भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २४५

भाष्यप्रकाशः ।

तेषां चेतनत्वेनादृष्टान्तत्वात् । यदि च तप्तायःपिण्डस्य दग्धृत्ववत् साक्ष्यधिष्ठितस्य प्रधानस्ये- क्षितृत्वं कल्प्यते, तदा तु यन्निमित्तं प्रधानस्येक्षितृत्वं तस्यैव सर्वज्ञत्वाज्जगत्कारणत्वं वक्त- व्यम् । तद्धेतोरेवेति न्यायात् । न च ब्रह्मणो नित्यज्ञानत्वेन विवक्षितन्वादीक्षणात्मकज्ञानक्रियां प्रति स्वातन्त्र्यासंभवात् कथं सर्वज्ञत्वमिति वाच्यम् । प्रतप्तौष्ण्यप्रकाशेऽपि सूर्ये सविता दहति प्रकाशत इति प्रयोगदर्शनादिहापि तद्वत् सत्यपि च ज्ञानकर्मभूते विषये नित्यज्ञानतया तादृशप्रयोगोपपत्तेः । न च प्राक् सृष्टेः पदार्थान्तराभावादीक्षणात्मकस्येश्वरज्ञानस्य निर्विषयत्वं शङ्क्यम् । तत्त्वान्यत्वाभ्यामनिर्वचनीययोर्नामरूपयोर्व्याचिकीर्षितत्वेन तयोरेव विषयत्वात् । न च तयोरनागतत्वेनाविषयत्वं शङ्क्यम् । अतीतानागतविषयकज्ञानस्य योगिषु दर्शनात् तद्धेये ईश्वरे तादृशाशङ्काया एवासंगतत्वात् । न च प्राक् सृष्टेर्ब्रह्मणोऽशरीरित्वादीक्षितृत्वमनुपपन्नमिति शङ्क्यम् । सवितृप्रकाशवद् ब्रह्मणो नित्यज्ञानस्वरूपत्वेन ज्ञानसाधनानपेक्षत्वात् । 'न तस्य कार्यं करणं च विद्यते' इति, 'अपाणिपादो जवनो ग्रहीता' इति मन्त्राभ्यामपि तथा निश्चयात् । न च चैतन्यैक्यवादिनो जीवेश्वरभेदाभावात् संसारिणो जीवस्यापि तथाज्ञानापत्तिरिति शङ्क्यम् । घटगिरिगुहाद्युपाधिभेदेन व्योम्न इव ब्रह्मचैतन्यस्याप्युपाधिभेदेन भेदस्याप्यङ्गीका- रेणोक्तदूषणाभावादित्यादि । तज्जयतीर्थेन माध्वेनैवं दूष्यते । सांख्यप्रतिपन्नं प्रधानं न श्रौतं जगत्कारणं, तदैक्षतेतीक्षितिश्रवणादशब्दं तदिति यद् व्याख्यातं तदयुक्तम् । तथाहि । अत्राशब्दमित्येनेनोक्तमश्रौतत्वं न सांख्यस्य प्रतिवादिनः सिद्धम् । तेन वैदिकत्वाभ्युप-

रश्मिः ।

यदि चेत्यादि । तद्धेतोरेवेति हेतुहेतुमतोर्हेतुत्वे तद्धेतोरेव हेतुता इति न्यायादित्यर्थः । सर्वज्ञत्वं नाम ज्ञानकर्तृत्वमिति मत्वाशङ्क्य निषेधन्ति न च ब्रह्मण इत्यादि । ज्ञानक्रियामिति ईक्ष दर्शनाङ्कनयोरिति धातुपाठाज् ज्ञानस्य धात्वर्थत्वेन क्रियात्वम् । भूवादयो धातवः क्रियावाचिन इति । नित्यस्यापि ज्ञानस्य तत्पदार्थोपहितत्वेन ब्रह्मस्वरूपाद् भेदं कल्पयित्वा कार्यत्वोपचाराद् ब्रह्मणस्तत्कर्तृत्वव्यपदेशः साधुरिति सिद्धान्तमाहुः प्रतप्तेत्यादि । तद्वदिति दाहप्रकाशयोः कर्मभूते विषये सत्यसति च प्रयोगवत् । ज्ञानकर्मेति । सर्वं जानातीत्यत्र नित्येति । नित्यत्वं ज्ञाने विषयाविनाभूतत्ववत् विषयविनाभूतत्वमपीति । तादृशेति सर्वं जानातीति प्रयोगोपपत्तेरित्यर्थः । तत्त्वान्यत्वाभ्यामिति सतोऽबाधात् सत्त्वेनानिर्वाच्ययोरसतो- प्रत्ययादसत्त्वेनानिर्वाच्ययोरित्यर्थः । ईश्वरत्वेश्वरान्यत्वाभ्यामिति वार्थः । सत्तामात्रत्वान्नामरूपयोः प्राक् सृष्टेरिति भावः । गङ्गानिष्ठशुक्लत्वनीलत्वाभ्यां गङ्गात्वगङ्गातीरत्वाभ्यां सर्वात्मत्वदशायाम- निर्वाच्ययोर्वा नामरूपयोः । घटगिरीति मलिनसत्त्वप्रधानाऽविद्या जीवोपाधिः शुद्धसत्त्वप्रधाना मायेश्वरोपाधिः । यन्न मते लघुत्वं वास्तविकं यत्तदेव भेदकम् । इत्यादीति आदिना यदप्युक्तं प्रधानास्यानेकात्मकत्वात् मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम् । यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते न प्रधानादीनां तथा प्रपञ्चयिष्यति 'न विलक्षणत्वादस्य' इत्येवमादिनेति भाष्यसंग्रहः । अशब्दपदेन प्रधानं न ग्रहीतुं शक्यमित्याह अत्राशब्दमित्यादि । इतीति तथाच सगुणस्य कारणता न स्यात् किं तु

245

१४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० १० भाष्यप्रकाशः । गतेः । नापि खन्यायेन तदुक्तिः । अजामेकामित्यादौ प्रधानस्य श्रुतत्वात् । नच तत्रा- न्यत् कल्प्यम् । नाममात्रे विवादादर्थान्तरस्य चाभावात् । किं च ब्रह्मणोऽपि श्रौतत्वं न युक्तम् । अवाच्यत्वात् । अवाच्ये वृत्त्यन्तरायोगात् । नापि तस्येक्षितृत्वम् । तस्येक्षतिस्वरूप- त्वात् । नच मायावच्छिन्नस्य जगत्कारणस्येक्षितृत्वं संभवतीति वाच्यम् । जिज्ञास्यस्यैव जग- त्कारणताया उक्तत्वात् । नहि जिज्ञास्यं मायावच्छिन्नम् । तज्जिज्ञासाया अप्रयोजकत्वात् । किंच माययेक्षितृत्वं भवत्युपचर्यते वा । आद्ये दृश्यत्वाद्यापि किं न स्यात् । द्वितीये प्रधा- नेऽपि तत्संभवादिति । मम त्वन्यदपि स्फुरति । सूत्रव्याख्याने यदुक्तम्, ईक्षतेरिति धात्वर्थनिर्देशो लक्षणया विषयिणा विषयलक्षणाद् यथा यजतेरिति तदपि फल्ग्विति । सूत्राणां वेदान्तवाक्यकुसुमग्रथ- नार्थत्वस्य पूर्वं स्वयमेव कथनादत्रापि पूर्वं विषयवाक्योपन्यासाद्वाक्यविशेषगतत्वेन स्वार्थप्रत्याय- कस्यैव धातोर्निर्देशस्य सूत्रकाराशयगोचरतया लक्षणाया अत्राविवक्षितत्वात् । किंच पञ्चशिखवृत्तौ ब्रह्मपदस्य प्रधानवाचकताङ्गीकारात् तेन चेत् तत् स्मरेत् तदा प्रसङ्गे जात आनुमानिकादि- सूत्राण्यप्यत्रैव वदेत् । जन्मादिसूत्रविषयश्रुत्या तु न वक्तुं शक्यम् । तत्र तत्प्रसङ्गाभावात् । श्रुत्यन्तराणां त्वानुमानिकपाद एव विचारादिति । सूत्रान्तरव्याख्यानं तु नातिविरुद्धमित्युपर- म्यते । हेयत्वावचनसूत्रे चकारं प्रतिज्ञाविरोधाभ्युच्चयार्थमाहुः श्रुतत्वाच्चेति । चकारप्रयोजनं न किमप्याहुः । रश्मिः । शुद्धसत्त्वप्रधानमायामात्रस्य । पूर्वमिति जन्मादिसूत्र इत्यर्थः । अविवक्षितत्वादिति तेन 'यः सर्वज्ञः सर्ववित्' इत्यादीनां संग्रहो य उक्तः सोप्यसंगत इति भावः । अधुनास्मिन् प्रधाननिरूपण- रूपपूर्वपक्षोत्थानमसंगतमित्याहुः किंचेत्यादि । अत्र प्रधानस्मारकपदाद्यभावेन प्रसङ्गसंगतेर्वक्तुम- शक्यत्वात् । उपोद्घातादीनां चासंभवादसंगतमिदं स्यात् । यदि च ब्रह्मपदस्य प्रकृतिवाचकत्वं सांख्यसंमतमिति जिज्ञासासूत्रेण प्रधानं स्मरेदिति नासंगतं प्रधाननिरूपणरूपपूर्वपक्षोत्थानमिति विभाव्यते तदा दूषणान्तरमाहुः पञ्चशिखेत्यादि । सूत्राणीति चतुर्थपादे वक्ष्यमाणानि । जन्मा- दीत्यादि 'यतो वा इमानि भूतानि' इतिश्रुत्या जन्मादिसूत्रेण चेत्यर्थः । तथा च जगत्कर्तृत्वेनार्थेन प्रधानस्मरणं वक्तुं शक्यं प्रधाने जगत्कर्तृत्वस्य सांख्याभिमतत्वादित्यपि नेत्यर्थः । तत्प्रसङ्गेति किं तु 'अधीहि भगवो ब्रह्म' इति ब्रह्मण एवोपक्रान्तत्वात्तत्संगतिरिति भावः । जन्मादिसूत्रविषय- श्रुतिपदस्योपलक्षकत्वात् । श्रुत्यन्तराणामिति 'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः' इत्या- दीनामित्यर्थः । विचारादिति जीवप्रकरणेन जीवपरत्वोपपादनरूपाद्विचारात् । तथा चात्र सूत्रे प्रधानस्मरणाभावात्पूर्वपक्षोऽसंगत एवेति भावः । ईक्षतिसूत्रे प्रधानस्मरणस्यासंगतत्वे- नात्रेपि तत्स्मरणस्यासंगतत्वमित्याशयेनाहुः नातिविरुद्धमिति । प्रतिज्ञेत्यादि यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीं ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धती- मेव ग्राहयति तद्वन्मुख्यमात्मानमुपदिदिक्षुः प्रधानस्य हेयत्वं वदेत् स आत्मा तत्त्वमसीत्यत्र न चैव- मवोचदिति सूत्रं व्याख्याय 'उत तमादेशमप्राक्ष्यो येनाश्रुतम्' इत्याद्युपक्रमे श्रावणात् कारणविज्ञानेन 246

' + 'छ' does NOT have a full vertical line like 'सा'. But 'सा' has a full vertical line with a connecting stroke. And to the left of 'सा', there is a 'त्'! So it is definitely 'त्' + 'सा' = 'त्सा'! Wait, why 'त्सा'? Could it be: "तत्" (that, i.e. Pradhana) + "साशब्दत्व"? No, "सशब्दा" / "सशब्दत्व"? Wait, could it be a typo for "तदशब्दत्व" or "तच्छाब्दत्व"? The typesetter might have had a manuscript that said "तदशब्दत्व" or "तत्साशब्दत्व" or "तच्छाब्दत्व". Let's transcribe exactly what is printed: "स्तत्साशब्दत्वव्यवस्थापनमसङ्गतमिति" or whatever is clearly visible. Wait, is there an 'आ' stroke on 'श'? No, it's 'शब्दत्व'. Wait, is the second akshara 'त्सा' or just 'त्'? Let's zoom in to line 28, the very first word: Look at: स् (s) + त (ta) = स्त त् (t) सा (sā) Wait, could it be: स् - त - त् - सा - ब्द - त्व? Wait, look at the letter between 'त्सा' and 'त्व': Is it 'श' + 'ब्द'? Wait! Look at it closely!

१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० १०

भाष्यप्रकाशः ।

सिंहावलोकनन्यायेन ब्रह्मणोऽवाच्यत्वमेव युक्त्यन्तरैर्दूषयन्ति । तत्रेदमवबोध्यम् । तथाहि । द्विविधं कपिलसूत्रप्रसिद्धं सांख्यम् । समासरूपमष्टाविंशतिसूत्रम् । तदुपरि पञ्चशिखप्रणीतः । प्रवचनसूत्रात्मकं च षडध्याययुक्तम् । तत्राद्ये तु शास्त्रप्रतिपाद्यानामर्था- नामुद्देशमात्रं नान्यत् । द्वितीये तु, 'सत्त्वरजस्तमःसाम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महतोऽहंकारोऽ- हंकारात् पञ्चतन्मात्राण्युभयमिन्द्रियं स्थूलभूतानि पुरुष इति । पञ्चविंशतिर्गणः' इत्येकस्मिन् सूत्रे सर्वानुद्दिश्य ततोऽग्रे 'स्थूलात् पञ्चतन्मात्रस्य', 'बाह्याभ्यान्तराभ्यां तैरहंकारस्य', 'तेनान्तःकरणस्य', 'ततः प्रकृतेः', 'संघातपरार्थत्वात् पुरुषस्य' इति पञ्चसूत्र्या स्थूलभूतानि प्रत्यक्षसिद्धान्यादाय तेभ्यः कार्येभ्य उपरितनानामानुमानिकत्वमेव कपिलाचार्यैराहृतम् । ततोऽग्रे यद्यपि 'प्रधानाज्जगजायते' इति श्रुतिं सूत्रकारेण पठन्ति त्रिविधं प्रमाणं चाङ्गीकुर्वन्ति, तदप्युक्तोपष्टम्भायैव, न तु शब्दस्य प्राधान्याय । अत एव व्यासचरणैरप्यानुमानिकसूत्रे तथैव तन्मतं सूचयित्वा दूष्यते । तेन सांख्यमते प्रकृतेर्मुख्यतया शब्दगम्यत्वाभावेनाशब्दत्वमेव सिद्ध्यति । शब्दगम्यत्वस्यानुमा- निकपादे निराकरणेन तस्याभिमानिकत्व एव पर्यवसानादिति । अत एतद्व्यतिरिक्तं सर्वं

रश्मिः ।

'एतदन्यस्वभावो यः स नात्मेति सतां मतम् । अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते' ॥ इति वामन इति स्मृतिः 'द्वे वा व ब्रह्मणो रूपे आत्मा चैवानात्मा च तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च अथ ह योऽनीदृशः सोऽनात्मा' इति तलवकारश्रुतिः । युक्त्यन्तरैरिति न ह्यशब्दः श्रूयते न चाप्रसिद्धं कल्प्यं सर्वशब्दावाच्यस्य लक्षणाद्युक्तेरित्येवं युक्त्यन्तरैरित्यर्थः । प्रधानस्याश्रौतत्वं न सांख्यमतसिद्धमिति भागोऽसंगतः । तन्मते प्रधा- नादीनामानुमानिकत्वेनाश्रौतत्वात् । अन्यत्सर्वं संगतमित्याहुः तत्रेदमित्यादि । नान्य- दिति । तथा च तस्य प्राथम्येपि विस्पष्टप्रतीत्यजनकत्वान्नोच्यत इति भावः । द्वितीये त्वित्यादि प्रवचनसूत्रात्मके । सत्त्वरजस्तमसमिति व्यस्तोपि पाठः । आनुमानिकत्वमिति 'कार्यात्कारणानुमानं तत्साहित्यात्' । 'अव्यक्तं त्रिगुणाल्लिङ्गात्' । 'तत्कार्यतस्तत्सिद्धेर्नापलापः' । 'सामान्येन विवादाभावात्' 'धर्मवदनुमानम्' इति सांख्यप्रवचनसूत्रेषु सत्त्वादिधर्मवदव्यक्तस्यानु- मानेन तथेत्यर्थः । अथवा 'अचाक्षुषाणामनुमानेन बोधो धूमादिमिरिव वह्नेः' इति सूत्रे तथेत्यर्थः । तथा च स्थूलभूतातिरिक्तानां प्रकृत्यादीनामानुमानिकत्वमेवेति भावः । ननु 'प्रधानाज्जगजायते इति' इतिसूत्रे प्रधानं श्रौतमित्यप्याहृतं तत्राहूस्ततोऽग्रे इति । स्थूलादित्याद्यारभ्य त्रयोदश- सूत्रीपठनानन्तरमित्यर्थः । श्रुतिमिति इतिशब्दान्तां श्रुतिम् । त्रिविधमिति 'त्रिविधं प्रमाणं तत्सिद्धौ सर्वसिद्धेर्नाधिक्यसिद्धिः' इति सूत्रेणेत्यर्थः । तच्च प्रत्यक्षानुमानशब्दात्मकम् । उक्तो- पष्टम्भायेति प्रकृत्यादीनां यदुक्तमानुमानिकत्वं तदुपष्टम्भायेत्यर्थः । 'प्रधानाज्जगजायते' इति जगता प्रधानमनुमातव्यमिति श्रुतिमात्रप्रामाण्ये पूर्वोक्तं न सिद्ध्येदिति प्रमाणत्रयमङ्गीकृतमिति हृदयम् । प्राधान्यायेति तथा च प्रधानादित्यादिसूत्रं प्रधानस्य जगत्कर्तृत्वबोधने परिसमाप्तं न तस्य श्रौतत्वबोधनायालमिति भावः । तथैवेत्यादि । आनुमानिकमिति प्रकृत्यादि-

243

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण है:

भाष्यप्रकाश-रश्मि-परिवृंहितम्। २४९ भाष्यप्रकाशः। सम्यगेव। अत एव भाष्यान्तरेऽपि प्रकृतेस्तथात्वस्यैवादरणमिति दिक्। विज्ञानेन्द्रभिक्षुस्तु, ननु यदि प्रलये प्रधानादिसमन्वयो ब्रह्मण्युपगतस्तर्हि तस्यैव श्रुत्युक्तं जगत्कारणत्वमस्तु। भवदभिमतब्रह्मकल्पने तस्य जगदधिष्ठानकारणत्वकल्पने च गौरवात्। सांख्यसूत्रेष्वीश्वरस्य निराकृतत्वात्। ब्रह्मशब्दश्च व्यापकत्वात् प्रधानजीवयोरुपपद्यत एव। अधिष्ठानकारणत्वं च जीवानामेवास्तु। समस्तकार्याणामदृष्टद्वारा जीवकार्यत्वस्य अदृष्टवदात्म- संयोगजन्यतया जीवाधेयत्वस्य च सर्वास्तिकसंमतत्वात्। 'सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद' इति, 'सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि,' 'येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि' इति जीवप्रकरणस्थश्रुतिस्मृतिभ्यामपि तथावसायाच्च। अतः शास्त्रस्य नित्येश्वरपरत्वे शास्त्रयोनित्वा- दितिहेतुराश्रयासिद्धः। कार्येश्वरपरत्वे च पृथक् शास्त्रारम्भवैफल्यम्। सांख्यादिभिरेव तथा- विधब्रह्मन्निरूपणादिति शङ्कायामिदं सूत्रं प्रववृते। ईक्षतेर्नाशब्दमिति। विवादास्पदप्रधानादि- भ्योऽतिरिक्तं ब्रह्म न अशब्दं, न अशास्त्रयोनि, न जगत्कारणश्रुत्यप्रतिपाद्यमिति यावत्। कुतः। ईक्षतेः। ईतरावृत्तिश्रुत्युक्तेक्षणधर्मकत्वात्। तथाच कारणश्रुतिः पराभिमतप्रधानाद्यन्य- विषया, तद्वृत्तिधर्मप्रकारेण बोधकत्वात्। आकाशाद् वायुरित्यादिश्रुतिवदिति। अथवा तज्जगज्जन्मादिकारणं ब्रह्म चेतनमचेतनं वा। चेतनत्वेऽपि स्वयंभूस्तदतिरिक्तो वेति विशेषाकाङ्क्षायां श्रववृते ईक्षतेर्नाशब्दमिति। जगत्कारणं ब्रह्म ना पुरुष एव। कुतः ईक्षतेः। ईक्षणश्रुतिगोचर- त्वात्। अत अवेक्षणात् तद् ब्रह्म अशब्दं शब्दब्रह्मणो हिरण्यगर्भादतिरिक्तं च भवति, सुतरां पुरुषान्तरेभ्य इत्यर्थः। हिरण्यगर्भस्य वेदमयत्वेन वेदगर्भत्ववच्छब्दब्रह्मत्वमपि स्मर्यते 'पूर्वस्मादौ परार्द्धस्य ब्राह्मो नाम महानभूत्। कल्पो यत्राऽभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः' ॥ इति भागवतादिष्विति। एवं द्विधा सूत्रं व्याख्याय, तदैक्षत बहु स्यामिति विषयवाक्यं दर्शयित्वा। रश्मिः। विशेषणदानेनानुमानिकं प्रकृत्यादीति तन्मतं सूचयित्वेत्यर्थः। भाष्यान्तर इति अनुव्याख्यान- संज्ञके मध्वभाष्य इत्यर्थः। तथात्वस्यैवेति मुख्यतयात्राऽशब्दत्वस्यैवेत्यर्थः। यथाहुः। 'न च सांख्यैर्निराकृत्यै सूत्राण्येतान्यचीक्लृपत्। भगवान् न ह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ' ॥ इति। तस्यैवेति अविभक्ततया स्थितस्य ब्रह्मणः 'अविभक्तं च भूतेषु' इति वाक्यात्। भवदभीति प्रायोपाधिक इत्यर्थः। पदार्थद्वयकल्पने गौरवात्। प्रकृत्यविभक्तं तु कूटस्थमेवेति गौरवम्। जगदधिष्ठानेति एतदुपपादितम्। सांख्यसूत्रेष्विति 'ईश्वरासिद्धेः' इत्यादिष्वि- त्यर्थः। 'मुक्तबद्धयोरन्यतराभावान्न तत्सिद्धिः'। 'उभयथाप्यसत्त्वम्'। 'मुक्तात्मनः प्रशंसा उपासासिद्धस्य वा' इति सूत्रेष्वित्यर्थः। अधिष्ठानेत्यादि उक्तसूत्राग्रे 'तत्सन्निधानादधिष्ठातृत्वं मणिवत्' इतिसूत्रात्तथेत्यर्थः। 'विशेषकार्येऽपि जीवानाम्' 'सिद्धरूपबोद्धृत्वात् वाक्यार्थोपदेशः' 'अन्तःकरणस्य तदुच्छ्वसितस्योल्लोहवदधिष्ठातृत्वम्' इतिसूत्राण्यालोच्याह समस्तेत्यादि। शास्त्र- योनित्वहेतोरिति ईश्वराभावाज्जीवनानात्वाहुः आश्रयेति। शास्त्रारम्भति। शास्त्रं वेदान्तः। नेति चेतन १. अनुव्याख्याने। २. तप्तः पिण्डवत्। 249

२५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ४ सू० १० भाष्यप्रकाशः। 'सर्गकाले तु संप्राप्ते ज्ञात्वा तं कालरूपकम् । अन्तर्लीनविकारं च तत् स्रष्टुमुपचक्रमे । तस्मादव्यक्तमुत्पन्नं ततश्चापि महानभूत्' ॥ इति स्मृतिं च दर्शयित्वाह । नहीदमीक्षणं प्रधानादीनामचेतनानां संभवति । ईक्षण- ध्यानचिन्तनादिशब्देषु चैतन्यस्य विशेष्यत्वात् । ईक्षणादिसम्बन्धेनोपाधिवृत्तिवाचकत्वेऽपि प्रकृति- स्नातक्यवादिभिरपि प्रधाने तत्पूर्विकाया वृत्तेरनङ्गीकाराच्च । नापि जीवानां, महदादिसृष्टेः पूर्वं करणाभावेन तेषां चैतन्यफलोपधानाभावात् । नचेयमीक्षणपूर्विका सृष्टिर्महत्सत्त्वसृष्टेः पश्चादिति वक्तुं शक्यम्, तथा सतीक्षणात् पूर्वमपि द्वैतापत्त्या, 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इती-

'अन्योन्यमनुरक्तास्ते ह्यन्योन्यमनुजीविनः । अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः' ॥ इति मत्स्यादिवाक्यमप्युपपन्नम् । एतेन त्रयाणां भेदाभेदावपि व्याख्यातौ वेदितव्यौ । ननु तेषां कार्योपाधिकत्वेऽपि, 'त्रिधा कृत्वाऽऽत्मनो देहं सोऽन्तर्यामीश्वरः स्थितः' इति स्मृतेर्योगि- कायव्यूहवल्लीलावतारत्वमेवाऽस्तु, किमर्थं विष्ण्वादीनां चेतनान्तरत्वं कल्प्यत इति चेन्न । कौर्मे- 'प्रधानं पुरुषं चैव प्रविश्याशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः ॥ प्रधानात् क्षोभ्यमानाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद्वीजं प्रधानपुरुषात्मकम्' ॥ इत्यनेन, तथा विष्णुपुराणादिषु च पुरुषान्तरेण सह प्रकृतिं संयोज्यैव परमेश्वरस्तदुभया- त्मकं देवतात्रयरूपं महान्तं सृजतीत्यवगमात् । 'ब्रह्मादीनां त्रयाणां तु स्वहेतौ प्रकृतौ लयः । प्रोच्यते कालयोगेन पुनरेव समुद्भवः' ॥ इति मात्स्यादिभ्यस्तेषामुत्पत्तिलयसिद्धेश्च । अस्मिन् कूर्मवाक्ये ईश्वरप्रवेशो जीवस्य ज्ञानेच्छाप्रयत्नव्यापनरूपः । क्षोभश्च गुणद्वारा । योगश्चैकाग्र्यम् । अयं च क्षोभः संयोगविशेषद्वारा महतो हेतुः । एवं पुराणान्तरेभ्योऽपि न तेषां साक्षादवतारत्वम् । किंच । मनुना 'यत् तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति गीयते' ॥ इत्यनेनाव्यक्तब्रह्मकार्यस्यापि लौकिकब्रह्मत्वमुक्तवा, 'आपो नारा इति प्रोक्ताः' इत्यादिना योगेन तस्यैव नारायणत्वमुक्तमतो नारायणाद्व्यतिरिक्त एव परमेश्वर इति । नच नारायणादि- शब्दानामुपाधिमात्रपरत्वमिति वाच्यम् । तथा सति लक्षणापत्तेरिति । अत एव विष्ण्वादिदेवतायाः कृष्णाद्यवतारेषु न पुरुषान्तरप्रवेशः श्रूयते, फलवान् वा भवतीत्यतोऽंशावतारत्वमेव । अत एव भागवते ऋष्यादीन् प्रकृत्य कथ्यते, भिन्नतया । ननु 'प्रधानं पुरुषं चैव प्रविश्य' इत्युक्तौ जीवद्वयमेकत्र देहे स्यादित्यत आहुः अस्मिन् कूर्मवाक्य इति । प्रधानपुरुषयोः संचालनसम्भवेन कर्मत्वानुपपत्तिमाशङ्क्याह क्षोभश्चेति । तथा च गुणान् संचालयामासेत्यर्थः । धात्वर्थमाह अयं चेति तथा च गुणानां मुख्यगौणभावेन संयोगं कृतवानित्यर्थः । उपाधिमात्रेति मात्रचा शुद्धस्वरूपव्यवच्छेदः । तथा चाविभागाद्वैतहानिरिति भावः । लक्षणापत्तेरिति जहदजहल्लक्षणापत्तेरित्यर्थः । नारायण इत्यत्र नारा आपस्तासां त्यागोऽंशमात्रमात्मा नारायणान्तर्गतो योऽंशसंबन्धस्य त्यागः । अंशात्मनोरैक्यम् । एवं तत्त्वमसीत्यत्र मायाविद्ययोस्त्यागः ब्रह्मविष्ण्वोरप्येवम्, एतन्मते त्वविभक्तत्वेनैवाद्वैतम् । गीतोक्तसात्त्विकविषयम् । अत आपत्तिस्तुल्या । अत एवाविभागाद्वैतं सिद्धम् । पुरुषेति विष्णुपुरुषादन्यः पुरुषः पुरुषान्तरं तस्मिन् प्रवेशः । किंतु यस्मिन् विष्ण्वंश एव कृष्णे । फलं कार्यं तद्वान् पुरुषान्तरप्रवेशः । अंश इति विष्ण्वंशावतारत्वमित्यर्थः । 'सर्वं तं परादात्' इत्युक्तश्रुतेरपकारः । अत्र प्रमाणमाहुः अत इति ।

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari script:

१५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ४ सू० १० भाष्यप्रकाशः। 'एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे' ॥ इति । अत्र कृष्णो विष्णुः स्वयं परमेश्वरः, तस्य पुत्रवत् साक्षादंश इत्यर्थः । ऋष्यादीनामंशांशि- वचनादिति । न चैवं सति, 'मत्तः परतरं नान्यत् किंचिदस्ति धनञ्जय' इति गीतावाक्यविरोध इति वाच्यम् । तथाविधवाक्यानां व्यक्तरूपरत्वात् । ईश्वरस्य चाव्यक्ततया व्यवहार्यत्वाभावात् । एतेनापि विष्ण्वादीनां परमेश्वरत्वादिकं व्यक्तापेक्षया बोध्यम् । नित्यत्वं च 'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते' इति स्मृतेर्बोध्यम् । अथवा, 'यो यो देवानां प्रत्यबुध्यत स एव तदभवत्' इतिश्रुतेर्विष्णु- देवताया औत्पत्तिकब्रह्मात्मभावान्मत्तः परतरं नास्तीत्यादिवचनोपपत्तिः । वक्ष्यति चाऽऽचार्यः, 'शास्त्रदृष्ट्या तूपदेशो वामदेववत्' इति । अत एवानुगीतायां, 'परं हि ब्रह्म कथितं योगयुक्तेन तन्मया' इति श्रीकृष्णवचनाद् भगवद्गीतायां परब्रह्मैव कार्यब्रह्मणा श्रीकृष्णेनाहमित्युपदिष्टमिति निर्णीतम् । किंच । अन्येषामपि ज्ञानिनां ब्रह्मभावेऽपि विष्ण्वावेव मुख्यतो ब्रह्मभावान्मत्तः परतरं नास्तीति वचनमुक्तं, नान्यस्य । तस्य सर्वज्ञानिमुख्यत्वमुक्तं मोक्षधर्मे, 'अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । एकस्तद्वेद भगवान् धाता नारायणो विभुः ॥ नारायणादृषिगणः' इत्यादिना । तथा शिवस्यापि मत्तः परतरं नास्तीति वचनं बोद्धव्यम् । किंच । योगयुक्ता ये जीवाः पूर्व- पूर्वेषु सर्गेषु करणवर्गेण सह च सायुज्यमुक्त्वा परमेश्वरतां गतास्ते वासुदेवव्यूहेऽन्तर्भवन्ति । तत्र च व्यूह एक एव वासुदेवो नित्येश्वर इतरे तदंशा वासुदेवाः । तथा संकर्षणप्रद्युम्नोऽनिरुद्धाख्य- व्यूहरूपिणो विभूतिगणाः पूर्वसिद्धाः । त एते यथायोग्यं महदादिविराडन्तरूपेण ब्रह्मविष्णु- रुद्ररूपेण चांशावताराः परमेश्वरस्य भवन्ति । 'आगच्छन्ति यथाकालं गुरोः संदेशकारिणः' इति मोक्षधर्मात् । तथाच ये हरिहरादयः परमेश्वरकोटयस्तेषां, मत्तः परतरं नास्तीति वचनमुपपद्यत एव । यद्यपि तेषां जगद्व्यापारवर्जमैश्वर्यं तथापि परमेश्वरात्मकतया सर्वस्रष्टृत्वसर्वधारत्वा- रश्मिः। मृडयन्तीति सुखयन्तीत्यर्थः । अत्रार्थे प्रमाणमाहुः ऋष्यादीनामिति । वाक्यैशस कला इति समास मलाहुः अंशांशीति । तथा चांशसापेक्षणात्कृष्णोंश इत्यर्थः साधुः । ऋष्यादीनामंशाः पुत्रादयस्ते सन्त्येषां तैंश्चिन इत्यर्थः । व्यक्तरूपरत्वादिति तथा च व्यक्तं 'मत्तः परतरं नान्यत्' इत्यर्थः । परमेश्वरत्वबोधकानां संगतिमाह एतेनेति । विष्ण्वादिनित्यत्वबोधकानां संगतिमाह नित्यत्वं चेत्यादि । एकस्यांशांशिभावः उक्तः स. विरुद्ध इति पक्षान्तरमाहुः अथवेति । 'प्रत्यबुध्यत' यथावदात्मानं प्रतिबोधितवान् । औत्पत्तिकेति नित्यब्रह्मात्मभावस्तत्कृतः स कृष्ण- सादभिज्ञान्ततः इत्यर्थः । तर्ह्यन्येषामपि ब्रह्मभाव एतादृशः स्याद्ब्रह्मज्ञे आत्मनोप्यविभाग इति । ब्रह्मात्मभावादित्रासमसंन्दोऽधिक इत्यत आह किं चेत्यादि । ब्रह्मभावादिति कृष्णरूपात् । वचनमिति तस्य वचनमुक्तं नान्यस्येत्यर्थः । योगयुक्ता इति । स्मार्गेपि मानसीसेवायां योगत्वेन व्याख्यानात् । अन्ये तु 'पतन्त्यधो नादृतयुष्मदङ्घ्रयः' इतिवाक्यविषयाः । करणेति सूक्ष्मदेहेन । द्वितीयस्कन्धेति । इतर इति कृष्णाद्याः । परमेति परमेश्वर आत्मा येषां गणानां 252

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २५३

भाष्यप्रकाशः ।

ष्टुपदेशोऽपि तेषु युज्यत एव । ननु यद्येवं तदा गीतादिषु विष्ण्वादिदेवैश्वर्यमेव कुत उक्तं, न परमेश्वरतदैश्वर्ये वेति चेन्न । 'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः' ॥ इति प्रश्नप्रतिवचनाभ्यां विष्णुदेवाद् भेदेन परमेश्वरकथनात् । 'अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते' इत्यादिना च परमेश्वरसैश्वर्याधिक्यनादिति । ये त्वीश्वरस्यान्तर्याम्यतिरिक्तविष- यापि योगिनामिव लीलाशरीरमिच्छन्ति, तेषां मते, 'न तस्य कार्यं करणं च विद्यते', 'अप्राणो ह्यमनाः शुभ्रः', 'अक्षरात् परतः परः' इत्यादिश्रुतीनां, 'अरूपवदेव हि तत्प्रधानत्वात्' इत्यागामि- सूत्रस्य च विरोधः । कार्यं शरीरम् । करणं बुद्ध्यादि । बुद्ध्यादिना हि शरीरं प्रेर्यत इति । 'सर्वदेहविवर्जितः' 'अशरीरः शरीरेषु सर्वेषु निवसत्यसौ' इति, 'देहद्वयस्थितो नित्यः सर्व देहवि- वर्जितः' । इति भारतादिष्वीश्वरस्य देहद्वयप्रतिषेधात् । अतो विष्ण्वादिदेवानामेव स्थित्यादिलक्षण- स्वाधिकारपालनाय मत्स्यादयो लीलावताराः । ते च परब्रह्मणः प्रकृष्टशक्तितया आवेशावतारतया वा परमेश्वरत्वेनोपास्या इति । तथाच श्रुतिः— 'यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' ॥ 'यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्' ॥ इति । नन्वेवं परब्रह्मणः सकाशाद् विष्ण्वादिदेवानां भिन्नत्वे विष्णुशिवप्रकरणस्थानि सृष्ट्यादिवाक्यानि ब्रह्मनिरूपणे साध(क)नतया विचारकैः किमित्युपन्यस्यन्त इति चेत्तयोरीश्वर- कोटितया परमेश्वरेण सह व्यवहारसाम्यादिति गृहाण । अत एव, 'त्रयाणामेकभावानां यो न पश्यति वै भिदाम्' इत्यादिभिस्त्रयाणामेव देवानां स्वाभाविकब्रह्मात्मभावसाम्यात् सर्वोपनिषत्सु त एवोपासनार्थं ब्रह्मतयोपदिश्यन्त इति । परब्रह्मणश्च स्वतः नामरूपाद्यभावः । 'न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥ नामरूपे न यस्यैको योऽस्तित्वेनोपलभ्यते' । इत्यादिरूपविष्णुपुराणादिवाक्यात् । आत्मनः पर इति जीवादतिरिक्ते । अतः परब्रह्मणो नामरूपाद्यभावान्मुख्यविकारयोर्हरिहरयोर्नामरूपाभ्यामेव शास्त्रेषु प्रायशो व्यपदेशः । अत एव वैष्णवाः शैवाश्च विष्ण्वाद्यतिरिक्तं परमेश्वरमविद्वांसो ब्रह्ममीमांसाशास्त्रं विष्ण्वादिपरतया व्याच- क्षाणा अविवेकिन एवेति मन्तव्यम् । एवं पञ्चसूच्यां संक्षेपतः प्रदर्शितः शास्त्रार्थ इतः परं प्रपञ्च्यत इत्याह ।

रश्मिः ।

तत्फलं वा । अविभागाद्वैतादेवेति । ऐश्वर्यादिति अहं परं यस्येति बहुव्रीहिणेत्यर्थः । अन्तर्या- मीति अन्तर्यामिब्राह्मणे स्फुटमिदम् । देहद्वयेति स्थूलसूक्ष्मदेहद्वय इत्यर्थः । व्यष्टिसमष्ट्यात्मकदेह- द्वयेति वा । व्यवहारेति अविभागाद्वैतेन तथा । पञ्चसूच्यामिति एतत्सूत्रपर्यन्तायां जन्माद्यस्येति

253

२५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० १० भाष्यप्रकाशः । तदप्यविचाररमणीयमेव । सदेव सोम्येदमग्र आसीदित्यनेन निरूपिताया आदिसृष्टेः पूर्वं केवलं ब्रह्मैव, नान्यदित्यस्यार्थस्य साधने तदभिमताविभागलक्षणाद्वैतस्याऽवान्तरसृष्टिप्राक्काल- विषयत्वव्युत्पादनेन तदानीं तदभिमतप्रकारेण प्रधानादिसमन्वयस्याशक्यवचनतया जीवा- दृष्टसाप्याभावेन प्रथमव्याख्यानगतपूर्वपक्षस्यैवासंगतत्वेन तदपाकरणाय सूत्रप्रवृत्तेर्वक्तुमशक्य- त्वात् । द्वितीयव्याख्यानं तु न दुष्टम् । सांख्ययोगयोः सर्वांशेन श्रुतिविरुद्धत्वोपपादनं त्वसंगतमेव । 'अक्षपादप्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रुतिविरुद्धोंऽशः श्रुत्येकशरणैर्नृभिः ॥ जैमिनीये च वैयासे न विरोधोऽस्ति कश्चन' । इति पराशरोपपुराणीयवाक्यविरोधात् । नच योऽभ्युपगमवादत्वेनोक्तो नित्येश्वरदूषणादिः स एव त्याज्योऽस्त्विति वाच्यम् । तदुक्तषडध्याय्यां तस्याभ्युपगमवादत्वगमकानुपलम्भात् । नित्यानित्यवस्तुविवेकव्यतिरिक्तांशान्तरेऽपि तथात्वात् । 'कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्' इति श्रुत्या तथा निश्चयात् । एवं योगेऽपि द्रष्टव्यम् । जीवात्मज्ञान- मात्रेण मोक्षाङ्गीकारस्यापि तथात्वात् । 'येऽन्येऽरविन्दाक्ष ! विमुक्तमानिनस्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः' ॥ इति श्रीभागवते विविक्तजीवात्मज्ञानाद्विमुक्तमानिनां पातकथनेन तथा निश्चयादिति । तथा परमेश्वरस्य ब्रह्मविष्णुमहेश्वरातिरिक्तस्य कारणसत्त्वोपाधिकत्वस्थापनमप्यसंगततमम् । शिवतत्त्वविवेकस्थापितस्योङ्कारवाच्यस्य गुणसाम्योपाधिकस्य सर्वेश्वरस्यैव कारणसत्त्वोपाधिकस्यापि रश्मिः । सूत्रद्वयमिति । एतदपि विशिष्टाद्वैततुल्यमिति दूषयन्ति तदपीत्यादि । तदभिमतेत्यादि त्रिगुणा- त्मकरज्जुवन्त्रिगुणात्मकमन्नविष्णुशिवात्मकमेकमेव नित्यज्ञानेच्छानन्दादिमत्सद्वैकरूपकारणसत्त्वोपाधिकं ब्रह्मकार्यं तत्कारणं ब्रह्म इत्येवं तदभिमतेत्यादि । तदानीमिति प्रथमसृष्टिकाल इत्यर्थः । अती- तार्थमात्रपरत्वकल्पनेपि साकारप्रतिपादकत्वेनादोषत्याहुः द्वितीयेति । अभ्युपगमवादत्वेनेति आग्रहवादो युक्तिरहितोऽभ्युपगमवादः । ननु किं तेनेत्यत आहुः नित्यानित्येत्यादि । तथात्वा- दिति श्रुतियुक्तिविरुद्धत्वेनाभ्युपगमवादत्वादित्यर्थः । तदर्थं श्रुतिविरोधमाहुः काल इत्यादि । अत्र योनिवादनिरोसात्प्रधानवादोप्यभ्युपगमवाद इति निश्चयादित्यर्थः । 'एतेन योगः प्रत्युक्तः' इतिसूत्रादष्टाङ्गयोगे किंचिदाहुः एवं योग इति । षडङ्गयोगसौपनिषदत्वात् । शिवतत्त्वेत्यादि 'अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिर्हृदयं कण्ठं मूर्धा तत्र चतुष्पादं ब्रह्म विभाति जागरिते ब्रह्मा सुप्ते विष्णुः सुषुप्तौ रुद्रस्तुरीयमक्षरं स आदित्यो विष्णुश्च' इति ब्रह्मादिभ्यः परमेश्वर- शब्दं सर्वदेवतात्मकं तत्त्वान्तरं दर्शितम् । स एव 'न तत्र देवा ऋषयः पितर ईशते' इति श्रुत्यानन्ये- श्वरः । 'एको देवः सर्वभूतेषु गूढः' इति श्रुत्यान्तर्यामी चेति ब्रह्मोपनिषदि । अपि च जगत्कारणं ब्रह्म मायोपाधिकचैतन्यमित्यविवादं ब्रह्मविष्णुरुद्रास्तु तदीयगुणविशेषोपाधिचैतन्यरूपः 'सैषा चित्रा शुद्धा षडङ्गरा सर्वं गुणमिच्छाज्ञेरेष्वपि गुणमिव्वा सर्वज्ञं ब्रह्मविष्णुशिश्वरूपिणी' इति श्रुतेः । ततश्चोपा- 254

निरुपाधिकपरमेश्वरप्रतिनिधित्वेनैव ब्रह्मोपनिषन्नृसिंहतापनीयमैत्रायणीयाथर्वशिखासु सिद्धत्वात् । इदं यथा तथा प्रहस्ताख्ये वादे निपुणतरमुपपादितमिति नेह प्रपञ्च्यते । नच निरुपाधिकस्य निराकारत्वं शङ्क्यम् । 'आनन्दरूपममृतं यद्विभाति' इति मुण्डके, 'अकारं ब्रह्माणं नाभौ उकारं विष्णुं हृदये मकारं रुद्रं भ्रूमध्ये ॐकारं सर्वेश्वरं द्वादशान्ते आनन्दामृतरूपं प्रणवं षोडशान्ते' इति तापनीये, 'आनन्दमात्रकरपादमुखोदरादिः' इति पञ्चरात्रस्मृतौ, 'अथवा परमात्मानं परमानन्द-

रश्मिः । धिभेदे उपहितभेदसौहित्यात् , गुणमूर्तिम्यः परं मायोपाधिकं जगत्कारणं ब्रह्मेति सिद्धम् । तच्चोमास- हायं परमेश्वरं प्रभुम् , 'ऋतं सत्यं परं ब्रह्म'इति कैवल्योपनिषच्छ्रुतेरतद्वपुरित्यप्पय्यदीक्षितास्तन्न वदन्ति तादृशेश्वरसेवेत्यर्थः । प्रतिनिधित्वेनेति अत्रैवं ज्ञेयम् । यन्मूर्तित्रयातीतं तुरीयं तत्त्वं परं ब्रह्मेति प्रत्यपादि तन्मन्दम् । ब्रह्मोपनिषद्येव पूर्वोक्तानन्तरं पठ्यते तेषां मध्ये यत्परं ब्रह्म विभाति स्वयमम- नस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितं नेत्यक्षरस्वरूपं निरूप्य तस्य ब्रह्मलोकत्वप्रसिद्धयै 'तत्र लोका न लोका देवा न देवा वेदा न वेदा यज्ञा न यज्ञा माता न माता पिता न पिता स्नुषा न स्नुषा चाण्डालो न चाण्डालः पौल्कसो न पौल्कसः श्रमणो न श्रमणः पशवो न पशवस्तापसो न तापसः इत्येकमेव परं ब्रह्म विभाति' इत्यनेन तत्र लोकादीनां ब्रह्मत्वमुच्यते न तु लोकादयो निषिध्यन्ते । एकेनैव लोकादिपदेन चारितार्थ्यात् । ततो हृदयाकाशे तद्विज्ञानमाकाशं तत्सुषिरमाकाशमित्यनेन तस्य भक्तहृदयाकाशत्वलोकादीनां ब्रह्मत्वोक्तेर्निरूप्य प्रायपाठानुरोधप्राप्तप्रथमार्यससम्या ततस्तादृश- हृदि वेद्यं पूर्णं ब्रह्म ज्ञापयितुं तद्धेयं हृदयाकाशे 'यस्मिन्निदं सं च विचरति' 'यस्मिन्निदं सर्वमोतप्रोतमिति तल्लक्षणमुक्तम् । तथा च ब्रह्म प्रतिनिधीयतेस्मिन् इति प्रतिनिधिरक्षरं तत्त्वेनेत्यर्थः । नृसिंहतापनीयेत्यादि यदप्यप्पय्यदीक्षितेन 'अकारं ब्रह्माणं नाभौ उकारं विष्णुं हृदये मकारं रुद्रं भ्रूमध्ये' इति नाभिहृदयभ्रूमध्येष्‍वकारादिमात्रात्रयवाच्यानां ब्रह्मादीनामुपासाविधानानन्तरं ॐकारं सर्वेश्वरं द्वादशान्त इति द्वादशान्तोपासं तेभ्यः परं तत्त्वान्तरं तापनीये दर्शितमित्युक्तम् । तत्रापि तदनन्तरं सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानं चतुरात्मानमानन्दामृतरूपं प्रणवषोडशान्तर इति मर्कैसाहित्यलिङ्गेन प्रतिनिधेरेवोक्तेर्युक्तत्वात् । यदपि तेन मैत्रेयोपनिषदि 'तमो वा इदमेकमास' इत्यारभ्य 'तत्परेणेरितं विषमत्वं प्रयात्येतद्वै रजसो रूपम्' इत्यादिना तपोधिष्ठातुः परस्य संकल्पेनावि- षाम्यस्य तमसो गुणविभागं निरूप्य तस्य प्रागुक्ता अभ्यास्तनवो ब्रह्मा रुद्रो विष्णुरिति 'अथ यो ह खलु वा वास्य राजसोंशो योयं ब्रह्माथ यो ह खलु वा वास्य तामसोंशोसौ योयं रुद्रोथ यो ह खलु वा वास्य सात्त्विकोंशोसौ योयं विष्णुः' इति तेभ्यः परं तत्त्वान्तरं दर्शितमित्युक्तम् । तत्रापि ततः पूर्वं ब्रह्मणो वा एता अग्यास्तनवः परस्यामृतस्याशरीरस्येत्युक्तत्वात् तस्यैव तमोभवनादिरुच्यते इति प्रति- निधिरेव तत्त्वन्तरम् । यत्त्वथर्वशिखायां शिव उच्यत इति तदप्योंकारप्रणवनाम्नो निर्वचनाद् ब्रह्म- विष्णुरुद्रेन्द्राः संप्रसूयन्ते इति वचनात् प्रतिनिधित्वेन सिद्धम् । नात्र प्रसवविरोधः संपद्याविर्भावात् । तदुक्तं मैत्रायणीये 'ब्रह्मणो वा एता अग्यास्तनवः परस्यामृतस्याशरीरस्य तस्यैव लोके प्रतिमोदन्ति' इति । एतदेवाहुः निपुणतरमुपपादितमिति । यत्तत्तदाध्याहारे गौरवं मत्वाहुः किंचेति । अग्रिमाधिकरणे

१. धात्रिला नाया वा। २. ॐकारो भक्तः, साहित्यं प्रतिपाद्यप्रतिपादकभावसंवन्धेन । ११ ब्र० सू० २० 255

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

२५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० १० भाष्यप्रकाशः विग्रहम्' इति योगियाज्ञवल्क्यस्मृतौ चानन्दाकारस्यैव सिद्धत्वात् । नच, 'न तस्य कार्यं करणं च विद्यते' इत्यस्य विरोधः । तस्य तत्संबन्धि यत् ततः कार्यं जन्यं न, किं त्वजन्यमेव । किंच, तस्येति षष्ठ्या भेदो निरूप्यते । तथाच जीववत् स्वरूपातिरिक्तं ज्ञानक्रियादिषु करणमिन्द्रियादिकं च तस्य नास्ति । अथवा नित्यत्वादाकारस्य तद्धेतुभूतं करणं क्रिया, सापि नास्ति । अत एव, न तत्सम इत्यादीति तदर्थात् । एतेनैव 'अप्राणो ह्यमनाः शुभ्रः' इत्यस्याप्यविरोधः सिद्धः । नाप्यरूपवत्सूत्रस्य विरोधः । तत्रापि रूप्यते निरूप्यते व्यवह्रियत इति रूपं सर्वव्यवहारविषयत्वं तद्युक्तं रूपवद्विश्वम् । ब्रह्म तु तद्विलक्षणम् । यद्वा रूप्यते व्यवह्रियतेऽनेनेति रूपं करचरणादि तद्वत् तद्युक्तं ब्रह्म न, किंतु तद्विलक्षणम् । करादेरपि ब्रह्माभेदाद्रूपरूपं ब्रह्मैव, नतु रूपवदिति । ननु कुत एतदवगम्यत इत्याकाङ्क्षायां तन्निगमकं सूत्रशेषेणाह 'तत्प्रधानत्वात्' इति । सर्वेषां वेदान्तानां प्राधान्येन ब्रह्मप्रतिपादकत्वात् । तथाच ब्रह्मप्रकरणे निरूपित आकारो ब्रह्माभिन्न एवेति । नचाऽऽकारनिरूपकाणां ब्रह्मपरिचायनार्थत्वात् तेषां ब्रह्माभिन्नकराद्याकारनिरूपकत्वेऽपि न प्राधान्येन ब्रह्मप्रतिपादकत्वप्रतिरोध इति शङ्क्यम् । 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञान(घन) एव' इतिश्रुतौ बाह्याभ्यन्तर- भेदराहित्यबोधने ज्ञानाकारत्वस्यैव सिद्धत्वात् । आकारभूतकरादिराहित्येन केवलज्ञानात्मकतायां बाह्याभ्यन्तरत्वप्रतीतिराहित्येन तन्निषेधानुपपत्तेः । अकृत्स्त्वादिप्रतीतिराहित्येन कृत्स्नघनपदयो- र्वैयर्थ्यापत्तेश्च । अतः केवलसच्चिदानन्दात्मकब्रह्माभिन्नकरचरणाद्याकाराङ्गीकारे न कस्यापि विरोधः । यत् पुनस्तलवकारादिश्रुत्या परमेश्वरस्य साक्षादुपास्यत्वाभाव उक्तः स तु तामेव श्रुतिं विरुणद्धि । पूर्वार्धे मनःप्रभृतिरहितं तत्प्रेरकं यदुक्तं, तदेव ब्रह्म त्वं विद्धि, नेदं प्रेर्यत्वेनानुभू- यमानं जीवात्मरूपं न विद्धि । यत् प्रेरकं तत् किमित्यत आह । यदिदं सच्चिदानन्दाकारमुपासते वैदिकोपासका इति तत्रार्थात् । अनुपास्यत्वेऽभिप्रेते तु द्वितीयेंदंकारं न वदेदेव । नेदं यदुपासत इत्येतावत्तैव चारितार्थ्यात् । 'यस्यामतं तस्य मतम्' इत्यत्रापि, 'यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्' इति वरणहेतुकतनुविवरणस्य श्रुत्यन्तरे श्रावणाद् वरणाभावे यस्यामत- मविदितं तस्य मतं, यस्य पुनस्तदभावेऽपि मतं स न वेदेति । यद्वा, अनिरुक्तश्रुतौ ब्रह्मणो वाक्यपरिच्छेद्यत्ववारणाद् यस्यामतममिरुक्तत्वात् सम्यक्तया अज्ञातं तस्य मतम् । यस्य पुनस्त- द्विपरीतं स न वेदेति । अविज्ञातं करचरणादिविशिष्टतया जानतं, विज्ञातं तदभिन्नतया रश्मिः। वक्ष्यन्ति च ब्रह्मणि त्विन्द्रियाद्यभावादानन्देनैव कार्यं क्रियते इति । अविरोध इति आकारहेतुभूतः प्राणादिर्नास्तीत्यविरोध इत्यर्थः । एवेतीति करादीनां प्रत्येकं सच्चिदानन्दात्मकत्वादेवकारः । सर्वेषामिति समासस्तु तस्य प्रधानत्वं तत्प्रधानत्वं तस्य ब्रह्मणः प्रधानत्वात् मुख्यत्वादिति भाष्यात् । अविभागाद्वैतवादी शङ्कते न चाकारेति । बाह्याभ्यन्तरेत्यादि । कृत्स्नेति शेषः । यद्वा सप्तम्यन्तं पदं तृतीयान्तं वा । उक्त इति तथा च श्रुतिरित्यादिनोक्तः । अस्मिन् व्याख्याने वरणाभावेऽपि ब्रह्मावबोध आयाति स सिद्धान्तविरुद्ध इति भिन्नां व्याख्यामाहुः यद्वेत्यादि । अनिरुक्तेत्यादि तल्लिङ्गनेत्यादिसूत्रविषयभूतायामित्यर्थः । सम्यक्तयेति इदमित्थमित्येत्यर्थः । 256

जानतामित्यादिति । अतो न परब्रह्मणोऽनुपास्यत्वाद्ध्येयत्वादिकं युक्तम् । यदपि परब्रह्मणः स्वतो नामाद्यभावसाधनाय विष्णुपुराणादिवाक्यमुपन्यस्तं तत्रापि कल्पनापदात् काल्पनिकनामा- दिनिवृत्तिरेवाभिप्रेता, न यावन्नामादिनिवृत्तिः । ‘ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ । ॐकारं प्रकृत्य ‘खं वाग्ज्ञो ब्रह्मणः साक्षाद्वाचकः परमात्मनः’ । ‘तस्य वाचकः प्रणवः’ इति गीता- श्रीभागवतपातञ्जलसूत्राणां विरोधात् । वाचकस्यैव नामत्वात् । एवं सिद्धे सदादिनामकत्वे, ‘नारायणः शिवो विष्णुः शंकरः परमेश्वरः । एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम्’ ॥ इति वाराहपुराणवाक्यात् , ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’ ॥ इत्यादिश्रुतिभ्यश्च नामान्तरस्वीकारेऽप्य

वासुदेवस्य गणनाच्च । यत्पुनः, 'कृष्णस्तु भगवान् स्वयम्' इत्येतत्स्वयंपदस्य पुत्रवत् साक्षात् परमेश्वरांशः । ऋष्यादीनामंशांशिवचनादित्युकम् । तदप्यसंगतम् । भूभारहारकं कृष्णमंशेषूक्त्वा तदंशित्वेन पुमांसं चोक्त्वा ब्रह्माण्डात्मकपुंरूपताभ्रमवारणाय तुशब्दोक्तिपूर्वकं स्वयं भगवत्त्व- विधानस्याबोधात् । 'कृष्णमेन मवेहि त्वमात्मानमखिलात्मनाम्' इति, 'वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः' इत्यादिवाक्यानामप्यविचाराच्च । गीतायां तु 'परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे' ॥ इति वाक्यमपि प्रायो नावलोकितं, येन 'मत्तः परतरम्' इतिवाक्यस्य वामदेवव- च्छास्त्रदृष्ट्या ज्ञानिमुख्यवाक्यत्वेन गतिश्चिन्तिता । नहि परब्रह्मत्ववक्तार ऋषयः सर्वे भ्रान्ता येनैवं भगवदुक्ते गौणीं वृत्तिं ब्रह्मदृष्टिं च नावगच्छन्ति । तथा व्यक्तपरत्वेन गतिरप्यसंगतैव । अव्यक्त- स्याक्षरत्वेन भगवद्धामतयैव सिद्ध्या भगवतस्ततोऽपि परत्वात् । नच व्यवहार्यत्वान्नेश्वरत्वमिति युक्तम् । तस्य सूत्रव्याख्यान एवोपपादितत्वात् । यदपि मोक्षधर्मवाक्येन नारायणाङ्घ्रिभवत्वं 'प्राधान्यतो यानृष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान् सुपेशान्' ॥ इत्युपक्रमः । 'सोयं तेभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥ इदं भागवतं नाम यन्मे भगवतोदितम् । संग्रहोग्यं विभूतीनां त्वमेतद्विपुलीकुरु' ॥ इत्युपसंहारः । अत्र पुरुषस्य भूम्न इत्यनेन भगवदवतारत्वमुपक्रमे । उपसंहारेपि भगवान् विश्वभावनः इत्यनेनै- तेषां भगवत्त्वं सिद्धति । प्रथमस्कन्धे तु 'एतन्नानावताराणां निधानं बीजमव्ययम्' इत्यनेन वक्ष्यमाणानामवताराणां मत्स्यादिरूपाणां पुरुषावतारे स्थानत्वमुद्गमहेतुत्वं चोक्तमिति पुरुषावतारत्व- मुपक्रमे उपसंहारे च 'एते चांशकलाः पुंसः' इत्यनेन पुंसो विराजोवतारत्वं सिद्धतीत्युभयेषां भेदः । तथा च लीलावतारा भूमपुरुषस्यान्ये पुरुषस्य । गणनाञ्चेति तथा चैक एव वासुदेवो नित्येश्वर इतरे तदंशा वासुदेवा इति भागः संमत इति भावः । अंशेष्विति । 'एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भरम्' ॥ इत्यनेन तेषूक्ता इत्यर्थः । पुमांसमिति 'एते चांशकला पुंसः कृष्णस्तु भगवान् स्वयम्' इत्यनेनेत्यर्थः । गौणीमिति आत्मीयवाचकत्वे स्वयमित्यत्र गौणी, पुत्रपितृगुणयोगाद्गौणी । सिद्धयेति 'अव्यक्तोक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम' ॥

परमेश्वरस्योक्तं, तत्र तु नारायणपदं यौगिकमेव । धातृपदविशेषितत्वात् । न तु रूढम् । अतो यत्र नारायणपदेन परमेश्वर उच्यते तत्र रूढ्यैवोच्यते यथा महोपनिषदि । तत्र हि 'एको ह वै नारायण आसीन्न ब्रह्मा न ईशानो नापो नाग्नीषोमौ' इत्यादिना ब्रह्मादिसर्वनिषेधेऽपामपि निषेधात् । स एकाकी नर एवेत्यनेन पुरुषाकारस्योक्ततया निराकारत्वस्यापि वारणात् । तस्य ध्यानान्तस्तस्य यन्नस्तोममुच्यते, तस्मिन् पुरुषाश्चतुर्दशाऽजायन्तैका कन्येति प्रस्तुत्य, दशेन्द्रियाणि मन एकादशं तेजो द्वादशमहंकारस्त्रयोदशः प्राणाश्चतुर्दश आत्मा पञ्चदशी बुद्धिरिति तेषां स्वरूपकथने तेजःपदेन महत्तत्त्वस्य गणितत्वात् । 'विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः । स्वतेजसाऽपिबत्तीव्रमप्रतर्क्यमपां तमः' ॥ इति पुराणे तस्य तेजोरूपत्वावगमात् । अतो यत्किंचिदेकदेशमालम्ब्य सकलशास्त्रविप्लावनं इत्यत्र सिद्धेत्यर्थः । तस्येति ब्रह्मणो व्यवहार्यत्वस्येत्यर्थः । यौगिकमेवेति पूर्वमीमांसा- कारिकास्थाचार्यैर्वेदान्ते योगमात्राङ्गीकारादेवेति । धातृपदेत्यादि 'धाता नारायणो विभुः' इति । नतु रूढमिति । ननु रूढेः स्वमतेऽभावादप्राप्ताया निषेधः कुत इति चेन्न । स्वमते शक्तिसंकोचलक्षणायाः रूढेः प्रस्थानरत्नाकरेऽङ्गीकारात् । तथा च न परमेश्वरभिन्ने नारायणपदं शक्तिसंकोचयुक्तमिति । रूढ्यैवेति अपां सत्यज्ञानानन्तेश्वरे संकोचः । अक्षरं नारं जीवसमूहः अयनं यस्येति न तत्राधोक्षजेऽब्घटितयोगः संभवतीत्येवकारः । नारमयनं यस्येति योगाभासं वदन्तो हेतुमाहुः यथेति । तेनाब्घटितविग्रहे रूढिरित्युक्तम् । ननु सर्वेषां शब्दानां परमेश्वरे योगोऽङ्गीकृतः प्रस्थानरत्नाकरे इति चेन्न वैष्णवबोधनपरत्वाद् ग्रन्थस्य । अपाम

or "वाक्यलिङ्गमसङ्कु" (with sic note or as printed). The prompt says: "exact transcription, do NOT hallucinate, output line by line". Let's look really closely at whether it's 'ङ्ग' or 'न': Actually, look at the letter: it has a flat top, a loop on the left, horizontal stroke, vertical stroke: that is 'न'! But wait, is there a dot? No dot. So it looks like 'न'. Wait, could it be 'वाक्यलिङ्गमसङ्कुचाभिप्रायेण'? Wait! Look at the top left of that glyph: there is a small dot? No, it's just 'न'. Let's keep it as printed or obvious Devanagari text. Wait, could it be 'वाक्यलिङ्गम-'? No, it has 'न'. Let's look at: "वाक्यलिनमसङ्कुचाभिप्रायेण".

Wait, let's look at L29: "अवगन्तव्यमिति एतच्च 'समान एवं चाभेदात्' इति सूत्रे वक्तव्यं साधनाध्याये । तथा चेदमिति" Wait, the sutra is: "समान एवं चाभेदात्" (Brahma Sutra 3.3.19: "समाना एवं चाभेदात्" or "समान एवं चाभेदात्"). Yes, 'समान एवं चाभेदात्' इति सूत्रे वक्तव्यं साधनाध्याये ।

L30

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५६१

तत्रानन्दमय इति मयट्प्रत्ययान्तस्याब्रह्मत्वेनाजगत्कर्तृत्वे ब्रह्मप्रपाठकस्या- ब्रह्मपरत्वं स्यादिति तन्निराकरणार्थमानन्दमयाधिकरणम् । षडिन्द्रियरूप- द्वयानन्दभेदेनानन्दस्याष्टविधत्वादष्टसूत्राणि । ननु कथं संदेहः, कथं वास्याब्रह्मत्वे प्रपाठकासंगतिरिति । उच्यते । ब्रह्मविदः परमाप्तिं प्रतिज्ञाय ज्ञेयांशे कारणत्वायानन्दांशमप्रवेश्य जडत्व- परिहाराय सर्वज्ञानन्दरूपं फलमुपपाद्य तन्निरूपणार्थं सर्वोऽपि प्रपाठक आरब्धः। तत्र साधनशेषब्रह्मणो वाक्यादेव निःसंदिग्धप्रतीतेः फलस्य ब्रह्मत्वं प्रतिपाद- नीयम् । भाष्यप्रकाशः । वाक्यानीत्यर्थः । नन्वेतद्द्वये ब्रह्मणः कार्यमुच्यते । सत्यज्ञानानन्तलक्षणकं ब्रह्म प्रस्तुत्य 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्यादि

२६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ तत्राऽन्नान्नमयादितुल्यवचनात् सुखवाचकशब्दानामेव वचनाच्च संदेहः । आनन्दांशस्यैव कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात् तदभावे प्रपाठकवैयर्थ्यं च । फलस्य नैकव्यप्रतिपादनायात्मपदप्रयोगेण फलरूपेण जगत्कारणतामुक्त्वा भाष्यप्रकाशः। बोधयितुं तस्य जडत्वपरिहाराय विपश्चिद्ब्रह्मपदाभ्यां सर्वज्ञानन्दरूपं फलमृगुत्तरार्धे, सोऽश्नुते सर्वान् कामान् सहेत्यनेनोपपाद्य तस्य सर्वज्ञानन्दरूपस्य फलस्य निरूपणार्थं सर्वोऽपि प्रपाठक आरब्धः । तत्रर्चि साधनशेषस्य ज्ञेयब्रह्मणो लक्षणवाक्यादेव निःसंदिग्धं स्वरूपावगमात् फलस्य ब्रह्मत्वं प्रतिपादनीयम् । प्रतिज्ञावाक्ये परपदात् तस्य च श्रुत्युत्तरार्धेन विवरणे भिन्नविभक्तिभिन्नपद- वचनयोश्च कथनेन परपदार्थानिश्चयाद् ऋग्व्याख्यानरूपे प्रपाठकेऽवश्यं कारणत्वादिना ब्रह्मत्व- मुपपादनीयमित्यर्थः । एवं प्रपाठकार्थमुक्त्वा संदेहबीजमाहुः तत्राऽन्नमित्यादि । अन्नान्नान्नम- यादीति अन्नमयादीत्यर्थः । एवं संदेहमुपपाद्य प्रपाठकासंगतिमुपपादयन्ति आनन्दांशस्यैवेत्यादि। सदेव सोम्येति, 'स ऐक्षत लोकाम्नु सृजै' इत्यादिश्रुत्यन्तरे सच्चिदंशयोः कारणत्वस्य प्रतिपादितत्वेन तत्सहचरितस्यानन्दांशस्यापि तथात्वेन तस्यान्यत्र कारणत्वाकथनात् तदभावे कार्यानुसारिलक्षणस्याव्यापकत्वप्रसक्तेरत्र तस्यैव कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात् तदभावे तद्वैयर्थ्यमित्येवमसंगतिरित्यर्थः । ननु कारणतावाक्ये 'तस्माद्वा एतस्मादात्मनः' इत्यात्मपदादात्मा वा इदमेक एवेत्यादावि- वात्रापि चिदंशकारणताप्रतिपादनस्य संभवदुक्तिकत्वात् कथमत्रानन्दांशकारणताप्रतिपादनविनि- गमनेत्याकाङ्क्षायामात्मपदोक्ततात्पर्यं वदन्तस्तद्विनिगमकयुक्तिमाहुः फलस्येत्यादि । यथा मलय- रश्मिः । व्यापारकज्ञानरूपसाधनविषयत्वेनेत्यर्थः । फलस्येति परस्येत्यर्थः । भिन्नेत्यादि 'सत्यं ज्ञान- मनन्तं ब्रह्म यो वेद निहितं गुहायाम्' स इत्यनेन प्रतिज्ञावाक्यगतं ब्रह्मविदितिपदं विवृतम् । आप्नोति परमित्यस्य अश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति व्याख्यानं, तत्र परमित्यत्र द्वितीया विभक्तिः ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३६३ तस्यैव मध्ये सर्वान्तरत्वं प्रतिपादितं 'तस्माद् वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमयः' इति । अन्ते च, 'एतमानन्दमयमात्मानमुपसंक्रामति' इति आदिमध्यरूपे अनूद्य फलत्वेनोपपादितम् । तन्निरूपकस्यापि तत्तुल्यफलत्वं वक्तुमन्नमयादीनामपि ब्रह्मत्वेनोपासनमुक्तम् । तत्र पूर्वपक्षेऽन्नमयादेरिवानन्दमयस्यापि न ब्रह्मत्वम् । अन्नमयादितुल्य- वचनात् तथैव फलसिद्धेरिति । एवं प्राप्तेऽभिधीयते । आनन्दमयोऽभ्यासात् ॥ ११ ॥ (१।१।५) आनन्दमयः परमात्मा, नान्नमयादिवत् पदार्थान्तरम् । कुतः । अभ्यासात् । भाष्यप्रकाशः जस्याभीष्टत्वेऽपि दूरत्वात् तदर्थं न पुरुषप्रवृत्तिस्तथात्र मा भूदिति तदर्थं फलस्य नैकट्यप्रतिपादना- यात्मपदप्रयोगेण तदेतत्पदाभ्यां सन्निहितपरामर्शात् फलरूपेण जगत्कारणतामुक्त्वा तस्यैवानन्दस्य मध्ये सर्वान्तरत्वमन्ते फलत्वं चानन्दमयपदाभ्यामुक्तम्। तेनादिमध्यावसानेषु कारणत्वसर्वान्त- रत्वफलत्वानि तत्रैव साधितानि । तथान्नमयादीनां ब्रह्मत्वेनोपासनकथनात् तदान्तरत्वनिरूपकाणां यदा तत्तुल्यं फलत्वं, तदाऽऽनन्दमयस्य सर्वान्तरस्य फलत्वं किं वाच्यमित्याशयेन फलत्वमेव दृढीकतृम् । तथाच यदि केवलमात्मपदमेव कारणताप्रतिपादकवाक्ये स्यात् तदा त्वदुक्तं स्यादपि । न त्विह तथा किंतु तदेतत्पदसमभिव्याहृतम् । तथा सत्यात्मपदं नैकट्यमेव बोधयति, नतु तेन रूपेण कारणताम् । सा च प्रतिपिपादयिषिते पर्यवस्यतीति संपूर्णवाक्यविचारादवसीयते । अतः पूर्वोक्ताः फलत्वादय एतद्विनिगमकयुक्तिरूपा इत्यर्थः । एवं विनिगमकमोचनेन परोक्तं प्रतिक्षिप्य प्रकृते पूर्वपक्षमाहुस्तत्रेत्यादि । तथैवेति ब्रह्मत्वेनोपासनेनैव । सूत्रं व्याकुर्वते अभिधीयत इत्यादि । आनन्दमयोभ्यासात् ॥ ११॥ ननु हेतुना साध्यसिद्धिव्र्याप्तिनिश्चये सति भवति। प्रकृते रश्मिः । रिति स्वरूपलक्षणप्रतिपादकानन्दकर्तृत्वप्रतिपादकप्रपाठकयोरसंगतिरित्यर्थः । तदर्थमिति प्रवृत्त्यर्थ- मित्यर्थः । तदेतदिति 'तस्माद्वा एतस्मादात्मनः' इतिश्रुतौ । फलरूपेणेति ब्रह्मविदाप्नोति परमिति सन्निहितश्रुत्युक्तेनेत्यर्थः । तस्येति विपश्चिद्ब्रह्मणः । इदं फलमत आहुरानन्दस्येति । आनन्द- मयपदाम्यामिति 'तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्मानन्दमयः' 'एंतमानन्दमयमात्मा- नमुपसंक्रामति' इति श्रुतिद्वयघटकाभ्यामित्यर्थः । तन्निरूपकस्यापीत्यादिभाष्यं कैमुतिकन्यायेन व्याकुर्वन्ति तथान्नमयेत्यादि । एतद्विनिगमेत्यादि । 'तस्माद्वा एतस्मादात्मनः' इति श्रुतावात्मपदेनानन्दांशकारणताप्रतिपादनविनिगमेकेत्यर्थः । नन्वानन्दस्य कारणत्वेप्यक्षरानन्दस्य वक्तव्यम् । धर्मिणो भक्तैः सह निगूढभावकरणस्य दशमसुबोधिन्यामुक्तेस्तद्रूपानन्दस्य जगत्कारणता- भावादिति चेन्न । अदृश्यत्वाधिकरणोक्ताक्षरागेदमादायोपपत्तिसंभवात् । पुरुषविधब्राह्मणसान्त्र वक्तव्यत्वात्तत्र पञ्चसंख्याया अभावात् । अत एषापि सदानन्दस्य जगज्जन्मादिकर्त्री शक्तिरित्युक्तं द्वितीयस्कन्धनवमाध्याये । उपासनेति प्रायपाठादेवकारः। आनन्दमयोभ्यासात् ॥११॥ भाष्ये । अभ्यस्यत इत्यादि । एतेन विधेरविशेषेण पुनः श्रवणमभ्यासः इति शास्त्रदीपिकोक्तलक्षणं विधिपदरहितं युक्तं 'एकस्यैव पुनः श्रुतिरविशेषादनर्थकं ३४ ब्र० सू० २० 263

२६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ अभ्यस्यते पुनः पुनः कीर्त्यत इत्यभ्यासस्तस्मात् । अभ्यासस्य भेदकत्वं पूर्वतन्त्र- सिद्धम् । यथा पूर्वतन्त्रे शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानां षण्णां भाष्यप्रकाशः। चाभ्यासत्वेन परमात्मबोधकत्वेन व्याप्त्यभावादसिद्धोऽयं हेतुरित्यत आहुः अभ्यासस्येत्यादि । पूर्वतन्त्रे हि, 'समिधो यजति,' 'तनूनपातं यजति,' 'इडो यजति,' 'बर्हिर्यजति,' 'स्वाहाकारं यजति' इति पञ्चकृत्वो यजत्यावृत्तौ मीमांसितं, किमत्र तनूनपादादिषु चतुर्षु पूर्वयागानुवाद उत यागान्तर- विधानमिति । तत्र पूर्वपक्षिणा धात्वर्थप्रत्यभिज्ञानादिडादिगुणविधानार्थं समिद्यागानुवादेऽङ्गीकृते सिद्धान्तितम् । भेदाभेदसाधारण्या यजिश्रुत्या यागमात्रप्रत्यभिज्ञानेन श्रुतेर्यागान्तरपक्षे तुल्यत्वाद् गुणविधानपक्षेऽपि चतुर्थीत्तद्धितयोरभावेन देवतायास्तृतीयाया अभावेन द्रव्यस्य च वक्तुमशक्यत्वाद् द्वितीयया चाग्निहोत्रं जुहोतीत्यादिवत् तेषां कर्मनामत्वनिश्चयात् पदान्तरसमभिव्याहृतेन यजतिना यागान्तरमेव बोध्यत इति । तथाच यत्र यत्र वाक्ये पदान्तरसमभिव्याहृतस्य यस्य पदस्याभ्यास- स्तत्र तत्र तस्य पदस्य पूर्वस्मादर्थान्तरगमकत्वमिति व्याप्तेः पूर्वस्मादर्थान्तरत्वेन परमात्मसाधनान्ना- सिद्धो हेतुरित्यर्थः । नन्वभ्यासस्य भेदकत्वमात्रं सिद्धम् । तस्य फलमितरभेदः सोऽत्र शब्दान्तरा- देव सिद्धो वाक्यान्तरसिद्धमसन्निहितमभ्यासं स्वलाभाय नापेक्षते । तथा सति कथं तेन परमात्मभावगतिरित्यत आहुः यथेत्यादि । तथाच शब्दान्तरेण सिद्धेऽपि भेदे वैलक्षण्यमभ्यासः साधयति । सिद्धाच्च वैलक्षण्यादन्नमयादिभ्य आनन्दमयस्यातुल्यत्वं सिद्ध्यति । तेन ब्रह्मात्मभाव- रश्मिः। हि स्यात्' इति सूत्रे विधिपदाश्रवणात् । अत एव विधिभिन्नस्याप्यविशेषेण पुनः श्रवणेऽभ्यासत्व- व्यवहार इति बोधितम् । प्रकृते । परमात्मेत्यादि । इदं चाधिकारसूत्राद् ब्रह्मेत्यनुवृत्तौ लभ्यते । तेन पक्षहेतुनिर्देशोपि सूत्रे न दोषाय । पूर्वतन्त्र इति द्वितीयस्य द्वितीयपादे 'एकस्यैवं पुनः श्रुतिरविशेषादनर्थकं हि स्यात्' इत्यधिकरण इत्यर्थः । पूर्वयागेति समिद्यागानुवाद इत्यर्थः । धात्वर्थेत्यादि । करणीभूतधात्वर्थभेदेपि शब्दैकत्वेनार्थैकत्वस्य दृढतरप्रत्यभिज्ञानादित्यर्थः । प्रत्य- भिज्ञानं च तत्तेदन्ताप्रकारकं ज्ञानं स एवायं यजतिरित्याकारकम् । इडादीत्यादि । अत्र तनून- पादादीत्यनूदितव्ये इडादीत्यनुवादः शास्त्रदीपिकादौ तनूनपादादीति पदमसंगतमिति ध्वनयति । तथाहि । तनूनपादादीत्यत्रातद्गुणसंविज्ञानो बहुव्रीहिः संभवति । अन्यपदार्थस्य संयोगसमवायाति- रिक्तसंबन्धेन संबन्धित्वात् । पञ्चानामपि यागानां भिन्नत्वात् । लक्ष्यतावच्छेदकस्य विशेष्यान्वय्य- न्वयित्वाभावात् । नैयायिक लक्षणस्याप्यसमन्वयात् । तथा च चतुर्णां यागानां संग्रहायेडादीत्येव वक्तव्यम् । आदि चेद् चेडादी 'अल्पाच्तरं पूर्वम्' इतीडः पूर्वनिपातः । इड् आदिर्ययोरित्यतद्गुण- संविज्ञानो बहुव्रीहिः । इडादी च इडादी चेडादय इत्येकशेषः । तथा चेडादीनां तनूनपादिड्बर्हिः- स्वाहाकाराणां देवतारूपाणां द्रव्यरूपाणां वा गुणानां विधानार्थमित्यर्थः । चतुर्थीत्यादि अग्नये जुष्टं निर्वपामि, आग्नेयोष्टाकपालः, इतिवत् । तृतीयाया इति दध्ना जुहोतीतिवत् । इतर भेद इति यथा पृथिव्या भेदकस्य गन्धवत्त्वस्य जलादिभेदसाधकत्वाजलादिभेदः फलं तद्वदित्यर्थः । शब्दान्तरादिति द्वितीयस्य द्वितीयपादे 'शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्' इत्यधिकरणे सोमेन यजेत हिरण्यमात्रेयाय ददाति दाक्षिणानि जुहोति इत्यत्र यजत्यादीनां शब्दान्तरत्वात् कर्मभेदकत्वमिति चिन्तितम् । शब्दान्तरादप्यन्नमयादिशब्दान्तरादेवेतरभेदः सिद्धः किमभ्यासेनेत्यर्थः । तथा चानन्दमयः शब्दान्तरादिति 264