भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

नामत्वात् ॐमित्येतदक्षरं ब्रह्म सर्वं तस्योपव्याख्यानमिति उपपदवाच्यसामर्थ्यस्य व्याख्यानम् । उप 'सामर्थ्ये' इति विश्वात् । यद्वा सर्वमिति पदादिसर्वमित्यर्थात् । न उप इत्यस्य सामर्थ्यमात्र- वाचकत्वद्योतकत्वेऽपि तु सामर्थ्यादेर्वाचकत्वद्योतकत्वे तथा च विश्वः । 'उप सामर्थ्यदाक्षिण्यदोषाल्यानालयेषु च । आश्चर्यकरणे दाने व्यासावारम्भपूजयोः' ॥ इति । 'नाभिः प्राण्यङ्गके क्षेत्रे चक्रान्ते चक्रवर्तिनि । नाभिः प्रधाने कस्तूरीभेदेपि क्वचिदीरितः' ॥ इति च । दृशे इति 'दृशे विख्ये' इति तुमर्थे निपातितः । चित्रमिति देवानामिन्द्रादीनां कृष्णोपनिषदुक्तानां तं होचुः सुराः सर्वे इत्येषां देवानां वाऽनीकं सकलदेवसमूहात्मकं वा चित्रमा- श्चर्यकरं उदगात् चक्षुर्मित्रस्य वरुणस्याग्नेः द्यावापृथिवी अन्तरिक्षं आप्राः तेजसा क्रीडया चापूरयत् । प्रा पूरणे लङ् पुरुषव्यत्ययः त्वमाप्रा इति श्रुतिवचनं वा । अदादिरयमनिद् परस्मैपदी च । जगतो जङ्गमस्य तस्थुषः स्थावरस्यात्मा व्यापकः । अत्राप्याददे ग्रावास्त्वध्वरकृदित्युपक्रमः त्वमग्ने विचर्षणे इत्युपसंहारः । प्रकरणमुन्नेयम् । 'तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् पश्येम शरदः शतम् । जीवेम शरदः शतम् । नन्दाम शरदः शतम् । मोदाम शरदः शतम् । भवाम शरदः शतम् । शृणवाम शरदः शतम् । प्रब्रवाम शरदः शतमजीता स्याम शरदः शतम् । ज्योक् च सूर्यं दृशे' 'य उदगान्महतोर्णवात् विभ्राजमानः सरिरस्य मध्यात् स मा वृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु' इति आरण- श्रुतिनिरूपणम् । चक्षुः प्रकाशकम् । देवेभ्यो हितं निर्मलं पुरस्ताच्छुक्रं शोककर्तारम् । 'उत्वकाशे वियोगे च प्राबल्यस्वास्य्यशक्तिषु । प्राधान्ये बन्धने भावे मोक्षे लामोर्ध्वकर्मणि' ॥ इति विश्वः । प्रकाशाय चरत् गच्छत् भेडभावश्छान्दसः अमक्षयद्वा । अतश्चक्षुरादिभक्षक- भक्षकत्वात् पश्येम इत्यादि स्पष्टम् । ज्योक् चेति ज्योक् बहुकालं तत् शश्व वर्णलोपः सूर्यं सूर्यान्तस्थं दृशे द्रष्टुम् । मा माम् । 'शञ्चो वातः पवतं मातरिश्वा शञ्जतपतु सूर्यः' इत्युपक्रमकः ब्रह्म प्रावा- दिष्म तन्नो मा हासीदित्युपसंहाराद्ब्रह्मप्रकरणम् । सायं वरुणोपस्थानं 'इमं मे वरुण श्रुधी हवमद्या च मृडय त्वामवस्युराचके 'तत्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहेडमानो वरुणेह बोध्युरुशंस समान आयुः प्रमोषीः' इति । इमं मे मम हे वरुण हवं आह्वानं श्रुधि शृणु, अद्य मां मृडय सुखय त्वामवः रक्षणं आत्मन इच्छन्तीत्यवस्युः आचके आह्वये, कै शब्दे छन्दसि लिडिति लिड्व्यत्ययेनात्मनेपदम् । तत्त्वेति । तत् सूर्यान्तस्थः त्वा त्वां वरुणं यामि याति कीदृश इत्याह ब्रह्मणा वेदेन वन्दमानः स्तूयमानः यकारलोपः, तत् त्वमाशास्ते आशास्ते यजमानो देवपूजादिकर्ता- शास्ते हविर्भिस्तत् । हे वरुण अहेडमानः अनादरमकुर्वन् इह मत्कर्तृकां स्तुतिं बोधि बुध्यस्व अबोधि वा । स्तुतिर्मत्कर्तृका त्वया । कीदृग्वरुण इत्याह उरुर्महान् शंस स्तुतिर्यस्य तादृक् नोऽस्माकं उत्तमश्लोकवार्तायातमानामायुर्मा प्रमोषीः न्यूनं मा कार्षीः । उपसंहारमग्नेयस् । उपक्रममग्नरस्तु वायव्यं श्वेतालभेत भूतिकाम इति ब्रह्मप्रकरणम् । वायुमुपक्रम्य त्वमेव प्रत्यक्षं ब्रह्मासीति श्रुतेः । अग्ने यच्चिद्धिते विशो यथेति मन्त्रः तृतीयाह्वकचतुर्थ्याध्यायान्तेऽस्ति । विश्वचर्षणे मित्रस्य चर्षणी धृत- श्रवो देवस्येत्सप्रायेतनो मन्त्रः । यच्चिद्धिते विशो यथा प्र देव वरुण व्रतं मिनीमसि यद्यद्यविद्यवि

८७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० २ सू० ८ संबन्धमेव वक्तव्यम् । तत्र, ब्रह्मवादिनो वदन्तीत्युपक्रम्य ब्रह्मविद्यैव निरू- पिता । तथापि पूर्वकाण्डे प्रणवादिमन्त्राणां नायं नियम इति प्रकृतेऽपि मता- न्तरवाचकस्यैव प्रकृतोपयोग इति शङ्का । 'ते ध्यानयोगानुगता अपश्यन् देवा- भाष्यप्रकाशः । सूर्योपस्थाने, तथात्रापि मन्त्रस्य कपिलमतसिद्धार्थवाचकस्यैव ब्रह्मविद्योपयोग इत्येष मन्त्रः स्वार्थनिरपेक्ष एवेति शङ्केत्यर्थः । किंचात्र यद्येक एव मन्त्र एतादृशोऽन्ये त्वन्यादृशा इति स्यात् तदा बहूनामनुग्रहो न्याय्य इत्यस्यैवार्योऽन्यथा कल्प्येतापि । यथा कठवल्ली मन्त्रस्य । इह तु मन्त्राणां बहूनां तादृशत्वात् तदपि न वक्तुं शक्यमित्याह ते ध्यानेत्यादि । रश्मिः । यत् किं चेदं वरुण दैव्ये जनेभिद्रोहं मनुष्याश्चरामसि अचित्ती यत्तव धर्मायुयोपिम मा नः तस्मादेनसो देव रीरिषः कितवासो यद्रिरिपुर्नदीवि यद्वा घा सत्यमुतन्न विद्म । सर्वा ता विष्यशिथिरे यदेवाथाते स्याम वरुणप्रियास इति । हे देव वरुण ते व्रतं त्वदीयपरिचर्चारूपं वविवधि दिवसे दिवसे प्रामिनि- मसि मिनीमः । मीञ् हिंसायां क्या. उ. अ. मीनातेर्निगमेति ह्रस्वः । यच्चिद्धि, चिद्दीति वा । यद्येवं तथापि विशो यथा, प्रजा इव, वयं तथा च सापराधः अपि प्रजाः स्वामिना यथानुगृह्यन्ते तथा वयमप्यनुग्राह्या इति भावः । यत्किंचेति । किं च हे वरुण दैव्ये देवसमूहरूपे जने यत् । किं च अभिद्रोहमपकारजातं वयं चरामसि चरामो मनुष्याः किं चाचित्ती अचित्या अज्ञानेन तव त्वदीयं यद्धर्मधारकं कर्म आयुयोपिम युप विमोहे दि. प. से. विमोहितवन्त हे देव तस्मादेनसः पापाञ्नो- स्मान् मा रीरिषः मा हिंसीः रिष् हिंसायां भ्वा. प. से. । कितवास इति कितवास्त्रील्याचक्षाणाः कितवा द्यूतकृतः कितवेत्यनुकरणादाख्याताण्यन्तं पचाद्यच् पृषोदरादित्वात् किमो मलोपः दिवीति ते वरुणस्य दीविनीति तान्छील्ये णिनौ प्राप्ते देवनमिव देवनं द्यौः तस्यां दिवि दिवेर्डिविः अन्येषामपीति दीर्घः । कितवास्सते मित्रीभूतस्य दिवि नरि रिपुः रप व्यक्तवाचि भ्वा. प. से. यन् नाम देवपूजादिकर्तृ व्यक्तमच्चुरिति यत् वाक् हा सत्यमिति छेदः यस्य देवपूजादिकर्तुः वाक् सत्यं हा जहाति उत वितर्के यत् यस्य न, न जहाति तन्न विद्म । यद्वा घा सत्यमिति छेदः ऋचि तु नुघ मद्यु तन् कुत्रो रुष्माखामिति संहितायां दीर्घः सर्वा सर्वाणि ता तानि विष्य विशेषेण व्य नाशय पोन्तकर्मणि दि. प. अ. विपूवार्छोटि मध्यमैकवचनम् । शिथिरेव शिथिलानीव । शिथिरेत्यत्र शेश्छन्दसि बहुलमिति शिलोपे 'न लोपः प्रातिपदिकान्तस्य' इति न लोपः । हे वरुण अथ अनन्तरं तव प्रियासः प्रियाः । आञ्जसेरसुगिति जसोऽसुगागमः । स्याम भवेम । अयमुपसंहारमन्त्रः । वि वा एतस्य यज्ञ ऋद्धयते यस्य हविरतिरिच्यते इत्युपक्रमः । प्रकरणमुन्नेयम् । न चात्र सूर्योपस्थानं न वरुणोपस्थानमिति शङ्कयम् । इमं मे वरुणेत्युपक्रमात् । वरुणप्रियास इत्युपसंहाराच्च । न च सूर्यो- पस्थानपरग्रन्थविरोध इति वाच्यम् । व्याख्याने सूर्यप्राधान्येन तत्परत्वात् । हेतुद्वयेनार्थद्वयव्यवस्था । प्रकृतमनुनानुसर्यते । एतादृश इति सांख्यप्रतिपादकः 'त्यदादिषु दृशोनोलोचने कञ्' इति कन् । अस्यैवेति अजामेकामित्यस्यैव । कठवल्ली मन्त्रस्येति 'इन्द्रियेभ्यः परा ह्यर्थाः, इत्या दिकं सकलमतसाधारणम् । अतो महतः परमव्यक्तमिति मन्त्रस्य । मन्त्राणामिति वक्ष्यमाणानां मन्त्राणाम् । तादृशेति कर्मकर्तरि प्रत्ययः रुज्वनुगुणत्वादिति मनोरमायां प्रत्ययस्तु, १. आज्जतीरसुगिति वा पाठः । 924

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८७३ त्मशक्तिं स्वगुणैर्निगूढाम्' इति च । तथा 'ज्ञाज्ञौ द्वावजावीशानीशौ' अजा ह्येका भोक्तृभोग्यार्थयुक्ता । अग्रे च यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । 'ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्' इत्यादि च । वाक्यानि कपिलतन्मतवाचकानि वर्तन्त इति सांख्य- मतमपि वैदिकमेवेत्येवं प्राप्ते, उच्यते—चमसवदविशेषात् । 'अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तस्यासते ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदाना' ॥ भाष्यप्रकाशः। तथाचात्र स्वगुणैर्निगूढत्वम् । अग्रिमे मुक्तामुक्तात्मसंबंधैर्भोक्तृभिर्भोग्यार्थैर्धर्मादिकार्यैर्युक्ता अनादिः प्रकृतिः। तदग्र

८७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० २ सू० ९ इति मन्त्रे यथा न विशेषो विधातुं शक्यते । न हि कर्मविशेषं कल्पयित्वा तत्रावार्ग्बिलचमसं कल्पयित्वा तत्र यशोरूपं सोमं होतारो मन्त्रेण भक्षयेयुरिति कल्पयितुं शक्यते । तथा प्रकृते रोहितशुक्लकृष्णशब्देन रजःसत्त्वतमांसि कल्प- यित्वा न तद्दृशेन सर्वमेव मतं शक्यते कल्पयितुम् । कपिलकपिशवाक्यमप्यनित्य- संयोगभयान्नित्यपतेरेवानुवादकम् । तस्मान्न मन्त्रमात्रेण प्रकरणश्रुत्यन्तरनिरपेक्षेण विशेषः कल्पयितुं शक्यः ॥ ८ ॥ भाष्यप्रकाशः । विधातुं शक्येत । स च न शक्यते । शक्तित्वेन शक्तिमदधीनोदयतया तत्सापेक्षतयैव सिद्धत्वात् नच स्वगुणैर्निगूढत्वं तद्गमकम् । तत्र स्वपदेन ब्रह्मण एव ग्रहीतुं शक्यतया

ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ ९ ॥ ननु चमसवदग्रे अर्वाग्बिल इति मन्त्रव्याख्यानमस्ति । शिरश्चमसः प्राणा वै यशः प्राणा वा ऋषय इति । नात्र तथा व्याख्यानमस्तीतीमां शङ्कां भाष्यप्रकाशः। ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ ९ ॥ सूत्रमवतारयन्तो व्याकुर्वन्ति नन्वित्यादि । इतीमामिति इति हेतोश्चमसदृष्टान्तस्य वक्तुमशक्यत्वादजाशब्दे यौगिकार्थमा- तृत्त्वाध्यात्मप्रकरणासंबद्धत्वारूढार्थं च विहायात्र सांख्यसिद्धा प्रकृतिरेवाङ्गीकार्येतीमामित्यर्थः । रश्मिः । तस्मात्तत्रापि विध्यश्रवणं तत्रापि अर्वाग्बिलश्चमसः ऊर्ध्वबुध्नोभवदिति विधिं परिकल्प्य तत्रत्यानां तच्छेषत्वं परिकल्प्य कर्मविशेषं प्रब्रह्मण एत्वित्युक्तमब्रह्मार्थं कल्पयित्वा ब्रह्मिष्ठो ब्रह्मा तं दर्शपूर्णमासयोर्वृणीत इति वाक्यात् । तथा च स्यादेतत् अथातो ब्रह्मजिज्ञासेत्यादि जिज्ञासाधिकरण- भाष्योक्तमानवं प्रत्याक्षेपः सिद्धः । एवं च विशेषो ब्रह्मत्वार्थं धर्मविशेषरूपः । एतदेवादुर्नेतीति । तत्रावागिति विशेषणार्थः स्पष्टः । सोमे यशोरूपव्यापकत्वं तु श्रुतिप्रामाण्यात्, विश्वरूपत्वं तु सर्वस्य सर्वात्मकत्वात् । वागष्टमीत्यस्यार्थमाहुः मन्त्रेणेति । वागष्टमी ऋषिवत्तीरे निकटे कर्मविशेषसे- त्यष्टमीत्वं ब्रह्मणा वेदेन संविदाना संप्रभातीति मन्त्रार्थः । अत्र कर्मविशेषे चमसो ब्रह्मणः त्रैविद्यश्रोत्रचमसदपदव्युत्पत्त्या सोमभक्षणं प्राप्तं तदाहुः भक्षयेयुरिति नान्यं क्रियापदमत्र । नित्यऋषेरिति आहुस्तत्तु न । छन्दोवदग्निभाष्यमिति विकल्पात् । अन्विति । सिद्धस्य कथनमनुवाद- इति कपिलपदार्थः सिद्धः । विशेष इति ब्रह्मत्वार्थं धर्मविशेषः ॥ ८ ॥ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ ९ ॥ नन्वित्यादीति अयं मन्त्रो बृहदारण्यके शिशुब्राह्मणेस्ति । व्याख्यानमिति श्रुतिस्तु अर्वाग्बिलश्चमसः ऊर्ध्वबुध्न इतीदं तच्छिर एष अर्वाग्बिलश्चमसः ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपमिति । प्राणा वै यशो विश्वरूपप्राणा नो तदाह तस्यासत ऋषयः सप्ततीर इति प्राणा वा ऋषयः प्राणा तदाह वागष्टमी ब्रह्मणा संविदानेति अत्र हि शिशुपासनं प्रक्रमध्येयं श्रुता संप्रतीकव्याख्यात्री तत्रेयं तच्छिर इति अयं वा व शिशुर्योयं मध्यमः प्राण इति श्रुतेः प्राणात्मकस्य शिशोः प्रत्याधानभूतशिर एव तत्र श्रोत्रादिच्छिद्रेषु प्रत्येकं प्राण आधीयते शृण्वञ्छ्रोत्रं भवतीति । अर्वाग्बिलः अवाङ्मुखः अधः स्थितस्यैव मुखस्य बिलत्वात् । शिरसो शुभ्राकारस्योपरिदर्शनात् ऊर्ध्वबुध्नः चमसो यज्ञपात्रविशेष- स्तद्वदिति । प्राणादीति प्राणादिरूपं यशःशब्दादिप्रकाशनं तत्कारणं नायोंल्लासकत्वाद् विश्वरूपं तस्मिन् । शिरसि निहितं एतदिति यश इत्यर्थः प्राणा वा इति प्राणरूपा सप्तऋषयः शिरोलक्षण- चमसस्य तीरे निकटे आसते भवन्तीति । एतदिति ऋषी नित्यर्थः । ब्रह्मणोति वेदेन संप्रभाति के ते प्राणा ऋषयः इत्याहात्रे इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोयं कश्यपो वागेवात्रिः वाचा ह्यन्नमद्यते अत्तिर्ह वै नामैतद्यदत्रिरिति इमाविति कर्णौ अयं दक्षिणः कर्णः अयमुत्तरः कर्णः इमौ चक्षुषी इमाविति नासापुटौ इति व्याख्यानम् । भाष्यसिद्धार्थेन समं भाष्यार्थमाहुः चमसेति । अविशेषे दृष्टान्तः अध्यात्मेति आत्मनि । आत्मविषयप्रकरणासंबद्धत्वात् । रूढेरिति अङ्गीरूपम् । इनामिति प्रत्यक्षणे इदमः १. ह्यणा । 927

८७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० २ सू० ९ परिहरति तुशब्दः । अजाशब्देन ज्योतिरेवोच्यते । यथा छाजा अल्पदोग्ध्री तथैयं नश्वरसुखदात्री अग्निसूर्यसोमविद्युद्रूपा ब्रह्मणो हंसोक्तचरणरूपा । भग- वत्कार्यांशरूपत्वात् 'तासां त्रिवृतं त्रिवृतमेकैकां करवाणि' इति श्रुतेश्च प्रथमोत्पन्ना भाष्यप्रकाशः। नन्वजाशब्दार्थानिर्द्धारे कथं तत्परिहार इत्यत आहुः अजेत्यादि । तर्ह्यजाशब्दप्रयोगः कुत इत्यत आहुः यथेत्यादि । तथाच 'पश्य नीलोत्पलद्वन्द्वात्रिःसरन्ति शिताः शराः' इति- वन्निगीर्याध्यवसानेन तथात्वबोधनाय प्रयोग इत्यर्थः । ननु किं तज्ज्योतिर्देवमुच्यत इत्यत आहुः अग्नीत्यादि । अग्निसूर्यसोमविद्युद्रूपत्वाज्ज्योतिः । रूपादिर्ति पाठे भावप्रधानो निर्देशः

An accurate line-by-line transcription of the Sanskrit text from the image:

देवता अजाशब्देनोच्यते । तत्र हेतुः । उपक्रमात् । अत्रैवोपेक्रमे, 'तदेवाग्निस्तदा- दित्यस्तद्वायुस्तदु चन्द्रमाः' इति । द्वा सुपर्णेति चाग्रे । मध्ये चायं मन्त्रः पूर्वोत्- रसंबद्धमेव भवति । सा मुख्या सृष्टिः । अजद्वयं जीवब्रह्मरूपमिति । अत्र भाष्यप्रकाशः । कथं प्रत्यभिज्ञानमित्यत आहुः तत्र हेतुरित्यादि । तथापि चेतनाधिष्ठितत्वस्य कथं प्रत्यभि- ज्ञानमित्यत आहुः द्वा इत्यादि । सैव कुत उच्यत इत्यत आहुः सा मुख्या सृष्टिरिति । सा त्रिवृत्कृतदेवतारूपा मुख्या सृष्टिः । सृष्ट्यन्तरकरणसमर्थमार्थं कार्यमत्र उच्यत इत्यर्थः । एवमन्त्रावामद्यस्य पूर्वार्थं व्याख्यातम् । उत्तरार्थं व्याकरोतीत्याहुः अजद्वयमित्यादि । रश्मिः । अयमर्थः । ब्रह्मत्वेपि चतुर्व्यूहेऽन्तर्भावस्य साध्यत्वेन स्वरूपलक्षणानाक्रान्तत्वेन चैकत्वाभावात् 'एकमेवाद्वितीयं ब्रह्म' इति श्रुत्यस्पर्शादनेकेश्वरापत्तेः । 'भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' ॥ इति । 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' ॥ इति च । काठके श्रावणात् विद्युति वाच्यं ब्रह्मत्वं तदपि विद्युद्ब्रह्मेत्याहुरित्यत्र केचिदित्यध्याहारे केचिदित्यक्षरसं ब्रह्मं तदपि केचिदिति विरला इति सुबोधिन्याः । स्वरूपलक्षणानाक्रान्तेति ब्रह्म- योग्यकर्तृकविचारेणेति । किं च ब्रह्म तर्हि अग्निरिति श्रुतिरपि सुबोधिन्यामृत उभयं सुबोधिनीप्रमाञ्जकं तदुभयं विहाय कार्यत्वमत्रोक्ते ज्ञेयमिति चतुरस्रम् । त्रिरूपत्वं लोहितशुक्लकृष्णरूपत्वं ततेजोऽसृजत इत्युक्त्वोच्यते तदपोऽसृजत तदग्ने ता अन्नमसृजन्त इत्युक्त्वोच्यते तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इत्युक्त्वा यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाण्येव सत्यमिति त्रिवृत्करणे छान्दोग्यश्रुतेः त्रिवृतमिति श्रुत्यंशेन बोध्यते कार्यत्वन्त्वीत्त्वे तासामिति श्रुत्यंशेन बोध्यते । तासामित्यस्य तेजोबन्नरूपदेवतानां कार्यरूपाणामित्यर्थात् । इमास्तिस्रो देवता इति श्रुतेः । कथमिति केन हेतुनेति प्रश्नः । प्रत्यभीति सेवमजेति प्रत्यभिज्ञा । न च नित्यानित्यसंयोग इति शङ्क्यम् । दृष्टान्तार्थमात्रत्वात् । दृष्टान्तव्यतिरिक्तस्थले ऐक्यविषयत्वात् ऐक्यप्रतीतेर्भ्रमत्वात् तत्र हेतुरित्यादीति उपक्रमोपसंहारा- भ्यावर्णनिर्णेयादुपक्रमत्सासंजातविरोधितेन प्रबउत्वात् सृष्टिकर्तुत्वोक्त्याजा ज्योतिः प्रभोपनिषदुक्तौ सूर्यचन्द्रमसौ । वायुः बृहदारण्यकोक्तो यश्चक्षुषः स्वरूपं प्रापितवान् सः । अग्निव्यापकः ब्रह्मरूपः एवमजा ज्योतिश्चतुष्टयरूपा । अत्र बृहदारण्योक्ता विद्युत् न छान्दोग्ये वायुर्न विद्युदस्ति । तस्या ब्रह्मरूपायाः संनिवेशार्थमुत्तरभाष्यं व्याचक्रुः तथापीति चेतनोभिः । द्वा इत्यादीति । द्वौ जीवब्रह्मरूपौ ब्रह्मादिः । विद्युत्सद्भे विद्युद् भवेति । तदेवाग्निरित्यस्याः अग्निः कठेत्यस्या मैकवाक्यत्वे वायुः प्राणो विद्युदिति यावत् । सैवेति अव्याकृता देवता सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति श्रुत्युक्ता- भिन्निरुदन्वतरात्र श्रुतौ कुतः कस्माद्धेतोकच्यते तेजोनिरूपणे इत्यत इत्यर्थः । उच्यत इति । समभवदित्यर्थम् । सद्यः प्रतीतत्वाद्वा भावप्रत्ययेन प्रकृतिजन्यचोचे प्रकारत्वामापञ्चेनोच्यते इत्यर्थः । तत्र एक युक्तरदट् । अजद्वयमित्यादीति प्रथममजपदं जीवपरम् । द्वितीयं ब्रह्मपरम् । तन्वेति 311 म० सू० २० 929

प्रकरणे न स्पष्ट इति निरूपयति । तथाहि श्रुत्यन्तरे स्पष्टमेव अधीयत एके 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत् कृष्णं तदन्नस्य' इति । एवमग्रेऽपि कलात्रये । अनेन जीवेनात्मनेति जीवब्रह्मणोरुपानुप्रवेशः । बीजेऽपि त्रैविध्यमिति सरूपत्वम् । भगवतोऽभोगे हेतुः जीवेन भुक्तभोगामिति । तस्मात् प्रकृतेऽपि चमसवच्छ्रुतावेवार्थकथनान्न सांख्यमतप्रतिपादकत्वम् ॥ ९ ॥ भाष्यप्रकाशः । नन्वजाया ज्योतिष्टेन निरूपणमयुक्तम् । छान्दोग्ये तेजस उत्पत्तिकथने त्रिरूपताया अनुक्तत्वात् । भाष्ये च हंसोक्तचरणरूपत्वेन व्याख्यानमयुक्तम् । तस्यापि तत्रानुक्तत्वादित्याशङ्क्येन सूत्रशेषमवतारयन्ति अत्रेत्यादि । अत्र प्रथमकार्यप्रकरणे त्रिरूपत्वं, हंसोक्तचरणो न स्पष्ट इति हेतोस्तत्रत्यं श्रुत्यन्तरं दर्शयतीत्यर्थः । श्रुतिमाहुः यदग्नेरित्यादि । ननु यदि तेजोरूपा देवताभिप्रेता तदा सूत्रकृता तेजःपदमेव कुतो नोक्तमित्यत आहुः एवमित्यादि । कलात्रय इति सूर्यसोमविद्युद्रूपे । तथाचैतदग्रे, यदादित्यस्य रोहितं रूपं यच्चन्द्रमसो यद् विद्युत इत्यादिनिरू- पणात् तत्र हंसोक्तपादरूपतादिधर्मनिरूपणार्थं ज्योतिःपदं प्रयुक्तं, न तेजःपदमित्यर्थः । अस्यां श्रुतौ जीवब्रह्मणी कुत्रोक्ते इत्याकाङ्क्षायामाहुः अनेनेत्यादि । जीवेनेति सहार्थतृतीयाऽऽत्मनेति करणतृतीया च बोधिते इत्यर्थः । सरूपत्वकथनप्रयोजनमाहुः बीजेऽपीत्यादि । 'बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्' इति वाक्याद् बीजं भगवान् । तत्रापि सच्चिदानन्दरूपत्वात् त्रैविध्यमस्तीत्यतः प्रजासरूपत्वम् । तथाच कार्यकारणयोः सालक्षण्यस्यौत्सर्गिकत्वेनार्थात् प्राप्ता- वपि यत् सरूपत्वकथनं तत् प्रजानां तेजोऽबन्नात्मकत्वेऽपि बीजधर्मस्य सच्चिदानन्दरूपत्वस्य ज्ञापनार्थमित्यर्थः । तस्मादिति यस्मादेवं वाक्यतात्पर्यं तस्मात् ॥ ९ ॥ रश्मिः । छान्दोग्ये । अनुक्तेरिति उक्तत्वेऽप्यग्रिमग्रन्थावतरणायाहार्यज्ञानविषयत्वं कृतानुक्तत्वादित्युक्तम् । एवं पूर्वत्रापि ज्ञेयम् । तत्रत्यमिति छान्दोग्ये भवं जाताद्यर्थेऽव्ययात्यप् । श्वेताश्वतरश्रुतेरन्या श्रुतिः श्रुत्यन्तरम् । तत्र छान्दोग्ये जातादिः तत्रत्यं तद्दर्शयति तत्रेति छान्दोग्ये । हंसोक्तेति पादिना निरूपता । अस्यामिति श्वेताश्वतरव्याख्यानरूपायाम् । छान्दोग्यश्रुतौ जीवब्रह्मणी उत्तरार्धेऽज- द्वयवाक्ये कुत्रेति छलप्रश्नः । सरूपेति व्याख्येयश्रुतौ 'सरूपा' इतिपदेन तेषां खल्वेषां भूतानां त्रीण्येव बीजानिति छान्दोग्योपबृंहितां गीतामाहुः बीजं मामिति । सच्चिदिति सद्रोहितं परिशेषात्, चित् शुक्लं प्रकाशकत्वात्, आनन्दः कृष्णस्तमोजनकत्वात्, तमश्च कृष्णत्वात् । बीजधर्मेति तेन समवायित्वं स्फोरितम् । निमित्तत्वं सतः । ज्योतिषि कार्ये सतोऽभिन्ननिमित्तोपा- दानत्वम् । एवमिति उक्तप्रकारेण छान्दोग्यश्रुतिषु व्याख्यानतात्पर्यं श्वेताश्वतरीया- जामेकामिति श्रुतिवाक्यतात्पर्यम् । भाष्ये । श्रुतावेवेत्यत्रैकवचनमविवक्षितम् । ताश्च श्रुतयः पूर्वमर्यादानुरोधेन सक्रमा अत्र प्रोच्यन्ते 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, तद्धैक आहुर- सदेवेदमग्र आसीत् एकमेवाद्वितीयम् । तदैक्षत बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत तदैक्षत बहु स्यां प्रजायेयेति, तदपोऽसृजत तस्माद्यत्र क च शोचति स्वेदति वा पुरुषः तेजस एव तदध्यापो जा- यन्ते, ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहि इति, ताः अन्नमसृजन्त तस्माद्यत्र क च वर्षति तदेव भूयिष्ठमन्नं भवतस्त्याः एव तदध्यान्नाद्यं जायते । तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं

"? Look at "सृष्टिमन्विति" or "सृष्टिमत्नु"? "एषां सृष्टिमन्विति" - 'म' + 'न्व' + 'ति'! Wait, "सृष्टिमन्विति 'पुरश्चक्रे द्विपदः..."? Yes! "अनु" means "सृष्टिमन्विति" (following their creation)! Because "अनुप्रविश्य" = सृष्टिमन्विति प्रविश्य! 'अनु' means पश्चात, after creation! So "अन्विति । एषां सृष्टिमन्विति 'पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः पुरः स पक्षीभूत्वा पुरः पुरुष आविवेशत्' इति मधुब्राह्मणस्थश्रुत्युक्तन्यायेन ।" Brilliant! Brihadaranyaka Upanishad 2.5.18 (Madhu Brahmana): "पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत् ॥" (here आविवेशत् or आविशत्). So "अन्विति" explains the 'अनु' in 'अनुप्रविश्य'! Now, what is the word before "सता"? "देवता पूर्ववदैक्षत आत्मनाऽ..." Wait, could it be "आत्मनाऽनुप्रविष्टा सता"? Or "आत्मनाऽनुप्रविश्य सता"? Wait, "सता" - could it be "सती

८८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० २ सू० १० कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥ ननु द्विविधा शब्दप्रवृत्तिः । योगो, रूढिश्च । तत्राजाशब्दग्रहणायां भाष्यप्रकाशः। कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥ सूत्रमवतारयन्ति नन्वित्यादि । रश्मिः। रूपत्रयस्य उत्तरदेशसंयोगः । न च रूपत्रयसमवायो न संयोग इति शङ्क्यम् । संयोगस्य स्पर्शत्वं प्रस्थानरत्नाकर उपपादितम् । इत्याकाशातिरिक्तचतुर्मूर्तेषु स्पर्शसत्त्वेन रूपादावेकं रूपं रसात्पृथक् इतिवत्सत्त्वेनादोषात् । सर्वस्य सर्वमयत्वाच्च । अग्रेऽव्यावहारिकं सत्त्वं रूपत्रयस्य पारमार्थिकं सत्त्वमित्याह वाचेति । वाचारम्भणं घटपटाद्यादिविकार इत्युक्ते 'शब्द इति चेन्नातः प्रभवात्प्रत्यक्षा- नुमानाभ्याम्' इति सूत्रोक्ताधिदैविकसृष्टौ वैदिकायां विकारत्वापत्तिरतो नामधेयमिति नामैव नामधेयं स्वार्थे धेयप्रत्ययः । नामरूपविभेदेन क्रीडयितुं कृतं नामधेयं लौकिकमिति । त्रीणि रूपाणि जातिस्तल्लेशीकृतानि नित्यानि अग्नित्वरूपाणि सृत्त्यतिक्रान्तत्वाद्भस्म्यादीनाम् । सृत्त्यतिक्रमो बृहदारण्यक उक्तः । न च विकारानङ्गीकारे नित्यानित्यसंयोग इति वाच्यम् । विकारस्यापि वैदिकत्वाददोषः । एवमेवाग्रेपि श्रुत्यर्थः । अतोऽजा तेजोरूपा तस्याः त्रिरूपत्वं तत्कार्यस्यापि त्रिरूपत्वमिति पूर्वार्धं व्याकृतं श्रुतिभिः । अतः सर्वस्य सत्कार्यत्वात् सतो ज्ञानेन सर्वमिदं ज्ञातं स्यात् इत्युक्तेर्थे विद्वत्प्रसिद्धिं प्रमाणयति एतद्ध स्मेति । एतन्त्रिवृत्करणं तत् गद्य तत्कार्यत्वात् विद्वांसो विदितवन्तः । पूर्वे नित्या महाशाला महागृहस्था महाश्रोत्रिया महान्तश्छन्दोग्येतारः । न नोयेति न नः अस्माकं कुलेऽद्य इदानीं कश्चन कश्चिदपि नोदाहरिष्यति न वदिष्यतीति । ते पुनः कथमिव ज्ञातवन्तः सर्वमित्याह येभ्य इति हि यस्मादेभ्यो रोहितादित्रीरूपेभ्यो हेतुभ्यः अन्यदप्य- वशिष्टं ज्ञातवन्तः । विज्ञानप्रकारं दर्शयति यद्धिति यत् उ कपोतादिषु रोहितमिवाभूत् । तदिति रोहितं सहमन्यत् । इति व्याख्यातश्रुत्यर्थः ॥ ९ ॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥ इदं सूत्रमजाशब्दस्य ज्योतिर्वाचकत्वे गौणीवृत्तिप्रतिपादकत्वेन शक्तिधियः सहकारिण्याः प्रतिपादकमित्यस्य । नात्राधिकरणनाम । तथा च सुबोधिन्यां तृतीयपञ्चमभाष्याग्रे 'कल्पनोपदेशाच्च मध्वादिवदविरोधः' इत्यधिकरणेनेति । 'त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः । त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविमादधेऽजः' ॥ इति श्लोके कविं महत्तत्त्वम् । पूर्वावस्था रेतः, उत्तरावस्था कविरिति । भाष्ये । नैयायिकः शङ्कते । नन्विति वृत्तिः शक्तिलक्षणान्यतरः संबन्धः । अस्योपयोगः पदजन्यपदार्थोपस्थितिः तावेव पूर्वं शक्तिग्रहाभावे पदज्ञानेपि तत्संबन्धेन स्मरणानुपपत्तेः । पदज्ञानस्य संबन्धिज्ञानविधयार्थस्मारकत्वं शक्तिश्च पदेन सह पदार्थसंबन्धः । स चास्मात्पदादयमर्थो बोद्धव्य इति ईश्वरेच्छानुरूपः, उक्तेच्छा- विषयः । आधुनिके नाम्नि शक्तिरस्त्येव 'एकादशेऽहनि पिता नाम कुर्यात्' इतीश्वरेच्छायाः सत्त्वात् । आधुनिकसंकेते तु न शक्तिरिति संप्रदायः । नव्यास्तु ईश्वरेच्छा न शक्तिः किं तु इच्छैव तेनाधुनिकसंकेतेपि शक्तिरस्तीत्याहुः । शक्तिविशिष्ट

-दन्ताद्? Ah! "अदन्ताट्टाप्" (अदन्तात् टाप्)! So line 24 end is: "...कार-" and line 25 is "दन्ताद्"? No: "अकारान्तत्वात् टाप्"? Wait, look at line 24 end: 'बा', 'धि', 'त्वा', 'ऽ', 'जा', 'द्य', 'त', 'श्चा', 'का', 'र'- Wait: 'चाकार-' or 'त्वाकार-'? No! Panini sutra: "अजाद्यतष्टाप्" (अजादि + अतः टाप्). "अतः" = अकारान्तात्! So: "बाधित्वाऽजाद्यतश्चाकारान्ताट्टाबेवेति" or "बाधित्वाऽजाद्यतश्चादन्ताट्टाबेवेति"! Let's read the characters at the end of line 24 and start of line 25: End of line 24: ...बाधित्वाऽजाद्यतश्चा (or बाधित्वाऽजावचा-?) Look at: बा (bā) धि (dhi) त्वा (tvā) ऽ (avagraha) जा (jā) द्य (dya) तश्चा (taścā - or तश्च / तश्चा) Wait, after 'जाद्य': There is 'त' (ta). Then 'श्चा' (ś

८८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० २ सू० १०

भाष्यप्रकाशः ।

इत्यर्थः । गूढामिसंधिमुद्घाटयन्ति चकारादित्यादि । चोऽप्यर्थे । तत् तेषां न प्रियं यन्मनुष्या विद्युरिति श्रुतेर्मनुष्याणां ज्ञानं देवहिताय न भवतीति तद्धिताय, यथेन्धे इन्द्र इति परोक्षवा- दस्तथात्र चतुर्मुखाऽजन्यायनेनास्मदादिसाधारणजन्माभावात् प्रथमकार्ये ज्योतीरूपेऽजेति परोक्षवादो, भगवत्प्रियत्वाय वा परोक्षवाद इत्यर्थः । दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । अत्रायमर्थः । सांख्यसमाससूत्राणां पञ्चशिखवृत्तौ सूर्यस्य चक्षुरधिदैवतत्वेन सिद्धत्वान्मधुवि- दृष्टिः । 'चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स कथ्यते' ॥ इति रामार्चनचन्द्रिकायां रुद्रयामलवचनान्मन्त्रस्य प्रकथनस्वरूपस्य 'श्रीकृष्णः शरणं मम' इति मन्त्रोपदेशस्य ग्रहणात् । उप समीपे स्थित्वा यथा योग्यकरणे सर्गविसर्गक्रीडाभ्यां परोक्षीकृत- शुद्धलीला············नुपासने बोध्यते इत्यर्थः । तत एव मुक्तिलीलाख्यमेकादशाध्यायोक्तसैकोनत्रिंशा- ध्यायोक्तसोपासनस्य भक्तिरूपस्योपासनापदपरोक्षीकृत·········एतावता कल्पनोपदेशादिति सूत्रांशस्य भाष्यं प्रकाशितम् । चकारार्थमाहुः । प्रकृते । गूढामिति गुहू संवरणे संवृताम् । दृहू संभक्तौ सम्यक् भक्तियुक्ताम् । वाभिसंधिसमितां ममस्नेहसंधानकर्त्रीं मायासंबन्धी ममस्नेहोऽज्ञान····तः दृह एव स्नेहः इत्युपपत्तेरिति भाष्यात् । देवेति देवहितायेत्यत्र वेदहितायेत्यपि, तत्र प्रथमपाठ आहुः । यथेति इन्द्रपदेन पुरंदरः प्रतीयते ञिन्धि दीप्तौ इत्यस्य समभिव्याहाराद् दीप्तिमान् न त्वयमर्थः किं तु दक्षिणेक्ष्णि यः पुरुषः सः । तथा च बृहदारण्यकश्रुतिः 'स होवाच इन्धो वै नामैष योयं दक्षिणेक्षन् तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः' इति पाठे । चतुर्मुखेति अयं न्यायो दशमे प्रक्षिप्तेष्वध्यायेषु । 'जगत्त्रयान्तोदधिसंप्लवोदे नारायणसोदरनाभिनालात् । विनिर्गतोऽजस्त्विति वाङ् न वै मृषा किं त्वीश्वर त्वं न विनिर्गतोसि' ।। इत्युक्तः । परोक्षेति अक्ष्णः परमिति व्युत्पत्त्या अत्राजाक्ष्णो विषयः ज्योतिस्तु नेति ज्योतिषि परोक्ष- वादः । वेदस्य हितायेति पक्षे 'परोक्षवादो वेदोयम्' इत्येकादशस्कन्धादाहुः 'भगवदिति 'परोक्षं च मम प्रियम्' इति वाक्यात् । वेदस्य हिताय परोक्षवादः । हिताय भगवत्प्रियत्वाय । नन्वात्मा वेदो भगवत्प्रिय एवेति । आत्मत्वादेव विरुद्धधर्माश्रयत्वात् । परोक्षवादादिति चकारार्थ उक्तः । मध्वा- दिवदिति व्याकर्तुमाहुः दृष्टान्तमिति । सिद्धत्वादिति । 'द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणाम्' इति सूत्रे । मधुत्वं ज्योतिष्ज्ञानकर्तृत्वमपि तस्य वक्तुमित्यनेनाशक्यत्वेनान्वयाशक्यत्वमिति विशेषणं मध्विति । मनेर्घश्छन्दसीति उत्प्रत्ययः नस् षः । ज्ञानकर्तृत्वं मधुत्वम्, तस्य वक्तुमशक्यत्वम् । ज्ञानेन भक्तेति शिवश्रुतेः । 'स्वयंभूर्नारदः शंभुः कुमारः कपिलो मनुः । प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् । द्वादशैते विजानीमो धर्मं भागवतं भटाः' ॥

934

द्योकस मधूत्वस्य तस्मिन् वक्तुमशक्यत्वेन सांख्यवादिनापि तत्र गौण्येव वृत्तिः कल्पनोपदेश- मादायाैवादरणीया । अन्यथा श्रुतिविरोधापत्तेः । निर्गुणादिश्रुतिविरोधश्चेति सूत्रयतः कपिलाचा- र्यस्यापि तद्विरोधस्यासह्यत्वात् । अतो यथा मध्वादिविद्यायां कल्पनोपदेशस्त्वयाङ्गीक्रियते तथा श्रुतिविरोधपरिहारायात्राप्यङ्गीकार्यमिति प्रतिवादिबोधनार्थं तदनुसारेणोक्तम् । वस्तुतस्तु पुरुषविधब्राह्मणे रमणार्थं सृष्टिं प्रकृत्य अजेतरामभवद् वस्त इतर इति श्रावणादत्रापि तादृगाका- रमादाय चतुर्मुखाऽजन्यायबाधादजातत्वमाद्यसृष्टेरुच्यते बन्धकत्वाय । नचात्र मानाभावः । इति वाक्याच्च । अपीति । ननु ह्यनेन पदेन प्रतिवादिमते गौणी ध्वन्यते सा न संभवति एकविज्ञानेन सर्वविज्ञानस्य प्रतिज्ञातत्वात् । आदित्यादीनां ज्ञानकर्तृभगवदभेदबोधनाय मधुब्राह्मणस्य प्रवृत्तेरभेदसंभवादिति चेन्न 'आनन्दादयः प्रधानस्य' इति सूत्रे आदिपदेन मधूत्वस्यापि संग्रहात् । सूर्यधर्मत्वाभावेनाभेदान्वयासम्भवात् । अतो गौण्यर्थं, योगरूढिव्यतिरेकेणापि शब्दप्रवृत्त्यर्थं वा मधुब्राह्मणम् । श्रुतीति श्रुतीनां व्याख्यातश्रुतीनां छान्दोग्यस्थानां विरोधः । तत्तेजोऽसृजत इत्यस्या वा । त्वयेति सांख्यप्रतिपादकेन प्रतिवादिना वा । तदन्विति तदनुसारः तदुक्ताभिज्ञप्रकारेणानुसरणं तेनोक्तमविरुद्धम् । तेन मात्सर्याभावो ध्वन्यते । तेन भाष्यस्य परमार्थत्वं ज्ञातव्यम् । धर्मस्थानं उच्चैः स्थितोऽत एव बृहस्पतिर्मङ्गलयुतश्च तत्फलं जातकाभरणेक्ति, 'विलग्नतः शीतमयूखतः कर्मणि मघोनः सचिवो यदा स्यात् । नानाधनाभ्यागमनानि पुंसां विचित्रवृत्तं नृपगौरवं च' ॥ मङ्गलसाहित्यफलं— 'मन्नाशशस्त्रादिकलाकलापैः विवेकशीलो मनुजः किल स्यात् । चमूपतिर्वा नृपतिः पुरेशो ग्रामेश्वरो वा सकृजे सुरेज्ये' ॥ इति ज्ञानप्रदीपनामग्रन्थे— 'भवति भाग्यपतिर्नृपवल्लभः सुरगुरौ नवमे सुखवान् गुणी । त्रिदशयज्ञपरः परमार्थवित् प्रचुरकीर्तिकरः कुलवर्धनः' ॥ इति । यथाश्रुतार्थे मधुविद्यायाम् । अक्षरमात्रमपि वेदो नान्यथाव्यक्तीति पक्षेप्यविरुद्धः प्रतीतार्थउक्तः । भेदान्वयस्फूर्तेर्गौणी न मधुब्राह्मणे संभवतीत्यरुच्या अजामेकामिति मन्त्रे परोक्षवादमाहुः वस्तुत इति । पुरुषेति बृहदारण्यके । अजेति अजा इतरा शतरूपा, इतरो मनुः । इतीति 'अजेतरामभवत् वस्त इतरोऽविरेतरा मेष इतरस्ताऽसमेवाभवत्ततोऽजावयोजायन्तैवमेव य यदिदं किं च मिथुनमा- पिपीलिकाभ्यस्तत्सर्वमसृजत' इति श्रावणात् । समेत्यस्य मिथुनाय गतवान् इत्यर्थः । समाय सुपां डा पुत्राद्य । 'इ' आश्चर्ये पुत्रीत्वात् स्वसेत्याश्चर्यम् । वा । वा ग्लादौ गतवान् । अभवत् सत्तां कृतवान् । अजेति अजामेकामिति मन्त्रे । सा दृश्यते स्वयमेवेति तादृक् । कर्मकर्तरि प्रत्ययः । आकार आकृतिः तमादाय जातित्वात् । नित्यमेकमनेकानुगतं सामान्यमिति । विशिष्टे अजातत्वविशिष्टे अजारूपेण बोधितो योगो विशेषणमुपसंक्रामतीत्यजातत्वं न जायते इति योगमाहुः । अतः श्रौतेन पौराणस्य चतुर्मुखाज- न्यायस्य बाधात् । पुराणानां वेदत्वपक्षे विकल्पः । तथा सति कया वृत्त्योच्यते इत्यत आहुः बन्धेति । बन्धकत्वमिन्द्रियविक्षेपकत्वं तस्या अजातत्वमुच्यते तेनाजापदप्रयोगः ज्योतिःस्थलेऽजापदप्रयो- गेऽजातत्वेन ज्योतिर्बोधो न ज्योतिष्ट्वेन, यथा कलशस्थले घटपदप्रयोगे घटत्वेन बोधो न कलशत्वेनेति

८८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० २ सू० १० सबत्सा स्वामिहिता तथेयमिति उपदेशपदात् तथोपासनमभिप्रेतम् । चकारात् परोक्षवादोऽपि देवस्य हिताय । यथा आदित्यो वै देवमधु, वाचं धेनुमुपासीत । द्युलोकादीनां चाग्नित्वं पञ्चाग्निविद्यायां तथा प्रकृतेऽप्यविरोधः । योगरूढिव्यति- रेकेणाप्येषा वेदे शब्दप्रवृत्तिः । तस्मादजामात्रेण न सांख्यमतसिद्धिः ॥ १० ॥ इति प्रथमाध्याये चतुर्थपादे द्वितीयं त्रिसूत्रं चमसाधिकरणम् ॥ २ ॥ भाष्यप्रकाशः । 'समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः' इत्यग्रिमग्रन्थेन तथावसायात् । एवं मधुविद्यायामपि, दृष्ट्वैव तृप्यन्तीति तृप्तिलिङ्गादादित्यस्य मधुत्वम् । नच विरोधः । सैषा त्रय्येव विद्या तपतिीति श्रुत्या शब्दात्मकत्ववद् रसात्मकत्वे

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८८५ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ (१।४।३) मन्त्रान्तरेण पुनराशङ्क्य परिहरति । बृहदारण्यकषष्ठे श्रूयते । 'यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान् ब्रह्माऽमृतोऽमृतम्' ॥ भाष्यप्रकाशः। न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ सूत्रमवतारयन्ति मन्त्रा- न्तरेणेत्यादि । आशङ्क्येति सांख्यमतस्य श्रौतत्वमाशङ्क्य । तेन विषयरूपहेतुभेदादधिकरणा- न्तरत्वं वा, पूर्वशेषत्वान्न वेत्यपि बोधितम् । विषयमाहुः बृहदित्यादि अत्र षष्ठ इति काण्वपाठाभिप्रायेणोक्तम् । माध्यंदिनानां चतुर्थे दर्शनादिति । मन्त्रार्थस्तु, यस्मिन्नेते पञ्चादय आकाशान्ताः प्रतिष्ठितास्तमात्मानमेवं ब्रह्माऽमृतं विद्वानन्यो जीवः, अमृतो मुक्तो भवतीति शेषः । अन्यैस्तु तमेवात्मानं ब्रह्माऽमृतं विद्वानहममृत इति मन्य इति व्याक्रियते । रश्मिः । स्फुटत्वान्न कोपीत्यर्थः । सूत्रार्थः । कल्पनोपदेशाच्चकारात् पञ्चम्या लुक् । चकारात् परोक्षवादात् । मध्वादिवच्च मध्वादिवदित्यत्र सप्तम्यन्ताद्वतेर्व्याकृतत्वात् अजाशब्दसाहचर्य्यरूपज्योतिर्वाचक- त्वस्याविरोधः । विरोधः सहानवस्थानलक्षणः । अजात्वविशिष्टाजावाचकत्वेन सह ज्योतिर्वाचक- त्वस्यानवस्थानं न । प्रत्यक्षवादे पूर्वस्य परोक्षवाद उत्तरस्य सत्त्वादिति । भाष्ये । वेद इति वेदस्य चेश्वरात्मकत्वादिति भावः । प्रकाशे गौण्युक्तेव । अत्राजामेकां लोहितशुक्लकृष्णामिति विषयः । अत्राजाशब्देन सांख्यमतसिद्धा प्रकृतिरुच्यते वा अग्निसोमसूर्य्यविद्युदादिरूपं ज्योतिरुच्यते इति संशये प्रकृतिरिति पूर्वपक्षेऽजाशब्देन ज्योतिरेवोच्यत इति सिद्धान्तः । संगतिस्तूक्ता निर्वाहकस्वरूपा ज्ञेया । पूर्वाधिकरणनिरूपणानन्तरं किं सांख्यनिराकरणनिर्वाहप्रयोजकमिति जिज्ञासाया 'कल्पनोप- देशाच्च मध्वादिवदविरोधः' इत्यधिकरणनिरूपणमिति ॥ १० ॥ इति द्वितीयमधिकरणम् ॥ २ ॥ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ भाष्ये । बृहदारण्यकेति माध्यंदिनानां षष्ठेऽध्याये 'अथ जनको ह वैदेहः कूर्चात्' इत्यारम्भके तत्रापि शारीरब्राह्मणे श्रूयते । प्रकृते । सूत्रमिति त्रिसूत्रमिदमधिकरणम् । तत्रात्र सूत्रे मंत्रान्तरेण पुनराशङ्क्य परिहार इतरयो- र्मंत्रार्थः संख्यापूरणं च । एवमन्यत्रापि । यस्मिन्निति । पूर्वार्ध भाष्ये व्याकरिष्यते । उत्तरार्धं व्याकुर्वन्ति यद्यपि तमेव मन्येहमात्मानं विद्वान् वेदोपबोधयामि ब्रह्मामृतं कृष्णं सदानन्दं अमृतोऽहं मन्ये ब्रह्म सदमृतमानन्द इत्यर्थो भवति । तथापि पूर्वमत्रे 'यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न तदा विचिकित्सति' इति मन्त्रे आत्मदर्शी विशेषेण निवासं कर्तुं नेच्छतीत्युक्तम् । तत्रास्मद्दर्शनस्य पूर्वं सिद्धत्वाद्बोधनं नोपयुज्यत इत्यर्थान्तरमाहुः तमात्मानमिति । ब्रह्मामृतं कृष्णम् । 'कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते' ॥ इति वाक्यात् । अन्यैरिति बृहदारण्यकटीकाकृदादिभिः । शाब्दापरोक्षवादोत्र । तत्तच्छब्दार्थ एव जीवात्मानः तत्त्वमसीति वाक्येन ब्रह्मामृतं विद्वान् शाब्दज्ञानवान् । मन्ये अपरोक्षज्ञानवान् । अस्वरसस्तु शाब्दापरोक्षस्य दूषणादाकरे दूषितत्वं ज्ञेयम् । विषयवाक्यार्थ उक्तः । विषयस्त्वत्र पञ्चगुणिताः ११९ म० सू० २० 937

below . Here, look at तोतः: it is तो followed by तः? Or is it ततः? Wait, if it's नैयायिकोक्तः, ततः संख्याताम्? Wait, does Prakasha have संख्याताम्? No! Wait, what if the text in Rashmi is: 'गुणोऽप्रधाने रूपादी' इति विश्वात् रूपादिर्नैयायिकोक्तो, न तु संख्या । 'ताम्' भाष्ये । Wait, why would ताम् be in Bhashya? Wait! Bhashya line 2: न पञ्चानां पञ्चगुणत्वम् । समासानुपपत्तेः । तथा हि । आद्यः पञ्चशब्दः... Does Bhashya have ताम्? No! Wait! Does Bhashya have संख्याताम्? No! Wait, look at line 8 of Prakasha: तां व्युत्पादयन्ति तथा हीत्यादि । Does Rashmi quote Prakasha or Bhashya? Rashmi quotes both! Wait, look at line 18: 'गुणोऽप्रधाने रूपादी' इति विश्वात् रूपादिर्नैयायिकोक्तोतः संख्याताम् । भाष्ये । पञ्चानां पञ्चगुणत्वे Wait, could it be: `रूपादिर्नैयायिकोक्तो न तु संख्या ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८८७ भाष्यप्रकाशः । तत्संख्याऽभावात् समासानुपपत्तिः । अनेन सप्तमीसमासोऽपि नेत्युक्तप्रायम् । एवमन्येऽपि बोध्याः । यदि चाद्यस्य पञ्चशब्दस्य संख्येयपरत्वेन द्वितीयस्य संख्यापरत्वेन सप्तमीसमासो भाष्यते, तदा पञ्चसंख्यासंख्येयेषु पञ्चसंख्येत्यर्थलाभादमीषायाः संख्याया असिद्ध्या समास- वैयर्थ्यम् । यदि च पूर्ववदाद्यस्य संख्यार्थत्वं, द्वितीयस्य संख्येयार्थत्वं, तदापि षष्ठीसमासे संख्येयबोधकपदादेव विशेषणीभूतसंख्यालाभेन पूर्वपदस्यानन्वयः । सप्तमीसमासे तु संख्यायां संख्येयाभावादुत्तरपदस्यानन्वयः । न चात्रासूर्यंपश्या राजदारा इतिवदसमर्थसमास एवास्त्विति वाच्यम् । अत्र 'असूर्यँललाटयोर्दृशितपोः' इतिवत् तादृशसमासज्ञापकाभावादिति । एतेनान्येऽप्य- रश्मिः । संख्यायामिति

द्वितीयस्य संख्यात्वे पञ्चत्वमेव पूर्ववच्चेदनन्वयः । विधायकाभावाच्च । अतो वीप्सा । पञ्चजनसंज्ञाविशिष्टानां वा पञ्चत्वमिति यथासंभवमर्थः । तथापि मूढग्राहेण संख्योपसंग्रहेपि लक्षणार्थं केनचिद्धर्मेण पञ्चसंग्राहकेण भाव्यम् । स च तेषां मते न संभवति । तथा सति पञ्चैव तत्त्वानि स्युः । अतस्ते भाष्यप्रकाशः । समर्थसमासा निवारिताः । एवं समासानुपपत्त्या तन्मतं दूषयित्वा सूत्रोक्तं पूर्वपक्षहेतुं साधयितुं पुनस्तन्मतोत्थापनायाहुः अत इत्यादि । यतः पूर्वोक्तरीत्या न पञ्चविंशतिसंख्योपसंग्रहोऽतस्त्वया असमस्तयोरेव पञ्चपञ्चेति पदयोर्वीप्सा द्विरुक्तिर्वा, अथ समासान्तरेण पञ्चजनसंज्ञाविशिष्टानां वा पञ्चत्वं यथासंभवं त्वदमीष्टं यथा स्यात् तथा, अर्थो वक्तव्यः । स चेत्थम् । वीप्सापक्षे पञ्चसंख्यायाः पञ्चगुणत्वबोधकत्वाभावात्पञ्चानामेव बोधो न पञ्चविंशतीनाम् । अतो यत्किञ्चनाः पञ्चशः पञ्चेत्येवं संख्योपसंग्राह्या । द्वितीयपक्षादरे तु पञ्चजनपदस्य, 'दैत्यः पञ्चजनो महान्' इत्युक्ते दैत्ये वा, 'स्युः पुमांसः पञ्चजनाः' इतिकोशोक्तेषु मनुष्येषु वा रूढिमाश्रित्य पञ्च पञ्चपूल्य इतिवत् पञ्चानां पञ्चजनानां समाहारः पञ्चजना इति समासो लिङ्गव्यत्ययादेश्छान्दसत्वं च वक्तव्यम् । अथवा 'दिक्संख्ये संज्ञायाम्' इत्यनेन सप्तर्षय इतिवत् रश्मिः । नेति वैयाकरणभूषणसारे विस्तारः । असमर्थेति यथा देवदत्तो राज्ञः पुरुषो विष्णुमित्रस्य इत्यत्र राजपुरुष इति समासस्तद्वत् । पञ्चत्वानां संबन्धिनां जनाः पञ्च पञ्चगुणिताः पञ्च पञ्चजनाः । पञ्चसु जनाः पञ्चपञ्चगुणिता इत्यर्थे पञ्चविषया जनाः पञ्चगुणिता पञ्चपञ्चेति द्वितीयः समासः । पञ्चसु खलेषु जनाः पञ्चपञ्चगुणिताः पञ्चपञ्च । षष्ठीति सूत्रेण सप्तमीति योगविभागात् । सुपेति सूत्रेण वा समासास्तेषामनुपपत्तेर्निवारिताः ॥ भाष्ये । विधायकेति । 'न निर्धारणे' इति सूत्रेण 'पूरणगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन' इति सूत्रेण गुणे परे समासनिषेधे विधायकामा- वात् । 'असूर्यल्ललाटयोर्दृशितपोः' इतिवत् । पूर्वेति संख्योपसंग्रहादिति हेतुम् । स चेति वीप्सार्थः । समासान्तरेणार्थश्च । एवं सांख्यमतमुत्थाप्य पूर्वपक्षहेतुं साधयामासुः अत इति । पञ्चश इति 'संख्याकवचनाच्च वीप्सायाम्' इति शस् । पञ्च पञ्च ददति द्वितीयपञ्चशब्दस्य पञ्चकवाचकत्वाद्वीप्सया पञ्चकलाभः । जनाः पञ्च पञ्चकान् ददतीत्यर्थः । अतो वीप्सेति भाष्यं व्याख्याय पञ्चजन- संज्ञेति भाष्यं व्याचख्युः द्वितीयपक्षेति । रूढिमिति । नृवर्गे पञ्चभिर्भूतैर्जन्यते इति पञ्चजनाः घञ् । जनिवध्योश्चेति न वृद्धिः । यद्वा पञ्चजना उत्पादका यस्येति विग्रहौ प्रकृतिप्रत्ययार्थज्ञानार्थं, नावयवशक्त्यर्थम् । समुदायशक्त्यापहारात् । पञ्चानां पञ्चपूलीनां समाहार इत्यत्र 'संख्यापूर्वो द्विगुः' इति समासो विहितः । ततो 'द्विगोः' इति सूत्रेण ङीष् विधानात् समाहारप्रतीतौ समाहाराः कति इत्याकाङ्क्षायां सत्यां पञ्चेति पदान्तरान्वयो युक्त इतिवत् । अत्र शंकरभाष्यादौ पूलशब्दः 'पूलं तु विपुलेऽन्यवत् । पूलः स्यात्पुलके चापि' इति विश्वात् । ह्रस्वादिः पुलशब्दः । मूलशब्दो वा 'मूलं मोचे शिफायां च भे निकुञ्जेन्तिकेपि च' इति विश्वः । शिफा जटा । लिङ्गेति स्त्रीलिङ्गव्यत्ययैकवचन- व्यत्ययौ । सप्तेति प्रागग्रं शकटाकारं तारासप्तकं सप्तर्षिसंज्ञकं मण्डलम् । एवं भाष्यं व्याख्याय तस्य विवक्षितसंख्यासाधनत्वाय पूर्वस्मिन् पक्षे पञ्चविंशतिसंख्या सङ्गतेति । वीप्सापक्षमपहाय समास- 940

पञ्च च ते पञ्चजनाश्चेति संज्ञासमासो वा वक्तव्यः । तत्र पूर्वस्मिन् विकल्पे दैत्यैकत्वेन समाहारासंभवात् समासः। द्वितीयविकल्पे तु मनुष्याणां बहुत्वेन समूहघटकतया समास- संभवेऽपि विशेषणीभूतपञ्चत्वोपपत्तयर्थं, 'वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यमः' इति मन्त्रोक्ता वा, जना यदग्निमयजन्त पञ्चेति यागसंबन्धलिङ्गेन निषादपञ्चमाश्चत्वारो वर्णा वा ग्राह्याः । तदापि न पञ्चविंशतिसंख्योपसंग्रहः । संख्याया एकस्मिन्नेव पञ्चशब्दे प्रविष्टत्वेन गुणकसंख्यान्तरस्या- भावात् । तथा संज्ञासमासपक्षेऽपि । वस्तुतस्तु वसिष्ठादिषु सप्तर्षय इतिवत् पञ्च पञ्चजना इति संज्ञायाः कुत्राप्यभावात् समासस्यैवानुपपत्तिः । अत एतत्सर्वं विहाय जनयन्तीति जना इति योगं चाश्रित्य तत्त्वानि ग्राह्याणि । ततः पञ्चानां जनानां समाहारः पञ्चजनाः, पञ्चानां पञ्चजनानां सः पञ्चपञ्चजना इति समाहारसमासद्वयस्य वा पञ्चगुणिताः पञ्च पञ्चपञ्च, ते च ते जनाश्चेत्युत्तरपद्लोपिगर्भस्य कर्मधारयस्य वा आश्रयणेन पञ्चविंशतिसंख्यामुपसंगृह्य वेदान्ते पक्षे पञ्चविंशतिसंख्यासाधकत्वं स्पष्टमाहुस्तन्न पूर्वेति । निषादेति ब्राह्मणाच्छूद्रायां जातो निषादः । यागसंबन्धस्तु 'निषादस्थपतिं याजयेत्' इति श्रुतेः । एकस्मिन्निति विशेषणे द्वितीयस्य रूढपदा- न्तर्गतत्वात् । गुणकेति गुणः विंशतिसंख्या तत्र पञ्चसंख्या पञ्चशब्देनोक्ता विंशतिः संख्या गुण- पदार्थः । गुण एव गुणकः । 'गुणोऽप्रधाने रूपाद्यौ' इति विश्वः । रूपादिः रूपरसगन्धस्पर्श इत्यादि- नैयायिकोक्तः । तत्र संख्या गुणः । तथेति यथा समाहारद्विगुपक्षे तथा । एवमुपपादितेपि भाष्ये समासपक्ष एव पञ्चजनपदे व्याकरणसंचारात् प्रतिपिपादयिषितवाक्यशेषाच्छक्तिग्रहे पञ्चजनपदे उपपदमतिङिति सूत्रेणापि समासस्य वैयर्थ्यमापादयतीति पञ्चजनपदे उक्तव्याकरणनैर्बल्याच्च पक्षान्तरमाहुः वस्तुत इति । न चात्रापि व्याकरणं वक्ष्यमाणं भवतीति 'दिक्संख्ये संज्ञायाम्' इति व्याकरणं कुतो नेति शङ्क्यम् । पञ्चजनपदे अन्यस्य वक्ष्यमाणस्यापि व्याकरणस्य क्लिष्टकत्वेन युक्त्यन्तरतौल्यात् स्पष्टस्य दिक्संख्येति सूत्रस्याप्राप्तिमाहुः वसिष्ठेति । ननु पूर्वपक्षभाष्यस्य पञ्चजनसंज्ञाविशिष्टानां वेत्यस्य विरोध इति चेन्न । पञ्चजनपदे संज्ञासमासं परित्यज्य वाक्यशेषेण प्राणादिवाचकत्वस्योत्तरसूत्रभाष्य एवादरात् । किं च प्राणादिवाचकत्वेपि समासस्तु दिक्संख्येत्य- नेनैव । न च सप्तर्षय इतिवत्पञ्चजना इति संज्ञायाः काप्यदर्शनान्न 'दिक्' समासः किंतु उपपदमतिङिति सूत्रेण समास इति वाच्यम् । कर्मणि चेति निषेधात् । न च कुम्भकार इत्यत्रेवोभयप्राप्त्यभावादस्तु समासो रूढेः पञ्चवृत्तिं जनयन्तीति प्राणादयः पञ्चजनाः इति भाष्यादिति वाच्यम् । कुम्भकार इत्यत्रास्तु उपपदमतिङिति सूत्रेण समास इह तु पञ्चसंख्याश्रावणात् दिक्संख्येतिसूत्रेण समासः । 'समानाधिकरण एवेति नियमाश्रयणे तु उपपदमतिङिति सूत्रेण समासः । वसिष्ठादयस्तु 'सप्तर्षीणां तु यौ पूर्वौ' इति श्लोकव्याख्याने द्वादशस्कन्धे सन्ति वसिष्ठो, मरीचिरङ्गिराः, अत्रिः, पुलस्त्यः, पुलहः, क्रतुरिति अयं प्रकाशो दिक्संख्ये संज्ञायामिति सूत्रप्रवृत्त्यां पञ्चजनपदे तस्या नैर्बल्यं प्रतिपादयति । दिक्संख्यासमासप्रसङ्गात् । उत्तरसूत्रे वक्तव्यमत्र पूर्वपक्षग्रन्थ उक्तम् । संख्योप- संग्रहादपि नेति सूत्रांशं व्याकरिष्यन्तो यथा संभवमिति भाष्येण वीप्सादिक्संख्येतिसमासयोर- प्राप्तिसूचनादाहुः अत इति । यथासंभवमिति भाष्यतात्पर्यात् । जना इति पचाद्यच् । उपपदाभावाच्चान्येष्वपि दृश्यत इति डः । योगमिति । तथा च योगरूढं पदमिति भावः । अवयवशक्तेः कुशलादौ सत्त्वात् । उत्तरेति पञ्चगुणिता इत्यत्र पञ्चोत्तरपद इत्यर्थः । शाकपार्थि-

नानाभावा एव स्वीकर्तव्याः । यद्यपि भूततन्मात्राकूतिचित्त्यन्तःस्थितत्वधर्मा वक्तुं शक्यन्ते । तथापि न ते तथोक्तवन्तः । भाष्यप्रकाशः । मोक्षाधिकारान्मुमुक्षुभिः कपिलस्मृतिसिद्धानि पञ्चविंशतितत्त्वानि ग्राह्याणीति तन्मतस्यापि श्रौतत्वकल्पनं मूढग्राह इतीदं सर्वं संख्योपसंग्रहादपीत्यनेनोत्थाप्य, नेत्यनेन निषेधन्ति । तत्र हेतुर्नानाभावादिति । तद् व्याकुर्वन्ति तथापीत्यादि । एवं बाधेऽप्युक्तरीत्या मूढग्राहेण संख्योपसंग्रहेऽपि जनशब्दवाच्यानां तत्त्वानां प्रत्यभिज्ञानार्थं तत्पञ्चकनिष्ठपञ्चत्वसंग्राहकेण केन- चिद्धर्मेण सांख्यमते मान्यम् । तादृशश्च धर्मस्तन्मते अप्रसिद्ध इति न संभवति । तदसंभवे सति पञ्चैव तत्त्वानि स्युर्न तु पञ्चपञ्च । अतस्तेषां संख्यासंग्रहस्यावश्यकत्वात् पञ्चकनिष्ठपञ्चत्वसंग्राहका धर्मा नानाभावा