भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

[अ० ८४ श्लो० १-२५] (श्राद्धकल्पः)

वायुपुराणम् ।

३०७

अथ चतुरशीतितमोऽध्यायः ।

श्राद्धकल्पे वरुणवंशवर्णनम् ।

ऋषयश्चैवमुक्तास्तु परं हर्षमुपागताः । परं शुश्रूषवो भूयः पप्रच्छुस्तदनन्तरम् ॥ १ ऋषय ऊचुः-- वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् । स्थितिं चैषां प्रभावं च ब्रूहि नः परिपृच्छताम् ॥ २ एवमुक्तस्ततः सूतस्तथाऽसौ लोमहर्षणः । शुश्रूषामुत्तराख्याने ऋषीणां वाक्यकोविदः ॥ ३ आख्यानकुशलो भूयः परं वाक्यमुवाच ह । सूत उवाच-- ब्रुवतो मे निबोधस्व ऋषिराह यथा मम ॥ ४ वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् । स्थितिं चैव प्रभावं च ब्रुवतो मे निबोधत ॥ ५ वरुणस्य पत्नी सामुद्री शुनादेवीत्युदाहृता । तस्याः पुत्रौ कलिर्वैद्यः सुता च सुरसुन्दरी ॥ ६ कलिपुत्रौ महावीर्यौ जयश्च विजयश्च ह । वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ॥ ७ प्रजानामत्तुकामानामन्योन्यस्य प्रभाक्षिणौ । भक्षयित्वा तावन्योन्यं विनाशं समवापतुः ॥ ८ कलिः सुरायां संजज्ञे तस्य पुत्रो मदः स्मृतः । त्वाष्ट्री हिंसा कलेर्भार्या ज्येष्ठा या निकृतिः स्मृता ॥ असूतान्यान्कलेः पुत्रांश्चतुरः पुरुषादकान् । नाकं विघ्नं च विख्यातं सद्रमं विधमं तथा ॥ १० अशिरस्कस्तयोर्विघ्नो नाकश्चावाशरीरवान् । सद्रमश्चैकहस्तोऽभूद्विधमश्चैकपात्स्मृतः ॥ ११ सद्रमस्य तथा पत्नी तामसी पूतना स्मृता । रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ॥ १२ नाकस्य शकुनिः पत्नी विघ्नस्य च अयोमुखी । राक्षसास्तु महारौद्राः संध्याद्वयविचारिणः ॥ १३ रेवतीपूतनापुत्रा नैर्ऋता नामतः स्मृताः । ग्रहास्ते राक्षसाः सर्वे बालानां तु विशेषतः ॥ स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमते प्रभुः ॥ १४ बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नममसक्ता चरेत सदा ॥ १५ प्रभातस्य तु सा भार्या वसूनामष्टमस्य तु । विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ॥ १६ त्वष्टा विराजा रूपाणां धर्मपौत्र उदारधीः । कर्ता शिल्पसहस्राणां त्रिदशानां च वास्तुकृत् ॥ १७ यः सर्वेषां विमानानि देवतानां चकार ह । मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १८ प्रह्लादी विश्रुता तस्य त्वष्टुः पत्नी विरोचना । विरोचनस्य भगिनी माता त्रिशिरसस्तु सा ॥ १९ देवाचार्यस्य महतो विश्वकर्माऽस्य धीमतः । विश्वकर्मात्मजश्चैव विश्वकर्मा मयः स्मृतः ॥ २० सुरेणुरिति विख्याता स्वसा तस्य यवीयसी । त्वाष्ट्री सा सवितुर्भार्या पुनः संज्ञेति विश्रुता ॥ २१ असूत तपसा सा तु मनुं ज्येष्ठं विवस्वतः । यमौ पुनरसूतौसौ यमं च यमुनां च ह ॥ २२ सा तु गत्वा कुरुन्देवी वडवारूपधारिणी । सवितुश्चाश्वरूपस्य नासिकाभ्यां तु तौ स्मृतौ ॥ २३ असूत सा महाभागा त्वन्तरिक्षेऽश्विनौ किल । नासत्यं चैव दस्रं च मार्तण्डस्याऽऽत्मजावुभौ ॥ २४ ऋषय ऊचुः-- कस्मान्मार्तण्ड इत्येष विवस्वानुच्यते बुधैः । किमर्थं साऽश्वरूपा वै नासिकाभ्यामसूयत ॥ एतद्वेदितुमिच्छामस्तत्त्वं विब्रूहि पृच्छताम् ॥ २५

३०८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८४श्लो०२६-५२] (श्राद्धकल्पः)

सूत उवाच-- चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम् । दृष्ट्वा गर्भबधाद्धीतः कश्यपो दुःखितोऽभवत् ॥ २६ अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टारमब्रवीत् । नैतदण्डं भवान्नूनं मार्तण्डस्त्वं भवानघ ॥ २७ न खल्वयं मृतोऽण्डस्थ इति स्नेहात्पिताऽब्रवीत् । तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरत् ॥ २८ यन्मार्तण्डो भवेत्युक्तः पित्राऽण्डे वै द्विधा कृते । तस्माद्दिवस्वान्मार्तण्डः पुराणज्ञैर्विभाष्यते ॥ २९ ततः प्रजाः प्रवक्ष्यामि मार्तण्डस्य विवस्वतः । विजज्ञे सवितुः संज्ञाभार्यायां तु त्रयं पुरा ॥ ३० मनुर्यवीयान्सावर्णिः संज्ञायां च तथाऽश्विनौ । शनैश्चरश्च सप्तैते मार्तण्डस्याऽऽत्मजाः स्मृताः ॥ ३१ विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां महायशाः । तस्य भार्याऽभवत्त्वाष्ट्री महादेवी विवस्वतः ॥ सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता ॥ ३२ सा तु भार्या भगवतो मार्तण्डस्यातितेजसः । नातुष्यद्भर्तुरूपेण रूपयौवनशालिनी ॥ ३३ आदित्यस्य हि तद्रूपं मार्तण्डस्य हि तेजसा । गात्रेषु प्रतिरुद्धं वै नातिकान्ताभिभाववत् ॥ ३४ न खल्वयं मृतो ह्यण्डे इति स्नेहात्तमब्रवीत् । अज्ञानः कश्यपः स्नेहान्मार्तण्ड इति चोच्यते ॥ ३५ तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । येनापि तापयामास त्रीँल्लोकान्कश्यपात्मजः ॥ ३६ त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः । द्वौ सुतौ तु महावीर्यौ कन्यां कालिन्दिमेव च ॥ ३७ मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ततो यमो यमी चैव यमजौ संबभूवतुः ॥ ३८ शातवर्णं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः । असहन्ती स्वकां छायां सवर्णां निर्ममे पुनः ॥ ३९ महीमयी तु सा नारी तस्याश्छायासमुद्गता । प्राञ्जालिः प्रयता भूत्वा पुनः संज्ञामभाषत ॥ ४० वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत् । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ॥ ४१ त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया । इमौ च बालको मह्यं कन्या च वरवर्णिनी ॥ ४२ भर्त्रे वै नैवमाख्येयमिदं भगवते त्वया । एवमुक्ताऽब्रवीत्संज्ञां संज्ञा या पार्थिवी तु सा ॥ ४३ आकेशग्रहणाद्देवि आशयं नैव कर्हिचित् । आख्यास्यामि मतं तुभ्यं गच्छ देवि स्वमालयम् ॥ ४४ समाधाय च तां संज्ञा तथेत्युक्तां तया च सा । त्वष्टुः समीपमगमद्ब्रीडितेव तपस्विनी ॥ ४५ पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत् । भर्तुः समीपं गच्छ त्वं मा जुगुप्स दिवाकरम् ॥ ४६ सैवमुक्ता तदा पित्रा नियुक्ता च पुनः पुनः । वर्षाणां तु सहस्रं वै वसति स्म पितुर्गृहे ॥ ४७ भर्तुः समीपं गच्छ त्वं नियुक्ता च पुनः पुनः । अगमद्वडवा भूत्वाऽऽच्छाद्य रूपमनिन्दिता ॥ उत्तरान्सा कुरून्गत्वा तृणान्यथ चचार सा ॥ ४८ द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्त्य ताम् । आदित्यो जनयामास पुत्रावादित्यवर्चसौ ॥ ४९ पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभुः । श्रुतश्रवं तु धर्मज्ञं श्रुतकर्मणमेव च ॥ ५० श्रुतश्रवा मनुः सोऽपि सावर्णिर्वै भविष्यति । श्रुतकर्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः ॥ ५१ मनुरेवाभवत्स वै सावर्ण इति बुध्यते । संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा ॥ ५२

[अ०८४श्लो०५३-८२] वायुपुराणम्। ३०९

(श्राद्धकल्पः)

चकाराभ्याधिकं स्नेहं न तथा पूर्वजेषु वै । मनुस्तच्चाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् ॥ ५३
बहुशो यस्य मानस्तु ( अवमानितश्च बहुशः ) सापत्न्यादातिदुःखितः ।
तां वै रोषाच्च बालचाच्च भाविनोऽर्थस्य वै बलात् ॥ ५३
पदा संतर्जयामास संज्ञां वैवस्वतो यमः । सा शशाप ततः क्रोधात्सवर्णा जननी यमम् ॥ ५४
पदा तर्जयसे यस्मात्पितृभार्यां यशस्विनीम् । तस्मात्तवैष चरणः पतिष्यति न संशयः ॥ ५५
यमस्तु तेन शापेन भृशं पीडितमानसः । मनुना सह धर्मात्मा पितुः सर्वं न्यवेदयत् ॥ ५६
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः । बाल्याद्वा यदि वा मोहान्मां भवांस्त्रातुमर्हति ॥ ५७
शमोऽहमास्मि लोकेश जनन्या तपतां वर । तत्र प्रसादो नस्त्रातु ह्येतस्मान्महतो भयात् ॥ ५८
विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः । 'असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥ ५९
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् । न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव ॥ ६०
क्रिमयो मांसमादाय यास्यन्ति तु महीं तव । ततः पादं महाप्राज्ञ पुनः संप्राप्स्यसे सुखम् ॥ ६१
कृतमेवं वचः सत्यं मातुस्तव भविष्यति । शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६२
आदित्यस्त्वब्रवीत्संज्ञां किमर्थं तनयेषु वै । तुल्येष्वप्याधिकः स्नेह एकस्मिन्क्रियते त्वया ॥ ६३
सा तत्परिहरन्ती वै नाऽऽचचक्षे विवस्वतः । आत्मना स समाधाय योगं तथ्यमपश्यत ॥ ६४
तां शप्तुकामो भगवानान्नाशाय कुपितः प्रभुः । सा तत्सर्वं यथातत्त्वमाचचक्षे विवस्वतः ॥ ६५
विवस्वानाथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात् । त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ॥ ६६
निर्दग्धुकामं रोषेण सान्त्वयामास वै शनैः । तवातितेजसा युक्तमिदं रूपं न शोभते ॥ ६७
असहन्ती तु तत्संगा वने चरति शाद्वले । द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् ॥ ६८
श्लाघ्यां यौवनसंपन्नां योगमास्थाय गोपते । अनुकूलं भवेदेवं यदि स्यात्समयो मतः ॥ ६९
रूपं निवर्तयेऽयं ते आद्यं श्रेष्ठमरिंदम । रूपं विवस्वतस्त्वार्सीच्चित्यमूर्ध्वमधस्तथा ॥ ७०
तेनासौ व्रीडितो देवो रूपेण तु दिवस्पतिः । तस्मात्त्वष्टा स चक्रं तु बहु मेने महातपाः ॥ ७१
अनुज्ञातस्ततस्त्वष्टा रूपनिवर्तनाय तु । ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः ॥ ७२
भ्रमिमारोप्य तत्तोजः शातयामास तस्य वै । तत्तु निर्भासितं तेजस्तेजसाऽपहतेन तु ॥ ७३
कान्तात्कान्ततरं द्रष्टुमशुभं शुशुभे ततः । ददर्श योगमास्थाय स्वां भार्यां वडवां तथा ॥ ७४
अदृश्यां सर्वभूतानां तेजसा नियमेन च । अश्वरूपेण मार्तण्डस्तां मुखे समभावयत् ॥ ७५
मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया । सा तन्निर्धमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ ७६
देवौ तस्मादजायेतामश्विनौ भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ७७
मार्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः । तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ७८
सा तं दृष्ट्वा तदा भार्या तुतोष च मुमोह च । यमस्तु तेन शापेन भृशं पीडितमानसः ॥ ७९
धर्मेण रञ्जयामास धर्मराजस्ततस्तु सः । सोऽलभत्कर्मणा तेन शुभेन परमद्युतिः ॥ ८०
पितॄणामाधिपत्यं च लोकपालत्वमेव च । मनुः प्रजापतिस्त्वेवं सावर्णः स महायशाः ॥ ८१
भाव्यसौ नागते तस्मिन्मनुः सावर्णिकेऽन्तरे । मेरुपृष्ठे सुरम्ये वै अद्यापि चरते प्रभुः ॥ ८२

३१० श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०८४-८५श्लो०८३-८६।१-१८] (श्राद्धकल्पः)

भ्राता शनैश्चरस्तत्र ग्रहत्वं स तु लब्धवान् । त्वष्टा तु तेन रूपेण विष्णोश्चक्रमकल्पयत् ॥
महाप्रतिहतं युद्धे दानवपतिवारणे ॥ ८३
यवीयसी तयोर्या तु यमुना च यशस्विनी । अभवत्सा सरिच्छ्रेष्ठा यमुना लोकभाविनी ॥ ८४
यस्तु ज्येष्ठो महातेजाः सर्गो यस्य तु सांप्रतम् । विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ॥ ८५
इदं तु जन्म देवानां शृणुयाद्वा पठेत् वा । वैवस्वतस्य पुत्राणां सप्तानां तु महौजसाम् ॥
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥ ८६
इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतोत्पत्तिवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥
आदितः श्लोकानां समष्ट्यङ्काः--७५५७

अथ पञ्चाशीतितमोऽध्यायः ।
श्राद्धकल्पे वैवस्वतमन्वंशवर्णनम् ।

सूत उवाच--
ततो मन्वन्तरेऽतीते चाक्षुषे देवतैः सह । वैवस्वताय महते पृथिवीराज्यमादिशत् ॥ १
तस्य वैवस्वतो वक्ष्ये सांप्रतस्य महात्मनः । आनुपूर्व्येण वै विप्राः कीर्त्यमानं निबोधत ॥ २
मनोर्वैवस्वतस्येह सर्वमादाय सांप्रतम् । मनोः प्रथमजस्याऽऽसन्सप्त पुत्रास्तु तत्समाः ॥ ३
इक्ष्वाकुर्नहुषश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तस्तथा प्रांशुर्नाभागोऽरिष्ट एव च ॥
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ ४
ब्रह्मणा तु मनुः पूर्वं चोदितस्तु निबोधत । स्रष्टुं प्रचक्रमे कामं निष्फलं समवर्तत ॥ ५
अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः । मित्रावरुणयोरंशे मनुराहुतिमावपत् ॥ ६
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता । दिव्यसंहनना चैव इडा जज्ञे इति श्रुतिः ॥ ७
तामिलेत्यथ होवाच मनुर्दण्डधरः स्मृतः । अनुगच्छामि भद्रं ते तमिला प्रत्युवाच ह ॥ ८
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् । मित्रावरुणयोरंशे जाताऽस्मि वदतां वर ॥ ९
तयोः सकाशं यास्यामि मानो धर्मो हतोऽवधीत् । सैवमुक्त्वा पुनर्देवी तयोरन्तिकमागतम् ॥ १०
गत्वाऽन्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् । अंशोऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् ॥
मनुनैवाहमुक्ताऽस्मि अनुगच्छस्व मामिति । तथा तु वदती साध्वीमिडामाश्रित्य तावुभौ ॥ १२
देवौ च मित्रावरुणाविदं वचनमूचतुः । अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ॥ १३
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि । आवयोस्त्वं महाभागे ख्यातिं कन्या प्रयास्यसि ॥ १४
सुद्युम्न इति विख्यातिस्त्रिषु लोकेषु पूजितः । जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः ॥ १५
मानवः स तु सुद्युम्नः स्त्रीभावमगमत्प्रभुः । सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति ॥ १६
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता । सोमपुत्राद्बुधाच्चास्या ऐलो जज्ञे पुरूरवाः ॥ १७
बुधात्सा जनयित्वा तु सुद्युम्नं पुनरागता । सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ १८

इक्ष्वाकुरेव दायादानन्यान्दश समाप्नुयात् । कन्याभावात्तु सुद्युम्नो नैनं भागमवाप्नुयात् ॥

[अ०८५-८६श्लो०१९-२८।१-९] वायुपुराणम्। ३१) ( वैवस्वतमनुवंशगान्धर्वमूर्छनाकथनम् )

उत्कलश्च गयश्चैव विनताश्वस्तथैव च । उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् ॥ १९ दिक्ष्ववातस्य राजर्षेर्गयस्य तु गया पुरी ॥ २० प्रविसृष्टे मनौ तस्मिन्प्रजाः सृष्ट्वा दिवाकरः । दशधा तद्धराक्षेत्रमकरोत्पृथिवीमिमाम् ॥ २१ इक्ष्वाकुरेव दायादानन्यान्दश समाप्नुयात् । कन्याभावात्तु सुद्युम्नो नैनं भागमवाप्नुयात् ॥ वशिष्ठवचनाच्चाऽऽसीत्प्रतिष्ठा नो महाद्युतिः । प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः ॥ २२ तत्पुरूरवसे प्रादाद्राष्ट्रं प्राप्य महायशाः । मानवेभ्यो महाभागा स्त्रीपुंसोर्लक्षणं प्रति ॥ मानवः स तु सुद्युम्नः स्त्रीभावमगमत्पुनः ॥ २३ एतच्छ्रुत्वा तु ऋषयः पप्रच्छुस्तदनन्तरम् । मानवः स तु सुद्युम्नः स्त्रीभावमगमत्कथम् ॥ २४

सूत उवाच-- प्रोवाच वचनं देवी प्रियहेतोः प्रियं प्रिया । समे ममाऽऽश्रमे देव यः पुमान्संप्रवेक्ष्यति ॥ भविष्यति ध्रुवं नारी सा तुल्याप्सरसां शुभा ॥ २५ तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये । स्त्रीभूताः सह रुद्रेण क्रीडन्त्यप्सरसो यथा ॥ २६ उमावनं प्रविष्टस्तु स राजा मृगयां गतः । पिशाचैः सह भूतैस्तु रुद्रैः स्त्रीभावमास्थिते ॥ २७ तस्मात्स राजा सुद्युम्नः स्त्रीभावं लब्धवान्पुनः । महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ॥ २८

इति महापुराणे वायुप्रोक्ते वैवस्वतमनो सृष्टिकथनं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥ आदितः श्लोकानां समष्ट्यङ्काः--७०६५


अथ षडशीतितमोऽध्यायः ।

तत्र वैवस्वतमनुवंशगान्धर्वमूर्छनाकथनम् ।

सूत उवाच-- निसर्गं मनुपुत्राणां विस्तरेण निबोधत । पृषध्रो हिंसयित्वा तु गुरो*र्गावमभक्षयत् ॥ १ शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः । करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ २ सहस्रक्षत्रियगणावरिक्रान्तः संबभूव ह । नाभागोऽरिष्टपुत्रस्तु विद्वानासीद्भालन्दनः ॥ ३ भालन्दनस्य पुत्रोऽभूत्प्रांशुर्नाम महाबलः । प्रांशोरेकोऽभवत्पुत्रः प्रजानेरिति विश्रुतः ॥ ४ प्रजानेरभवत्पुत्रः खनित्रो नाम वीर्यवान् । तस्य पुत्रोऽभवच्छ्रीमान्क्षुपो नाम महायशाः ॥ ५ क्षुपस्य विंशः पुत्रस्तु प्रतिमानं बभूव ह । विंशपुत्रस्तु कल्याणो विविंशो नाम धार्मिकः ॥ ६ विविंशपुत्रो धर्मात्मा खानिनेत्रः प्रतापवान् । करन्धमस्तस्यपुत्रस्त्रेतायुगमुखेऽभवत् ॥ ७ करन्धसुतश्चापि आविक्षिन्नाम वीर्यवान् । आविक्षितो व्यतिक्रामात्पितरं गुणवत्तया ॥ ८ मरुत्तो नाम धर्मात्मा चक्रवर्तिसमो नृपः । संवर्तेन दिवं नीतः ससुहृत्सह बान्धवैः ॥ ९


* अत्राऽऽर्षत्वादाकारैकादेशाभावः ।

३१२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८६श्लो०१०-३५]

( वैवस्वतमन्वंशानुगान्धर्वमूर्च्छनाकथनम् )

विवादोऽत्र महानासीत्संवर्तस्य बृहस्पतेः । ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ॥ १०
संवर्तेन हते यज्ञे चुकोप सुभृशं तदा । लोकानां स हि नाशाय दैवतैर्हि प्रसादितः ॥ ११
मनूत्तश्चक्रवर्ती स नरिष्यन्तमवाप्तवान् । नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ॥ १२
तस्य पुत्रस्तु विक्रान्तो राजाऽऽसीद्राष्ट्रवर्धनः । सुधृती तस्य पुत्रस्तु नरः सुधृतिनः सुतः ॥ १३
केवलस्तस्य पुत्रस्तु बन्धुमान्केवलात्मजः । अथ बन्धुमतः पुत्रो धर्मात्मा वेगवान्नृपः ॥ १४
बुधो वेगवतः पुत्रस्तृणबिन्दुर्वुधात्मजः । त्रेतायुगमुखे राजा तृतीये संबभूव ह ॥ १५
कन्या तु तस्य द्रविडा माता विश्ववसो हि सा । पुत्रश्चास्य विशालोऽभूद्राजा परमधार्मिकः ॥ १६
विशालात्स्य समुत्पन्ना विशाला येन निर्मिता । विशालस्य सुतो राजा हेमचन्द्रो महाबलः ॥ १७
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरम् । सुचन्द्रतनयो राजा धूम्राश्व इति विश्रुतः ॥ १८
धूम्राश्वतनयो विद्वान्सृञ्जयः समपद्यत । सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् ॥ १९
कृशाश्वः सहदेवस्य पुत्रः परमाधार्मिकः । कृशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ॥ २०
सोमदत्तस्य राजर्षेः सुतोऽभूज्जनमेजयः । जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ॥ २१
तृणबिन्दुप्रसादेन सर्वे वैशालका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ २२
शर्यातेर्मिथुनं त्वासीदानार्तो नाम विश्रुतः । पुत्रः सुकन्या कन्या च भार्या या च्यवनस्य तु ॥ २३
आनर्तस्य तु दायादो रेवो नाम्ना तु वीर्यवान् । अनार्तो विषयो यस्य पुरी चापि कुशस्थली ॥
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः । ज्येष्ठो भ्रातृशतस्याऽऽसीद्राजा प्राप्य कुशस्थलीम् ॥
कन्यया सह श्रुत्वा च गान्धर्वं ब्रह्मणोऽन्तिके । मुहूर्तं देवदेवस्य मर्त्यं बहुयुगं विभोः ॥ २६
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम् । कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ॥ २७
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः । तां कथां रैवतः श्रुत्वा यथातत्त्वमरिंदमः ॥* २८
+ कन्यां तु बलदेवाय सुव्रतां नाम रेवतीम् । दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥ २९
रेमे रामश्च धर्मात्मा रेवत्या सहितः किल । तां कथामृषयः श्रुत्वा पप्रच्छुस्तदनन्तरम् ॥ ३०

ऋषय ऊचुः--
कथं बहुयुगे काले व्यतीते सूतनन्दन । न जरां रेवती प्राप्ता पलितं च कुतः प्रभो ॥ ३१
मेरुं गतस्य वा तस्य शर्यातेः संततिः कथम् । स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ॥ ३२
कियन्तो वा सुरगणा गन्धर्वास्तत्र कीदृशाः । यच्छ्रुत्वा रैवतः कालान्मुहूर्तमिव मन्यते ॥ ३३

सूत उवाच--
न जरा क्षुत्पिपासा वा न च मृत्युभयं ततः । न च रोगः प्रभवति ब्रह्मलोकगतस्य हि ॥ ३४
गान्धर्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः । ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ॥ ३५


* अत्रैवाध्यायसमाप्तिः ख. घ. पुस्तकयोः । + कन्यां तु बलदेवाय इत्यारभ्य सप्ताशीतितमाध्यायस्यसप्तसप्तस्वरं तु य इत्यन्तग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।

[ अ०८६श्लो० ३६-५८] वायुपुराणम् । ३१३

(वैवस्वतमनुवंशगान्धर्वमूर्च्छनालक्षणकथनम्)

सूत उवाच—

सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः । तालाश्चैकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥ ३६ षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा । धैवतश्चापि विज्ञेयस्तथा चापि निषादवान् ॥ ३७ सौवीरी माध्यमग्रामो हरिणास्या तथैव च । स्यात्कलोपबलोपेता चतुर्थी शुद्धमध्यमाः ॥ ३८ शार्ङ्गी च पावनी चैव दृष्टाका च प्रथाक्रमम् । मध्यमग्रामिकाः ख्याताः षड्जग्रामं निबोधत ॥ ३९ उत्तरमन्द्रा जननी तथा या चोत्तरायता । शुद्धषड्जा सथा चैव जानीयात्सप्तमीं च ताम् ॥ ४० गांधारग्रामिकांश्चान्यानिकीर्त्यमानान्निबोधत । अग्निष्टोमिकमाद्यं तु द्वितीयं वाजपेयिकम् ॥ ४१ तृतीयं पौण्ड्रकं प्रोक्तं चतुर्थं चाऽश्वमेधिकम् । पञ्चमं राजसूयं च षष्ठं चक्रसुवर्णकम् ॥ ४२ सप्तमं गोसवं नाम महावृष्टिकमष्टमम् । ब्रह्मदानं च नवमं प्राजापत्यमनन्तरम् ॥ ४३ नागपक्षाश्रयं विद्याद्रोत्तरं च तथैव च । हयक्रान्तं मृगक्रान्तं विष्णुकान्तं मनोहरम् ॥ ४४ सूर्यक्रान्तं वरेण्यं च मत्तकोकिलवादिनम् । सावित्रमर्धसावित्रं सर्वतोभद्रमेव च ॥ ४५ सुवर्णं च सुतन्द्रं च विष्णुं वैष्णवरावभौ । सागरं विजयं चैव सर्वभूतमनोहरम् ॥ ४६ हंसं ज्येष्ठं विजानीमस्तुम्बुरुप्रियमैव च । मनोहरमधात्र्यं च गन्धर्वानुगतश्च यः ॥ ४७ अलम्बुषेष्ठश्च तथा नारदप्रियं एव च । कथितो भीमसेनेन नागराणां यथा प्रियः ॥ ४८ विकलोपनीतावनिसा श्रीराखवो भार्गवप्रियः । * अभिरम्यश्च शुक्रश्च पुण्यः पुण्यारकः स्मृतः ॥ विंशतिर्मध्यग्रामः षड्जग्रामश्चतुर्दश ॥ ४९ तथा पञ्चदशेऽच्छन्ति गान्धारग्रामसंस्थितान् । ससौवीरा तु गान्धारी ब्रह्मणा ह्युपगीयते ॥ ५० उत्तरादिस्वरस्यैव ब्रह्मा वै देवताऽत्र च । हरिदेशसमुत्पन्ना हरिणास्या व्यजायत ॥ मूर्छना हरिणास्यैव अस्या इन्द्रोऽधिदैवतम् ॥ ५१ करोपनीतवितता मरुद्भिः स्वरमण्डले । सा कलोपनता तस्मान्मारुतश्चात्र दैवतम् ॥ ५२ मरुद्देशसमुत्पन्ना मूर्छना शुद्धमध्यमा । मध्यमोऽत्र स्वरः शुद्धो गन्धर्वश्चात्र देवता ॥ ५३ मृगैः सह संचरते सिद्धानां मार्गदर्शने । यस्मात्तस्मात्स्मृता मार्गी मृगेन्द्रोऽस्याश्च देवता ॥ ५४ सा चा ऽऽश्रमसमायुक्ता अनेकान्यौरवान्भवान् । मूर्छना योजना ह्येषा रजसा रजनी ततः ॥ ताल उत्तरमन्द्रांशः षड्जदैवतकां विदुः । तस्मादुत्तरतालं च प्रथमं स्वायतं विदुः ॥ तस्मादुत्तरमन्द्रोऽयं देवताऽस्य ध्रुवो ध्रुवम् ॥ ५६ आयामादुत्तरत्वाच्च धैवतस्योत्तरायणः । स्यादियं मूर्छना ह्येवं पितरः श्राद्धदेवताः ॥ ५७ शुद्धषड्जस्वरं कृत्वा यस्मादग्निं महर्षयः । उपतिष्ठन्ति तस्मात्तं जानीयाच्छुद्धषड्जिकम् ॥ ५८


* इदमर्धं नास्ति क पुस्तके ।

४०

३१४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८६-८७श्लो०५९-६९-१-१०] ( गीतालंकारनिर्देशः )

यः सतां मूर्छनां कृत्वा पञ्चमस्वरको भवेत् । यक्षीणां मूर्छना सा तु याक्षिका मूर्छना स्मृता ॥ ५९
नागदृष्टिविषा गीता नोपसर्पन्ति मूर्छनाम् । भवन्तीव हता ह्येते ब्रह्मणा नागदेवसाः ॥ ६०
(*अहीनां मूर्छना ह्येषा वरुणश्चात्र देवता । +जलाधिपेन दृष्टा स्यादप्सु लीला तथैव च ॥ ६१
शकुन्तकानां कृत्वा च उपगायन्ति किंनराः उत्तमा मूर्छना तस्मात्पक्षिराजोऽत्र देवता ॥ ६२
[×मनो भन्दयती तेषां मूर्छना मन्दनीत्यपि । ऋषीणां स्नातकानां च विश्वे देवात्र (स्तु) दैवतम्] ॥
अश्वाक्रमंतकतावा रमन्ते वाऽत्र वाजिनः । अश्वक्रन्तेति नित्या वै अश्विनौ वाऽत्र देवतम् ] ॥ ६४
÷ गान्धाररागशब्देन गां धारयतेऽर्थतः । तस्माद्विशुद्धगान्धारी गन्धर्वश्वाधिदैवतम् ॥ ६५
गान्धारानन्तरं गत्वा सृष्टेयं मूर्छना यतः । तस्मादुत्तरगान्धारी वसवश्चात्र देवताः ॥ ६६
सेयं खलु महाभूता पितामहमुपस्थिता । षड्जेयं मूर्छना तस्मात्स्मृता ह्यनलदेवता ) ॥ ६७
दिव्येयं चाऽप्यृता तेन मन्दषष्ठा च मूर्छने । निवृत्तगुणानामानं पञ्चमं चात्र दैवतम् ॥ ६८
पूर्णा सप्त स्वरा ह्यवं मूर्छनाः संपकीर्तिताः । नानासाधारणाश्चैव षडेवानुविदस्तथा ॥ ६९
इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशगान्धर्वमूर्छनालक्षणकथनं नाम
षडशीतितमोऽध्यायः ॥ ८६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७६७४

अथसप्ताशीतितमोऽध्यायः ।

गीतालंकारनिर्देशः ।

पूर्वाचार्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्वशः । त्रिंशतं वै अलंकारास्तान्मे निगदतः शृणु ॥ १
अलंकारास्तु वक्तव्याः स्वैः स्वैर्वर्णैः प्रहेतवः । संस्थानयोगैश्च तथा पदानां चान्वेवेक्षया ॥ २
वाक्यार्थपदयोगार्थैरलंकारस्य पूरणम् । पदानि गीतकस्याऽऽहुः पुरस्तात्पृष्ठतोऽथवा ॥ ३
स्थानानि त्रीणि जानीयादुरः कण्ठः शिरस्तथा । एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ॥ ४
चत्वारः प्रकृतौ वर्णाः प्रविचारश्चतुर्विधः । विकल्पयष्टधा चैव देवाः षोडशधा विदुः ॥ ५
स्थायी वर्णः प्रसंचारी तृतीयमवरोहणम् । आरोहणं चतुर्थं तु वर्णं वर्णविदो बिंदुः ॥ ६
तत्रैकः संचरस्थायी सचरास्तु चरीभवन् । अथ रोहणवर्णानामवरोहं विनिर्देशेत् ॥ ७
आरोहणेन चाऽऽरोहवर्णं वर्णविदा विदुः । एतेषामेव वर्णानामलंकारान्निबोधत ॥ ८
अलंकारास्तु चत्वारः स्थापनी क्रमरेजिनः । प्रमादश्चाप्रमादश्च तेषां वक्ष्यामि लक्षणम् ॥ ९
विस्वरोष्टकलाश्रैव स्थानादेकान्तरं गताः । आवर्तस्याक्रमोत्पत्ती द्वे कार्ये परिणामतः ॥ १०


*धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । +नास्तीदमर्धं क. पुस्तके । ×धनुश्चिह्नान्तर्गतग्रन्थः क पुस्तके नास्ति ÷ एतदर्धस्थान इदमर्धं गांधारयते शब्देन गांधारंत्यथ वा पुनरिति ङ पुस्तके।

[अ० ८७ श्लो० ११-३३] वायुपुराणम्। ३१५

(गीतालङ्कारनिर्देशः)

कुमारमपरं विद्याद्विस्तरं वमनं गतम् । एष वै चाप्यपाङ्गस्तु कुतारकः कलाधिकः ॥ ११ श्येनस्त्वेकान्तरे जातः कलामात्रान्तरे स्थितः । तस्मिंश्चैव स्वरे वृद्धिस्तिष्ठते तद्विलक्षणा ॥ १२ श्येनस्तु अपरोहस्तु उत्तरः परिकीर्तितः । कलाकलप्रमाणाच्च सबिन्दुनीम जायते ॥ १३ बिन्दुरेककला कार्या वर्णान्तस्थायिनी भवेत् । विपर्ययस्वरोऽपि स्याद्यस्य दुर्घटितोऽपि न ॥ एकान्तरा तु वाद्यं तु षड्जतः परमः स्वरः । आक्षेपास्कन्दनं कार्यं काकस्येवोच्चपुष्कलम् ॥ १५ संतारौ तौ तु संचार्यो कार्यं वा कारणं तथा । आक्षिप्तमवरोहापि मोक्षमद्यस्तथैव च ॥ १६ द्वादशं च कलास्थानमेकान्तरगतं ततः । ( * प्रेङ्खोलितमलंकारमेवं स्वरसमन्वितम् ॥ १७ स्वरसंक्रामकाच्चैव ततः प्रोक्तं तु पुष्कलम् । मक्षिप्तमेव कलया पादानीतरयो भवेत् ॥ ) १८ द्विक्लं वा यथा भूतं यत्तद्घासितमुच्यते । उच्चाराद्विस्वरारूढा तथा चाष्टस्वरान्तरम् ॥ १९ यस्तु स्यादवरोहो वा तारतो मन्द्रतोऽपि वा । एकान्तरहिता ह्येते तमेव स्वरमन्ततः ॥ २० मक्षिप्तच्छेदनों नाम चतुष्कलगण स्मृतः । अलंकारा भवन्त्येते त्रिंशद्ये वै प्रकीर्तिताः ॥ वर्णस्थानप्रयोगेण कलामात्राप्रमाणतः ॥ २१ संस्थानं च प्रमाणं च विकारी लक्षणं तथा । चतुर्विधमिदं ज्ञेयमलंकारप्रयोजनम् ॥ २२ यथाऽऽत्मनो ह्यलंकारो विपर्यस्तोऽतिगर्हितः । वर्णमेवाप्यलं कर्तुं विषमं ह्यात्मसंभवात् ॥ २३ नानाभरणसंयोगाद्यथा नार्या विभूषणम् । वर्णस्य चैवालंकारो विपर्यस्तोऽतिगर्हितः ॥ २४ न पादे कुण्डले दृष्टे न कण्ठे रसना तथा । एवमेव ह्यलंकारो विपर्यस्सो विगर्हितः ॥ २५ क्रियमाणोऽप्यलंकारो रागं यश्चैव दर्शयेत् । यथोद्दिष्टस्य मार्गस्य कर्तव्यस्य विधीयते ॥ २६ लक्षणं पर्यवस्यापि वर्णिकाभिः प्रवर्तनम् । याताथ्येन वक्ष्यामि मासोद्भवमुखोद्भवै ॥ २७ त्रवोविंशत्यशीतिस्तु तेषामेतद्विपर्ययः । षड्जपक्षोऽपि तत्त्वादौ मध्यौ हीनस्वरो भवेत् ॥ २८ षड्जमध्यमयोश्चैव ग्रामयोः पर्ययस्तया । मानो योत्तरमन्दस्य षडेवात्राविकस्य च ॥ २९ स्वरालंप्रत्ययश्चैव सर्वेषां प्रत्ययः स्मृतः । अनुगम्य वहिर्गीतं विज्ञातं पञ्चदैवतम् ॥ ३० गोरूपाणां पुरस्तात्तु मध्यमांशस्तु पर्ययः । तयोर्विभागो गीतानां लावण्यमार्गसंस्थितः ॥ ३१ अनुषङ्गं मयोद्दिष्टं स्वसारं च स्वरान्सरम् । पर्ययः संप्रवर्तेत सप्तस्वरपदक्रमम् ॥ ३२ गान्धारांशेन गीयन्ते चत्वारि मद्रकानि च । पञ्चमो मध्यमश्चैव धैवते तु निषादजैः ॥ षड्जर्षभैश्च जानीमो भद्रकेष्वेव नान्तरे ॥ ३३


* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।

३१६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०८७-८८श्लो०३४-४६।१-५] (वैवस्वतमन्वंशवर्णनम्)

द्वे चापरान्तिके विद्याद्यङ्गुष्ठाष्टकस्य तु । प्राकृते वैणवैश्चैव गान्धारांशे प्रयुज्यते ॥ ३४ पदस्य तु त्रयं रूपं सप्तरूपं तु कैशिकम् । गान्धारांशेन कार्त्स्न्येन पर्ययस्य विधिः स्मृतः ॥ एवं चैव क्रमोद्दिष्टो मध्यमांशस्य मध्यमः ॥ ३५ यानि गीतानि प्रोक्तानि रूपेण तु विशेषतः । तन्तु सप्तस्वरं कार्यं सप्तरूपं च कैशिकम् ॥ ३६ अङ्गुदर्शनामित्याहुर्माने द्वे समके तथा । द्वितीयभावाचरणा मात्रा नाभिमतिष्ठिता ॥ ३७ उत्तरे च प्रकृत्येवं मात्रा तल्लीयते तथा । हन्तारः पिण्डको यत्र मात्रायां नातिवर्तते ॥ ३८ पादेनैकेन मात्रायां पादोनामधिवीरणा । संख्यायाश्चोपहेननं तत्र यानमिति स्मृतम् ॥ ३९ द्वितीयं पादभङ्ग च ग्रहेणाभिप्रतिष्ठितम् । पूर्वमष्टतृतीये तु द्वितीयं चापरीतिके ॥ ४० अर्धेन पादसाम्यस्य पादभागाच्च पञ्चके । पादभागं सपादे तु प्रकृत्यामपि संस्थितम् ॥ ४१ चतुर्थमुत्तरे चैव मद्रवत्या च मद्रके । मद्रके दक्षिणास्यापि यथोक्ता वर्तते कला ॥ ४२ पूर्वमेवानुयोगं तु द्वितीया बुद्धिरिष्यते । पादौ चाऽऽहरणं चास्मत्पारं नात्र विधीविते ॥ ४३ एकत्वमुपयोगस्य द्वयोर्यद्धि द्विजोत्तम । अनेकसमवायस्तु पताकाहरिणं स्मृतम् ॥ ४४ तिसृणां चैव वृत्तीनां वृत्तौ वृत्ता च दक्षिणा । अष्टौ सु समवायास्ते सौवेरी मूर्छना तथा ॥ कुशत्यनुत्तरः सत्यं सप्तसत्त्वस्वरं तु यः । * चित्रशाखासुतं तस्य धार्मिकस्य महात्मनः ॥ ४६

इति श्रीमहापुराणे वायुप्रोक्ते गीतालंकारनिर्देशो नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥

आदितः श्लोकानां समष्ट्यङ्काः—७७२०


अथाष्टाशीतितमोऽध्यायः ।

वैवस्वतमन्वंशवर्णनम् ।

सूत उवाच—

ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह । हता पुण्यजनैः सर्वा राक्षसैः सा कुशस्थली ॥ १ तद्वै भ्रातृशतं तस्य धार्मिकस्य महात्मनः । निबध्यमाना रक्षोभिर्दिशः संपाद्रवन्भयात् ॥ २ तेषां तु ते भयाक्रान्ताः क्षत्रियास्तत्र तत्र हि । अन्ववायस्तु सुमहान्महांस्तत्र द्विजोत्तमाः ॥ ३ प्रयता इतिविख्याता दिक्षु सर्वासु धार्मिकाः । धृष्टस्य धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ॥ ४ त्रिसाहस्रं तु सगशं क्षत्रियाणां महात्मनाम् । नभगस्य च दायादो नाभागो नाम वीर्यवान् ॥ ५


* इदमर्धं नास्ति क. पुस्तके । अस्यार्धस्य न पूर्वापरसंगतिः ।

अम्बरीषस्तु नाभागिर्विरूपस्तस्य चाऽऽत्मजः । पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥ ६

[अ०८८श्लो०६-३१] वायुपुराणम् । ३१७

( वैवस्वतमनुवंशवर्णनम् )

अम्बरीषस्तु नाभागिर्विरूपस्तस्य चाऽऽत्मजः । पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥ ६ एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः । रथीतराणां प्रवराः क्षात्रोपेता द्विजातयः ॥ ७ क्षुवतस्तु मनोः पूर्वमिक्ष्वाकुराभिनिःसृतः । तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ॥ ८ तेषां ज्येष्ठो विकुक्षिश्च नेमिर्दण्डश्च ते त्रयः । शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतं तु ते ॥ ९ उत्तरापथदेशस्य रक्षितारो महीक्षितः । चत्वारिंशत्तथाऽष्टौ च दक्षिणायां च ते दिशि ॥ १० विंशातिममुखास्ते तु दक्षिणापथरक्षिणः । इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथाऽऽदिशत् ॥ ११

राजोवाच-- मांसमानय श्राद्धेयं मृगान्हत्वा महाबल । श्राद्धमद्य नु कर्तव्यमष्टकायां न संशयः ॥ १२ स गतस्तु मृगव्यां वै वचनात्तस्य धीमतः । मृगान्सहस्रशो हत्वा परिश्रान्तश्च वीर्यवान् ॥ भक्षयच्छशकं तत्र विकुक्षिर्मृगयां गतः ॥ १३ आगते स विकुक्षौ तु समांसे सहसैनिके । वसिष्ठं चोदयामास प्रोक्ष्यतामिति ॥ १४ तथेति चोदितो राज्ञा विधिवत्समुपस्थितः । स दृष्ट्वोपहतं क्रुद्धो राजानमब्रवीत् ॥ १५ क्षुद्रेणोपहतं मांसं पुत्रेण तव पार्थिव । शशभक्षादभोज्यं वै तव मांसं महाद्युते ॥ १६ शशो दुरात्मना पूर्वमरण्ये भक्षितोऽनघ । तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ॥ १७ इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत् । पितृकर्माणि निर्दिष्टो मया त्वं मृगयां गतः ॥ शशं भक्षयसेऽरण्ये निर्घृणः पूर्वमद्य नु ॥ १८ तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्मणा । एवमिक्ष्वाकुना त्यक्तो वसिष्ठवचनात्सुतः ॥ १९ इक्ष्वाकौ संस्थिते तस्मिञ्शशास पृथिवीमिमाम् । प्राप्तः परमधर्मात्मा स चायोध्याधिपोऽभवत् ॥ २० तदाऽकरोत्स राज्यं वै वसिष्ठपरिनोदितः । ततस्तेनैवसा पूर्णो राज्यावस्थो महीपतिः ॥ २१ कालेन गतवांस्तत्र स च न्यूनतरां गतिम् । ज्ञात्वैवमेतदाख्यानं नाविधिर्भक्षयेत्तु वै ॥ २२ मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ २३ शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् । इन्द्रस्य वृषभूतस्य ककुत्स्थो जायते पुरा ॥ २४ पूर्वमाडीवके युद्धे ककुत्स्थस्तेन स स्मृतः । अनेनास्तु ककुत्स्थस्तेन पृथुरानैनसः स्मृतः ॥ २५ वृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्यवान् । आंध्रस्तु यवनाथस्तु श्रावस्तस्तस्य चाऽऽत्मजः ॥ २६ जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता । श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ २७ बृहदश्वसुतश्चापि कुवलाश्व इति श्रुतिः । यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ २८

ऋषय ऊचुः-- धुन्धेवधं महाप्राज्ञ श्रोतुमिच्छामि विस्तरात् । यदर्थं कुवलाश्वः स धुन्धुमारत्वमागतः ॥ २९

सूत उवाच-- बृहदश्वस्य पुत्राणां सहस्राण्येकविंशतिः । सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ३० बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । कुवलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥ ३१

३१८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०८८श्लो०३२–५८] ( वैवस्वतमनुवंशवर्णनम् )

बृहदश्वोऽभ्यषिञ्चत्तं तस्मिन्द्राष्ट्रे नराधिपः। पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ॥ ३२
बृहदश्वं महाराज शूरमुत्तमधार्मिकम् । प्रयातं तमुत्तङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥ ३३

उत्तङ्क उवाच--

भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि । निरुद्विग्नस्तपः कर्तुं न हि शक्नोमि पार्थिव ॥ ३४
ममाऽऽश्रमसमीपेषु समेषु मरुधन्वसु । समुद्रो वालुकापूर्णस्तत्र तत्र तिष्ठति भूपते ॥ ३५
देवतानामवध्यस्तु महाकायो महाबलः । अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ ३६
स मनोस्तनयः क्रूरो धुन्धुर्नाम सुदारुणः । शतं लोकविनाशाय तप आस्थाय दारुणम् ॥ ३७
संवत्सरस्य पर्यन्ते स निश्वासं प्रमुञ्चति । यदा यदा मही तत्र चलति स्म सकानना ॥ ३८
तस्य निश्वासवातेन रज उद्धूयते महत् । आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥ ३९
सविस्फुलिङ्गं सज्वलं सधूममतिदारुणम् । तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥ ४०
तं वारय महाबाहो लोकानां हितकाम्यया । तेजस्ते सुमहाविष्णुस्तेजसाऽऽप्याययिष्यति ॥ ४१
लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे । त्वं हि तस्य वधायाद्य समर्थः पृथिवीपते ॥ ४२
विष्णुना च वरो दत्तो मम पूर्वं ततोऽनघ । न हि धुन्धुर्महावीर्यस्तेजसाऽल्पेन शक्यते ॥ ४३
निर्दग्धुं पृथिवीपाल अपि वर्षशतैरपि । वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् ॥ ४४
एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना । कुवलाश्वं सुतं प्रादात्तस्मिन्धुन्धुनिवारणे ॥ ४५
राजा संन्यस्तशस्त्रोऽहमयं तु तनयो मम । भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ ४६
स तं व्यादिश्य तनयं धुन्धुमारणमुद्यतम् । जगाम पर्वतायैव तपसे संशितव्रतः ॥ ४७
कुवलाश्वस्तु धर्मात्मा पितुर्वचनमास्थितः । सहस्रैरेकविंशत्या पुत्राणां सह पार्थिवः ॥
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवारणे ॥ ४८
तमाविशततो विष्णुर्भगवान्स्वेन तेजसा । उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ॥ ४९
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । अद्यप्रभृत्येष नृपो धुन्धुमारो भविष्यति ॥ ५०
दिव्यैः पुष्पैश्च तं देवाः समसंमत अद्भुतम् । स गत्वा पुरुषव्याघ्रस्तनयैः सह वीर्यवान् ॥ ५१
समुद्रं खननयामास वालुकार्णवमव्ययम् । नारायणेन राजर्षिस्तेजसाऽऽप्यायितो हि सः ॥
बभूवातिबलो भूय उत्तङ्कस्य वशे स्थितः ॥ ५३
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा । धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम् ॥ ५४
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव । वारि सुस्राव योगेन महोदधिरिवोदये ॥ ५५
सोमस्य सोमपश्रेष्ठ धारोर्मिकलिलो महान् । तस्य पुत्रास्तु निर्दग्धास्त्रिभिरूनास्तु राक्षसाः ॥ ५६
ततः स राजाऽतिबलो धुन्धुबन्धुनिबर्हणः । तस्य वारिमयं वेगमपिबत्स नराधिपः ॥ ५७
योगी योगेन वह्निं वा शमयामास वारिणा । निरस्यतं महाकायं बलेनोदकराक्षसम् ॥ ५८

[अ०८८श्लो० ५९-८४] ॥ वायुपुराणम् ॥ ३१९

(वैवस्वतमनुवंशवर्णनम)

उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः । उत्तङ्कश्च वरं प्रादान्तस्मै राज्ञे महात्मने ॥ ५९ अदात्तस्याक्षयं वित्तं शत्रुभिश्चाप्यधृष्यताम् । धर्मे रतिं च सततं स्वर्गे वासं तथाऽक्षयम् ॥ पुत्राणां चाक्षयाँल्लोकान्स्वर्गे ये रक्षसा हताः ॥ ६० तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । भद्राश्वः कपिलाश्वश्च कनीयांसौ तु तौ स्मृतौ ॥ ६१ धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चाऽऽत्मजः । हर्यश्वस्य निकुम्भोऽभूत्क्षत्रधर्मरतः सदा ॥ ६२ संहताश्वो निकुम्भस्य श्रुतो रणविशारदः । कृशाश्वश्चाक्षयाश्वश्च संहताश्वसुतावुभौ ॥ ६३ तस्य पत्नी हैमवती सतां मतिदृषद्वती । विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ॥ ६४ युवनाश्वः सुतस्तस्य त्रिषु लोकेष्वतिद्युतिः । अत्यन्तधार्मिको गौरी तस्य पत्नी पतिव्रता ॥ ६५ अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता । तस्यास्तु गैरिकः पुत्रश्चक्रवर्ती बभूव ह ॥ ६६ मांधाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः । अत्राप्युदाहरन्तीमौ श्लोकौ पौराणिका द्विजाः ॥६७ यावत्सूर्य उदयति यावच्च प्रतितिष्ठति । सर्वं तद्यौवनाश्वस्य मांधातुः क्षेत्रमुच्यते ॥ ६८ अत्राप्युदाहरन्तीमं श्लोकं वंशविदो जनाः । यौवनाश्वं महात्मानं यज्वानममितौजसम् ॥ मांधाता तु तनुर्विष्णोः पुराणज्ञाः प्रचक्षते ॥ ६९ तस्य चैत्ररथी भार्या शशबिन्दोः सुताऽभवत् । साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ॥ ७० पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा । तस्यामुत्पादयामास मांधाता त्रीन्सुतान्प्रभुः ॥ ७१ पुरुकुत्समम्बरीषं मुचुकुन्दं च विश्रुतम् । अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ॥ ७२ हरितो युवनाश्वस्य हारिताः शूरयः स्मृताः । एते ह्याङ्गिरसः पुत्राः क्षात्रोपेता द्विजातयः ॥ ७३ पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः । नर्मंदायां समुत्पन्नः संभूतस्तस्य चाऽऽत्मजः ॥ ७४ संभूतस्याऽऽत्मजः पुत्रो ह्यनरण्यः प्रतापवान् । रावणो निहतो येन त्रिलोकीविजये पुरा ॥ ७५ त्रसदधोऽनरण्यश्च हर्षश्वस्तस्य चाऽऽत्मजः । हर्षश्वात्तु दृषद्वत्यां जज्ञे वसुमती नृपः ॥ ७६ तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्मिकः । आसीत्त्रैधन्वनश्चापि विद्वांस्त्रय्यारुणः प्रभुः ॥ ७७ तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः । तेन भार्या विदर्भस्य हृता हत्वा दिवौकसाम् ॥ ७८ पाणिग्रहणमन्त्रेषु निष्ठां संप्रापितेष्विह । विष्णुवृद्धः सुतस्तस्य विष्णुवृद्धा यतः स्मृताः ॥ एते ह्यङ्गिरस पुत्राः क्षात्रोपेताः समाश्रिताः ॥ ७९ कामाद्वालाच्च मोहाच्च संकर्षणबलेन च । भाविनोऽर्थस्य च बलात्तत्कृतं तेन धीमता ॥ ८० तमधर्मेण सयुक्तं पिता त्रय्यारुणोऽत्यजत् । अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ॥ ८१ पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः । पिता चैनमथोवाच श्वपाकैः सह वर्तय ॥ ८२ नाहं पुत्रेण पुत्रार्थी त्वयाऽद्य कुलपांसन । इत्युक्तः स निराकामन्नगराद्वचनाद्विभो ॥ ८३ न चैनं धारयामास वसिष्ठो भगवानृषिः । स तु सत्यव्रतो धीमाञ्श्वपाकावसथान्तिकम् ॥ पित्रा मुक्तोऽवसद्धीरः पिता चास्य वनं ययौ ॥ ८४

३२० श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०८८ श्लो० ८५-११३] (वैवस्वतमनुवंशवर्णनम्)

तस्मिंस्तु विषये तस्य नाववर्षत्पाकशासनः । समा द्वादश संपूर्णास्तेनाधर्मेण वै तदा । ८५ दारांस्तु तस्य विषये विश्वामित्रो महातपाः । संन्यस्य सागरानूपे चचार विपुलं तपः ॥ ८६ तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शिष्टानां भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥ ८७ तं तु बद्धं गले दृष्ट्वा विक्रीतं तं नरोत्तमः । महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः ॥ ८८ सत्यव्रतो महाबुद्धिर्भरं तस्य चाकरोत् । विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ॥ ८९ सोऽभवद्गालवो नाम गले बद्धो महातपाः । महर्षिः कौशिकस्तातस्तेन वीर्येण मोक्षितः ॥ ९० तस्य व्रतेन भक्त्या च रूपया च प्रतिज्ञया । विश्वामित्रकलत्रं च बभार विनये स्थितः ॥ ९१ हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् । विश्वामित्राश्रमाभ्यासे तन्मांसमपचत्ततः ॥ ९२ उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । पितुर्न्नियोगादभजन्न्नृपे तु वनमास्थिते ॥ ९३० अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । याज्योपाध्यायसंयोगाद्वासष्ठः पर्य्यरक्षत ॥ ९४ सत्यव्रतस्तु वाल्यात्तु भाविनोऽर्थस्य वै बलात् । वसिष्ठेऽभ्यधिकं मन्युं धारयामास मन्युना ॥ ९५ पित्रा रुदंस्तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् । न वारयामास मुनिर्वासष्ठः कारणेन वै ॥ ९६ पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । एवं सत्यव्रतस्तान्वै हतवान्सप्तमे पदे ॥ ९७ जानन्द्यर्मान्वासष्ठस्तु न च मन्त्रानिहेच्छति । इति सत्यव्रते रोषं वसिष्ठो मनसाऽकरोत् ॥ ९८ गुरुबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तदा । न तु सत्यव्रतोऽबुध्यदुपांशुव्रतमस्य वै ॥ ९९ तस्मिंश्चोपरते यो यत्पितुरासीन्महामनाः । तेन द्वादश वर्षाणि नाववर्षत्पाकशासनः ॥ १०० तेन त्विदानीं बहुधा दीक्षां तां दुर्बलां भुवि । कुलस्य निष्कृतिः स्वस्य कृतेयं च भवेदिति ॥ १०१ ततो वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् । अभिषेक्ष्याम्यहं राज्ये पश्चादेनमिति प्रभुः ॥ १०२ स तु द्वादश वर्षाणि दीक्षां तामुद्वहन्बली । अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ १०३ सर्वकामदुघां धेनुं स ददर्श नृपात्मजः । तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ १०४ दस्युधर्मं गतो दृष्ट्वा जघान बलिनां वरः । स तु मांसं स्वयं चैव विश्वामित्रस्य चाऽऽत्मजान् ॥१०५ भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदाऽत्यजत् । प्रोवाच चैव भगवान्वसिष्ठस्तं नृपात्मजम् ॥ १०६ पातये क्रूर हे क्रूर तव शङ्कुमयोमयम् । यदि ते त्रीणि शङ्कनि न स्युर्हि पुरुषाधम ॥ १०७ पितुश्चापरितोषेण गुरोर्दोंग्धीवधेन च । अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ १०८ एवं स त्रीणि शङ्कनि दृष्ट्वा तस्य महातपाः । त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः॥१०९ विश्वामित्रस्तु दाराणामागतो भरणे कृते । ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥ ११० छन्द्यमानो वरेणाथ गुरुं वव्रे नृपात्मजः । अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके ॥ १११ अभिषिच्य तदा राज्ये याजयामास तं मुनिः । मिषतां दैवतानां च वसिष्ठस्य च कौशिकः ॥११२ × विन्ध्यपाश्र्वे महापुण्या निम्नगा गिरिकानने । तस्य स्नानेन संभूता कर्मनाशा शुभा नदी ॥ सशरीरं तदा तं वै दिवमारोपयत्प्रभुः ॥ ११३


× नास्त्ययं श्लोकः क. ग. घ. ङ. पुस्तकेषु ।

[अ०८८श्लो०११४-१३९] वायुपुराणम् । ३२१ (वैवस्वतमनुवंशवर्णनम्)

मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् । अत्राप्युदाहरन्तीमौ श्लोको पौराणिका जनाः ॥ ११४ विश्वामित्रप्रसादेन त्रिशङ्कुर्दिवि राजते । देवैः सार्धं महातेजाऽनुग्रहात्तस्य धीमतः ॥ ११५ शनैर्यात्यबला रम्या हेमन्ते चन्द्रमण्डिता । अलंकृता त्रिभिर्भावैस्त्रिशङ्कुग्रहभूषिता ॥ ११६ तस्य सत्यरता नाम भार्या केकयवंशजा । कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ११७ स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः । आहर्त्ता राजसूयस्य सम्राडिति परिश्रुतः ॥ ११८ हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान् । हरितो रोहितस्याथ चञ्चुहारीत उच्यते ॥ ११९ विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः । जेता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥ १२० रुरुकस्तनयस्तत्र राजा धर्मार्थकोविदः । रुरुकादृष्टकः पुत्रस्तस्माद्बाहुश्च जज्ञिवान् ॥ १२१ हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः शकर्यवनकाम्बोजैः पारदैः पल्हवैस्तथा ॥ १२२ नात्यर्थं धार्मिकोऽभूतस धर्म्ये सत्ययुगे तथा । सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ॥ मृगोराश्रममासाद्य तुर्वेण परिरक्षितः ॥ १२३ आग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः । जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ॥ १२४ शकानां पल्हवानां च धर्मान्निरसदच्युतः । क्षत्रियाणां तथा तेषां पारदानां च धर्मवित् ॥ १२५

ऋषय ऊचुः-- कथं स सगरो राजा गरेण सह जज्ञिवान् । किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥ धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः ॥ १२६

सूत उवाच-- बाहोर्व्यसनिनस्तस्य हतं राज्यं पुरा किल । हैहयैस्तालजङ्घैश्च शकैः सार्धं समागतैः ॥ १२७ यवनाः पारदाश्चैव काम्बोजाः पल्हवास्तथा । हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा ॥ १२८ हतं राज्यं बलीयोभिरेभिः क्षत्रियपुङ्गवैः । हतराज्यस्तदा बाहुः संन्यस्य नु तदा नृपः ॥ वनं प्रविश्य धर्मात्मा सह पत्न्या तपोऽचरत् ॥ १२९ कस्यचित्त्वथ कालस्य तोयार्थं प्रस्थितो नृपः । वृद्धत्वादु दुर्बलत्वाच्च अन्तरा स ममार च ॥ १३० पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् । सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥ १३१ सा तु भर्तुश्चितां कृत्वा वह्निं तं समरोहयत् । और्वस्तां भार्गवो दृष्ट्वा कारुण्याद्विन्यवर्तयत् ॥ १३२ तस्याऽऽश्रमे तु तं गर्भं सागरेण तदा सह । व्यजायत महाबाहु सगरं नाम धार्मिकम् ॥ १३३ और्वस्तु जातकमीदीन्कृत्वा तस्य महात्मनः । अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ १३४ जामदग्न्यात्तदाग्नेयमसुरैरपि दुःसहम् । स तेनास्त्रबलेनैव बलेन च समन्वितः ॥ जघान हैहयान्क्रुद्धो रुद्रः पशुगणानिव ॥ १३५ ततः शकान्सयवनान्काम्बोजान्पारदांस्तथा । पल्हवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ १३६ ते बध्यमाना वीरेण सगरेण महात्मना । वसिष्ठं शरणं सर्वे प्रपन्नाः शरणैषिणः ॥ १३७ वसिष्ठस्तांस्तथेत्युक्त्वा समयेन महामुनिः । सगरं वारयामास तेषां दत्त्वाऽभयं तदा ॥ १३८ सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च । धर्मं जघान तेषां वै वेषान्यत्वं चकार ह ॥ १३९

४१

३२२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ८८ श्लो० १४०-१६४]

( वैवस्वतमनुवंशवर्णनम् )

अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ १४०
पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ १४१
शका यवनकाम्बोजाः पह्लवाः पारदैः सह । कालिस्पर्शा माहिषिका दार्वाश्चोलाः खसास्तथा ॥
सर्वे ते क्षत्रियगणा धर्मस्तेषां निराकृतः । वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥ १४३
स धर्मविजयी राजा विजित्येमां वसुंधराम् । अश्वं विचारयामास वाजिमेधाय दीक्षितः ॥ १४४
तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे । वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ १४५
स तं देशं सुतैः सर्वैः खानयामास पार्थिवः । आसेदुश्च ततस्तस्मिंस्तदन्तस्ते महार्णवे ॥ १४६
तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥ १४७
तस्य चक्षुः समासाद्य तेजस्तत्प्रतिपद्यते । दग्धाः पुत्रास्तदा सर्वे चत्वारस्त्ववशेषिताः ॥ १४८
बर्हिकेतुः सकेतुश्च तथा वर्मरथश्च यः । शूरः पञ्चवनश्चैव तस्य वंशकराः प्रभोः ॥ १४९
प्रादाच्च तस्य भगवान्हरिर्नारायणो वरान् । अक्षतत्वं स्ववंशस्य वाजिमेधशतं तथा ॥
विभुं पुत्रं समुद्रं च स्वर्गे वासं तथाऽक्षयम् ॥ १५०
स समुद्रोऽधमादाय ववन्दे सरितां पतिः । सागरत्वं च लेभे स कर्मणा तेन तस्य वै ॥ १५१
तं चाऽश्वमेधिकं सोऽश्वं समुद्रात्प्राप्य पार्थिवः । आजहाराश्वमेधानां शतं चैव पुनः पुनः ॥ १५२
षष्टिपुत्रसहस्राणि दग्धान्यश्वानुसारिणाम् । तेषां नारायणं तेजः प्रविष्ठानां महात्मनाम् ॥
पुत्राणां तु सहस्राणि षष्टिरस्तु इति नः श्रुतम् ॥ १५३

ऋषय ऊचुः-
सगरस्याऽऽत्मजा राज्ञः कथं जाता महाबलाः । विक्रान्ताः षष्टिसार्हस्रा विधिना केन वा वद ॥

सूत उवाच-
द्वे पत्न्यौ सागरस्याऽऽस्तां तपसा दग्धकिल्बिषे । ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥
कनीयसी तु या तस्य पत्नी परमधर्मिणी । अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ १५६
और्वस्ताभ्यां वरं प्रादात्तपसाऽऽराधितःप्रभुः । एका जनिष्यते पुत्रं वंशकर्तारमीप्सितम् ॥
षष्टिपुत्रसहस्राणि द्वितीया जनयिष्यति ॥ १५७
मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम् । वंशस्य कारणं श्रेष्ठा जग्राह नृपसंसदि ॥ १५८
षष्टिपुत्रसहस्राणि सुपर्णभगिनी तथा । *महात्मनस्तु जग्राह सुमतिः स्वमतिर्यथा ॥ १५९
अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत । असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ॥
सुमतिस्त्वपि जज्ञे वै गर्भं तुम्बे यशस्विनी । षष्टिपुत्रसहस्राणि तुम्बमध्याद्विनिःसृताः ॥ १६१
घृतपूर्णेषु कुम्भेषु तान्गर्भान्यदधत्ततः । धात्रीश्चैकैकशः प्रादात्तावत्यः पोषणे नृपः ॥ १६२
ततो नवसु मासेषु समुत्तस्थुर्यथासुखम् । कुमारास्ते महाभागाः सगरप्रीतिवर्धनाः ॥ १६३
कालेन महता चैव यौवनं प्रतिपेदिरे । षष्टिपुत्रसहस्राणि तेषामश्वानुसारिणाम् ॥ १६४


* एतदर्धस्थाने इदमर्धं 'महात्मा तु समहतो जग्राह सुमतीं तथा' इति ख. ग. घ. पुस्तकेषु ।

भगीरथस्तु तां गङ्गामानयामास कर्मभिः । तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ॥ १६९

[अ० ८८ श्लो० १६५-१९१] वायुपुराणम्। ३२३ (वैवस्वतमनुवंशवर्णनम् )

स तु ज्येष्ठो नरव्याघ्रः सगरस्याऽऽत्मसंभवः । असमञ्ज इति ख्यातो बर्हिकेतुर्महाबलः ॥ १६५ पौराणामाहिते युक्तः पित्रा निर्वासितः पुरा । तस्य पुत्रोऽंशुमान्नाम असमञ्जस्य वीर्यवान् ॥ १३६ तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः । दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥ १३७ येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता । ईजानेन समुद्राद्वै दुहितृत्वेन कल्पिता ॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥ १६८ भगीरथस्तु तां गङ्गामानयामास कर्मभिः । तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ॥ १६९ भगीरथसुतश्चापि श्रुतो नाम बभूव ह । नाभागास्तस्य दायादो नित्यं धर्मपरायणः ॥ १७० अम्बरीषः सुतस्तस्य सिन्धुद्वीपस्ततोऽभवत् । एवं वंशपुराणज्ञा गायन्तीति परिश्रुतम् ॥ १७१ नाभागेरम्वरीषस्य भुजाभ्यां परिपालिता । बभूव वसुधाऽत्यर्थं तापत्रयविवर्जिता ॥ १७२ आयुतायुः सुतस्तस्य सिन्धुद्वीपस्य वीर्यवान् । आयुतायोस्तु दायाद ऋतुपर्णो महायशाः ॥ १७३ दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बली । नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ॥ १७४ वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः । ऋतुपर्णस्य पुत्रोऽभूत्सर्वकामो जनेश्वरः ॥ १७५ सुदासस्तस्य तनयो राजा हंसमुखोऽभवत् । सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥ १७६ ख्यातः कल्माषपादो वै नाम्ना मित्रसहश्च सः । वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ॥ अश्मकं जनयामास इक्ष्वाकुकुलवृद्धये ॥ १७७ अश्मकस्योरकामस्तु मूलकस्तत्सुतोऽभवत् । अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥ १७८ स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् । विवस्त्राणामिच्छन्वै नारीकवचमीश्वरः ॥ १७९ मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः । तस्माच्छतरथाज्जज्ञे राजा चैडिविडो बली ॥ १८० आसीच्चैडिविडः श्रीमान्कृतशर्मा प्रतापवान् । पुत्रो विश्वमहत्तस्य पुत्रिकस्य व्यजायत ॥ १८१ दिलीप्तस्तस्य पुत्रोऽभूत्खट्वाङ्गद इति श्रुतिः । येन स्वर्गादिहाऽऽगम्य मुहूर्तं माप्य जीवितम् ॥ त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥ १८२ दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत । अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् ॥ राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥ १८३ रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः । भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥ १८४ माधवे लवणं हत्वा गत्वा मधुवनं च तत् । शत्रुघ्नेन पुरी तत्र मधुरा संनिवेशिता ॥ १८५ सुबाहुः शूरसेनश्च शत्रुघ्नसहितावुभौ । पालयामासतुः सुतौ वैदेह्यौ मधुरां पुरीम् ॥ १८६ अङ्गदश्चन्द्रकेतुश्च लक्ष्मणस्याऽऽत्मजावुभौ । हिमवत्पर्वताभ्यासे स्फीतौ जनपदो तयोः ॥ १८७ अङ्गदस्याङ्गदीया तु देशे कारपथे पुरी । चन्द्रकेतोस्तु मल्लस्य चन्द्रवक्त्रा पुरी शुभा ॥ १८८ भरतस्याऽऽत्मजौ वीरौ तक्षः पुष्कर एव च । गान्धारविषये सिद्धे तयोः पुर्यौ महात्मनोः ॥ १८९ तक्षस्य दिक्षु विख्याता रम्या तक्षशिला पुरी । पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥ १९० गाथां चैवात्र गायन्ति ये पुराणविदो जनाः । रामे निबद्धास्तत्त्वार्था माहात्म्यात्तस्य धीमतः ॥ १९१

३२४श्रीमद्वैपायनमुनिप्रणीतम्–[अ० ८८ - श्लो० १९२-२१५]

( वैवस्वतमनुवंशवर्णनम )

श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषितः । आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ १९२
दश वर्षसहस्राणि रामो राज्यमकारयत् । ऋक्सामयजुषां घोषो ज्याघोषश्च महास्वनः ॥ १९३
अविच्छिन्नो भवद्राष्ट्रे दीयतां भुज्यतामिति । जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥ १९४
तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः । सीतायाः पदमन्विच्छन्निजघान महायशाः ॥ १९५
सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा । अति सूर्यं च वह्निं च रामो दाशरथिर्बभौ ॥ १९६
एवमेव महाबाहुरिक्ष्वाकुकुलनन्दनः । रावणं सगणं हत्वा दिवमाचक्रमे विभुः ॥ १९७
श्रीरामस्याऽऽत्मजो जज्ञे कुश इत्यभिधीयते । लवश्चान्यो महावीर्यस्तयोर्देशौ निबोधत ॥ १९८
कुशस्य कोशला राज्यं पुरी चाऽपि कुशस्थली । रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥ १९९
उत्तराकोशले राज्यं लवस्य च महात्मनः । श्रावस्ती लोकविख्याता कुशवंशं निबोधत* ॥ २००
कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः । अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥ २०१
निषधस्य नलः पुत्रो नमः पुत्रा नलस्य तु । नभसः पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ २०२
क्षेमधन्वसुतो राजा देवानीकः प्रतापवान् । आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २०३
अहीनगोस्तु दायादः पारियात्रो महायशः । दलस्तस्याऽऽत्मजाश्चापि तस्माज्जज्ञे बलो नृपः ॥ २०४
औङ्को नाम स धर्मात्मा बलपुत्रो बभूव ह । वज्रनाभसुतस्तस्य शङ्खनस्तस्य चाऽऽत्मजः ॥ २०५
शङ्खनस्य सुतो विद्वान्ध्युषिताश्व इति श्रुतः । ध्युषिताश्वसुतश्चापि राजा विश्वसहः किल ॥ २०६
हिरण्यनाभकौशल्यो वशिष्ठस्तत्सुतोऽभवत् । पौत्रस्य जैमिनेः शिष्यः स्मृतः सर्वेषु शर्मसु ॥ २०७
शतानि संहितानां तु पञ्च योऽधीतवांस्ततः । तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥ २०८
पुष्यस्तस्य सुतो विद्वान्ध्रुवसंधिश्च तत्सुतः । सुदर्शनस्तस्य सुतः अभिवर्णः सुदर्शनात् ॥ २०९
अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मनुः स्मृतः । मनुस्तु योगमास्थाय कलापग्राममास्थितः ॥
एकोनविंशप्रयुगे क्षत्रप्रवर्तकः प्रभुः ॥ २१०
प्रसुश्रुतो मनोः पुत्रः सुसंधिस्तस्य चाऽऽत्मजः । सुसंधेश्च तथा मर्षः सहस्वान्नाम नामतः ॥ २११
आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति । तस्याऽऽसीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ॥ २१२
एते इक्ष्वाकुदायादा राजानः प्रायशः स्मृताः । वंशे प्रधाना ये तेऽस्मिन्प्राधान्येन तु कीर्तिताः ॥ २१३
पठन्सम्पूगिमां सृष्टिमादित्यस्य विवस्वतः । प्रजावानेति सायुज्यं मनोर्वैवस्वतस्य सः ॥ २१४
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिकृद्स्य च । विपाप्मा विरजश्चैव आयुष्मान्भवतेऽच्युतः ॥

  • अपुत्रो लभते पुत्रं दीर्घायुः परमां गतिम् ॥ २१५ .

इति श्रीमहापुराणे वायुप्रोक्त इक्ष्वाकुवंशानुकीर्तनं नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥
आदितः श्लोकानां समष्ट्यङ्काः–७९३५


*कुशस्थ कोशलाराज्यं लवस्य च महात्मन इत्यर्थं घ. पुस्तके । +नास्त्यर्थमिदं क. ग. घ. ङ्. पुस्तकेषु ।

〔अ०८५ श्लो० १–२२〕 (वैवस्वतमनुवंशकीर्तनम्)

वायुपुराणम् । ३२५

अथ नवाशीतितमोऽध्यायः । वैवस्वतमनुवंशकीर्तनम् ।

सूत उवाच-- अनुजस्य विकुक्षैस्तु निमेर्वंशं निबोधत । योऽसौ निवेशयामास परं देवपुरोपमम् ॥ १ जयन्तामिति विख्यातं गौतमस्याऽऽश्रमाभितः । यस्यान्यवाये जज्ञे वै जनकादृषिसत्तमात् ॥ २ नेमिर्नाम सुधर्मात्मा सर्वसत्त्वनमस्कृतः । आसीत्पुत्रो महाराज्ञ* इक्ष्वाकोर्भूरितेजसः ॥ ३ स शापेन वसिष्ठस्य विदेहः समपद्यत । तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ॥ ४ अरण्यां मथ्यमानायां प्रादुर्भूतो महायशाः । नाम्ना मिथिरितिख्यातो जननाज्जनकोऽभवत् ॥ ५ +मिथिर्नाम महावीर्यो येनासौ मिथिलाऽभवत् । राजासौ जनको नाम जनकाच्चाप्युदावसुः ॥ ६ उदावसोः सुधर्मात्मा जनितो नन्दिवर्धनः । नन्दिवर्धनतः शूरः सुकेतुर्नाम धार्मिकः ॥ ७ सकेतोरापि धर्मात्मा देवरातो महाबलः । देवरातस्य धर्मात्मा बृहदुत्थ इति श्रुतिः॥ ८ बृहदुत्थस्य तनयो महावीर्यः प्रतापवान् । महावीर्यस्य धृतिमान्सुधृतिस्तस्य चाऽऽत्मजः ॥ ९ सुधृतेरपि धर्मात्मा धृष्टकेतुः परंतपः । धृष्टकेतुसुतश्चापि हर्यश्वो नाम विश्रुतः ॥ १० हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतित्वकः । प्रतित्वकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ ११ पुत्रः कीर्तिरथस्यापि देवमीढ इति श्रुतः । देवमीढस्य विबुधो विबुधस्य सुतो धृतिः ॥ १२ महाधृतिसुतो राजा कीर्तिराजः प्रतापवान् । कीर्तिराजात्मजो विद्वान्महारोमेति विश्रुतः ॥ १३ महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत । स्वर्णरोमात्मजश्चापि ह्रस्वरोमाऽभवन्नृपः ॥ १४ ह्रस्वरोमात्मजो विद्वान्सीरध्वज इति श्रुतिः । उद्भिन्ना कृषता येन सीता राज्ञा यशस्विनी ॥ रामस्य महिषी साध्वी सुव्रताऽतिपतिव्रता ॥ १५

शांशपायन उवाच-- कथं सीता समुत्पन्ना कृष्यमाणा यशस्विनी । किमर्थं चाकृषद्राजा क्षेत्रं यस्मिन्बभूव सा ॥ १६

सूत उवाच-- अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः । विधिना सुप्रयुक्तेन तस्मात्सा तु समुत्थिता ॥ १७ सीरध्वजात्तु जातस्तु भानुमान्नाम मैथिलः । भ्राता कुशध्वजस्तस्य स काश्याधिपतिर्नृपः ॥ १८ तस्य भानुमतः पुत्रः प्रद्युम्नश्च प्रतापवान् । मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ॥ १९ ऊर्जवाहात्सुतद्वाजः शकुनिस्तस्य चाऽऽत्मजः । स्वागतः शकुनेः पुत्रः सुवर्चस्तत्सुतः स्मृतः ॥ २० श्रुतो यस्तस्य दायादः सुश्रुतस्तस्य चाऽऽत्मजः । सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ॥ २१ विजयस्य ऋतः पुत्र ऋतस्य सुनयः स्मृतः । सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ॥ २२


* अत्र समासान्ताभाव आर्षः । + इदमर्धं नास्ति ख. घ. पुस्तकयोः ।

३२६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८९-९० श्लो०२३-१।२१] (सोमजन्मकथनम्) धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः। तस्मिन्संतष्ठते वंशो जनकानां महात्मनाम्॥ इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥ २३ इति महापुराणे वायुप्रोक्ते मैथिलवंशानुकीर्तनं नाम नवाशीतितमोऽध्यायः॥ ८९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-७१९८


अथ नवतितमोऽध्यायः।

तत्र सोमजन्मविवरणम्।

सूत उवाच-- पिता सोमस्य वै विप्रा जज्ञेऽत्रिर्भगवानृषिः। तत्रात्रिः सर्वलोकानां तस्थौ स्वेनमये धृतः॥ १ कर्मणा मनसा वाचा शुभान्येव समाचरन्। काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः॥ २ सुदुश्चरं नाम तपो येन तप्तं महत्पुरा। त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्॥ ३ तस्योर्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहा। सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः॥ ४ ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः। सोमः सुस्राव नेत्राभ्यां दश वा द्योतयान्दिशः॥ ५ तं गर्भं विधिनाऽऽदिष्टा दश देव्यो दधुस्तदा। समेत्य धारयामासुर्नच तास्तमशक्नुवन्॥ ६ स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। यथाऽवभासयँल्लोकांशीतांशुः सर्वभावनः॥ ७ यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः। ततः स ताभिः शीतांशुर्निपपात वसुंधराम्॥ ८ पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः। रथमारोपयामास लोकानां हितकाम्यया॥ ९ स हि देवमयो विप्रा धर्मार्थी सत्यसंगरः। युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम्॥ १० तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि। तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः॥ ११ तत्रैवाङ्गिरसस्तस्य भृगोश्चैवाऽत्मजस्तथा। ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि॥ १२ ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः। आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः॥ १३ स तेन रथमुख्येन सागरान्तां वसुंधराम्। त्रिःसप्तकृत्वो विपुलश्चकाराभिप्रदक्षिणम्॥ १४ तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत। ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत॥ १५ ताभिर्धारयत्ययं लोकान्प्रजाश्चापि चतुर्विधाः। पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः॥ १६ स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्मभिः। तपस्तेपे महाभागः पद्मानां दशतीर्दश॥ १७ हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्। विभुस्तासां भवेत्सोमः प्रख्यातः स्वेन कर्मणा॥ १८ ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः। बीजौषधिषु विप्राणामपां च द्विजसत्तमाः॥ १९ सोऽभिषिक्तो महातेजा महाराज्येन राजराट्। लोकानां भावयामास स्वभावाश्चपतां वरः॥ २० सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः। ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः॥ २१