ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
अथ द्वितीयारण्यके पञ्चमोऽध्यायः ।
तत्र प्रथमः खण्डः । (चतुर्विंशः)
“अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ।
शिष्याणां बोधसिद्धयर्थं कृतज्ञैः कल्पितः क्रमः ।”
इति पूर्वाचार्यैः कृत्स्नवेदान्तानां तात्पर्यं संगृहीतम्। तदैवात्र चतुर्थाध्याये विस्पष्टमुदीरितम् “आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्” [ऐ० आ० २ अ० ४ ख० १] इत्येतन्निष्प्रपञ्चब्रह्मैकत्वस्य प्रतिपादकं सूत्रम्। तस्य सूत्रस्यार्थमवबोधयितुं “स ईक्षत लोकान्नू सृजै” [ऐ० आ० २ अ० ४ ख० १] इत्यारभ्य “अयमावसथः” [ऐ० आ० २ अ० ४ ख० ३] इत्यन्तेन ग्रन्थेन कृत्स्नप्रपञ्चस्याध्यारोपः प्रतिपादितः। ब्रह्माण्डस्य मध्ये य एते चतुर्दश लोका यैश्चैताँल्लोकानात्मशरीरत्वेनाभिमन्यमानो विराट्पुरुषो यानि च तद्देहच्छिद्रेषूत्पन्नानि वाक्चक्षुरादीन्द्रियाणि याश्च तैरिन्द्रियाभिमानिन्योऽग्निवाय्वादित्यादिदेवता यानि च तासां देवतानां भोगयोग्यानि गवाश्वमनुष्यादिशरीराणि यच्च तेषु शरीरेषु प्रविष्टानां देवतानामन्नं यश्च वायुनैव तदन्नस्वीकारो यदपि जीवरूपेण तेषु देहेषु प्रविश्य जागरणाद्यवस्थात्रयस्य शरीरान्तरसंचारस्य चानुभवनं सोऽयं सर्वोऽप्यद्वितीये परमात्मन्यध्यारोपितः प्रपञ्चः। स चाऽऽत्मबोधोपयोग्यः। एनेन हि जगदङ्कुरेण तन्मूलमात्मतत्त्वमस्तीत्यवगन्तुं शक्यम्। एतदेवाभिप्रेत्य च्छन्दोगा आमनन्ति—“अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः संप्रतिष्ठाः” [छान्दो० ६। ८। ४] इति। तदेवमध्यारोपेणाद्वितीयस्याऽऽत्मनस्तत्त्वस्यास्तित्वमात्रं सिद्धम्। तस्याध्यारोपस्यापवादेन तत्त्वस्येत्थं भावोऽवगन्तुं शक्यते। तस्मात्—“स जातो भूतानि” [ऐ० आ० २ अ० ४ ख० ३] इत्यारभ्य “परोक्षप्रिया इव हि देवाः” [ऐ० आ० २ अ० ४ ख० ३] इत्यन्तेन ग्रन्थेनाध्यारोपस्यापवादः संगृहीतः। तत्राध्यारोपभागे “तस्य त्रय आवसथाः” [ऐ० आ० २ अ० ४ ख० ३] इति वाक्येन शरीरान्तरसंचारोऽपि संग्रहेण प्रतिपादितः। तदेतत्पितृशरीरं मातृश-
१ घ. ङ तच्चात्र। २ घ. ङ ˚ब्रह्मात्मत˚। ३ ख. ग. यश्च ता˚। ४ घ. ङ. च देहं । ५ घ. ङ. तदभि˚। ६ घ. ङ. ˚ण दे˚। ७ घ. ङ. ˚गराय˚। ८ घ. ङ. ˚स्य स्वश˚। ९ घ. ङ. ˚रस्थानु˚। १० क. ˚तीयप˚। ११ घ. ˚योगः। १२ क. घ. ङ. सौम्य। १३ घ. ङ. सौम्य । १४ घ. ङ. सौम्य। १५ घ. ङ. ˚लाः सौम्ये˚। १६ घ. ङ. ˚यमात्म˚। १७ घ. ङ. ˚तत्त्वमा˚। १८ घ. ङ. ˚वो वक्तुं श˚।
१७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
रीरं स्वशरीरमित्येतदावसथत्रयं पञ्चमेऽध्याये विवरिष्यते । तत्राऽऽदौ पितृशरीररूप- मावसथं दर्शयति—
*पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः, इति ।
योऽयं शरीरं जिघृक्षुर्जीवात्मा सोऽयं पुरुषे पितृशरीरे प्रथमतॊ गर्भो भवति । न चात्र स्त्रीगर्भवदुदरवृद्ध्या सोऽभिव्यज्यते, किंतु यदेतत्पितृशरीरे सप्तमधातुरूपं रेतोऽस्ति तदैव गर्भ इत्युच्यते । तस्मिन्नेतसि जनिष्यमाणस्य जीवस्य प्रविष्टत्वात् । स्वर्गाद्वा नरकाद्वा वृष्टिद्वारा भूमौ समागतो जीवो व्रीहियवाद्यन्नद्वारा पितृशरीरे प्रवि- शति । एतच्च पञ्चाग्निविद्यायां प्रपञ्चेनाऽऽख्यातम् । तस्मिंश्च पुरुषशरीरेऽन्नरसशो- णितमांसादिक्रमेण परिणते रेतस्यवस्थितो भवति सोऽयं पुरुषे गर्भ इत्युच्यते ।
तस्य गर्भस्य जन्मप्रकारं दर्शयति—
तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतमात्मन्येवाऽऽत्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनञ्जनयति तदस्य प्रथमं जन्म, इति ।
पुरुषे गर्भत्वेन व्यवस्थितं यद्रेतोऽस्ति तदेतत्तस्मिन्पुरुषशरीर आपादमस्तकं सर्वे- भ्योऽवयवेभ्यः सारभूतं सत्संभूतं निर्गतं भवति । तच्च सर्वावयवनिर्गतं रेतोभूतं सार- मात्मानं स्वस्यैव रूपान्तरभूतमात्मन्येव स्वशरीर एवासौ पुरुषो बिभर्ति पोषयति । तत्पोषितं रेतोऽग्निसंपर्केण घृतमिव कामाग्निना विलीनं सद्धृदये समागत्य व्यव- स्थितं भवति । तादृशं रेतो यदृतुकालीनेन गमनेने स्त्रिया योनौ गर्भाशये सिञ्चति, अथ तदानीमयं पुरुष एनञ्जीवान्तराविष्टं रेतोरूपं शरीरं जनयति । तदेतद्रेतोनिः- सरणरूपमस्य रेतस्यवस्थितस्य संसारिणो जीवस्य प्रथमं जन्मेत्युच्यते । “तस्य त्रय आवसथाः” इत्युक्तानां मध्ये प्रथमादावसथात्पितृशरीरूपात्संपन्नमिति कृत्वा प्रथमं जन्म भवति ।
ननु स्त्रीशरीरे प्रविष्टं परकीयं रेतः स्त्रिया उपद्रवकारि स्याच्छरीरलग्नबाणादिवदि- त्याशङ्क्याऽऽह—
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति, इति ।
* मूलपुस्तकेषु, घ. ङ. संज्ञितभाष्यपुस्तकस्थमूले चैतस्मात्प्राक्—“ अपक्रामन्तु गर्भिण्यः” इत्यादिको ग्रन्थो वर्तते ।
१ ख. ग. ॰रं स्वात्मश॰ । २ घ. ङ. ॰ष्ठमेऽध्या॰ । ३ क. ख. ग. रं विजि॰ । ४ घ. ङ. ॰देतद्गर्भं । ५ क. ख. ग. ॰रुणंग॰ । ६ ग. ॰तं सत्सं॰ । ७ घ. ङ. तन्न । ८ घ. ॰तोरूपं सा॰ । ९ घ. ङ. ॰न स्त्रीयो॰ ।
अध्या० २ ख० १] ऐतरेयारण्यकम् । १७३
स्त्रीयोनौ प्रविष्टं तत्पुरुषरेतस्तस्याः स्त्रिया आत्मभूतं स्वशरीरभावं गच्छति । यथा स्वकीयमङ्गं स्तनहस्तादिकं नै स्वशरीरात्पृथग्भूतं तद्वत् । तस्मात्स्वशरीरत्वेनैकीभावात्करणादेनां स्त्रियं न हिनस्ति, उदरलग्नबाणवद्धिंसां न करोति ।
तद्गर्भद्वारेण स्त्रीपुरुषयोः परस्परमुपकार्योपकारकभावं दर्शयति—
साऽस्यैतमात्मानमत्र गतं भावयति सा
भावयित्री भावयितव्या भवति, इति ।
सा गर्भधारिणी स्त्री, अत्र गतं स्वशरीरे प्रविष्टमस्य पुरुषस्य रेतःसेक्तुरात्मानं पुरुषरूपं भावयति परिपालयति। विरुद्धाशनादिपरित्यागोऽनुकूलान्नाद्युपयोगश्च परिपालनम् । यस्मात्स्त्री गर्भपरिपालनेन भावयित्री पुरुषस्यैव पालयित्री तस्मात्कारणात्तेन पुरुषेण सा स्त्री भावयितव्याऽभीष्टान्नपानवस्त्रादिप्रदानेन पालयितव्या भवति ।
स्त्रीपुरुषयोरुभयोरपि पुत्रं प्रत्युपकारेकत्वं दर्शयति—
तं स्त्री गर्भं बिभर्ति सोऽग्र एव
कुमारं जन्मनोऽग्रेऽधिभावयति, इति ।
तं पुरुषरूपं गर्भं मातृरूपा स्त्री महान्तं प्रयासं सोढ्वा नव दश वा मासान्त्स्वोदरे धारयित्वा पोषयति । सं च पिताऽग्र एव प्रसवात्प्रागेव निष्पन्नं कुमारं जन्मनोऽग्रे प्रसवादूर्ध्वमधिभावयति । अधिकत्वेन शास्त्रीयजातकर्मादिना संस्कर्तेति ।
कुमारसंस्कारेण पितुरुपयोगं दर्शयति—
स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयति, इति ।
पुत्रसंस्कार इति यदस्ति तेन पिता स्वस्यैव संस्कारं करोति । पुत्रस्य स्वदेहरूपत्वात् । तथा चान्यत्र श्रूयते—"पतिर्जायां प्रविशति गर्भो भूत्वा समातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते" [ बृह० ] इति "आत्मा वै पुत्र नामासि" [ कौषी० ११ ] इति च ।
ननु पुरुषस्योपनयनादिना स्वकीयः संस्कारः पूर्वमेव संपन्नः किमनेन पुत्रसंस्कारेण पुत्रोत्पादनेन चेत्यत आह—
एषां लोकानां संतत्या एवं संतता हीमे लोकाः, इति ।
पुत्रपौत्रप्रपौत्रादय इमे जना लोकास्तेषां लोकानामविच्छेदाय संस्कृतपुत्रोत्पाद-
१ घ. छ. 'ङ्गं ह' । २ घ. ङ. न श' । ३ क. ख. ग. 'भावकर' । ४ घ. ङ. 'त्यागेनानु' । ५ घ. ङ. 'रकत्वं । ६ घ. ङ. पुत्ररूपं' । ७ ग. स एव पि' । ८ घ. ङ. संस्कारं करो' ।
१७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
नम् । अनेन पित्रा स्वोत्पादिते पुत्रे संस्कृते सति तथैव पुत्रोऽप्यन्यं पुत्रमुत्पाद्य संस्क- रोति सोऽप्यन्यं पुत्रमित्येवमिमे लोका अविच्छिन्ना भवन्ति । अन्यथा विच्छिद्येरन् । मातृशरीरान्निर्गमनस्य पूर्वोक्तजन्मापेक्षया द्वितीयत्वं दर्शयति— तदस्य द्वितीयं जन्म, इति । जनकस्य पुत्रप्रयुक्तमुपयोगं दर्शयति— सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते, इति । अस्य पितुर्द्वावात्मानौ देहौ, तयोर्मध्येऽयमात्मा पुत्ररूपो देहः पुण्येभ्यः कर्मभ्यः शास्त्रोक्तकर्मनिष्पादनार्थं प्रतिधीयते स्वस्य प्रतिनिधित्वेन गृहे स्थाप्यते । ननु किमनेन प्रतिनिधिना स्वयमेव कुतो न करोतीत्यत आह — अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति, इति । अस्य पितुरितर आत्मा स्थविरो देहः कृतकृत्यः कृतान्येतज्जन्मप्रयुक्तानि कृत्यानि सर्वाणि येनासौ कृतकृत्यः । लौकिकानां कुटुम्बपोषणादीनां शास्त्रीयाणामग्नि- होत्रादीनां च निष्पादितत्वात्कृतकृत्यत्वम् । वयोगतो वयसा पूर्वकर्मसंपादितेनाऽऽ- युषा हीनः प्रैति म्रियते । अतः पुत्रदेहेनैव पुण्यं कर्तव्यं न तु मृतेन पितृदेहेन कर्तुं शक्यम् । पूर्वोक्तजन्मद्वयमपेक्ष्य जन्मान्तरं दर्शयति— स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म, इति । स वृद्धः पितेतोऽस्माज्जठरदेहात्प्रयन्नेव निर्गच्छन्नेव स्वर्गे नरके मनुष्यलोके वा स्वकर्मानुसारेण पुनर्जायते न त्वस्माद्देहान्निष्क्रान्तस्य जन्मान्तराय कालव्यवधान- मस्ति । अस्मिन्नेव शरीरे स्थित्वा मनसा देहान्तरं स्वीकृत्य पश्चादमुं देहं परित्यजति । यथा जलूका मुखेन तृणान्तरमवष्टभ्य ततः पृष्ठभागमुपसंहरति तद्वत् । तथाच वाजस- नेयिनः समामनन्ति—“तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽ- त्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रममाक्रम्याऽऽ- त्मानमुपसंहरति ” [बृह० ४ । ४ । ३] इति । तद्यथोक्तं पुनर्जननंरूपमस्य संसारिण आत्मनस्तृतीयं जन्मेत्युच्यते । यद्यपि पूर्वोक्तं जन्मद्वयं पुत्रदेहस्येदं तु देहान्तरस्य तथाऽपि पितृपुत्रोपाध्योरेव भिन्नत्वादुपाध्युपलक्षितस्याऽऽत्मन एकत्वमभिप्रेत्यैकस्य जन्मंत्रयमित्युपचर्यते । यद्वा पितुः सकाशाद्रेतोरूपेण मातुः सकाशात्कुमाररूपेण च पुत्रे यज्जन्मद्वयमुदाहृतं तेनैव न्यायेन पितुरपि स्वकीयमातृ(ता)पितृसकाशाज्जन्मद्वयमर्था-
१ क. ख. ग. 'न स्वो' । २ क. ख. ग. 'वमेवेमे । ३ घ. ङ. गृहेऽवस्था' । ४ घ. ङ. प्रति- धानेन । ५ घ. ङ. 'ति । संवृ' । ६ क. ख. वृद्धः । ७ ग. 'लायूका । ८ ङ. 'जन्मरू' । ९ क. ख. ग. 'यपितृमातृस' ।
अध्या० १ ख० १] ऐतरेयारण्यकम् । १७२
युक्तमेवेत्यभिप्रेत्य तदपेक्षया पितुरिदं तृतीयं जन्म पुत्रस्य तु जन्मद्वयं साक्षाद्दृष्टं पितृ- दृष्टान्तेन तु मरणादूर्ध्वं तृतीयं जन्म भविष्यति । एवं सर्वस्यापि जन्मत्रयं पुनः पुनरा- वर्तते । अनेन जन्मत्रयोपवर्णनेन संसाराद्विरक्तिरुपजायते । न हि मातापितृमलद्वयरू- पदेहस्य निरन्तरधारणादन्यदधिकं जुगुप्सितं वैराग्यकारणमुदाहर्तुं शक्यम् ।
अत एव विष्णुपुराणे पठ्यते—
“स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् ।
विरागकारणं तस्य किमन्यदुपदिश्यते” इति ॥
तस्यैतस्य जुगुप्सितस्य संसारस्य ज्ञानमन्तरेण विनाशाभावं तत्त्वज्ञानेन निवृत्तिं च द्योतयितुं मन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।
“ पुरुषे ह वै ” [ ऐ० आ० २ अ० ५ ख० १ ] इत्यारभ्य “तृतीयं जन्म ” इत्यन्तेन ग्रन्थेन संसारस्य यत्कष्टत्वमुपवर्णितं यच्च संसारनिवर्त
१७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
अस्य मन्त्रस्य तात्पर्यं दर्शयति—
गर्भ एवैतच्छयानो वामदेव एवमुवाच स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्त्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत् , *इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २४ ) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमोऽध्यायः ॥ ५ ॥
अहमिति मन्त्रे योऽभिहितः स वामदेवो मातृगर्भ एव शयानः सन्नेतत्पूर्वोक्तमन्त्रार्थजातमेवमुवाच । स वामदेव एवं मन्त्रोक्तप्रकारेणाऽऽत्मतत्त्वं विद्वान्नारब्धकर्मणि क्षीणे सत्यस्माच्छरीरभेदाद्देहविनाशादूर्ध्वमु(र्ध्व उ)त्तरकालेऽवस्थितः सर्वस्मात्संसारबन्धादुत्क्रम्यामुष्मिन्निन्द्रियागोचरे स्वर्गे सुष्ठु तत्त्वज्ञानेनार्जिते लोके स्वप्रकाशकत्वेनावलोक्यमाने स्वरूपे सर्वान्कामांस्तैत्तिरीयेके प्रोक्तान्सार्वभौमादिहिरण्यगर्भपर्यन्तैगतानसर्वानन्दानाप्त्वा परमानन्दस्वरूपब्रह्मात्मत्वेन प्राप्यामृतो मरणरहितः समभवत् । यद्यपि गर्भे गुरुशास्त्रोपदेशो नास्ति तथाऽपि जन्मान्तरोपदेशस्य केनचित्प्रबलकर्मणा तदानीं प्रतिबद्धस्य गर्भे प्रतिबन्धक्षयमपेक्ष्य ज्ञानोत्पादकत्वं संभवति । तथा च भगवता व्यासेन सूत्रितम्—"ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्" [ ब्र० सू० अ० ३ पा० ४ सू० ५१ अधि० १६ ] इति । प्रस्तुतप्रतिबन्धाभावे सति यस्मिञ्जन्मन्युपदेशस्तस्मिन्नेव जन्मनि ज्ञानं भवति, अन्यथा जन्मान्तरे । कुतः । वामदेवे तद्दर्शनादिति सूत्रार्थः । यद्यपि मुक्तौ कामा विषयानन्दा न सन्ति तथाऽपि विषयानन्दानां ब्रह्मानन्दलेशत्वेन तस्मिन्नन्तर्भावाद्ब्रह्मानन्दप्राप्त्या सर्वकामप्राप्तिरौपचर्यते । तत्त्वज्ञानिनो वर्तमानदेहपातादूर्ध्वं देहान्तरसंबन्धस्याभावेन देहप्राणवियोगरूपस्य मरणस्याप्रसक्तत्वादमृतत्वं द्रष्टव्यम् । समभवदित्यभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २४ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यककाण्डभाष्ये द्वितीयारण्यके पञ्चमोऽध्यायः ॥ ५ ॥
* एतदग्रे "यथास्थानं तु गर्भियः" इति ग्रन्थः सकलमूलपुस्तकेषु, घ. ङ. संज्ञितभाष्यपुस्तकस्थमूले चाधिकः ।
१ घ. ङ. ॰रभेदादु । २ घ. ङ. ॰यप्रो॑ । ३ घ ङ. ॑र्यन्तानाग॑ । ४ क. ख. ॰बन्धस्य । ५ घ. ङ. ॰रुच्यते । ६ घ. ङ. ॰निनां व॑ । ७ क. ख. ग. ॰न्तरे सं॑ । ८ घ. ङ. ॰गस्य ।
अथ द्वितीयारण्यके षष्ठोऽध्यायः । तत्र प्रथमः खण्डः । ( पञ्चविंशः )
अध्यारोपप्रकरणे—“तस्य त्रय आवसथाः” [ऐ० आ० २ अ० ४ ख० ३] इतिवाक्येन पितृमातृस्वशरीररूपं संसरणार्थं स्थानत्रयं यदुक्तं तत्पुनः पञ्चमाध्याये वैराग्योत्पत्त्यर्थं “पुरुषे ह वै” [ऐ० आ० २ अ० ५ ख० १] इत्यादिना प्रपञ्चितम् । “स जातो भूतान्यभिव्यैख्यत्” [ऐ० आ० २ अ० ४ ख० ३] इत्यादिनाऽपवादप्रकरणेन यत्तत्त्वज्ञानं संगृहीतं यच्च वामदेवोदाहरणेन ज्ञानफलं संक्षिप्य दर्शितं तदुभयं विशदी कर्तुं षष्ठाध्याय आरभ्यते । तत्र “आत्मा वै” [ऐ० आ० २ अ० ४ ख० १] इदमित्याद्यध्यायेन सामान्यतस्तत्त्वमवगम्य “पुरुषे ह वै” [ऐ० आ० २ अ० ५ ख० १] इत्यध्यायोक्तजन्मक्लेशविचारेण परं वैराग्यं प्राप्तानां जिज्ञासूनां विचारं दर्शयति—
कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा, इति ।
“आत्मा वा इदमेक एवाग्र आसीत्” [ऐ० आ० ३ अ० ४ ख० १] इत्यादि श्रुतौ कश्चिन्निरुपाधिक आत्मा श्रुतः । तथा “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” [ऐ० आ० २ अ० ४ ख० ३] इति श्रुतौ कश्चित्सोपाधिक आत्मा श्रुतः । वयं तु प्रतिदिनं प्रतिक्षणमात्मेति यमुपास्महे स कः सोपाधिको निरुपाधिको वेत्यर्थः । उपासनं नाम नैरन्तर्येण तात्पर्यपुरःसरो व्यवहारः । अहं गच्छाम्यहमागच्छामि ममायं देहो ममेदं गृहमिति निरन्तरमादरेणाऽऽत्मव्यवहारो लोके दृश्यते, सोऽयमत्रोपासनत्वेनोपचर्यते । तथा स आत्मा श्रुतौ “आत्मा वै” [ऐ० आ० २ अ० ४ ख० १] इत्यादिना श्रुतः कतरः, सोपाधिकनिरुपाधिकयोर्मध्ये कतरः कोऽसावित्यर्थः ।
ननु कतरः स आत्मेत्ययं विचारोऽस्तु श्रुत्यैकगम्यस्य तस्य विचारमन्तरेणानिश्चयात्कोऽयमात्मेत्ययं तु विचारो न युक्तस्तस्याहंप्रत्ययगम्यत्वेन प्रसिद्धत्वादित्याशङ्क्य विचारहेतुमनेककोट्यात्मकं संशयं दर्शयति—
येन वा पश्यति येन वा शृणोति येन वा गन्धाना- जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत्संज्ञानमा- ज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति, इति ।
१ क. ख. ग. इतिश्रु० ।
२३
१७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [२द्वितीयारण्यके-
यद्यप्यहंप्रत्ययगम्यश्चैतन्यरूप आत्मेति सामान्याकारेण प्रसिद्धिस्ति तथाऽपि तद्विशेषे संशयो विद्यते । बाह्यान्तःकरणेषु सर्वेष्वपि चैतन्यं पृथक्पृथगभिव्यज्यते यथा जलपात्रेषु प्रत्येकं सूर्यादिप्रतिबिम्बस्तद्वत् । तथा सति चक्षुरिन्द्रियाभिव्यक्तचैतन्येन देहेन्द्रियसङ्घाताभिमानी लौकिकः पुरुषो नीलपीतादिरूपं पश्यति । अतो येन चाक्षुषचैतन्येन पश्यति तच्चैतन्यं किमात्मेत्येका कोटिः । तथा येन श्रोत्राभिव्यक्तचैतन्येन शब्दं शृणोति तत्किमात्मेति द्वितीया कोटिः । एवं घ्राणवाग्जिह्वादीन्द्रियाभिव्यक्तचैतन्यविशेषाणामात्मतत्त्वरूपं संदेहकोटित्वं द्रष्टव्यम् । चैतन्यस्यैव रूपरसादिज्ञापकत्वं कठवल्लीष्वाम्नायते—
“येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति” [ काठ० ४ । ३ ] इति ॥
श्रोत्रादीन्द्रियद्वारा विषयग्राहकत्वमभिप्रेत्य तलवकारैरप्याम्नायते—“श्रोत्रस्य श्रोत्रं मनसो मनो वाचो ह वाक्स उ प्राणस्य प्राणश्चक्षुषश्चक्षुः” [ केनो० २ ] इति । वाजसनेयिनोऽपि तत्तदिन्द्रियसाक्षिचैतन्येन तत्तदिन्द्रियद्वारकविषयग्रहणमभिप्रेत्य तत्तदिन्द्रियनाम्ना व्यवहारमामन्ति—“प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो येन्मनो विदुः” [ बृह० ४ । ४ । १८ ] इति । बाह्येन्द्रियाभिव्यक्तचैतन्येष्वात्मतत्त्वसंशयं दर्शयित्वान्तःकरणद्वयतद्वृत्तिविशेषाभिव्यक्तचैतन्येष्वात्मतत्त्वसंशयमभिप्रेत्य यदेतद्धृदयमित्यादिना तत्तदुपाधिस्वरूपमुपन्यस्यते—
हृदयं बुद्धिः, सा चाऽऽत्मनि कर्तृत्वादिधर्मारोपसाधनत्वादन्तःकरणमित्युच्यते । तस्य च बुद्धिविशिष्टस्य कर्तुरात्मनो रूपादिविषयसंकल्पविकल्पादिसाधनं मन इत्युच्यते । बुद्धिमन्सोर्द्वयोरन्तःकरणविशेषयोः समुच्चयार्थश्चकारः । एतदेवान्तःकरणद्वैविध्यमभिप्रेत्य तैत्तिरीयेके—“तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः” [ तैत्ति० २ । ४ । १ ] इति कोशद्वयमुपन्यस्तम् । तस्य च मनसो वृत्तिविशेषा एतत्सञ्ज्ञानमित्यादिना प्रपञ्च्यन्ते । यन्मनोऽस्त्येतदेव वृत्तिरूपेण परिणतं सत्संज्ञानमित्युच्यते । सम्यगिदं वस्त्विति ज्ञप्तिः संज्ञानम् । आज्ञानमाज्ञाप्तीरीश्वरभावः । विज्ञानमिदमस्माद्विशिष्टमित्येवमादिविवेकः । प्रज्ञानं ग्रन्थार्थादावुन्मेषः । मेधा ग्रन्थतदर्थधारणा । दृष्टिश्चक्षुर्द्वारा रूपोपलब्धिहेतुर्मनोवृत्तिः । धृतिर्धैर्यं प्राणायामप्यापदि तद्विषयगणनाराहित्यम् । मतिर्मननं राजकार्याद्यालोचनम्, मनीषा तत्र स्वातन्त्र्यम् । जूतिर्जवः प्रातत्कार्येषु मनसो व्यग्रता । यद्वा जूतिर्मनसो
१ घ. ङ. ॰थग्ग्यज्य° । २ घ. ङ. ॰षु सू° । ३ घ. ङ. ॰न्द्रियादिसं° । ४ घ. ङ. ॰ति । ये° । ५ घ. ङ. तत्तद्विशेषगं । ६ ख. ॰द्विशेषगं । ७ ग. ॰नसोऽव्य° । घ. ङ. ॰नसोऽप्येकाग्र° ।
अध्या० ६ ख० १(२९)] ऐतरेयारण्यकम् । १७९
रोगादिजनितदुःखित्वम् । स्मृतिरनुभूतार्थवस्तुस्मरणम् । संकल्पोऽसमीचीनेऽपि वस्तुनि सम्यक्त्वेन कल्पनम् । क्रतुरवश्यं करिष्यामीत्यध्यवसायः । असुः प्राणादिजीवन-क्रियानिमित्ता वृत्तिः । कामोऽसंनिहितविषयाकाङ्क्षा । वशः स्त्रीव्यँतिकराद्यभि-लाषः । इतिशब्दः प्रदर्शनार्थः । इत्येवमाद्या अन्येऽपि सात्त्विकराजसतामसवृत्ति-भेदा बहवो द्रष्टव्याः । अत्र सर्वत्र किमेतद्वृत्त्युपाहितं चैतन्यमात्मेत्येवं संशयकोटयो योजनीयाः ।
इत्थं संशयमुपन्यस्य निर्णयं दर्शयति—
सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति, इति ।
“ येन वा पश्यति ” [ ऐ० आ० २ अ० ६ ख० १ ] इत्यादिना “ क्रतुरसुः कामो वशः ” इत्यन्तेन ग्रन्थेन यान्युपन्यस्तान्येतानि सर्वाण्यपि तत्तद्वृत्त्युपाहिद्वा-रोपलक्षितस्य प्रज्ञानस्य शुद्धचैतन्यस्य नामधेयानि संपद्यन्ते । प्रकृष्टं ज्ञानं प्रज्ञानम् । चैतन्यं हि स्वतो निर्मलत्वात्प्रकृष्टमेव । अधमोपाधिसंपर्कवशादपकर्षः प्रतीयते । यदा तूपाधिविशिष्टत्वं परित्यज्य तत्तदुपाधिभिरुपलक्षितं शाखाचन्द्रन्यायेन विविच्यते तदा-नीमुपाधिकृतस्यापकर्षस्याभावात्प्रकर्ष एव परिशिष्यते । तच्च प्रकृष्टं चैतन्यं सर्वेष्व-प्युक्तोपाधिष्वनुगतमिति कृत्वा तस्यैव मुख्यमात्मत्वमिति निर्णयः । उपाधिविशिष्टस्य नै मुख्यमात्मत्वं शुद्धचैतन्यस्यैव मुख्यमात्मत्वमित्ययमेव विवेको बृहदारण्यके—“ स एष इह प्रविष्टः ” [ बृह० १-४-७ ] इत्यादिना प्रविष्टं जीवात्मानं प्रकृत्यैवमा-म्नायते—“ तं न पश्यन्त्यकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यं-श्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव ” [ बृह० १-४-७ ] इति । अयमर्थः—देहे नखाग्रपर्यन्तं प्रविष्टं ज्ञानक्रियाशक्त्युपा-धिकं तमात्मानं विवेकिनः पुरुषाः स्वात्मतया न पश्यन्ति । हि यस्मात्स आत्मोपाधि-विशिष्टः कृत्स्नो न भवति । तस्मान्न मुख्यमात्मत्वम् । अकृत्स्नत्वमेव कुत इति चेत्तदु-च्यते । प्राणन्नेव वदनेन श्वासं कुर्वन्नेव प्राणोपाधिविशिष्टतया प्राणनामको भवति, न चासौ वागाद्युपाधिविशिष्टेष्वनुगच्छति । एवं वागादिष्वप्येकैकोपाधिना विशिष्ट इतरत्र नानुगच्छति । अभिवदनकाल एव वागुपाधिकः, रूपदर्शनकाल एव चक्षुरुपा-धिकः , एवमितरत्रापि । कथं तर्ह्यात्मनः कृत्स्नत्वमित्याकाङ्क्षायां प्राणवागाद्युपाधि-
* व्यतिकरः संबन्धः ।
१ क. ˚खिता । स्मृ˚ । २ घ. ङ. कामः सं˚ । ३ ग. घ. ङ. ˚व्यक्ताकारा˚ । ४ घ. ङ. ˚वृत्तयो विचक्षणैर्द्रष्ट˚ । ५ घ. ङ. ˚तद्वृदयपिहि˚ । ६ घ. ङ. ˚स्तानि तान्येव स˚ । ७ क. ख. तत्र प्र˚ । ८ घ. ङ. ˚प्युपाधि˚ । ९घ. ङ. प्रत्वेव˚। १० क. घ. ङ. ˚न्ति । य˚ । ११ क. ख. ˚व श्वा˚। १२ घ. ङ. नाभिगं˚।
१८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
वैशिष्ट्यस्य परित्यागे सति कृत्स्नत्वमित्ययमर्थो बृहदारण्यक ऐवाऽऽम्नातः— “आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति” [बृह० १ । ४ । ७] इति । ये वागाद्युपाधिषु चैतन्यविशेषास्ते सर्वेऽपि निरुपाधिक आत्मन्येवान्तर्भवन्ति । यथा जलपात्रगताः सूर्याः सर्वेऽपि तत्कल्पनाधिष्ठानभूते मुख्ये सूर्येऽन्तर्भवन्ति तद्वत् ।
तदेवं कोऽयमात्मेत्येतस्मिंस्त्वंपदार्थविचारे निरुपाधिकं साक्षिचैतन्यं प्रज्ञानशब्दाभिधेयमात्मेति निर्णयोऽभिहितः । अथ कतरः स आत्मेत्येतस्मिंस्तत्पदार्थविचारे निर्णयं दर्शयति—
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च
पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषी-
त्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेत-
राणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भि-
ज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि
जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्, इति ।
ब्रह्मादिस्थावरान्तं यज्जगदस्ति तत्सर्वं प्रज्ञानेत्रम् । निरुपाधिकत्वेन प्रकृष्टा ज्ञप्तिः प्रज्ञा । नीयते सर्वं जगदनेनेति सृष्टिस्थितिप्रलयव्यवहाराणां मूलकारणं नेत्रम् । प्रज्ञैव नेत्रं यस्य जगतस्तत्प्रज्ञानेत्रम् । शेषजगतो मूलकारणभूतं यच्चैतन्यं तदेव कतरः स आत्मेत्येतस्मिंस्तत्पदार्थविचारे मुख्यात्मत्वेन निर्णेतव्यमिति तात्पर्यार्थः । एष ब्रह्मेत्यनेन पुंलिङ्गेन ब्रह्मशब्देन “हिरण्यगर्भः समवर्तताग्रे” [ऋ० सं० म० १० सू० १२१ ऋ० १] इत्यादिशास्त्रप्रसिद्धः प्रथमशरीरी विवक्षितः । तस्य शास्त्रप्रसिद्धिं द्योतयितुमेतच्छब्दः । इन्द्रो देवराजः । प्रजापतिः पूर्वोक्तेन्द्रियतदभिमानिदेवतात्मको विराड्देहः । सर्वे देवा अग्न्यादयः । पृथिव्यादीनि पञ्च महाभूतानि प्रसिद्धानि । इमानि पञ्च महाभूतानीत्येतस्य पृथिवीत्यारभ्येत्येतानीत्यन्तं विवरणम् । इमानि चान्यानि क्षुद्रैरल्पैर्मशकपिपीलिकादिदेहैर्मिश्राणि । इवशब्दोऽनर्थकः । बीजानि कारणानि । मनुष्यादिपिपीलिकान्ताः सर्वे देहाः स्वयं पञ्चभूतकार्यभूताः सन्तः सजातीयदेहान्तरहेतुत्वेन बीजशब्दाभिधेयाः । तेषां बीजानां नानाजातीयत्वमितराणि चेतराणीत्यनेन प्रतिज्ञायते । परस्परविलक्षणबहुभेदयुक्तानीत्यर्थः । अण्डजानीत्यादि प्रतिज्ञातमेव नानात्वं प्रपञ्च्यते । पक्षिसर्पादीन्यण्डजानि । जारुजानि जरायुजानि मनुष्यगवादीनि । क्रिमिदंशादीनि स्वेदजानि । तरुगुल्मादीन्युद्भिज्जानि । यथोक्तेष्वेव जरायुजानामश्वा गावः पुरुषा हस्तिन इत्यु-
१ घ. ङ. ॰क्ष्यपं । २ क ग. एवमान्ना॰ । ३ क. ह्येके सं। ग. ह्येतत्सर्व । ४ घ. ङ. ॰नि। ज॰।
अध्या० ६ ख० १(२६)] ऐतरेयारण्यकम् । १८१
दाहृत्य प्रदर्शनम् । उक्तानामनुक्तानां च संग्रहोपसंग्रहार्थं यत्किंचेदं प्राणीत्यादि- वाक्यम् । यदेतज्जगदुत्पत्तिस्थितिलयकारणत्वं चैतन्यस्य प्रज्ञानेत्रपदेन संगृह्योक्तं तदेव विवृणोति— प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा, इति । प्रज्ञाने निरुपाधिकचैतन्ये पूर्वोक्तं सर्वं जगत्प्रतिष्ठितं रज्ज्वां सर्पवदारोपितम् । अनेनोत्पत्तिहेतुत्वमुक्तम् । लोकः सर्व प्राणिसमूहः प्रज्ञानेत्रः । प्रज्ञा चैतन्यमेव नेत्रं व्यवहारकारणं यस्यासौ प्रज्ञानेत्रः । अनेन स्थितिहेतुत्वमुक्तम् । प्रज्ञा चैतन्यं प्रतिष्ठा लयस्थानम् । प्रतितिष्ठति विलीयतेऽत्रेति व्युत्पत्तेः । अनेन संहारहेतुत्वमुक्तम् । एतावता शास्त्रान्तरप्रसिद्धं जगज्जन्मस्थितिलयकारणत्वाख्यं ब्रह्मणस्तटस्थलक्षणमुक्तं भवति । एवं तु लक्षणं तैत्तिरीया विस्पष्टमामनन्ति—"यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म" [ तै० ३ । १ । १ ] इति । तदेवं विचारद्वयेन तत्त्वंपदार्थौ शोधितौ । अथ महावाक्येन तयोरैक्यं दर्शयति— प्रज्ञानं ब्रह्म, इति । "सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति" [ ऐ० आ० २ अ० ६ ख० १ ] इतिवाक्येन देहेन्द्रियादिसाक्षिरूपं यत्प्रज्ञानं त्वंपदार्थरूपं निर्णीतं तदेवैष ब्रह्मेत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म । न चानयोरीषदपि भेदोऽस्ति । अहंप्रत्ययगम्यत्वाकारेण यदा विवक्ष्यते तदा जीव इत्युच्यते । यदा तु शास्त्रप्रति- पाद्यत्वाकारो विवक्षितस्तदानीं ब्रह्मेत्यभिधीयते । अतो व्यवहारभेदमात्रं न तु तत्त्वतो भेदोऽस्ति । न चैवं सति पुनरुक्तिप्रसङ्गः । अब्रह्मत्वपरोक्षत्वयोर्व्यावर्त्ययोर्भेदेन पदद्व- योपयोगात् । एतच्च वाक्यवृत्तौ विस्पष्टमभिहितम्— "प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः । अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदाभवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावर्त्येत तदैव हि ॥
१ ग. संक्षेपेण संहारार्थे य॑ । २ घ. ङ. ॰णत्वेन चेतनस्य । ३ घ. ङ. सर्वज॑ । ४ घ. ङ. सर्पादिव॑ । ५ घ. ङ. ॰नेत्रे व्य॑ । ६ घ. ङ. ॰णत्वमु॑ । ७ क. ॰नं तत्त्वंप॑ । ८ घ. ङ. ॰षद्भेदो॑ ।
१८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु ।
पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते” इति ॥
इत्थं चतुर्थाध्याये—“स जातो भूतान्यभिव्यैख्यत्” [ ऐ० आ० २ अ० ४ ख० ३ ] इत्यादिनाऽपवादप्रकरणेन संगृहीतमात्मतत्त्वमस्मिन्नध्याये तत्त्वंपदार्थवि- चारमुखेन(ण) प्रपञ्चितम् । अथ तत्त्वज्ञानफलं दर्शयति—
स एतेन प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्त्स्वर्गे
लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके षष्ठाध्याये
प्रथमः खण्डः ॥ १ ॥ ( २५ )
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
षष्ठोऽध्यायः ॥ ६ ॥
यः पुमान् “प्रज्ञानं ब्रह्म” इत्येवं जानाति स पुमानेतेन प्रज्ञेनाऽऽत्मना चैत- न्यस्वरूपेण स्वयमाविर्भवति^२। तदूर्ध्वं विदेहमुक्तिं प्रतिपद्यते । तन्मुक्तिप्रतिपादकम- स्माल्लोकादित्यादिवाक्यं पूर्वस्मिन्पञ्चमाध्याये व्याख्यातम् । तस्य वाक्यस्य पुनरप्य- त्रोक्तिर्विद्योपसंहारार्था । समभवदित्यभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके षष्ठाध्याये प्रथमः खण्डः ॥ १ ॥ ( २५ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यकभाष्ये द्वितीयारण्यके षष्ठोऽध्यायः ॥ ६ ॥
अथ द्वितीयारण्यके सप्तमोऽध्यायः ।
तत्र प्रथमः खण्डः । ( षड्विंशः )
षष्ठे तत्त्वविद्यां परिसमाप्य सप्तमे शान्तिकरं मन्त्रं पठति—
वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म
एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाधीते-
^१ ग. ङ. ॰वशिष्यते” । ^२ घ. ङ. ॰ति । अत ऊर्ध्वं ।
प्रथमः खण्डः ॥ १ ॥ ( २६ )
अध्या० ७ ख० १(२६)] ऐतरेयारण्यकम्। १८३
नाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मा- मवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २६ ) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमोऽध्यायः ॥ ७ ॥ इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यकं समाप्तम् ॥ २ ॥
यथोक्ततत्त्वविद्याप्रतिपादकग्रन्थपाठे प्रवृत्ता मदीया वाक्सर्वदा मनसि प्रतिष्ठिता । मनसा यद्यच्छब्दजातं विवक्षितं तदेव पठति । मनश्च मदीयवाचि प्रतिष्ठितम् । यद्यद्विद्याप्रतिपादकत्वेन वक्तव्यं शब्दजातमस्ति तदेव मनसा विवक्ष्यते । एवमन्योन्यानुगृहीते वाङ्मनसे विद्यार्थं ग्रन्थं साकल्येनावधारयितुं शक्नुतः । मनसः सावधानत्वाभावे वागिन्द्रियं सुप्तोन्मत्तप्रलापादिवद्यत्किंचिदसंगतं ब्रूयात् । तथा च वाचः पाटवाभावे सति गद्गदरूपया वाचा विवक्षितं सर्वं यथावन्नोच्चार्यते । अतस्तयोरन्योन्यानुकूल्यमस्त्वित्येवं प्रार्थ्यते । आविःशब्देन स्वप्रकाशं ब्रह्मचैतन्यमुच्यते । प्रज्ञानशब्देन व्यवहृतत्वात्तस्याऽऽविर्भूतरूपत्वम् । तथाविध हे आत्मन्मे मदर्थमावीरेधि । अविद्यावरणापनयनेन प्रकटी भव । हे वाङ्मनसे मे मदर्थं वेदस्य यथोक्ततत्त्वविद्याप्रतिपादकस्य ग्रन्थस्याऽऽणी स्थः । विद्याया आनयनसमर्थे भवेताम् । मे श्रुतं मया श्रोत्रेणावगतं ग्रन्थार्थजातं मा प्रहासीन्मा परित्यजतु, विस्मृतं मा भूदित्यर्थः । अनेनाधीतेन विस्मरणरहितेन ग्रन्थेनाहोरात्रान्संदधामि संयोजयामि । अहनि रात्रौ चाऽऽलस्यं परित्यज्य निरन्तरं पठामीत्यर्थः । तस्मिन्पठिते ग्रन्थ ऋतं परमात्मभूतं वस्तु वदिष्यामि । विपरीतार्थवदनं कदाचिदपि मा भूदित्यर्थः । ऋतं मानसं, सत्यं वाचिकं, मनसा वस्तुतत्त्वं विचार्य वाचा वदिष्यामीत्यर्थः । तन्मया वक्ष्यमाणं ब्रह्मतत्त्वं मां शिष्यमवतु सम्यग्बोधेन पालयतु । तथा तद्ब्रह्मतत्त्वं वक्तारमाचार्यमवतु, बोधकत्वसामर्थ्यप्रदानेन पालयतु । पुनरप्यवतु मामित्याद्युक्तिः फलविषया । पूर्वं साधनकाले शिष्याचार्ययोः पालनं प्रार्थितमिदानीं फलकालेऽपि प्रार्थ्यते । तत्र शिष्य-
१ घ. ङ. ॰नसी वि॰ । २ ग. ॰त् । यथा वा॰ । ३ क. ख. ग. ॰चा सर्वं विवक्षितं य॰ । ४ घ. ङ. ॰विर्भावरू॰ । ५ घ. ङ. भवतः । ६ क. ख. घ. ङ. ग्रन्थं तदर्थं । ७ घ. ङ. ॰चिकं, आधिकं म॰ । ८ घ. ङ. ॰यैकाले शिष्याचार्ययोः पालनानीत्यर्थः । वां॰ । ९ घ. ङ. ॰उत्त्ववि॰ । १० क. ख. ग. ॰ते । शि॰ ।
१८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[२द्वितीयारण्यकम्]
स्याविद्यातत्कार्यनिवृत्तिः फलम् । आर्यस्य तादृशशिष्यदर्शनेन विद्यासंप्रदायप्रवृत्ति- प्रयुक्तः परितोषः फलम् । अनेन मन्त्रपाठेन विद्योत्पत्तेः पुरा विद्याप्रतिबन्धका विघ्नाः परिह्रियन्ते । विद्योत्पत्तेरूर्ध्वमसंभावनाविपरीतभावनेोत्पादका विघ्नाः परिह्रि- यन्ते । अवतु वक्तारमित्यभ्यासोऽध्यायसमाप्त्यर्थो द्वितीयारण्यकसमाप्त्यर्थश्च ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके सप्तमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २६ )
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म- णारण्यककाण्डभाष्ये द्वितीयारण्यके सप्तमोऽध्यायः ॥ ७ ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य वैदिकमार्गप्रवर्तकस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन सायणामात्येन विरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यककाण्डे द्वितीयारण्यकं समाप्तम् ॥ २ ॥
( आदितः समष्ट्यङ्काः—आर० २ अध्या० १२ ख० ४८ )
१ घ. ङ. ॰रः । तुरंगवदनो दयात्तरंगनयनाञ्चितः । उरगाधिपतत्सोमे गिरं गरुडवाहनः । इ° ।
अथ तृतीयारण्यकम् ।
प्रथमोऽध्यायः । तत्र प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
प्राणविद्या मध्यमस्य ब्रह्मविद्योत्तमस्य च ।
पूर्वोक्ताऽधमस्याथ संहितोपास्तिरीर्यते$^१$ ॥ २ ॥
त्रिविधो विद्याधिकारी, उत्तमो मध्यमोऽधमश्च । सर्वस्मात्संसाराद्विरक्त एकाग्रचित्तः$^२$ सद्योमुक्तिकाम उत्तमस्तं प्रति “आत्मा वा इदमेक एवाग्र आसीत्” [ ऐ० आ० २ अ० ४ ख० १ ] इत्यादिना ब्रह्मविद्योक्ता । हिरण्यगर्भप्राप्तिद्वारा क्रममुक्तिकामो मध्यमस्तं प्रति “उक्थमुक्थम्” [ ऐ० आ० २ अ० १ ख० २ ] इत्यादिना प्राणविद्योक्ता । यस्तु द्विविधां मुक्तिमकामयमानः प्रजापश्वादिकमामुष्कामोऽधमस्तं प्रति संहितोपासनं तृतीयारण्यकेऽभिधीयते । तत्रोपासनं प्रतिजानीते—
अथातः संहिताया उपनिषत्, इति ।
अथ प्राणविद्याब्रह्मविद्ययोः कथनानन्तरं यतः कारणात्तच्चलया पाठवासनया युक्तस्य पाठसंबन्धरहितयोः प्राणब्रह्मविद्ययोश्चित्तं न प्रविशत्यतः कारणात्संहितायाः पाठसंबन्धिन्या उपनिषद्द्वि$^३$योच्यत इति शेषः । उपनिषण्णमस्यां विद्यायां प्रजापश्वादिफलमुपनिषत् ।
तामेतां विद्यां विधत्ते—
पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहितेति माण्डूकेय
आकाशः संहितेत्यस्य माक्षव्यो वेदं$^४$यांचक्रे, इति ।
“अग्निमीळे” [ऋ० सं० म० १ सू० १ ऋ० १] इत्यत्राग्निमिति यो मकारः सोऽयं संहितायाः पूर्वरूपो वर्णः । ईळ इत्यत्र योऽयमीकारः सोऽयं संहिताया उत्तरो वर्णः । द्वयोर्वर्णयोर्नैरन्तर्येणोच्चारणं संहिता “पर संनिकर्षः संहिता” [ पा० सू० १ । १ ] इति सूत्रितत्वात् । एतासु पूर्वोत्तरवर्णतत्संहितासु भूलोकद्युलोकवायू$^५$नां दृष्टिः कर्तव्या । यद्यपि पृथिव्यादीनां प्रथमनिर्दिष्टत्वात्प्रतीकत्वं प्राप्तं तथाऽपि “एव-
१ घ. ङ. ॰स्तिरिष्यते । २ ख. ग. ॰चित्तोऽनघो मू॰ । ३ घ. ङ. ॰द्विचार्यत । ४ ग. ॰यंसंहि॰ । ५ क. ख. ॰वायुदृ॰ ।
२४
१८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-
मेतां संहितां वेद" [ऐ० आ० ३ अ० १ ख० १] इति संहिताया उपास्यत्वश्रवणात्पूर्ववर्णादीनां पृथिव्यादिदृष्ट्योपासनं गम्यते । यथा विष्णुदृष्ट्या शालग्रामोपास्तिस्तद्वत् । मण्डूकनाम्नो महर्षेः पुत्रो माण्डूकेयस्तस्य च माण्डूकेयस्य संहितायां वायुदृष्टिरित्येतन्मतम् । मक्षुनाम्नः कस्यचिन्महर्षेः पुत्रो माक्षव्यः । स चास्योपासनस्य संबन्धिन्यां संहितायामाकाशदृष्टिः कर्तव्येति वेदद्यांचक्रे विज्ञातवान् ।
माक्षव्यस्य महर्षेरभिप्रायं दर्शयति—
स हाविपरिहृतो मेने न मेऽस्य पुत्रेण समगादिति, इति ।
स ह सोऽपि वायुरविपरिहृतो विशेषेण परिहृतो न भवति । वायोराकाशवर्तित्वेनाऽऽकाश एवान्तर्भावात् । आकाशस्तु न वायावन्तर्भवति । वायुकारणत्वादधिकैव्याप्तित्वाच्च । अतोऽस्य मण्डूकस्य पुत्रेण सह मे मम न समगात् । दर्शनं न संगतं मदीयमतं नैकविधं<sup>२</sup> भवति । मन्मते वायोरन्तर्भावेन वाय्वाकाशोभयदृष्टिः संहितायां सिध्यति । तन्मते त्वाकाशस्यानन्तर्भूतत्वाद्वायुमात्रदृष्टिरेवातो मन्मतमेव श्रेष्ठमिति मेने निश्चितवान् । ततो वाय्वाकाशयोर्विकल्पेन ध्यानं न भवति किंतु वायुध्यानं पूर्वपक्ष आकाशध्यानं सिद्धान्त इत्यर्थः ।
इदानीं मतान्तरानुसारेण तयोस्तुल्यबलत्वमभिप्रेत्य विकल्पेन ध्यानं दर्शयति—
समाने वै तत्परिहृतो मेन इत्यागस्त्यः समानं ह्येतद्भवति वायुश्चाऽऽकाशश्चेति, इति ।
अगस्त्यस्य पुत्र आगस्त्यो महर्षिरित्थं मेने निश्चितवान् । कथमिति तदुच्यते— समाने वै यदेतद्वायुः संहितेति माण्डूकेयस्य मतं यच्चाऽऽकाशः संहितेति माक्षव्यस्य मतं ते उभे अपि तुल्यबले एव । वायोराकाशवर्तित्वमप्रयोजकम् । नहि वस्तूनां स्वभावानुसारेण किंचिदुपासनं प्रवर्तते, किंतु वचनानुसारेण । वचनं तु वायुः संहितेति पक्ष आकाशः संहितेति पक्षे च समानम् । तत्तस्मात्कारणात्परिहृत आकाशपक्षे वायोरनन्तर्भावाद्व्रायुः परित्यक्तैश्च<sup>३</sup> । तथा सति वायुश्चाऽऽकाशश्चेत्येतन्मतद्वयं समानमेव भवति । तस्माद्विकल्पेन संहितायां वाय्वाकाशयोर्दृष्टिः कर्तव्येति तत्रै<sup>५</sup> मुख्यः<sup>४</sup> सिद्धान्तः ।
पूर्वोत्तरवर्णतत्संहितासु पृथिव्यादिध्यानं यदुक्तं सोऽयमुपासनस्य पूर्वो भागः, वक्ष्यमाणस्तूत्तरो भागः । तदुभयं बुद्धिसौकर्याय विभजते—
इत्यधिदैवतमथाध्यात्मम् , इति ।
१ क. ख. ॰कप्राप्तिं । २ ग. घ. ङ. ॰तं चैकविधं न भ॰ । ३ ग. ॰क्त एव । त॰ । ४ घ. ङ. ॰ति मुं॰ । ५ क. ख. ॰त्र सि॰ ।
अध्या० १।ख० १] ऐतरेयारण्यकम्। १८७
इतिशब्दः पूर्वोक्तं “पृथिवी पूर्वरूपम्” इत्यादिकं परामृशति । तच्चाधिदैवतं पृथिव्यादिकं दैवतमधिकृत्य वर्तमानमुपासनम् । अथानन्तरमात्मानं वागादिसंघातरूपमधिकृत्य वर्तत इत्यध्यात्ममुपासनमुच्यत इति शेषः ।
तदेतदुपासनं विधत्ते—
वाक्पूर्वरूपं मन उत्तररूपं प्राणः संहितेति शूरवीरो माण्डूकेयः, इति ।
पूर्ववर्णे वाग्दृष्टिरुत्तरवर्णे मनोदृष्टिस्तदुभयसंश्लेषे प्राणदृष्टिरित्येतन्माण्डूकेयस्य मतम् । स च माण्डूकेयः शूरवीरः । उपासनायां निरन्तरं प्रवर्तमानाः शूरास्तैः पुरुषैर्बहिः प्रवर्तमानानामिन्द्रियाणां जितत्वात् । तेषु शूरेषु वीरोऽत्यन्तपराक्रमयुक्तः । उपास्यवस्तुसाक्षात्कारवानित्यर्थः ।
अत्रैव मतान्तरमाह—
अथ हास्य पुत्र आह ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपं
मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरति तस्मान्मन
एव पूर्वरूपं वागुत्तररूपं प्राणस्त्वेव संहितेति, इति ।
अथ माण्डूकेयोक्त्यनन्तरमस्य माण्डूकेयस्य ज्येष्ठः पुत्रो मनतो वाचश्च पूर्वोक्तविपर्ययमाह । तत्रोपपत्तिं चावोचत् । लोके विवक्षुः सर्वः पुरुष इमं वक्ष्यामीत्येवं प्रथमं संकल्पयति पश्चादुच्चारयति तस्माद्वस्तुतत्वमनुसृत्य पूर्ववर्णे मनोदृष्टिरुत्तरवर्णे वाग्दृष्टिश्च कर्तव्या । या तु वर्णयोः संहिता तस्यां पूर्वोक्तः प्राण एव ध्यातव्यो न तु तत्र कश्चिन्मतभेदोऽस्तीत्येवं ज्येष्ठः पुत्र उक्तवान् ।
एवं सति सोपपत्तिकत्वादयमेव सिद्धान्त इति प्रतिभासते । तत्र श्रुतिर्मतद्वयस्य समानत्वमभिप्रेत्य विकल्पमेव सिद्धान्तयति—
समानमेतयोरत्र पितुश्च पुत्रस्य च, इति ।
न ह्युपासना वस्तुतत्त्वमपेक्षते^१ किं तर्हि यथावचनमनुष्ठेयेति^२ न्यायः पूर्वमेवोक्तः । तस्माद्यः पिता माण्डूकेयो यश्च तदीयो ज्येष्ठः पुत्र एनयोरुभयोर्मतं समानम् । तस्मान्मनोदृष्टिवाग्दृष्ट्योः पूर्वोत्तरभावित्वं विकल्प्यते^४ ।
अधिदैवतमध्यात्मं च यदुपासनमुक्तं तत्प्रशंसति—
स एषोऽश्वरथः प्रष्टिवाहनो मनोवाक्प्राणसंहतः, इति ।
यः पूर्वोक्तपृथिव्यादिध्यानेनरूपः^५ फलहेतुः स एषोऽश्वयुक्तरथसमानः । स च प्रष्टिवाहनः, प्रष्ठयोः पार्श्वयोर्युज्यमानौ द्वावश्वौ वाहनं यस्य रथस्य सोऽयं प्रष्टिवा-
^१ क. ख. ॰त्वमुपासनं किं ।
^२ घ. ङ. ॰नुष्ठिते न्या॰ ।
^३ क. ख. ॰ष्टेयमिति ।
^४ क. ख. घ. ङ. विकल्पते ।
^५ घ. ङ. ॰नफले हे॰ ।
१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-
हनः । ईषयोर्दीर्घकाष्ठयोर्मध्ये कंचित्प्रबलमश्वं संयोज्य तयोरीषयोर्बहिरुभयोः पार्श्वयोर्द्वावश्वौ मध्यमाश्वस्यादान्तस्य नियामकौ संयोज्येते सोऽयमश्वत्रयोपेतो देवानां रथः । तथा तैत्तिरीया वाजपेयप्रकरणे समामनन्ति—“पृष्ठिवाहिनं युनक्ति । पृष्ठिवाही वै देवरथः । देवरथमेवास्मै युनक्ति ” इति । यथा देवरथोऽश्वत्रयेण युक्त एवमयमप्युपास्तिरथो मनोवाक्प्राणैस्त्रिभिर्ध्येयविशेषैः संयुक्तः, तस्मात्पृष्ठिवाहिरथवत्सहसा फलप्रापणे समर्थ इत्यर्थः² ।
इदानीं फलं दर्शयति—
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्य-
शसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।
यः पुमानेवमुक्तप्रकारेण विहितां “पृथिवी पूर्वरूपम्” इत्यादिकां देवतारूपां संहितां वेदोपास्ते³। यद्यपि विदिधातुः प्रमाणजन्यज्ञानवाची तथाऽप्युपास्तिक्रियामन्तरेण फलासंभवान्मानसत्वसाम्येन तां क्रियामुपलक्षयति । स उपासकः प्रजादिभिः संधीयते संयोज्यते । प्रजा पुत्रपौत्रादिरूपा । पशवो गवाश्वादयः । यशो धनदानादिकीर्तिः । ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः । तदेतत्सर्वं चित्रान्यायेन प्रतिबन्धाभावे सत्यैहिकं फलम् । “चित्रया यजेत पशुकामः” इत्यत्र पशुसंपादकदृष्टप्रयत्नसद्भावे सति पशुप्राप्तिरैहिकी, अन्यथाऽऽमुष्मिकीति पूर्वमीमांसायां निर्णीतम् । तद्वदत्रापि प्रजादिफलमैहिकमामुष्मिकं चेत्यनियतम् । स्वर्गस्त्वामुष्मिक एव । सर्वमायुरेतीत्यनेनापमृत्युराहित्यं विवक्षितम् ।
उक्तोपासनायाः सांप्रदायिकत्वं दर्शयति—
इति नु माण्डूकेयानाम् , इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
प्रथमः खण्डः ॥ १ ॥
इत्येवमुक्ता—“पृथिवी पूर्वरूपम्” [ ऐ० आ० ३ अ० १ ख० १ ] इत्याद्युपासना मण्डूकारव्यस्य महर्षेः पुत्राणां संप्रदायाद्भूमावागता ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
¹ घ. ङ. °जसनेय° । ² घ. ङ. °र्थः । तदिदा° । ³ क. ख. विदिर्धातुः । ⁴ घ. ङ. °वाद° ।
अध्या ० १ । ख ० २] ऐतरेयारण्यकम् । १८९
अथ द्वितीयः खण्डः ।
संप्रदायान्तरोक्तिपुरःसरमुपासनान्तरं प्रतिजानीते—
अथ शाकल्यस्य, इति ।
माण्डूकेयाभिमतोपासनकथनानन्तरं शाकल्यस्याभिमतोपासनमुच्यत इति शेषः । तत्रोपासनीयं स्वरूपं दर्शयति—
पृथिवी पूर्वरूपं द्यौरुत्तररूपं वृष्टिः संधिः पर्जन्यः संधाता, इति ।
पूर्वोत्तरवर्णयोर्भूलोकद्युलोकध्यानम् । संधिवर्णयोः संहिता तत्र वृष्टिध्यानम् । संहिताया हेतुः संधाता । तद्यथा—"इको यणचि" [ पा० सू० अ० ६ पा० १ सू० ७७ ] इति सूत्र इकारस्य स्थाने यकारादेशविधावचपरत्वं निमित्तम् । तादृशे संधिनिमित्ते पर्जन्यध्यानं कर्तव्यम् ।
वृष्टेः संधित्वं पर्जन्यस्य संधातृत्वं च लोकव्यवहारेण विशदयति—
तदुतापि यत्रैतद्बलवद्नूद्वृष्टन्संदधदहोरात्रे वर्षति, इति ।
उतापीति निपातसमुदायः समुच्चयार्थी लोकप्रसिद्धिं समुच्चिनोति । तत्तस्मिन्वृष्टिः संधिः पर्जन्यः संधातेत्यस्मिन्नर्थे लोकप्रसिद्धिरपि विद्यत इत्यर्थः । काऽसौ प्रसिद्धिरिति साऽभिधीयते—यत्र यदैतत्पर्जन्यस्वरूपं बलवदत्यन्तप्रबलं भूत्वाऽनूद्ध्वङ्कुर्वन्नग्रहणं वृष्ट्युपसंहारमकुर्वन्न(द)होरात्रे संदधद्रात्रावहनि च विच्छेदाभावलक्षणं संधानं कुर्वद्वर्षति तदानीं वृष्टेर्द्युलोकभूलोकसंधित्वं पर्जन्यस्य संधातृत्वं च विस्पष्टं प्रतिभासत इति शेषः ।
न केवलं प्रतिभासः किंतु लौकिकानामुक्तिरप्यस्तीति दर्शयति—
द्यावापृथिव्यौ समधातामित्युताप्याहुः, इति ।
अनया पर्जन्यसंपादितया निरन्तरतीव्रवृष्ट्या द्यौश्च पृथिवी चेत्येते उभे संधानं परस्परैक्यं प्राप्तवत्यावित्येवं वाक्यमपि लौकिका आहुः । अतोऽनुभवालौकिकोक्त्या च वृष्टेः संधित्वं पर्जन्यस्य संधातृत्वं च प्रसिद्धम् ।
बुद्धिसौकर्यार्थमुक्तवक्ष्यमाणावर्थो विभज्य दर्शयति—
इती न्वधिदैवतमथाध्यात्मम्, इति ।
इति नूक्तप्रकारमेव पृथिव्यादिकमित्यर्थः ।
पृथिव्यादिदेवतानामिव स्वशरीरावयवानामपि ध्यानं दर्शयति—
पुरुषो ह वा अयं सर्व आनन्दं द्वे विदले भवत इत्याहुस्तस्ये-
१ ग. ॰र्वन्वर्षं । २ क. ख. ङ. इति ।
| १९० | श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३तृतीयारण्यके- |
|---|
दमेव पृथिव्या रूपमिदं दिवस्तत्रायमन्तरेणाऽऽकाशो यथाऽसौ द्यावापृथिव्यावन्तरेणाऽऽकाशस्तस्मिन्हस्मिन्नाकाशे प्राण आयत्तो यथाऽमुष्मिन्नाकाशे वायुरायत्तो यथाऽमूनि त्रीणि ज्योतींष्येवमिमानि पुरुषे त्रीणि ज्योतींषि, इति ।
लोके यः पुरुषो विद्यते स सर्वोऽप्याण्डमण्डसदृशम् । वर्णविकारश्छान्दसः । यथा ब्रह्माण्डस्याधः कपालमूर्ध्वं कपालं चेति द्वे विदले द्वौ परस्परैविपरीतभागौ, तथा पुरुषेऽपि पादावारभ्याधरोष्ठपर्यन्तमेकं विदलमुत्तरोष्ठमारभ्य मूर्धपर्यन्तमपरं विदलं यथा भिन्नस्य वेणोर्दलद्वयं तद्वत् । विदले इति बकारश्छान्दसः । इत्येवमण्डसादृश्यमभिज्ञाः पुरुषा आहुः । तस्य दलद्वयोपेतस्य शरीरस्येदमेवाधरोष्ठपर्यन्तं पृथिव्याः स्वरूपम् । इदं तूत्तरोष्ठादिकं दिवः स्वरूपम् । तत्र तयोरधरोत्तरदलयोरन्तरेण मध्येऽयमाकाशोऽस्माभिर्मुखे दृश्यमानं छिद्रं वर्तते, यथा द्यावापृथिव्योर्मध्य आकाशस्तद्वत् । तस्मिन्हस्मिन्पूर्वोक्त एव दृश्यमाने मुखच्छिद्रे प्राण आश्रितः । यथा बाह्ये प्रसिद्धाकाशे वायुराश्रितस्तद्वत् । यथा च बाह्ये ज्योतिस्त्रयमेवं शरीरेऽपि ज्योतिस्त्रयमस्ति । अनेन प्रकारेण शरीरस्याधरोत्तरभागौ पृथिवीरूपेण द्युलोकरूपेण च ध्यातव्यौ । वायुश्च प्राणरूपेण ध्येयः । ज्योतिस्त्रयं च बहिर्वदन्तरपि ध्येयमित्यर्थः ।
तच्च त्रयं दर्शयति—
यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुर्यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयं यथाऽयमग्निः पृथिव्यामेवमिदमुपस्थे रेतः, इति ।
लोकत्रयगतादित्यविद्युदग्निवच्चक्षुर्हृदयरेतांसि द्रष्टव्यानि ।
आध्यात्मिकमुपासनं प्रतिपाद्योपसंहरति—
एवमु ह स्म सर्वलोकमात्मानमनुविधायाऽऽहेदमेव पृथिव्या रूपमिदं दिवः, इति ।
उक्तेनैव प्रकारेण लोकत्रयसदृशं पुरुषशरीरमनुक्रमेण संपाद्येदमेवाधरोष्ठपर्यन्तं पृथिव्याः स्वरूपमिदं तूत्तरोष्ठादिकं दिवः स्वरूपमित्येवं शाकल्य आह ।
उपासनस्य फलं दर्शयति—
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
१ क. ˚स्परावि˚ । २ ग. ˚रमथ उपरितनभा˚ ।