वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः । जिष्णुना सहिताः सर्वे आगता यज्ञभागिनः ॥ ९९
५२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३० श्लो० ९५-११३] (दक्षशापवर्णनम्)
ततस्तस्य मखे देवाः शतक्रतुपुरोगमाः । गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ९५
स्वैर्विमानैर्महात्मानो ज्वलद्भिज्ज्वलनप्रभाः । देवस्यानुमतेऽगच्छन्गङ्गाद्वार इति श्रुतिः ॥ ९६
गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् । ऋषिसंघैः परिवृतं दक्षं धर्मभृतां वरम् ॥ ९७
पृथिव्यामन्तरिक्षे वा ये च स्वर्लोकवासिनः । सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ॥ ९८
आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः । जिष्णुना सहिताः सर्वे आगता यज्ञभागिनः ॥ ९९
उष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा । अश्विनौ पितरश्चैव आगता ब्रह्मणा सह ॥ १००
एते चान्ये च बहवो भूतग्रामास्तथैव च । जरायुजाण्डजाश्चैव स्वेदजोद्भिज्जकास्तथा ॥ १०१
आहूता मन्त्रतः सर्वे देवाश्च सह पत्निभिः × । विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ॥ १०२
तान्दृष्ट्वा मन्युमाविष्टो दधीचो वाक्यमब्रवीत् । अपूज्यपूजने चैव पूज्यानां चाप्यपूजने ॥
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ १०३
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत । पूज्यं तु पशुभर्तारं कस्मान्नाऽऽह्वयसे प्रभुम् ॥ १०४
दक्ष उवाच—
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । एकादशावस्थगता नान्यं वेद्मि महेश्वरम् ॥ १०५
दधीच उवाच—
सर्वेषामेकमन्त्रोऽयं येनेशो न निमन्त्रितः । यथाऽहं शंकरादूर्ध्वं नान्यत्पश्यामि दैवतम् ॥
तथा दक्षस्य विपुलों यज्ञोऽयं न भविष्यति ॥ १०६
दक्ष उवाच—
एतन्मखेशाय सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम् ।
विष्णोर्नयाम्यप्रतिमस्य सर्वं प्रभोर्विभोर्ह्याहवनीयनित्यम् ॥ १०७
गतांस्तु देवता ज्ञात्वा शैलराजसुता तदा । उवाच वचनं साध्वी देवं पशुपतिं तदा ॥ १०८
उमोवाच—
भगवन्क गता ह्येते देवाः शक्रपुरोगमाः । ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ १०९
महेश्वर उवाच—
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः । हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ११०
देव्युवाच—
यज्ञमेतं महाभाग किमर्थं न गतोऽसि वै । केन वा प्रतिषेधेन गमनं प्रतिषिध्यते ॥ १११
महेश्वर उवाच—
सुरैरेव महाभागे सर्वमेतनुष्ठितम् । यर्वेषु मम सवेषु न भाग उपकल्पितः ॥ ११२
पूर्वोपायापपन्नेन मार्गेण वरवर्णिनि । न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धीमतः ॥ ११३
× आर्षः प्रयोगः ।
[अ० ३० श्लो० ११४-१३३] वायुपुराणम् ६३
( दक्षशापवर्णनम् )
देव्युवाच— भगवन्सर्वदेवेषु प्रभावाभ्यधिको गुणैः । अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ ११४ अनेन तु महाभाग प्रतिषेधेन भागतः । अतीव दुःखमापन्ना वेपथुश्च ममानघ ॥ ११५ किं नाम दानं नियमं तपो वा कुर्यामहं येन पतिर्ममाद्य । लभेत भागं भगवानाचिन्त्यो यज्ञस्य चार्थमथ वा तृतीयम् ॥ ११६ ॥ एवं ब्रुवाणां भगवानाचिन्त्यः पत्नीं प्रहृष्टः क्षुभितामुवाच । न वेत्सि देवेशि कृशोदराङ्गि किं नाम युक्तं वचनं तवेदम् ॥ ११७ ॥ अहं हि जानामि विशालनेत्रे ध्यानेन सर्वं हि वदन्ति सन्तः । तवाद्य मोहेन महेन्द्रदेवा लोकत्रयं सर्वथा संपमूढम् ॥ ११८ ॥ मामध्वरे शंसितारः स्तुवन्तिः रथंतरे(रं) साम गायन्ति गेयम् । मां ब्राह्मणा ब्रह्मसत्रे यजन्ते ममाध्वर्यवः कल्पयन्ते च भागम् ॥ ११९
देव्युवाच— सुप्राकृतोऽपि भगवान्सर्वस्त्रीजनसंसदि । स्तौति गोपायते वाऽपि स्वमात्मानं न संशयः ॥ १२०
भगवानुवाच— नाऽऽत्मानं स्तौमि देवेशि पश्य त्वमुपगच्छ च । यं स्रक्ष्यामि वरारोहे भागार्थं वरवर्णिनि ॥ १२१ एवमुक्त्वा तु भगवान्पत्नीं पाणैरपि प्रियाम् । सोऽसृजद्भगवान्वक्त्राद्भूतं क्रोधाग्निसंनिभम् ॥ १२२ सहस्रशीर्षं देवं च सहस्रचरणेक्षणम् । सहस्रमुद्गरधरं सहस्रशरपाणिनम् ॥ १२३ शङ्खचक्रगदापाणिं दृप्तकार्मुकधारिणम् । परश्वसिधरं देवं महारौद्रं भयावहम् ॥ १२४ घोररूपेण दीप्यन्तं चन्द्रार्धकृतभूषणम् । वसानं चर्म वैयाघ्रं महरुधिरनिस्रवम् ॥ १२५ दंष्ट्राकरालं विश्रान्तं महावक्त्रं महोदरम् । विद्युज्जिह्वं प्रलम्बोष्ठं लम्बकर्णं दुरासदम् ॥ १२६ कुलिशोद्योतितकरं भाभिर्ज्वलितमूर्धजम् । ज्वालामालापरिक्षिप्तं मुक्तादामविभूषितम् ॥ १२७ तेजसा चैव दीप्यन्तं युगान्तमिव पावकम् । आकर्णदारितास्यान्तं चतुर्दंष्ट्रं भयानकम् ॥ १२८ महाबलं महातेजं महापुरुषमोधिरम् । विश्वहर्तृमहाकायं महान्यग्रोधमण्डलम् ॥ युगपच्चन्द्रशतवद्दीप्यन्तं मन्मथामिवत् ॥ १२९ चतुर्महास्यं सिततीक्ष्णदण्डं महोग्रतेजोबलपौरुषाढ्यम् । युगान्तसूर्याग्निसहस्रभासं सहस्रचन्द्राामलकान्तिकान्तम् ॥ प्रदीप्तसर्वौषधिमन्दराभं सुमेरुकैलासहिमाद्रितुल्यम् ॥ १३० युगाग्निभं महावीर्यं चारुनासं महाहनम् । प्रचण्डगण्डं दीप्ताक्षमभिज्जालाविलाननम् ॥ १३१ मृगेन्द्रकृत्तिवसनं महाभुजंगवेष्टितम् । उष्णीषिणं चन्द्रधरं काचिदुग्रं काचित्समम् ॥ १३२ नानाकुसुममूर्धानं नानागन्धानुलेपनम् । नानारत्नाविचित्राङ्गं नानाभरणभूषितम् ॥ १३३
| ९४ | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ३० श्लो० १३४-१५८] |
|---|
( दक्षशापवर्णनम् )
कार्णिकाररजं दीप्तं क्रोधादुद्भ्रान्तलोचनम् । क्वचिन्नृत्यति चित्राङ्गं क्वचिद्वदति सुस्वरम् ॥ १३४
क्वचिद्ध्यायति युक्तात्मा क्वचित्स्थूलं प्रमाजर्ति । क्वचिद्धायति विश्वात्मा क्वचिद्रौति मुहुर्मुहुः ॥ १३५
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । प्रभुत्वमात्मसंबोधो हविष्ठानगुणैर्युतः ॥ १३६
जानुभ्यामवनिं गत्वा प्रणतः प्राञ्जलिः स्थितः । आज्ञापय त्वं देवेश किं कार्यं करवाणि ते ॥ १३७
तमुवाचाऽऽक्षिप मखं दक्षस्येह महेश्वरः । देवस्यानुमतिं श्रुत्वा वीरभद्रो महाबलः ॥
प्रणम्य शिरसा पादौ देवेशस्य उमापतेः ॥ १३८
ततो बन्धात्प्रमुक्तेन सिंहेनेवेह लीलया । देव्या मन्युकृतं मत्वा हतो दक्षस्य स क्रतुः ॥ १३९
मन्युना च महाभीमा भद्रकाली महेश्वरी । आत्मनः सर्वसाक्षित्वे तेन सार्धं सहानुगा ॥ १४०
स एष भगवान्क्रुद्धः प्रेतावासकृतालयः । वीरभद्र इति ख्यातो देव्या मन्युममार्जकः ॥ १४१
सोऽसृजद्रोमकूपेभ्यो रौद्रान्नाम गणेश्वरान् । रुद्रानुगा महावीर्या रुद्रवीर्यपराक्रमः ॥ १४२
रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः । ते निपेतुरतस्तूर्ण शतशोऽथ सहस्रशः ॥ १४३
ततः किलकिलाशब्द आकाशं पूरयन्निव । तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः ॥ १४४
पर्वताश्च व्यशीर्यन्त कम्पते च वसुंधरा । मेरुश्च घूर्णते विमाः क्षुभ्यन्ते वरुणालयाः ॥ १४५
अग्नयो नैव दीप्यन्ते न च दीध्यति भास्करः । ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ॥ १४६
ऋषयो नाभ्यभाषन्त न देवा न च दानवाः । एवं हि तिमिरीभूते निर्दहन्ति विमानिताः ॥ १४७
सिंहनादं प्रमुञ्चन्ति घोररूपा महाबलाः । प्रभञ्जन्ते परे घोरा यूपानुत्पाटयन्ति च ॥ १४८
प्रमर्दन्ति तथा चान्ये विनृत्यन्ति तथाऽपरे । आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः ॥ १४९
चूर्ण्यन्ते यज्ञपात्राणि यागस्याऽऽयतनानि च । शीर्यमाणानि दृश्यन्ते तारा इव नभस्तलात् ॥ १५०
दिव्यान्नपानभक्षाणां राशयः पर्वतोपमाः । क्षीरनद्यस्तथा चान्या घृतपायसकर्दमाः ॥
मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः ॥ १५१
षड्रसाश्चिवहन्त्यन्या गुडकुल्या मनोरमाः । उच्चावचानि मांसानि भक्ष्याणि विविधानि च ॥ १५२
पानकानि च दिव्यानि लेह्यं चोष्यं तथाऽपरे । भुञ्जते विविधैर्वक्त्रैर्विल्लुण्ठन्ति (×क्षिपन्ति च॥१५३
रुद्रकोपान्महाकायाः कालाग्निसदृशोपमाः । सुरसैन्यानि मर्दन्तो भीषयन्ति ) च सर्वशः ॥ १५४
क्रीडन्ति विविधाकाराश्चिक्षेपुः सुरयोषितः ॥
रुद्रकोपप्रयुक्तास्तु सर्वदेवैः सुरक्षितम् । तं यज्ञमहञ्शीघ्रं रुद्रकल्पाः समीपतः ॥ १५५
चक्रुरन्ये तथा नादान्सर्वभूतभयंकरान् । छित्त्वा शिरोऽन्ये यज्ञस्य विनदन्ति भयंकराः ॥ १५६
दक्षो दक्षपतिश्चैव देवो यज्ञपतिस्तथा । मृगरूपेण चाऽऽकाशे प्रपलायितुमारभत् ॥ १५७
वीरभद्रोऽप्रमेयात्मा ज्ञात्वा तस्य बलं तदा । अन्तरिक्षगतस्याऽऽशु चिच्छेदास्य शिरो महान् ॥ १५८
× धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
[अ० ३० श्लो० १५९-१८२] वायुपुराणम् ९५ ( दक्षशापवर्णनम )
दक्षः प्रजापतिश्चैव नष्टः संभ्रान्तचेतनः । क्रुद्धेन वीरभद्रेण शिरः पादेन पीडितम् ॥ जराभिभूततन्विरात्मा निपपात महीतले ॥ १५९ त्रयस्त्रिंशद्देवतानां ताः कोटयो विमलात्मिकाः । पाशेनाग्निबलेनाऽऽशु बद्धाः सिंहबलेन च ॥ १६० ततो जग्मुर्महात्मानं सर्वे देवा महाबलम् । प्रसीद भगवन्नुद्र भृत्यानां मा क्रुधः प्रभो ॥ १६१ ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः । ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति ॥ १६२
वीरभद्र उवाच--
न च देवो न चाऽऽदित्यो न च भोक्तुमिहाऽऽगतः । नैव द्रष्टुं हि देवेन्द्रान्न च कौतूहलान्वितः ॥ दक्षयज्ञविनाशार्थं संप्राप्तं विद्धि मामिह । वीरभद्र इति ख्यातं रुद्रकोपादिविनिर्गतम् ॥ १६४ भद्राकाली च विज्ञेया देव्याः क्रोधाद्विनिर्गता । प्रेषिता देवदेवेन यज्ञान्तिकमिहाऽऽगता ॥ १६५ शरणं गच्छ राजेन्द्र देवं तं त्वमुमापतिम् । वरं क्रोधोऽपि रुद्रस्य वरदानं न देवतः ॥ १६६ वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः । तोषयामास देवेशं शूलपाणिं महेश्वरम् ॥ १६७ प्रदुष्टे यज्ञवाटे तु विद्रुतेषु द्विजातिषु । तारामृगमये दीप्ते रौद्रे भीममहानले ॥ १६८ शूलनिर्भिन्नवदनैः कूजद्भिः परिचारिकैः । निखातोत्पाटितैर्यूपैरपविद्धैर्यतस्ततः ॥ १६९ उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्रुभिः । पक्षपातविनिर्धूतैः शिवाशतनिनादितैः ॥ १७० प्राणापानौ संनिरुध्य ततः स्थानेन यत्नतः । विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्राजित् ॥ १७१ सहसा देवदेवेशस्त्वग्निकुण्डादुपागतः । चन्द्रसूर्यसहस्रस्य तेजः संवर्तकोपमम् ॥ १७२ प्रहस्य चैनं भगवानिदं वचनमब्रवीत् । नष्टस्तेऽज्ञानतो दक्ष प्रीतिस्ते मयि सांप्रतम् ॥ १७३ स्मित कृत्वाऽब्रवीद्वाक्यं ब्रूहि किं करवाणि ते । आवितं च समाख्याय देवानां गुरुभिः सह ॥ १७४ तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः । भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः ॥ १७५ यदि प्रसन्नो भगवान्यदि वाऽहं तव प्रियः । यदि वाऽहमनुग्राह्यो यदि देयो वरो मम ॥ १७६ यदग्धं भक्षितं पीताशितं यच्च नाशितम् । चूर्णिकृतं चापविद्धं यज्ञसंभारमदृशम् ॥ १७७ दीर्घकालेन महता प्रयत्नेन च संचितम् । तन्न मिथ्या भवेन्मह्यं वरमेतं वृणोम्यहम् ॥ १७८ तथाऽस्त्वित्याह भगवान्भगेनेत्रहरो हरः । धर्माध्यक्षं महादेवं त्र्यक्षं तं वै प्रजापतिः ॥ १७९ जानुभ्यामवनिं गत्वा दक्षो लब्ध्वा भवाद्धरम् । नाम्नामष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥ १८०
दक्ष उवाच--
नमस्ते देवदेवेश देवारिबलसूदन । देवेन्द्र समरश्रेष्ठ देवदानवपूजित ॥ १८१ सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥ सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥ १८२
९६ श्रीमहैपायनमुनिप्रणीतम्– [अ० ३० श्लो० १८३-२१०] (दक्षशापवर्णनम)
शङ्कुकर्ण महाकर्ण कुम्भकर्णारर्णवालय। गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ॥ १८३ शतोदर शतावर्त शतजिह्व शतानन। गायन्ति त्वां गायत्रिणो ह्यर्चयन्ति तथाऽर्चिनः ॥ १८४ देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः। मूर्तीश त्वं महामूर्ते समुद्राम्बुधराय च ॥ १८५ सर्वा ह्यस्मिन्देवतास्ते गावो गोष्ठ इवाऽऽसते। शरीरं ते पपश्यामि सोममग्निं जलेश्वरम् ॥ १८६ आदित्यमथ विष्णुं च ब्रह्माणं सबृहस्पतिम्। क्रिया कार्यं कारणं च कर्ता करणमेव च ॥ १८७ असच्च सदसच्चैव तथैव प्रभवाव्ययम्। नमो भवाय शर्वाय रुद्राय वरदाय च ॥ १८८ पशूनां पतये चैव नमस्त्वन्धकघातिने। त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ॥ १८९ त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः। नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ॥ १९० दण्डिमासक्तकर्णाय दण्डिमुण्डाय वै नमः। नमोऽर्धदण्डकेशाय निष्काय विकृताय च ॥ १९१ विलोहिताय धूम्राय नीलग्रीवाय ते नमः। नमस्त्वपनिरूपाय शिवाय च नमोऽस्तु ते ॥ १९२ सूर्याय सूर्यपतये सूर्यध्वजपताकिने। नमः प्रमथनाथाय वृषकन्धाय धन्विने ॥ १९३ नमो हिरण्यगर्भाय हिरण्यकवचाय च। हिरण्यकृतचूडाय हिरण्यपतये नमः ॥ १९४ सत्रघाताय दण्डाय वर्णपानपुटाय च। नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥ १९५ सर्वायामक्ष्यभक्ष्याय सर्वभूतान्तरात्मने। नमो होत्राय मन्त्राय शुक्लध्वजपताकिने ॥ १९६ नमो नमाय नम्याय नमः किलिकिलाय च। नमस्ते शयमानाय शयितायोत्थिताय च ॥ १९७ स्थिताय चलमानाय मुद्राय कुटिलाय च। नमो नर्तनशीलाय मुखवादित्रकारिणे ॥ १९८ नाट्योपहारलुब्धाय गीतवाद्यरताय च। नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ॥ १९९ कलनाय च कल्पाय क्षयायोपक्षयाय च। भीमदुन्दुभिहासाय भीमसेनप्रियाय च ॥ २०० उग्राय च नमो नित्यं नमस्ते दशबाहवे। नमः कपालहस्ताय चिताभस्मप्रियाय च ॥ २०१ विभीषणाय भीष्माय भीष्मव्रतधराय च। नमो विकृतवक्षाय खङ्गजिह्वाग्रदंष्ट्रिणे ॥ २०२ पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च। नमो वृषाय वृष्याय वृष्णये वृषणाय च ॥ २०३ कंटकटाय चण्डाय नमः सावयवाय च। नमस्ते वरकृष्णाय वराय वरदाय च ॥ २०४ वरगन्धमाल्यवस्त्राय वरातिवरये नमः। नमो वर्षाय वाताय छायायै आतपाय च ॥ २०५ नमो रक्तविरक्ताय शोभनायाक्षमालिने। संभिन्नाय विभिन्नाय विविक्ताविकटाय च ॥ २०६ अघोररूपरूपाय घोरघोरतराय च। नमः शिवाय शान्ताय नमः शान्ततराय च ॥ २०७ एकपादबहुनेत्राय एकशीर्ष नमोऽस्तु ते। नमो वृद्धाय लुब्धाय संविभागप्रियाय च ॥ २०८ पञ्चमालार्चिताङ्गाय नमः पाशुपताय च। नमश्चडाय घण्टाय घण्टया जग्धगुन्धिणे ॥ २०९ सहस्रशतघण्टाय घण्टामालाप्रियाय च। प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ॥ २१०
[अ० ३० श्लो० २११-२३२] वायुपुराणम् । ९७
(दक्षशापवर्णनम )
हुंहुंकाराय पाराय हुंहुंकारप्रियाय च । नमश्च शम्भवे नित्यं गिरिवृक्षकलाय च ॥ २११
गर्भमांसशृगालाय तारकाय तराय च । नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ॥ २१२
यज्ञवाहाय दानाय तप्याय तपनाय च । तमस्तटाय भव्याय तडितां पतये नमः ॥ २१३
अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च । नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ २१४
सहस्रोद्यतशूलाय सहस्रनयनाय च । नमोऽस्तु बालरूपाय बालरूपधराय च ॥ २१५
बालानां चैव गोप्त्रे च बालकीडनकाय च । नमः शुद्धाय बुद्धाय शोभनायाक्षताय च ॥ २१६
तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ॥ २१७
वर्णाश्रमाणां विधिवत्पृथक्कर्मप्रवर्त्तिने । नमो घोषाय घोष्याय नमः कलकलाय च ॥ २१८
[ *श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । धर्मार्थकाममोक्षाय कथाय कथनाय च ]॥ २१९
सांख्याय सांख्यमुख्याय योगाधिपतये नमः । नमो रथ्यविरथ्याय चतुष्पथरताय च ॥ २२०
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ईशान वज्रसंह्राय हरिकेश नमोऽस्तु ते ॥
अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥ २२१
काम कामद कामघ्न धृष्टोद्धृस निसूदनः । सर्व सर्वद सर्वज्ञ संध्याराग नमोऽस्तु ते ॥ २२२
महाबल महाबाहो महासत्त्व महाद्युते । महोमघवरप्रेक्ष महाकाल नमोऽस्तु ते ॥ २२३
स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे । दीप्तसूर्याग्निजटिने वल्कलाजिनवाससे ॥
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥ २२४
उन्मादन शतावर्त गङ्गातोयार्द्रमूर्धज । चन्द्रावर्त युगावर्त मेघावर्त नमोऽस्तु ते ॥ २२५
त्वमन्नमन्नकर्ता च अन्नदश्च त्वमेव हि । अन्नस्रष्टा च पक्ता च पक्वभुकपचे नमः ॥ २२६
जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च । त्वमेव देवदेवेशो भूतग्रामश्चतुर्विधः ॥ २२७
चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च । त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ॥ २२८
सत्त्वस्यं परमा योनिरब्वायुर्ज्योतिषां निधिः । ऋक्सामानि तथोङ्कारमाहस्त्वां ब्रह्मवादिनः ॥ २२९
हविर्हावी हवो हावी हुवां वाचाऽहुतिः सदा । गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥ २३०
÷यजुर्मयो ऋङ्मयश्च सामाथर्वमयस्तथा । पठ्यसे ब्रह्मविद्भ्रिस्त्वं कल्पोपनिषदां गणैः ॥ २३१
ब्राह्मणाः क्षत्रया वैश्याः शूद्रा वर्णावरोश्रये । त्वामेव मेघसंघाश्च विध्वस्तनितगर्जतम् ॥ २३२
* धनुश्चिह्नान्तर्गतग्रन्थः ख, घ, पुस्तकयोर्नास्ति । ÷ इदमर्द्धंनास्ति ख, पुस्तके ।
१३
| ९८ | श्रीमद्वैपायनमुनिप्रणीतम्– | [अ० ३० श्लो० २३३–२५५] |
|---|---|---|
| (दक्षशापवर्णनम्) |
संवत्सरस्त्वमृतवो मासो मासार्द्धमेव च । कलाकाष्ठानिमेषाश्च नक्षत्राणि युगा ग्रहाः ॥ २३३
वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च । सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ २३४
क्षीरोदो हृदधीनां च यन्त्राणां धनुरेव च । वज्रं प्रहरणानां च व्रतानां सत्यमेव च ॥ २३५
इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः । व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ २३६
त्वं मदी त्वं शरी चापि खट्वाङ्गी भर्भरी तथा । छेत्ता भेत्ता महर्ता च त्वं नेताऽप्यन्तको मतः ॥ २३७
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च । इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ॥ २३८
लतावली तृणौषध्यः पशवो मृगपक्षिणः । द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ २३९
आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च । हरितो लोहितः कृष्णो नीलः पीतस्तथाऽरुणः ॥ २४०
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा । सुवर्णरेता विख्यातः सुवर्णश्चापतो मतः ॥ २४१
सुवर्णनामा च तथा सुवर्णप्रिय एव च । (*त्वामिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ॥ २४२
उत्फुल्लश्चित्रभानुश्च स्वभानुर्भानुरेव च । होत्रं होता च होमस्त्वं हुतं च प्रहुतं प्रभुः ॥ २४३
सुपर्णंच तथा ब्रह्म यजूषां शतरुद्रियम् । पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ॥ २४४
गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च) । सत्त्वं त्वं च रजस्त्वं च तमश्च प्रजनं तथा ॥ २४५
प्राणोऽपानः समानश्च उदानो व्यान एव च । उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ॥ २४६
लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः । शुचिरोमा हरिश्मश्रूरूर्ध्वकेशस्त्रिलोचनः ॥ २४७
गीतवादित्रनृत्याङ्गो गतिवादनकप्रियः । मत्स्यो जलो जलो जल्यो जवः कालः कली कलः ॥ २४८
निकालश्च सुकालश्च दुःप्कालः कालनाशनः । मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ॥ २४९
संवर्तकोऽन्तकश्चैव संवर्तकबलाहकौ । वटो वटीको घण्टीको चूडालो लबलो बली ॥ २५०
ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक् । चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ २५१
चतुराश्रमवेत्ता च चातुर्वर्ण्यकरश्च ह । क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ॥ २५२
रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः । शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥ २५३
भग्नेत्रान्तकश्चन्द्रः पूष्णो दन्ताविनाशनः । + स्वाहा स्वधा वषट्कार नमस्कार नमोऽस्तु ते ॥
गूढावर्तश्च गूढश्च गूढपातिनिषेविता ॥ २५४
तरणस्तारकश्चैव सर्वभूतसुतारणः । धाता विधाता सत्त्वानां निधाता धारणो धरः ॥ २५५
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + इदमर्धं नास्ति क. पुस्तके ।
[अ० ३ ० श्लो० २५६-२७९] वायुपुराणम् ९९
( दक्षशापवर्णनम् )
तपो ब्रह्म च सत्यं च ब्रह्मचर्यमथाऽऽर्जवम् । भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥ २५६
भूर्भुवस्वरितिश्चैव तथोत्पत्तिर्महेश्वरः । ईशानोद्धीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ॥ २५७
ब्रह्मावर्त सुरावर्त कामावर्त नमोऽस्तु ते । कामबिम्बनिहर्ता च कर्णिकाररजःप्रियः ॥ २५८
मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः । चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ॥ २५९
हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् । अधर्महा महादण्डो दण्डधारो रणप्रियः ॥ २६०
गौतमो गोप्रतारश्च गोवृषेश्वरवाहनः । * धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदोत्तमः ॥ २६१
त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च । तिष्ठंस्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥ २६२
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः । दुर्धरो दुष्प्रकम्पश्च दुर्विदो दुर्जयो जयः ॥ २६३
शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट् । आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह॥ २६४
सहो यज्ञो मृगव्याधो व्याधीनामाकरोऽकरः । शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥ २६५
दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः । विषपोऽमृतपश्चैव सुरापाः क्षीरसोमपः ॥ २६६
मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः । वृषाश्ववाहो वृषभस्तथा वृषभलोचनः ॥ २६७
वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः । चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामह ॥ २६८
अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ॥
न ब्रह्मा न च गोविन्दः पुराणऋषयो न च । महात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ २६९
या मूर्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् । ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ २७०
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तुते । भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥ २७१
यः सहस्राण्यनेकानि पुंसामाहत्य दुर्दृशः । तिष्ठत्येकः समुद्रान्ते स मे गोप्ताऽस्तु नित्यशः ॥ २७२
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥
संभक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सु शायिनम् ॥ २७४
प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि । ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ २७५
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । रक्षन्तु ते हि मां नित्यं नित्यामाप्याययन्तु माम् ॥
ये चाप्युत्पतिता गर्भादधोभागगताश्च ये । तेषां स्वाहाः स्वधाश्चैव अप्नुवन्तु स्वदन्तु च ॥ २७७
ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च । हर्षयन्ति च हृप्यन्ति नमस्तेभ्यस्तु नित्यशः ॥
ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ २७८
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । (+हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ २७९
* इदमर्धं नास्ति ख. ग. घ. पुस्तकेषु । + धनुश्चिह्नान्तर्गतग्रन्थः क. ख. घ. पुस्तकेषु नास्ति
१०० श्रीमद्वैपायनमुनिप्रणीतम्— [अ०३०श्लो०२८०-३०५] (दक्षशापवर्णनम्)
पञ्चपञ्चसुभूतेषु दिशासु विदिशासु च । चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ २८० रसातलगता ये च ये च तस्मात्परंगताः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः ॥ २८१ सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ॥ २८२ सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान् । सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ २८३ त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः । त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ २८४ अथ वा मायया देव मोहितः सूक्ष्मया त्वया । एतस्मात्कारणाद्वाऽपि तेन त्वं न निमन्त्रितः ॥ २८५ प्रसीद मम देवेश त्वमेव शरणं मम । त्वं गतिस्त्वं प्रतिष्ठा च न चान्याऽस्ति न मे गतिः ॥ २८६ स्तुत्वैवं स महादेवं विरराम प्रजापतिः । भगवानपि सुप्रीतः पुनर्दाक्षमभाषत ॥ २८७ परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत । बहुनाऽत्र किमुक्तेन मत्समीपं गमिष्यसि ॥ २८८ अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः । कृत्वाऽऽश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहृतम् ॥ २८९ दक्ष दक्ष न कर्तव्यो मन्युर्विघ्नमिमं प्रति । अहं यज्ञहा न त्वन्या दृश्यते तत्पुरा त्वया ॥ २९० भूयश्च त्वं वरमिमं मत्तो गृहीष्व सुव्रत प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः शृणु ॥ २९१ अश्वमेधसहस्रस्य वाजपेयशतस्य च । प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥ २९२ वेदान्षडङ्गानुद्धृत्य सांख्यान्योगांश्च कृत्स्नशः । तपश्च विपुलं तप्त्वा दुःश्वरं देवदानवैः ॥ २९३ अर्थैर्दशार्धसंयुक्तैर्गूढमप्राज्ञनिर्मितम् । वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥ २९४ श्रुत्यर्थैरध्यवासितं पशुपाशविमोक्षणम् । सर्वेषामाश्रमाणां तु मया पाशुपतं व्रतम् ॥ उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ॥ २९५ अस्य चीर्णस्य यत्सम्यक्फलं भवति पुष्कलम् । तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ॥ २९६ एवमुक्त्वा महादेवः सपत्नीकः सहानुगः । अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥ २९७ अवाप्य च तदा भागं यथोक्तं ब्रह्मणो भवः । ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत्तदा ॥ शान्त्यर्थं सर्वभूतानां शृणुध्वं तत्र वै द्विजाः ॥ २९८ शीर्षाभितापो नागानां पर्वतानां शिलारुजः । अपां तु नीलिकां विद्यान्निर्मोकं भुजगेष्वपि ॥ २९९ खोरकः सौरभेयाणामूषरः पृथिवीतले । इभानामपि धर्मज्ञ दृष्टिप्रात्यवरोधनम् ॥ ३०० रन्ध्रोद्भूतं तथाऽश्वानां शिखोद्भेदश्च बर्हिणाम् । नेत्ररागः कोकिलांनां ज्वरः प्रोक्तो महात्मभिः ॥ अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् । शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः ॥ शार्दूलेष्वपि वै विपाः श्रमो ज्वर इहोच्यते ॥ ३०२ मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः । मरणे जन्मनि तथा मध्ये च विशते सदा ॥ ३०३ एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः । नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ३०४ इमां ज्वरोत्पत्तिमुदीनमानसः पठेत्सदा यः सुसमाहितो नरः ॥ विमुक्तरोगः स नरो मुदा युतो । लभेत कामान्स यथा मनीषितान् ॥ ३०५
[अ०३०-३१श्लो०३०६-३२१।१-६] वायुपुराणम् । १०१
(देववंशवर्णनम्)
दक्षप्रोक्तं स्तवं चापि कीर्तयेद्यः शृणोति वा । नाशुभं प्राप्नुयात्किंचिद्दीर्घं चाऽयुरवाप्नुयात् ॥३०६ यथा सर्वेषु देवेषु वरिष्ठो योगवान्हरः । तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ॥ ३०७ यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः । स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ३०८ व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः । राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ३०९ अनेन चैव देहेन गणानां स गणाधिपः । इह लोके सुखं प्राप्य गण एवोपपद्यते ॥ ३१० न च यक्षाः पिशाचा वा न नागा न विनायकाः । कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ३११ शृणुयाद्वा इदं नारी सुभक्ता ब्रह्मचारिणी । पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ॥ ३१२ शृणुया द्याइदं सर्वं कीर्तयेद्वाऽप्यभीक्ष्णशः । तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥३१३ मनसा चिन्तितं यच्च यच्च वाचाऽप्युदाहृतम् । सर्वं संपद्यते तस्य स्तवनस्यानुकीर्तनात् ॥ ३१४ देवस्य सगृहस्थस्य देव्या नन्दीश्वरस्य तु । बलिं विभवतः कृत्वा दमेन नियमेन च ॥ ३१५ ततः स शुल्को गृह्णीयान्नामान्यशु यथाक्रमम् । ईप्सिताँल्लभतेऽत्यर्थं कामान्भोगांश्च मानवः ॥ ३१६ मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरीवृतः ॥ सर्वकर्मसु युक्तो वा युक्तो वा सर्वपातकैः । पठन्दक्षकथं स्तोत्रं सर्वपापैः प्रमुच्यते ॥ ३१७ मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ॥ ३१८ वृषेण विधियुक्तेन विमानेन विराजते । आभूतसंप्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ३१९ इत्याह भगवान्व्यासः पराशरसुतः प्रभुः । नैतद्वेदयते कश्चिन्नेदं श्राव्यं तु कस्यचित् ॥ ३२० श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः । वैश्या स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ३२१ श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु । रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ३२१
इति श्रीमहापुराणे वायुप्रोक्ते दक्षप्रोक्तस्त्वो नाम त्रिंशोऽध्यायः ॥ ३० ॥ आदितः श्लोकानां समष्ट्यङ्काः- २४४७
अथैकत्रिंशोऽध्यायः ।
देववंशवर्णनम् ।
सूत उवाच--
इत्येषा समुदगुद्गाता कथा पापप्रणाशिनी । दक्षमधिकृत्येदं कथा शर्वाद्दुहागता ॥ १ पितृवंशप्रसङ्गेन कथा ह्येषा प्रकीर्तिता । पितॄणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम् ॥ २ त्रेतायुगमुखे पूर्वमासन्स्वायंभुवेऽन्तरे । देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः ॥ ३ अजिता ब्रह्मणः पुत्रा जिता जिदाजिताश्च ये । पुत्राः स्वायंभुवस्यैते शुक्रनाम्ना तु मानसाः ॥ ४ तृप्तिमन्तो गणा ह्येते देवानां तु त्रयः स्मृताः । छन्दोगास्तु त्रयस्त्रिंशत्सर्वे स्वायंभुवस्य ह ॥ ५ यद्यैर्ययातिर्दी देवौ दीधयः सवसा मतिः । विभासश्च क्रतुश्चैव प्रजातिर्विशतो द्युतिः ॥ ६
१०२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३१ श्लो० ७-२९] (देववंशवर्णनम्)
वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः। [*अभिमन्युरुग्रदृष्टिः समयोऽथ शुचिश्रवाः॥
केवलो विध्ररूपश्च सुपक्षो मधुपस्तथा॥ ७
तुरीयो निर्हयुश्चैव युक्तो यावाजिनस्तु ते। यमिनो विश्वदेवाद्यं यविष्ठोऽमृतवानपि॥ ८
अजिरो विभावभावश्च म्लिकिष्ठोऽथ दिदेहकः। श्रुतिश्रोणो बृहच्छुक्रो देवा द्वादश कीर्तिताः]॥ ९
आसन्स्वायंभुवस्यैते अन्तरे सोमपायिनः। त्विषिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः॥ १०
तेषामिन्द्रः सदा ह्यासीद्विश्वभुक्प्रथमो विभुः। असुरा ये तदा तेषामासन्दाय दाद्वान्धवाः॥ ११
सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः। अष्टौ ते पितृभिः सार्धं नासत्या देवयोनयः॥ १२
स्वायंभुवेऽन्तरेऽतीताः प्रजास्तासां सहस्रशः। प्रभाव रूपसंपन्ना आयुषा च बलेन च॥ १३
विस्तरादिह नोच्यन्ते मा प्रसङ्गो भवत्विह। स्वायंभुवो निसर्गश्च विज्ञेयः सांप्रतं मनुः॥ १४
अतीते वर्तमाने न दृष्टो वैवस्वतेन सः। प्रजाभिर्देवताभिश्च ऋषिभिः पितृभिः सह॥ १५
तेषां सप्तर्षयः पूर्वमासन्ये तान्निबोधत। भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः॥ १६
अत्रिश्चैव वसिष्ठश्च सप्त स्वायंभुवेऽन्तरे। अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिश्चसुः॥ १७
ज्योतिष्मान्द्युतिमान्हव्यः सवनः पुत्र एव च। मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः॥ १८
वायुप्रोक्ता महासत्त्वा राजानः प्रथमेऽन्तरे। सासुरं तत्सगन्धर्वं सयक्षोरगराक्षसम्॥
सपिशाचमनुष्यं च सुपर्णाप्सरसां गणम्॥ १९
नो शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि। बहुत्वान्नामधेयानां संख्या तेषां कुले तथा॥ २०
या वै वज्रकुलाख्यास्तु आसन्स्वायंभुवेऽन्तरे। कालेन बहुनाऽतीता अयनाब्दयुगक्रमैः॥ २१
ऋषय ऊचुः--
क एष भगवान्कालः सर्वभूतोपहारकः। कस्य योनिः किमादिश्च किं तत्त्वं स किमात्मजः॥ २२
किमस्य चक्षुः का मूर्तिः के चास्यावयवाः स्मृताः। किंनामधेयः कोऽस्यात्मा एतत्प्रब्रूहि पृच्छताम्॥
सूत उवाच--
श्रूयतां कालसद्भावः श्रुत्वा चैवावधार्यताम्। सूर्ययोनिर्निमेषादिः संख्याचक्षुः स उच्यते॥ २४
मूर्तिरस्य त्वहोरात्रे निमेषावयवश्च सः। संवत्सरशतं त्वस्य नाम चास्य कलात्मकम्॥
सांप्रतानागतातीतकालात्मा स प्रजापतिः॥ २५
पञ्चानां प्रविभक्तानां कालावस्थां निबोधत। दिनार्धमासमासैस्तु ऋतुभिस्त्वयनैस्तथा॥ २६
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः। इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः॥ २७
वत्सरः पञ्चमस्तेषां कालः स युगसंज्ञितः। तेषां तु तत्त्वं वक्ष्यामि कीर्त्यमानं निबोधत॥ २८
ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः। आदित्येयस्त्वण्डसौ सारः कालाग्निः परिवत्सरः॥२९
* धनुश्चिह्नान्तर्गतग्रन्थः ख. ग. घ. पुस्तकेषु नास्ति।
[अ० ३१-श्लो० ३०-५५] वायुपुराणम्। १०३ ( देववंशवर्णनम् )
शुक्लकृष्णा गतिश्चापि अपां सारमयः खगः । स इदावत्सरः सोमः पुराणे निश्चयो मतः ॥ ३० यश्चायं तपते लोकांस्तनुभिः सप्तसप्तभिः । आशु कर्ता च लोकस्य स वायुरिति वत्सरः ॥ ३१ अहंकारादुदत्तुन्दः सङ्गूतो ब्रह्मणस्रयः । स रुद्रो वत्सरस्तेषां विज्ञे नीललोहितः ॥ ३२ तेषां हि तत्त्वं वक्ष्यामि कीर्त्यमानं निबोधत ॥ अङ्गप्रत्यङ्गसंयोगात्कालात्म पतितामहः । ऋक्सामयजुषां योनिः पञ्चानां पतिरीश्वरः ॥ ३३ सोऽग्निर्यजुश्च सोमश्च स भूतः स प्रजापतिः । प्रोक्तः संवत्सरश्चेति सूर्यो योनिर्मनीषिभिः ॥ ३४ यस्मात्कालविभागानां मासत्वंर्यनयोरपि । ग्रहनक्षत्रशीतोष्णवर्षांयुःकर्मणां तथा ॥ योजितः प्रविभागानां दिवसानां च भास्करः ॥ ३५ वकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः । एकेनैकोऽथ दिवसो मासोऽथर्तुः पितामहः ॥ ३६ आदित्यः सविता भानुर्जविनो ब्रह्मसत्कृतः । प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः ॥ ३७ ताराभिमानी विज्ञेयस्तृतीयः परिवत्सरः । सोमः सर्वौषधिपतिर्यस्मात्स प्रपितामहः ॥ ३८ आजीवः सर्वभूतानां योगक्षेमकद्गेश्वरः । अवेक्षमाणः सततं बिभर्ति जगदंशुभिः ॥ ३९ तिथीनां पर्वसंधीनां पूर्णिमादर्शयोरपि । योनिर्निशाकरो यश्च योऽमृतात्मा प्रजापतिः ॥ ४० तस्मात्स पितृमान्सोम ऋग्यजुश्छन्दसात्मवः । प्राणापानसमानानाद्यैर्व्यांनोदानात्मकैरपि ॥ ४१ कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः । प्राणापानसमानानां वायूनां च प्रवर्तकः ॥ ४२ पञ्चानां चेन्द्रियमनोबुद्धिस्मृतिजलात्मनाम् । समानकालकरणः क्रियाः संपादयन्निव ॥ ४३ सर्वात्मा सर्वलोकानामावहः प्रवाहादिभिः । विधाता सर्वभूतानां क्षमी नित्यं प्रभञ्जनः ॥ ४४ योनिरग्नेरपां भूमेरवेश्वन्द्रसमश्च यः । वायुः प्रजापतिर्भूतं लोकात्मा प्रपितामहः ॥ ४५ प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः । त्रिभिरेव कपालैस्तु अम्बकैरौषधिक्षये ॥ इज्यते भगवान्यस्मात्तस्मात्त्र्यम्बक उच्यते ॥ ४६ गायत्री चैव त्रिष्टुप् च जगती चैव या स्मृता । त्र्यम्बका नामतः प्रोक्ता योनयः सवनस्य ताः ॥ ४७ ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः । त्रिसाधनपुरोडाशास्त्रिकपालः स वै स्मृतः ॥ ४८ इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः । यच्चैव पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः ॥ सैक षट्कं विजज्ञेऽथ मध्वादीनृतपः किल ॥ ४९ ऋतुपुत्रातंवः पञ्च इति सर्गः समासन् । इत्येष पवमानो वै प्राणिनां जीवितानि तु ॥ ५० नदविगसमायुक्तं कालो धावति संहरन् । अहोरात्रकरस्तस्मात्स वायुरभवत्पुनः ॥ ५१ ऐते प्रजानां पतयः प्रधानाः सर्वदेहिनाम् । पितरः सर्वलोकानां लोकात्मानः प्रकीर्तिताः ॥ ५२ ध्यायतो ब्रह्मणो वक्त्रादुदन्समभवद्भवः । ऋषिर्विप्रो महादेवो भूतात्मा प्रपितामहः ॥ ५३ ईश्वरः सर्वभूतानां प्रणवायोपपद्यते । आत्मवेशन भूतानामङ्गप्रत्यङ्गसंभवः ॥ ५४ अग्निः संवत्सरः सूर्यश्चन्द्रमा वायुरेव च । युगाभिमानी कालात्मा नित्यं संक्षेपऋद्धिभुः ॥ उन्मादकोऽनुग्रहकृत्स इद्वत्सर उच्यंत ॥ ५५
१०४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ३१-३२ श्लो० ५६-६१। १-१५] ( युगधर्माः )
रुद्राविष्टो भगवता जगत्यस्मिन्स्वतेजसा । आश्रयाश्रयसंयोगात्तनुभिर्नामभिस्तथा ॥ ५६
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम् । द्वितीयं भद्रसंयोगं गतं तस्यैककारकम् ॥ ५७
देवत्वं च पितृत्वं च कालत्वं चास्य यत्परम् । तस्माद्वै सर्वथा भद्रस्तद्वद्भिर्ह्यभिपूर्ज्यते ॥ ५८
पतिः पतीनां भगवान्प्रजेशानां प्रजापतिः । भवनः सर्वभूतानां सर्वेषां नीललोहितः ॥
ओषधीः प्रतिसंधत्ते रुद्रः क्षीणाः पुनः पुनः । ॥ ५९
इत्येषां यदपत्यं वै न तच्छक्यं प्रमाणतः । बहुत्वत्पारिसंख्यातुं पुत्रपौत्रमनन्तकम् ॥ ६०
इमं वंशं प्रजेशानां महतां पुण्यकर्मणाम् । कीर्तयन्स्थिरकीर्तीनां महतीं सिद्धिमप्नुयात् ॥ ६१
इति श्रीमहापुराणे वायुप्रोक्ते देववंशवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२५०८
अथ द्वात्रिंशोऽध्यायः ।
युगधर्माः ।
वायुरुवाच-
अत ऊर्ध्वं प्रवक्ष्यामि प्रणवस्य विनिश्चयम् । ओंकारमक्षरं ब्रह्म त्रिवर्णं चाऽऽदितः स्मृतम् ॥ १
यो यो यस्य यथा वर्णो विहितो देवतास्तथा । ऋचो यजूंषि सामानि वायुराभिस्तथाऽऽ*लम् ॥ २
तस्मात्तु अक्षरादेव पुनरन्ये प्रजज्ञिरे । चतुर्दश महात्मानो देवानां ये तु देवताः ॥ ३
तेषु सर्वगतश्चैव सर्वगः सर्वयोगवित् । अनुग्रहाय लोकानामादिमध्यान्त उच्यते ॥ ४
सप्तर्षयस्तथेन्द्रा ये देवाश्च पितृभिः सह । अक्षरान्निःसृताः सर्वे देवदेवान्महेश्वरात् ॥ ५
इहामुत्र हितार्थाय वदन्ति परमं परम् । पूर्वमेव मयोक्तस्ते कालस्तु युगसंज्ञितः ॥ ६
कृतं त्रेता द्वापरं च युगादिः कालिना सह । परिवर्तमानैस्तैरेव भ्रममाणेषु चक्रवत् ॥ ७
देवतास्तु तदोद्विग्नाः कालस्य वशमागताः । न शक्नुवन्ति तन्मानं संस्थापयितुमात्मना ॥ ८
तदा ते वाग्यता भूत्वा आदौ मन्वन्तरस्य वै । ऋषयश्चैव देवाश्च इन्द्रश्चैव महातपाः ॥ ९
समाधाय मनस्तीव्रं सहस्रं परिवत्सरान् । प्रपन्नास्ते महादेवं भीताः कालस्य वै तदा ॥ १०
अयं हि कालो देवेशश्चतुर्मूत्तिश्चतुर्मुखः । कोऽस्य विद्यान्महादेव अगाधस्य महेश्वर ॥ ११
अथ दृष्ट्वा महादेवस्तंतु कालं चतुर्मुखम् । न भेतव्यमिति प्राह को वः कामः प्रदीयताम् ॥ १२
तत्करिष्याम्यहं सर्वं न वृथाऽयं परिश्रमः । उवाच देवो भगवान्स्वयं कालः सुदुर्जयः ॥ १३
यदेतस्य मुखं श्वेतं चतुर्जिह्वं हि लक्ष्यते । एतत्कृतयुगं नाम तस्य कालस्य वै मुखम् ॥
असौ देवः सुरश्रेष्ठो ब्रह्मा वैवस्वतो मुखः ॥ १४
यदेतद्रक्तवर्णाभं तृतीयं वः स्मृतं मया । त्रिजिव्हं लेलिहानं तु एतत्रेता युगं द्विजाः ॥ १५
* नात्राध्यायपरिसमाप्तिः ख. पुस्तके । ÷ जलमित्यन्तेऽध्यायपरिसमाप्तिर्दृश्यते ख. पुस्तके ।
[अ०३२श्लो०१६--४०] वायुराणम् । १०५ ( युगधर्माः ) अत्र यज्ञप्रवृत्तिस्तु जायते हि महेश्वरात् । ततोऽत्र इज्यते यज्ञस्तिस्रो जिह्वास्त्रयोऽग्नयः ॥ इष्ट्वा चैवाग्नयो विप्राः कालजिह्वा प्रवर्तते ॥ १६ यदेतद्वै मुखं भीमं द्विजह्वं रक्तपिङ्गलम् । द्विपादोऽत्र भविष्यामि द्वापरं नाम तद्युगम् ॥ १७ यदेतत्कृष्णवर्णामं तुरीयं रक्तलोचनम् । एकजिह्वं पृथु श्यामं लेलिहानं पुनः पुनः ॥ १८ ततः कलियुगं घोरं सर्वलोकभयंकरम् । कल्पस्य तु मुखं ह्येतच्चतुर्थं नाम भीषणम् ॥ १९ न सुखं नापि निर्वाणं तस्मिन्भवति वै युगे । कालग्रस्ता प्रजा चापि युगे तस्मिन्भविष्यति ॥ २० ब्रह्मा कृतयुगं पूज्यस्त्रेतायां यज्ञ उच्यते । द्वापरे पूज्यते विष्णुरहं पूज्यश्चतुर्ष्वपि ॥ २१ ब्रह्मा विष्णुश्च यज्ञश्च कालस्यैव कलास्त्रयः । सर्वेष्वेव हि कालेषु चतुर्मूर्तिर्महेश्वरः ॥ २२ अहं जनो जनयिता वः कालः कालप्रवर्तकः । युगकर्ता तथा चैव परं परपरायणः ॥ २३ तस्मात्कलियुगं प्राप्य लोकानां हितकारणात् । अभयार्थं च देवामानुभयोर्लोकयोरपि ॥ २४ तदा भवश्च पूज्यश्च भविष्यामि सुरोत्तमाः । तस्माद्भयं न कार्यं च कालिं प्राप्य महौजसः ॥ २५ एवमुक्तास्ततः सर्वा देवता ऋषिभिः सह । प्रणम्य शिरसा देवं पुनरूचुर्जगत्पतिम् ॥ २६ देवर्षय ऊचुः-- महातेजा महाकायो महावीर्यो महाद्युतिः । भीषणः सर्वभूतानां कथं कालश्चतुर्मुखः ॥ २७ महादेवं उवाच-- 'एष कालश्चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्मुखः । लोकसंरक्षणार्थाय अतिक्रामति सर्वशः ॥ २८ नासाध्यं विद्यते चास्य सर्वस्मिन्सचराचरे । कालः सृजति भूतानि पुनः संहरति क्रमात् ॥ २९ सर्वे कालस्य वशगा न कालः कस्यचिद्वशे । तस्मात्तु सर्वभूतानि कालः कलयते सदा ॥ ३० विक्रमस्य पदान्यस्य पूर्वोक्तान्येकसप्ततिः । तानि मन्वन्तराणिह परिवृत्तयुगक्रमात् ॥ ३१ एकं पदं परिक्रम्य पदानामेकसप्ततिः । यदा कालः प्रक्रमते तदा मन्वन्तरक्षयः ॥ ३२ एवमुक्त्वा तु भगवान्देवर्षिपितृदानवान् । नमस्कृतश्च तैः सर्वैस्तत्रैवान्तरधीयत ॥ ३३ एवं स कालो भगवान्देवर्षिपितृदानवान् । पुनः पुनः संहरते सृजते च पुनः पुनः ॥ ३४ अतो मन्वन्तरे चैव देवर्षिपितृदानवैः । पूज्यते भगवानीशो भयात्कालस्य तस्य वै ॥ ३५ तस्मात्सर्वप्रयत्नेन कलौ कुर्यात्तपो द्विजाः । प्रपन्नस्य महादेवं तस्य पुण्यफलं महत् ॥ तस्माद्देवा दिवं गत्वा अवतीर्य च भूतले ॥ ३६ ऋषयश्चैव देवाश्च कलिं प्राप्य सुदारुणम् । तप इच्छन्ति भूयिष्ठं कर्तुं धर्मपरायणाः ॥ ३७ अवतारान्कालिं प्राप्य करोति च पुनः पुनः ॥ एवं कालान्तरे सर्वे येऽतीता वै सहस्रशः । वैवस्वतेऽन्तरे तस्मिन्देवान्देवराजर्षयस्तथा ॥ ३८ देवापिः पौरवो राजा मनुश्चैक्ष्वाकुवंशजाः । महायोगबलोपेताः कालान्तरमुपासते ॥ ३९ क्षीणे कलियुगे तस्मिंस्तिष्ये त्रेतायुगे कृते । सप्तर्षिभिश्चैव सार्धं भाव्ये त्रेतायुगे पुनः ॥ गोत्राणां क्षत्रियाणां च भविष्यास्ते प्रकीर्तिताः ॥ ४० १४
१०६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०३२श्लो०४१-६६] ( युगधर्माः )
द्वापरान्ते प्रतिष्ठन्ते क्षत्रिया ऋषिभिः सह । कृते त्रेतायुगे चैव तथा क्षीणे च द्वापरे ॥ ४१ [*ब्रह्मक्षत्रस्य चोच्छेदा द्विजाथार्य कलौ स्मृताः । एवमेतेषु सर्वेषु युगेषु क्रमशस्तथा ॥ ४२ सप्तर्षिभिस्तथा सार्धं संतानार्थं युगे युगे । एवं क्षत्रस्य चोच्छेदाः संबन्धाद्वै द्विजैः स्मृताः ] +नराः पातकिनो ये वै वर्तन्ते ते कलौ स्मृताः ॥ ४३ मन्वन्तराणां सप्तानां सान्तानार्था श्रुतिः स्मृतिः । एवमेतेषु सर्वेषु युगक्षयक्रमस्तथा ॥ ४४ परस्परं युगानां च ब्रह्मक्षत्रस्य चोद्भवः । यथा वै प्रकृतिस्तेभ्यः प्रवृत्तानां यथाक्षयम् ॥ ४५ जामदग्न्येन रामेण क्षत्रे निरवशेषिते । क्रियन्ते कुलटाः सर्वाः क्षत्रियैर्वसुधाधिपैः ॥ दिवंगतानहं तुभ्यं कीर्तयिष्ये निबोधत ॥ ४६ ऐडमैक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते । राजानः श्रोणिवन्धास्तु तथाऽन्ये क्षत्रिया भुवि ॥ ४७ ऐडवंशेऽथ संभूतास्तथा चैक्ष्वाकवो नृपाः । तेभ्य एव शतं पूर्णं कुलानाामभिषेचितम् ॥ ४८ तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः । भोजं तु त्रिशतं क्षत्रं चतुर्था तद्यथादिशम् ॥ ४९ तेष्वतीतास्तु राजानो ब्रुवतस्तान्निबोधत । शतं वै प्रतिविन्ध्यानां हैहयानां तथा शतम् ॥ ५० धार्तराष्ट्रास्त्वेकशतमशीतिर्जनमेजयाः । शतं वै ब्रह्मदत्तानां कुलानां वीर्यिणां शतम् ॥ ५१ ततः शतं तु पौलानां शतं काशिकुशादयः । तथाऽपरं सहस्रं तु येऽतीताः शशबिन्दवः ॥ ईजानास्तेऽश्वमेधैस्तु सर्वे नियुतदक्षिणैः ॥ ५२ [×एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः । मनोर्वैवस्वतस्येह वर्तमानेऽन्तरे शुभे ॥ ५३ पुनरुक्तबहुत्वाच्च न शक्यं विस्तरेण तु । ]÷एवं संक्षेपतः प्रोक्ता न शक्या विस्तरेण तु ॥ वक्तुं राजर्षयः कृत्स्ना येऽतीतास्तैर्युगैः सह ॥ ५४ एते ययातिवंशस्य बभूवुर्वंशवर्धनाः । कीर्तिता द्युतिमन्तस्ते ये लोकान्धारयन्ति वै ॥ ५५ लभन्ते च वरान्पञ्च दुर्लभान्ब्रह्मलौकिकान् । आयुः पुत्रा धनं कीर्तिमैश्वर्यं भूतिरेव च ॥ ५६ धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य धीमताम् । यथोक्ता लौकिकाश्चैव ब्रह्मलोकं व्रजन्ति वै ॥ ५७ चत्वार्याहुः सहस्राणि वर्षाणां च कृतं युगम् । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ ५८ कृते वै प्रक्रियापादश्चतुःसाहस्र उच्यते । तस्माच्चतुःशतं संध्या संध्यांशश्च तथाविधः ॥ ५९ त्रेता त्रीणि सहस्राणि संख्यया मुनिभिः सह । तस्यापि त्रिशती संध्या संध्यांशस्त्रिशतः स्मृतः अनुषङ्गपादस्त्रेतायांस्त्रिसाहस्रस्तु संख्यया । द्वापरे द्वे सहस्रे तु वर्षाणां संप्रकीर्तितम् ॥ ६१ तस्यापि द्विशती संध्या संध्यांशो द्विशतस्तथा । उपोद्घातस्तृतीयस्तु द्वापरे पाद उच्यते ॥ ६२ कलिं वर्षसहस्रं तु प्राऽऽहुः संख्याविदो जनाः । तस्यापि शतिका संध्या संध्यांशः शतेमेव च संहारपादः संख्यातश्चतुर्थो वै कलौ युगे । ससंध्यानि सहस्राणि चत्वारि तु युगानि वै ॥ ६४ एतद्द्वादशसाहस्रं चतुर्युगमिति स्मृतम् । एवं पादैः सहस्राणि श्लोकानां पञ्च पञ्च च ॥ ६५ संध्यासन्ध्यांशकैरेव द्वे सहस्रे तथाऽपरे । एवं द्वादशसाहस्रं पुराणं कवयो विदुः ॥ ६६
- धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति । + इदमर्धं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।
× धनुश्चिह्नान्तर्गतग्रन्थ. क. पुस्तके नास्ति । ÷ इदमर्धं नास्ति क. ग. घ. ङ. पुस्तकेषु ।
[अ० ३२-३३ श्लो० ६७ १-१८] वायुपुराणम् । १०७ ( स्वायंभुववंशवर्णनम् ) यथा वेदश्चतुष्पादश्चतुष्पादं तथा युगम् । यथा युगं चतुष्पादं विधात्रा विहितं स्वयम् ॥ चतुष्पादं पुराणं तु ब्रह्मणा विहितं पुरा ॥ इति श्रीमहापुराणे वायुप्रोक्ते युगधर्मनिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ आदितः श्लोकानां समष्ट्यङ्काः--२५७५
अथ त्रयस्त्रिंशोऽध्यायः ।
स्वायंभुववंशवर्णनम् ।
सूतउवाच-- मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह । तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः ॥ १ देवाश्च विविधा ये च तस्मिन्वन्तरेऽधिपाः । ऋषयो मनवश्चैव सर्वे तुल्याभिमानिनः ॥ २ महर्षिसर्गः प्रोक्तो वै वंशं स्वायंभुवस्य तु । विस्तरेणानुपूर्व्या च कीर्त्यमानं निबोधत ॥ ३ मनोः स्वायंभुवस्याऽऽसन्दश पौत्रास्तु तत्समाः । यैरियं पृथिवी सर्वा सप्तद्वीपसमन्विता ॥ ४ ससमुद्रा करवती प्रतिवर्षं निवेशिता । स्वायंभुवेऽन्तरे पूर्वमाद्ये त्रेतायुगे तदा ॥ ५ प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु । प्रजासर्गतपोयोगैस्तैरियं विनिवेशिता ॥ ६ प्रियव्रतात्मजावन्तौ वीरात्कन्या व्यजायत । कन्या सा तु महाभागा कर्दमस्य प्रजापतेः ॥ ७ कन्ये द्वे शतपुत्राश्च सम्राट्कुक्षिश्च ते उभे । तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥ ८ अग्नीध्रश्च वपुष्मांश्च मेधा मेधातिथिर्विभुः । ज्योतिष्मान्द्युतिमान्हव्यः सवनः सर्व एव च ॥ ९ प्रियव्रतोऽभिषिच्यैतान्सप्तसप्तसु पार्थिवान् । द्वीपेषु तेषु धर्मेण दीप्तांस्तांश्च निबोधत ॥ १० जम्बूद्विपेश्वरं चक्रे अग्नीध्रं तु महाबलम् । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ ११ शाल्मलौ तु वपुष्मन्तं राजानमभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपेश्वरं राजानं कृतवान्प्रभुः ॥ १२ द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् । शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ॥ १३ पुष्कराधिपतिं चापि सधिनं कृतवान्प्रभुः । पुष्करे सवनस्यापि महावीतः सुतोऽभवत् ॥ धातकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥ १४ महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः । नाम्ना तु धातकेश्चापि धातकीखण्ड उच्यते ॥ १५ हव्यो व्यजनयत्पुत्राञ्छाकद्वीपेश्वरान्प्रभुः । जलदं च कुमारं च सुकुमारं मणीचकम् ॥ वसुमोदं सुमोदाकं सप्तमं च महाद्रुमम् ॥ १६ जलदं जलदस्याथ वर्षं प्रथममुच्यते । कुमारस्य च कौमारं द्वितीयं परिकीर्तितम् ॥ १७ सुकुमारं तृतीयं तु सुकुमारस्य कीर्तितम् । मणीचकस्य चतुर्थं मणीचकमिहोच्यते । १८
१०८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०३३श्लो०१९-४०]
( स्वायंभुववंशवर्णनम )
वसुमोदस्य वै वर्षं पञ्चमं वसुमोदकम् । मोदकस्य तु मोदाकं वर्षं षष्ठं प्रकीर्तितम् ॥ १९
महाद्रुमस्य नाम्ना तु सप्तमं तु महाद्रुमम् । एषां तु नामभिस्तानि सप्तवर्षाणि तत्र वै ॥ २०
क्रौञ्चद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै । [*कुशला मनुगश्चोष्णः पीवरश्चान्धकारकः ॥
मुनिश्च दुन्दुभिश्चैव सुता द्युतिममस्तु वै । ] २१
तेषां स्वनामभिर्देशाः क्रौञ्चपीपाश्च याः शुभाः । उष्णस्योष्णः स्मृतो देशः पीवरस्यापि पीवरः॥ २२
अन्धकारकदेशस्तु अन्धकारश्च कीर्त्यते । मुनेस्तु मुनिदेशो वै दुन्दुभेर्दुन्दुभिः स्मृतः ॥
एते जनपदाः सप्त क्रौञ्चद्वीपे तु भास्वराः ॥ २३
ज्योतिष्मतः कुशद्वीपे सप्तैते सुमहौजसः । उद्भिदो वेणुमांश्चैव स्वैरथो लवणो धृतिः ॥
षष्ठः प्रभाकरश्चैव सप्तमः कपिलः स्मृतः ॥ २४
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् । तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम् ॥ २५
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम् । सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम् ॥ २६
तेषां द्वीपाः कुशद्वीपे तत्सनामान एव तु । आश्रमाचारयुक्ताभिः प्रजाभिः समलंकृताः ॥ २७
शाल्मल्येश्वराः सप्त पुत्रास्ते तु वपुष्मतः । श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ॥
वैद्युतो मानसश्चैव सुप्रभः सप्तमस्तथा ॥ २८
श्वेतस्य श्वेतदेशस्तु रोहितस्य च रोहितः । जीमूतस्य च जीमूतो हरितस्य च हारितः ॥ २९
वैद्युतो वैद्युतस्यापि मानसस्यापि मानसः । सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः ॥ ३०
सप्तद्वीपे तु वक्ष्यामि जम्बुद्वीपादनन्तरम् । सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः ॥ ३१
ज्येष्ठः शान्तभयस्तेषां सप्तवर्षाणि तानि वै । तस्माच्छान्तभयाच्चैव शिशिरस्तु सुखोदयः ॥
आनन्दश्च ध्रुवश्चैव क्षेमकश्च शिवस्तथा ॥ ३२
तानि तेषां सनामानि सप्तवर्षाणि भागशः । निवेशितानि तैस्तानि पूर्वे स्वायंभुवेऽन्तरे ॥ ३३
मेधातिथेस्तु पुत्रैस्तैः सप्तद्वीपनिवासिभिः । वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः ॥ ३४
प्लक्षद्वीपादिकेष्वेव शाकद्वीपान्तरेषु वै । ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभागशः ॥ ३५
सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः । पञ्चस्वेतेषु द्वीपेषु सर्वं साधारणं स्मृतम् ॥ ३६
सप्तद्वीपपरिक्रान्तं जम्बुद्वीपं निबोधत । अग्नीध्रं ज्येष्ठदायादं कन्यापुत्रं महाबलम् ॥
प्रियव्रतोऽभ्यषिञ्चत्तं जम्बुद्वीपेश्वरं नृपम् ॥ ३७
तस्य पुत्रा बभूवुर्हि प्रजापतिसमौजसः । ज्येष्ठो नाभिरितिख्यातस्तस्य किम्पुरुषोऽनुजः ॥ ३८
हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः । रम्यः स्यात्पञ्चमः पुत्रो हरिण्मन्षष्ठ उच्यते ॥ ३९
कुरुस्तु सप्तमस्तेषां भद्राश्वो ह्यष्टमः स्मृतः । नवमः केतुमालस्तु तेषां देशान्निबोधत ॥ ४०
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।
गन्धमादनवर्षं तु केतुमाले न्यवेदयत् । इत्येतानि महान्तीह नव वर्षाणि भागशः ॥ ४५
[अ० ३३ श्लो० ४१-६३] वायुपुराणम् । १०९
( स्वायंभुववंशवर्णनम् )
नाभेस्तु दक्षिणं वर्षं हिमाह्वं तु पिता ददौ । हेमकूटं तु यद्वर्षं ददौ किं पुरुषाय तत् ॥ ४१ नैषधं यत्स्मृतं वर्षं हरिवर्षाय तद्ददौ । मध्यमं यत्सुमेरोस्तु स ददौ तदिलावृते ॥ ४२ नीलं तु यत्स्मृतं वर्षं रम्यायैऽत्पिता ददौ । श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हरिण्मते ॥ ४३ यदुत्तरं शृङ्गवतो वर्षं तत्कुरवे ददौ । वर्षं माल्यवतं चापि भद्राश्वाय न्यवेदयत् ॥ ४४ गन्धमादनवर्षं तु केतुमाले न्यवेदयत् । इत्येतानि महान्तीह नव वर्षाणि भागशः ॥ ४५ अग्नीध्रस्तेषु सर्वेषु पुत्रांस्तानभ्यषिञ्चत । यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ॥ ४६ इत्येतैः सप्तभिः कृत्स्नाः सप्तद्वीपा निवेशिताः । प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु ॥ ४७ यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभानि तु । तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ॥ ४८ विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ न तेष्वस्ति युगावस्था क्षेत्रेष्वेव तु सर्वशः ॥ ४९ नाभेर्हि सर्गं वक्ष्यामि हिमाह्वे तान्निबोधत । नाभिस्त्वजनयत्पुत्रं मरुदेव्यां महाद्युतिः ॥ ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ॥ ५० ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः । सोऽभिषिच्याथ भरतः पुत्रं प्राव्राज्यमास्थितः ॥ ५१ हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत् । तस्मात्तद्भारतं वर्षं तस्य नाम्ना विदुबुर्धाः ॥ ५२ भरतस्याऽऽत्मजो विद्वान्सुमतिर्नाम धार्मिकः । बभूव तस्मिंस्तद्राज्यं भरतः संन्ययोजयत् ॥ पुत्रसंक्रामितश्रीको वनं राजा विवेश सः ॥ ५३ तैजसस्तत्सुतश्चापि प्रजापतिरमित्राजित् । तैजसस्याऽऽत्मजो विद्वानिन्द्रद्युम्न इति श्रुतः ॥ ५४ परमेष्ठी सुतस्याथ निधने तस्य शोभनः । प्रतीहारः तस्य कुले तस्य नाम्ना जज्ञे तदन्वयात् । प्रतिहर्तेति विख्यातो जज्ञे तस्यापि धीमतः ॥ ५५ उन्नेता प्रतिहर्तुस्तु भुवस्तस्य सुतः स्मृतः । उद्गीथस्तस्य पुत्रोऽभूत्प्रताविश्चापि तत्सुतः ॥ ५६ प्रतावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो मतः । पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥ ५७ गयस्य तु नरः पुत्रो नरस्यापि सुतो विराट् । विराट्सुतो महावीर्यो धीमांस्तस्य सुतोऽभवत् ॥ ५८ धीमतश्च महान्पुत्रो महतश्चापि भौवनः । भौवनस्य सुतस्त्वष्टा अरिजस्तस्य चाऽऽत्मजः ॥ ५९ अरीजस्य रजः पुत्रः शतजिद्रजसो मतः । तस्य पुत्रशतं त्वासद्विप्राजानः सर्व एव ते ॥ ६० विश्वज्योतिष्प्रधाना यैस्तैरिमा वर्धिताः प्रजाः । तैरियं भारतं वर्षं (*सप्तखण्डं कृतं पुरा ॥ ६१ तेषां वंशप्रसूतैस्तु भुक्तेयं भारती धरा । कृतत्रेतादियुक्तानि युगाख्यानेकसंप्लुतिः ॥ ६२ येऽतीतास्तैर्युगैः सार्धं राजानस्ते तदन्वयाः । स्वायंभुवेऽन्तरे पूर्वं ) शतशोऽथ सहस्रशः ॥ ६३
* धनुश्चिह्नान्तर्गतग्रन्थः ङ. पुस्तके नास्ति ।
११० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३३-३४ श्लो० ६४-६५-१-१६] (जम्बूद्वीपवर्णनम्)
एष स्वायंभुवः सर्गो येनेदं पूरितं जगत् । ऋषिभिर्दैवतैश्चापि पितृगन्धर्वराक्षसैः ॥ ६४ यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः । तेषां सृष्टिरियं लोके युगैः सह विवर्तते ॥ ६५ इति महापुराणे वायुप्रोक्ते स्वायंभुववंशानुकीर्तनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ आदितः श्लोकानां समष्ट्यङ्काः- २६४०
अथ चतुस्त्रिंशोऽध्यायः । जम्बूद्वीपवर्णनम् ।
ऋषय ऊचुः- एवं प्रजासंनिवेशं श्रुत्वा च ऋषिपूंगवः । पप्रच्छ निपुणः सूतं पृथिव्यायामविस्तरौ ॥ १ कति द्वीपाः समुद्रा वा पर्वताश्च कति प्रभो । कियन्ति चैव वर्षाणि तेषु नद्यश्च का स्मृताः ॥ २ महाभूतप्रमाणं च लोकालोकौ तथैव च । पर्यायपारिमाण्यं च गतिश्चन्द्राकयोस्तथा ॥ [*एतत्प्रब्रूहि नः सर्वं विस्तरेण यथा तथा ॥ ३
सूत उवाच- अत ऊर्ध्वं प्रवक्ष्यापि पृथिव्यायामविस्तरम् । संख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् ॥ ४ यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः । महाभूतप्रमाणं च लोकालोकौ तथैव च ॥ पर्यायपारिमाण्यं च गतिश्चन्द्राकयोस्तथा ] ॥ ५ द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि वै । न शक्यन्ते प्रमाणेन वक्तुं वर्षशतैरपि ॥ ६ सप्तद्वीपं तु वक्ष्यामि चन्द्रादित्यग्रहैः सह । येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ७ अचिन्त्याः खलु ये भावा न तांस्तर्केण भावयेत् । प्रकृतिभ्यः परं यच्च तन्नित्यं च प्रचक्ष्य(क्ष)ते नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथा तथा । विस्तरान्मडलाच्चैव योजनैस्तन्निबोधत ॥ ९ शतमेकं सहस्राणां योजनानां प्रमाणतः । नानाजनपदाकीर्णैः पुरैश्च विविधैः शुभैः ॥ १० सिद्धचारणगन्धर्वपर्वतैश्चोपशोभितम् । सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः ॥ पर्वतप्रभवाभिश्च नदीभिः पर्वतैस्तथा ॥ ११ जम्बूद्वीपः पृथुः श्रीमान्सर्वतः परिवारितः । नवाभिश्चाऽऽवृतः सर्वैर्भुवनैर्भूतभावनैः ॥ (+लावणेन समुद्रेण सर्वतः परिवारितः ॥ ) १२ जम्बूद्वीपस्य विस्तारात्समेन तु समंततः । प्रागायताः सुपर्वाणः षडिमे वर्षपर्वताः ॥ अवगाढा उभयतः समुद्रौ पूर्वपश्चिमौ ॥ १३ हिमप्रायश्च हिमवान्हेमकूटश्च हेमवान् । तरुणादित्यवर्णाभो हैरण्यो निषधः स्मृतः ॥ १४ चातुर्वर्णस्तु सौवर्णो मेरुश्चोच्चतमः स्मृतः । प्लुताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ॥ १५ नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः । नाभिबन्धनसंभूतो ब्रह्मणोऽव्यक्तजन्मनः ॥ १६
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । +इदमर्धं नास्ति ख. घ. पुस्तकयोः ।
[अ० ३४ श्लो० १७-३७] वायुपुराणम् । १११
( जम्बूद्वीपवर्णनम् )
पूर्व्वतः श्वेतवर्णोऽसौ ब्राह्मण्यं तस्य तेन तत् । पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥ १७ भृङ्गपत्रनिभश्चासौ पश्चिमेन महाबलः । तेनास्य शूद्रता दृष्टा मेरोनानार्थकारणात् ॥ १८ पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः । तेनास्य क्षत्रता च स्यादिति वर्णाः प्रकीर्तिताः ॥ व्यक्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ १९ नीलश्च वैदूर्यमयः श्वेतशृङ्गो हिरण्मयः । मयूरबर्हवर्णस्तु शातकौम्भस्तु शृङ्गवान् ॥ २० एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ २१ मध्ये त्विलावृतं यस्तु महामेरोः समन्ततः । नवैव तु सहस्राणि विस्तीर्णः पर्वतस्तु सः ॥ मध्ये तस्य महामेरोर्निर्धूम इव पावकः ॥ २२ वेद्यर्धं दक्षिणं मेरोरुत्तरार्धं तथोत्तरम् । वर्षाणि यानि सप्तात्र तेषां ये वर्षपर्वताः ॥ २३ द्वे द्वे सहस्रे विस्तीर्णा योजनानि समुच्छ्रवात् ॥ २४ जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते । योजनानां सहस्राणि शते द्वे मध्यमौ गिरी ॥ २५ नीलश्च निषधश्चैव ताभ्यां हीनास्तु येऽपरे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः ॥ २६ नवतिर्द्धावशीतिद्वौ सहस्राण्यायतास्तु ये । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥ संपातविषमैस्तैस्तु पर्वतैरावृतानि च । संततानि नदीभेदैरगम्यानि परस्परम् ॥ २७ वसन्ति तेषु सत्त्वानि नानाजातीनि भागशः ॥ २८ इदं हैमवतं वर्षं भारतं नाम विश्रुतम् । हेमकूटं परं तस्मान्नाम्ना किंपुरुषं स्मृतम् ॥ २९ नैषधं हेमकूटं तु हरिवर्षं तदुच्यते । हरिवर्षात्परं चैव मेरोश्च तदिलावृतम् ॥ इलावृतप(तात्प)रं नीलं रम्यकं नाम विश्रुतम् । रम्यात्परतरं श्वेतं विश्रुतं तद्धिरण्मयम् ॥ ३० हिरण्मयात्परं चापि शृङ्गवांस्तु कुरु स्मृतम् ॥ ३१ धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥ अर्वाक्च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् । परं नीलवतो यच्च वेद्यर्धं तु तदुत्तरम् ॥ ३२ वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥ ३३ तयोर्मध्ये तु विज्ञेयं मेरुमध्यमिलावृतम् । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ उदगायतो महाशैलो माल्यवान्नाम पर्वतः । योजनानां सहस्रोरुरानीलनिषधा यतः ॥ ३४ [*आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥ तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामादथ विस्तारान्माल्यवानिति विश्रुतः ] ॥ ३५ परिमण्डलयोर्मध्ये मेरुस्तनपर्वतः । चतुर्वर्णः सुसौवर्णश्चतुरस्रः समुच्छ्रितः ॥ ३६ अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः ॥ अव्यक्तात्पृथिवीपद्मं मेरुर्वैपर्वतकर्णिकम् । चतुष्पथं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ॥ ३७
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।