ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
२४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [५पञ्चमारण्यके-
१६० ऋ० १] इत्यादिकं पञ्चर्चं पठेत् । अत्रोभयत्र सूक्तप्रतीकाभिप्रायेण पञ्च- र्चमिति कैश्चिद्व्याख्यातम् । अन्ये तु¹ “ऋचं पादग्रहणे” इतिपरिभाषानुसारेणैकैका- मृचं पठेरिति व्याचक्षते ।
अस्मिन्नेव शस्त्रे ब्राह्मणान्तरानुसारेण कंचिद्विशेषं दर्शयति—
त्रिकद्रुकेषु महिषो यवाशिरमिति स्तोत्रिय इन्द्र याह्युप नः परावत इन्द्राय हि द्यौरसुरो अन- म्नत प्रोष्वस्मै पुरोरथमित्यतोऽनुरूपः, इति ।
स्तोत्रसंबन्धी² स्तोत्रियस्तृचः । “एकं साम तृचे क्रियते स्तोत्रियम्” इति साम- गैराम्नानात्तृचस्य स्तोत्रियत्वम् । “त्रिकद्रुकेषु” [ऋ० सं० म० २ सू० २२ ऋ० १] इत्यादिकस्तृचः शस्त्रस्याऽऽदौ प्रयोक्तव्यः । अनु पश्चाद्रूप्यते पठ्यत इति द्वितीयोऽ- नुरूपस्तृचः । तस्मिन् “इन्द्र याहि” [ऋ० सं० म० १ सू० १३० ऋ० १] इत्यृक्प्रथमा । “इन्द्राय हि द्यौः” [ऋ० सं० म० १० सू० १२७ ऋ० १] इति द्वितीया । “प्रोष्वस्मै” [ऋ० सं० म० १० सू० १३३ ऋ० १] इति तृतीया । तावेता द्वौ तृचौ शस्त्रस्याऽऽदौ पठेरित्यर्थः ।
अथ माध्यंदिने³ सवने होतुः शस्त्रे मरुत्वतीये विशेषं दर्शयति—
चतुर्विंशान्मरुत्वतीयस्याऽऽतानोऽसत्सु मे जरितः साभिवेगः पिबा सोममभि यमुग्र तर्दः कया शुभा सवयसः सनीळा मरुत्वाँ इन्द्र वृषभो रणाय, इति ।
त्रिषु मरुत्वतीयग्रहेषु मध्ये तृतीयस्य होमात्पूर्वं पठनीयं मरुत्वतीयं शस्त्रं तद्यन्मू- लप्रकृतौ “आ त्वा रथम्” [ऋ० सं० म० ८ सू० ६८ ऋ० १] इत्यादिकं तस्य विश्वजित्यतिदिष्टस्य सन्त्यन्ये विशेषास्तैर्विशेषैः सह तन्मरुत्वतीयं महाव्रतेऽतिदेष्टु-
त्रिकद्रुकेषु०—ऋ० सं० म० २ सू० २२ ऋ० १। एन्द्र याहि०—ऋ० सं० म० १ सू० १३० ऋ० १ । इन्द्राय हि द्यौः०—ऋ० सं० म० १ सू० १३१ ऋ० १ । प्रोष्वस्मै पुरो०—ऋ० सं० म० १० सू० १३३ ऋ० १ । असत्सु मे जरितः०—ऋ० सं० म० १० सू० २७ ऋ० १ । पिबा सोममभि०—ऋ० सं० म० ६ सू० १७ ऋ० १ । कया शुभा सवयसः—ऋ० सं० म० १ सू० १६९ ऋ० १ । मरुत्वाँ इन्द्र वृषभः०—ऋ० सं० म० ३ सू० ४७ ऋ० १ ।
¹ १ क. ख. न्ये त्वचं । ग. °न्येव तृचं । घ. °न्ये तृचं । ² २ क. ख. °न्धी तृचः स्तोत्रियः । ए° । ³ ३ घ. ङ. °दिनसं° ।
अध्या० १।ख० १] ऐतरेयारण्यकम्। २४१
र्थ्यम्। तस्य चातिदिष्टस्य मरुत्वतीयस्य चतुर्विंशत्यत्राऽऽ(?)स्थितान्मरुत्वतीयादातानः पुनरपि विस्तारो भवति। तस्मिन्विस्तारे प्रथमम् “असतत्सु मे जरितः” [ ऋ०सं०म० १० सू० २७ ऋ० १ ] इत्येकं सूक्तम्। “पिबा सोममभि यम्” [ ऋ० सं० म० ६ सू० १८ ऋ० १ ] इति द्वितीयम्। “ कया शुभा ” [ ऋ० सं० म० १ सू० १६५ ऋ० १ ] इति तृतीयम्। “मरुत्वाँ इन्द्र” [ ऋ०सं०म०३।सू०४७।ऋ०१ ] इति चतुर्थम्। सोऽयमधिको विस्तारः।
तत ऊर्ध्वं प्राकृतेनैव सूक्तेन शस्त्रस्य समाप्तिं दर्शयति—
जनिष्ठा उग्रः सहसे तुरायेति मरुत्वतीयम्, इति।
यथा प्रकृतौ “जनिष्ठाः” [ ऋ० सं० म० १० सू० ७३ ऋ० १ ] इत्यनेन सूक्तेन शस्त्रं समापितं तथाऽत्रापि तेनैव मरुत्वतीयं शस्त्रं समापनीयम्।
तत्समाप्तेरूर्ध्वं होतृकर्तृकं होमं विधत्ते—
संस्थिते मरुत्वतीये होता विसंस्थितसंचरेण निष्क्रम्याऽऽ-
ग्नीध्रीये तिस्र आज्याहुतीर्जुहोत्यौदुम्बरेण स्रुवेण, इति।
संस्थिते समाप्ते। सम्यक्चरन्त्यनेनेति संचरो मार्गः। स च द्विविधः, संस्थितसंचरो विसंस्थितसंचरश्चेति । सवने समाप्ते सदसः पश्चिमद्वारेण निर्गच्छति सोऽयं संस्थितसंचरः। असमाप्ते तु प्राग्द्वारेण [ निर्गच्छति ] सोऽयं विसंस्थितसंचरः। तेन निष्क्रम्योदङ्मुखो गत्वाऽऽग्नीध्रीये धिष्ण्ये जुहुयात्।
तत्र प्रथमाहुतेर्मन्त्रमाह—
अनु मामिन्द्रो अनु मां बृहस्पतिरनु सोमो अनु वाग्देव्यावीत्।
अनु मां मित्रावरुणाविहावतामनु द्यावापृथिवी पूर्वहूतौ, इति।
इन्द्रो देव इह कर्मणि मामनुगम्याऽऽवीत्, अवतु । एवं बृहस्पतिसोमसरस्वतीमित्रावरुणद्यावापृथिव्यो मामवन्तु। पूर्वहूतौ *तदेतस्मिन्मित्रावरुणयोर्विशेषणम्। यद्वा लिङ्गव्यत्ययेन द्यावापृथिव्योर्विशेषणम्।
द्वितीयाहुतेर्मन्त्रमाह—
आदित्या मा विश्वे अवन्तु देवाः सप्त राजानो
य उदाभिषिक्ताः। वायुः पूषा वरुणः सोमो
अग्निः सूर्यो नक्षत्रैरवत्विह माऽनु , इति ॥
जनिष्ठा उग्रः०—ऋ० सं० म० १० सू० ७३ ऋ० १ ।
* एतस्मिन्मन्त्रोक्तदेवतासमूहे।
३१
तृतीयाहुतेर्मन्त्रमाह—
२४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रpath/प्रपाठकारण्यके-
अदितेः पुत्रा आदित्यास्ते चाष्टसंख्याकाः। "अष्टौ पुत्रासो अदितेः" [ऋ०सं० म० १० सू० ७२ ऋ० ८] [तै० आ० प्र० १ अ० १३] इति श्रुत्यन्तरात्। तदनुक्रमणं च तत्रैवाऽऽम्नायते—"ताननुक्रमिष्यामः। मित्रश्च वरुणश्च। धाता चार्यमा च। अंशश्च भगश्च। इन्द्रश्च विवस्वाँश्चैत्येते" [तै०आ०प्र०१अ०१३] इति। त एव विश्वे सर्वेऽपि देवा मामवन्तु॑। य उदये चान्ये द्युलोकप्रकाशनार्थमभिषिक्ताः सप्तसंख्याका आरोगादिनामका राजानः सन्ति तेऽपि मामवन्तु। आरोगादयोऽपि श्रुत्यन्तरे समाम्नाताः—"आरोगो भ्राजः पटरः पतङ्गः। स्वर्णरो ज्योतिषीमान्विभासः। ते अस्मै सर्वे दिवमातपन्ति" [तै० आ० प्र० १ अ० ७] इति। तथा वायुरिह कर्मणि मामनुगम्यावतु। एवं पूषादिष्वपि योजनीयम्।
तृतीयाहुतेर्मन्त्रमाह— पितरो मा विश्वमिदं च भूतं पृश्निमातरो मरुतः स्वर्काः। ये अग्निजिह्वा उत वा यजत्रास्ते नो देवाः सुहवाः शर्म यच्छतेति, इति।
ये पितरोऽग्निष्वात्तादयस्ते मामवन्त्विति शेषः। न केवलं मामेव, किं त्विदं विश्वं प्राणिजातं चावन्तु। पृश्निर्माता येषां मरुतां ते पृश्निमातरः। तथा च मारुतसूक्ते समाम्नातम्—"पृश्नेः पुत्रा उपमासो रभिष्ठाः" [ऋ० सं० म० ५ सू० ५८ ऋ० ९] इति। तथा ब्राह्मणान्तरम्—"पृश्निर्यै वैवै यशो मरुतो हुताः" (?) इति। पृश्निर्गोमूर्तिर्देवता। तदप्यन्यत्राऽऽम्नातम्—"अङ्गिरसो वै सत्रमासत। तेषां पृश्निर्घर्मधुगासीत्" इति। ते च मरुतः स्वर्काः सुष्ठ्वर्चनीयाः। ते हि प्रियंगुचर्वादिभिरर्च्यन्ते। पृश्नये दुग्धे प्रैयंगवं चरुं निर्वपेन्मरुद्भ्यः" इति श्रुतेः। तादृशा मरुतो मामवन्तु। अग्निरेव जिह्वा येषां तेऽग्निजिह्वाः। अग्नौ हुतं हविर्भक्षयन्तीत्यर्थः। तादृशा देवा ये सन्ति। उत वाऽपि चेत्यर्थः। यजत्रा यजनीयाः पीठादौ गन्धपुष्पादिभिरभ्यर्चनीयाः। समर्पितं नैवेद्यं भक्षयन्ति, तादृशाश्च ये सन्तिँ। उभयविधा अपि देवा अन्यत्र स्पष्टमाम्नायन्ते—"हुतादो वा अन्ये देवा अहुतादोऽन्ये" इति। तादृशा देवा यूयं सुहवाः सुखनाऽऽह्वातुं शक्याः सन्तो नोऽस्मभ्यं शर्म सुखं यच्छत। इतिशब्दो मन्त्रत्रयसमाप्त्यर्थः।
होमान्तरं विधत्ते— दक्षिणे मार्जालीये दश स्रुच्युत्तमां चतुर्गृहीतं पूर्वमवदायाोत्तरतोऽग्नेरुपनिधाय विहरणप्रभृति मध्यं-
१ क. ख. घ. ङ. एव ते विं। २ क. ख ०न्तु। उं। ३ घ. ०श्रियेनैष। ४ ङ. ०र्यैनैव। ५ क. ख. ०ष पशो। ६ ग. ०तोद्वातेति। ७ ग. ०न्ति। त उं।
अध्या० १ ख० १] ऐतरेयारण्यकम् । २४३
दिने मार्जालीयो जागरितो भवति तस्मिन्परिवृते
जुहोति प्राग्द्वारे वोदग्द्वारे वा प्रागुदग्द्वारे वा, इति।
सदोहविर्धानयोर्मध्ये योऽयं दक्षिणोत्तरायतः संचरस्तस्योत्तरभागे यथाऽऽग्नीध्रीयो धिष्ण्यस्तथा दक्षिणभागे मार्जालीयनामको धिष्ण्यः। तस्मिन्दशसंख्याका आज्याहुतीर्जुहोतीत्यनुवर्तते। तत्रायं प्रयोगप्रकारः। उत्तमां दशमामाहुतिमुद्दिश्य स्रुचि जुह्वां चतुर्गृहीतमाज्यं प्रथममवदाय तदाज्यविशिष्टां तां स्रुचं मार्जालीयस्याग्नेरुत्तरभागे स्थापयित्वा दशमाहुतेः पूर्वभाविनीर्नवाऽऽहुतीः स्रुवेण तस्मिन्मार्जालीये जुहुयात्। स च मार्जालीयः परिवृतः परितः कटादिभिराच्छादितो भवति। तत्र होमार्थं प्रवेशद्वारं प्राच्यामुदीच्यामैशान्यां वेति त्रेधा विकल्पितम्। यद्यप्येतद्धोमकालात्पूर्वं मार्जालीये विहृतस्याग्नेश्चिरकालं व्यवधानमस्ति तथाऽपि माध्यंदिने सवने विहरणकालमारभ्य मार्जालीयधिष्ण्यगतोऽग्निर्यथा न शाम्यति तथा जागरितः काष्ठप्रक्षेपेण पुनः पुनः प्रज्वलितो भवति।
तस्मिन्होमे प्रथममन्त्रमाह—
अग्निरिवानावृष्यः पृथिवीव सुपदा भूयासम्, इति ।
यथाऽग्निरुग्रत्वान्न केनापि तिरस्कर्तुं शक्य एवमहमप्यतिरस्कार्यो भूयासम्। यथा च पृथिवी सुष्ठु स्थैर्येणावतिष्ठत एवमहमपि भूयासम्। शोभनं सदोऽवस्थानं यस्य मम सोऽहं सुपदाः।
द्वितीयं मन्त्रमाह—
अन्तरिक्षमिवानाप्यं द्यौरिवानाधृष्यो भूयासम्, इति ।
यथाऽन्तरिक्षं पादचारिणा विरोधिना शत्रुना प्राप्तुं न शक्यं यथा च द्युलोको मानुषेण शत्रुना तिरस्कर्तुमशक्य एवमहमपि शत्रुभिरप्राप्तोऽनाधृष्यश्च भूयासम्।
तृतीयं मन्त्रमाह—
सूर्य इवाप्रतिधृष्यश्चन्द्रमा इव पुनर्भूभूयासम्, इति ।
यथा सूर्यः स्वस्मादप्यधिकस्य तेजस्विनः प्रतिकूलस्याभावादतिरस्कार्यो यथा वा चन्द्रमाः कृष्णपक्षे क्षीणोऽपि शुक्लपक्षे पुनः प्रादुर्भवति एवमहमपि तैरतिरस्कार्य एव भूयासम्। केनापि निमित्तेन कदाचित्सत्यपि तिरस्कारे तत्परिहारेण पुनरप्यूर्जितो भूयासम्।
१ ग. घ. ङ. 'धिष्ण्यस्त' । २ क. ख. घ. ङ. 'लीयो धि' । ३ ग. घ. ङ. धिष्णियः । ४ ग. आहुं । ५ ग. घ. ङ. 'तीर्होतेत्य' । ६ घ. ङ. 'च्यामीशा' । ७ ग. घ. ङ. 'लीये धिष्ण्ये ग' । ८ क. ख. 'स्कारो य' ।
चतुर्थं मन्त्रमाह—
२४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५प्रपाठकारण्यके-
चतुर्थं मन्त्रमाह— मन इवापूर्वं वायुरिव श्लोकभूयासम् , इति । यथा मन उत्तरोत्तरमभिवृद्धिकाङ्क्षया प्रयतमानं सत्तत्फलप्राप्त्या नूतनं रूपं प्रतिपद्यते, एवमहमप्युत्तरोत्तराभिवृद्ध्या नूतनो भूयासम् । श्लोकः संघः । यथा वायुराषाढादिमासे समुद्रतीरादिदेशे वा स्वयमुत्तरोत्तराभिवृद्ध्या संघरूपो भवति, एवमहमपि पुत्रपौत्रादिसंघरूपेणोत्पन्नो भूयासम् ।
पञ्चमं मन्त्रमाह— अहरिव स्वं रात्रिरिव प्रियो भूयासम् , इति । अहर्यथा प्रकाशेनान्धकारं निवर्त्य वाणिज्यसेवादिना स्वं धनं संपादयति, एवमहमपि धनसंपादको भूयासम् । यथा च रात्रिर्विश्रामादिसुखहेतुतया प्रिया, एवमहमपि सर्वेषां प्रियो भूयासम् ।
षष्ठं मन्त्रमाह— गाव इव पुनर्भुवो मिथुनमिव मरीचयो भूयासम्, इति । यथा गावः संवत्सरे संवत्सरे वत्सरूपेण पुनरुत्पत्तिमन्त्य एवमहमपि पुत्रादिरूपेण पुनः पुनर्भूयासम्। यथा चोमामहेश्वरलक्ष्मीनारायणादिमिथुनं तेजस्वित्वेन प्रसिद्धमेवमहमपि मरीचयो मरीचिमांस्तेजस्वी भूयासम् ।
सप्तमं मन्त्रमाह— आप इव रस ओषधय इव रूपं भूयासम्, इति । आपो यथा रसवत्य एवमहं रसो मधुराम्लादिरससंपन्नो भूयासम् । ओषधयो यथा पक्काः सत्यो रमणीयरूपयुक्ता दृश्यन्ते, एवमहमपि रूपं पुष्टिकान्त्यादिरमणीयरूपयुक्तो भूयासम् ।
अष्टमं मन्त्रमाह— अन्नमिव विभु यज्ञ इव प्रभूभूयासम् , इति । अन्नं यथा भक्ष्यभोज्यलेह्यचोष्यरूपेण विविधं भवति, एवमहमपि विभुर्धनविद्यासंपत्त्या विविधो भूयासम् । यथा यज्ञो ज्योतिष्टोमादिः स्वर्गादिफलप्रदाने समर्थ एवमहमपि प्रभूः पुत्रपौत्रभृत्यादिपोषणे समर्थो भूयासम् ।
नवमं मन्त्रमाह— ब्रह्मेव लोके क्षत्रमिव श्रियां भूयासम् , इति । यथा ब्रह्म ब्राह्मणो लोके श्रेष्ठ एवमहमपि श्रेष्ठो भूयासम् । यथा क्षत्रं राज्यं गजाश्वादिश्रियामधिपतिः, एवमहमपि सर्वसंपदामधिपतिर्भूयासम् ।
अध्या० १ ख० १] ऐतरेयारण्यकम्। २४५
अथ स्रुचि चतुर्गृहीतेनाऽऽज्येन होतृमन्त्रस्य प्रतीकं दर्शयति— यदङ्ग एषा समितिर्भवातीति, इति। सोऽयं मन्त्रः संहिताग्रन्थे द्रष्टव्यः। इतिशब्दो दशाहुतिमन्त्रसमाप्त्यर्थः। अस्मिन्दशमे मन्त्रे शाखान्तरगतस्य पाठस्यानुपादेयतां दर्शयति— अत्र विभजाथ वीथेति त्रीण्यननृचम्, इति। "यदङ्ग एषा" [ऋ० सं० म० १० सू० ११ ऋ० ८] इत्यस्यामृचि त्रीणि पदानि शाखान्तरेऽन्यथा पठितानि। तान्यननृचमृगमनुसारिणी न भवन्ति। कानि तानि पदानीत्याशङ्क्य प्रदर्श्यन्ते—अत्रेत्येकं विभजायेति द्वितीयं वीथेति तृतीयम्। तस्यामृचि "रत्ना च यद्विभजासि स्वधावः" इति तृतीयः पादः, तस्य चायमर्थः—हे स्वधावोऽन्नवन्नग्ने रत्ना च यद्रत्नान्यपि यानि विभजासि पृथक्क्रोर्षीति। तस्मिन्पादे रत्नानामनुवादद्योतनाय यच्छब्दोऽपेक्षितः। अग्नेरेकस्य संबोध्यमानत्वाद्विभजासीत्येकवचनमपेक्षितम्, अतस्तदुभयमृगनुसारि। शाखान्तरे तु तदुभयं परित्यज्यात्र विभजायेति पदद्वयं पठितम्। तद्वयमृगमनुसारि न भवति, यथोक्तानुवादाभावात्, बहुवचनान्वितत्वाच्च। तथा चतुर्थपाद एवमाम्नायते—"भागं नो अत्र वसुमन्तं वीतात्" इति। तस्यायमर्थः—हेऽग्नेऽत्रास्मिन्कर्मणि नोऽस्माकं वसुमन्तं भागं बहुधनोपेतं भागं वीताद्विशेषेण प्राप्नुहि संपाद्येति। तस्मिन्नपि पादे शाखान्तरीया वीथेति पठन्ति, तदपि पूर्ववदयुक्तम्। सन्ति हि मे(वे)दे तत्र तत्र शाखान्तरपाठदूषणानि बहूनि। तथाहि—"बृहस्पतिर्नो हविषा वृधातु" इत्यस्मिन्मन्त्रे हविषा विधेरिति शाखान्तरपाठः। स च यज्ञे नैष्फल्येन दुष्ट इत्यभिप्रेत्य ब्राह्मणे समाम्नायते—"यद्ब्रूयाद्विधेरिति यज्ञस्थाणुमृच्छेद्वृधात्वित्याह यज्ञस्थाणुमेव परिवृणक्ति" इति। एवं "यदद्भूयोत्सूँपावसानै" इत्यादिकमुदाहार्यम्।
मार्जलीयहोमादूर्ध्वमुपस्थानं विधत्ते— अत्र तिष्ठन्नादित्यमुपतिष्ठते पर्यावृत्ते प्रदक्षिणमावृत्यै- तैश्रैवास्वाहाकारैरैन्नेवा३ इदं मधू३ इदं मधु। इमं तीव्रसुतं पिबा३ इदं मधू३ इदं मध्विति च, इति। अत्र मार्जालीयस्य समीपे तिष्ठन्प्राङ्मुख आदित्यमुपतिष्ठेत। यदा त्वादित्यः पश्चिमायां दिशि पर्यावृत्तस्तदा स्वयमपि प्रदक्षिणं यथा भवति तथा पर्यावृत्य पश्चि-
यदङ्ग एषा०—ऋ० सं० म० १० सू० ११ ऋ० ८।
१ क. ख. ॰न्तरे वी॰। २ ग. ॰यात्सुखाव॰। ३ ङ. ॰त्सूयाव॰। ४ क. ख. घ. ङ. ॰नेया॰।
५ ग. घ. ङ. ॰यस॰।
२४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
माभिमुख एतैः पूर्वोक्तैः “अग्निरिवानाधृष्यः” इत्यादिभिर्दशभिर्मन्त्रैर्होमार्थापादित- स्वाहाकाररहितैरुपतिष्ठेत । प्राङ्मुखोपस्थानेऽप्येत एव मन्त्राः । वक्ष्यमाणमन्त्रान्त- रेण सह समुच्चयार्थश्चकारः । तच्च मन्त्रान्तरम्- “एह्येव” इत्यादिकम् । हे आदि- त्यैह्येवास्मान्प्रति सर्वथैवाऽऽगच्छ । दूरादाह्वानार्था प्लुतिः । आगमनप्रयोजनमुच्यते- इदमस्माभिर्दीयमानं हविर्मधु मधुरम् । प्लुतिर्द्विरुक्तिश्चेत्युभयमादरार्थम् । तदेव हविः पुनर्विशेषाकारेण निर्दिश्यते-इमं पुरतो वर्तमानं तीव्रसुतं तीव्रेण बहुमन्त्रसूक्तप्रयो- गेणाभिषुतं सोमरसं पिव । प्लुतिः पूर्ववाक्यावृत्तिश्चेत्येतदत्यन्तमादरार्थम् । इति- शब्दो मन्त्रसमाप्त्यर्थः । चशब्दः पूर्वमन्त्रैः सह समुच्चयार्थः ।
आदित्योपस्थानादूर्ध्वं दासीविषयं प्रैषं विधत्ते-
प्रेष्याः संशास्ति पूर्णकुम्भास्तिस्रोऽवमाः षडुत्तमाः, इति ।
वक्ष्यमाणकर्मार्थं या दास्यः प्रेषणीयास्ता दासीः प्रेषयेत् । ताश्च दास्य उदकपूर्ण- कुम्भयुक्ता भवन्ति । तासां दासीनां त्रित्वमधमः पक्षः । षट्संख्योत्तमः पक्षः ।
तासां प्रेषणे मन्त्रमाह-
इमं धिष्ण्यमुदकुंभं च त्रिः प्रदक्षिणं परि-
व्रजाथ दक्षिणैः पाणिभिर्दक्षिणानूरूनाघ्नाना
एह्येवा३ इदं मधू३ इदं मध्विति वदत्यः ।
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये
प्रथमः खण्डः ॥ १ ॥
अथ द्वितीयः खण्डः ।
उपाकृते स्तोत्रे त्रैधं निनयाथात्रोत्तरे
च मार्जालीये शेषमन्तर्वेदि, इति ।
हे दास्य इमं मार्जालीयाख्यं धिष्ण्यं तत्र स्थापितमेकमुदकुम्भं च त्रिवारं प्रद- क्षिणी कुरुत । किं कुर्वत्यः, प्रदक्षिणीकरणकाले स्वस्वशिरस्यवस्थितानुदकुम्भान्वाम- हस्तैरवष्टभ्य दक्षिणैः पाणिभिः स्वकीयानूरूंस्ताडयन्त्यः । पुनरपि किं कुर्वत्यः, तस्मिन्काल एहीत्यादिमन्त्रभागं वदत्यः पठन्त्यः । अयं च भागो होतुरादित्योपस्थाने व्याख्यातः । अयं चोक्तो मन्त्रार्थरूपः प्रयोगस्तैत्तिरीयैर्विस्पष्टमाम्नातः-“उदकुम्भा- नधिनिधाय दास्यो मार्जालीयं परिनृत्यन्ति पदो निघ्नतीरिदं मधु गायन्त्यः” इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
१ क. ख. 'मार्थे या । २ क. ख. 'घ्नन्तीरि' ।
अध्या०१।ख०२] ऐतरेयारण्यकम् । २४७
' हे दास्यो यूयमेतावत्कृत्वा तत ऊर्ध्वमध्वर्युणा सामगानप्रति स्तोत्रेऽनुज्ञापिते सति स्वस्वकुम्भस्थितमुदकं त्रेधा विभज्य प्रदेशत्रये सिञ्चत । अयं दक्षिणो मार्जालीय एकः प्रदेशः । उत्तरो मार्जालीयो द्वितीयः प्रदेशः । उत्तरमार्जालीयो नामाऽऽग्नीध्रीयो धिष्ण्यः । तत्रोभयत्र सिक्तस्योदकस्यावशिष्टं मार्गं वेदिमध्ये सिञ्चत । इतिशब्द इमं धिष्ण्यमित्यादिमन्त्रसमाप्त्यर्थः । अनेन मन्त्रेण दासीः प्रेषितवतो होतुरुत्तरवेदिस्थानी- यस्य चित्याग्नेरवयवोपस्थानं विधातव्यम् ।
तत्र शिरस उपस्थानं विधत्ते—
प्रदक्षिणमग्निं निष्क्रम्याग्रेण यूपं पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्नग्नेः शिर उपतिष्ठते नमस्ते गायत्राय यत्ते शिर इति, इति ।
मार्जालीयमग्निं प्रदक्षिणं कुर्वन्निष्क्रम्याग्निश्चित्यां दक्षिणेन गत्वा यूपस्य पूर्व- भागे चित्याग्नेः पुरस्तात्स्वयं प्रत्यङ्मुखस्तिष्ठन्नमस्त इत्यादिमन्त्रेण तस्याग्नेः शिरो- भागमुपतिष्ठेत । हेऽग्ने ते तव गायत्रं साम शिरोरूपेण वर्तते तस्मै गायत्ररूपाय शिरसे त्वदीयाय नमोऽस्तु । गायत्रसाम्नः शिरोरूपत्वमध्वर्युणा तदुपस्थानादवगन्त- व्यम् । तथा चान्यत्राऽऽम्नायते—‘‘गायत्रेण पुरस्तादुपतिष्ठते’’ इति । नमस्त इत्या- दिमन्त्रसमाप्त्यर्थ इतिशब्दः ।
दक्षिणपक्षस्योपस्थानं विधत्ते—
तेनैव यथेतं प्रत्येत्य दक्षिणमुदङ्मुखः पक्षं नमस्ते राथंतराय यस्ते दक्षिणः पक्ष इति, इति ।
येन मार्गेण पूर्वस्यां दिशि गतस्तेनैव मार्गेण प्रतिनिवृत्य दक्षिणस्यां दिशि स्वयमुद- ङ्मुखस्तिष्ठंश्चित्याग्नेर्दक्षिणं पक्षं मन्त्रेणोपतिष्ठेत । तेनैवेत्यस्य व्याख्यानं यथेतमिति, यथाऽऽगतं तथैवेत्यर्थः । दक्षिणपक्षस्य रथंतरसामसंबन्धोऽध्वर्यूपस्थानादवगन्तव्यः । तथा च तदुपस्थानमाम्नातम्—‘‘बृहद्रथंतराभ्यां पक्षौ’’ इति ।
उत्तरपक्षस्योपस्थानं विधत्ते—
अपरेणाग्निपुच्छमतिक्रम्य प्राङ्मुख उत्तरं नमस्ते बृहते यस्त उत्तरः पक्ष इति, इति ।
पश्चिमदिगवस्थितं यदग्निपुच्छं तस्य पश्चिमभागेन तत्पुच्छमतिक्रम्योत्तरपक्षस्य पश्चिमायां दिशि प्राङ्मुखोऽवस्थायात्तरं पक्षं मन्त्रेणोपतिष्ठेत । तस्य पक्षस्य बृह- त्सामरूपत्वं पूर्ववद्द्रष्टव्यम् ।
१ ख. ग. घ. ङ. °र्युणाऽसा° । २ क. ख. °त्तरमा' । ३ क. ख. ग. °क्षिण ।
२४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
पुच्छस्योपस्थानं विधत्ते— पश्चात्माङ्पुच्छं नमस्ते भद्राय यत्ते पुच्छं या ते प्रतिष्ठेति, इति । चित्याग्नेः पश्चिमदिशि प्राङ्मुखोऽवस्थाय मन्त्रेण पुच्छमुपतिष्ठेत । भद्रसाम्नः पुच्छरूपत्वमुपनिषदि पञ्चविधोपासनायामनुक्रमणादवगम्यते । तत्र पञ्चावयवा एवमनुक्रम्यन्ते—"गायत्रं रथंतरं बृहद्भद्रं राजनमिति सामतः” [ ऐ० आ० २ अ० ३ ख० ४ ] इति । “शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्” [ ऐ० आ० २ अ० ३ ख० ४ ] इति [च] । यत्ते पुच्छं या ते प्रतिष्ठेति पुच्छस्यैव प्रतिष्ठात्वमुक्तम् । प्रतितिष्ठत्यवयवसंपूर्तिर्भवत्यनयेति प्रतिष्ठा ॥
चित्याग्नेर्मध्यशरीरस्योपस्थानं विधत्ते— दक्षिणतः पुच्छस्याऽऽत्मानं नमस्ते राजनाय यस्त आत्मेति, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
पुच्छस्य दक्षिणभागे प्राङ्मुखः स्थित्वा मध्यदेहमुपतिष्ठेत । आत्मशब्दो मध्यदेहभागं ब्रूते । “मध्यं ह्येषामङ्गानामात्मा ” [ ऐ० आ० २ अ० ३ ख० ५ ] इति श्रुतेः । राजनसाम्नो मध्यदेहरूपत्वं पूर्ववद्द्रष्टव्यम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
अथ तृतीयः खण्डः ।
चित्याग्न्युपस्थानानन्तरं होतुः सदःप्रवेशं विधत्ते— यथेतं सदः प्रसर्पति, इति । पूर्वं चित्याग्निसमीपे मार्जालीयाद्येन प्रकारेण गतं तस्मिन्नेव मार्गे प्रत्यावृत्य मार्जालीयं वामभागेऽवस्थाप्य सदः प्रविशेत् ।
दोलाकल्पनं विधत्ते— पुरस्तात्प्रेङ्ख उपकॢप्तो भवति, इति । होतुः सदःप्रवेशात्पूर्वस्मिन्नेव काले प्रेङ्खो दोलाऽध्वर्युभिः संपादनीया भवति ।
दोलासाधनानां स्थूणादीनां सदस्यानयनं विधत्ते— स्थूणे रज्जू वीवध इत्येतत्प्रक्षाल्य तीर्थेन
१ ग. घ. ङ. मार्गे ।
अध्या० १ ख० ३] ऐतरेयारण्यकम् । २४९
प्रपाद्योत्तरेणाऽऽग्नीध्रीयं परिव्रज्य पूर्वया द्वारा सदः सर्वान्धिष्ण्यानुत्तरेण, इति । स्थूणे द्वौ स्तम्भौ, रज्जुद्वयं फलकबन्धनक्षमं, वीवधः स्तम्भयोरुपरि तिर्यगव- स्थापनीयः काष्ठविशेषः, एतत्रितयं मलापनयाय प्रक्षाल्य तीर्थशब्दवाच्येन मार्गेण नयेत् । उत्करचात्वालयोर्मध्यदेशस्तीर्थम् " एतत्तीर्थमित्याचक्षते " इति परिभाषि- तत्वात् । तत आग्नीध्रीयधिष्ण्यवामभागेऽवस्थाप्योत्तरभागे तत्सर्वमानीय पूर्वद्वारेण सदः प्रवेश्य सदसो मध्ये सर्वान्धिष्ण्यान्वामभागे कृत्वा तेषामुत्तरदेशेनोऽऽनीय होत्री- यधिष्ण्यस्य पश्चाद्भागेऽवस्थापयेत् । तत्र काष्ठानां वृक्षविशेषं विधत्ते- औदुम्बराणि काष्ठानि प्रेङ्खस्य भवन्ति पालाशानि मिश्राणि वा, इति । स्पष्टोऽर्थः । दोलायां होतुरारोहणाय फलकानि विधत्ते- त्रीणि फलकान्युभयतस्तष्टानि द्वे वा सूच्यश्च तावत्यः, इति । अधस्तादुपरिष्टाच्च फलकानां सम्यक्तक्षणं कर्तव्यम् । तानि फलकानि त्रीणीत्येकः पक्षः । द्वे इति पक्षान्तरम् । सूच्यः फलकसंधानहेतवः सूक्ष्माग्राः काष्ठविशेषाः । ताश्च फलकवत्तिस्रो द्वे वा । फलकसंधानेन निष्पन्नस्य स्वरूपं विशदयति- इषुमात्रः प्राङ्प्रेङ्खो निमुष्टिकस्तिर्यङ्गुदगग्रः प्रागग्राभ्यां सूचीभ्यां समुतः, इति । प्रेङ्खस्य [ प्राङ् ] प्राक्पश्चिमविस्तारो बाणमात्रः । तिर्यङ्दक्षिणोत्तरविस्तारो निमुष्टिको मुष्टिन्यूनबाणमात्रः । स च प्रेङ्ख उदगग्रो दक्षिणमूलः स्थापनीयः । स च प्रागग्राभ्यां सूचीशब्दाभिधेयाभ्यां फलकसंधानहेतुभ्यां समुतः संयुक्तः कार्यः । दोलायाः स्थापनप्रकारं विधत्ते- दक्षिणोत्तरे स्थूणे निखायाभितो होतृषदनं वीवधमत्यादधात्यास्यसंमितं कर्तुः, इति । होता सीदति यस्मिन्धिष्ण्ये स्थाने तद्धोतृषदनं तस्य दक्षिणोत्तरयोः स्तम्भद्वयं निखनेत् । तयोः स्तम्भयोरुपरि चतुररत्निमात्रं वीवधनामकं तिर्यक्काष्ठं स्थापयेत् । तच्च काष्ठं कर्तुर्यजमानस्योत्थितस्य मुखसंमितं यथा भवति तथा स्तम्भस्य निखातभा- गादूर्ध्वं यजमानमुखपरिमितै स्तम्भाग्रे स्थापयेत् ।
१ घ. ङ. ॰नामीय' ।
३२
२५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रपाठकारण्यके-
तत्र फलकबन्धनप्रकारं दर्शयति-
कुष्ठासु च्छिद्राणि प्रेङ्खस्य भवन्ति रज्जूभ्यामूर्ध्वमुद्दयति
दक्षिणतो दक्षिणयोत्तरतः सव्यया दार्भ्यौ त्रिगुणे
स्यातां सव्यदक्षिणे पञ्चव्यायामे द्विगुणे वीवधे त्रिः
प्रदक्षिणं पर्यस्योर्ध्वग्रन्थि निष्पर्क्यं बध्नाति, इति ।
कुष्ठाः फलकस्य चत्वारः कोणविशेषाः । प्रेङ्खस्य फलकस्य तेषु चतुर्षु कोणेषु च्छिद्राणि कुर्यात् । दक्षिणच्छिद्रद्वयो रज्जवा द्विगुणीकृताया एकस्या अग्रद्वयं स्यूत्वा तां रज्जुमूर्ध्वमुन्नमयेत् । एवमुत्तरच्छिद्रद्वये रज्ज्वन्तरं द्रष्टव्यम् । तत्र दक्षिणरज्जुः प्रदक्षिणावृत्कार्या । उत्तररज्जुः सव्यावृत्कार्या । ते च रज्जू दर्भमय्यौ त्रैगुण्ययुक्ते सव्यदक्षिणावृतौ *पञ्चव्यायामदीर्घे कृत्वा द्विगुणे यथा भवति तथा बध्नीयात् । पञ्चव्यायामा रज्जुर्द्विगुणीकृता सार्धद्वियामा भवति । तस्याश्च मध्यभागे बाणमात्रं फलकस्याधस्तादुपक्षेप॑णम् । अवशिष्टोऽशश्छिद्रद्वयादूर्ध्वमुन्नीतं उपरितने वीवधे तदग्रमेकैकं त्रिः प्रदक्षिणीकृत्याग्रद्वयेन संयुक्तेनोर्ध्वग्रन्थिः कर्तव्यः । स च निष्पर्क्यः । शिखाबन्धनवत्सहसा मोचितुं( मोचयितुं ) शक्यत्वं निष्पर्क्यत्वम् ।
निखातयोः स्तम्भयोर्दृढीकरणं विधत्ते—
शाखाभिर्वृसीभिर्वा पर्युपन्त्यप्रकम्पि, इति ।
यथा स्तम्भस्य कम्पनो न भवति तथा पर्युपन्ति स्तम्भमूलस्य परितस्तस्मिन्नवटे पांसुं प्रक्षिपन्ति । हस्तेन प्रक्षेपणं न कर्तव्यं किं तु वृक्षशाखाभिर्वृसीभिर्वा पांसून्यूहेत् । तपस्विनामासनार्थं तृणवल्लीतालपत्रवेणुदलादिभिर्निर्मिता अल्पकटविशेषा वृस्यः ।
फलकंभूम्योर्मध्ये व्यवधानप्रमाणं दर्शयति—
चतुरङ्गुलेनैष विभूमः प्रेङ्खः स्यान्मुष्टिमात्रेण वा, इति ।
भूमेर्विशिष्टो विभूमोऽङ्गुलिचतुष्टयमित्येकः पक्षः । तस्योपर्यूर्ध्वाङ्गुष्ठयुक्ता मुष्टिर्भवति तावद्व्यवधानमित्यपरः पक्षः ।
दक्षिणभागे फलकस्योन्नत्यं विकल्पेन विधत्ते—
दक्षिणत उदाहिततरः समो वा, इति ।
* 'पञ्चव्यायामे' इत्यस्य व्याख्यानमेतत् ।
१ ग. घ. ङ. ॑क्षीणाम् । २ क. ख. ॑भिर्वा बृसी॑ । ३ घ. ङ. ॑कवृस्योर्म॑ ।
अध्या० १।ख० ४] ऐतरेयारण्यकम् । २५१
' होतुर्धिष्ण्यस्य पश्चाद्भागे लम्बमानस्य फलकस्य च व्यवधाने प्रमाणं दर्शयति— पदमात्रे धिष्ण्यात्, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥ धिष्ण्यात्पश्चिमभागे पदमात्रे फलकमवतिष्ठत इति शेषः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥
अथ चतुर्थः खण्डः ।
अथ होतुर्वाणधारणं विधत्ते— निष्ठिते प्रेङ्खे होता॑ वाणमौदुम्बरं शततन्तुमुभाभ्यां परिगृह्योत्तरत उपोहते यथा वीणाम्, इति । यथोक्तप्रकारेणाध्वर्युभिरुपकल्पिते कृते प्रेङ्खे समाप्ते सति ततो होता चित्याग्निप्र- देशादारभ्य सदः प्रविश्य पश्चादासीन औदुम्बरं शततन्तुं वाणमुभाभ्यां हस्ताभ्या- मादायोत्तरपार्श्वे वीणावद्धारयेत् । यथा लोके काण्डवीणा द्वित्रादितन्तुयुक्ता तथा विस्तृतफलकैःसंपादिता शततन्तुबन्धनपर्याप्ता महती वीणा वाणशब्देनोच्यते । वामभागे धारितस्य बा(वा)णस्य मन्त्रैः स्वरस्थानकल्पनं विधत्ते— सप्तभिश्चन्दोभिश्चतुरुत्तरैः स्थाना- न्यस्योध्वर्मुद्गृह्णीयाद्दशभिर्वा, इति । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुब्जगत्यः सप्त च्छन्दांसि । विराड्द्विपदाऽति- च्छन्दः किंचिदन्यच्छन्दोन्तरमित्येतानि चत्वार्युत्तराणि च्छन्दांसि । तथाविधच्छन्दः- प्रतिपादकैर्मन्त्रैर्बा(वा)णस्याधोभागमारभ्योत्तरोत्तरमूर्ध्वं स्वरस्थानानि केनचिल्लाञ्छने- नोपकल्पयेत् । अन्तिमच्छन्दोन्तरपरित्यागेन दशभिर्वेति पक्षान्तरम् । इदानीं क्रमेण च्छन्दोमन्त्रानाह— गायत्रेण त्वा छन्दसोद्द्हाम्यौष्णिहेन ॰त्वाऽऽनुष्टुभेन त्वा बार्हतेन त्वा पाङ्क्तेन त्वा त्रैष्टुभेन त्वा जागतेन त्वा वैराजेन त्वा द्वैपदेन त्वाऽतिच्छन्दसा त्वेति, इति । हे बा(वा)ण त्वां गायत्राख्येन(ण) च्छन्दसोद्द्हामि परिज्ञातस्वरस्थानविशेषयुक्तं
१ क. ग. घ. ङ. ॰तुर्वाण॰ । २ क. घ. ञ. ॰ता वाण॰ । ३ क. ख. घ. ङ. ॰न्तुं बाण॰ । ख. ग. घ. ङ. ॰लसं॰ । ५ क. ख. ॰णा वाण॰ ।
२६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
करोमि। एवमुत्तरेष्वपि मन्त्रेषु च्छन्दसोदूहामित्येतं भागमनुषज्य योजनीयम्। इति- शब्दो मन्त्रसमाप्त्यर्थः।
ध्वन्युत्पादनाय तन्तूनामुन्मार्जनं विधत्ते—
छन्दांस्यनुक्रम्य स्थानानामनुपरिक्रमण-
मौदुम्बर्याऽऽर्द्रेया शाखया सपलाशया
मूलदेशेन वाणं त्रिरूर्ध्वमुल्लिखति, इति।
यथोक्तच्छन्दोवाचकमन्त्राननुक्रमेण पठित्वा तैर्मन्त्रैः स्वरस्थानविशेषाणामनुक्रमेणो- पकल्पनं संपाद्य ततः पर्णयुक्तया कयाचिदार्द्रोदुम्बरशाखया तं वाणं त्रिवारमूर्ध्वमुन्मृ- ज्यात्। येयमुदुम्बरशाखा तस्या अग्रेणोन्मार्जनं न कुर्यात्किं तु मूलदेशेन कुर्यात्।
उन्मार्जनत्रयार्थं मन्त्रत्रयं दर्शयति—
प्राणाय त्वाऽपानाय त्वा व्यानाय त्वोल्लिखामीति, इति।
हे वाण त्वामस्मत्प्राणवृत्तिरक्षणार्थमुन्मृजामि। एवमुत्तरत्रापि पूर्वयोर्मन्त्रयोरुल्लि- खामीत्यनुषज्यते। इतिशब्द ईदृशे स्थाने सर्वत्र मन्त्रसमाप्त्यर्थः।
शाखान्तराभिमतं मन्त्रप्रयोगं निषेधति—
अन्येष्योऽपि कामेभ्यः पुनरपि न तूल्लिखामीति ब्रूयात्, इति।
शाखान्तरे हि प्राणादिरक्षार्थोल्लेखनादूर्ध्वं कामान्तरसिद्धयर्थं पुनरप्युल्लिखामीति मन्त्रप्रयोगोऽभ्युपगतः, तत्तु न कुर्यात्। प्राणादिमन्त्रत्रयेणैवाशेषकामानां सिद्धेः।
वाणस्य दानं विधत्ते—
अथैनं सशार्वं छन्दोगेभ्यः प्रयच्छति, इतिँ।
वाणदानादूर्ध्वं प्रेङ्खमारुरुक्षोर्होतुः प्रथमं मन्त्रैः प्रेङ्खस्य चालनं विधत्ते—
भूतेभ्यस्त्वेति पश्चार्धे फलके पाणी प्रतिष्ठापयति
प्राणमनु प्रेङ्खस्वेति प्राञ्चं प्रेङ्खं प्रणयति व्यानमन्वी-
ङ्खस्वेति तिर्यञ्चमपानमन्वीङ्खस्वेत्यभ्यात्मम्, इति।
असौ होता प्रेङ्खस्यापरफलके भूतेभ्यस्त्वेति पाणिद्वयं प्रतिष्ठापयति। हे प्रेङ्ख सर्वभूतोपकारार्थं त्वां पाणिभ्यां स्पृशामीति शेषः। ततः प्राणमनु प्रेङ्खस्वेति मन्त्रेण तं प्रेङ्खं पूर्वदिग्गमितत्वेन चालयेत्। हे प्रेङ्ख त्वमस्मदीयं प्राणमनुसृत्य प्रकर्षेण चलि- तो भव। यथा प्राणः पुरस्ताद्गच्छति तथा त्वमपि पूर्वस्यां दिशि गच्छेदित्यर्थः। ततो व्यानमन्वीङ्खस्वेति मन्त्रेण प्रेङ्खं तिर्यञ्चं दक्षिणोत्तरदिगनुसारेण चालयेत्। हे प्रेङ्ख
१ क. वाणं। २ ख. वाणं। घ. ङ. बाणं। ३ ख. ग. घ. वाण। ४ ख. ग. ङ. वाणस्य। ५ ख. ङ. ᵒति। वाणं। ६ घ. ङ. पूर्वादिगामिᵒ।
अध्या० १ ख० ४ ] ऐतरेयारण्यकम् । २५३
त्वमस्मदीयं व्यानमनुसृत्य दक्षिणोत्तरदिशोर्विशेषेण चलितो भव । ततोऽपानमन्वी- ङ्क्षस्वेति मन्त्रेण स्वात्माभिमुख्येन चालयेत् । हे प्रेङ्ख त्वमस्मदीयम्पानवायुमन्तःसंचा- रिणमनुसृत्यास्मदाभिमुख्येन चलितो भव ।
त्रिविधचालनादूर्ध्वं व्याहृतिजपं विधत्ते—
भूर्भुवः स्वरिति जपति, इति ।
प्रेङ्खस्य दार्ढ्यपरीक्षार्थं यदेतच्चालनत्रयं कृतं तेन पृथिव्यादिलोकत्रयं दृढं भवत्वित्यर्थः ।
जपादूर्ध्वं पुनरपि त्रेधा चालनं विधत्ते—
प्राणाय त्वेति प्राञ्चमेव व्यानाय त्वेति
तिर्यञ्चमपानाय त्वेत्यभ्यात्मम् , इति ।
हे प्रेङ्ख त्वामस्मदीयप्राणादित्रयपरिरक्षार्थं चालयित्वा दाढर्यं पश्यामीति शेषः । अत्र मन्त्रविशेष एव न तु क्रियाविशेष इति द्योतनार्थमेवकारः ।
प्रेङ्खस्य दार्ढ्यपरीक्षणानन्तरं समारोहणप्रकारं विवक्षुरादौ कूर्पराग्रारत्निस्थापनं विधत्ते—
वसवस्त्वा गायत्रेण च्छन्दसाऽऽरोहन्तु तानन्वा-
रोहामीति पश्चार्धे फलकेऽरत्नी प्रतिष्ठापयति, इति ।
वसवस्त्वेत्यादिः स्थापनमन्त्रः । हे प्रेङ्ख त्वामष्टसंख्याका वसवो देवा गायत्र- च्छन्दोरूपेण साधनेन प्रथममारोहन्तु । तान्वसूननुसृत्य पश्चादारोहामि ।
अरत्निस्थापनानन्तरमूर्ध्वाङ्गुलिभ्यां पाणिभ्यां पूर्वफलकस्पर्शनं विधत्ते—
अथ पूर्वं फलकं नानापाणिभ्यामभि-
पद्येत यथा हि सृप्स्यन् , इति ।
लोके सर्पणं करिष्यन्पन्नगः शिर उन्नमयति, तथाऽयं पाणी उन्नतौ कृत्वा ताभ्यामभिमृशेदित्यर्थः ।
कूर्पराभ्यां पश्चिमफलकमग्राभ्यां पूर्वं फलं च स्पृष्टवतो मुखस्याधोभागेन चुबु- कनाम्ना मध्यमफलकस्पर्शनं विधत्ते—
मध्यमं चुबुकेनोपस्पृशेद्वयोर्वा संधिम्, इति ।
फलकस्य त्रयपक्षे मध्यमस्पर्शः । द्वयपक्षे संधिस্পর্শः ।
अथ मन्त्रत्रयेण क्रमाद्दक्षिणवामसक्थिभ्यां कृत्स्नशरीरेण च प्रेङ्खारोहणं विधत्ते—
रुद्रास्त्वा त्रैष्टुभेन च्छन्दसाऽऽरोहन्तु तानन्वारो-
१ ग. ॰यर॰ ।
२६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१पञ्चमारण्यके-
हामीति दक्षिणं सव्यत्यतिहरत्यादित्यास्त्वा जागतेनं च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति सव्यं विश्वे त्वा देवा आनुष्टुभेन च्छन्द- साऽऽरोहन्तु तानन्वारोहामीति समारोहति, इति ।
उक्तप्रकारेण प्रेङ्खामन्वारूढस्य भूमौ पादस्थापनप्रकारं विधत्ते— पश्चात्स्वस्य धिष्ण्यस्य दक्षिणं पादं प्राचं प्रतिष्ठापयत्यथ सव्यं यदेतरः श्राम्येद्येतरं यदेतरोऽथेतरं नोभौ विभूमौ कुर्यात्, इति ।
स्वकीयधिष्ण्यस्य पश्चाद्भागे प्रथमं दक्षिणपादः प्रागग्रः स्थापनीयः । ततः सव्यः पादः स्थापनीयः । यदा दक्षिणस्य पादस्य श्रमस्तदानीं सव्यं स्थापयेत् , यदा तु सव्यस्य श्रमस्तदा दक्षिणमित्येवं पर्यायेण तयोः स्थापनं न त्वेकदा द्वौ पादौ भूमिस्पर्शरहितौ कुर्यात् ।
इतरेषामृत्विजां तत्तदारोहणं विधत्ते— कूर्चान्होत्रकाः समारोहन्ति ब्रह्मा चौदुम्बरीमासन्दीमुद्गाता, इति । प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रोऽच्छावाकश्चेति होत्रका दर्भमयान्कूर्चा- नारोहेयुः । तथा ब्रह्माऽपि कूर्चमारोहेत् । उद्गातोदुम्बरनिर्मितामासन्दीमारोहेत् ।
प्रेङ्खादिष्वारूढानां होतृहोत्रकब्रह्मोद्गातॄणां शौचाचमनौद्यर्थं गमने कंचिद्विशे- षमाह— यदि कस्मैचिदवश्यकर्मिणो जिगमिषेद्रादिश्य पालं प्राङ- वरुह्य चरित्वा तमर्थमेवमेवाजपया वृताऽऽरोहेत् , इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
कर्मिशब्द आचमनादिक्रियामाचष्टे । तदर्थं यो जिगमिषुः सोऽयं पालमादिश्य पालकं यजमानमनुज्ञाप्य स्वासनात्प्रेङ्खादेः प्राङ्मुखोऽवरुह्य यदर्थं निर्गच्छति तमर्थं चरित्वा समागत्य पूर्वोक्तेनैव प्रकारेण स्वं स्वमासनमारोहेत् । तत्र होतुरेतावान्वि- शेषः । अजपया वृता भूर्भुवः स्वरित्येतज्जपशून्येनैतरेण सर्वेण प्रकारेणेति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
१ ग. ‘पनं वि’ । २ ग. ॰व्यध्र’ । ३ ख. ग. घ. ङ. ॰रोहेयुः । ४ ग. घ. ङ. ॰रोहयेत् । ५ घ. ङ. ॰नार्थं । ६ ख. घ. ङ. ॰शेष्यमा’ । ७ ग. रामागम्य । ८ ग. ॰न्येन प्र’ ।
अध्या० १ ख० ५] ऐतरेयारण्यकम्। २६५
अथ पञ्चमः खण्डः।
प्रेङ्खारूढस्य होतुः कर्तव्यानन्तरं विधत्ते—
प्रस्तोतारं संशास्ति पञ्चविंशस्य स्तोमस्य तिसृष्वर्धतृतीयास्वर्धत्रयोदशासु वा परिशिष्टासु प्रथमं प्रतिहारं प्रब्रूतादिति, इति।
यः प्रस्तोता साम्नः प्रस्तावभागं गायति तं प्रस्तोतारं प्रत्यसौ होता पञ्चविंशस्येत्यादिवाक्यं प्रब्रूयात्। राजनाख्यस्य साम्न आधारभूततृचावृत्त्या यः पञ्चविंशः स्तोमः संपाद्यते तस्मिन्स्तोमे प्रथमां स्तोत्रीयामारभ्यैकविंशस्तोत्रीयासु गतासु परिशिष्टासु त्रयोविंशस्तोत्रीयामारभ्य तिसृषु परिशिष्टासु सतीषु मध्यवर्तिनी येयं द्वाविंशस्तोत्रीया तस्याः प्रतिहारभागः पञ्चवारमावर्तनीयः “पञ्चकृत्वः प्रतिहरति” इति श्रुतेः। तत्र यः प्रथमः प्रतिहारस्तं प्रतिहारं हे प्रस्तोतर्मदग्रे कथय, अयं प्रथमः प्रतिहारो वर्तत इति। प्रतिहर्तुरनुष्ठीयमानं प्रथमं प्रतिहारं प्रति मां स्मारयेत्यर्थः । तिसृष्ववशिष्टास्वेकः पक्षः। अर्धतृतीयास्ववशिष्टास्विति द्वितीयः पक्षः। अर्धत्रयोदशास्ववशिष्टास्विति तृतीयः पक्षः। अन्तिमां स्तोत्रीयामारभ्यावरोहप्रकारेण या तृतीया तस्या उत्तरार्धं यासु तिसृष्ववस्थितं तास्तिस्रोऽर्धतृतीया। अनेनैव न्यायेन त्रयोदश्या उत्तरार्धं यासु त्रयोदशसु वर्तते ता अर्धत्रयोदशाः। इतिशब्दः प्रस्तोतारं प्रति होत्रा प्रयुक्तस्य प्रैषवाक्यस्य समाप्त्यर्थः।
प्रैषवाक्ये शाखान्तरपाठमाश्रित्य मतान्तरं दर्शयति—
अर्धत्रयोदशासु प्रवाचयतेति जातूकर्ण्यः, इति ।
अर्धत्रयोदशास्वित्येष तृतीयपक्ष एव जातूकर्ण्याख्यस्य मुनेरभिप्रेतः । तथा प्रब्रूतादित्यस्मिन्नेवार्थे प्रवाचयतेति पाठोऽभिप्रेतः।
प्रैषवाक्यादूर्ध्वं होतुर्जपं विधत्ते—
प्रोक्ते जपति, इति ।
प्रस्तोत्रा प्रथमप्रतिहारकाले प्रोक्ते सति होता वक्ष्यमाणमन्त्रं जपेत् ।
तं मन्त्रं दर्शयति—
सुपर्णोऽसि गरुत्मान्प्रेमां वाचं वदिष्यामि बहु वदिष्यन्तीं
बहु पतिष्यन्तीं बहु करिष्यन्तीं बहु सनिष्यन्तीं
बहोर्भूयः करिष्यन्तीं स्वर्गच्छन्तीं *स्वर्वदिष्यन्तीं स्वः
* स्वर्वदिष्यन्तीमिति पदद्वयं क. ख. ग. पुस्तकेषु नास्ति ।
१ घ. ङ. 'स्तोत्रिया'। २ ग. द्वादशं । ३ घ. ङ. 'स्तोत्रिया । ४ ग. घ. ङ. स्तोत्रिया'।
२५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रश्नेऽरण्यके-
पतिष्यन्तीं स्वः करिष्यन्तीं स्वः सनिष्यन्तीं स्वरिमं यज्ञं वक्ष्यन्तीं स्वर्मां यजमानं वक्ष्यन्तीमिति, इति ।
यागनिर्वाहकचित्याग्नेः पक्ष्याकारस्त्वं(र त्वं) गरुत्मान्पक्षयुक्तोऽसि । तत्रापि सुपर्णः शोभनपत्रयुक्तोऽसि । त्वदनुग्रहादहमिमां शस्त्रशंसादिरूपां वाचं प्रकर्षेण कथयिष्यामि । सैव वागेवानेकैर्विशेषणैर्विशिष्यते—बह्वर्थजातमपेक्षितं वदि- ष्यन्ती[म्] । तथा बहु पारलौकिकफलं प्रापयिष्यन्ती[म्]। तत्साधनभूतमिदं कर्म बहु प्रभूतं यथा भवति तथा करिष्यन्तीम् । ऐहिकमपि बहु धनादिकं सनिष्यन्तीं दास्यन्तीम् । पुनरप्येतत्कर्म प्रभूतादप्यत्यन्तं करिष्यन्तीम् । तथा देवानामग्रे यथोक्तं कर्म वक्तुं स्वर्गलोके गच्छन्तीम्* । तस्मिंश्च स्वर्गेलोके यजमानं प्रापयिष्यन्तीम् । प्रापय्य च तस्मिन्स्वर्गे निवासस्थानं करिष्यन्तीम् । कृत्वा च तत्र स्वर्गे भोगं दास्य- न्तीम् । तस्मिन्स्वर्गे देवानां पुरतः प्रभूतमिमं यज्ञं वक्ष्यन्तीम् । तत्र स्वर्गे मां होतारं यजमानत्वेन वक्ष्यन्तीम् । अस्ति हि सत्रे होतुर्यजमानत्वम् । “ये यजमानास्त ऋत्विजः” इति श्रुतेः ।
अस्मिन्मन्त्रे यजमानशब्दस्य सत्र एव प्रयोगो न त्वहीनैकाहयोरित्यमुमर्थं दर्शयति—
दीक्षिते यजमानशब्दो नादीक्षिते, इति ।
अस्ति हि सत्रे होतुर्दीक्षितत्वम् । अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति तत उद्गातारं ततो होतारमिति श्रुतेः । अहीनैकाहयोस्तु तादृशश्रुत्यभावाददीक्षित एव होता ।
पुनरप्यन्यं विशेषं मन्त्रे दर्शयति—
स्वरमुमिति योऽस्य प्रियः स्यान्न तु वक्ष्यन्तीमिति ब्रूयात्, इति ।
अदीक्षितस्य होतुर्यो यजमानः प्रियः स्यात्तं यजमानमुद्दिश्य स्वरमुमिति ब्रूयात् । अदःशब्दो नामनिर्देशार्थः । अमुं देवदत्तनामकं यजमानं स्वः स्वर्ग इत्येताव- दभिधाय ततो भविष्यद्वाचकं वक्ष्यन्तीमितिशब्दं न ब्रूयात्किं तु वर्तमानवाचकं शब्दं ब्रूयादित्यर्थादवगम्यते । तेन स्वर्गप्राप्तेरविलम्बः सूचितो भवति ।
उक्तमन्त्रजपादूर्ध्वं मन्त्रान्तरजपं विधत्ते—
उक्थवीर्याणि च, इति ।
* एतस्मादनन्तरं स्वर्वेदिष्यन्तीमिति पदद्वयस्य व्याख्यानं त्रुटितम् । तच्च “गत्वा च बहु यथा भवति तथा कर्म वादिष्यन्तीम्” इति भवेत् ।
१ क. स्वर्गे लो॑ । २ घ. ङ. देवतानां ।
अध्या० १।ख० ५] ऐतरेयारण्यकम् । २६७
“घोषाय त्वा” “श्लोकाय त्वा” शृण्वते त्वा” “उपशृण्वते त्वा” “आश्रुत्यै त्वा” “आश्रुताय त्वा” इत्येते षण्मन्त्रा उक्थवीर्याणि, षण्णां शस्त्राणामन्ते क्रमेण होत्रा पठनीयत्वात् । चकारः पूर्वोक्तस्य जपत्तीति पदस्यानुवृत्त्यर्थः । पुनरपि जप्यं मन्त्रान्तरं दर्शयति—
सं प्राणो वाचा समहं वाचा सं चक्षुर्मनसा समहं मनसा सं श्रोत्रमात्मना समहमात्मना मयि महा- न्मयि भर्गो मयि भगो मयि भुजो मयि स्तोभो मयि स्तोमो मयि श्लोको मयि घोषो मयि यशो मयि श्रीर्मयि कीर्तिर्मयि भुक्तिरिति, इति ।
योऽयं प्राणवायुः सोऽयं वाचा संगच्छताम् । तथाऽहमपि वाचा संगच्छतां (संगच्छै) संगतो भूयासम् । तथा चक्षुरिन्द्रियं मनसा संयुज्यताम् । अहमपि मनसा संयुक्तो भूयासम् । तथा श्रोत्रेन्द्रियं प्रेरकेण परमात्मना संयुज्यताम् । अहमपि तेनाऽऽत्मना संयुक्तो भूयासम् । तादृशे मयि होतरि महान्प्रौढो विद्या- दिगुणः संपद्यताम् । भर्गो वैरिभर्जनसमर्थं तेजः । भगो द्रव्यसंपत्तिलक्षणं भाग्यम् । भुजस्तद्भोगः । स्तोभस्तोमौ सामगतौ, तदुभयजन्यं फलमप्यस्तु । यशो विद्याजन्या प्रसिद्धिः । श्रीर्गजाश्वादिसंपत्तिः । कीर्तिर्दानजन्या प्रसिद्धिः । भुक्तिर्भोगः । भुज- मुक्त्योर्भोग्यभेदेन भेदो द्रष्टव्यः । जपान्तरं विधत्ते—
आहूय वागिति जपति, इति ।
शस्त्रानुज्ञापनार्थम् “अध्वर्यो शोंसावोम्” [ऐ० ब्रा० अ० १२ ख० १] इति मन्त्रेण तस्याऽऽह्वानं कृत्वा ततो वागिति शब्दं जपेत् । प्रकृतौ होतुर्रबहव आहावा विद्यन्ते चोदकप्राप्तानां तेषामपवादाय विशेषणं विधत्ते—
त्रय आहावाः शस्त्रादेर्निविदः परिधानीयाया इति, इति ।
“तदिदास” [ऋ० सं० म० १० सू० १२० ऋ० १] इत्यादिकं वक्ष्यमाणं शस्त्रं, तस्याऽऽदेरुपक्रमस्य संबन्धी कश्चिदाहावः । “अध्वर्यो शोंसावोम्” इत्या- हावमुक्त्वा पश्चाच्छस्त्रोपक्रमं कुर्यात् । इन्द्रो देव इत्यादिपदसमूहो निवित् । समा- प्त्यर्थमृक्परिधानीया । तदुभयोपक्रमे शोंसावोमित्येवंरूपौ द्वावाहावौ । त एते त्रय आहावा अत्र कर्तव्याः, न तु प्रकृतित्वदनुरूपप्रउगादिप्वाहावः पठनीयः ।
१ क. ख. ग. ‘र्गवाश्वा’। ३३
२५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१पञ्चमारण्यके-
अत्र शस्त्रोपक्रमात्पूर्वमध्वर्युकृत्यं दर्शयति— शब्दानध्वर्यवः कारयन्ति, इति । ते च शब्दा आपस्तम्बेन दर्शिताः—“उपाकृते माहेन्द्रस्य स्तोत्रे सर्वा वाचो वदन्त्युत्क्रोचं यजमानाः कुर्वतेऽपाघाटालिकास्तम्बलवीणाः पिच्छोला इति, प्रेष्ययो वादयन्ति संप्रवदन्ति वीणाशङ्खान्नोर्धीं तूणवाः” इति । यजमानकृत्यं विधत्ते— एतस्मिन्नहनि प्रभूतमनं दद्यात् , इति । पुरुषान्तरकर्तव्यं दर्शयति— राजपुत्रेण चर्म व्याधयन्त्याघ्नन्ति भूमिदुन्दुभिं पत्न्यश्च काण्ड- वीणा भूतानां च मैथुनं ब्रह्मचारिपुंश्चल्योः संप्रवादोऽनेकेन साम्ना निष्केवल्याय स्तुवते राजनस्तोत्रियेण प्रतिपद्यते, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥
चर्मवेधनप्रकार आपस्तम्बेन दर्शितः—“ उत्तरेणाऽऽग्नीध्रीयं कटसंघाते तैजस-संघातेनाऽऽर्द्रं चर्म शयनार्थं वितत्योच्छ्वसन्ति विपर्यान्येतच्च कर्म कवचिनस्तेषामेकैकं संशास्ति मा प्रवात्सीर्मा निर्वार्त्सीरिति तत्तै विधानाति(?) पादयन्ति ” इति । भूमिदुन्दुभ्याघातोऽपि तेनैव दर्शितः—“ अपरेणाऽऽग्नीध्रीयं भूमिदुन्दुभिमवटं खनन्र्ध्यमन्तर्वेद्यर्धं बहिर्वेदि तमार्द्रेण चर्मणोत्तरलोम्नाऽभिवितत्य शङ्कुभिः परिनिहत्यात्रैतत्पुच्छकाण्डमाहैननार्थं निदधाति दुन्दुभीन्समाघ्नन्ति पुच्छकाण्डेन भूमिदुन्दुभिम्” इति । काण्डवीणाः प्रसिद्धाः । ताश्च यजमानानां पत्नीभिर्वाद्यन्ते । भूतमैथुनदेशोऽपि तेनैव दर्शितः—“ उत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति ” इति । ब्रह्मचारिपुंश्चल्योः संप्रवादः सामगब्राह्मणे दर्शितः । एतस्मिन्काण्ड उद्गातारोऽनेकविधेन साम्ना निष्केवल्याख्यशस्त्रसिद्ध्यर्थं स्तोत्रं कुर्वन्ति । तत्रान्तिमं राजनाख्यं साम, तेन साम्ना क्रियमाणस्य स्तोत्रस्याऽऽधारभूतो यस्तृचस्तेन तृचेन होता निष्केवल्याख्यं शस्त्रं प्रारभेत ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥
१ ख. ‘ते पा° । ग. ‘ते याघाट’ । २ ख. घ. ङ. ‘वीणा पि° । ३ क. वीणां शं° । ४ ख. घ. ङ. ‘नार्धीतू° । ग. ‘नावितू° । ५ ग. ‘तस्योच्छ्व° । ६ क. ख. ‘रिपान्त्ये’ । ७ क. ख. मा एवां । घ. ङ. मा पर्वा° । ८ क. निवात्सी° । ९ ग. ‘तेऽविद्या ना° । १० क. ‘टं खानयन्त्य° । ११ ग. घ. ङ. ‘वेद्यदि तं° । १२ क. ‘ह्वनां । १३ क. ‘श्चल्यो मां° । १४ ग. ‘स्त्रं विहृत्य प्रां° ।
अध्या० १ ख० ६] ऐतरेयारण्यकम् । २५९
अथ षष्ठः खण्डः ।
अत्र चोदकप्राप्तं निष्केवल्यशस्त्रं विहृत्य प्रदर्शयति—
तदिदास भुवनेषु ज्येष्ठं तां सु ते कीर्ति
मघवन्महित्वा भूय इद्वावृधे वीर्याय नृणामु
त्वा नृतमं गीर्भिरुक्थैरिति तिस्रः, इति ।
"तदिदास" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकं नवर्चं सूक्तम् । "तां सु ते कीर्ति मघवन्" [ ऋ० सं० म० १० सू० ९४ ऋ० १ ] इत्यादिकं षडृचं सूक्तम् । "भूयः" [ ऋ० सं० म० ६ सू० ३० ऋ० १ ] इत्यादिकं पञ्चर्चं सूक्तम् । "नृणामु त्वा" [ ऋ० सं० म० ३ सू० ५१ ऋ० ४ ] इत्यादिकास्तिस्र ऋचः । इत्यनेन क्रमेण विहरेत् ।
मतान्तरानुसारेण कंचिद्विशेषं विधत्ते—
अत्र हैके स्वादोः स्वादीयः स्वादुना सृजा समदः सु
मधु मधुनाऽभि योधीरित्यात्मन एते पदे उद्धृत्य पक्षपदे
प्रत्यवदधात्यश्वायन्तो मघवन्निन्द्र वाजिनो गामश्वं
रथ्यमिन्द्र संकिरेत्येतयोश्च स्थान इतरे, इति ।
अत्रास्मिन्निष्केवल्ये शस्त्रे केचित्खल्वेवं वदन्ति । एतच्छस्त्रगतयोरात्मभागस्थपादयोः पक्षभागस्थपादयोश्च परस्परं व्यत्ययः कर्तव्य इति । यथा चित्यस्याग्नेः पञ्चावयवा आम्नाताः—"शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मा" [ ऐ० आ० २ अ० ३ ख० ४ ] इति, तथा शस्त्रेऽपि पञ्चावयवा द्रष्टव्याः । चित्यस्याग्नेर्मध्यशरीरमात्मा; शस्त्रेऽपि योऽयं पूर्वं विहृतो भागः "तदिदास" इत्यारभ्य "गीर्भिरुक्थैरिति तिस्रः" इत्यन्तेन ग्रन्थेन सोऽयं भागैवत आत्मस्थानीयः । "तदिदास" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्येतस्मिन्सूक्ते तृतीयस्यामृच्युत्तरार्धे "स्वादोः स्वादीयः" [ ऋ० सं० म० १० सू० १२० ऋ० ३ ] इत्यादिकौ यौ द्वौ पादौ तावुभावात्मभागस्य संबन्धिनौ, तदुभयमित उद्धर्तव्यम् । तथा वक्ष्यमाणे शस्त्रस्य दक्षिणपक्षभागे "अभि त्वा शूर" [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यस्मिन्प्रगाथेऽश्वायन्त इति योऽयं पादो यश्चोत्तरपक्षभागे "त्वामिद्धि" [ ऋ० सं०
तदिदास भुव०—ऋ० सं० म० १० सू० १२० ऋ० १ । तां सु ते कीर्तिं०—ऋ० सं० म० १० सू० ९४ ऋ० १ । भूय इद्वावृधे०—ऋ० सं० म० ६ सू० ३० ऋ० १ । नृणामु त्वा नृतमं०—ऋ० सं० म० ३ सू० ५१ ऋ० ४ ।
१ क. 'ग आ ।