वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
राज्याधिकारिनिर्णयः । ३५ काश्मीरायां तु पार्वत्यां शङ्करात्मा महीपतिः । सर्वलक्षणसंयुक्तस्त्वभिषेच्यो नवस्तदा ॥ तदा पूर्वोक्ते काले, नवो महीपतिः, पार्वत्यां पर्वतभवायां, काश्मीरायां श्रीपर्णी, तन्निर्मिते भद्रपीठे उपवेश्येत्यर्थः । अत एवाग्रे अभिषेकसम्भारमध्ये श्रीपर्णीपीठमाहृतमस्ति । इति राजाभिषेके विहितकालाः । अथ राज्याधिकारिनिर्णयः । तत्रौरसो ज्येष्ठ एवाधिकारी । तदुक्तम्— कालिकापुराणे, राजेत्युपक्रम्य— औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च दासश्च षडिमे पुत्रपांसनाः ॥ दासः स्वोत्पन्नो दासीपुत्रः । रागादिना द्विजातीनामपि दास्यामुत्पन्नस्य पुत्रस्य सम्भवात् । अभावे पूर्वपूर्वेषां परान् समभिषेचयेत् । इति । मनुः, ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ इति । आपस्तम्बोऽपि, ज्येष्ठो दायाद इति । इदं राज्ये विभागाभावस्य वक्ष्यमाणत्वात् राज्याविषय- मिति बहुभिर्व्याख्यातम् । मनुरपि, ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
३६ वीरमित्रोदयस्य राजनीतिप्रकाशे पितृणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ इति । कालिकापुराणे तु ज्येष्ठौरसस्य राज्यं स्पष्टमेवाभिहितम्- अथोपरिचरं राजा यौवराज्येऽभ्यषेचयत् । ज्यायांसमौरसं पुत्रं सर्वराजगुणैर्युतम् ॥ इति । रामायणेऽपि, मन्थरां प्रति कैकयीवाक्यम्- धर्मज्ञो गुणवान् दान्तः कृतज्ञः सत्यवाक् शुचिः । रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ राजसुत इत्यौरसत्वज्ञापनार्थम् । तथा, रामं प्रति दशरथवाक्यम्— आदिष्टो ह्यसि मे ज्येष्ठः प्रसूतः सदृशो गुणैः । ज्येष्ठायामपि मे पत्न्यां सदृश्यां सदृशः सुतः ॥ तन्मत्तस्त्वं गुणज्येष्ठो रामनामाऽत्मजः प्रियः । त्वया तात प्रजा ह्येताः स्वगुणैरनुरञ्जिताः ॥ तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्स्यसि । इति । प्रसूत औरसः । अस्मादपि ज्येष्ठस्यौरसस्यैव राज्यमिति गम्यते । ज्येष्ठायामिति । यदा एकदोत्पन्नयोर्ज्येष्ठ्यं न निर्णेतुं शक्यते तदा ज्येष्ठापुत्रस्य प्राप्त्यर्थं, न तु महिष्या अन्यस्या वा ज्येष्ठायाः पुत्रस्य कनीयसोऽपि प्राप्त्यर्थम् । यदा ज्येष्ठा- या अनभिषिक्ताया वा पुत्रो ज्येष्ठस्तदा तस्यैव राज्यमित्या- चारदर्शनात्, सदृशस्त्रीषु जातानां पुत्राणामविशेषतः । न मातृतो ज्यैष्ठ्यमस्ति जन्मतौ ज्यैष्ठ्यमुच्यते ॥ इति मनुना स्पष्टमभिधानाच्च ।
राज्याधिकारिनिर्णये ज्यैष्ठ्यनिर्णयः । ३७ रामायणेऽपि, जन्मज्येष्ठं प्रियं पुत्रं यौवराज्ये यदिप्सथ । इति ज्यैष्ठ्यस्य जन्मनैवोक्तत्वाच्च । एवं यमयोराप जन्मनैव ज्यैष्ठ्यं न निषेकेण । निषेकज्यैष्ठ्ये तु अनेकपत्नीकस्यैकस्यां पूर्वं निषेकः पश्चात्पुत्रजन्म, यस्यां पश्चान्निषेकः पूर्वं पुत्रजन्म, तत्पुत्रयोर्मध्ये पूर्वपुत्रस्यैव राज्यं स्यात् । न चेष्टापत्तिः । आ- चारविरोधात्, उक्तवचनविरोधाच्च । मनुरपि जन्मनैव ज्यैष्ठ्यमाह— जन्मज्यैष्ठ्येन चाह्वानं सुब्रह्मण्यायामपि स्मृतम् । यमयोश्चैव गर्भेषु जन्मना ज्यैष्ठ्यमुच्यते ॥ सुब्रह्मण्याख्यो मन्त्रो ज्योतिष्टोम इन्द्रस्याह्वानार्थं प्रयुज्य- ते । तत्र प्रथमं प्रथमपुत्रेण पितरमुद्दिश्याह्वानं क्रियते-“अमुक- स्य पिता यजते” इति, तत्र जन्मज्येष्ठतामाहृत्यैवाहानम् । यस्य च यजमानस्य यमजौ पुत्रौ तत्र गर्भे एककालनिषिक्तयोरपि यमयोर्जन्मना ज्यैष्ठ्यमुच्यते, जन्मज्यैष्ठ्येन पुत्रस्य ज्येष्ठतामा- हृत्याह्वानं क्रियते इति वाक्यार्थः । गर्भेष्विति बहुवचनं तु लोके स्त्रीबहुत्वमपेक्ष्योक्तं द्रष्टव्यम् । तथा च— स्मृत्यर्थतत्त्वे देवलः, यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम् ॥ इति । सन्तानो वंशः । ननु पूर्वं निषिक्तस्य पश्चादुत्पन्नस्य हिरण्यकशिपोः कथं पूर्वं नामकरणम् । तथा च— श्रीभागवते, प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत ।
३८ वीरमित्रोदयस्य राजनीतिप्रकाशे तं वै हिरण्यकशिपुं विदुर्बुधा यं तं हिरण्याक्षमसूत साग्रतः ॥ स्वदेहात् पितृदेहात् । प्राक् गर्भनिषेककाले । सा अदितिः । गर्भाधानकाले यथा प्राक्पश्चाद्भावस्तथोक्तः— पिण्डसिद्धौ, यदा विशेत् द्विधाभूतं वीजं पुष्पं परिक्षरत् । द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ॥ सूतिः प्रसवः । वेशविपर्ययात् वेशो वीजप्रवेशः, तद्विपर्ययात् तद्वैपरीत्येन । यस्य पूर्वं निषेकः तस्य पश्चादुत्पत्तिः यस्य च पश्चान्निषेकस्तस्य पूर्वमुत्पत्तिरिति चेत्, उच्यते । “जन्मना ज्यैष्ठ्यमुच्यते” इति “तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम्” इति मनु- देवलवचनाभ्यां विरोधे “प्रजापतिर्नाम तयोरकार्षीत्” इति भाग- वतवचनस्य सिद्धार्थमात्रबोधकस्य ज्यैष्ठ्यविधायकत्वमिति व- क्तुमशक्यत्वात्, “सूतिर्वेशविपर्ययात्” इत्यस्यापि एकदा निषि- क्तयोरुपरिभागानिषिक्तस्य पश्चान्निर्गम इति देशिक एव विपर्य- योऽर्थः, न तु गर्भे पूर्वमुत्पन्नस्येत्येतावत्पर्यन्तमर्थः । एकस्यापि सङ्कीर्णवीथीस्थितस्य गजादेः पराङ्मुखतयैव परावृत्तौ विप- रीतो निर्गत इति प्रयोगात् । न च मनुवाक्ये गर्भेषु जन्मनेत्य- न्वयो युक्तः, गर्भसम्भूतावपत्यजन्माभूदित्यप्रयोगात् । निर्गमे च तादृशप्रयोगाद्देवलवाक्यैकवाक्यत्वाच्च पूर्वोक्तमेधातिथ्यादि- कृतव्याख्यानस्यैवोचितत्वात् । इतरथा निषेकक्रमेण ज्येष्ठत्वे- ऽनेकपत्नीकस्यैकस्यां पूर्वं निषिक्तो गर्भः शल्यीभूतोऽन्यस्यां चानन्तरनिषिक्तः स्वकाले उत्पन्नस्तदपेक्षया शल्यवृद्ध्या विं- शतिवर्षानन्तरोत्पन्नस्य ज्येष्ठत्वव्यवहारप्रसङ्गः । यदि चैकगर्भ एव निषेकक्रमेण ज्यैष्ठ्यं न पृथग्गर्भे, भागवतवचनानुरोधादि- त्युच्यते, तत्रोक्त एव मनुदेवलवचनाविरोधः । अस्तु वा तथा '
क्षेत्रजादे राज्यानधिकारः । ३९ तथापि को हि अयोगी तद्वेद यदुपर्यधो वा पूर्वं निषेक एकदैवो- भयत्र वेति त्रितयस्यापि वक्तुं शक्यत्वात्। योगी हि प्रजापतिः क्रमं विदित्वा नाम चकारेत्यस्यापि सुवचत्वात् । अत एव यः प्राक्स्वदेहादित्येवोक्तम्, न तूपरिस्थितत्वादेराद्यसम्भूतौ हेतुत्वेनोक्तिः, तस्माज्जन्मनैव ज्यैष्ठ्यमिति दिक् । अथौरसे कनीयस्यपि सति क्षेत्रजादीनां राज्यदाननिषे- धः कालीपुराणे दर्शितः- न क्षेत्रजादींस्तनयाञ्राजा राज्येऽभिषेचयेत् । पितॄणां शोधयन्नित्यमौरसे तनये सति ॥ शोधयन्, ऋणमिति शेषः । औरसे तनये सतीति तत्स- न्तेतेरप्युपलक्षणम्। पुत्रेभ्यो राज्यं विभज्य न देयम्। तथा च- रामायणे, कैकयीं प्रति वाक्यम्- न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्थाप्यमानेषु सर्वेषु महानविनयो भवेत् ॥ तस्माज्ज्येष्ठेषु पुत्रेषु राज्यतन्त्राणि पार्थिवाः । आसञ्जन्त्यनवद्याङ्गि गुणवत्स्वितरेषु च ॥ तेषु ज्येष्ठेषु पुत्रेषु ज्येष्ठेष्वेव न संशयः । आसञ्जन्त्यखिलं राज्यं न भ्रातृषु कथंचन ॥ इति । गुणवत्स्वितरेष्विति ज्यायसि दोषसद्भावे कनीयसां मध्ये एकस्य कस्यचित् राज्यदाने गुणवत्त्वं हेतुत्वेनोपन्यस्तम् । ज्ये- ष्ठस्यान्धत्वादिदोषसद्भावे न राज्यभाक्त्वम् । तदुक्तम्- महाभारते, नान्धः कुरूणां नृपतिरनुरूपस्तपोधन । तथा,
४२ वीरमित्रोदयस्य राजनीतिप्रकाशे भीष्म उवाच । राज्यं तावत्पूर्वमेव यथा त्यक्तं नराधिपाः । अपत्यहेतोरपि च करिष्येऽप्यविनिश्चयम् ॥ अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति । इति । सति पुत्रे स राज्याधिकारी स्यादतो ब्रह्मचर्यमङ्गी- कृतं भीष्मेण । असत्यौरसे पुत्रे तत्सन्ततौ च क्षेत्रजादीनां क्षत्रियाजातानामुदाहृतकालीपुराणवचनेनोक्त एवाभिषेकः । ते- षामपि मातृसमानजातीयत्वेन व्यासोत्पन्नपाण्डोरिव “राजा- नमभिषेचयेत्” इति विधिप्राप्तेः । तेष्वपि केषां चिन्नाधिकार इत्युक्तम्— तत्रैव, पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् । इति । गौणस्यापि पुत्रस्याभावे भ्रात्रादीनामधिकारस्य दायक्र- मलभ्यत्वात्तत्क्रमविचारो नेह विविच्यते । इति राज्याधिकारिनिर्णयः । अथाभिषेकः । तत्र आथर्वणगोपथब्राह्मणे, अथ राज्ञोऽभिषेकविधिं व्याख्यास्यामो बिल्वप्रभृतीन् सम्भारान् सम्भृत्य षोडश क- लशान् षोडश बिल्वानि वल्मीकस्य च मृत्तिकां सर्वान्नं सर्वर- सान् सर्वबीजानि । तत्र चत्वारः सौवर्णाश्चत्वारो राजताश्च- त्वारस्ताम्राश्चत्वारो मृन्मयाः । तान् हृदे सरसि वोर्ध्वस्रुतो नामै- नाम इत्युदकेन पूरयित्वा वेदिपृष्ठे संस्थाप्य कुम्भेषु बिल्वमेकैकं दद्यात् । सर्वान्नं सर्वरसान् सर्वबीजानि च प्रक्षिप्याभयैरपरा- जितैरायुष्यैः स्वस्त्ययनैः सौवर्णेषु सम्पातान्, संस्राव्यैः संसि- क्तीयैश्च राजतेषु, भैषज्यैरैहोमुचैस्ताम्रेषु, संवेशसंवर्गाभ्यां शा-
आथर्वण-ब्रह्मपुराणोक्तराजाभिषेकः । ४३ न्तातीयैः प्राणसूक्तेन च मृन्मयेषु । ततस्तान् कलशान् गृहीत्वा स्तोत्रियैः पवित्रियै राजानमभिषिञ्चेत् । भूमिमिन्द्रियं च वर्द्धयित्वा क्षत्रियं म इति सिंहासनमारूढमभिमन्त्रयेत् । एवमभिषिक्तस्तु रसान् प्राश्नीयाद्विप्रेभ्यश्च दद्याद्गोसहस्रं सदस्येभ्यः, कर्त्रे ग्राम- वरं, विपुलं यशः प्राप्नोति भुङ्क्ते धरां जितशत्रुः सदा भवेदिति । अन्नं यदुप्तं न प्ररोहति । बीजं प्ररोहार्हं व्रीह्यादि । ऊर्ध्व- स्तुत ऊर्ध्वमुखान् । नामेत्यादयो मन्त्राः । तत्र कपिञ्जलाधिकर- णन्यायेन बहुवचनेन त्रयाणां त्रयाणामुपादानम् । संवेशसंवर्ग- प्राणसूक्तेष्वेकैकस्य । भूम्यादिर्मन्त्रः । ब्रह्मपुराणेऽपि, नगरं तत्र कर्तव्यं पताकाध्वजसङ्कुलम् । नीरजस्कास्तथा कार्या राजमार्गाः शुभैर्जलैः ॥ पौरैः स्नातैः सुवस्त्रैश्च भाव्यं मङ्गलपाणिभिः । गन्तव्यं वारमुख्याभिस्तथा राजनिवेशनम् ॥ पौरमुख्यैस्तथा बाह्यैर्गणमुख्यैस्तथैव च । शोभनीयं च नगरं सविलासैश्च नर्तकैः ॥ स्नानकाले च कर्तव्यो महाकोलाहलस्तथा । वादित्रशङ्खपुण्याहैः सूतमागधवन्दिभिः ॥ सामन्तैर्मन्त्रिभिर्भाव्यं छत्रचामरपाणिभिः । आदौ कृत्वा महाशान्तिं पुण्यां वैनायिकीं शुभाम् ॥ ग्रहशान्तिं तथा श्रेष्ठां तृतीयामाहुतिं तथा । पुरोधाः सोपवासश्च श्रुतिस्मृतिसमन्वितः ॥ त्रयोदश महामन्त्रान् तर्पयेज्जातवेदसि । गणं चैवाप्रतिरथं सत्याधर्मगणौ तथा ॥ १ पू०मी० अ० ११ । पा० १ । अधि० ८ ।
४४ वीरमित्रोदयस्य राजनीतिप्रकाशे आयुष्यमभयं चैव तथा स्वस्त्ययनं परम् । वैष्णवानथ मन्त्रांश्च तथा पौरन्दरानपि ॥ सावित्रब्राह्मारौद्रांश्च वारुणानथ सर्वदा । ऋताषाडितित्रयोदश महामन्त्राः। गण इडगत्यामहंत्यादयः। अप्रतिरथः आशुः शिशान इति। सत्यगणः आगात्सत्यमिति । अधर्मगणः यास्ते अग्ने घोरास्तनुव इति । आयुष्यं आयुष्यमिति सूक्तम् । अभयं यत इन्द्रभयामहे इति । स्वस्त्ययनं स्व- स्तिदा इति । राजा स्नातः पुनः स्नाप्यः पञ्चगव्येन देववत् ॥ मृत्ताम्रहेमरौप्योत्थैर्जलपूर्णैस्ततो घटैः । तोयेन शूद्रैः स्नाप्यश्च पश्चिमां दिशमास्थितैः ॥ ततः क्षीरेण वैश्यैश्च दक्षिणस्यां दिशि स्थितैः । क्षत्रियैश्च ततो दध्ना पूर्वस्यां दिश्यवस्थितैः ॥ अमृतेन ततो विप्रैर्घृतेनोत्तरतः स्थितैः । पर्वतोत्थमृदा पश्चाद्राज्ञः शोध्यं शिरो द्विजैः ॥ वल्मीकमृदया कर्णौ शोधितव्यौ प्रयत्नतः । शक्रस्थानाच्च मृदया ग्रीवा शोध्या च भूभृतः ॥ राजवेश्मगृहद्वारमृदया हृदयं तथा । देवालयमृदा पृष्ठं शोध्यं तस्याथ राजभिः ॥ गजदन्तोद्धृतमृदा दक्षिणस्तु तथा भुजः । शोधनीया सव्येनासौ वृषशृङ्गविलग्नया ॥ कटीदेशस्ततो वैश्यैर्वेश्याद्वारमृदा तथा । नदीकूलमृदा पार्श्वे शोधितव्ये यथाक्रमम् ॥ अश्वशालामृदा शूद्रैः शोध्ये तस्याथ जानुनी । गोकुलान्मृदया जङ्घे पादौ च सरसो मृदा ॥
ब्रह्मपुराणोक्तराजाभिषेकः । ४५ सर्वौषधैः सर्वबीजैर्गन्धैरन्नैश्च सर्वदा । सर्वपुष्पैः सर्वफलैः स्नाप्यो रोचनया तथा ॥ अथ भद्रासनगतः सर्वतोयैः शुभाम्बरैः । यथाशक्त्या समानीतैः पुरस्कृत्य पुरोहितैः । नृपतिस्त्वभिषेक्तव्यो दैवज्ञवचनान्नरैः ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रमुख्यैस्तथैव च । पतिव्रताभिर्नारीभिः पुत्रिणीभिश्च पुत्रवत् ॥ ततः स्नातो विलिप्ताङ्गः कृतदेवाग्नितर्पणः । आबद्धमुकुटः स्रग्वी बद्धपट्टो विभूषितः ॥ मङ्गलानां शतं पश्येत्पुण्यमष्टोत्तरं शतम् । शान्त्यै प्राधानिके स्थाने सर्वमेतद्यथाक्रमम् ॥ कृत्वा शेषं ततो हुत्वा दद्यात्पूर्णाहुतिं ततः । अभिषिक्तस्ततो राजा साम्राज्यादौ विनायकम् ॥ ततः क्रमेण देवांश्च ब्रह्मविष्णुमहेश्वरान् । ग्रहान्नीलं च नागेन्द्रमग्निं विप्रान् पुरोहितम् ॥ देवान् पितॄन् समुद्दिश्य दद्याद्विप्रेषु दक्षिणाम् । अभयं सर्वभूतेषु सम्यक्तत्र ददाति च ॥ आघातस्थानगान् सर्वान् पशूनपि विमोचयन् । आघातस्थानं हननस्थानम् । बन्धनस्थानसंस्थांश्च प्रमोचयति शास्त्रवत् । गोब्राह्मणादिहन्तॄंश्च पापिष्ठान् दारुणानपि ॥ जहाति हस्तिहन्तॄंश्च क्रूरांश्चापि सुशिक्षितान् । व्याघ्रचर्मोत्तरे रम्ये तथा सिंहासने शुभे ॥ उपवेश्यो भवेद्राजा स्वयमेव पुरोधसा । सिंहासनस्थः सम्पश्येत्प्रकृतीश्च समासतः ।
४६ वीरमित्रोदयस्य राजनीतिप्रकाशे छत्रायुधानि सम्पूज्य गणमुख्यांस्तुरङ्गमान् ॥ आरुह्यालङ्कृतं नागं विसृजन् धनसञ्चयम् । प्रदक्षिणीकृत्य पुरं प्रविश्य च पुरं गृहम् ॥ समस्तान् पौरमुख्यांश्च कृत्वा पूजां विसर्जयेत् । गतेषु तेषु च धनैस्तर्पयेद्भटनर्त्तकान् ॥ ब्राह्मणान् भोजयेत्सर्वान् दीनानाथांश्च बान्धवान् । ततो महाजनैः सार्द्धं पूर्वराजक्रमादिभिः ॥ आहारं कुरुते राजा राजभृत्यान् विसृज्य च । आचम्य ताम्बूलमुखो विहरेत ततः क्षणम् ॥ ततः कतिपयैः सार्द्धमन्तःपुरनिवासिभिः । रक्षेत्सपवादात्मानं भूयो भुङ्क्ते यथासुखम् ॥ इति । श्रीरामायणेऽपि सम्भारसम्पादनपूर्वकमभिषेक उक्तः— शनैस्तस्मिन् प्रशान्ते तु जनघोषे नराधिपः । प्रणम्य गुरुमासीनमित्युवाच पुरोहितम् ॥ अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् । तदस्य भगवन् सर्वमाज्ञापयितुमर्हसि ॥ तच्छ्रुत्वा भूमिपालस्य वासिष्ठो द्विजसत्तमः । आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ युक्तान् नियोगिपुरुषान् । सुवर्णादीनि रत्नानि मणीन् सर्वौषधीरपि । शुक्लं च माल्यं लाजांश्च पृथक्च मधुसर्पिषी ॥ अहतानि च वासांसि रथं सर्वायुधानि च । सितवर्णं च तुरगं गजं च शुभलक्षणम् ॥ चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम् । शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥
रामायणोक्तराजाभिषेकः । ४७ ०ण्यशृङ्गं वृषभं समग्रं व्याघ्रचर्म च । यच्चान्यत्किञ्चिदेष्टव्यं यच्च किञ्चिन्मनोऽनुगम् ॥ उपास्थापयत प्रातरग्न्यगारे महीपतेः । अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ॥ चन्दनैः स्रग्भिरर्च्यन्तां सुमनोदामभिस्तथा । प्रशस्तवस्तु गुणवद्दधिक्षीरोपसेचनम् ॥ द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत् । सिद्धमन्नाद्य सम्भारं प्रत्यूषस्येव कल्प्यताम् ॥ सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् । ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् । सर्वे च नागराश्चैव गणिकाश्च स्वलङ्कृताः ॥ कक्ष्यां द्वितीयामासाद्य तिष्ठेयुर्नृपवेश्मनि । कक्ष्यां प्रकोष्ठम् । देवायतनचैत्येषु जलभक्ष्याः सदक्षिणाः ॥ उपस्थापयितव्याश्च माल्ययोगाः पृथक्पृथक् । बद्धदीर्घासयो योधाः सन्नद्धा धृष्टवाससः ॥ महाराजस्य भवनं प्रविशन्तु महोदयम् । एवमाज्ञाप्य तत्सर्वं कृतमित्यभ्यवेदयत् ॥ सुप्रीतमनसे राज्ञे वसिष्ठो हर्षयन् पुनः । तथा, आभिषेचनिकं द्रव्यं सर्वमेवोपकल्पितम् । गङ्गायमुनयोश्चैव सङ्गमादाहृतं जलम् ॥ १ तत्सर्वमुपकल्प्यताम्-इत्यपि पाठः
४८ वीरमित्रोदयस्य राजनीतिप्रकाशे याश्चान्याः सरितः पुण्यास्ताभ्यश्च जलमाहृतम् सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥ वाहनं नरसंयुक्तं दर्भाः सुमनसः पयः । अहतानि च वासांसि भृङ्गारं च हिरण्मयम् ॥ क्षीरवृक्षमवालैश्च पश्चात्फलविमिश्रितैः । पूर्णकुम्भाः सुलक्षण्याः काञ्चना उपकल्पिताः ॥ रसो गोरोचना चैव लाजा दधि घृतं मधु । तथैव पुण्यतीर्थेभ्यो मृदापो जङ्गमानि च ॥ चन्द्रांशुविमले चारुमणिदण्डे स्वलङ्कृते । चामरव्यजने श्रीमद्रामार्थमुपकल्पिते ॥ पूर्णेन्दुमण्डलाभं च श्रीमन्माल्यविभूषितम् । रामस्य यौवराज्यार्थमातपत्रं प्रकल्पितम् ॥ मत्तो गजवरश्चैव औपवाह्यः प्रतीक्षते । औपवाह्यः राजवाह्यः । श्वेतश्च तुरगश्चैव रामार्थमुपकल्पितः ॥ अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः । रूपयौवनसम्पन्ना गणिकाश्च स्वलङ्कृताः ॥ श्वेतपुष्पाणि धेनुश्च निस्त्रिंशो धनुरेव च । हेमदाम्ना स्वलङ्कृत्य ककुद्मी पाण्डुरो वृषः ॥ सिंहासनं व्याघ्रचर्म समिद्धश्च हुताशनः । वादित्राणि च सर्वाणि सूतमागधवन्दिनः ॥ अमात्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः । पौरजानपदाः श्रेणीर्नैगमानां गणैः सह ॥ एते चान्येऽपि बहवः प्रीयमाणाः प्रियंवदाः । नैगमाः रत्वादीनां वाणिज्यकर्तारः ।
विष्णुधर्मोत्तरोक्तजाभिषेकः । ४९ तथा, गते पुरोहिते रामस्ततो नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ प्रगृह्य शिरसा पात्रं हविषो विधिवत्ततः । महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ शेषं च हविषस्तस्य प्राश्याशास्यात्मनिश्रयम् । ध्यायन्नारायणं देवं स्थण्डिले कुशसंस्तरे ॥ वाग्यतः सह वैदेह्या भूत्वा च नियतात्मवान् । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ कृतोपवासं रामं तु वैदेह्या सहितं तदा । सदर्भायां क्षितौ सुप्तं शुश्राव विधिवज्जनः ॥ विष्णुधर्मोत्तरे तु पुरन्दरशान्तिपूर्वकोऽभिषेक उक्तः कार्या पौरन्दरी शान्तिः प्रागेवास्य पुरोधसा । प्राप्तेऽभिषेकदिवसे सोपवासः पुरोहितः ॥ सोष्णीषः श्वेतवसनः सितचन्दनभूषितः । सितमाल्योपवीतश्च सर्वाभरणभूषितः ॥ वेदिमुल्लिख्य मन्त्रेण हुत्वा च विधिवत्ततः । जुहुयाद्वैष्णवान्मन्त्रांस्तथा शाक्रान् विचक्षणः ॥ सावित्रान् वैश्वदेवाद्यान् सौम्यांश्च विधिवत्ततः । आयुः शर्मगणं चैव तथा स्वस्त्ययनं गणम् ॥ आयुष्यमभयं चैव तथा चैवापराजितम् । सम्पातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ॥ वह्नेर्दक्षिणपार्श्वस्थः श्वेतचन्दनभूषितः । श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ॥ आसनस्थः सुखं पश्येन्निमित्तानि हुताशने । ७
पश्येयुरन्ये च तथा नृसिंहा दैवज्ञवाक्यं निपुणं च भूपः। सांवत्सरस्याथ सदस्यमुख्याः सदस्यमुख्यश्च पुरोहितश्च॥ प्रदक्षिणावर्त्तशिखस्तप्तजाम्बूनदप्रभः। रथौघमेघनिर्घोषो विधूमश्च हुताशनः॥ अनुलोमा सुगन्धिश्च स्वस्तिकाकारसन्निभः। वर्द्धमानाकृतिश्चैव नन्द्यावर्त्तनिभस्तथा॥ प्रसन्नाचिर्महाज्वालः स्फुलिङ्गरहितो हितः। *स्वाहा अवसाने ज्वलनविशेषणम्। मध्येन होतुरग्रेण। प्रस्तरस्य दर्भमुष्टेः। स्नानं समारभेत्प्राज्ञा होमकालं पुराहतः होमकालं होमसमाप्तौ आदा तु स्वच्छया स्नातः पुनर्मृद्भिः समारभेत्। पर्वताग्रमृदा तावन्मूर्द्धानं शोधयेन्नृप॥ वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात्। इन्द्रालयात्तदा ग्रीवां हृदयं तु नृपाजिरात्॥ करिदान्तोद्धृतमृदा दक्षिणं तु तथा भुजम्। वृषशृङ्गोद्धृतमृदा वामं चैव तथा भुजम्॥ सरोमृदा तथा पृष्ठमुदरं सङ्गमान्मृदा। नदीकूलद्वयमृदा पार्श्वौ संशोधयेत्तथा॥ वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते। गजस्थानात्तथैवोरू गोस्थानाज्जानुनी तथा॥ अश्वस्थानात्तथा जङ्घे राज्ञः संशोधयेद्बुधः। रथचक्रोद्धृतमृदा तथैव चरणद्वयम्॥ मृत्पूतः स्नपनीयः स्यात्पञ्चगव्यजलेन तु।
- अतः पूर्वे किञ्चित् त्रुटितं भाति।
विष्णुधर्मोत्तरोक्तराजाभिषेकः । ५१ पञ्चगव्येन, जलेन कुशोदकेन च । ततो भद्रासनगतं मुख्यामात्यचतुष्टयम् । बलप्रधानं भूपालमभिषिञ्चेद्यथाविधि ॥ पूर्वतो हेमकुम्भेन घृतपूर्णेन वाडवः । वाडवो ब्राह्मणः । दक्षिणे क्षीरपूर्णेन रौप्यकुम्भेन क्षत्रियः ॥ दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतस्तथा । कौबेर्यां मधुकेनाथ छन्दोगोऽथ कुशोदकैः ॥ मधुना कुशोदकैश्च छन्दोगः । सम्पातवन्तं कलशं तथाऽऽहृत्य पुरोहितः । विधाय वह्निरक्षां तु सदस्येषु यथाविधि ॥ विधाय वह्निरक्षाम्–वह्निं रक्षध्वमित्युक्त्वा । राजसूयाभिषेके तु ये मन्त्राः परिकीर्त्तिताः ॥ ते च मन्त्रा वक्ष्यन्ते । तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वरेण तु । स्वरेण मन्त्रघोषेण । ततः पुरोहितो गच्छेद्वेदिमूलं तथैव तु ॥ वेदिमूलं कुण्डम् । विभूषितं तु राजानं संस्थितं भद्र आसने । भद्रासनलक्षणम्– देवीपुराणे, हैमं च राजतं ताम्रं क्षीरवृक्षमयं च वा । भद्रासनं च कर्त्तव्यं सार्द्धहस्तसमुच्छ्रितम् ॥ सपादहस्तमानं च राज्ञो माण्डलिकान्तरात् ।
५२ वीरमित्रोदयस्य राजनीतिप्रकाशे वराहसंहितायामपि, त्रिविधस्तस्योच्छ्रायो हस्तः, पादाधिकोऽर्द्धयुक्तश्च । माण्डलिकान्तरजित्समस्तराज्यार्थिनां शुभदः ॥ इति । तच्च भद्रासनं नूतनमेव कार्यम् । तदुक्तम्— विष्णुधर्मोत्तरे, भद्रासनं च छत्रं च बालव्यजनमेव च । खङ्गं चक्रं तथा चापं रत्नानि विविधानि च ॥ राज्ञो मृतस्य ये त्वासन् सर्व एते नराधिप । न ते कार्या नरेन्द्रस्य तेन दैवविदा तदा ॥ कामं सांवत्सरः कार्योऽह्यलाभेऽन्यस्य भूभुजा । गुणाधिकाश्चेन्नो कार्या येऽन्येऽत्राभिहिता मया ॥ इति । पूर्वे चेद्गुणाधिकास्तदा ये अन्ये कर्त्तव्या इत्यभिहितास्ते नो कार्या इत्यर्थः । तथा तत्रैव, शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि । अभिषिञ्चेत धर्मज्ञः सम्यग्वेदविशारदः ॥ या ओषधीरोपधिभिः श्रुताभिः सुसमाहृतः । ओषधिभिः अष्टौषधिगर्भकुम्भोदकेन । रथे तिष्ठेति गन्धैश्च आब्रह्मन्ब्राह्मणेति च । गन्धैः सर्वगन्धकुम्भोदकेन । बीजैः पुष्पैस्तथासीनं रामं पुष्पवतीति च । बीजैः बीजपूर्णकुम्भोदकेन । पुष्पैः पुष्पपूर्णकुम्भोदकेन । पुष्पवतीत्याथर्वणो मन्त्रः तेनैव चैव मन्त्रेण फलैस्तमभिषेचयेत् ॥ आशुः शिशान इत्येवं सर्वरत्नैश्च भार्गव ।
विष्णुधर्मोत्तरोक्तराजाभिषेकः । ५३ ये देवाः पुरः सदेति कुशाद्भिः परिमार्जयेत् ॥ ऋग्वेदवित्ततो राज्ञो रोचनया यथाविधि । मूर्द्धानं च तथा कण्ठं गन्धद्वारेति संस्पृशेत् ॥ ततो ब्राह्मणमुख्याश्च क्षत्रियाश्च विशस्तथा । शूद्राश्चावरमुख्याश्च नानातीर्थसमुद्भवैः ॥ अवरमुख्या मूर्द्धावसिक्तादयः । नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ॥ चतुःसागरजैर्लाभादलाभे द्विजकल्पितैः । गङ्गायमुनयोश्चैव निर्झरैश्च तथा द्विजैः ॥ छत्रपाणिर्भवेत्कश्चित्केचिच्चामरपाणयः । अमात्यमुख्यास्तत्कालं केचिद्वेत्रधरास्तथा ॥ शङ्खभेरीनिनादेन वन्दिनां निस्वनेन च । गीतवादित्रघोषेण द्विजकोलाहलेन च ॥ राजानमभिषिञ्चेयुः समेत्य सहिता जनाः । सर्वलोकाभिषिक्तस्य सम्मिश्रजलसंयुक्तम् ॥ सम्मिश्रजलानि नादेयादीनि दश । सर्वौषधियुतं पुण्यं सर्वगन्धयुतं तथा ॥ रत्नबीजसमायुक्तं फलपुष्पयुतं तथा । पूजितं सितसूत्रेण वेष्टितग्रीवमेव च ॥ पूजितम्–सर्वतो गन्धादिनाऽभ्यर्चितम् । श्वेतवस्त्रावकान्तैश्च संवीतं शुचि भूषितम् । अवकाः शैवालम् । क्षीरवृक्षलताच्छन्नं सुहृष्टं काञ्चनं नवम् ॥ आदाय कलशं राज्ञः स्वयं सांवत्सरस्तदा । मन्त्रावसाने कलशं दद्याद्भृगुकुलोद्वह ॥
५४ वीरमित्रोदयस्य राजनीतिप्रकाशे मन्त्राः सुरास्त्वा इत्यादयो वक्ष्यमाणाः । ततः पश्येन्मुखं राजा दर्पणे वापि सर्पिषि ॥ सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः । कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा ॥ लोकपालं ग्रहांश्चैव नक्षत्राणि च भार्गव । ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत् ॥ व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम् । पुरोधा मधुपर्केण तत्रस्थं तं समर्पयेत् ॥ राजाऽऽदौ चार्चयेत्तत्र सांवत्सरपुरोहितौ । मधुपर्केण धर्मज्ञस्ततस्तस्य स दैववित् ॥ पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम् । पट्टलक्षणं तु— देवीपुराणे, सर्वस्नानमलङ्कारं रोचनारुष्यं च पट्टकम् । वृद्ध्याऽब्ध्यङ्गुलमङ्गुल्या षट्त्रिंशदङ्गुलावधि ॥ वृत्तं वा चतुरस्रं वा पञ्चकत्रिकगर्भितम् । वत्सेशपद्ममत्स्येभगोस्वस्तिकविनायकैः ॥ श्रीश्रीवृक्षवराहेभस्वामिदेवीशुभान्वितम् । अब्ध्यङ्गुलं सप्ताङ्गुलम्, अङ्गुल्या एकया सहितमष्टाङ्गुलम् इत्येकं पट्टलक्षणम्, तदारभ्य सप्ताङ्गुलकृतवृद्ध्या चत्वारि लक्षणानि, एवं पञ्चविधः । तस्य दैर्घ्यार्धेन मध्यदेशविस्तारः, तदर्धेन प्रान्तद्वयविस्तारः । स एवं वृत्तः कोणरहितश्चतुरस्रो वा । वत्सेशः श्रीवत्सधारी विष्णुः । इभो हस्ती, महामात्राधि- ष्ठितः । गौः स्त्रीगवी । केवल एव हस्ती वृषभश्च निषिद्धो— विश्वकर्मणा,
विष्णुधर्मोत्तरोक्तराजाभिषेकः ५५ व्याघ्रव्यालगजांसहा अश्वोष्ट्रौ मांहषो वृषः । भूषणेषु त्यजेदष्टौ यदीच्छेद्दीर्घजीवितम् ॥ इति । श्रीवृक्षो बिल्वः । इभो गणेशः । स्वामी कार्त्तिकेयः । वराहसंहितायामपि दैर्ध्यादिमानं भङ्ग्यन्तरेणोक्तम्, मध्य- विस्तारमुक्त्वा । सर्वे द्विगुणायामा मध्यादर्धेन तदर्धविस्ताराः । सर्वे विशुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्धयै ॥ पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजमहिष्योः । एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ इति । विष्णुधर्मोत्तरे, ततः स बद्धमुकुटः काले पूर्वं मयोदिते । पराद्धर्यास्तरणोपेते मञ्चे बद्धोत्तरच्छदे ॥ परार्द्धं बहुमूल्यम् । ध्रुवाद्यौरितिमन्त्रेण सोपवेश्यः पुरोधसा । वृषस्य वृषदंशस्य द्वीपिनश्च मृगूद्रह ॥ तेषामुपरि सिंहस्य व्याघ्रस्य च परं ततः । वृषदंशो मार्जारः । द्वीपी चित्रकः । तत्रोपविष्टस्य तदा प्रतीहारः प्रदर्शयेत् । अमात्यांश्च तथा पौरान्नैगमांश्चापणेश्वरान् ॥ तथा प्रकृतयश्चान्या यथावदनुपूर्वशः । ततोऽग्रहारवस्त्रेभतुरङ्गकनकोत्तमैः ॥ गोजाविगृहदानैश्च सांवत्सरपुरोहितौ । पूजयित्वा ततः पश्चात् पूजयेद्ब्राह्मणत्रयम् ॥ अनेनैव विधानेन येन राजाऽभिषेचितः । ततः सदस्यान्सम्पूज्य सांवत्सरपुरोधसः ॥
५६ वीरमित्रोदयस्य राजनीतिप्रकाशे ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् । गोवस्त्रतिलरूप्यान्नफलकाञ्चनगोरसैः ॥ मोदकैः श्वेतपुष्पैश्च महीदानैश्च सुव्रत । आथर्वणपरिशिष्टे तु विशेषः । मधुपर्काद्येन विधिना सर्वार्थं सम्पाद्य दक्षिणां दद्यात्, को- टिमध्यात्तृतीयं भागं यथाभूमिप्रमाणेना वा । हस्त्यश्वरथयानं दिव्यमाभरणमातपत्रं हिरण्यं क्षितिगोधनधान्यरत्नादिकं स्वगुरवे दद्यात्, येन वा तुष्येत । इति । तदुत्तरकर्त्तव्यं च विष्णुधर्मोत्तरे अभिहितम्— मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः । वह्निं प्रदक्षिणं कृत्वा प्रणिपत्य तथा गुरून् ॥ पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव । पूजयित्वा तुरङ्गं च मन्त्रितं चाभिषेचितम् ॥ तमारुह्य ततो नागं पूजयेच्चाभिषेचितम् । मन्त्रितं दक्षिणे कर्णे स्वयं दैवविदा ततः ॥ आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत् । मुख्यामात्यैः ससामन्तैः सांवत्सरपुरोहितैः ॥ सहितः कुञ्जरारूढैरभिगच्छेच्च देवताः । तासां सम्पूजनं कृत्वा नगरे या निषेविताः ॥ प्रविश्यान्तर्गृहं राजा प्रहृष्टनरवाहनः । दानमानादिसत्कारैर्हृदीयात्मप्रकृतीस्ततः ॥ सम्पूजितास्ताश्च विसर्जायित्वा गृहे स्वके स्यान्मुदितो महात्मा । विधानमेतत्समवाप्य राजा कृत्स्नां च धात्रीं वशगां विदध्यात् ॥ वृद्धवसिष्ठोऽपि, प्राग्भागे मन्दिरस्याथ गोमयेन तु कारयेत् ।