अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
भूमिका. प्रगट हो कि कलिकालमें पुरुष अनेक दुःखोंसे दुःखित रहते हैं और सबही चाहतेहैं कि हमारा दुःख दूर हो जाय इस विष- यमें विचार यहहै कि संसारके दुःख यद्यपि क्षण घडी महीना वर्ष इत्यादि नियमित कालकी औषध मंत्रादिकोंसेभी दूर होस क्तेहैं परन्तु अत्यन्त नाशको प्राप्त नहीं होसक्ते कि जिससे दुःखसागरसे पीछा छूटे क्योंकि मुक्तितौ ब्रह्मज्ञानके विना क- दापि नहीं होसक्ती जैसा कि यजुर्वेदकी श्रुतिका अभिप्रायहै, “तमेव विदित्वातिमृत्युमेतिनान्यः पन्थाविद्यतेऽयनाय” उसब्र- ह्मकाही साक्षात्कार कर मुक्तिको प्राप्तहोताहै अन्य कोई उपाय मुक्तिके प्राप्त होनेका नहींहै, इसप्रकार संसारको क्लेशित देखके “परिव्राजकाचार्य्य श्रीमच्छंकराचार्य्यजी” अपरोक्षानुभूतिको रचतेभए जिसमें संक्षेपसे वेदान्त प्रक्रिया सरलरीतिसे वर्णन करीहै और इसकी संस्कृतटीकाभीहुई परन्तु ऐसे पुरुष ब- हुत कम होतेहैं जोकि मूल अथवा संस्कृतटीकाको समझ सकें और जो समझसकैहैं इनकोतौ संस्कृतटीकाका भी कोई कामन- हींहै केवल संस्कृतका किञ्चिन्मात्र ज्ञान रखनेवाले सत्पुरुषोंके अर्थ इस पुस्तककी स्वरूपप्रकाशिका नामवाली भाषाटीका अति स्पष्ट बनाईहै इस मेरे श्रमको देख सज्जनपुरुषोंको अवश्य आह्लाद होगा । श्रीयुत भोलानाथात्मज पण्डित रामस्वरूप द्विवेदी.
विषय पृष्ठ श्लोक.
अपरोक्षानुभूतिविषयानुक्रमणिका. विषय पृष्ठ श्लोक. मंगलाचरणम् ... ... .... ... १-१ ग्रंथकर्तुःप्रतिज्ञा ... ... ... ... ३-२ वैराग्यादिसाधनकारणकथनम् ... ... ५-३ षड्भिःश्लोकैर्वैराग्यादिसाधनचतुष्टयस्वरूपकथनम् ६-४ विचारस्यकर्तव्यता ... ... ... ... ११-१० विचाराभावेज्ञानानुत्पत्तिः ... ... ... १२-११ पंचभिःश्लोकैर्विचारस्यस्वरूपकथनम्... ... १३-१२ पंचभिःश्लोकैरज्ञानस्यस्वरूपम् ... ... १८-१७ आत्मनःस्वप्रकाशत्वम् ... ... ... २२-२२ मूढलक्षणम्... .... ... ... २३-२३ पंचभिःश्लोकैर्ज्ञानस्वरूपनिरूपणम् ... ... २४-२४ शून्यवादानिराकरणम्... ... ... ... २९-२९ अष्टभिःश्लोकैर्देहात्मवादनिराक० ... ... ३०-३० कर्मकांडाभिप्रायेणापिदेहस्यात्मत्वनिरूपणम् ... ३५-३८ लिंगदेहस्यानात्मत्वनिरूपणम्... ... ... ३६-३९ स्थूलसूक्ष्मदेहाभ्यामात्मनोवैलक्ष० ... ... ३७-४० आत्मदेहविभागे शंका... ... ... ... ३८-४१ देहभेदस्यासत्त्वनिरूपणेप्रतिज्ञा... ... ... ३९-४२ जीवभेदस्यासत्त्वकथनम् ... ... ... ३९-४३ चितेर्विश्वाकारेणप्रतिभानम् ... ... ... ४०-४४ प्रपंचस्यब्रह्मोपादानत्वम् ... ... ... ४१-४५
( ४ ) विषय पृष्ठ श्लोक. श्रुतिप्रमाणेनभेदस्यमिथ्यात्वम् ... ... ४२-४६ भेदद्रष्टुःश्रुत्यादोषकथनम् ... ... ... ४३-४८ ब्रह्मकार्यस्यसर्वस्यब्रह्मरूपेणनिरूपणम् ... ... ४४-४९ जीवात्मपरमात्मनोर्भेदद्रष्टुर्भयनिरूपणम् ... ४६-५२ अज्ञानाद्भेदप्रतिभासस्यज्ञानादभेदप्रतिभासस्य- च निरूपणम् ... ... ... ... ४६-५३ एकात्माज्ञानेशोकाद्यभावनिरूपणम् ... ... ४७-५४ आत्मनोब्रह्मत्वं श्रुतिसिद्धम् ... ... ... ४८-५५ प्रपंचस्यालीकत्वंस्वप्नदृष्टांतेन ... ... ... ४८-५६ अवस्थात्रयमिथ्यात्वस्यात्मनोनित्यत्वस्यचनि० ४८-५७ अनेकदृष्टांतैर्जीवस्यंकल्पितत्वनिरूपणम् ... ५०-५९ प्रपंचस्यब्रह्मणिकल्पितत्वेबहवोदृष्टांताः... ... ५१-६१ प्रपंचरूपेणब्रह्मैवभातीत्यत्रबहवोदृष्टांताः ... ५२-६३ ब्रह्मैवसर्वव्यवहारोभवतीत्युक्त्यानिरूपणम् ... ५३-६५ प्रपंचेंगृह्यमाणेपिब्रह्मणएवग्रहणंभवतीत्यत्रदृष्टांतः ५५-६७ अज्ञानात्माऽशुद्धोभातीत्यादिनिरूपणम् ... ५५-६८ अद्वैतज्ञानानंतरमात्मानात्मविभागस्यव्यर्थत्वम्... ५६-६९ अविवेकिनांदेहतादात्म्यस्यानेकदृष्टांतैर्निरूपणम्... ५७-७० अज्ञानादात्मनिदेहत्वंपश्यतीत्यत्रबहवोदृष्टांताः ... ५७-७५ ज्ञानाद्देहाध्यासनिवृत्तिनिरूपणम् ... ... ६३-८७ आत्मविचारेणकालातिक्रमणंकर्त्तव्यमितिनिरू० ६४-८९
( ५ ) विषय पृष्ठ श्लोक युक्त्याप्रारब्धकर्मणोनिराकरणम् ... ... ६५-९० अज्ञानाज्जगत्प्रतीतिर्ज्ञानात्तन्निवृत्तिरितिदृष्टांता- भ्यां निरूपणम् ... ... ... ... ६७-९४ अज्ञबोधार्थंप्रारब्धमस्ति ... ... ... ६९-९७ ज्ञानिनःप्रारब्धाभावे श्रुतेःप्रमाणत्वेनोपन्यसनम् ७०-९८ प्रारब्धांगीकारे दोषनिरूपणम् .... ... ७१-९९ पंचदशराजयोगांगवर्णनप्रतिज्ञा- तेषांचप्रयोजननिरूपणम् ... ... ... ७२-१०० निदिध्यासस्यावश्यकत्वम् ... ... ... ७३-१०१ पंचदशांगानांनामानि ... ... ... ७४-१०२ यमस्यलक्षणम् ... ... ... ... ७४-१०४ नियमस्य लक्षणम् ... .... ... ... ७५-१०५ त्यागस्य लक्षणम् ... ... ... ... ७६-१०६ मौनस्यलक्षणम् ... ... ... ... ७७-१०७ विजनदेशस्यलक्षणम् ... ... ... ७९-११० कालस्यनिरूपणम् ... ... ... ... ७९-१११ आसनस्यनिरूपणम् ... ... ... ८०-११२ सिद्धासनस्यनिरूपणम् ... ... ... ८०-११३ मूलबंधस्यनिरूपणम् ... ... ... ८१-११४ देहसाम्यस्यनिरूपणम् ... ... ... ८२-११५ दिक्स्थितेर्निरूपणम् ... ... ... ८२-११६ प्राणायामस्यनिरूपणम् ... ... ... ८३-११८
( ६ ) ट विषय पृष्ठ श्लोक. रेचकपूरकादित्रिविधप्राणायामस्यनिरूपणम्... ८४-११९ प्रत्याहारस्यनिरूपणम् ... ... ... ८५-१२१ धारणायानिरूपणम् ... ... ... ८६-१२२ ध्यानस्यनिरूपणम्... ... ... ... ८६-१२३ समाधेर्निरूपणम् ... ... ... ... ८७-१२४ निदिध्यासस्यावधेर्निरूपणम् ... ... ... ८८-१२५ निदिध्यासनस्यफलम् ... ... ... ८८-१२६ समाधिविघ्नानांनिरूपणम् ... ... ... ८९-१२७ वृत्तेरेवबंधमोक्षकारणत्वम् ... ... ... ९०-१२९ ब्रह्मवृत्तिशून्यानांनिंदा ... ... ... ९०-१३० ब्रह्मवृत्तिपराणांवंदनीयत्वम्... ... ... ९१-१३० ब्रह्मवृत्तिपराणांबोधदाढ्र्यान्मुक्तिः ... ... ९२-१३२ बोधरहितकेवलशब्दवादिनांमोक्षाभावनिरूपणम् ९२-१३३ ब्रह्मनिष्ठानांब्रह्मवृत्त्यैवास्थितिनिरूपणम् ... ९२-१३७ कार्य्यइत्यादिपंचभिःश्लोकैर्वेदांतसिद्धांत : विचारनिरूपणम् ... ... ... ... ९३-१३५ ब्रह्मभावनयाब्रह्मत्वंभवेदित्यत्रदृष्टांतकथनम् ... ९६-१४० प्रपंचस्यब्रह्मत्वेनभावनम् ... ... ... ९८-१४१ राजयोगस्योपसंहारः ... ... ... ९९-१४२ शुद्धचित्तानांकेवलराजयोगस्यमुक्तिप्रदत्वनि० ९९-१४४ इत्यनुक्रमणिका समाप्ता ।
श्रीः । वेदान्तः । अथ अपरोक्षानुभूतिः । संस्कृतटीकया भाषानुवादेन च सहिता । श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् ॥ व्या पकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १ ॥ सं. टी. श्रीगणेशायनमः ॥ स्वप्रकाशश्चहेतुर्यः परमा- त्मा चिदात्मकः ॥ अपरोक्षानुभूत्याख्यः सोहमस्मि परं सुखम् ॥ १ ॥ ईशगुर्वात्मभेदाद्यः सकलव्यवहारभूः ॥ औपाधिकः स्वचिन्मात्रः सोऽपरोक्षानुभूतिकः ॥ २ ॥ तदेवमनुसंधाय निर्विघ्नां स्वेष्टदेवताम् ॥ अपरोक्षानु- भूत्याख्यामाचार्योक्तिंप्रकाशये ॥ ३ ॥ यद्यपीयंस्वतः स्पष्टा, तथापि स्वात्मसिद्धये ॥ यत्नोयं सोपि संक्षेपा- त्क्रियतेऽनर्थनाशनः ॥ ४ ॥ क्वाहमुल्काकरः क्वायं सूर्यस्तेजोनिधिः किल ॥ तथापिभक्तिमान्कः किंनकुर्या त्स्वहिताप्तये ॥ ५ ॥ तत्राचार्याः स्वेष्टपरदेवताऽनुसंधा- नलक्षणं मंगलं निर्विघ्नग्रंथसमाप्तये स्वमनसि कृत्वा शिष्यशिक्षायै ग्रंथादौ निबध्नंति श्रीहरिमिति ॥ अहं तं नमामीत्यन्वयः ॥ अत्रेयं प्रक्रिया पदार्थों द्वि-
( २ ) अपरोक्षानुभूतिः । विधःआत्माऽनात्माचेति तत्रात्मा द्विविधः ईश्वरो जी- वश्चेति एतावपि द्विविधौ शुद्धाऽशुद्धभेदात् तत्राऽशुद्धौ मायाऽविद्योपाधित्वेन भेदव्यवहारहेतू शुद्धौत्वभेदव्य- वहारहेतू तथाऽनात्मापित्रिविधः कारणसूक्ष्मस्थूलभे- दात् एतदेव शरीरत्रयमितिव्यवाह्रियते एवं चिज्जडरूप- वैलक्षण्यात्तमः प्रकाशयोरिव विभक्तयोरुभयोरात्माना- त्मनोरविवेकएव बंधकारणं तयोर्विवेकस्तु मोक्षकारण- मितिदिक् ॥ तत्र तावदहंशब्देन देहत्रयविशिष्टत्वेना- शुद्धोजीवः अस्यैवाऽकृष्टत्वात् तं नमामि तं माया- तत्कार्यहन्तृत्वेपि तदाश्रयभूतत्वेन सर्वकारणं वेदांत- प्रसिद्धमीश्वरं एतस्यैव सर्वोत्कृष्टत्वात् नमामि नमस्क- रोमि स्वात्मत्वेनानुसंदधामीत्यर्थः तस्यैव सर्वोत्कृष्ट- त्वेनानुसंधानयोग्यत्वमाह श्रीहरिमिति श्रियं दधानमि- त्यर्थः यद्वास्वाश्रयतया श्रियते स्वीक्रियतेप्रलयसुषु- पत्यादौ सर्वभूतैरिति श्रीर्जीवत्वोपाधिभूताऽविद्या तां ह- रत्यात्मज्ञानप्रदानेन नाशयतीति श्रीहरिस्तं यद्वा- सएवसर्वाधिष्ठानतयाश्रीरित्युच्यते श्रीरेव हरिस्तं ननु- किमनेनाऽविद्यातत्कार्यहरणेनेत्याशंक्य परमपुरुषार्थ- प्राप्तिर्भवतीति सूचयितुं तस्यपरमानन्दरूपतामाह परमानंदमिति परमोऽविनाशित्वनिरतिशयत्वाभ्यामु- त्कृष्ट आनंदः सुखविशेषस्तद्रूपमित्यर्थः ॥ तर्हि वैषयिकसुखवज्जडः स्यादित्यत आह उपदेष्टारमिति
संस्कृतटीका-भाषाटीकासहिता । ( ३ ) चार्यद्वारात्मसुखोपदेशकंचिद्रूपमित्यर्थः । ननुकेवला- नंदस्य कथमुपदेष्टृत्वमित्यत आह ईश्वरमिति ईष्टेऽसा- वीश्वरः विचित्रशक्तित्वात्सर्वसमर्थस्तं नमामीत्यन्वयः । एवमपि परिच्छिन्नत्वात् घटादिवदनात्मत्वं स्यादित्य- तआह व्यापकमिति स्वसत्ताप्रकाशाभ्यां नामरूपे व्याप्नोति सव्यापकस्तं परिच्छेदकस्य देशकालादेर्मा यिकत्वादनंतमित्यर्थः । ननुव्याप्यव्यापकभावेनानंत- त्वमसिद्धमित्यतआह सर्वलोकानांकारणमिति । अभि- न्ननिमित्तोपादानमित्यर्थः । "सत्यंज्ञानमनंतं ब्रह्म आ- त्मनात्मानमभिसंविवेश" इत्यादिश्रुतेः ॥ १ ॥ भा. टी. परम आनन्द स्वरूप श्रेष्ठ उपदेश करनेवाले संसारके स्वामी सर्वव्यापी ब्रह्मादि सर्व सृष्टिके आदिकारण श्रीविष्णु भगवान्को प्रणाम करूँहूँ ॥ १ ॥ अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसि- द्धये ॥ सद्भिरेव प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २ ॥ सं. टी. इदानींप्रेक्षावत्प्रवृत्तयेऽनुबन्धचतुष्टयं दर्शयन् स्वचिकीर्षितं प्रतिजानीते अपरोक्षेति वैत्यव्ययेन वि- द्वदनुभवं प्रमाणयति तथाचायमर्थः विद्वदनुभवप्रसि- द्धायातत्त्वमस्यादिमहावाक्यश्रवणजाप्रत्यगभिन्नब्रह्मवि-
(४) अपरोक्षानुभूतिः । पया. अपरोक्षानुभूतिरक्षाणामिंद्रियाणां परमतीतं न- भवतीत्यपरोक्षमंद्रियाधिष्ठानतत्प्रकाशत्वाभ्यां नित्य प्रत्यक्षस्वप्रकाशात्मतत्त्वं तस्यानुभूतिर्वृत्त्यारूढाखंड- ता यद्वा अपरोक्षाचासावनुभूतिश्चेत्यपरोक्षानुभूति- र्विद्याऽपरपर्यायोब्रह्मसाक्षात्कारस्तत्साधनग्रंथोप्युपनि- षच्छब्दवदपरोक्षानुभूतिशब्देनोपचर्यते झटित्यवलो- कनमात्रेणैवोत्तमधिकारिणां ब्रह्मात्मसाक्षात्कारकारणं ग्रंथविषइत्यर्थः अनेन नित्यापरोक्षब्रह्मात्मतत्त्वं विशेष्यो दर्शितः स प्रोच्यते प्रकर्षेण तत्तदाशंकानिरा करणपूर्वकं सिद्धांत रहस्यप्रदर्शनरूपेणोच्यते कथ्यत इत्यर्थःअस्माभिःपूर्वाचार्यैरित्यर्थादध्याहारः ननु प्रायः प्रयोजनमनुद्दिश्य न मंदोपि प्रवर्तत इतिन्यायान्नारंभ- णीयो ग्रंथ इत्याशंक्य प्रयोजनमाह मोक्षसिद्धयइति मोक्षोनाम स्वाविद्याकल्पितानात्मदेहाद्यात्मत्वाभिमा- नरूपबंधनिवृत्तिद्वारा स्वस्वरूपावस्थानं तस्य सिद्धिः प्राप्तिस्तदर्थं अनेनसर्वानर्थनिवृत्तिद्वारापरमानंदावाप्ति- रूपं प्रयोजनं दर्शितं किंलक्षणाऽपरोक्षानुभूतिः सद्भिः साधुभिर्नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयसंपन्नैर्मु- मुक्षुभिरित्यर्थः एवशब्दान्नान्यैः कर्मोपासनाधिका- रिभिरितिभावः । मुहुर्मुहुर्नैरंतर्यदीर्घकालाभ्यासप्रयत्नेन स्नानभिक्षादावप्यनादरं कृत्वेत्यर्थः । वीक्षणीया गुरुमु- खादवगत्य विचारणीया अनेन मुमुक्षुरधिकारी दर्शितः
संस्कृतटीका-भाषाटीकासहिताः। ( ५ ) एतेनैवार्थात् पूर्वकांडोत्तरकांडयोः साध्यसाधनभावः संबंधश्च दर्शितो भवतीति बोद्धव्यम् ॥ २ ॥ भा. टी. इस असार संसारसे मुक्तिके कारण "अपरोक्षा- नुभूति" ग्रन्थको कहूँहूँ इस ग्रन्थको सज्जनपुरुष वारंवार प्रयत्न कर देखेंगे ॥ २ ॥ स्ववर्णाश्रमधर्मेण तपसा हरितोष- णात् ॥ साधनञ्च भवेत्पुंसां वैराग्या- दिचतुष्टयम् ॥ ३ ॥ सं. टी. ननु कार्यस्य कारणाधीनत्वात् पूर्वोक्तसाधनच- तुष्टयस्य किं कारणमित्याशंक्याह स्ववर्णेति अत्र स्वश- ब्देन मुख्यगौणमिथ्याभेदेन त्रिविधेषु साक्षिपुत्रादिदेहा- दिलक्षणेष्वात्मसु मध्ये मिथ्यात्मायोग्यत्वादूह्यते तस्य देहादेर्ब्राह्मणादिवर्णब्रह्मचर्याद्याश्रमप्रयुक्तेन धर्मेण ब्रह्मा- र्पणकृतकर्मानुष्ठानजन्येनाऽपूर्वेण पूर्वमीमांसाप्रसिद्धेन - भाविफलाधारभूतेन पुण्यादिशब्दवाच्येनेत्यर्थः तथा तपसा कृच्छ्रचांद्रायणादिना प्रायश्चित्तेनेत्यर्थः पुनः हरितोषणाद्भगवत्प्रीतिकरात्सर्वभूतदयालक्षणात् कर्म- विशेषात् एतैस्त्रिभिः साधनैः वैराग्यादिचतुष्टयरूपं साधनं मोक्षसाधको धर्मविशेषः पुंसां प्रभवेत् संभावना यां लिङ् यद्वैवमन्वयः स्ववर्णाश्रमधर्मरूपेण तपसा कृत्वा यद्धरितोषणं तस्मादिति यद्यपि साधनचतुष्टय
६ ) अपरोक्षानुभूतिः । विवेकादिक्रमेण हेतुहेतुमद्भावस्तथापि वैराग्यस्या- साधारणकारणतां द्योतयितुमादौ ग्रहणं कृतमिति बोद्धव्यम् ॥ ३ ॥ भा. टी. अपने २ वर्णका धर्म धारण करनेसे अर्थात् ब्राह्म- णोंको पढना पढाना यज्ञकरना यज्ञकराना दानलेना दान देना इन ६ छः कर्मोंकरके क्षत्रियको प्रजापालन करनेसे वैश्यको खेतीका कर्म करनेसे शूद्रको ब्राह्मण क्षत्रिय वैश्यकी सेवा करनेसे और आश्रमधर्म धारण करनेसे अर्थात् ब्रह्मचर्य्य- अवस्थामें गुरुसेवन करनेसे गृहस्थ अवस्थामें पुत्र उत्पन्न करनेसे वानप्रस्थ अवस्थामें स्त्रीसहित तथा इकल्ला जाकर ब्रह्मचर्य धारणकर अग्निहोत्रादि कर्म्म तथा ईश्वरकी आरा- धना करनेसे सन्यस्त अवस्थामें सर्व कर्म्म त्याग करनेसे और चान्द्रायणादि व्रत करनेसे हरिकीर्त्तनकर ईश्वरको प्रसन्न करनेसे मनुष्यको वैराग्य, नित्य अनित्य वस्तुका विवेक,
- शम दम आदि सम्पत्ति और मुमुक्षुत्व, यह चार साधन प्राप्त होय हैं ॥ ३ ॥ ( वैराग्यस्वरूप ) ब्रह्मादिस्थावरान्तेषु वैराग्यं विषये- ष्वनु ॥ यथैव काकविष्ठायां वैराग्यं: तद्धि निर्मलम् ॥ ४ ॥
संस्कृतटीका-भाषाटीकांसहिता । ( ७ ) सं.टी. कीदृशं तद्वैराग्यादिचतुष्टयमित्याकांक्षायां त- त्स्वयमेव व्याचष्टे ब्रह्मादीत्यारभ्यवक्तव्यासा मुमुक्षुता इत्यंतेनश्लोकषट्कात्मकेन ग्रंथेन तत्रादौ वैराग्यस्य लक्ष- णमाहब्रह्मादिस्थावरांतेष्विति ब्रह्मादिस्थावरांतेषु सत्य- लोकादिमर्त्यलोकांतेषु भोगसाधनेषु अनु कर्मजन्यत्वे- नानित्यत्वं लक्षीकृत्येत्यर्थः वैराग्यं इच्छाराहित्यं तत्र दृष्टांतमाह यथैवेति यथैव काकविष्ठायां वैराग्यं गर्दभा- दिविष्ठायामपि कदाचित् कस्यचित्-ज्वरशांत्यर्थं ग्रहणे च्छा भवति अतः काकविष्ठाया ग्रहणं उपलक्षणमेतद्वां- त्यादीनां विषयेष्विच्छानुदये वैराग्यस्य हेतुगर्भितं विशेषणमाह तद्धिति हि यस्मात्तद्वैराग्यं निर्मलं रागा- दिमलरहितम् ॥ ४ ॥ भा. टी. जिस प्रकार संसारी पुरुष काककी विष्ठामें घृणा करै है तिसी प्रकार ब्रह्माको आदिले स्थावर पर्य्यन्त विष- योंमें जो वैराग्य करना है सो निर्म्मल वैराग्य होय है ॥ ४ ॥ ( वस्तु विवेकका स्वरूप ) नित्यमात्मस्वरूपं हि दृश्यं तद्विप- रीतगम् ॥ एवं यो निश्चयः सम्य- ग्विवेको वस्तुनः स वै ॥ ५ ॥ सं. टी. इदानीं वैराग्यकारणं विवेकं लक्षयति नित्य- मिति वैप्रसिद्धं सः वस्तुनः पदार्थस्यविवेको विवेचनवि-
( ८ ) अपरोक्षानुभूतिः । शेषो ज्ञेयः सक इत्यतआह एवमिति यं एवं प्रकारेण स- म्यक् संशयादिशून्यो निश्चयः एवं कथमित्यतआह नि- त्यमिति हीति विद्वदनुभवप्रसिद्धमात्मस्वरूपं नित्यम- विनाशि अबाध्यं सत्यमित्यर्थः “अविनाशी वा अरेयमा- त्मा” इति श्रुतेः दृश्यमानात्मस्वरूपं तद्विपरीतगं तदा- त्मस्वरूपं तस्माद्विपरीतत्वेन गच्छति प्राप्नोति व्यवहार- भूमिमिति तथाविधं विनाशि बाध्यमित्यर्थः अत्रेदमनु- मानमपि सूचितं भवति आत्मस्वरूपं नित्यं द्रष्टृत्वात् यन्न नित्यं तन्न द्रष्टृ यथा घटादीति केवलव्यतिरेकीहेतुः तथाऽनात्मस्वरूपमनित्यं दृश्यत्वात् यन्नानित्यं तन्नदृश्यं यथात्मस्वरूपमित्ययमपि केवलव्यतिरेकी हेतुः ॥ ५ ॥ भा. टी. आत्मा नित्यहै और जो कुछ संसारकी वस्तु देखनेमें आवै है सो अनित्यहै इस प्रकारका अच्छी तरह जो पुरुषको निश्चय होनाहै सो वस्तुका विवेक कहावै है ॥ ५ ॥ ( शमदमका स्वरूप ) सदैव वासनात्यागः शमोयमिति श- ब्दितः ॥ निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६ ॥ सं.टी. तदेवं वैराग्यकारणं विवेकं व्याख्याय वैराग्य- कार्यं शमादिषट्कं लक्षयति सदैवत्यादितिभिः श्लोकैः स- दैव सर्वस्मिन्नपि काले वासनात्यागः पूर्वसंस्कारोपेक्षायंऽ-
विषयेभ्यः परावृत्तिः परमोपरतिर्हि
संस्कृतटीका-भाषाटीकासहिता । ( ९ ) शमइतिशब्दितः अंतःकरणनिग्रहः शमशब्दार्थः बाह्यवृत्तीनां श्रोत्रवागादीनां निग्रहो निषिद्धप्रवृत्तिंति- रस्कारोदम इति शब्देनाभिधीयते कथ्यते ॥ ६ ॥ भा. टी. संसारकी वासनाओंका त्याग करना 'शम' कहावै है और बाह्य वृत्तियोंको रोक लेना अर्थात् नासि- कादि इन्द्रियोंको गन्धादि विषयसे हटाकर वशमें कर लेना 'दम' कहावै है ॥ ६ ॥ ( उपरति और तितिक्षास्वरूप ) विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ॥ सहन सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७ ॥ सं. टी. विषयेभ्यइति हीति प्रसिद्धेभ्यो बंधकेभ्यः शब्दादिभ्यो या परावृत्तिर्निवृत्तिरनित्यत्वादिदोषदर्श- नेन ग्रहणानिच्छा सोपरतिरुच्यत इत्यर्थः कीदृशी सेत्यत आह परमेति परमुत्कृष्टमात्मज्ञानं यस्याः सकाशाज्जायते सा परमा आत्मज्ञानसाधनभूतेत्यर्थः अनया सर्वकर्मसंन्यासो लक्ष्यते किंच सहनमिति सर्व- दुःखानां सर्वदुःखसाधनानां शीतोष्णादिद्वंद्वानां यत्स- हनं प्रतीकारानिच्छा सा शुभा सुखरूपा तितिक्षा मता विदुषामित्यर्थः ॥ ७ ॥ भा. टी. विषयोंसे अत्यन्त चित्तको हटालेनेका नाम
(१०) अपरोक्षानुभूतिः। 'उपरति' है। और संपूर्ण प्रकारके दुःखोंको सह लेना सो 'तितिक्षा' कहावे है ॥ ७ ॥ ( श्रद्धा और समाधानस्वरूप ) निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ॥ चित्तैकाग्र्यन्तु सल्लक्ष्ये स- माधानमिति स्मृतम् ॥ ८ ॥ सं. टी. अपिच निगमेति निगमाचार्यवाक्येषु वेद- गुरुवचनेषु यद्दोपनिषद्व्याख्यात्रुपदेशेषु भक्तिर्भज- नं विश्वास इत्यर्थः सा श्रद्धेति विश्रुता वेदांतप्रसिद्धा तु पुनः सल्लक्ष्ये “ सदेव सोम्येदमग्रआसीत् ” इत्या- दिश्रुतिलक्ष्ये प्रत्यगभिन्ने ब्रह्मणि चित्तैकाग्र्यं तदेक- जिज्ञासेत्यर्थः तत्समाधानमिति स्मृतम् ॥ ८ ॥ भा. टी. वेद शास्त्र पुराण और गुरुके वाक्योंमें जो भक्ति करनाहै सो 'श्रद्धा' कहावे है और शब्दादि विषयोंसें अन्तः करणको हटाकर मोक्षोपकारक श्रवण, मनन, निदिध्यासन द्वारा निरन्तर नित्य अनित्यके विचारको समाधान कहें हैं॥८॥ ( मुमुक्षुता स्वरूप ) संसारबन्धनिर्मुक्तिः कथं मे स्यात्क- दा विधे ॥ इति या सुदृढा बुद्धिर्वक्त व्या सा मुमुक्षुता ॥ ९ ॥
संस्कृतटीका-भाषाटीकासहिता । ( ११ ) सं. टी. एवं शमादिष मभिधायैतत्कार्यभूतां मु- मुक्षुतामाह संसारबंधेति इति यासुदृढा बुद्धिः सा मुमुक्षुता वक्तव्येत्यन्वयः साकेत्यत आह भो विधे म- दैव यद्वा सर्वकर्तर्विधातर्ब्रह्मन् मे मम संसारबंधनिर्मुक्ति- र्नानायोनिसंबंधनिवृत्तिः कदा कस्मिन्काले कथं केन प्रकारेण भवेदित्येवंरूपा बुद्धिर्मुक्षुतेत्यर्थः ॥ ९ ॥ भा. टी. किसप्रकार इस संसारबन्धनसे मेरी मुक्ति होगी ऐसी जो अत्यन्त दृढ बुद्धिहै सो मुमुक्षुता कहावे है ॥ ९ ॥ उक्तसाधनयुक्तेन विचारःपुरुषेण हि ॥ कर्त्तव्यो ज्ञानसिद्धयर्थमात्मनः शु- भमिच्छता ॥ १० ॥ सं. टी. इदं साधनचतुष्टयं यदर्थमपन्यस्तं तदिदानीं दर्शयति उक्तेति उक्तानि ब्रह्मादीत्यारभ्य वक्तव्यासा मुमुक्षुतेत्यंतग्रंथसंदर्भैण वर्णितानि यानि वैराग्यादिसा- धनानि ज्ञानोपकरणानि तैर्युक्तेन पुरुषेणाधिकारिणा देहवता मनुष्योत्तमेन हीति विद्वत्प्रसिद्धत्वेन वक्ष्य- माणलक्षणः यद्वा हीत्यव्ययमेवार्थेऽन्यनिषेधार्थइत्यर्थः। विचारो विवेकः कर्त्तव्य आवर्त्तयितव्यः किमर्थमित्यत आह ज्ञानसिद्धयर्थमिति आत्मनो ज्ञानसिद्धयर्थं ब्रह्मा- त्मैक्यबोधोद्भवनाय नन्वात्मज्ञानसिद्ध्याकः पुरुषार्थ इत्याशंक्य मोक्षाख्यं चतुर्थपुरुषार्थरूपं फलं द्योतयत
( १२ ) अपरोक्षानुभूतिः । पुरुषार्थं विशिनष्टि शुभमिति शुभं परमानन्दरूपत्वेन मंगलं मोक्षसुखमित्यर्थः इच्छता प्रार्थयता आत्मनः शुभमिति वान्त्रयः ॥ १० ॥ भा. टी. ऊपर कहे हुए वैराग्य आदि साधनों करके युक्त अपना शुभ चाहनेवाले पुरुषको ज्ञानकी सिद्धिके निमित्त विचार करना योग्यहै । (ऊपर कहे हुए साधनोंकरके युक्त ) इसकारण कहा कि 'शान्तो दान्तः' ऐसी वेदकी श्रुतिहै अर्थात् शम, दम युक्त पुरुष वेदान्तका अधिकारी होय है । जैसे और जगहभी कहाहै "प्रशान्तचित्ताय जितेन्द्रियाय प्रक्षीणदो- षाययथोक्तकारिणे ॥ गुणान्वितायानुगताय सर्वदा प्रदेयमेतत् सकलं मुमुक्षवे ॥ १ ॥" शान्तचित्त जितेन्द्रिय दोषरहित शास्त्रोक्त कार्य्य करनेवाले शास्त्रोक्त गुणोंकरके युक्त शुभ आचरण करनेवाले तथा मोक्षकी इच्छा करनेवाले पुरुषको यह शास्त्र देना चाहिये ॥ १० ॥ ( ज्ञानकी आवश्यकता ) नोत्पद्यते विना ज्ञानं विचारेणान्यसा- धनैः ॥ यथा पदार्थभानं हि प्रकाशेन विना क्वचित् ॥ ११ ॥ सं. टी. ननु ज्ञानसिद्धयर्थं विचार एव कर्तव्य इति नियमः कुतः क्रियत इत्याशंक्य सदृष्टांतमाह नोत्पद्य- तइति विचारेण विना अन्यसाधनैः कर्मोपासनालक्षणैः
संस्कृतटीका-भाषाटीकासहित । ( १३ ) ज्ञानं नोत्पद्यते तत्र दृष्टांतमाह यथेति यथा क्वचित्क- स्मिंश्चिद्देशे सूर्यादिप्रकाशेन विना पदार्थभानं घटादि- वस्तुप्रकाशो नभवति हीतिसर्वजनप्रसिद्धं अतो नि- यमः क्रियत इति भावः ॥ ११ ॥ भा. टी. विना ज्ञानके और साधनों करके नित्य अनित्य वस्तुका विचार नहीं होय है जैसे सूर्य्यदीपक इत्यादिकोंके प्रकाशके विना कहीं भी कोई घटपटादिपदार्थोंका भान नहीं होयहै ॥ ११ ॥ ( ज्ञानपूर्वक विचारस्वरूप ) कोऽहं कथमिदं जातं को वै कर्त्ताऽस्य विद्यते ॥ उपादानं किमस्तीह विचा- रः सोऽयमीदृशः ॥ १२ ॥ सं. टी. तर्हि स विचारः कीदृश इत्यत आह कोऽहमि ति अहं कर्त्ता सुखीत्यादिव्यवह्रियमाणः कः किंस्वरूपः तथा इदं जगत् स्थावरजंगमात्मकं कथं कस्माज्जातं किमधिष्ठानमित्यर्थः तथाऽस्यप्रत्यक्षादिप्रमाणसिद्ध- स्य जगतः कर्त्तोत्पादकः को विद्यते वै इति विकल्पं द्योतयति किं जीवदृष्टं कर्तृ किंवेश्वरः किं वान्यदेव किंचिदिति विकल्पः किं चेह जगति उपादानं घटस्य मृद्वत् किमस्ति अयमात्माजगत्कारणविषयः ईदृश एवंस्वरूपो विचारः स एव ज्ञानसाधनमित्यर्थः ॥१२॥
( १४ ) अपरोक्षानुभूतिः । भा टी. मैं कोनहूँ ? यह संसार किस प्रकार उत्पन्न हुआ ? कौन इस जगत्का कर्त्ता है ? और संसारका उपादान कारण कौन है ? इस प्रकार नानाप्रकारका जो विचार करना है सो ‘विचार’ है ॥ १२ ॥ नाहं भूतगणो देहो नाहं चाक्षगणस्त- था ॥ एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३ ॥ सं. टी. ननु “चैतन्यविशिष्टःकायःपुरुषः”इति बा- र्हस्पत्यसूत्राद्देहाकारेण परिणतानि पृथिव्यादिचत्वारि भूतान्येवात्मेति चार्वाका वदंति स एव कर्ता सुखी- त्यादि सर्वव्यवहारमूलमिति सर्वजनप्रसिद्धौ सत्यामा- त्मविषयो विचारो न स्यादित्यतआह नाहमिति अहम ंशब्दप्रत्यालंबनः प्रत्यगात्मा भूतगणो यो देहः स न भवामि तस्य घटादिवद्दृश्यत्वादित्यर्थः तहींद्रियगण स्त्वं स्या इति चार्वाकैकदेशिमतमुत्थाप्य दूषयति नाह मिति च पुनरक्षगणः श्रोत्रादींद्रियसंघातोप्यहं न भवामि तथेति पदेन देहवदिंद्रियगणस्यापि भूतविकारत्वं दर्शितं “स वा एष पुरुषोन्नरसमयः अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्” इत्यादिश्रुतिरुभयत्र प्रमाणं ननु यदि देहद्वयं त्वं नासि तर्हि शून्यमेवस्या दित्याशंक्याह एतदिति एतद्विलक्षणः एताभ्यां स्थूल
संस्कृतटीका-भाषाटीकासहिता । (१५) सूक्ष्मदेहाभ्यां विपरीतधर्मकोस्मि'अस्थूलमण्वह्रस्वम्' इत्यादि श्रुतेः कश्चिदिति जात्यादिरहितत्वान्मनो- वाचामगोचरत्वं दर्शितं अयमीदृशः सविचार इति व्या- ख्यातार्थश्चतुर्थः पादः श्लोकचतुष्टयेपि बोद्धव्यः॥१३॥ भा. टी. मैं भूतगण समष्टिरूप देह नहीं हूँ मैं समष्टि रूप इन्द्रियोंका समूह नहीं हूँ इससे विलक्षण कोई है सो विचार कहावे है ॥ १३ ॥ अज्ञानात्प्रभवं सर्वं ज्ञानेन प्रविलीय- ते ॥ सङ्कल्पो विविधः कर्त्ता विचारः सोऽयमीदृशः ॥ १४ ॥ सं. टी. तदेवं कोहमित्येतन्निश्चित्येदानीं कथमिदं जातमित्यस्य निश्चयः क्रियते तत्र पृथिव्यादिभूतानि कार्यत्वात्स्वस्वपरमाणुभ्यो जायंते इति तार्किकादयो मन्यंते कर्मणो जायंते इतिमीमांसकाः प्रधानादेवेति सांख्याः तदेतन्निराकुर्वन्नाह अज्ञानेति सर्वं जगदिदं ना- मरूपात्मकमज्ञानप्रभवमज्ञानात्पूर्वोक्तस्वस्वरूपस्फुर- णात्प्रभवति तथाविधं अतएवैतद्विरोधिना ज्ञानेन स्व- स्वरूपस्फुरणेन तम इव प्रकाशेन प्रविलीयते निश्शे- षलीनं भवतीत्यर्थः। को वै कर्त्तेत्यस्य निर्णयमाह संक- ल्प इति विविधो नानाप्रकारः संकल्पः इदं करिष्यामी