विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ४४७ ) पदार्थेषु लोकसीमातिवर्त्तिषु । 'विस्तारश्चेतसो यस्तु स विस्मय उदाहृत' इति साहित्यदर्पणे । घूर्णमानेभ्यो भ्रमद्रूपेभ्यो मूर्द्धभ्यो मस्तकेभ्य उच्चलतान्यूर्ध्वं गच्छन्तो कुण्डलानो कर्णभूषणानि विभ्रमेण व्याजेन पिकानां कोकिलानां शब्दस्य रवस्यानुसारोऽनुसरणं तेनाऽमुकहणान्त शब्द समायातीत्यनुमानेन तेषां बन्धनाय कण्ठपाशा कण्ठरज्जय इव क्षिप्ता मुक्ता । पिकस्वराणां पीडादाय- कत्वेन पिकानां बन्धनार्थं विरहिणीभि कर्णभूषणचक्रमणव्याजात्पाशा क्षिप्ता इयेति भावः । अत्रापन्हुतिरलङ्कारः ।
भाषा वियोगिनिओ ने कोकिल के शब्दो को सुन कर मार्मिक वेदना के आधिक्य से मस्तको को सतत हिलाने से ऊपर गोलाकार रूप में हिलने वाले कर्णभूषणो के मिष से मानो कोयल के शब्दो का अनुसरण कर उनके गलो को बाध कर उनका प्राणान्त करने वाले पाशा को छोडा ।
उद्दर्शयन्किंशुकपुष्पसूचीः सलीलमाधूतलतारुशाग्रः । वियोगिनां निग्रह्णाय सज्जः कामाज्ञया दक्षिणमारुतोऽभूत् ॥५२॥
अन्वयः किंशुकपुष्पसूचीः उद्दर्शयन् सलीकम् आधूतलताकशाग्रः दक्षिण- मारुतः कामाज्ञया वियोगिना निग्रह्णाय सज्जः अभूत् ।
व्याख्या किंशुकपुष्पाणि पलाशकुसुमान्येव सूचय स्ताः (कर्म) किंशुकपुष्पसूची रुद्दर्शयन्नुद्भवन् लीलया विलासेन सहितं सलीलं यथायत्तथा आधूतं कम्पितं लतैव कशा तस्या अग्र येन स दक्षिणमारुतो मलयपवन कामस्य मकरध्वजस्या- ऽऽज्ञयाऽनुशासनेन वियोगिन्यश्च वियोगिनश्चेति वियोगिनस्तेषां वियोगिनां 'पुमान्स्त्रियायेकशेष' । निग्रहणाय शासनाय सज्ज उद्यत सन्नडोऽभूत् । यथा शठरथबलीवर्दप्रेरणाय सूचीकशाद्यो प्रयोग क्रियते तथैव कामाज्ञया कामिजन- पीडनाय वसन्तेन किंशुकपुष्पलतायो प्रयोग कृत इति भाव । अत्र रूपका- लङ्कार ।
भाषा पलाश के फूल रूपी काँटे को लिए हुए विलास से लता रूपी कोड़े
( ४४८ )
या चाबुक के अग्रभाग को हिलाने वाला दक्षिण वायु, कामदेव की आज्ञा से, वियोगी और वियोगिनिओ पर शासन करने के लिए तयार हो गया। गाड़ी के बैल को हांकने के लिये चाबुक और चाबुक के दण्डे में एक काँटा भी लगा रहता है जिससे गाड़ीवान बैलों को ठीक चलाता है। उसी प्रकार वियोगी और वियोगिनिओ पर अपना शासन चलाने के लिए काम की आज्ञा से वसन्तऋतु पलाश का फूल रूपी कांटा और लता रूपी चाबुक लेकर, तयार हो गया। प्रसूननाराचपरम्पराभिर्वर्षत्सु योधेष्विव पादपेषु । वसन्तमत्तद्विरदाधिरूढः प्रौढत्वमाप स्मरभूमिपालः ॥५३॥ अन्वयः योधेषु इव पादपेषु प्रसूननाराचपरम्पराभिः वर्षत्सु (सत्सु) वसन्त- मत्तद्विरदाधिरूढः स्मरभूमिपालः प्रौढत्वम् आप। व्याख्या योधेषु भटेष्विव 'भटा योधाश्च योद्धारः' इत्यमरः। पादपेषु वृक्षेषु प्रसूनानि पुष्पाण्येव नाराचाः प्रक्ष्वेडना लोहनिर्मितशरास्तेषां परम्परास्ताभिः प्रसूननाराच परम्पराभिर्वर्षत्सु पुष्पबाणधाराः पातयत्सु सत्सु, पादपेभ्यः पुष्पेपु पतत्स्विति- भावः । वसन्त एव मत्तो मदान्धो द्विरदो गजस्तमधिरूढोऽधिष्ठितः स्मरः काम एव भूमिपालो राजा प्रौढत्वं प्रकर्षमौन्नत्यमित्यर्थं । आप प्राप । पुष्पोद्गमेन बसन्ते कामस्य प्रभावः प्रसृत इति भावः । भाषा योधाओ के समान वृक्षो के पुष्परूपी लोहे के बाणो की वृष्टि करते रहने पर अर्थात् अत्यधिक फूलो के उत्पन्न होकर नीचे गिरते रहने पर वसन्त रूपी मदोन्मत्त हाथी पर सवार कामरूपी राजा उन्नत अवस्था को प्राप्त हुआ अर्थात् काम का साम्राज्य चारो ओर फैल गया। समर्प्यमाणाद्भूतेकौसुमास्त्र-श्चैत्रेण चित्रीकृतकाननेन । अधिज्यधन्वापि पराङ्मुखोऽभून्निषङ्गभारे भगवाननङ्गः ॥५४॥
( ४४९ ) अन्वयः चित्रीकृतकाननेन चैत्रेण समर्प्यमाणाद्भुतकौसुमास्त्रः अधिज्यधन्वा अपि भगवान् अनङ्गः निषङ्गभारे पराङ्मुखः अभूत् । व्याख्या चित्रीकृतमलङ्कृतं विभिन्नवर्णनवीनपुष्पादिनेति भावः । काननं वनं 'अट- व्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । येन स तेन चैत्रेण वसन्तमासे- नेत्यर्थः । समर्प्यमाणं दीयमानमद्भुतं विचित्रं कौसुमं पौष्पमस्त्रं बाणो यस्मै स ज्यां मौर्वीमधिगतमधिज्यं धनुर्यस्य सः समारोपितचापोऽपि भगवान् पूज्योऽनङ्गः कामो निषङ्गभारे तूणीरभारग्रहणे पराङ्मुखो निरभिलाषोऽभूत् । चैत्रेण कानने महान्पुष्परूपबाणराशिरेकत्रीकृतो दत्तश्च कामाय येन बाणसंरक्षणाय तूणीरधारणस्याऽऽवश्यकतैव न जातेति भावः । भाषा जंगलो को रंगबिरंगी फूलों से सुशोभित करने वाले चैत्र से, आश्चर्यजनक फूलों के बाणों को पाकर, धनुष चढ़ाकर रखने वाले भी भगवान् कामदेव, तरकस धारण करने में विमुख रहे । अर्थात् सदैव चैत्र द्वारा पुष्पबाण दिये जाने के कारण धनुष चढ़ाए रहने पर भी तरकस में बाण रखकर उसे पीठ पर लटका रखने की आवश्यकता भगवान् कामदेव को न पड़ी । शृङ्गारिणीमार्जितदन्तपंक्ति-कान्त्येव नियन्त्रणमुच्छलन्त्या । प्रक्षाल्यमानस्य शनैरवापु-रनिन्द्यमिन्दोः किरणाः प्रसादम् ॥५५॥ अन्वयः नियन्त्रणम् उच्छलन्त्या शृङ्गारिणीमार्जितदन्तकान्त्या प्रक्षाल्यमानस्य इव इन्दोः किरणाः शनैः अनिन्द्यं प्रसादम् अवापुः । व्याख्या नियन्त्रणं निरर्गलमुच्छलन्त्योर्ध्वं प्रसरन्त्या शृङ्गारिणीभिरङ्गनाभिर्माजिता- स्स्वच्छीकृता धवलीकृता इत्यर्थः । दन्ता दशनास्तेषां कान्तिस्तया प्रक्षाल्यमानस्य संभाजितस्येव धवलीकृतस्येवेत्यर्थः । इन्दोश्चन्द्रस्य किरणाः कराः शनैः_क्रमशोऽ- निन्द्यं निर्मलं प्रसादं धावल्यमवापुः प्रापुः । उत्प्रेक्षालङ्कारः । २९
( ४५० ) भाषा बिना रोक टोक ऊपर की ओर फैलनेवाली, अङ्गनाओ द्वारा साफ किए हुए दांतो की कान्ति से मानो धोए हुए अर्थात् साफ किए हुए चन्द्रमा के किरण, धीरे धीरे अपूर्व स्वच्छता अर्थात् धवलता को प्राप्त हुए। अथ विरहिणीविलापं वर्णयति कविः— त्वं चैत्र मित्रं यदि मन्मथस्य तस्मिन्ननङ्गे कथमक्षताङ्गः। ज्ञातं तवान्तर्गतमागतोऽसि मिषेण नाशाय वियोगिनीनाम् ॥५६॥ अन्वयः हे चैत्र यदि त्वं मन्मथस्य मित्रं (तर्हि) तस्मिन् अनङ्गे (सति) त्वं कथम् अक्षताङ्गः। तव अन्तर्गतं (मया) ज्ञातम्। त्वं मिषेण वियोगिनीनां नाशाय आगतः असि। व्याख्या हे चैत्र ! हे वसन्त ! यदि त्व मन्मथस्य कामस्य मित्र सुहृत्तर्हि तस्मिन्का- मेऽनङ्गेऽङ्गहीने सति त्व कथमक्षतान्यङ्गानि यस्य स अभग्नावयवोऽविकलश- रीर असीत्यर्थ । तव वसन्तस्यान्तर्गतं मानसगतो भावो मया विरहिण्या ज्ञात बुद्धम्। त्व मिषेण व्याजेन वियोगिनीना विरहिणीना नाशाय विध्वंसनायाऽऽ- गतस्समायातोऽसि। कामस्याऽनङ्गत्वे जातेऽपि त्वमधुना पुष्पविकासादिष्व्याजेन तदीयं वियोगिनीनाशरूप कार्यं सम्पादयसीति भाव । भाषा हे वसन्त ! यदि तुम कामदेव के मित्र हो तो कामदेव के शरीर रहित होने पर तुम कैसे अविकल शरीर वाले हो अर्थात् तुम कैसे बिना आघात रह गये। तुम्हारे हार्दिक भाव को मैने समझ लिया। तुम बहाने से वियोगिनिय का नाश कर डालने के लिये आए हो ! अर्थात् कामदेव के काम में तुम, फूल को पैदा कर बहाने से सहायता कर ही रहे हो। नूनं महापातकिनं वितर्क्य वियोगिवर्गक्षयदीक्षितं त्वाम्। पस्पर्श न त्र्यम्बकनेत्रवह्निः पापैस्त्वदङ्गैः प्रियखण्डितानाम् ॥५७
( ४५१ ) अन्वयः त्र्यम्बकनेत्रवह्निः प्रियखण्डितानाम् अखण्डैः पापैः त्वां वियोगिवर्ग- क्षयदीक्षितं नूनं महापातकितं वितर्क्य न पस्पर्श । व्याख्या त्रीणि अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवस्तस्य नेत्रवह्निर्नयनाग्निः शिवनेत्रवह्निः प्रियेण कान्तेन खण्डिता विरहितास्तासां विरहिणीनामथवा प्रियाः खण्डिता सुदूरं गता यासां तासां वियोगिनीसम्बन्धिताभिरित्यर्थः । अखण्डैरतिमहद्भिः पापैर्दुष्कृतैः प्राणापहरणरूपैरित्यर्थः । त्वां वसन्तं वियोगिनां विरहिणां वर्गस्य समूहस्य क्षये नाशकार्य दीक्षितं समात्तदीक्षं सन्नद्धमत एव नूनं निश्चयेन महापा- तकिनं महापापिनं वितर्क्य विचार्य न पस्पर्श न स्पृष्टवान् न दग्धवानित्यर्थः । भाषा शङ्कर की आख की आगने, वियोगिनिओ के सम्बन्ध में किये हुए बड़े २ पापो से, तुम को विरही लोगो के समूह को नाश करने में लगे हुए अत एव निश्चय पूर्वक महापातकी समझ कर, नहीं छूवा अर्थात् नही जलाया । हराहवे पञ्चशरं विमुच्य पलायितः क्षत्रपराङ्मुखस्त्वम् । अस्य क्षताङ्गस्य पुरोऽधुनात्र हा चैत्रचाण्डाल कथं स्थितोऽसि ॥५८॥ अन्वयः क्षत्रपराङ्मुखः त्वं हराहवे पञ्चशरं विमुच्य पलायितः । हे चैत्र- चाण्डाल ! अधुना अत्र क्षताङ्गस्य अस्य पुरः हा ! कथं स्थितः असि । व्याख्या क्षत्रियकुलवाचकस्य क्षत्रशब्दस्याऽत्र लक्षणया क्षत्रियधर्मोऽर्थः । क्षत्रात्- क्षत्रियधर्मात्पराङ्मुखो निरपेक्षस्त्यक्तक्षत्रियधर्मस्त्वं हरस्य शङ्करस्याहवो युद्धं तस्मिन्, शङ्करेण सह संजाते युद्धे पञ्चशरं कामं 'कामः पञ्चशरः स्मरः' इत्यमरः । विमुच्य परित्यज्य पलायितोऽपसृतः । प्राणभयात्तमेकाकिनं परित्यज्य पलाय्य दूरं गत इत्यर्थः । चैत्र एव चाण्डालस्तत्सम्बोधने हे चैत्रचाण्डाल ! हे चैत्राधम ! अधुनेदानीमत्राऽस्मिन्प्रदेशे क्षतं भग्नं शरीरं गात्रं यस्य स तस्य भग्नगात्रस्याऽस्य कामस्य पुरोऽग्रे हा खेदसूचकमव्ययम् । कथं केन प्रकारेण
( ४५२ ) स्थितोऽसि विद्यमानोऽसि । घोरसङ्कटे त्यक्तसङ्गस्य कामस्य पुनः सम्मुखे समागमस्ते निर्लज्जत्वमेव द्योतयतीति भावः । भाषा क्षत्रियधर्म से विमुख तुम, शिव के साथ भये हुए युद्ध में कामदेव को छोड़कर भाग गये थे । हे नीच चैत्र ! इस समय, इस स्थान पर भग्न शरीर कामदेव के सम्मुख हाय ! कैसे उपस्थित हो सके हो । अर्थात् घोर संकट में कामदेव का साथ छोड़कर भाग जाने वाले तुम, इस समय यहाँ कामदेव के सम्मुख कैसे उपस्थित होकर निर्लज्जता प्रकट कर रहे हो । इहैव सङ्गः फलवान्बभूव त्वया महापातकिना पिकानाम् । यदर्थदग्धोल्मुककश्मलेन देहेन लोकस्य बहिश्चरन्ति ॥५६॥ अन्वयः महापातकिना त्वया पिकानां सङ्गः इह एव फलवान् बभूव । यत् (ते) अर्धदग्धोल्मुककश्मलेन देहेन लोकस्य बहिः चरन्ति । व्याख्या महापातकिनाऽत्युग्रपापिना त्वया वसन्तेन पिकानां कोकिलानां सङ्गस्सहवास इहैवाऽस्मिन्नेव जन्मनि फलवान् फलसंयुक्तो बभूव जात । 'अत्युग्रपुण्यपापा- नामिहैव फलमश्नुते' इति वचनात् । यद्यस्मात्कारणात् ते पिका अर्धं दग्धं ज्वलितमुल्मुकमलातम् 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः । तद्वत्कश्मलेन कृष्णवर्णेन देहेन शरीरेण लोकस्य जनस्थानस्य जनसमुदायस्य वा बहिर्वाह्यदेशे वने इत्यर्थ । चरन्ति भ्रमन्ति । महापातकिना वसन्तेन सह पिकानां संसर्गात् तेषामपि पापसम्बन्धात्कृष्णवर्णत्वं लोकाद्वहिर्निष्कासनञ्च जातमिति भावः । भाषा महापापी तुम्हारे साथ कोयलो का साथ होने से कोयलो को उसका फल इसी जन्म म मिल गया । क्योकि कोयल अधजली मशाल के समान काले रंग के शरीर से जन समूह के बाहर जंगलो में भटकने लगी । अर्थात् पापी थे संसर्ग के पाप से काली पड़ कर नगर से दूर जंगलो में रहने लगी ।
( ४५३ ) त्वं दृष्टदोषोऽपि पुनः स्मरेण यत्संगृहीतः शृणु तत्र हेतुम् । अङ्गीकृतस्त्रीवधपातकेन केनापि न स्वीकृत एष भारः ॥६०॥ अन्वयः यत् दृष्टदोषः अपि त्वं स्मरेण पुनः संगृहीतः तत्र हेतुं शृणु । अङ्गी- कृतस्त्रीवधपातकेन केन अपि एष भारः न स्वीकृतः । व्याख्या यत् यतो दृष्ट परिज्ञातो दोषो मित्रसाहाय्यकारित्वाभावरूपो दुर्गुणो यस्य स विज्ञातदुर्गुणोऽपि त्वं वसन्तः, स्मरेण कामेन पुनर्मुहु संगृहीतोऽङ्गीकृतस्तत्र तस्मिन्विषये हेतुं कारणं शृणु समाकर्णय । अङ्गीकृतमुररीकृतं स्त्रीणां नारीणां वधरूपं पातकं पापं येन स तेन स्वीकृतनररोदनरूपपापेन केनाऽपि केनाऽपि व्यक्तिविशेषेण एष स्त्रीवधरूपो भार कार्यं न स्वीकृतो नोररीकृत । भाषा कामदेव ने, मित्र की सहायता न करने के दोष से युक्त भी तुमको फिर से क्यों अपने साथ रख लिया, इसका कारण सुनो । स्त्रीवध का पाप स्वीकार करने वाले, तुम्हारे सिवाय किसी ने भी इस बोझ को उठाना अर्थात् इस कार्य को करना स्वीकार नहीं किया । अर्थात् स्त्रीवध का पाप किसी के स्वीकार न करने से, तुम जैसे दोषी को भी उसने अपना लिया । इत्थं वियोगज्वरजर्जराणा-मुद्वेजितानां मधुमासलक्ष्म्या । आसन्मुहुः पक्ष्मललोचनानां चैत्रे विचित्रोक्तिविचेष्टितानि ॥६१॥ अन्वयः चैत्रे मधुमासलक्ष्म्या उद्वेजिताना वियोगज्वरजर्जराणां पक्ष्मललोचना- नाम् इत्थं विचित्रोक्तिविचेष्टितानि मुहुः आसन् । व्याख्या चैत्रे वसन्ते मधुमासलक्ष्म्या वसन्तशोभयोद्वेजितानां पीडितानां वियोगज्वरेण पतिविरहरूपज्वरेण जर्जराणां शिथिलीभूतानां पक्ष्मानि घनपक्ष्मयुक्ता 'पक्ष्मलोम्नि किञ्जल्के तत्वाद्यंशेऽप्यणीयसि' इत्यमरः । लोचनानि नयनानि
( ४५४ ) यासां तास्तासां पक्ष्मललोचनानामङ्गनानामित्यमनेन पूर्वोक्तप्रकारेण विचित्रा आश्चर्योत्पादिका उक्तयो भाषितानि 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः । तासां विचेष्टितानि विलासितानि मुहुर्वारम्वारमासन् बभूवुः । भाषा वसन्त ऋतु में वसन्त की शोभा से पीड़ित, और पति विरह से जर्जरित, सुन्दर गशीन पखौनियों वाली नारियों के इस प्रकार के आश्चर्य कारक उक्तियो के विलास बार २ होते थे । अर्थात् विरह के कारण पीड़ित हो, स्त्रियाँ इस प्रकार के अनेक विचित्र उद्गार बार २ निकालती थीं । गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यमन्यप्रमदारदाङ्कः । दोषोऽपि यूनां गुण एव मेने पुरन्ध्रिभिर्मानपराङ्मुखीभिः ॥६२॥ अन्वयः मानपराङ्मुखीभिः पुरन्ध्रिभिः यूनां गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यं अन्यप्रमदारदाङ्कः दोषः अपि गुणः एव मेने । व्याख्या माने दर्पे पराङ्मुख्यो यत्तन्तर्तुकरणेनोत्सुक्यादुदासीनास्ताभिर्मानरहिताभिः पुरन्ध्रिभिरङ्गनाभिर्यूनां युवजनानां गम्भीरता धैर्यं चाञ्चल्याभाव इत्यर्थः । चाटुपराङ्मुखत्वमनुनयानुकूल्यप्रेमवार्ताप्रचाररहितत्वं 'अस्त्री चाटुश्चटुश्लाघा प्रेम्णा मिथ्या विकत्थनम्' इत्यमरः । सौभाग्यं सुन्दरभाग्यशालित्वं स्त्रीसमाग- माप्तीच्छायां क्लेशराहित्यमित्यर्थः । अन्यासां प्रमदाना स्त्रीणां रदानां दशना- नामङ्कश्चिह्नं 'कलङ्काङ्कौ लाञ्छनञ्च चिन्हं लक्ष्म च लक्षणम्' इत्यमरः । इति दोषोऽपि गुण एव मेने तत्र दोषत्वबुद्धिरेव न जातेतिभावः । वसन्तर्तुकृता- ध्युपकामवेदनया यूनां सकलदोषान् विस्मृत्य ताः कामपरवशञ्जाता इत्यर्थः । यूनां दोषा अपि तासां कृते तस्मिन्काले कामोद्दीपका जाता इति भावः । भाषा स्त्री के सामने विद्यमान रहने पर भी युवकों का धीरता से बिना किसी प्रकार की चञ्चलता दिखाते हुए बैठे रहना, मीठी २ रस भरी प्रेम की बातें न करना, स्त्री समागम की इच्छा रहते हुए भी किसी प्रकार के क्लेश से पीड़ित न होकर, अपनी ही ऐंठ में रहना, और उनके शरीर पर के अन्य स्त्री के या
( ४५५ ) सौत के दांत से काटने के चिन्ह—इन दोषों को भी, मान रहित स्त्रियों ने गुण ही समझा । युवा कामियों में, इन दोषों को देख कर पत्नियां क्रुद्ध हो जाती हैं । परन्तु वसन्त-ऋतु के प्रभाव से जिनका मान ही दूर हो गया है अतएव कामासक्त भई हुई स्त्रियों ने इन दोषों को भी गुण ही समझा । थन्दिष्कृतं वसन्तवर्णनमारभते कविः— मानग्रन्थिकदर्थनाय कथितः सर्वत्र पुंस्कोकिलाः केलीकर्मणि दाक्षिणात्यमरुतामध्यक्षभावोऽर्पितः । पुष्पास्त्रस्य जगत्त्रयेऽपि विरहप्रत्यूहहेवाकिनः संनद्धोऽयमसाध्यसाधनविधौ साम्राज्यमन्त्री मधुः ॥ ६३॥ अन्वयः सर्वत्र मानग्रन्थिकदर्थनाय पुंस्कोकिलाः कथिताः । केलीकर्मणि दाक्षिणात्यमरुताम् अध्यक्षभावः अर्पितः । जगत्त्रये अपि विरहप्रत्यूह- हेवाकिनः पुष्पास्त्रस्य साम्राज्यमन्त्री अयं मधुः असाध्यसाधनविधौ संनद्धः । (अस्ति)। व्याख्या (वसन्तेन) सर्वत्र सर्वस्थानेषु मानः कोप एव ग्रन्थिस्तस्य कदर्थनाय भञ्जनाय विनाशायेत्यर्थः । पुंस्कोकिलाः पिकाः कथिता आज्ञप्ताः । केलीकर्मणि काम- क्रीडाविलासे रत्याविधीत्यर्थः । दाक्षिणात्यमरुतां मलयपवनानामध्यक्षभाव आधिपत्यमर्पितो दत्तः । जगतां भुवनानां 'विष्टपं भुवनं जगत्' इत्यमरः । त्रयं तस्मिन् त्रिलोक्यामपि विरहे वियोगसमये प्रत्यूहा विघ्नाः 'विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः । क्लेशोत्पादका उपद्रवा इत्यर्थः । तेषां हेवाकः १ उत्कटेच्छाऽ- स्त्यस्येति तस्य प्रियविरहसमये पीड़ोत्पादनकामस्य पुष्पास्त्रस्य कामस्य साम्राज्यस्य सार्वभौमराज्यस्य मन्त्री धीसचिवः 'मन्त्री धीसचिवोऽमात्यः इत्यमरः । अयं प्रसिद्धो मधुर्वसन्तोऽसाध्यानामसम्भवानां विरहिदृप्तानां साधनमुत्पाटनं तस्य १ हेवाकशब्दः कश्मीरकविभिः कल्हणविल्हणादिभिरेव प्रायः प्रयुक्तः । 'जायन्ते महतामहो निरुपमप्रस्थानहेवाकिनां निःसामान्यमहत्त्वयोगरिगुणा वार्ता विस्तारि' इति कल्हणः ।
( ४५६ ) विधिः प्रक्रिया तस्मिन्संग्रद्धः सुसज्जोऽस्ति । शार्दूलविक्रीडितच्छन्दः । "सूर्याश्वै- र्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्" इति लक्षणात् । रूपकालङ्कारः । भाषा वसन्त ने सब स्थानो में प्रेमकोप रूपी गांठ को खोल डालने के लिये कोयलो को आज्ञा दे दी । रत्यादि कामक्रीडाओ में मल्यानिल को मुख्य स्थान दे दिया । तीनो लोको में वियोगजनित कष्ट देने की उत्कट इच्छा रखने वाले कामदेव के साम्राज्य का मन्त्री, यह वसन्त, विरही जनो में, असम्भव दुःखो को उत्पन्न करने के काम में कटिबद्ध है । अर्थात् कोयल व मल्यानिल की सहायता से वसन्त ऋतु, वियोगियो को अत्यधिक कष्ट पहुंचाने की कामदेव की उत्कट इच्छा को पूर्ण करने में सहायता करता है । लीलास्नानविधिक्षमं मधुलिहां पुष्पेषु जातं मधु स्थायित्वं कलकण्ठकण्ठकुहरेष्वासेवते पञ्चमः । एकच्छत्रजगज्जयार्जनरुचेर्देवस्य शृङ्गारिण- श्चैत्रश्चित्रमकाण्ड एव समभूत्त्रैलोक्यजैत्रो भटः ॥६४॥ अन्वयः मधुलिहां पुष्पेषु लीलास्नानविधिक्षमं मधु जातम् । पञ्चमः कलकण्ठ- कण्ठकुहरेषु स्थायित्वम् आसेवते । एकच्छत्रजगज्जयार्जनरुचेः शृङ्गा- रिणः देवस्य अकाण्डे एव चैत्रः त्रैलोक्यजैत्रः भटः समभूत् (इति) चित्रम् । व्याख्या मधुलिहां भ्रमराणां ( कृते ) पुष्पेषु कुसुमेषु लीलया क्रीडया स्नानं तस्य विधिविधानं तस्य क्षमं योग्यमत्यधिकमित्यर्थः । मधु पुष्परसो जातं समुत्पन्नम् । पञ्चमः पञ्चमस्वरः कलो मधुरः कण्ठो येषां ते कलकण्ठाः कोकिलास्तेषां कण्ठा एव कुहराणि गुहास्तेषु स्थायित्वं स्थिरतामासेवते जुषते । 'पिको वदति पञ्चमम्' इत्युक्तेः । एकं छत्रं यस्य स एकच्छत्रो यो जगतो भुवनस्य 'विष्टपं भुवनं जगत्' इत्यमरः । जयो विजयस्तस्याऽर्जने प्राप्तौ रुचिः प्रीतिर्यस्य स तस्य शृङ्गारिणो देवस्य कामस्य भगवतोऽकाण्डेऽकस्मादेव चैत्रो वसन्तमासस्त्रैलोक्यस्य त्रिभुवनस्य जैत्रो जयनशीलो भटो योद्धा समभूत् संप्राप्त इति चित्रमाश्चर्यकरम् ।
( ४५७ ) भाषा भौरों के लिये, फूलों में क्रीडापूर्वक स्नान करने योग्य अर्थात् अत्यधिक पुष्प- रस ( मकरन्द ) उत्पन्न हो गया । पञ्चम स्वर, कोकिलों के कण्ठकुहरों में स्थिर हो गया । जगत् का एक छत्र विजय प्राप्त करने की अभिलाषा रखने वाले कामदेव का योद्धा चैत्र, अचानक ही, तीनों भुवनों को जीतने वाला हो गया—यह एक आश्चर्य की बात है । भृङ्गेर्विश्ववियोगिवर्गदलनोत्तालस्य वैतालिकैः प्रारब्धा विरुदावलीव पठितुं शृङ्गारबन्धोर्मधोः । नादः कोकिलयोषितां प्रमुषितत्रैलोक्यमानग्रहः कामः सम्प्रति कौतुकाद्यदि परं पौष्पं धुनीते धनुः ॥६५॥ अन्वयः वैतालिकैः भृङ्गैः विश्ववियोगिवर्गदलनोत्तालस्य शृङ्गारबन्धोः मधोः विरुदावली पठितुं प्रारब्धा इव । प्रमुषितत्रैलोक्यमानग्रहः कोकिलयोषितां नादः (प्रारब्धः) । यदि परं सम्प्रति कामः कौतुकात् पौष्पं धनुः धुनीते (तर्हि धुनोतु नाम) । व्याख्या वैतालिकै राज्ञां प्रातःकाले निद्राप्रबोधनस्तवस्तुतिकारकैः 'वैतालिको बोध- कराऽमालिको याष्टिकाधेशः । हर्षामर्षोत्साहेतु मगण बन्दिनः स्तुतिपाठकाः' इत्यमरः । भृङ्गैर्भ्रमरैर्विश्वेषां सर्वेषां वियोगिनां वियोगिस्त्रीपुंगवानां (पुंस्तान्- धिग्येति-एकशेषः) वर्गं समूहस्तस्य दलनं संहारस्तस्मिन्नुत्ताल उत्कटस्तस्य सकल- वियोगिसमूहसंहारोत्कटस्य शृङ्गारस्य स्त्रीपुंसोः परस्परं सम्भोगस्पृहाया बन्धुर्मित्रं सहायक इत्यर्थः । तस्य, उक्तञ्च—"पुंसः स्त्रिया स्त्रियाः पुंसि सम्भोगं प्रति या स्पृहा । स शृङ्गार इति ख्यातः क्रीडारत्यादिकारकः" ॥ तदा शृङ्गारस्य कामस्य बन्धोर्मित्रस्य मधोर्वसन्तस्य विरुदावली यशःप्रशस्तीनामावली पङ्क्तिर्वि- रुदावली 'योग्यालिरावलिः पङ्क्तिः श्रेणी रेखास्तु राजयः' इत्यमरः । पठितु- मुच्चारयितुं प्रारब्धा इव । प्रमुषितो बलादिनाशितस्त्रैलोक्यस्य मानग्रहः कोपग्रहणं येन सः कोकिलयोषितां पिकीनां नादः शब्दोऽपि प्रारब्ध इति भावः । यदि परं यदि केवलं सम्प्रत्यधुना कामो मनोजः कौतुकात्कौतूहलात्पौष्पं कुसुममयं धनुः
( ४५८ ) शरासनं धुनीते सञ्चालयति तर्हि धुनोतु नाम सञ्चालयतु, तदीयं कार्यं भृङ्गमधुपकोकिलैः सम्पादितमेवेति भावः । भाषा स्तुतिपाठ कर जगाने वाले वैतालिक रूपी भौरों ने, सब विरहिजनों के समूहों का संहार करने में प्रबल और स्त्री पुरुषों की परस्पर संभोग की अभिलाषा के सहायक, वसन्तऋतु की, अथवा कामदेव के मित्र वसन्त ऋतु को, मानो यश प्रशस्ति का पाठ करना प्रारम्भ कर दिया है। अर्थात् वसन्त ऋतु के आने से भौरों की गुंजार चारो ओर होने लगी है जो कामोत्पादक है। तीनों लोकों की मानिनियों के कोप को हठात् दूर कर देने वाली कोकिलाओं की कूक भी प्रारम्भ हो गयी है । अगर इसके ऊपर भी कामदेव, खेलवाड़ में अपने फूलों के धनुष्य को चलाने लगें तो भले ही चलावें, उनका कार्य तो भृङ्ग आदि सेवकों ने कर ही दिया है । कूजत्कोकिलकोपिता गुलिधनुःशिक्षां समासेवते खिन्ना चन्दनमारुतेन मलये दावाग्निमाकाङ्क्षति । किञ्चान्विष्यति दुमना दलयितुं कामेन मैत्रीं मधोः कर्तुं धावति दुर्लभे त्वयि सखी कां कां न वातूलताम् ॥६६॥ अन्वयः त्वयि दुर्लभे (सति), सखी कूजत्कोकिलकोपिता (सती) गुलिधनुःशिक्षां समासेवते । चन्दनमारुतेन खिन्ना (सती) मलये दावाग्निम् आकाङ्क्षति । किञ्च दुर्मनाः (सती) कामेन मधोः मैत्रीं दलयितुम् अन्विष्यति । कां कां वातूलतां कर्तुं न धावति । व्याख्या त्वयि दिष्टक्रमाद्देवे दुर्लभे दुष्प्राप्ये सति त्वद्वियोगावस्थायामित्यर्थः । सखी कामिनी कूजद्भिः शब्दं कुर्वाणं कोकिलं पिकैः कोपिता रोषं प्रापिता सती गुलिधनुषो मृद्गुलिकां निघाय येन यन्त्रेण वानरेषु पक्षिषु च गुलिकाप्रहारं क्रियते तद्यन्त्रं तस्य "धनुही" "गुलेला" इति भाषायां प्रसिद्धस्य, शिक्षामभ्यासं समासेवते करोति । कोकिलशब्देन त्वद्वियोगावस्थायां पीडा न भवेदिति कोकिल- दूरीकरणार्थं गुलिधनुषोऽभ्यास प्रारभत इति भावः । चन्दनवायुना चन्दनगन्ध-
( ४५९ ) युक्तवायुना दक्षिणानिलेन खिन्ना कुत्सिता सती मलया मलयपर्वते दावाग्निं वनदाहकाग्नि दावानलमित्यर्थः । आकाङ्क्षति वाञ्छति । येन दावानलेन मलयजचन्दनवृक्षेषु दग्धेषु चन्दनवायोरभावः स्यादिति भावः । किञ्चान्यच्च दुर्मना दुःखितहृदया सती कामेन मन्मथेन मधोर्वसन्तस्य मैत्रीं सख्यं भञ्जयितुं विनाशयितुमन्विष्यति प्रेप्सति उपायं मृगयतीति भावः । कां कां वातूलता- मुन्मत्ततां 'वातूलः पुंसि वात्यायामपि वातसहे त्रिषु' इत्यमरः । कर्तुं सम्पादयितुं न धावति न वेगेन प्रवर्त्तते । भाषा तुम्हारे न मिलने पर अर्थात् तुम्हारी विरहावस्था में, कामिनी, कूकने वाली कोयलो से क्रुद्ध होकर गुलेल चलाने का अभ्यास प्रारम्भ करती है जिससे गोली से कोयलो को मार कर उड़ादे जिसमें उनके शब्दो से विरहावस्था में कष्ट न हो । चन्दन की सुगन्ध युक्त वायु से अर्थात् मलयानल से खिन्न होकर मलयाचल में दावानल लगने की अभिलाषा करती है । जिसमें सब चन्दन के वृक्ष जल कर भस्म हो जाएँ और विरहावस्था में चन्दन वायुओ से कष्ट न हो, और दुखित होकर, कामदेव और वसन्त की मित्रता का नाश करने के उपायो को खोजती है । कौन २ सा पागलपन का काम करने में वह शीघ्रता से नही प्रवृत्त होती है । सन्नद्धं माधवीनां मधु मधुपवधूकेलिगण्डूषयोग्यं विश्राम्यन्ति भ्रमेण क्वचिदपि मरुतो न क्षणं दाक्षिणात्याः । क्रीडाशैलीभवन्ति प्रतिकलमलिनां कौसुमाः पांसुकूटा— श्चैत्रे पुष्पास्त्रमित्रे तदिह विरहिणां कीदृशी जीविताशा ॥६७॥ अन्वयः माधवीनां मधु मधुपवधूकेलिगण्डूषयोग्यं सन्नद्धम् । दाक्षिणात्याः मरुतः भ्रमेण क्वचिदपि क्षणं न विश्राम्यन्ति । अलिनां कौसुमाः पांसुकूटाः प्रतिकलं क्रीडाशैलीभवन्ति । तत् पुष्पास्त्रमित्रे चैत्रे (सति) इह विरहिणां जीविताशा कीदृशी । व्याख्या माधवीनां वासन्तीलतानां 'वासन्ती माधवीलता' इत्यमर । मधु पुष्परसो
( ४६० ) मधुपानां भ्रमराणां यध्यः कान्तास्तासां केलयः क्रीडास्तासु गण्डूषा मुखपूर्तयः 'गण्डूषो मुखपूर्तौ स्यात्' इति हैमः । तेषां योग्यं तदर्थं पर्याप्तं सन्नद्धं प्रगुणीभूतं समागतम् । माधवीलतासु मकरन्दाधिक्यं जातमिति भावः । दाक्षिणात्या दक्षिणदिशात आगता मरुतो मलयानििलाः श्रमेण दूरदेशागमनपरिश्रमेण क्वचिदपि कुत्रापि क्षणमपीषत्कालपर्यन्तमपि न विश्राम्यन्ति विश्रान्ति न काङ्क्षन्ति । अलिनां भ्रमराणा कृते कौसुमा. पौष्पाः पांसुकूटा धूलिसमूहाः प्रतिकलं प्रतिक्षणं क्रीडा- शैलीभवन्ति लीलापर्वतीभवन्ति लीलापर्वत इवाऽऽचरन्तीति भावः । अभूततद्भावे च्च्विः । तत्तस्मात् कारणात् पुष्पाण्येव कुसुमान्येवाऽस्त्राणि शरा यस्य स पुष्पबाणः कामस्तस्य मित्रं सखा तस्मिन् चैत्रे वसन्ते विद्यमाने सतीहाऽस्मिन् जगति विरहिणां वियोगावस्थापन्नानां स्त्रीपुंसां जीवितस्य जीवनस्याऽऽशा कीदृशी किमिति । न जीवनाशेति भावः । अर्थापत्तिरलङ्कारः । स्रग्धरावृत्तम् । "म्रभ्र्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” इति लक्षणात् । भाषा वासन्ती लताओं में मकरन्द, भौरियों के लीलागत कुल्ला करने के योग्य तयार हो गया है । दक्षिण दिशा से बहने वाले मलया निल, थकावट से कहीं भी विश्राम नहीं लेते है अर्थात् लगातार बहते ही रहते हैं । भौंरों के लिये पुष्पधूलि के ढेर प्रतिक्षण क्रीडापर्वत का काम करते हैं । इसलिये कामदेव के मित्र वसन्त के आने पर वियोगियों के जीते रहने की आशा कैसी ? अर्थात् ऐसे समय में वियोगियों का जीते रहना सम्भव नहीं है । पुष्पैर्भ्राजिष्णुभस्त्राकरणिमगणितैः शाखिनः के न याता- श्चञ्चन्निस्त्रिंशलेखामयमिव भुवनं भृङ्गमालाभिरास्ते । त्रैलोक्याकाण्डचण्डप्रहरणनिबिडोत्साहकण्डूलदोष्णः पुष्पेशोर्जैत्रशस्त्रव्यतिकरविधये साधु सजो वसन्तः ॥६८॥ अन्वयः के शाखिनः अगणितैः पुष्पैः भ्राजिष्णुभस्त्राकरणि न याताः । भृङ्ग- मालाभिः भुवनं चञ्चन्निस्त्रिंशलेखामयम् इव आस्ते । त्रैलोक्याकाण्डचण्ड- प्रहरणनिबिडोत्साहकण्डूलदोष्णः पुष्पेशोः जैत्रशस्त्रव्यतिकरविधये वसन्तः साधु सज्जः ।
( ४६४ ) भरितसुराभाण्डभाङ्कारचण्डाः उन्मीलन्नीलमोचापरिचयशिशिराः द्राविडीनां कर्पूरापाण्डुगण्डस्थललुलितरयाः अमी दाक्षिणात्याः वायवः वान्ति । व्याख्या नालिकेरीफलानां नारिकेलफलानां कुहरेषु मध्यस्यगह्वरेषु कुहत्कारि कुहूदिति शब्दकर्तृ शब्दापमानमित्यर्थः । पानीयं जलं कल्लोलयन्तस्तरङ्गयन्तः कावेरी- नद्यास्तीरे तटे तालद्रुमास्तालवृक्षास्तंभरितानि तालनिस्स्रुतजलेन 'ताडी' इति प्रसिद्धेन परिपूरितानि सुराभाण्डानि मद्यपात्राणि तेषां भाङ्कारेण झाङ्कारेण शब्देनेत्यर्थः । चण्डाः प्रचण्डाः सुराया मादकत्वाद्युग्रप्रसरा इत्यर्थः । उन्मीलयन्त्यो विकसन्त्यो नीला नीलवर्णा मोचाः शाल्मलिवृक्षाः कदलयो वा 'पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः' इत्यमरः । 'कदली वारणबुसा रंभा मोचांशुमत्फला' इत्यमरः । तासां परिचयेन सम्पर्केण शिशिराः शीता द्राविडीनां चोलदेशाङ्गनानां कर्पूरवदापाण्डूनि घनसारवच्छुभ्राणि 'अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः । गण्डस्थलानि कपोलस्थलानि तैर्लुलितः संभग्नः रयो वेगो येषां ते अमी स्पर्शगम्या दक्षिणे भवा दाक्षिणात्या वायवो मलयानिला वान्ति चलन्ति । अत्र दाक्षिणात्यवायुषु धावत्पुरुषव्यवहारप्रतीत्या समासोक्ति- रलङ्कारः । स्रग्धराच्छन्दः । भाषा नारियलों के बीच के कुहूहू ऐसा शब्द करने वाले जल को तरङ्गित करने वाले, कावेरी नदी के किनारे के ताड़ के वृक्षों से चूने वाली ताड़ी से परिपूर्ण (ताड़ी रखने के) बर्तनों के शब्दों से उग्ररूप धारण करने वाले, फूलने वाली नीले (हरे) रंग के सेमर के या केलों के सम्पर्क से ठण्डे, चोलदेश की नारियों के कपूर के ऐसे श्वेत गालों से टकराने से मन्द वेग, ये मलयानिल बह रहे हैं। भृङ्गालीभिरधिज्यमन्मथधनुर्लीलां लभन्ते लताः किं पुष्पं न विभर्ति पुष्पधनुषस्त्रैलोक्यजैत्रास्त्रताम् । दोलान्दोलनकेलिलोलवनितासंचारितास्त्रोऽधुना पञ्चेषुश्शलभत्वभेदविधिना गर्वं समारोहति ॥७२॥ अन्वयः लताः भृङ्गालीभिः अधिज्यमन्मथधनुर्लीलां लभन्ते । किं पुष्पं पुष्प-
( ४६५ ) धनुषः त्रैलोक्य-जैत्राखतां न बिभर्ति। दोलान्दोलनकेलिलोलवनितासं- चारितास्त्रः पञ्चेषुः अधुना चललक्ष्यभेदविधिना गर्वं समारोहति । व्याख्या रुता वीरुध 'लता प्रतानिनी वीरुद्' इत्यमर । भृङ्गालीभिर्भ्रमरपङ्क्ति- भिर्ज्यां मौर्वीमधिगत अधिज्य सज्ज मन्मथस्य कामस्य धनुश्चापस्तस्य लीला शोभा लभन्ते प्राप्नुवन्ति । किं पुष्प कुसुमं पुष्टधनुष कामस्य त्रैलोक्यस्य त्रिभुवनस्य जैत्रं जयनशीलमस्त्रं तस्य भावस्त्रैलोक्यजैत्रास्त्रता ता न बिभर्ति न धारयत्यपि तु सर्वाणि पुष्पाणि त्रैलोक्यजैत्रास्त्रता धारयन्त्येव । दोलासु प्रेङ्खास्वान्दोलन- केलय दोलावेगेनोर्ध्वमधोगमनक्रीडास्ताभिर्लोलाश्चञ्चला वनितास्तासु सञ्चारितानि सम्प्रापितान्यस्त्राणि येन स अथवा वनिता एवाङ्गना एव सञ्चारितानि प्रयुक्ता- न्यस्त्राणि येन स पञ्च इषवो बाणा यस्य स कामोऽधुनेदानीं वसन्तसमये चलान्यस्थिराणि लक्ष्याणि शरव्याणि 'लक्ष लक्ष्यं शरव्यं च' इत्यमर । अङ्गना- रूपाणि कामुकरूपाणि वा तेषा भेदो विदारण तस्य विधि करण तेन गर्वं दर्पं समारोहति प्राप्नोति । स्थिरलक्ष्यभेदादस्थिरलक्ष्यभेदन कठिनमिति दर्पहेतु । काव्यलिङ्गमलङ्कारः । शार्दूलविक्रीडितच्छन्द । भाषा लताएँ, भौंरो की कतारो से युक्त होने से कामदेव के मोर्वी से युक्त अर्थात् सज्ज धनुष की शोभा को प्राप्त कर रही हैं। कौन फूल, कामदेव के, तीनो लोको को जीतने योग्य अस्त्रत्व को नहीं धारण करते हैं अर्थात् सभी फूल तीनो लोको को जीतने वाले अस्त्र का काम करते हैं। हिंडोले के, ऊपर नीचे होने की क्रीडा से चंचल कामियो और कामिनिओ पर अस्त्र का प्रयोग करने वाला कामदेव इस वसन्त ऋतु में अस्थिर निशाने का भेदन करने के कार्य से, या चंचल कामिनी रुपी अस्त्र का प्रयोग करने वाला कामदेव इस वसन्तऋतु में कामुक रूपी अस्थिर निशाने का भेदन करने के प्रावीण्य स, घमण्ड कर रहा है। उन्माद्यन्मधुपेन पुष्पमधुना केलीभुवः पङ्किलाः सर्वे भङ्गमयं दिशन्ति कुसुमभ्राग्भारतः पादपाः । चैत्रेणास्त्रपरम्पराव्ययविधौ दैन्यं परित्याजितः कामः सम्प्रति बाणमोक्षरसिको लक्ष्येष्वलक्ष्येषु च ॥७३॥ ३०
( ४६२ ) क्रीडावनालीनिखिलपरिमलाचान्तये चञ्चरीकान् स्तौति । कम् इव जीव- रक्षाभ्युपायं न भजते । व्याख्या चारु भ्रुवौ यस्याः सा सुभ्रूस्तव विक्रमाङ्कदेवस्य वियोगे विरहे चन्दनाद्रेर्म- लयपर्वतस्य परस्तादनन्तरं भुवः पृथ्वी श्रीखण्डानां चन्दनानां वाता वायवस्तैः शून्या रहिता अभिलषति वाञ्छति । चन्दनवायोर्विरहसन्तापोद्दीपंकत्वाज्जनस्थाने तदागमनं कष्टप्रदमिति तस्य स्थितिर्मलयपर्वत एव भवत्वित्यभिलषतीति भावः । लीलायाः क्रीडाया उद्यानमुपवनं तस्मिन् क्रीडावाटिकायां कोकिलानां पिकाना- मुत्सारणाय दूरीकरणाय सखीनां स्वसखीनां कलकलं शब्दप्राचुर्यं सृजत्युत्पादयति । कोकिलशब्दस्य विरहपीडाकारकत्वात् सखीकलकलेन कोकिलान् दूरीकरोतीति भावः । क्रीडावनानां क्रीडोद्यानानामालीषु पद्धतिषु यो निखिलस्सकलः परि- मलस्सुगन्धस्तस्याऽऽचान्तिः पानं तस्यै चञ्चरीकान् भ्रमरान् स्तौति प्रार्थयति । यदि भ्रमरैः सकलसुगन्धः पीत-स्यात्तर्हि सुगन्धाभावाद्विरहोद्दीपनं न स्यादिति भावः । कमिव कीदृशं जीवरक्षायाः प्राणरक्षाया अभ्युपायं साधनं न भजते न सेवते । सकलमेव प्राणरक्षोपायं सम्भावयतीति भावः । भाषा सुन्दर भौंवो वाली कामिनी, तुम्हारे वियोग में, मलयाचल के बाहर की पृथ्वी को चन्दनवायुओ से रहित होना चाहती है अर्थात् चन्दन वायु मलयाचल को छोड़कर अन्यत्र पृथ्वी पर कहीं न बहें, ऐसा चाहती है । क्योंकि विरहावस्था में यह चंदनवायु बहुत दुख प्रद होता है । सैर करने के बाग में कोयलो को उड़ा देने के लिए अपनी सखियो से शोर कराती है जिसमें कोयलें भाग जांय और उनकी कूक सुनकर विरहावस्था में कष्ट न हो। बगीचो की कतार में के सब सुगन्ध को पी जाने के लिए भौंरो से बिनती करती है जिसमें विरहावस्था में सुगन्ध से विरहज्वाला अधिक न भभक पड़े । कौन सा ऐसा उपाय है जिसे प्राण बचाने के लिए वह नही करती है । मलयगिरिसमीराः सिंहलद्वीपकान्ता- मुखपरिचयलब्धस्फारकर्पूरवासाः । द्रविडयुवतिदोलाकेलिलोलन्नितम्ब- स्थलशिथिलितवेगाः सेव्यतामाप्नुवन्ति ॥७०॥
( ४६३ ) अन्वयः - मलयगिरिसमीराः सिंहलद्वीपकान्तामुखपरिचयलब्धस्फारकपूरवासाः द्रविडयुवतिदोलाकेलिलोलन्नितम्बस्थलशिथिलितवेगाः (सन्तः) सेव्यताम् आप्नुवन्ति। व्याख्या मलयगिरिसमीरा मलयाचलानिलाः सिंहलद्वीपस्य 'सीलोन' इति ख्यातस्य कान्ताः स्त्रियस्तासां मुखान्येवाननानि तेषां परिचयः सम्पर्कस्तस्माल्लब्धः प्राप्तः स्फारो बहुलः कर्पूरस्य वासः सुगन्धो यैस्ते, द्रविडयुवतीनां चोलदेशाङ्गनानां दोलाकेलयः प्रेङ्खाक्रीडास्तासु लोलन्तश्चलन्तो नितम्बा एव स्थलानि तैस्तत्सङ्घटने- नित्यर्थः । शिथिलितः शिथिलीकृतो वेगो जवो 'वेगः प्रवाहजवयोरपि' इत्यमरः । येषां ते तथा सन्तः सेव्यतां ग्राह्यतामाप्नुवन्ति लभन्ते । मलयाचलानिलाः सिंहलद्वीपनारीमुखसम्पर्कात् कर्पूरगन्धयुक्ताश्चोलदेशाङ्गनानां दोलाक्रीडासु लोलनितम्बसङ्घटनात् शिथिलीकृतवेगास्सन्ताचन्दनजन्यं शैत्यं कर्पूरजन्यं सुगन्धं नितम्बसङ्घटनजन्य मन्दत्वञ्च वायूनां शीतलसन्दसुगन्धेति गुणत्रयं धारयन्तः सेव्या भवन्तीति भावः । मालिनीच्छन्दः । उदात्तालङ्कारः । भाषा मलयाचल के पवन, सीलोन की अङ्गनाओ के मुखो के सम्पर्क से कर्पूर की सुगन्ध को धारण कर और चोलदेश की कामिनियो के रसयुक्त झूला झूलने में चञ्चल नितम्बस्थलो से टकरा कर मन्दगति होने से सेवनीय हो गये थे । अर्थात् दक्षिणानिल, चन्दन का शैत्य, कर्पूर का सुगन्ध और नितम्बो की टक्कर से मन्द गति, एव शीतल, मन्द व सुगन्ध इन तीनो वायुओ के गुणों से युक्त होने से सेवनीय हो गये थे । पानीयं नालिकेरीफलकुहरकुहूत्कारि कङ्कोल्यन्तः कावेरीतीरतालद्रुमभरितसुराभाण्डभाङ्कारचण्डाः ॥ उन्मीलन्नोलमोचापरिचयशिशिरा वान्त्यमी द्राविडीनां कर्पूरापाण्डुगण्डस्थललुलितिरया वायवो दाक्षिणात्याः ॥७१॥ अन्वयः नालिकेरीफलकुहरकुहूत्कारि पानीयं कङ्कोल्यन्तः, कावेरीतीरतालद्रुम-
( ४६६ ) अन्वयः उन्माद्यन्मधुपेन पुष्पमधुना केलीभुवः पङ्किलाः (जाताः) सर्वे पादपाः कुसुमप्राग्भारतः भङ्गभयं दिशन्ति । संप्रति चैत्रेण लक्ष्येषु अलक्ष्येषु च बाणमोक्षरसिकः कामः अस्त्रपरम्पराव्ययविधौ दैन्यं परित्याजितः । - व्याख्या उन्माद्यन्तो मदं प्रापिता मधुपा भ्रमरा येन स तेन पुष्पाणां कुसुमानां मधु रसस्तेन मकरन्देन केलीभुवः क्रीडास्थानानि पङ्किलाः कर्दमसंयुक्ता जाताः । सर्वे पादपा वृक्षाः कुसुमानां पुष्पाणां प्राग्भारतो बाहुल्यात्.भारात् भङ्गस्य पतनस्य त्रुटनस्येत्यर्थः भयं भीति दिशन्ति प्रकटयन्ति । संप्रत्यधुना चैत्रेण वसन्तेन लक्ष्येष्वलक्ष्येषु च लक्ष्येष्वलक्षेषु च निर्विचारमित्यर्थः । बाणमोक्षे शरसन्धाने रसिकः समासक्तः कामोऽस्त्राणां शस्त्राणां परम्परा समूहस्तस्या व्ययविधौ समुत्सर्जनोऽविचार्य प्रयोगकरणे इत्यर्थः । दैन्यं दीनतां निरुत्साहमिति- भावः । परित्याजित. परिहापितः । अगणितपुष्पास्त्राणां समर्पणादस्त्रविषयकं कामस्य दैन्यं दूरीकृतमिति भावः । शार्दूलविक्रीडितच्छन्दः । भाषा भौरो को मदोन्मत्त करने वाले मकरन्द से क्रीडास्थलो में कीचड हो गया है । अर्थात् क्रीडास्थलो मे अत्यधिक मकरन्द चूआ है । सभी वृक्ष अत्यधिक फूलो के बोझ से टूट जाने का भय सूचित करते है । इस समय निशाने का विचार न कर यथेच्छ बाण छोडने में आसक्त कामदेव की बाणो के अधिक खर्च अर्थात् समाप्त हो जाने की दोनता को वसन्त ने दूर कर दिया है । अर्थात् वसन्त मे अत्यधिक फूलो के होने से, पुष्पसायक कामदेव को, बिना विचारे पुष्पबाणो का प्रयोग करने की कोई कमी नही है । नीता नूतनयौवनप्रणयिना चैत्रेण चित्रां लिपिं हृर्षाद्दर्पति का न काननमही पुष्पैः कटाक्षैरिव । दोलारूढपुरन्ध्रिपोनजघनप्राग्भारमाधुन्वतः किं मानद्रुमभञ्जनाय गहनं लङ्गानिलस्याधुना ॥७४॥ अन्वयः नूतनयौवनप्रणयिना चैत्रेण चित्रां लिपि नीता का काननमही कटाक्षैः
( ४६७ ) इव पुष्पैः हर्षात् न वर्षति। अधुना दोलारूढपुरन्ध्रीपीनजघनप्राग्भारम् आधुन्वन्तः लङ्कानिलस्य मानद्रुमभञ्जनाय कि गहनम् । व्याख्या नूत्ने नवीने यौवने युवावस्थायां प्रणयः स्नेहो यस्य स तेन चैत्रेण वसन्तेन चित्रां विचित्रां विविधवर्णयुक्तां लिपिम्अक्षरविन्यासं शोभामित्यर्थः । नीता प्रापिता का काननमही का क्रीडोद्यानभूमिः शुक्लारुणरक्तत्वनोल्लत्वात् कटाक्षैरिवाऽ- पाङ्गदर्शनैरिव 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । पुष्पैः कुसुमैर्हर्षादानन्दातिरेकान्न वर्षति वृष्टिं न करोति । उद्यानभूमिः पुष्पैराच्छादितेति भावः । अधुनाऽ- स्मिन्समये दोलासु प्रेङ्खासु आरूढा उपविष्टाः पुरन्ध्रयो युवतयस्तासां पीनं स्थूलं जघन स्त्रीकट्याः पुरोभागः 'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्यमरः । तस्य प्राग्भारो विस्तारस्तमाधुन्वतः कम्पयतो लङ्कानिलस्य दक्षिण- पवनस्य मानिनीनां मानरूपस्य द्रुमस्य वृक्षस्य भञ्जनाय पातनाव विनाशाथे- र्त्यथः । किं गहनं किं कठिनं, न दुष्करमित्यर्थः । सम्प्रत्यनायासेनेव मानिनीना मानभङ्गो भवतीति भावः । शार्दूलविक्रीडितच्छन्दः । भाषा नई जवानी में प्रेम रखने वाले वसन्त के कारण, रंग विरंगी विचित्र शोभा को प्राप्त, कौन सी उद्यान की भूमि हर्षपूर्वक, कटाक्ष के समान फूलों की वृष्टि नही करती है अर्थात् सर्वत्र पुष्पवृष्टि हो रही है। ऐसे समय में हिंडोलो पर झूलती हुई कामिनियो के तने हुए विस्तृत जघनस्थल को कपाने वाले दक्षिण पवन के लिये मान रूपी वृक्ष को तोड कर गिरा देना अर्थात् नष्ट कर देना क्या मुश्किल है ? अर्थात् वसन्त ऋतु में रंग बिरंगी फूलों को देखने से, झूला झूलने से जघनस्थल में कंप कंपी पैदा होने से और दक्षिणानिल के स्पर्श से, मानिनियों का मान अनायास ही छूट जाता है। पौलस्त्योद्यानलीलाविटपितलमिलन्मैथिलीपादमुद्राः कर्पूरद्वीपवेलाचलविपिनतटीपांसुकेलीरसज्ञाः । क्रीडाताम्बूलचूर्णीगलपितमुखहृतक्लान्तयः केरलीना- मामोदन्ते समीराः स्मरसुभटजयाकाङ्क्षिणो दाक्षिणात्याः ॥७५॥