यर्कपितृसोमानां ऐलस्य च समागमः । सुधामृतस्य चावाप्तिः पितॄणां चैव तर्पणम् ॥ ९१ पूर्णिमावास्ययोः कालः पितॄणां स्थानमेव च । समाप्तात्कीर्तितस्तुभ्यमेष सर्गः सनातनः ॥ ९२ वैश्वरूप्यं तु सर्वस्य कथितं चैकदेशिकम् । न शक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता ॥ ९३ स्वायंभुवस्य हीत्येष सर्गः क्रान्तो मयाऽत्र वै । विस्तरेणाऽऽनुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ ९४
इति श्रीमहापुराणे वायुप्रोक्ते पितृवर्णनं नाम षट्पञ्चाशोऽध्यायः ॥ ५६ ॥
आदितः श्लोकानां समष्ट्यङ्कः—४४३२
अथ सप्तपञ्चाशोऽध्यायः ।
यज्ञवर्णनम् ।
ऋषय ऊचुः— चतुर्युगानि(णि)यान्यासन्पूर्वे स्वायंभुवेऽन्तरे । तेषां निसर्गं तत्त्वं च श्रोतुमिच्छामि विस्तरात् ॥ १
सूत उवाच— पृथिव्यादिप्रसङ्गेन यन्मया प्रागुदाहृतम् । तेषां चतुर्युगं ह्येतत्प्रवक्ष्यामि निबोधत ॥ २
[अ० ५७ श्लो० ३-२२] वायुपुराणम् । १८९ ( यज्ञवर्णनम् ) संख्यायेह प्रसंख्याय विस्तराच्चैव सर्वशः । युगं च युगभेदं च युगधर्मं तथैव च ॥ ३ युगसंध्यंशकं चैव युगसंधानमेव च । षट्प्रकारयुगाख्यानां प्रवक्ष्यामीह तत्त्वतः ॥ ४ लौकिकेन प्रमाणेन विबुद्धोऽब्दस्तु मानुषः । तेनाब्देन प्रसंख्याय वक्ष्यामीह चतुर्युगम् ॥ ५ निमेषकालः काष्ठा च कलाश्चापि मुहूर्त्तकाः । निमेषकालतुल्यं हि विद्याल्लध्वक्षरं च यत् ॥ ६ काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलास्ताः । त्रिंशत्कलाश्चैव भवेन्मुहूर्त्तस्तास्त्रिंशता रात्र्यहणी समेते ॥ ७ अहोरात्रे विभजते सूर्यो मानुषदैविके । तत्राहः कर्मचेष्टायां रात्रिः स्वमाय कल्प्यते ॥ ८ पित्र्ये रात्र्यहणी मासः प्रविभागस्तयोः पुनः । कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वमाय शर्वरी ॥ ९ त्रिंशच्च मानुषा मासाः पित्र्यो मासश्च स स्मृतः । शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ १० मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् । पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै ॥ चत्वारश्चाधिका मासाः पित्रे चैवेह कीर्तिताः ॥ ११ लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः । एतद्दिव्यमहोरात्रं शास्त्रेऽस्मिन्निश्चयो मतः ॥ १२ दिव्ये रात्र्यहणी वर्षे प्रविभागस्तयोः पुनः । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १३ ये ते रात्र्यहणी दिव्ये प्रसंख्याते तयोः पुनः । त्रिंशच्च तानि वर्षाणि दिव्यो ह्येष विधिः स्मृतः ॥ १४ मानुषं च शतं विद्धि दिव्यमासांस्तु ते । दश चैव तथाऽहानि दिव्यो ह्येष विधिः स्मृतः ॥ १५ त्रीणि वर्षशतान्येव षष्टिव (र्षा) णानि यानि च । दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः ॥ १६ त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । त्रिंशद्यानि तु वर्षाणि मतः सप्तर्षिवत्सरः ॥ १७ नव यानि सहस्राणि वर्षाणां मानुषाणि तु । अन्यानि नवतिश्चैव क्रौञ्चः संवत्सरः स्मृतः ॥ १८ षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि । तु । * षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया ॥ वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ॥ १९ त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि च । षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया ॥ दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥ २० इत्येवमृषिभिर्गीतं दिव्यया संख्ययाऽन्वितम् । दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम् ॥ २१ चत्वारि भारते वर्षे युगानि कवयो विदुः । पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ द्वापरश्च कलिश्चैव युगान्येतान्यकल्पयत् ॥ २२
* इदमर्धं नास्ति क. ख. घ. पुस्तकेषु ।
| १९० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ५७ श्लो० २३-४४] |
|---|---|---|
| ( यज्ञवर्णनम् ) |
चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तत्र तावच्छती संध्या संध्यांशश्च तथाविधः ॥ २३
इतरासु च संध्यासु संध्यांशेषु च वै त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ २४
त्रेता त्रीणि सहस्राणि संख्ययैव परिकीर्त्यते । तस्यास्तु त्रिशती संध्या संध्यांशश्च तथाविधः ॥ २५
द्वापरं द्वे सहस्रे तु युगमाहुर्मनीषिणः । तस्यापि द्विशती संध्या संध्यांशः संध्यया समः ॥ २६
कलिं वर्षसहस्रं तु युगमाहुर्मनीषिणः । तस्याप्येकशती संध्या संध्यांशः संध्यया समः ॥ २७
एषा द्वादशसाहस्री युगसंख्या परिकीर्तिता । कृतं त्रेता द्वापरश्च कलिश्चैव चतुष्टयम् ॥ २८
अत्र संवत्सरः सृष्टा मानुषेण प्रमाणतः । कृतस्य तावद्वक्ष्यामि वर्षाणां तत्प्रमाणतः ॥ २९
सहस्राणां शतान्यत्र चतुर्दश तु संख्यया । चत्वारिंशत्सहस्राणि कलिकालयुगस्य तु ॥ ३०
+एवं संख्यावकालश्च कालेष्विह विशेषतः । एवं चतुर्युगः कालो विना संख्यांशकैः स्मृतः ॥ ३१
÷नियुतान्येकषड्विंशन्निरंशानि तु तानि वै । चत्वारिंशत्त्रीणि चैव नियुतानि च संख्यया ॥
विंशतिश्च सहस्राणि स संख्याशश्चतुर्युगे ॥ ३२
एवं चतुर्युगाख्या तु साधिका सेकसप्ततिः । कृतत्रेतादियुक्ता सा मन्वन्तरमुच्यते ॥ ३३
मन्वन्तरस्य संख्या तु वर्षीयेण निबोधत । त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्तिताः ॥ ३४
सप्तषष्ठिस्तथाऽन्यानि नियुतान्यधिकानि तु । विंशतिश्च सहस्राणि कालोऽयं संधिकं विना ॥ ३५
मन्वन्तरस्य संख्यैषा संख्याविद्भिर्द्विजैः स्मृता । मन्वन्तरस्य कालोऽयं युगैः सार्धं प्रकीर्तितः ॥ ३६
चतुःसहस्रयुक्तं वै प्रथमं तत्कृतं युगम् । त्रेतावशिष्टं वक्ष्यामि द्वापरं कलिमेव च ॥ ३७
युगपत्समवेतार्थो द्विधा वक्तुं न शक्यते । क्रमागतं मया ह्येतत्तुभ्यं प्रोक्तं युगद्वयम् ॥
ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथैव च ॥ ३८
तत्र त्रेतायुगस्याऽऽदौ मनुः सप्तर्षयश्च ते । श्रौतं स्मार्तं च धर्मं च ब्रह्मणा च प्रचोदितम् ॥ ३९
दाराग्निहोत्रसंयोगमृग्यजुःसामसंज्ञितम् । इत्यादिलक्षणं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ॥ ४०
परम्परागतं धर्मं स्मार्तं चाऽऽचारलक्षणम् । वर्णाश्रमाचारयुतं प्रभुः स्वायंभुवोऽब्रवीत् ॥ ४१
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै । तेषां सुतप्रतपसाभार्येण क्रमेण तु ॥ ४२
- सप्तर्षीणां मनोश्चैव आद्ये त्रेतायुगस्य तु । अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ॥ ४३
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः । आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥ ४४
- इदमर्धं नास्ति क. पुस्तके । ÷ अस्मिन्नर्धस्थाने इदमर्धं संख्यातस्त्वेककालस्तु काले त्विह विशेषत इति ख. ग. घ. ङ. पुस्तकेषु ।
[अ०५७-श्लो०४५-६९] वायुपुराणम् । १६१ ( यज्ञवर्णनम्ः )
प्रणाशे त्वथ सिद्धीनामप्यासां च प्रवर्तनम् । आसन्मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः ॥ ते मन्त्रा वै पुनस्तेषां प्रतिभासमुत्थिताः ॥ ४५ ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणानि च । सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्तं धर्मं मनुर्जगौ ॥ त्रेतादौ संहिता वेदाः केवला धर्मशेषतः । संरोधादायुषश्चैव व्यसन्ते द्वापरेषु ते ॥ ४७ ऋषयस्तपसा देवाः कलौ च द्वापरेषु वै । अनादिनिधना दिव्याः पूर्वं सृष्टाः स्वयंभुवा ॥ ४८ सधर्माः सप्रजाः साङ्गा यथाधर्मं युगे युगे । विक्रियन्ते समानार्था वेदवादा यथा युगम् ॥ ४९ आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशांपतेः । परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ॥ ५० तदा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः । क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ॥ ५१ ब्राह्मणाननुवर्तन्ते क्षत्रियाः क्षत्रियान्विशः । वैश्यानुवर्तिनः शूद्राः परस्परमनुव्रताः ॥ ५२ शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा । संकल्पितेन मनसा वाचोक्तेन स्वकर्मणा ॥ त्रेतायुगे त्वविकलः कर्मारम्भः प्रसिध्यति ॥ ५३ आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता । सर्वसाधारणा ह्येते त्रेतायां वै भवन्त्युत ॥ ५४ वर्णाश्रमव्यवस्थां तेषां ब्रह्मा तथाऽकरोत् । पुनः प्रजास्तु ता मोहात्तान् धर्मान् न्यपालयन् ॥ ५५ परस्परविरोधेन मनुं ताः पुनरन्वयुः । मनुः स्वायंभुवो दृष्ट्वा याथातथ्यं प्रजापतिः ॥ ५६ ध्यात्वा तु शतरूपायाः पुमान्स उदपादयत् । प्रियव्रतोत्तानपादौ प्रथमं तौ महीपती ॥ ५७ ततः प्रभृति राजान उत्पन्ना दण्डधारिणः । प्रजानां रञ्जनाच्चैव राजानस्त्वभवन्नृपाः ॥ ५८ प्रच्छन्नपापा ये जेतुमशक्या मनुजा भुवि । धर्मसंस्थापनार्थाय तेषां शास्त्रे तपोमयाः ॥ ५९ वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्तिताः । संहिताश्च ततो मन्त्रा ऋषिभिर्ब्राह्मणैस्तु ते ॥ ६० यज्ञः प्रवर्तितश्चैवं तदा ह्येव तु दैवतैः । यागे शुक्रैर्जपैश्चैव सर्वसंभारसंवृतैः ॥ ६१ सार्धं विश्वभुजा चैव देवेन्द्रेण महौजसा । स्वायंभुवेऽन्तरे देवैर्यज्ञास्ते वाक्प्रवर्तिताः ॥ ६२ सत्यं जपस्तपो दानं त्रेतायां धर्म उच्यते । क्रिया धर्मश्च ह्रसते सत्यधर्मः प्रवर्तते ॥ ६३ प्रजायन्ते ततः शूरा आयुष्मन्तो महाबलाः । न्यस्तदण्डमहाभागा यज्वानो ब्रह्मवादिनः ॥ ६४ मद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहिताः । सिंहान्तका महासत्त्वा मत्तमातङ्गगामिनः ॥ ६५ महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः । सर्वलक्षणसंपन्ना न्यग्रोधपरिमण्डलाः ॥ ६६ न्यग्रोधौ तौ स्मृतौ बाहू व्यामो न्यग्रोध उच्यते । व्यामेनैवोच्छ्रयो यस्य सम ऊर्ध्वं तु देहिनः ॥ समुच्छ्रयपरणाहो ज्ञेयो न्यग्रोधमण्डलः ॥ ६७ चक्रं रथो मणिर्भार्या निधिरश्वा गजास्तथा । सप्तातिशयरत्नानि सर्वेषां चक्रवर्तिनाम् ॥ ६८ चक्रं रथो मणिः खड्गं धनूरत्नं च पञ्चमम् । केतुर्निधिश्च सप्तैते प्राणहीनाः प्रकीर्तिताः ॥ ६९
५९२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५७श्लो०७०-९१ (यज्ञवर्णनम्)
भार्या पुरोहितश्चैव सेनानी रथकृच्च यः। मन्त्र्यश्वः कलभश्चैव प्राणिनः संप्रकीर्तिताः॥ ७० रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम्। चतुर्दश विधेयानि सर्वेषां चक्रवर्तिनाम्॥ ७१ विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः। मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै॥ ७२ (*भूतभव्यानि यानीह वर्तमानानि यानि च। त्रेतायुगादिकेष्वेव जायन्ते चक्रवर्तिनः॥ ७३ भद्राणीमानि तेषां वै भवन्तीह महीक्षिताम्।) अद्भुतानि च चत्वारि बलं धर्मः सुखं धनम्॥ ७४ अन्योन्यस्याविरोधेन प्राप्यन्ते वै नृपैः समम्। अर्थो धर्मश्च कामश्च यशो विजय एव च॥ ७५ ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च। अनेन तपसा चैव ऋषीनभिभवन्ति च॥ बलेन तपसा चैव देवदानवमानुषान्॥ ७६ लक्षणैश्चापि जायन्ते शरीरस्थैर्मानुषैः। केशस्थिता ललाटोर्णा जिह्वा चाऽस्यप्रमार्जनी। ताम्रप्रभोष्ठदन्तोष्ठाः श्रीवत्साथोर्ध्वरोमशाः॥ ७७ आजानुबाहवश्चैव जालहस्ता वृषाङ्गिताः। न्यग्रोधपरिणाहाश्च सिंहस्कन्धाः सुमेहनाः॥ गजेन्द्रगतयश्चैव महाहनव एव च॥ ७८ पादयोश्चक्रमत्स्यौ तु शङ्खपद्मौ तु हस्तयोः। पञ्चाशीतिसहस्राणि ते भवन्त्यजरा नृपाः॥ ७९ असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम्। अन्तरिक्षे समुद्रे च पाताले पर्वतेषु च॥ ८० इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते। तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः॥ ८१ मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्तते। हृष्टपुष्टाः प्रजाः सर्वा ह्यरोगः पूर्णमानसाः॥ ८२ एको वेदश्चतुष्पादस्त्रेतायुगविधौ स्मृतः। त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः॥ ८३ पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु। एष त्रेतायुगे धर्मस्त्रेतासंधौ निबोधत॥ ८४ त्रेतायुगस्वभावस्तु संध्यापादेन वर्तते। संध्यायां वै स्वभावस्तु युगपादेन तिष्ठति॥ ८५
शांशपायन उवाच--
कथं त्रेतायुगमुखे यज्ञस्यऽसीत्प्रवर्तनम्। पूर्वे स्वायंभुवे सर्गे यथावत्तद्ब्रवीहि मे॥ ८६ अन्तर्हितायां संध्यायां सार्धं कृतयुगेन वै। कलारूपायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा॥ वर्णाश्रमव्यवस्थानं कृतवन्तश्च वै पुनः॥ ८७ संभारांस्तांश्च संभृत्य कथं यज्ञः प्रवर्तितः। एतच्छ्रुत्वाऽब्रवीत्सूतः श्रूयतां शांशपायन॥ ८८ यथा त्रेतायुगमुखे यज्ञस्याऽसीत्प्रवर्तनम्। ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने॥ प्रतिष्ठितायां वार्तायां गृहाश्रमपुरेषु च॥ ८९ वर्णाश्रमव्यवस्थानं कृत्वा मन्त्रांश्च संहिताम्। मन्त्रान्संयोजयित्वाऽथ इहामुत्रेषु कर्मसु॥ ९० तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्तयत्तदा। देवतैः सहितः सर्वैः सर्वसंभारसंभृतम्॥ ९१
* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति।