वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ १६०
मानान्तरसिद्धार्थस्यापि धर्मश्रद्धार्थपर्यवसायिभिः मन्त्रब्राह्मणैर्व्याजेन वर्णनसंभवात् । तथापि वैज्ञानिका यथा यन्त्रादिसाहाय्येन तत्तद्- पदार्थानां प्रयोगेण परिचिन्वन्ति, न तथा वैदिकविज्ञानवादिभिरापरो- क्ष्येण ते ते गुणधर्मा निश्चेतुं शक्यन्ते । उपपत्तियुक्तैरपि शब्दैः सञ्जातं ज्ञानं परोक्षमेव तिष्ठति। अत एव लौकिकमनो-वाक्-प्राणादि- व्यतिरिक्तानां जगन्मूलभूतत्वेनाभिमतानां मनोवाक्प्राणादीनां तद्विशे- षाणां वैज्ञानिकपदार्थत्वेनाभिमतानां वेदानां तद्विशेषाणामृगादीनाञ्च न वैज्ञानिकाथर्वदपरोक्षता संपादयितुं शक्यते । प्राचीनभाष्याकारैस्तु मन्त्रार्थवादानुरोधेन नानाविधलौकिका-ऽलौकिक-यौगिक-शाब्दिकार्थ- जातं विवृण्वद्भिरपि धर्मज्ञानस्यापरोक्षता नोच्यते । ब्रह्मणस्तु साक्षादप- रोक्षप्रत्यगभेदेन तज्ज्ञानस्य अपरोक्षता उच्यते । अत एव ब्रह्मसम्बन्धे 'मन्तव्यश्चोपपत्तिभिरित्युक्तम् । धर्मस्य भव्यत्वाद् ब्रह्मणश्च भूतत्वा- दुभयोर्वैलक्षण्यमिष्टमेव । यत्तूक्तम्— "अग्निमीळे पुरोहितमिति मन्त्रे पार्थिवोऽग्निः स्तूयते, न वैद्युत-सौरा-न्तरिक्ष्यादिव्याग्निः पुरोहितमिति विशेषणात् पुरः स्थितस्यैव अग्नेर्ग्रहणात्” इति। तदपि न रमणीयम्; प्रसिद्धार्थत्यागे मानाभावात् । लोकेषु येष्वर्थेषु ये शब्दाः प्रसिद्धाः वेदेऽपि तेषां शब्दानां त एवार्था इति मीमांसकसिद्धान्तात् । अग्निम् पुरोहितं यज्ञस्य देव- मूर्त्विजं होतारमित्येते सर्वेऽपि शब्दाः प्रसिद्धार्थकाः, तेन तदनुरोधे- नैव सायणोक्तोऽर्थः । यथा— 'अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ।' भाष्यम्-अग्निम् अग्निनामकं देवम्। ईडे स्तौमि। मन्त्रस्य होत्रा- प्रयोज्यत्वात् होतैवात्र स्तोता । कीदृशमग्निम् ? पुरोहितम् । यथा राज्ञः पुरोहितस्तदभीष्टं सम्पादयति, तथाऽग्निरपि यज्ञस्यापेक्षितं होमं सम्पादयति । एवं प्रथमं प्रसिद्धार्थानुरोधेन पुरोहितशब्दं व्याख्याय यौगिकार्था- नुरोधेनाऽऽह-यद्वा पुरः यज्ञस्य सम्बन्धिborder निवर्त्त भागे आहवनीयाग्नि-
पृष्ठ १६१
रूपेण हितं स्थितं पुरोहितम् । यज्ञपदसन्निधानाद् आहवनीयोऽग्निः पुरोहित इति श्लिष्टोऽर्थः । 'पार्थिवोऽग्निः पुरोहित' इति तु वैज्ञानिकाथं- लापनार्था क्लिष्टकल्पनैव, तस्य पुरोहितत्वाननुभवात्, यज्ञासम्बन्धत्वाच्च । यज्ञस्यापि प्रसिद्ध-यज्ञव्यतिरिक्तार्थकल्पनमपिल्पनमेव । किञ्च-यथा शालग्रामरूपेण पुरःस्थितस्यापि विष्णोः स्तवो न शालग्रामपाषाणमात्रस्य स्तवः, किन्तु सर्वकल्याणगुणाकरस्य सर्वेश्वरस्य विष्णोरेव स्तवः, तथैव अग्निनामकस्य देवस्य आहवनीयाग्निरूपेण वा पुरःस्थितस्य संस्कृताग्नेः संस्तवेन पार्थिव-वैद्युत-दिव्याग्न्यादिरूपेण व्यापकस्य पञ्चीकृतस्य अपञ्चीकृतस्य च मूलतेजसस्तदभिमानिनो देवस्य तदन्तर्यामिणश्च संस्तबो भवत्येव । पुनः कीदृशम् ? देवम् = दानादिगुण युक्तम् । पुनः कीदृशम् ? होतारम् ऋत्विजम् । देवानां यज्ञेषु होतृनामक ऋत्विक् अग्निरव । तथा च श्रूयते- 'अग्निर्वै देवानां होता' (ऐ० ब्रा० ३-१४) । पुनः कीदृशम् ? रत्नधातमम्, यागफलरूपाणां रत्नानामतिशयेन धारयि- तारं पोषयितारम् । यास्केन अग्निशब्दस्य बहुधा निर्वचनं कृतमेव—'अथातोऽनुक्रमिष्य- मागोऽग्निः पृथ्वीस्थानस्तं प्रथमं व्याख्यास्यामः । अग्निः कस्मात् अग्रणी- र्भवति ? अग्रम्, यज्ञेषु प्रणीयतेऽङ्गं नयति....' इत्यादिना (नि० ७।१४) । पृथिवीलोके स्थितोऽग्निः व्याख्यायते। कस्मात् प्रवृत्तिनिमित्ताद् देवताऽभिधीयते इति प्रश्नस्य अग्रणीः इत्यादिकमुत्तरम् । देवसेनानमग्रे भवतीत्यग्रणीः, 'अग्निर्देवानां सेनानीः' इति ब्राह्मणम् । 'अग्निर्मुखं प्रथमो देवतानाम् (ऐ० ब्रा० १.४), 'अग्निर्वै देवानांमवमः' ( ऐ० ब्रा० १.१ )। वाजसनेयिनस्तु- 'स वा एषोऽग्रे देवतानामजायत । तस्मादग्निर्नाम यज्ञेषु अग्निहोत्रेष्टिपशुसोमरूपेषु अग्रं पूर्वदिववर्त्याहवनीयदेशं प्रति गार्हपत्यात् प्रणीयते इति द्वितीयं प्रवृत्तिनिमित्तम् । सन्नममानः सम्यक् स्वयमेव प्रह्रीभवन् अङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविष्पाके प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् ।
पृष्ठ १९२
१९२ वेदस्वरूप-विमर्शः एवं न कोपयति, न स्नेहयति, किन्तु काष्ठादिकं रूक्षयतीत्यग्निः। एवम् इतः इण् गतौ, अक्तः अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, दग्धः दह भस्मीकरणे, नीतः णीञ् प्रापणे। तथा च अग्निशब्द एतिधातोरुत्पन्नान् अयनाद् अकारमादत्ते। अनक्तिगतं ककारम्, तस्य गादेशं कृत्वा ऽऽदत्ते। यद्वा-दहतेर्दाघरूपाद् गकारमादत्ते। नीञ्धातुर्ह्रस्वो भूत्वा परो भवति। एवं धातुत्रयं मिलित्वा अग्निशब्दो भवति। तथा च यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति, काष्ठदाहे हविष्पाके च प्रेरयतीति समुदायार्थः। पुरोहितशब्दस्यापि 'यद्देवापिः शं तनवे पुरोहित' इति मन्त्ररीत्या भाष्यार्थ एव समर्थ्यते। तैत्तिरीयाश्च पौरोहित्ये स्पर्धमानस्य पश्वनु- ष्ठानं विधाय तत्फलत्वेन पुर एनं दधते इत्यामनन्ति। देवशब्दस्यापि निरुक्तकारेण अनेकधा अर्थो बोधितः। देवशब्दो दान-दीपन-द्योतनानामन्यतमम् अर्थमाचष्टे। यद्यपि अग्निः पृथिवीस्थानः, तथापि देवानां हविर्वहनाद् द्युस्थानो भवति। होतृशब्दस्य देवानामाह्वाता अर्थः। जुहोतेर्निष्पन्नत्वे तु होमा- धिकरणत्वेन होतृत्वम्। तदेवं मन्त्र-ब्राह्मण-सूत्र-यास्कस्कन्दस्वामिवि- शाकपण्यादि विविध-निरुक्तकार-पाणिन्यादि-व्याकरणपारम्पर्यायाश्रयेणैव सायणभाष्यं प्रवृत्तम्। तेन वेदाक्षरग्रहणवत् वेदार्थस्यापि पारम्पर्येण ग्रहणं युक्तम्। पारम्पर्यानुसार्यैव सायणभाष्यम्, तत्रैव सर्वसामञ्जस्यञ्च। यदुक्तम्—'वेदार्थसम्प्रदायलोपेन' वैज्ञानिकार्थविलोपो इति। तदपि न; वेदाक्षरसम्प्रदायाविलोपेस्त्वेव वेदार्थसम्प्रदायस्याप्यविलोपाप- त्तेः। 'व्यास शुकं गौडपदं महान्तं गोविन्दयोगोन्द्रमथास्य शिष्यम्। श्रीशङ्कराचार्यम्...' इत्यादि पारम्पर्योपलब्धेश्च। एवं जैमिनि-शबर- कुमारिलादिक्रमेणापि वेदार्थसम्प्रदायोऽक्षुण्ण एवासीत्। याज्ञिकपद्ध- तयस्तदनुसारिणि कर्मानुष्ठानानि चाद्यापि प्रचलन्ति। तेन परम्पराप्राप्त एवार्थः सायणादिभिर्वर्णितः। यदुक्तम्—'सर्वत्रावस्थितोऽग्निः किं करोतीति आह—देवमिति द्वितीयेन विशेषणेन। नैकान्ततः सत्तां जहाति, तदिदं सर्वं यज्ञकृतं स्वीयानां भावानामन्यत्रार्पणम्। अन्यतश्च भावानाम् आपानम्, इतीयम्
पृष्ठ १९३
वेदस्वरूप-विमर्शः १९३ आदान-प्रदानप्रक्रिया यज्ञः। यथा प्रदीपः प्रकाशं सर्वत्रार्पयति तैला- वयवांश्च अजस्रमुपादत्ते, वृक्षलताः पुष्पफलानि ददति, पृथिव्या अपाञ्च रसमजलमाददते, प्राणिन आहारमाददते, मलं बलञ्च तत्र तत्र प्रयोजयन्तीति सुस्फुटं सर्वत्रानुभूयते। सूक्ष्मतया दृशा सोऽयमादान- प्रदानापरपर्यायः अन्नाऽन्नाद्भाव एव प्राकृतो यज्ञ उच्यते। स चाग्नि- साध्य इत्यग्निरेव यज्ञदेवः। अग्नौ सोमाहुतिरेव यज्ञसम्पादिका। अनेन यज्ञेन सर्वेषामुत्पत्तिः स्थितिश्च, प्राणिनामन्नपोषो वृक्षादीनां पर्ण- पुष्पादिप्रसवश्च सर्वोऽग्नियज्ञसाध्य" इति। तदुच्यते—काण्वे बृहदारण्यकोक्त-मधुब्राह्मणेन सर्वस्यैव प्रपञ्चस्य परस्परोपकार्योपकारकभाव उक्तः। यथा—'इयं पृथिवी सर्वेषां भूतानां मधु, अस्यै पृथिव्यै सर्वाणि भूतानि मधु, यथैको मध्वपूपोऽनेकैर्मधुकरी- र्निर्वर्तित एवमेव पृथिवी सर्वैर्भूतैर्निर्वर्तिता, तथा सर्वाणि भूतान्यस्यै पृथिव्यै। पृथिव्या अस्या मधु कार्यम् (बृहदारण्यके)। एवमेव इमा आपा, अयमग्निः, अयं वायुः, अयमादित्यः, इमा दिशः, अयं चन्द्रः, अयं स्तनयित्नुः, अयमाकाशः, अयं धर्मः, इदं सत्यम्, इदं मानुषम्, अयमात्मा इत्येवं परस्परोपकार्योपकारकभावेन आत्मप्रभव- प्रलयत्वमुक्तम्। तत एव प्रतिपर्यायं 'यश्चायमस्मिन् पृथिव्याम् अप्सु आत्मनि तेजोमयोऽमृतयः पुरुषः, यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मद सर्व सर्वम्। अन्ते स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां, भूतानां राजा। तद्यथा—रथनाभौ रथनेमौ चाराः समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि, सर्वे देवाः, सर्वे लोकाः, सर्वे प्राणाः, सर्व एत आत्मानः सम- र्पिताः" इति परिशिष्टस्य विज्ञानमयस्य परमात्मभावमुक्त्वा तत्रैव समर्पितत्वञ्च उक्त्वा तस्यैव सर्वाधिष्ठानत्वेन सर्वपालकत्वं सर्वात्म- त्वञ्च विशदीकृतम्। तस्मिन्नेव च 'अहमन्नमहमन्नम्, अहमन्नादोऽह- मन्नाद' इत्यादीना सर्वात्मभावेन परस्यैव अन्नाऽन्नाद्भाव उक्तः। एवं यज्ञासादृश्येन यज्ञारोपोऽपि तत्र तत्र दृश्यत एव। तेन आदान- प्रदानप्रक्रियायामपियज्ञारोपः शक्यते कर्तुम्; तथापि स एव यज्ञशब्दार्थ वै० वि० १२
१९४ वेदस्वरूप-विमर्शः इति तु न युक्तम् । यज् देवपूजासङ्गतिकरणदानेषु इति धातोर्निष्पन्नस्य याज्ञिकैः परिभाषितस्य द्रव्यदेवतामयस्य संस्कृताग्न्यधिकरण-स्रुक्स्रुक् च- र्वाद्यधिकरणकाऽऽध्वर्यवाद्विक साध्य - स्वर्गाद्युद्देश्यक-मन्त्रहविरादि- सम्पाद्यषडहादशा दियागनिर्वर्त्यस्य कर्मविशेषस्यैव यज्ञपदव्यपदेश्यत्वात् । अत एव 'द्रव्यं देवता त्यागः' (कात्या० १ अ०) इति यागस्वरूपं निरूपितम् । देवतोद्देश्येन क्रियमाण-स्वस्वत्वनिवृत्त्यनुकूलो व्यापार एव यागः । तत्रापि तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्या- वन्तो यजतयो भवन्ति । उपविष्टहोमाः स्वाहाकारप्रदाना जुहो- तयः । स्वाभाविकाऽऽशान-प्रदानात्म कप्रक्रियाया एव यज्ञत्वे न सङ्गतिः, तस्याः स्वतःसिद्धत्वात् विज्ञानानुपपत्तेः, 'विधिरत्यन्तमप्राप्तौ' इति मीमांसकप्रसिद्धेश्च । ततदारोपेण ब्रह्मज्ञानेऽपि यज्ञत्वारोपः । 'ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्मसमाधिना ॥' अत्रापि अर्पणमिति स्रुगादिद्रव्येऽपि ऋत्विङ्मन्त्रादिकं विवक्षितम् । अग्निहविरादिवर्णनं तु स्पष्टमेवोक्तम् । यस्मिन्नर्थे यः शब्दो लोके प्रसिद्धः, वेदेऽपि तस्मिन्नेवार्थे स ज्ञातव्य इतिरीत्या लोकप्रसिद्धयज्ञशब्दार्थो ग्राह्यः । मन्त्र-ब्राह्मण-सूत्रादिभिर्निरुक्तः पारिभाषिको वाप्यो ग्राह्यः । सर्वपदार्थजातं चिद्भिन्नं दृश्यमानमदृश्यमानं वा प्राकृतत्वादेव परिवर्तमानम् । परिवर्तमानञ्च नैकान्ततः सत्तां जहातीति निरन्वय- विनाशानभ्युपगन्तॄणां सांख्य-योग-वेदान्तिनामिष्टमेव, 'चलञ्च गुणवृत्तम्, क्षणपरिणामिनो हि भावा ऋते चितिशक्तेः इत्यादिसिद्धेः । सत्त्वरजस्तमसा मपि अङ्गाङ्गिभावतयैव कार्यकारित्वसिद्ध्या तदात्म- कानां प्राकृतभावाना मपि तथात्वमुचितमेव । तस्मिन्नर्थे यज्ञत्वारोपोऽपि कर्तुं शक्यते । सत्यप्येवं विधिप्राप्ते एव्यारोपः फलवान्, निष्फलश्चावैधः । 'योषा वाव गौतमाग्निः इत्यादिरूपेण पञ्चाग्निविद्यासु योषादिष्वग्नि- दृष्टिः पुरुषशुक्रादिषु हविर्दृष्टिश्च विहितत्वादेव सफला । 'तस्या वेदिदुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यस्तौ मुष्कौ स यावान् वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति'
वेदस्वरूप-विमर्शः १९५ इत्यादिना मैथुनकर्मणि वाजपेयत्वसम्पादनमपि विधिबलादेव क्रियते । यथा प्रसिद्धस्य सिंहस्य शौर्यक्रौर्यादिगुणयोगेन अन्यत्रा- रोपेणैव सिंहत्वं व्यपदिश्यते, तथैव केनचिद्गुणयोगेन प्रसिद्धस्य यज्ञस्यैव अन्यत्र आरोपो भवति । प्रसिद्धयज्ञस्यैव दानादिगुण- युक्तोऽग्निरिज्यत्वेन देवः, यज्ञापेक्षित-होम सम्पादकत्वेन पुरोहितः, आहवनीयाग्निरूपेण वा पुरोहितः, देवानां यज्ञेषु होतृकर्मसम्पा- दकत्वेन च होता ऋत्विगित्याद्युक्तमेव । किञ्च-विधिप्रयुक्ताया एवाग्नौ सोमाहुतेर्यज्ञत्वम् । परापचिकर्षया तदन्नघृतादीनां वह्नौ निक्षेपस्य यज्ञपदार्थत्वाभावान्न, क्षेत्रादिषु बीजादि- निक्षेपस्य यज्ञत्वेन अप्रसिद्धत्वान्न । भौतिकपदार्थोत्पत्त्यादिषु तु सर्वेषां भूतानां प्राणात्मादीनामपि उपकारकत्वमस्त्येवेति कुतोऽग्निनैव सर्वेषा- मुत्पत्तिः ? सर्वोत्पत्तिहेतुत्वेन अग्नेर्यथा देवत्वं तथैव अबादीनामपि देवत्वं भवेदेवेति कुतो वा विशिष्ट्योक्तिः ? प्रसिद्धे यज्ञे तु अग्निमुखेन सर्वैर्देवैः हविर्गृह्यत इति तस्य यज्ञस्य देवत्वं सम्भवतीति । यदुक्तम्- 'प्र मातुः प्रतरमिति मन्त्रेऽयमर्थः स्फुटः' इति । तदपि चिन्त्यम्; सायणादिभिस्तस्य अन्यथा व्याख्यातत्वात् । तथा हि- 'प्र मातुः प्रतरं गुह्यमिच्छन् कुमारो न वीरुधः सर्पदूर्वीः । ससं नपक्वमविच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥' ( ऋ० सं० १०.७९.३ ) अत्रत्यं सायणभाष्यम्-आग्नेयं त्रैष्टुभम्, सौचीकगुणोऽग्निः ऋषिः, वैश्वानरगुणो वा । सभिनां वाजम्भरपुत्रो वा ऋषिः । पूर्वं द्वाभ्यां मन्त्राभ्यामग्ने रूपगुणादिकं वर्णितम् । प्रथमेन मर्त्यासु वित्सु मनुष्य- रूपासु प्रजासु तासां हृदये वैश्वानररूपेण अमर्त्यस्य दावाग्निरूपेण भूरिखाद्यमरण्ये भक्षयन्त्यौ स्तोतारमसंखादन्त्यौ नानाहन् संभरतो महतोऽग्नेर्महत्त्वमुक्तम् । द्वितीयेन च तस्यैव वैशिष्ट्यमेवं वर्ण्यते । अस्याग्नेः शिरः मूर्धा गुहायां मनुष्योदरेषु वर्तते । तथा अक्षी अक्षिणी पृथक् चन्द्रसूर्यात्मना निहिते । ईदृशः अस्मिन्वन् दन्तै रसं खादन्नं
यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
[पृष्ठ १९६]
१९६ वेदस्वरूप-विमर्शः जिह्वया वनान्यत्ति। अस्मै अध्वर्य्यादयः पद्धद्भिः पादैरभिगम्य अग्राणि हवींषि संभरन्ति। उत्तानहस्ता पात्रधारणार्थमुन्नतकराः नमसाऽयुक्ताः। कुत्र ? अधिविक्षु प्रजासु ऋत्विक्षु वा। अयमग्निः मातुः पृथिव्याः सम्बन्धिन्यः उर्वी बह्वीः वीरुधः लता इच्छन् तथा प्रतरं प्रकृष्टतरं गुहां गोप्यं तासां वीरुधां मूलमपीच्छन् प्रसर्पत् प्रसरति। किमिव ? कुमारो न कुमार इव। स यथा स्तन्यं पातुं जानुभ्यां सर्पति तद्वत्। 'ससन्नपक' पकमन्नमिव शुचन्तं दीप्यमानं नीरसं वृक्षं रिपः पृथिव्याः उपस्थे अन्तः अविदत् विन्दति। पुनः कीदृशम् ? रिरिह्वांसम् आकाश- मास्वादयन्तम्। यद्वा—मूलैर्भावरं पृथिवीं रिरिह्वांसमिति
Here is the complete, line-by-line transcription of the Sanskrit text from the image, preserving all Vedic citations, references, and punctuation:
[पृष्ठ १९८]
तिर्यगूरसप्रसार एव शाखापर्णादिजनकः । तस्यैव च रसस्य पर्णपुष्प- फलादिरूपेण परिणामः” इति । तदपि न किञ्चित्; धरणिजलानिलादियोगेनैव बीजाद् वृक्षादीना- मुत्पत्तिप्रसिद्धेः । तत्र सति विधाने कस्मैचित् फलाय यज्ञत्वारोपोऽपि कर्तुं शक्यते । विधानाभावात्तु वृथैव तत्कल्पनम् । अत एव मन्त्रेषु न यज्ञत्वोक्तिर्दृश्यते । विहितानामेव चाग्नौ सोमप्रक्षेपादीनां यागत्वम् , न स्वरूपेण सताम् । यदुक्तम्—'कस्य वृक्षलतादेः कियती प्रसृतिरूर्ध्वं तिर्यग्वेति सर्वमिदं मूले स्थितस्य प्राणस्याऽऽयत्तम् । सेयं मूलशक्तिरेव अस्यामृचि प्रतरं गुहामिति सङ्केतिता । प्रसरतः पार्थिवस्य रसस्य कृष्णवर्णताया आदित्यस्य च 'पिशङ्गं द्रापिं प्रतिमुञ्चते कविः' (ऋ० सं० ४.५३.२) इति पीतवर्णवायाः श्रुतत्वेन उभयोः संयोगाद्धरितं रूपं वृक्षपर्णादिषु उपलभ्यते । यदा तु यमेन प्रतिद्धो रसे नोपसर्पति तदा केवलस्याऽऽदि- त्यस्य पीतमेव रूपं पर्णेषु प्रतिभासते । तदा मूलात् प्रवर्त्यं प्रावोऽयमग्निः पृथगवस्थया पर्णादिषु स्थिरो भवति । एवमेव शुष्केष्वन्नेष्वपि भिन्नयैव अवस्थया अग्नेरवस्थितिः । ते उभे अप्यवस्थे पृथगुचि प्रतिपादिते— 'अग्निर्वे शर्माण्यान्तानि प्रयच्छति' इति । ब्राह्मणेषु च विस्पष्टीकृतं विवरणमि'ति । तदपि न क्षोदक्षमम्; तत्तत्सहकारिसापेक्ष-बीजशक्त्यनुसारेणैव वृक्षलतादीनां तिर्यगूर्ध्वादिसप्ररणोपपत्तौ प्रागायत्तत्वकल्पनाया अन्यथा- सिद्धत्वान्न, निष्प्रमाणकत्वाच्च । अन्वयव्यतिरेकौ च तत्रैव सङ्गतौ । तथा हि—क्षीणाद्बीजाद्भूष्यां भूमौ तत्तदुपवजलाद्यभावे अल्पप्रसरमङ्कु- रादिकं जायते । पुष्टाद्बीजादुर्वरायां भूमावुपचादिसाहचर्याद् बृहत्प्रसरत् तदुपलभ्यते । किञ्च—अद्यत्वे तु विविधोपचजल विद्युदादिसमवधानेन स्वेच्छया तत्तत्प्रसङ्गादिकं सम्पाद्यते । यदि प्रजापतिशक्तिरपि तदनुविधायिन्येव तर्हि कृतं बराक्या तया, तैरेव तदुपपत्तेः । तथा च यथा बीजशक्त्यनुरोधिनः
[पृष्ठ १९९]
अङ्कुर-नाल-स्कन्ध-पत्र-पुष्प-फल-रसादिभेदास्तथैव तत्प्रसरणादिकमपि तदनुरोध्येवेति मन्तव्यम् । 'प्रतरं गुहाम्' इति पदाभ्यां कथं प्रागशक्तिः सङ्केतितेति तु नावगन्तुं शक्यते । 'प्रतरं प्रकृष्टतरं गुहां तासां वीरुधां मूलमिति तु सायणाक्तिः श्लिष्यते, तत्राप्यग्नेः प्रसर्पणस्य दृष्टत्वात् । एवं रसादिवद्वर्णादि- व्यवस्थाऽपि बीजशक्त्यनुसारिण्येवेति तत्रापि कारणान्तरान्वेषणं व्यर्थमेव । 'पिशङ्गं द्रापिमिति पूर्णो मन्त्रस्त्वित्थम्— 'दिवो धर्त्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । विचक्षणः प्रथयन्नापृणन्वूर्वजीजनत् सविता सुम्नमूक्थ्यम् ॥ (ऋ० सं० ४.५३.२) तदर्थस्तु—दिवो धर्ता धारकः । न केवलं दिवः, अपि तु भुवनस्य कृत्स्नस्य लोकस्य धर्ता प्रजापतिः, प्रकाशवृष्ट्यादिना प्रजानां पालयिता । कविः प्राज्ञो देवः पिशङ्गं द्रापिं हिरण्यमयं कवचं प्रतिमुञ्चते आच्छा- दयति प्रत्युदयम् । विचक्षणः विविधं द्रष्टा स एव देवः प्रथयन् प्रख्या- पयन् तेजः आपृणन् आपूरयन् परितः उरु प्रभूतं सुम्नं सुखम् उक्थ्यं स्तुत्यम् अजीजनत् उत्पादयति । एवं यदुक्तम्—“ऋत्विजमिति तृतीयं विशेषणमपि, ऋतुभिर्यजति इति, ऋतून् यजति ददाति इति वा तस्यार्थः । प्रथमे विग्रहे ऋतवस्य सौराग्नेरवयवा एव ऋतुशब्दार्थः । द्वितीये तु तत्तत्फलपुष्पादिजनकत्वेन प्रसिद्धकालः, स काल एव ऋतुशब्दार्थः । उभयथापि सौराग्निना सङ्गतोऽयं पार्थिवोऽग्निः तत्तद्ऋतुव्यपदेशप्रयोजक इति सिद्ध्यति । सौरस्य संवत्सररूपतामाप्रस्य अग्नेरेपेक्षयैव ऋतूनां नामान्यपि कृप्तानि । अग्नयोऽत्र वसन्तः क्रमेण सर्वत्र व्याप्सुवानाः सन्ति स कालो वसन्तः । यदा तु सर्वानर्थान् गूढानः आत्मसात्कुर्वाणोऽस्ति स कालो ग्रीष्मः, ग्रहघातोर्निष्पन्नतवात् । यदा तेऽग्नयः प्रवृद्धा भवन्ति तदा वर्षा, वृध् धातोः निष्पन्नतवात् । शरन्तोऽग्नयो यत्र स शरत्कालः । हीनवायां
२०० वेदस्वरूप-विमर्शः हेमन्तः । सर्वथा विशीर्णेषु शिशिरः । जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यति इति यास्कपरिपाठिताः षड्भावविकारा एव ऋताग्नि- सम्बन्धेनेह ऋतुवाचकैः शब्दैः प्रदर्शिताः" इति । तदपि न सङ्गतम्; प्रसिद्धार्थं परित्यज्य क्लिष्टार्थकत्पने माना- भावात् । ऋतुशब्देन ऋताग्नेरवयवा ग्राह्या इत्यपि प्रमाणापेक्षमेव । वस्तुतस्तु—विदितपदतदर्थसम्बन्धानां मन्त्रपदानांमभिधादिवृत्तिभिः प्रतीयमानोऽर्थो वेदार्थो भवति । अत्र तु कञ्चनार्थं मनसा निर्धार्य तस्मिन्नेवार्थे मन्त्राणां योजनं प्रतीयते । यत्तु—ऋतुः सौरोऽग्निरेव ऋतूनां प्रधानं कारणम्, परं नैकरूपः स विभिन्नप्रकारानृतून् जनयितुमलमिति सोमसम्बन्धस्तत्र विभिन्न- दशासम्पादनाय अपेक्षणीयः। सोममण्डलञ्च चन्द्र इति चन्द्रस्यापि ऋतुजनकत्वमाम्नातम्" इति । तन्न ; मन्त्रान्तरे ऋतूनामुत्पत्तौ चन्द्रस्यैव प्राधान्यवर्णनात् । तथा हि— 'पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् । विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥' ( ऋ० सं० १०.८५.१८ ) सूर्याचन्द्रमसावस्मिन्
२०२ वेदस्वरूप-विमर्शः इति मनुः (२।१४३) तेऽद्ययज्ञे षोडश भवन्ति (शब्दार्थचिन्ता- मणिः) तेन ऋत्विक्शब्दो याजकादिपर एव । यच्च - "होतारमिति चतुर्थविशेषणं हेञ्-धातोर्निष्पाद्य ब्राह्मणेपु व्याख्यातम् । तेन अग्निद्देवानाह्वयति, अग्निद्वारैव अस्माकं सौर- मण्डलस्थैर्देवैः सम्बन्ध इति गम्भीरतत्त्वं विज्ञायते, यद्यपि सर्वथा- परोक्षं वैज्ञानिकानामिविति । तदपि न किञ्चित्; वैदिकप्रसिद्धेरेव वेदार्थो- पपत्तेः । तथा हि-होतृनामकेन ऋत्विजा मन्त्रैर्देवा नामाह्वानं विहितम् । अग्निरपि देवेषु ब्राह्मणो होतृनामक ऋत्विक् चासीत् । मन्त्रशक्तिश्च अचिन्त्या वैदिकैरभ्युपेयत एव । तेन मन्त्रैर्देवा नामाह्वानं सङ्गच्छते । यदपि- "रत्नधातममिति रत्नानामुत्पादयितेति भूगर्भविज्ञानं स्फुटयति" इति । तदपि न शोभनम्; यतः प्रकृतयज्ञादिप्रसङ्गे नानाविध- फलरूप-रत्नधारयितृत्वरूपस्यैवार्थस्य समञ्जसत्वात् । किञ्च-धर्मब्रह्म निरूपणप्रसङ्गेन अनेके लौकिकालौकिकाश्च अर्था मन्त्रेभ्यो ब्राह्मणेभ्यश्च प्रस्फुटन्ति, इत्यत्र नास्ति विप्रतिपत्तिः । परं तावतैव 'रत्नधातमम्' इत्यनेनैव भूगर्भविज्ञानं कथं सिद्ध्यति ? 'अग्निर्हिमस्य भेषजम्'ति प्रत्यक्षसिद्धमपि अर्थमनुवदत्येव श्रुतिरर्थान्तर- विवक्षया । इतिहासवर्णनमपि पुराकल्पार्थवादरूपमेव, अनादि- वेदे घटनानुसारीतिहासस्यासम्भवात् । वेदशब्देभ्यो जगज्जन्मश्रवणाद् वैदिकशब्दानुसारिण्यो भवन्त्यो घटनास्तु न वार्यन्ते । वैदिकलट्लङादीनां कालसामान्यमेवार्थ इत्युक्तमेव । तेन अनादिवैदिकगम्या यज्ञा नित्यसिद्धा अपि कस्मिंश्चित् कल्पादौ कैश्चिदङ्गसम्प्रदाय एव प्रवर्तितः, तस्यैव सङ्केतो निम्नोद्धृतेन (ऋ० सं० १, १६५, ५०) मन्त्रेण भवति- 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥' इति । तदर्थस्तु-यथा इन्द्रादयो देवा यज्ञेन ज्योतिष्टोमेन यज्ञपुरुषं वासुदेवं विधिना अयजन्त, यतस्तानि यजनरूपाणि धर्माणि प्रथमान्यासन् । ते ह महाभाग्ययुक्ताः नाकं स्वर्गं सचन्त सेवन्ते यत्र पूर्वे साध्याः प्रथमे सुराः विद्यन्ते सन्ति देवा तेजसा देदीप्यमानाः । तेन प्रवाहनित्यायां
वेदस्वरूप-विमर्शः २०३ सृष्टौ पूर्ववदेव यज्ञादिपारम्पर्यं प्रचलति । 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पत्' (ऋ० सं० १०.१९०.३) इत्यादि-मन्त्रवर्णात् । यच्च- "इषे त्वोर्जे त्वे'ति व्याख्याने उक्तम्, इडित्यन्नम् । ऊर्गिति बलम्, तद्वायोरेव अन्नबलसम्पादकत्वं वृष्टिद्वारेणेति वायोर्र्गुणाः । वायौ च गतिः सूर्यप्रेरणयैवेति विज्ञानसिद्धान्तः स्फुटीभवति । हे वायवः सविता देवो वः प्रार्पयतु प्रेरयतु । सूर्यप्रेरणया वायो गतेः सुप्रतिपन्नत्वात् । सवितृप्रसूत एष पवते इति शतपथे व्याख्यातत्वात् । किञ्च-यज्ञो हि श्रेष्ठतमं कर्म, तस्मै यूयमाप्यायध्वम्, परिपुष्टा भवत । व्याख्यातत्पूर्वस्य प्राकृतयज्ञस्य वायुपरिपोषाधीनत्वमत्र शिक्षितमिति । तन्न; तादृशार्थस्य मन्त्राक्षराननुगमात् । त्वा त्वा स्थ इति पदत्रयस्य अर्थानुक्तेश्च । मन्त्रस्तु- 'इषे त्वोर्जे त्वा वायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे। आप्यायध्वमघ्न्याऽ इन्द्राय भागं प्रजावतीरनमीवा अयक्ष्मा मावस्तेन ऽईशत माघशंसो ध्रुवा अस्मिन् गोपतो स्यात बह्वीर्यजमानस्य पशून् पाहि ॥' (यजुःसंहिता, १. १) इति । मन्त्रस्यास्य न भवदभिमतस्य प्राकृतयज्ञस्य श्रेष्ठतमत्वकथनेऽभिप्रायः, तस्य स्वतःसिद्धत्वात्, ब्राह्मणसूत्रानन्वयाच्च । महीधरानुसारी त्वय- मर्थोऽस्य मन्त्रस्य- 'तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्दर्शपूर्णमासौ' इति श्रुतेरुक्तमन्त्राणां परमेष्ठी प्राजापत्य ऋषिः । 'ते देवा अकामयन्त' इत्यु- क्रम्य तत एतं हविर्यज्ञं दृष्टशुर्यद्दर्शपूर्णमासौ देवानामार्षं कथ्यते । सर्वाण्येव यजूंष्यस्मिन्नध्याये । पुरा क्रूरस्येतीयं त्रिष्टुप् । अन्यत्तुच्छन्धा इषे त्वा इति द्विपदो मन्त्रः, त्र्यक्षरत्वाद्देवत्यनुष्टुप् । 'इषे त्वा शाखां छिनत्ती'ति श्रुत्या शाखाच्छेदे विनियुक्तः। न चाख्यातमुपलभ्यतेऽत्र । न ह्याख्यातं विना वाक्यं किञ्चिद्विधत्ते इत्यध्याहारेण वाऽनुषङ्गेण वा वाक्यपूर्तिः कर्तव्या । तत्र लौकिकोऽध्याहारो भवति । यथा-पिनष्टि प्राणाय त्वेति प्रतिमन्त्रं प्राणाय त्वा पिनष्मि इति । अनुपङ्गस्तु
यामि" or "सन्नमयामि"? Look at the word: 'सं' with anusvara, then 'य' or 'न'? Wait, the sūtra has "सन्नमयामीति"! In line 15: 'स', 'ं', 'य' or 'न'? Look at the anusvara: there is a dot on 'स'. Then the next letter is 'य' (with an e/a-matra? No, 'य'). Then 'म', 'या', 'मि'. Wait, "संयमयामि"? Yes, 'संयमयामि' (I restrain/straighten)!
ऊर्ज ऊर्ज बलप्राणनयोः, ऊर्जयति सर्वान् मनुष्यपश्वादीन् बलयति Wait, "ऊर्ज ऊर्ज" or "ऊर्ज" then something? Look at line 16: First word: 'ऊर्ज' Second word: 'ऊर्ज' with a root sign or hyphen? Wait: "ऊर्ज बलप्राणनयोः" -> The Dhātupāṭha root: "ऊर्ज बलप्राणनयोः" (Churādi, ऊर्ज बले or ऊर्ज बलप्राणनयोः). Look at line 16: The first word is "ऊर्ज". Then the next word is "ऊर्ज" or "ऊर्जी"? Wait, look: "ऊर्ज ऊर्ज बलप्राणनयोः" -
Here is the line-by-line transcription of the text from the image:
[पृष्ठ २०६]
किञ्च—'यूयं गोपतो युष्माकं पत्यौ यजमाने ध्रुवाः शाश्वतिकीः बह्वीर्बहुविधाः स्यात भवत । पुनश्च 'यजमानस्य पशून्पाह्यग्न्यागारस्याम्यतरस्य पुरस्ताच्छाखा- मुपगूहति' इति (४. २. ११) कात्यायनसूत्रानुसारेण यजमानस्य पशूनिति मन्त्रेण आहवनीयागारस्य गार्हपत्यागारस्य वा पूर्वभागे शाखां स्थापयेदध्वर्युः । मन्त्रार्थस्तु—हे पलाशशाखे त्वमुन्नतप्रदेशे स्थित्वा प्रतीक्ष- माणा सती यजमानस्य पशून् अरण्ये सञ्चरतश्चोरव्याघ्रादिभयात् पाहि रक्ष, शाखया रक्षिता गावो निरुपद्रवाः सत्यः सायं पुनरागच्छन्तीति । यद्यपि अचेतना शाखा, तथापि तदभिमानिनी देवतामुद्दिश्यैव- मुक्तम् । यथा शास्त्रप्रामाण्यात् अचेतनेऽपि शालग्रामे शास्त्रदृष्ट्या
कृष्णवर्णात्वासम्भवात् । अत एव कृष्णेन लोकेन कृष्णान्तरिक्षमार्गेण आवर्तमानः पुनःपुनरावर्तमान इत्येवार्थः । तदुक्तं सायणेन— 'सविता सूर्यः 'कृष्णवर्णेन कृष्णं कृष्यतेर्निकृष्टो वर्णः' ( निरुक्त २.२०) । 'लोका रजांस्युच्यन्ते (नि० ४.१९ ) । अन्तरिक्षलोको हि सूर्यागमनात् पुरा कृष्णवर्णो भवति । कृष्णेन रजसा लोकेन अन्तरिक्ष- मार्गेण आवर्तमानः पुनःपुनरागच्छन् अमृतं देवं मर्त्यं मनुष्यञ्च निवेशयन् स्वस्वव्यवहारे व्यवस्थापयन् । यद्वा-अमृतं मरणरहितं प्राणं मर्त्यं मरणसहितं शरीरञ्च निवेशयन्, 'मर्त्यानि हीमानि शरीराणि अमृतेषा देवता' (ऐ० आ० २. १. ८) इति श्रुतेः। स सविता देवः भुवनानि सर्वान् लोकान् पश्यन् अवेक्षमाणः प्रकाशयन् हिरण्ययेन सुवर्णनिर्मितेन रथेन आयाति अस्मत्समीपमागच्छति इति । यदुक्तम्- 'उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥' ( ऋ० सं० १. ५० . १) इति मन्त्रस्यापि व्याख्याने "सूर्यकिरणा विश्वस्मै दर्शयितुं सूर्य देवमुद्वहन्ति ऊर्ध्वं प्रापयन्ति । व्याख्यातञ्च तथैव भाष्यकारैः पूर्वमूर्ध्व- स्थितमादित्यमधः स्थितानस्मान् किरणा दर्शयन्ति, तेन उपवहन्तीति वक्तव्ये कुत उद्वहन्ति ? यद्यपि ऊर्ध्वमपि प्रसरन्ति किरणाः ; तथापि न तैरस्मत्प्रयोजनं सिद्ध्यति । अस्मद् दर्शनं तु अधःप्रसरणादेव भवति । सूर्यकिरणानामधःप्रसरणादेवास्माकम् उदयात् पूर्वमेव सूर्यदर्शनं भवति । तदेतत् तदैवोपपद्यते यदा वैज्ञानिकानामेष सिद्धान्तोऽधीयते यद् यावन् सूर्योऽस्मत्-क्षितिजादधस्तादेव भवति, नेत्र सूत्रसम्बन्धं नैव गच्छति तावदेव किरणाः पृथिव्या उपरिष्टाद्वायुमण्डले पतिताः वक्रीभूय अस्मन्नेत्राणि अनुप्रविष्टाः स्वसंमुखमभिसूर्य दर्शयन्ति । सूर्यस्य वास्तविकोदयात् पूर्वमेव सूर्योदयोऽस्माभिरनुमन्यते । यावदियं घटना तावदेव सूर्यमण्डलं रक्तं प्रतीयते । ततश्च क्षितिजादधःस्थितमेव सूर्यं केतव उद्वहन्ति विश्वं दर्शयन्ति" इति । तदेतदपि वेदेषु विज्ञानप्रदर्शनाभिनिवेशमात्रम् । सायणोक्तरीत्या मन्त्रार्थस्य अन्यथोपपत्तेः । ननु चोर्ध्वं स्थितस्यैव सूर्यस्य कथं विश्वदर्शनाय किरणैरुद्वहनम् ? कथञ्च आधुनिकवैज्ञानिकरीत्याऽपि अधःस्थितस्यैव सूर्यस्य उदयेन ऊर्ध्वगमनसिद्धिः ? वायुना किरणानां वक्रीभावेन यद्यपि सूर्योदयदर्शन- मुक्तम्, तदपि न सम्भवम्; किरणानामेव दर्शनं सम्भवति, न सूर्य- मण्डलस्य । तथा च सूर्योदयात् पूर्वमेव सूर्योदयाभिमानोऽसङ्गत एव । वस्तुतस्तु प्रतीत्यभिप्रायेणैव एषोक्तिः । अधस्तादुदीय ऊर्ध्वमुद्गमा- दिकमादित्यस्य प्रत्यक्षं दृश्यत एव । अत एव उदेति, उदय इत्यादि शब्द- व्यवहार उपपद्यते । तदभिप्रायेणैव सायणभाष्यम्— 'केतवः प्रज्ञापकाः सूर्याश्वाः । यद्वा रश्मयः । सूर्यं सर्वस्य प्रेरक- मादित्यम् । उदू ऊर्ध्वं वहन्ति । उ इति पादपूरणः । मिताक्षरेष्वनर्थकाः कमीमिद्विति ( नि० १.९) । विश्वाय विश्वस्मै, भुवनाय दृशे द्रष्टुम् । यथा सर्वे जनाः सूर्यं पश्यन्ति तथा ऊर्ध्वं वहन्ति । कीदृशं सूर्यम् ? त्यम् प्रसिद्धम् । जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा। देवं द्योतमानम्, उद्वहन्ति तं जातवेदसं देवम् अश्वाः केतवो रश्मयो वा, सर्वेषां भूतानां संदर्शनाय सूर्यम्' (नि० १२.१५) इति । यदुक्तम्- "अभित उदकधाराभिरन्तरिक्ष्योऽग्निर्दीप्यते इति वदन् निरुक्तकारः श्रुतिषु स्फुटतरं वैद्युतं विज्ञानं वदति । 'अप्सूष्वन्ते सधिष्टव- सौषधींरनुऋष्यते । गर्भे सन् जायते पुनः' ( यजुः० १२.३६) इत्यादि- मन्त्रेष्वपि स्फुटं विद्युद्विज्ञानम् । अपान्नपात् इति अन्तरिक्षाग्निनाम सुपठ्यते निघण्टौ । ततश्च अबिन्धनः अप्सु अन्तर्वर्तमानः आन्तरिक्ष्यो- ऽग्निरित्यतः परं किं विद्युतः परिचयदानं संभवेत्" इति । तदपि न समीचीनम्; मन्त्रेऽत्र वैद्युताग्नेः प्रसङ्गाभावात् । तथा च सायणोक्तोऽर्थः-'तथा हि, हे अग्ने अप्सु जलेषु तव सधिः स्थानम्, स त्वमोषधीः यथाथा अनुरूध्यसे ओषधिपरिणाममनुपरिणमसे । यद्वा- ओषधीः स्वीकरोषि जठराग्निरूपेण । किञ्च-गर्भे अरण्योर्मध्ये स्थितः सन् पुनःपुनर्जायसे' इति । वे० वि० १४
? No, look at the cluster:
It has द् + ध with य: "बुद्ध्यति" or "बुद्ध्व्यति"?
Wait, in line 28: ब, then द्ध with य = बुद्ध्यति. Wait, is there a व? No, it's just a ligature for द्ध्य: 'बुद्ध्यति'.
Wait, let's look at "बुद्ध्यति":
द् + ध = द्ध, then य attached = द्ध्य. So "बुद्ध्यति".
Wait, then: "भूत रूपेयम्" or "भूतरूपेयं"?
Look at line 28:
"भूत" space "रूपेयम्" - wait, is there a space? "भूत रूपेयम्" or "भूतरूपेयं"?
There is a space: "भूत रूपेयम्".
Then "केवलशक्तिरूपेयं वा ?"
Wait, look at bottom of page 210:
There is an ornament: ~ * ~ or something, like « ० ».
Let's check Right page (211): Line 30: "इत्यद्यापि विचारयत्येव । श्रुतिस्तु तस्या इन्द्ररूपतां सूर्याद् भरणीयतां" Wait, "सूर्याद् भरणीयतां" or "सूर्याद्भरणीयतां"? There is a space: "सूर्याद् भरणीयतां". Line 31: "स्पष्टैः शब्द
Here is the complete and accurate Devanagari transcription of the two pages, line by line:
बायाँ पृष्ठ (Page 212)
२१२ वेदस्वरूप-विमर्शः भ्रातृत्वमुक्तप्रकारेण अत्रापि द्रष्टव्यम् । रात्रौ सवितृतेजोभागस्य हरणात् दिवा स्वकीयतेजसो भागस्य तदर्थमेव भक्तकत्शान् वा भ्रातृत्वम् । अथ एषु भ्रातृषु मध्ये पुरोदेशे वा विशपति प्रजापालयितारं सप्तपुत्रं सर्पण- शीलरश्मिपुत्रोपेतम् । ऐतिहासिकपक्षे अदितिः पुत्रकामा इति प्रस्तुते मित्रावरुणादिषु अदितिपूत्रेषु अस्यादित्यस्य सप्तमपुत्रत्वम् । ईदृशं महा- नुभावमादित्यम् अपश्यम् अद्राक्षं भावनया आत्मत्वेन साक्षात्करोमी- त्यर्थः । 'तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इति श्रुतेः । एवं वा अस्य वामस्य विश्वस्योद्गरितुः स्रष्टुरित्यर्थः । पलितस्य स्वतृप्तं जगत् पालनशीलस्य होतुरोदातुः स्वस्मिन् संहर्तुः परमेश्वरस्य सृष्ट्यादिकर्तृत्वं श्रुत्यादिषु प्रसिद्धम् । तस्य परमेश्वरस्य भ्राता भागहारी वदंशभूतः सूत्रात्मा मध्यमः सर्वत्र मध्ये वर्तमानः जगद्धारकत्वेन वर्तते । स च अश्नः व्यापनशीलः 'वायुना वै गौतमसूत्रेणायं लोको परश्च लोकः सर्वाणि च भूतानि संदृब्धानि' ( बृ० उ० ३. ७. २ ) इति श्रुतेः वक्ष्यमाणविराडपेक्षया वा मध्यमत्वम् । किञ्च—अस्य तृतीयो घृतपृष्ठः । घृतमिति उदकनाम, तेन तत्कार्यं शरीरमित्युच्यते । तदेव पृष्ठं स्पर्शकं वा यस्य तादृशः, पृष्ठं स्पृशतेः ( नि० ४.३ ) । यद्वा—प्रदीप्तपृष्ठः। पृष्ठशब्दः कृत्स्नशरीरोपलक्षकः प्रकाशितशरीरा- भिमानोत्यर्थः। न त्वयं सूक्ष्मशरीराभिमानिसूत्रात्मवत् स्पर्शानां विषयो भवति । अत्र एषु मध्ये विशपति प्रजापतिं सर्वस्य पतिं 'सर्वस्य पतिः सर्वस्येशानः' इति श्रुतेः । सप्तपुत्रं सप्त लोकाः पुत्रा यस्य तादृशम् । स्वमायया सृष्टसर्वलोकम्, अपश्यं पश्येयं साक्षात्करोमि । अयमाशयः—स्वाधीनमायो जगत्कारणभूतः परमात्मा एकः । तत उत्पन्नौ स्थूल-सूक्ष्म-शरीराभिमानिनौ द्वौ विराट्सूत्रात्मानौ । तेषु मध्ये द्वयोः साक्षात्कारेण मोक्षाभावात् सृष्ट्यादिकारणं परमेश्वरं ज्ञेयत्वेन प्रसिद्धं श्रवणादिसाधनेन साक्षात्करोमीत्यर्थः । एवमुत्तरत्रापि अध्यात्म- परतया योजयितुं शक्यम् ; तथापि स्वरसत्वाभावात् ग्रन्थविस्तारभयाच्च
दायाँ पृष्ठ (Page 213)
वेदस्वरूप-विमर्शः २१३ न लिख्यते । यत्र 'द्वा सुपर्णा' इत्यादी स्फुटमाध्यात्मिकोऽर्थः प्रतीयते, तत्र तत्र प्रतिपाद्यामः । अयं मन्त्रो यास्केन व्याख्यातः—'अस्य वामस्य वननीयस्य पलितस्य पालयितुरिति ( नि० ४. २६ ) । 'अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निश्च विश्वशम्भुवमापश्च विश्वभेषजीः ॥' ( ऋ० सं० १. २३. २० ) इति मन्त्रेण जलस्य यौगिकता स्फुटीकृता" इति । तदपि न; तेजः- कारणत्वेन पञ्चीकृतप्रक्रियया जलेऽग्निसत्त्वेऽपि तस्य स्वतन्त्रतत्त्व- द्रव्यान्तरनिर्मितत्वसिद्धेः । नन्विदानीं वैज्ञानिकैः 'आक्सिजन-हाइड्रोजन-नामक-पदार्थयोगेन जलं निर्मितं एवेति चेन्न । जलहेतुत्वेन अभिमतस्य पदार्थद्वय- स्यापि सूक्ष्मजलानतिरेकात् । सूक्ष्मजलं तु सूर्यरश्म्यादिषु स्थितमपि नोपलब्धुं शक्यम् । मन्त्रार्थस्तु —अप्सु जलेषु अन्तः मध्ये विश्वानि भेषजा सर्वाणि औषधानि सन्तीति मे मह्यं मन्त्रदर्शिने मुनये सोमो देव अब्रवीत् । तथा विश्वशंभुवं सर्वस्य जगतः सुखकरम् एतन्नामकं च अग्निम् अप्सु वर्तमानं सोमोऽब्रवीत् । तथा च तैत्तिरीयाः—'अग्नेस्त्रयो ज्यायांसः' इत्यनुवाके 'सोऽपः प्राविशत्' ( तै० सं० २. ६. ६. १ ) इति अग्नेः अप्सु प्रवेशमामनन्ति । लता-गुल्म-वृक्ष-मूलादीनाम् औषधानां वृष्टि- जन्यत्वेन जलवर्तित्वं प्रसिद्धम् । विश्वभेषजीः विश्वानि भेषजानि यासु तथाविधाः अप अवि अब्रवीत् । भेषजा 'सुपां सुलुक्' इति आकारः । विश्वशंभुवम्, भवतेरन्तर्भावितण्यन्तात् क्विप् । व्यत्ययेन पूर्वपदप्रकृति- स्वरत्वम् । यद्वा—विश्वे सर्वेऽपि व्यापाराः सुखकरा यस्य, 'बहुव्रीहौ विश्वं संज्ञायाम्' ( पा० सू० ६.२.१०६ ) इति पूर्वपदान्तोदात्तत्वम् । आपः । कर्मणि शपि प्राप्तेव्यत्ययेन जस् । 'अप्तृन्०' ( पा० सू० ६.४.११ ) इत्यादिना उपवादीर्घः । विश्वभेषजीः विश्वशंभुवमितिवत् ।
पृष्ठ २१४
यदप्युक्तम्- "सर्वाणि रूपाणि सूर्य्यरश्मिभिरेव निर्मीयन्ते । शुक्लं कृष्ण- ञ्चेति द्वे एव रूपे मुख्ये । तत्सन्धिगतं रक्तम् , मिश्रणजानि चान्यानीति रूपविषये वैज्ञानिकानां दर्शनम् । तदपि 'इन्द्रो रूपाणि कनिक्रदच्चरन्' 'शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥' (ऋक् सं० ६. ५८. १) इत्यादिषु स्फुटमाम्नातम्" इति । तदपि न ; मन्त्रस्यान्यपरत्वात् । तथा हि—हे पूषन् ते तव शुक्रं शुक्लवर्णम् अन्यन् एकम् अहर्भवति वासरा- त्मकम् । तथा ते तव सम्बन्धि यजतम् । यजिरत्र सङ्गतिकरणे वर्तते । यजनीयं प्रकाशेन सङ्गमनीयं स्वतः कृष्णवर्णम् अन्यन् एकम् अहर्भवति रात्र्याख्यम् । इत्थं विषुरूपे शुक्लकृष्णतया नानारूपे अहनी तव महिम्ना निष्पद्येते । यद्वा—हे पूषन् त्वदीयमन्यदेकं रूपं शुक्रं निर्मलं दिवसस्योत्पादकम्, त्वदीयमन्यदेवं रूपं यजतं केवलं यजनीयं न प्रकाशकं रात्रेरूत्पादकम् । अत एव विषुरूपे अहनी अहश्च रात्रिश्च भवतः । अहोरात्रयोर्निर्माणे सूर्य एव कर्ता । कथमस्य प्रसक्तिरिति तत्राह—द्यौरिवासि । यथा द्यौः आदित्यः प्रकाशयिता तथा त्वं प्रकाशकोऽसि । कुत इत्यत आह—हे स्वधावः अन्नवन् पूषन् विश्वाः सर्वाः मायाः प्रजाः हि यस्मात्कारणात् अवसि रक्षसि, अतः कारणात् त्वं सूर्य इव भवसीत्यर्थः । तादृशस्य ते तव भद्रा कल्याणी रातिः दानम् इह अस्मासु अस्तु भवतु । यास्कस्तु आह—'शुक्रं ते अन्यल्लोहितं ते अन्यद्यज्ञियं ते अन्यदिति वा विषम रूपे अहनी कर्मणा द्यौरिव चासि । सर्वाणि च प्रज्ञानान्यवस्यन्नवन्' (निरुक्ते ११.१७) इति । यदुक्तम्— 'विपरीते काले स्वार्थबुद्धौ प्राबल्यमागतायाम आभिचा- रिककर्म सुप्रसारं गतेषु जगद्धितबुद्ध्या क्रियमाणानां यज्ञानां विरलता- मापन्ने प्रचारे वैदिकं विज्ञानं क्रमेण शैथिल्यमभजत् । महाभारतयुद्धा- नन्तरं तु चित्रपट इव परिवर्तते स्म। देशविप्लवात् खिन्नेषु लोकेषुका नाम
पृष्ठ २१५
विज्ञानोन्नतिकथा ? विरलतामापन्न उच्छिन्नो वैदिको गुरुसम्प्रदायः, विद्याश्च विरलतामापन्नाः । अस्मिन् व्यतिकरे प्राक्तनाः सामयिका वा वेदाङ्गप्रवक्तारो दर्शनसूत्रकाराणां चैकदेशमवलम्ब्य लोकदृष्टिमाक्रष्टुं कृता अपि प्रयत्ना न साफल्यमभजन् । प्रत्युत अङ्गविस्तारो मतभेद- विस्तारश्च वैदिक-विज्ञान-विरोधानायैव अकल्प्यत । ब्राह्मे क्षात्रे च युगपद्विलयं गते दैवादुपस्थितो बौद्धानां समयः । तदानीं न केवलं सम्प्रदाय एव उच्छिन्नः, अपि तु वेदरहस्यबोधका निदान- रहस्यादिग्रन्था अपि प्रलयं गताः । उच्छिन्ना वेदशाखाः व्युलुप्यन्त बहूनि ब्राह्मणानि । नाममात्राय अवशिष्यन्त विद्याः । ब्रह्मतेजःप्रभावेणैव प्रशान्तः स झञ्झावातः । कर्मकाण्डमुपासना-काण्डं ज्ञानकाण्डञ्च पुनरपि सम्प्रदायबद्धमभूत् । परं विज्ञानशैली तु विलुप्तैवाभवत् । सम्प्रदायस्य विच्छिन्नप्रायत्वात् ग्रन्थानां विलोपाच्च विज्ञानकथा- भिरपि शून्ये ऐन्द्रजालिकमायाप्रधाने कालेऽधिकारिणां विरहान्न तदुद्धाराय समय आसीत् । आचार्यैः आवश्यककर्मसम्प्रदाय- रक्षा कृता । मन्त्र-ब्राह्मणात्मकस्य वेदस्य कर्मावबोधकः साम्प्रदायिकोऽर्थः सुरक्षितोऽभूत् । उपपादकं तु विज्ञानम् अर्थवादशब्दवाच्यतामापाद्य परित्यक्तमभूत् । विज्ञानविरहाच्च इयमार्थविद्या शब्दप्रधानतां गता । तर्क व्याकरण-साहित्यादयः शब्दाडम्बरमात्रसारा लोकेभ्योऽरोचन्त। जल्पप्रक्रिया कवित्वप्रक्रिया च विनोदायालम्भूत् । वेदानां भाष्याणि व्यरच्यन्त, परं कर्मोपयोगिसम्प्रदायप्राप्तो- ऽर्थस्तत्र विवृतः । वैज्ञानिकानां वैदिकानां सङ्केतानां सम्प्रदायविच्छेदाद् विलोप एवाभूत् । तत एवाधुनिकेषु भाष्येषु न वैज्ञानिकी पद्धति- रुपलभामहे । मनुष्योपयुक्ततया मन्त्रा व्याख्याताः । विज्ञान- जीवातूभूता प्राकृतयज्ञपरता तु समुपेक्षितैव । प्राकृतेन यज्ञेनैव जगदुत्पत्ति-स्थिती स्तः । तं प्राकृतं यज्ञमुपजीव्यैव अस्माकं प्रातिस्विकी यज्ञप्रक्रिया प्रचलति । तयोः सम्बन्धोऽपि वेदेषु सङ्केतितः । परं स न भाष्येषु स्पष्टीक्रियते । अध्यात्ममधिभूतमधिदैवतञ्च ये देवपित्राद्याः, तेषां विवेकोऽपि भाष्येषु नोपलभ्यते । तत एवैकस्य धर्मा अपरसम्वन्धि-
२१६ वेदस्वरूप-विमर्शः श्चेन प्रतिबन्धीयमानां बुद्धिं विप्लावयन्ति । तत्र काले तस्या विद्याया अभाव एवापराध्यति, को दोषो भाष्यकृताम् ?' इति । तदत्रोच्यते—महाभारतयुद्धानन्तरं विज्ञानह्रासोऽभ्युपेयते भवता, किन्तु तत्र प्रदर्शितं कारणं नोपपद्यते । यतो महाभारतयुद्धानन्तरमपि व्यासाद्या महर्षयस्तु अवशिष्टा एवासन् । सर्वज्ञः श्रीकृष्णोऽप्यवशिष्ट एवा- सीत् । युधिष्ठिराऽर्जुन-सात्यक्यादयश्चासन् । साक्षाद् बृहस्पतेः शिष्य उद्धवोऽप्यासीत् । विशेषतो म्रियमाणस्य ज्ञानसूर्यस्य भीष्मस्य मुखात् अनेकदिनानि धर्मप्रज्ञ-राजनीत्याद्याश्रयाणि अनेकानि ज्ञानविज्ञानानि श्रीकृष्णेन सार्थं युधिष्ठिरादिभिराकर्णितानि । व्यासादिभिः महाभारत- पुराणोपपुराणादीनि रचितानि । नानासंहितासूत्राणि धर्मशास्त्राणि च प्रवृत्तान्येवासन् । व्यास-जैमिनीभ्याञ्च वेदार्थविचारात्मके पूर्वोत्तर- मीमांसे निर्मिते । ततश्च कश्चनापि वेदार्थसम्प्रदायो लुप्त इति कल्पना निराधारेव । कर्मोपासन-ब्रह्मज्ञानसम्प्रदायः सुरक्षित आसीदिति भवद्भि- रपि अभ्युपगम्यत एव । ततो यदि विज्ञानानुसारी कश्चन सम्प्रदाय आसीत्तदा व्यासादिभिः सोऽज्ञात आसीत् ज्ञातो वा ? ज्ञातश्चेत् तर्हि कुतो न तैः स्वग्रन्थे स वर्णितः ? अज्ञातश्चेन्नतरां तत्संभवः । सायणादिभिः पारम्पर्यप्राप्तकर्म- ज्ञानादिसम्प्रदायानुरोधेनैव व्याख्यानं कृतमित्यपि भवद्भिरुपेयते । सायणस्य महतीं प्रशंसां कृत्वाऽपि तद्भाष्यन्यूनतावर्णनं न वस्तुतोनुरोधि, तदर्थस्य सम्प्रदायसिद्धत्वात् । यदुक्तम्- "विष्णुना विवृते' इति मन्त्रे स्फुटतराकर्षणविज्ञानेऽपि 'दाधर्थ पृथिवीमभितो मयूखैः' इति मन्त्रे मयूखशब्दस्य पर्वतोऽर्थोऽनेन भाष्यकारेण कृतः । किरणैः पृथिवीधारणं कथं संभवेदिति तस्य संशयो- ऽभूत् । पर्वतैस्तु पुराणेषु उक्तमिति तदेव व्याख्यातमिति । तदपिन किञ्चित्; भवद्भिरेव तत्समाहितत्वात् । 'इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत्' इत्युक्तरीत्या पुराणमेव मुख्यं वेदार्थव्याख्यानम्, तदनु- रोधिव्याख्यानश्चेत् कुतस्तदुपालम्भमर्हति ? किञ्च-किरणा यथा किरण- वेदस्वरूप-विमर्शः २१७ मालिनोऽंशास्तथा पर्वता अपि पृथिव्या अंशा इति त एव मयूखपद- वाच्या भवितुमर्हन्ति, आकर्षणशक्तावसु मयूखशब्दस्याप्रसिद्धत्वात् । 'इरावती धेनुमती हि भूतं सूयवसिनी मनवे दशस्या । व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥' (ऋ० सं० ७.९९.३) हे द्यावापृथिव्यौ मनवे स्तुवते मनुष्याय दशस्या दित्सया युक्ते युवाम् इरावती अन्नवत्यौ धेनुमती गोमत्यौ सूयवसिनी शोभने यवसे च भूतम् अभूतम् । हि प्रसिद्धौ । विष्णुना विक्रान्तत्वाद्युवाम् एवमेव खलु पूर्वमभूतम् । हे विष्णो एते इमे रोदसी द्यावापृथिव्यौ व्यस्तभ्नाः विविध- मधारयः पृथ्वीमूर्ध्वमुखत्वेन द्यामधोमुखत्वेनेति विविधत्वम् । अपि च- यथा पृथिवी प्रथितामिमां भूमिम् अभितः सर्वतः स्थितैः मयूखैः पर्वतैः दाधर्थ धारितवानसि । यथा न चलति तथा दृढीकृतवानसि । पर्वता हि विष्णोः स्वभूताः । 'विष्णुः पर्वतानामधिपतिः' (तै० सं० ३.४.५.१) इति श्रुतेः । विष्णुदेवताकोऽयं मन्त्र इति विष्णुरेव स्तुत्यो नादित्यः । नहि वैज्ञानिकार्थप्रकाशनलालसया मुख्यार्थत्यागो युक्तः, वैज्ञानिकसिद्धान्तस्य अद्या
२१८ वेदस्वरूप-विमर्शः प्रदानेन विशेषेण वर्तमानमकरोत् । किं कुर्वन् ? दिवि अन्तरिक्षे मेघम् ओपशम् उपेत्य शयानम्, चक्राणः कुर्वन् । यद्वा-आत्मनि समवेतो वीर्य- विशेष ओपशः, तमन्तरिक्षे कुर्वन् । व्यवर्तयन् इत्यस्य विशेषेण वर्तमानाम् (सस्यश्यामलाम्) अकरोत् इत्येवार्थः, न भ्रामणम्, विपूर्वस्य वर्तते- स्त्वर्थाभावात् । तच्च वृष्ट्यादिप्रदानेन तदर्थमेवान्तरिक्षे ओपशं मेघं वीर्यविशेषं वा चक्राणः कुर्वन् इत्येवार्थः । तेन ओपशपदं शृङ्गवाचकम् । किरणानां व्याघातेन वक्रीभावे शृङ्गं भवतीत्यादिकल्पनं निराधारमेव, मन्त्रे तादृगर्थबोधकपदाभावात् । यदप्युक्तम्—"सौरः प्रकाशोऽनुभूयते । स सौररश्मिसम्पर्कात् सर्वत्र व्याप्तस्य सोमस्याभिज्वलनात् निष्पन्न इति च
१२० वेदस्वरूप-विमर्शः शब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभिप्रवन्त नसन्त च, स ताश्च हर्यति । यदप्युक्तम् - "तिस्रो मातृः तिस्रो भूमीर्धारयत्' इत्यादिभिरपि मन्त्रैः सूर्यकृतं पृथिव्यादिधारणं सिद्धयति" इति । तदपि न ; मन्त्रयो- रनयोरन्यार्थकत्वात् । समग्रौ मन्त्रौ मन्त्रार्थचेत्थम्- 'तिस्रो मातृस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति । मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥' ( ऋ० सं० १.१६४.१० ) अर्थः-एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः संवत्सराख्यः कालो वा तिस्रः मातृः सस्यवृष्ट्याद्युत्पादयित्रीः, क्षित्यादिलोकत्रयमित्यर्थः । तथा त्रीन् पितॄन् जगतां पालयितॄन् लोक- त्रयाभिमानिनः अग्निवायुसूर्याख्यान् बिभ्रत् सन्, ऊर्ध्वस्तस्थौ उन्नतः अत्यन्तदीर्घस्तिष्ठति भूतभविष्यादात्मना । सूर्यपक्षे सर्वेभ्य उन्नतः । ईम् एनं न अवग्लापयन्ति ग्लानिं नैव कुर्वन्ति । नहि कालः आदित्यो वा अन्येन पराभूयते । दिवः पृष्ठे द्युलोकस्योपरि अन्तरिक्षे मन्त्रयन्ते गुप्तं परस्परं भाषन्ते देवाः । किम् ? विश्वविदं विश्ववेदनसमर्थां विश्वै- र्वन्दनीयां अविश्वमिन्वाम् असर्वव्यापिनीं वाचं गर्जितलक्षणाद् अमुष्य आदित्यस्य सम्बन्धिनों मन्त्रयन्ते इत्यर्थः । यथा लोके पुत्रो मातापित्रोः पोषकत्वेन धारको भवति, तथैवात्र सूर्यस्य संवत्सरस्य वा क्षित्यादिधारयितृत्वम् । नात्र आकर्षणविज्ञान- बोधकः कश्चन शब्दोऽस्ति । 'तिस्रो भूमीर्धारयन् त्रीँ रुत द्यून् त्रीणि व्रता विदथे अन्तरेषाम्। ऋतेनादित्या महि वो महित्वं तदर्यमन् वरुणमित्र चारु ॥' (ऋ० सं० २.२७.८ ) अर्थः- तिस्रो भूमीः । अत्र भूमिशब्दो लोकत्रये वर्तते । 'यो द्विती- यस्यां तृतीयस्यां पृथिव्याम्' इत्यत्र यथा पृथिवीशब्दः । भूम्यन्तरिक्ष- स्वर्गां स्त्रीन् लोकान् आदित्याः धारयन् वृष्टिप्रदानादिना धारयन्ति । वेदस्वरूप-विमर्शः २२१ उत अपि च द्यून दीप्तान् तत उपरितानान् महरादिकानपि त्रीन् लोका धारयन्ति । यद्वा-दीप्तान् अग्नि वायुं सूर्यंञ्च धारयन्ति । अपि च - एषामादित्यानां विदथे यज्ञे अन्तः मध्ये त्रीणी व्रता सवनत्रयनिष्पाद्यानि त्रीणि कर्माणि सन्ति । यद्वा - एषां लोकानामन्तर्मध्ये विदथे यज्ञे निमित्त- भूते सति एषामादित्यानां त्रीणि कर्माणि रसादान-धारण-विसर्जन- लक्षणानि सन्ति । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । हे आदित्याः ऋतेन सत्येन यज्ञेन वा महि महत् प्रभूतं वः युष्माकं महित्वं महत्त्वं यन्महाभाग्यं हे अर्यमन् वरुण मित्र तन्महाभाग्यं चारु शोभनम्, सर्वोत्कृष्ट- मित्यर्थः। यदप्युक्तम्- "आकृष्णेन रजसा' इत्यत्रापि रजसो लोकस्य कथं कृष्णत्वमिति शङ्का 'सूर्योदयात् पूर्वं लोकः कृष्ण एव भवती'ति तेन समाहिता । सूर्यमण्डलस्य कृष्णत्वं तु न तद्बुद्धावुपारूढम् । तस्मिन्काले एवंविधानां विज्ञानानामत्यन्ताभाव एवात्रापि निदानम् । न खलु अश्रुतादृष्टचरेऽर्थे बुद्धिः प्रसरति" इति । तदप्युक्तोपालम्भनम्; मन्त्रेणानेन सवितुः कृष्णवर्णात्वानुक्तेः । अमुकेन ग्रामेण गन्तव्यमिति यथा ग्रामस्य मार्गरूपेण निर्देशस्तथैवा- त्रापि रजसा लोकेन वर्तमानेति मार्गनिर्देशः । तस्य चान्तरिक्षलोकस्य न स्वाभाविकं कृष्णत्वमिति युक्तमेव । सूर्योदयात् प्राक् तस्य कृष्णत्व- प्रतीतिः । श्रुतिषु त्वादित्यस्य अनेकानि रूपाणि वर्
(v -) सि (v) य-तः (v -) सु-त-राम् (v v -) -> 11 syllables! Now line 18: _ _ _ _ _ _ _ _ _ _ _ (11 syllables) _ _ _ _ _ _ _ _ _ _ _ (11 syllables) First quarter: 1 2 3 4 5 6 7 8 9 10 11: भ व ति मि रा स्र व पा न म दात् -> Wait! भ(1) व(2) ति(3) मि(4) रा(5) स्र(6) व(7) पा(8) न(9) म(10) दात्(11)! Wait, if it is "भवतिमिरास्रवपानमदात्": Let's count:
- भ
- व
- ति
- मि
- रा
- स्र
- व
- पा
- न
- म
- दात् That is exactly 11 syllables!! Second quarter:
- भ
- व
- ति
- वि
- लो
- हि
- त
- वि
- ग्र
- ह
- वान् That is exactly 11 syllables!! Third quarter (Line 19):
- मि
२२४ वेदस्वरूप-विमर्शः काग्निरूपस्य आदित्यस्य प्रस्तावः । इदमेवाभिप्रेत्य 'ऋग्वेद एवाग्ने- रजायत यजुर्वेदो वायोः सामवेद आदित्यात्' इति ब्राह्मणश्रुतौ अग्न्या- दिभ्य ऋग्वेदादीनामुत्पत्तिराम्नाता, विषयस्य ज्ञानकारणतया निरुढ- त्वात् । यद्यस्त्यग्निः ततः एव ऋग्वेदो जायते । न भवेच्चेन्न कं वर्णयितुमृग्वेदः प्रवर्तेतेति तस्य कारणत्वमुपपादयति । अयमेवाभि- प्रायो इति मनुनाऽपि शब्दान्तरैरुपदिष्टः । यथा— 'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' इति । परमशेषशेमुषीसम्पन्नैः विद्वत्प्रवरै रचितासु मनुस्मृतिटीकासु नैकत्राप्यस्यार्थस्य स्पष्टीकरणमुपलभामहे । 'पूर्वोक्ता श्रुतिरपि प्रायेण सर्वैः समुद्धृता । अग्न्यादिभ्यश्च कथं वेदानाम्
२२६ वेदस्वरूप-विमर्शः
कणादेनापि सामान्यं विशेष इति बुद्धयपेक्षमेव सामान्यं वदता काल्पनिकमेव तदित्यङ्गीकृतम् इति, तन्न, सूत्रार्थानवबोधात् । तत्रैवो- पस्कारकारादिभिर्बौद्धादिपक्षनिरसनपुरःसरं सामान्यव्यवस्थापनात् । सूत्रार्थस्तु—सामान्यं सत्तारूपं परसामान्यम् । अपरं सत्ता द्रव्यत्वा- दिकम् । बुद्धिलक्षणम् । तेनोभयविधस्य सामान्यस्य बुद्धिरेवलक्षणम् । इतिना तद्व्यवच्छिद्य परामृश्यते । तेन बुद्धयपेक्षमिति नपुंसक- निर्देशः । वृत्तिकारस्तु—विशेषान्वयमाह । 'नपुंसकमनपुंसकेनेकवच्चास्यान्यतरस्या- मित्यनेनैकवद्भावो नपुंसकता चेत्याह । बुद्धिरपेक्षालक्षणं लिङ्गं यस्य तद्बुद्धयपेक्षम् । नित्यमनेकवृत्ति सामान्यम् । परन्तु सामान्यं विशेषसंज्ञामपि लभते । यथा द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो, नेदं कर्मेति विशेष- प्रत्ययः । तथा च द्रव्यत्वादीनां सामान्यानामेव विशेषत्वम् । सामान्यं नित्यं व्यापकञ्च । व्यापकत्वमपि स्वरूपतो न सर्वदेश- सम्बद्धत्वम्, तत एव न देशानां गोव्यवहारापत्तिः । समवायेन तद्व्यवहा- रस्यानभ्युपगमात् । कालस्य रूपादिमत्त्वेऽपि कालो रूपवानिति प्रतीति- व्यवहारवत् । तथा च यत्र पिण्ड उत्पद्यते तत्रस्थमेव गोत्त्वं तेन सम्बध्यते । जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात् । कीदृशे आश्रये वर्तत इत्यत्र यत्र प्रतीयत इत्युत्तरम् । कुत्र प्रतीयत इत्यत्र यत्र वर्तत इत्युत्तरम्, गोत्ववृत्तेः पूर्वं स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम् । अत- द्व्यावृत्तिरेव गोत्वमित्यत्र गौरयमिति विधिसुखः प्रत्यय एव बाधको ऽनुभवस्य प्रत्याख्यातुमशक्यत्वात् । एतेन 'न याति न च तत्रासीदिति परिदेवनमात्रम् । सामान्यं विशेष इति द्वैविध्यं यदुक्तं तदुपपादयन्नाह—भावोऽनु वृत्तेरेव हेतुत्वात् । सामान्यमेव भावः सत्ता अनुवृत्तेरेव हेतुः; न व्यावृत्ते- रपि । तथा च विशेषसंज्ञां न लभते । केषां सामान्यानां विशेषसंज्ञा इत्यपेक्षायामाह—द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च ।
वेदस्वरूप-विमर्शः २२७
सत्तासामान्यविप्रतिपत्तिनिरासाय सदिति । यतो द्रव्यगुणकर्मसु सा सत्ता इत्युक्तम् । अपि च 'द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता' इति सूत्रेण स्पष्टमेव सत्ताया द्रव्यादिभ्योऽर्थान्तरमुक्तम् । यत्तु तेभ्योऽन्यत्र नोपलभ्यम् तद्युतसिद्धिवलात् । घटपटयोस्तु युतसिद्धत्वेन पृथगुप- लब्धिः । तस्मात् सूत्रानुयायिनां भाष्यानुसार्यैव सूत्रार्थ इति मन्तव्यम् । यदुक्तम् संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः । संस्त्यानेस्त्यायतेर्दू ट् स्त्री सूतेः स प्रसवे पुमान् ॥ इति वार्तिकव्याख्यानमहाभाष्येणाप्यादानप्रदानयज्ञप्रक्रियाविधया आदानविवक्षया स्त्रीलिङ्गं, प्रदानविवक्षया पुंल्लिङ्गं, ताटस्थ्यविवक्षया तु नपुंसकलिङ्गम् इति सिद्धयति । तन्न; भाष्यविरोधात् । तथाहि अधि- करणसाधनास्त्यायतेर्गर्भा गर्भ इति स्त्री । कर्तृसाधनश्च पुमान् सूतेः पुमान् । इह पुनरुभयं भावसाधनम् । संस्त्यानम् स्त्रीप्रवृत्तिर्या पुमान् शब्दादिगुणानां संस्त्यानविवक्षायां स्त्री, तेषामेव प्रवृत्त्यपेक्षायां पुमान्, उभयविवक्षायां नपुंसकमित्येव तु महाभाष्यवचनात् सिद्धयति । अत्र संस्त्यानं तिरोभावरूपोऽपचयः, प्रवृत्तिश्चाविर्भावरूपलक्षण उपचयः । केषां ? गुणानां शब्दस्पर्शादीनां, शब्दादीति सत्त्वादिकार्यमात्र- स्योपलक्षणम् ज्ञेयम् । सर्वाश्च मूर्त्तय एवमात्मिका इति भाष्येणैव तद् ध्वनितम् । मूर्त्तय इति पदार्था ग्राह्याः । आत्मनि प्रकृतौ महति अहङ्कारे च लिङ्गव्यवहारो दृश्यते । न च तत्र शब्दादिगुणोपचयादिकं सम्भवति शब्देऽपि वाच्याभावात्तु नोपपद्यते । आत्मनि परिणामवदन्यतादात्म्याध्यासेन तत्परिणामानुयायित्वेन लिङ्गव्यवहारः । शब्दादिप्रदानापेक्षया पुंस्त्वं बाष्पाद्यादानापेक्षया महदादौ पुंस्त्वादिव्यवहारो नोपपद्यत एव महदादिषु शब्दादिसम्बन्धाभावात् । पारम्पर्येण तत्सत्त्वे तूपलक्षणमेवा- यातम् । केष्वित्तु सात्त्विकांशाधिक्येन परिणामे पुमान्, राजसांशा- धिक्येन परिणामे स्त्री, तामसांशाधिक्येन नपुंसकम् एतत्त्रितयं व्यक्तिमात्रवृत्तितया केवलान्वयि । वस्तुमात्रस्य क्षणपरिणामितया वृद्धिह्रास-
२२८ वेदस्वरूप-विमर्शः साम्यानामावश्यकत्वात् । अत एव एकैव व्यक्तिः सात्त्विकेन धर्मेण कञ्चित् सुखयति, राजसेन धर्मेण कञ्चित् क्लेशयति, तामसेन कञ्चिन्मोह- यति । तस्मात् सत्त्वोपचये पुमान्, रजस उपचये स्त्री, तमसस्तथात्वे नपुंसकमिति व्यवहारः । कैश्चित्तु सकलगुणानामुपचये पुंस्त्वमपचये स्त्रीत्वम् साम्ये नपुंसकत्वम् । अन्यैस्तु अन्यापेक्षयोपचयादौ पुंस्त्वादिक- मुच्यते । यद्यपि 'स्तनकेशवती नारी लोमशः पुरुषः स्मृत'इति लौकिकमेव पुलिङ्गादिलक्षणम् तथापि व्याकरणशास्त्रे तद्धितखट्वावृक्षादिशब्दानां पुल्लिङ्गत्वादिव्यवहाराय पारिभाषिकोऽयं लिङ्गव्यवहारोऽभ्युपेयते । हरिरप्याह— आविर्भावतिरोभावस्थितिचेत्यव्यपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्यवस्थिताः ॥ हरिरपि वैज्ञानिकं लिङ्गं न जानाति भवांस्तु जानातीति न संभव- दुक्तिकमिति । तथाहि सति संभवे सामानाधिकरण्यसम्बन्धेन लौकिकपुंस्त्वादि- विशिष्टशास्त्रीयलिङ्ग एव पुमादिशब्दानां शक्तिः, न केवले शास्त्रीये, नापि लौकिके, असंभवे तु शास्त्रीय एव । अत एव 'पशुना यजेत' इत्यादौ पशुस्त्रिया कृते यागे वैगुण्यम् । लौकिके पुंस्त्वादि-विशिष्टशास्त्रीय- पुंस्त्वस्यैव शब्देन प्रतिपादनात् । तस्मान्नादानप्रदानलक्षणयज्ञप्रक्रिययैव स्त्रीत्वं पुंस्त्वञ्च । गीतायां हि—'ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तु मिहार्हसी'ति शास्त्रविधानेनोक्त- मेव कर्म कर्तव्यत्वेनोक्तम्, न तु स्वाभाविकानान्तेषामशनपानमैथुना- दीनामनुकरणमेव कर्तव्यमित्याद्युक्तम् । 'द्रव्यं देवता त्यागः, (कात्या- यनश्रौतसूत्रे १ अध्यायः) इति सूत्रानुसारेण देवतोद्देश्येन क्रियमाण- स्वस्वत्वनिवृत्त्यनुकूलो व्यापार एव यागः । इति १६४ पृष्ठे निरूपितमेव । यदुक्तमियमग्नौ सोमाहुतिप्रक्रिया शिवशक्त्युपासनाऽनुकृता शवरूपस्य शिवस्य हृदि विराजमाना आद्या शक्तिः ध्येया मूर्तिष्वपि तदाकारा पूज्यते । तेन ब्रह्मरूपस्य शिवस्य हृदि मध्यकेन्द्रे शक्तिरनवरतं वेदस्वरूप-विमर्शः २२९ विराजते । शक्तिहीनः शिवः कदापि न भवति । अग्निः शिवः तस्योपरि मध्यभागे शक्तिरूपः सोम आगच्छति । उपर्य्यन्तरिक्षे सर्वत्र सोमो व्याप्तः । स सङ्घीभूयाग्नौ निपतति । सोमः कृष्णवर्णः शक्तिरपि कृष्णवर्णैव । अग्निरूपः शिवस्तूज्ज्वलः । उः शिवस्तस्य माया शक्तिः उमा उमया सहितः शिवः सोमः । तदपि नाभीष्टसाधनम्, ब्रह्मरूपे शिवे शक्तेर्ध्येयत्वेऽपि विहितध्यानस्यैव तत्र पुण्यजनकत्वात् । एवं होमेऽग्न्यादिषु शिवादिबुद्धयोऽपि तन्त्रेषु विहिता एव । तत्रैव बृहज्जाबालोपनिषदो निम्नोक्तानि वचनानि सङ्गच्छन्ति । अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते । रौद्री घोरा या तैजसी तनुः सोमशक्त्यमृतमयः शक्तिरतितनुः । “अमृतं या प्रतिष्ठा सा तेजोविद्या कला स्वयम् । स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी । द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका । तथैव रसशक्तिश्च सोमात्मा चानलात्मिका ॥ वैद्युदादिमयं तेजो मधुरादिमयो रसः । तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥ अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते । अत एव हविः सन्तमग्नीषोमात्मकं जगत् ॥ ऊर्ध्वशक्तिमयः सोम अधः शक्तिमयोऽनलः । ताभ्यां सम्पुटितस्तस्माच्छश्वद्विश्वमिदं जगत् ॥ अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् । यावदग्न्यात्मके सौम्यममृतं विसृजत्यधः ॥ अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वगा । यावद्दाहनदग्धोर्ध्वमधस्तत्पावनं भवेत् ॥ आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः । तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥ शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः । तदित्थं शिवशक्तिभ्यां नाव्यातमिह किञ्चन ॥