आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
[Page Header: ११८ | आपस्तम्बधर्मसूत्रे | [ (१.७.) क. २१. ]
सखीशब्दस्य छान्दसो ह्रस्वः। गुर्वीसखी मात्रादीनां सखी। गुरुसखी पित्रादिनां सखी तां गत्वा। किम् २ पततीत्युत्तरत्र श्रुतमपेक्ष्यते। अन्याश्च परतल्पान् गत्वा पतति। तल्पशब्देन शयनवाचिना दारा लक्ष्यन्ते ॥ ९ ॥ नाऽगुरुतल्पे पततीत्येके ॥ १० ॥ गुरुदारव्यतिरेकेण परतल्पगमने पातित्यं नास्तीत्येके मन्यन्ते । यद्यपि सामान्येन पतनीयानीत्युक्तम् , प्रायश्चित्ते तु गुरुलघुभावो द्रष्टव्यः ॥ १० ॥ अधर्माणां तु सततमाचारः ॥ ११ ॥ तुश्चार्थे । उक्तव्यतिरिक्तानामप्यधर्माणां सततमाचारः पतनहेतु ॥११॥ अथाऽशुचिकराणि ॥ १२ ॥ अशुचिं पुरुष कुर्वन्तीत्यशुचिकराणि, तानि वक्ष्यन्ते ॥ १२ ॥ शूद्रगमनमार्यस्त्रीणाम् ॥ १३ ॥ त्रैवर्णिकस्त्रीणां शूद्रगमनमशुचिकरम् ॥ १३ ॥ प्रतिषिद्धानां मांसभक्षणम् ॥ १४ ॥ येषां मांसं प्रतिषिद्धं तेषां मांसस्य भक्षणमशुचिकरम् ॥ १४ ॥ तत्रोदाहरणम्— शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्रव्यादासाम् ॥ १५ ॥ ग्राम्याणा'मिति वचनादारण्यानामप्रतिषेधः। अदनमदः, भावेऽ- सुन्प्रत्ययः। क्रव्यविषयमदनं येषां ते क्रव्यादासः केवलं मांसवृत्तयो गृध्रादयः ॥ १५ ॥ मनुष्याणां मूत्रपुरीषप्राशनम् ॥ १६ ॥ मूत्रपुरीषग्रहणं तादृशस्य रेतसोऽप्युपलक्षणम् ॥ १६ ॥ शूद्रोच्छिष्टमपपात्रगमनं चाऽऽर्याणाम् ॥ १७ ॥ शूद्रोच्छिष्टं भुक्तमार्याणां त्रैवर्णिकानामशुचिकरम्। अपपात्राः प्रतिलो- मस्त्रियः तासां च गमनम् ॥ १७ ॥ एतान्यपि पतनीयानीत्येके ॥ १८ ॥ यान्येतान्यशुचिकरत्वेनाऽनुक्रान्तानि एतान्यपि पतनीयान्येवेत्येके मन्यन्ते।
अशुचिकराणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११९ अतोऽन्यानि दोषवन्त्यशुचिकराणि भवन्ति ॥१९॥ उक्तव्यतिरिक्तानि दोषवन्ति कर्माणि दुष्प्रतिग्रहहिंसादीनि तान्य- शुचिकराणि भवन्ति ॥ १९ ॥ दोषं बुध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्वर्जयेच्चैनं धर्मेषु ॥ २० ॥ पतितस्य दोषं परैरविदितं बुध्वा परस्य समाख्याने पूर्वो न स्यात् । परैरविदितं स्वयं विद्वानपि न परेभ्यः पूर्वमाचक्षीत । किं तु स्वयं धर्मकृत्येष्वेनं वर्जयेत् , यथा परे न जानन्ति । अन्यथा दोषवान् स्यात् ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तावेकविंशी कण्डिका ॥ २१ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने सप्तमः पटलः ॥७॥
अथाऽष्टमः पटलः ॥ ( अध्यात्मपटलः ) अध्यात्मिकान् योगाननुतिष्ठेन्न्यायसंहिताननैश्रारिकान् १ श्रीमच्छङ्करभगवत्पादप्रणीतं विवरणम् ॥ अथ 'अध्यात्मिकान् योगान्'-इत्याद्यध्यात्मपटलस्य संक्षेपतो विवरणं प्रस्तूयते । किमिह प्रायश्चित्तप्रकरणे समाम्नानस्य प्रयो- जनमिति । उच्यते-कर्मक्षयहेतुत्वसामान्यात् । अनिष्टकर्मक्षयहे- तूनि हि प्रायश्चित्तानि भवन्ति । सर्वं च कर्म वर्णाश्रमविहितमनिष्टमेव विवेकिनः, देहग्रहणहेतुत्वात् । तत्क्षयकारणं चाऽऽत्मज्ञानम्, प्रवृत्तिहे- तुदोषनिवर्तकत्वात् । दोषाणां च निर्घाते आत्मज्ञानवतः पण्डितस्य धर्माधर्मक्षये क्षेमप्राप्तिरिह विवक्षितेत्यात्मज्ञानार्थमध्यात्म(१)पटलमा- रभ्यते, कर्मक्षयहेतुत्वसामान्यात् । ननु वर्णाश्रमविहितानां कर्मणामफलहेतुत्वात् तत्क्षयो नेष्ट इति, न, “सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम्” ( २. २. २. ) इत्यादिश्रवणात् । अपरिमितवचनात् क्षेमप्राप्तिरेवेति चेन्न, 'तत्प रिवृत्तौ कर्मफलशेषेण' ( २ २. ३. ) इत्यादिश्रवणात् । गौतमश्च- (२) 'वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय" इत्यादि ना संसारगमनमेव दर्शयति कर्मणां फलम् । सर्वाश्रमाणां हि दोषनि- र्घातलक्षणानि समयपदानि विधिनाऽनुतिष्ठन् सार्वगामी भवति, न तु स्वधर्मानुष्ठानात् । वक्ष्यति च- 'विधूय कविः' ( २२. ५ ) "सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्याऽत्मानमन्विच्छेद्” ( २. २१. १३ ) इत्यादि । “तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति" (२. २१. २) १. अत्र पटलशब्दो नपुंसकलिङ्गः प्रयुक्तः । 'समूहे पटल न ना' ( अमरको. ३. ३. २००) इत्यमरकोशात् समूहवाचिनः पटलशब्दस्यैव क्लीबत्वम् । 'तिलके च परि- च्छेदे पटलः' इति शेषकोशात् परिच्छेदवाचकस्य पटलशब्दस्य तु पुँल्लिङ्गत्वैवेत्यवग- म्यते । अत एव च सर्वे ग्रन्थकाराः 'इति प्रथमः पटलः, इत्येव लिखन्ति । अतोऽत्रापि पुँल्लिङ्गेनैव भाव्यं यद्यपि पटलशब्देन तथापि भेदाविवक्षया प्रयोग कृत इति भाति ॥ २ गौ. ध. ११. २९
ध्यात्मपटलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १२१ इति वचनात् क्षेमशब्दस्य चाऽपवर्गार्थत्वात् सर्वाश्रमकर्मणां ज्ञा- नरहितानामेव फलार्थत्वं, ज्ञानसंयुक्तानि तु क्षेमप्रापकाणि, यथा वि- षद्घ्यादीनि मन्त्रशर्करादिसंयुक्तानि कार्यान्तरारम्भकाणि, तद्वदिति चेत्-न; अनारभ्यत्वात् क्षेमप्राप्तेः । यदि हि क्षेमप्राप्तिः कार्या स्यात् तत इदं चिन्त्यम्-किं केवलैः कर्मभिरारभ्या ? ज्ञानसहितैर्वा? ज्ञानकर्मभ्यां वा? केवलेन ज्ञानेन कर्मासंयुक्तेन वेति । न त्वारभ्या केनचिदपि; क्षेमप्राप्तेः नित्यत्वात् । अतोऽसदिदम्-ज्ञानसंयुक्तानि कर्माणि क्षेमप्राप्तिमारभन्ते इति। ज्ञानसंयुक्तानां ज्ञानवदेव क्षेमप्राप्तिप्रतिबन्धापनयकर्तृत्वमिति चेत्-न, सकार्यकारणानामेव कर्मणां क्षेमप्राप्तिप्रतिबन्धकत्वात् । अवि- द्यादोषहेतूनि हि सर्वकर्माणि सहफलैः कार्यभूतैः क्षेमप्राप्तिप्रतिबन्धका- नि । तदभावमात्रमेव हि क्षेमप्राप्तिः । न च तदभाव आत्मज्ञानादन्यतः कुतश्चिदुपलभ्यते । तथाह्युक्तम्- “निर्दह्य भूतदाहान् क्षेमं गच्छति पण्डितः” ( २२. ११.) इति । पाण्डित्यं चेहात्मज्ञानं, प्रकृतत्वात् । श्रुतेश्च (१)“आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति” इति । अभयं हि क्षेमप्राप्तिः । (२)'अभयं वै जनक ! प्राप्तोऽसि' इति श्रुत्यन्तरात् । “तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति' (२.२१.२.) इत्याचार्यवचनमन्यार्थम् । कथम् ? यथोद्दिष्टेष्वाश्रमधर्मेष्वव्यग्रो निष्का- मस्सन् प्रवर्तमानो ज्ञानेऽधिकृतो भवति, न यथेष्टं(३) चेष्टन् कामकामी जायापुत्रवित्तादिकामापहृतव्यग्रचेताः । ज्ञानी च सन् सर्वसन्यासक्र- मेण क्षेमं गच्छतीत्येषोऽर्थः । न हि दोषनिर्घातः कदाचिदपि कर्मेभ्य उपपद्यते । समिथ्याज्ञानानां हि दोषाणां प्रवृत्तौ सत्यां प्राबल्यमिहोप- लभ्यते । 'सङ्कल्पमूलः कामः' इति च स्मृतेः । प्रवृत्तिमन्द्ये च' दोषत- नुत्वदर्शनात् । न चाऽनिर्हृत्य समिथ्याज्ञानान् दोषान् क्षेमं प्राप्नोति क- श्चित् । न च जन्मान्तरसञ्चितानां शुभकर्मणां विहितकर्मभ्यो निवृत्ति- रुपपद्यते, शुद्धिसामान्ये विरोधाभावात् । सत्सु च तेषु तत्फलोपभो- गाय शरीरग्रहणं, ततो धर्माधर्मप्रवृत्तरागद्वेषौ, पुनः शरीरग्रहणं चेति संसारः केन वार्यते ? तस्मान्न कर्मभ्यः क्षेमप्राप्तिस्तत्प्रतिबन्धन्निवृत्तिर्वा। कर्मसहिताज्ज्ञानादविद्यानिवृत्तिरिति चेत् ! यद्यपि ज्ञानकर्मणो र्भिन्नकार्यत्वाद् विरोधः तथापि तैलवर्त्यग्नीनामिव संहत्य कर्मणा १. तैत्ति. उ. २, ९. २. बृ. उ. ४. २. ४. ३. 'चेष्टन्' इति शत्रन्तः प्रयोगस्साधुरिति न प्रतीमः । आप० ध० १६
१३२ आपस्तम्बधर्मसूत्रे [(प.८.) क.२२. ज्ञानमविद्यादि संसारकारणं निवर्तयतीति चेन्न । क्रियाकारकफलानुप- मर्देनाऽऽत्मलाभाभावात् ज्ञानस्य कर्मभिः संहतत्वानुपपत्तेः । तैलवर्त्य- ग्नीनां तु सहभावित्वोपपत्तेरितरेतरोपकार्योपकारकत्वोपपत्तेश्च संहत- त्वं स्यात् । न तु ज्ञानकर्मणोस्तदुभयानुपपत्तेः संहतत्वं कदाचिदपि सम्भवति । केवलज्ञानपक्षे शास्त्रप्रतिषेधवचनाद्युक्तमिति चेन्न । ज्ञान- कार्यानिवर्तकत्वाच्छास्त्रप्रतिषेधवचनस्य । योऽयं कर्मविधिपरैः केवलज्ञानपक्षस्य सर्वसन्न्यासस्य विप्रतिषे- धो विरोधः, स नैव ज्ञानकार्यमविद्यादोषक्षयं वारयति (१)'भिद्यते हृद- यग्रन्थिः' (२)'तस्य तावदेव चिरम्' (३)'मृत्युमुखात् प्रमुच्यते' इत्ये- वमादिश्रुतिस्मृतिशतसिद्धम्, कर्मविधिपरत्वात् प्रवृत्तिशास्त्रस्य । न च (तत्) ज्ञानस्वरूपं ब्रह्मात्मैकत्वविषयं वारयति, सर्वोपनिषदामप्रा- माण्यानर्थक्यप्रसङ्गात्, 'पूः प्राणिनः'(२२ ४.) 'आत्मा वै देवता' इत्यादिस्मृतीनां च । तस्माद्यद्यपि बहुभिः प्रवृत्तिशास्त्रैर्विप्रतिषिद्धं केवलज्ञानशास्त्रमात्मैकत्वविषयमल्पं, तथापि सकार्यस्य ज्ञानस्य बल- वत्तरत्वान्न केनचिद्वारयितुं शक्यम् । जीवतो दुःखानिवर्तकत्वाज्ज्ञानस्याऽनैकान्तिकं क्षेमप्रापकत्वमिति चेत्, न, 'भिद्यते हृदयग्रन्थिः' 'ब्रह्मविदाप्नोति परम्', 'निचाय्य तं मृ- त्युमुखात् प्रमुच्यते' (४)'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतिस्मृति- न्यायेभ्यः । बहुभिर्विप्रतिषिद्धत्वात् सर्वत्यागशास्त्रस्य लोकवत् त्या- ज्यत्वमिति चेन्न, तुल्यप्रमाणत्वात् । मानसान्तानि सर्वाणि कर्मा- ण्युक्त्वा । (५)"तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्" इति तपःशब्दवाच्यानां कर्मणामवरत्वेन संसाराविषयत्वमुक्त्वा न्यास- शब्दवाच्यस्य ज्ञानस्य केवलस्य 'न्यास एवात्यरेचयत्' (६)'त्यागेनै- के अमृतत्वमानशुः' इत्यमृतत्वफलं दर्शयति शास्त्रम् । (७)"तस्यैव विदुषो यज्ञस्याऽऽत्मा यजमानः" इत्यादिना च वि- दुषः सर्वक(र्म?र्मा) भावं दर्शयति; “द्वौ पन्थानावत्रानुनिष्क्रान्ततरौ कर्मपथश्चैव पुरस्तात् सन्न्यासश्च, तयोः सन्न्यास एवातिरेचयति" इति च । विप्रतिषेधवचनस्य निन्दापरत्वादयुक्तमिति चेन्न । अ- १ मु. उ. २. २. ८. २. छा. उ. ६. १४. २. २. कठो. २. ३ १५, ४. मुण्ड. उ. ३. १ ९. ५. नारा. उ. ७८. ६. नारा. उ. ३. ७. नारा. उ. ८०
आत्मज्ञानोपायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १२३ विद्वद्विषयस्य कर्मणः स्तुत्यर्थत्वोपपत्तेः । मन्दबुद्धयो हि लोकेऽदृष्ट- प्रयोजनाः प्ररोचनेन प्रवर्तयितव्याः कर्मसु । न दृष्टप्रयोजना विद्वांसः । परनिन्दा हि परस्तुतिरिति केवलज्ञाननिन्दया कर्मस्तुतिपरमाचार्यव- चनम् । यत्तु “बुद्धे चेत् क्षेमप्रापणम्, इहैव न दुःखमुपलभेत” (२.२१.१६) इति ज्ञानस्य साधनत्वानैकान्तिकवचनं, तद् (१) 'ब्रह्मविदा- प्नोति परम्' इत्यादिवाक्येभ्यः प्रत्युक्तम्, आचार्यान्तरवचनाच्च 'त्यज धर्ममधर्मं च' 'न तत्र क्रमते बुद्धिः' 'नैष्कर्म्यमाचरेत्' 'तस्मात् कर्म न कुर्वन्ति' इत्यादेः । तस्मात् केवलादेव ज्ञानात् क्षेमप्राप्तिः ॥ अध्यात्मिकान् योगानिति । अध्यात्मं भवन्तीत्यध्यात्मिकाः । छा- न्दसं ह्रस्वत्वम् । के ते आध्यात्मिका योगाः ? वक्ष्यमाणा अक्रोधादयः । ते हि चित्तसमाधानहेतुत्वाद् योगाः । बाह्यनिमित्तनिरपेक्षत्वाच्चा- ध्यात्मिकाः । तानध्यात्मिकान् योगान् । न्यायसहितान् उपपत्तिसम- न्वितान् । ते हि क्रोधादिषु दोषनिर्घातं प्रति समर्था उपपद्यन्ते न्याय- तः । अनैशारिकान् निश्चारयन्ति मनोऽन्तःस्थं बहिर्विषयेभ्य इति नैशारिकाः क्रोधादयो दोषाः, तत्प्रतिपक्षभूता ह्येते नैशारिकाः । अक्रोधादिषु हि सत्सु चित्तमनिश्चरणस्वरूपं प्रसन्नमात्मावलम्बनं तिष्ठति । अतस्ताननुतिष्ठेत् सेवेत । अक्रोधादिलक्षणं चित्तसमाधानं कुर्यादित्यर्थः । तथा हि परः स्व आत्मा लभ्यते । क्रोधादिदोषापहृत- चेतस्तया हि स्वोऽपि पर आत्माऽविज्ञातोऽलब्ध इव सर्वस्य यतः, अतस्तल्लाभाय योगानुष्ठानं कुर्यात् ॥ १ ॥ उज्ज्वला । उक्तानि पतनीयान्यशुचिकराणि च कर्माणि । तेषां प्रायश्चित्तानि वक्ष्यन्नादित आत्मज्ञानं तदुपयोगिनश्च योगानधिकुरुते । तस्यापि स- र्वपापहरत्वेन मुख्यप्रायश्चित्तत्वात् । श्रूयते हि— (२)भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥' इति । (३)'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हाऽस्य सर्वे पाप्मानः प्रदूयन्त' इति च । याज्ञवल्क्योऽप्याह— (४)इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥' इति । १. तै. उ. २. १. २. मुण्डकोप. २. २. ८ ३. छा. उ. ५. २४. ३ ४. या स्मृ. १. ८.
१२४ आपस्तम्बधर्मसूत्रे [(प.८.)क.२२. अध्यात्मनि भवानध्यात्मिकान् । छान्दसो वृद्धयभावः । आत्मनो लम्भ- यितॄन् । योगान् चित्तसमाधानहेतून् वक्ष्यमाणानक्रोधादीनुपायान् । अनुतिष्ठेत् सेवेत न्यायसंहितान् उपपत्तिसमन्वितान्, उपपद्यन्ते हि ते न्या- यतः क्रोधादीना दोषाणा निर्घाते । अनैश्वारिकान् निश्चारश्चित्तस्य बहिर्वि- क्षेपः, तस्मै ये प्रभवन्ति क्रोधादयो वक्ष्यमाणाः ते नैश्वारिकाः तत्प्रति पक्षभूतान् । अक्रोधादिषु सत्सु चित्तमनिश्चरणशीलमात्मालम्बनं नि- श्चलं तिष्ठति तस्मात्ताननुतिष्ठेत् । आत्मानं लब्धुमक्रोधादिलक्षणं चित्तसमाधानं कुर्यादिति ॥ १ ॥ विवरणम् । पुत्रवित्तादिलाभो हि परो दृष्टो लोके । किमात्मलाभेन ? इत्यत आह- आत्मलाभान्न परं विद्यते ॥ २ ॥ आत्मलाभाद् आत्मनः परस्य स्वरूपप्रतिपत्तेः न पर लाभान्तरं विद्यते । तथा विचारित बृहदारण्यके(१)'तदेतत् प्रेयः पुत्राद्' इ त्यादिना ॥ २ ॥ उज्ज्वला। किंपुनरात्मा प्रयत्नेन लब्धव्यः ? ओमित्याह- आत्मलाभात्परमुत्कृष्टं लाभान्तर नास्ति । तस्मात्तस्य लाभाय यत्न आस्थेय इति । कः पुनरसावात्मा ? प्रत्यगात्मा । नन्वसौ नित्यल- ब्धः । न हि स्वयमेव स्वस्याऽलब्धो भवति । सत्यम्, प्रकृतिमेलनात्त- द्धर्मतामुपगतो विनष्टस्वरूप इव भवति । प्रकृत्या हि नित्यसम्बद्धः पुरुषः । तथाविधश्च सम्बन्धो यथा परस्पर विवेको न ज्ञायते । अन्यो- न्यधर्माश्चान्योन्यत्राऽध्यस्यन्ते । यथा क्षीरोदके संपृक्ते न ज्ञायते विवेकः-इयत् क्षीरिमियदुदकमिति, अमुष्मिन्नवकाशे क्षीरममुष्मिन्नवकाश- उदकमिति । यथा वा अग्न्ययोगोलकयोरभिसम्बद्धयोर्ये अग्निधर्मा उष्णत्वभास्वरत्वादयः ते अयोगोलके ऽध्यस्यन्ते । ये वा अयोगोलक- धर्माः काठिन्यदैर्ध्यादयः ते ऽग्नावध्यस्यन्ते । एवं हि तत्र 'प्रतिपत्तिः- एकं वस्तु उष्णं दीर्घं भास्वरं कठिनमिति । तद्वदिहापि पुरुषधर्माश्चैत न्यादयः प्रकृतावध्यस्यन्ते । प्रकृतिधर्माश्च सुखदुःखमोहपरिणामादयः पुरुषे । ततश्च एकं वस्तु चेतनं सुखादिकालिल परिणामीति व्यवहारः । वस्तुतस्तु तस्मिन् सङ्घाते अचेतनांशः परिणामी । चेतनांशस्तु तमनुधावति । येन येन रूपेण परिणमति तेन तेनाऽभेदाध्यासमापद्यते । १. बृह उ. १. ४. ८.
आत्मज्ञानप्रशंसा ] उज्ज्वलोपेतं प्रथमः प्रश्नः । १२५ यथा क्षीरावस्थागतं घृतं क्षीरे दध्यात्मना परिणमति तामप्यवस्था- नुप्रविशति तद्वदिहापि । तदिदमुच्यते-(१) 'तत्त्सृष्ट्वा तदेवानुप्राविश' दिति । सर्गेऽप्यात्मनः कर्तृत्वमिदमेव-यदुत भोक्तृतया निमित्तत्वम् । तदेवं स्वभावतः स्वच्छोऽप्यात्मा प्रकृत्या सहाभेदमापन्नः तद्धर्मा भवति । एवं तद्विकारेण महता तद्विकारेणाऽहङ्कारेण, इत्याशरीराद्द्रष्ट- व्यम् । स्थूलोऽहं कृशोऽहं देवोऽहं मनुष्योऽहं तिर्यगहमिति । तस्यैवं- तस्यापेक्षितव्यस्वरूपलाभः नीचैरिव वर्धितस्य राजपुत्रस्य । तद्यथा- शबरादिभिर्बाल्यात्प्रभृति स्वसुतैस्सह संवर्धितो राजपुत्रस्तज्जातीय- मात्मानमवगमयन्मात्रा स्वरूपे कथित लब्धस्वरूप इव भवति । तथा प्रकृत्या (२)वेश्ययेव स्वरूपान्तरं नीत आत्मा मातृस्थानीयया(३) 'त- त्वमसी' ति श्रुत्या स्वभावं नीयते-यदेवंविधं परिशुद्धं वस्तु तदेव त्व- मसि, यथा मन्यसे 'मनुष्योऽहं दुःख्यह' मित्यादि न तथेति । यथा य एवभूतो राजा स त्वमसीति राजपुत्रः । ननु तत्त्वमसीति ब्रह्मणा तादात्म्यमुच्यते । को ब्रूते ? नेति । ब्रह्माऽपि नान्यदात्मनः । किं पुनरयमात्मा एक ? आहो स्विन्नाना ? किमनेन ज्ञानेन ? त्वं तावदेवंविधश्चिदेकरसो नित्यनिर्मलः संसर्गात्क- लुषतामिव गतः । तद्वियोगश्च ते मोक्षः । त्वयि मुक्ते यद्यन्ये सन्ति ते संसरिष्यन्ति । का ते क्षतिः ? अथ न सन्ति तथापि कस्ते लाभ इत्य- लमियता । महत्येषा कथा । तदप्येते श्लोका भवन्ति- नीचानां वसतौ तदीयतनयैः सार्धं चिरं वर्धित स्तज्जातीयमवैति राजतनयः स्वात्मानमप्यञ्जसा । संघाते महदादिभिस्सहवसंसंस्तद्गतत्परः पूरुषः स्वात्मानं सुखदुःखमोहकलिलं मिथ्यैव धिङ्मन्यते ॥ १ ॥ दाता भोगपरः समग्रविभवो यः शासिता दुष्कृतां राजा स त्वमसीति मातृमुखतः श्रुत्वा यथावत्स तु । राजीभूय(४) जयार्थमेव यतते तद्वत्पुमान् बोधितः श्रुत्या तत्त्वमसीत्यपास्य दुरितं ब्रह्मैव सम्पद्यते ॥ २ ॥ इत्येवं बहवोऽपि राजतनयाः प्राप्ता दशामीदृशीं नैवान्योन्यभिदामपस्य सहसा सर्वे भजन्त्येकताम् । किं तु स्वे परमे पदे पृथगमी तिष्ठन्ति भिन्नास्तथा १. तै. उ. २. ६. २. वश्यया. इति. ख. पु ३. छा. उ. ६. ९. ३, ४. यथार्थमेव क. पु.
१२६ आपस्तम्बधर्मसूत्रे [ (प.८.)क. २२. क्षेत्रज्ञा इति तत्त्वमादिवचसः का भेदवादे क्षतिः ॥ ३ ॥ तेष्वेको यदि जातु मातृवचनात् प्राप्तो निजं वैभवं नान्येन क्षतिरस्य यत्किल परे सत्यन्यथा च स्थिता । यद्वान्ये न भवेयुरेवमपि को लाभोऽस्य तद्द्रुतिः पुंसामित्यभिदां भिदां च न वयं निर्बन्ध्य निश्चिन्महे॥४॥ इति॥ तत्राऽऽत्मलाभीयाञ्छ्लोकानुदाहरिष्यामः॥ ३ ॥ विवरणम् । सत्य क्रोधादयो दोषा आत्मलाभप्रतिबन्धभूता अक्रोधादिभिर्नि र्ह(न्य?ष्य)न्ते; तथापि न मूलोद्धर्तनेन निवृत्तिः क्रोधादीनाम्, सर्वदोष- बीजभूतमज्ञानं न निवृत्तमिति तस्य चाऽनिवृत्तौ बीजस्याऽनिवर्तित त्वात् सकृन्निवृत्ता अपि क्रोधादयो दोषा पुनरुद्भविष्यन्तीति ससा- रस्याऽऽत्यन्तिकोच्छेदो न स्यात् । तद्दोषबीजभूतस्याऽज्ञानस्य मदान्, ज्ञानादन्यतो न निवृत्तिरित्यात्मस्वरूपप्रकाशनायात्मज्ञानाय मदान् शाखान्तरोपनिषदृचः, तत्र तस्मिन् आत्मलाभप्रयोजने निमित्ते । आ त्मानं करतलन्यस्तमिव ल(म्भि ? म्भयि)तुं समर्थान् आत्मलाभीयान् श्लोकानुदाहरिष्यामः उद्धृत्याऽऽहरिष्यामः । ग्रन्थीकृत्य दर्शयिष्याम इत्यर्थः ॥ ३ ॥ उज्ज्वला । तदिहाऽपेक्षितमात्मज्ञानमुपदिश्यते । तच्च त्रिविधम्-श्रुतं मननं निदिध्यासनमिति । (२)श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति श्रवणात् । तत्र श्रुतमुपनिषदादिशब्दजन्यं ज्ञानम् । मननमुपपत्तिभि र्निरूपणम् । एवं श्रुते मते चात्मनि साक्षात्कारहेतुरविक्षिप्तेन चेतसा निरन्तरं भावना(३)निदिध्यासनम्। तत्राऽऽत्मसिद्धये श्रोतं ज्ञानं तावदाह- तत्रेति वाक्योपन्यासे । आत्मलाभीयानात्मलाभप्रयोजनान् । अनुप्रव- चनादिषु दर्शनाच्छप्रत्ययः । श्लोकान् पादबद्धानौपनिषदाम् मन्त्रान् । उदाहरिष्यामः उज्जृत्याहरिष्यामः ग्रन्थे निवेशयिष्यामः ॥ ३ ॥ पूः प्राणिनः सर्व एव गुहाशयस्याऽहन्यमानस्य विकल्मषस्याऽचलं चलनिकेतं येऽनुति- ष्ठन्ति तेऽमृताः ॥ ४ ॥ १. बृ. उ. २. ४. ५ २. ध्यानमिति. ख. च. पु.
आत्मज्ञानप्रशंसा ] उज्ज्वलोपेते प्रथमः प्रश्नः । १२७ विवरणम् । पूः पुरं शरीरम् । प्राणिन प्राणवन्तः । सर्व एव ब्रह्मादीनि स्त- म्बपर्यन्तानि प्राणिनः । पुरं पुरमिव राज्ञः उपलब्ध्याधिष्ठानम् । कस्य पुरम् ? गुहाशयस्याऽऽत्मनः । यथा स्वकीयपुरे राजा सचिवादिपरिवृत उपलभ्यते, एव देहेष्वात्मा बुद्ध्यादिकरणसंयुक्त उपलभ्यते । उपल- भते च बुद्ध्यादिकरणोपसंहृतान् भोगान् । अतोऽविद्यावरणात्मभूता- यां बुद्धिगुहायां शेत इति गुहाशयः । तस्य पुरम् । तस्यां बुद्धाववि द्यादिदोषमलापनये विद्वद्भिस्सूक्ष्मैषणैरुपलभ्यते । इदमपरं विशेषणं गुहाशयस्याऽहन्यमानस्य, छेदनभेदनजरारोगादिभिर्हन्यमाने देहे न हन्यते । (१)'न वधेनाऽस्य हन्यते' इतिच्छान्दोग्ये । तस्य विकल्मषस्य, क ल्मषं पापं तदस्य नास्तीति विकल्मषः । सर्वं ह्यविद्यादोषसहितं धर्मा धर्माख्यं कर्म कल्मषं भवति, विकल्मषस्येति विशेषणेन तत् प्रतिषिध्यते तत्कार्यं जरारोगादिदुःखरूपमहन्यमानस्येति । एवं हेतुफलसम्बन्धर- हितस्याऽसंसारिण उपलब्ध्याधिष्ठानं पूः सर्वे प्राणिनः । अतो न संसा- र्येभ्यो ऽस्ति । (२)'एको देवः सर्वभूतेषु 'गूढ' इति श्वेताश्वतरे । (३)“एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते” इति च काठके । (४)'नान्यदतोऽस्ति द्रष्टा' इत्यादि वाजसनयके । (५) 'स आत्मा तत्त्वमसी'ति च छान्दोग्ये । पूर्वार्धेन ब्रह्मणो याथात्म्यमुक्त्वो त्तरार्धेन तद्विज्ञानवतस्तद्विज्ञानफलमाह-यस्य सर्वे प्राणिनः पुर अह न्यमानस्य विकल्मषस्य, तस्य सर्वप्राणिसम्बन्धादर्थसिद्धमाकाशवत् सर्वगतत्वम्, 'आकाशवत् सर्वगतश्च नित्य' इति च श्रुतेः। सर्वगतस्य चाऽचलत्वमर्थसिद्धमेव । तमचलं चलनिकेतं चलायां हि प्राणिगुहायां स्वयं शेते तमचलं चलनिकेतम् । येऽनुतिष्ठन्ति ममात्मेति साक्षात् प्र तिपद्यन्ते, तेऽमृताः अमरणधर्माणो भवन्ति ॥ ४॥ उज्ज्वला । गुहेति प्रकृतिनाम । 'यत्तत्स्मृत कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः । आत्मा गुहा योनि(६)रनाद्यनन्त क्षेत्रं तथैवामृतमक्षरं च ॥' इति पुराणे दर्शनात् । तस्यां शेते तया सहाऽऽविभागामापन्नास्तिष्ठतीति गुहाशय आत्मा । १. छा. उ. ८ १० ४. २. श्वेता. उ. ६. ११. ३. कठो १ ३, १२. ४. बृ. उ. ३. ८. ११ ५. छा. ६. ८. ९. ६ अनाद्यनन्त इति. ख. पुस्तके'
१२८ आपस्तम्बधर्मसूत्रे [ (प८.) क. २२. (१)'अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः, इति च मन्त्रान्तरम् । अह्न्यमानस्य न ह्यसौ शरीरे हन्यमानेऽपि हन्यते (२)तथा चोक्तं भगवता-(३)'न हन्यते हन्यमाने शरीरे' इति । विकल्मषस्य निर्लेपस्य । सर्व एव हि धर्माधर्मादिरन्तःकरणस्य धर्मः, आत्मनि त्वध्य- स्तः । एवंभूतस्यात्मनः सर्व एव प्राणिनः ब्रह्माद्यास्तिर्यगन्ताः प्राणादि- मन्तः संघाता पू पुरं उपभोगस्थानम् । यथा राजा पुरमधिवसन् सचिवैरानीतान् भोगानुपभुङ्क्ते, तथाऽयं देवादि शरीरमधिवसन् करणै- रुपस्थापितान् भोगानुपभुङ्क्ते । तमेवभूतमचलं सर्वगतत्वेन निश्चलम् । चलनिकेतं निकेतं स्वस्थान शरीरं तद्यस्य चलं तं येऽनुतिष्ठन्ति उपासते एवंभूतोऽहमिति प्रतिपद्यन्ते, तेऽमृताः मुक्ता भवन्तीति ।' ४ ॥ विवरणम् । कथं तदनुष्ठानमिति ? उच्यते— यदिदमिदिहेदिह लोके विषयमुच्यते । विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ॥ ५ ॥ यदिदं प्रत्यक्षतोऽवगम्यमानं स्त्र्यन्नपानादिसंभोगलक्षणम् । इदिति किञ्चिदर्थे । यत्किञ्चिदिदं प्रत्यक्षम् । इहाऽस्मिन् लोके । विषयम् । इदंशब्दसामानाधिकरण्यान्नपुंसकलिङ्गप्रयोगो विषयमिति । उभयलि- ङ्गो वा विषयशब्दः । द्वितीय इच्छब्द इहशब्दश्च । तयोः क्वचिद्विनियो- गः । इच्छब्दश्चार्थे । इहशब्दोऽमुष्मिन्नर्थे । लोकशब्दः काकाक्षिवदुभ- यत्र सम्बध्यते । इह लोके इह च लोकेऽमुष्मिंश्च यदिदं विषयमुच्यते, स्वर्गादिलोके पार्श्वस्थमध्यस्थो व्यपदिशति इह लोके इति च लोके इत तत्सर्वं विधूय परित्यज्य । कविः क्रान्तदर्शी, मेधावीत्यर्थः । फलं सा- धनं च तद्विधूय एषणात्रयाद् व्युत्थायेत्यर्थः । अनुतिष्ठेद् गुहाशयं य- थोक्तलक्षणमात्मतत्त्वम् ॥ ५ ॥ उज्ज्वला । विषयसङ्गपरित्यागेनाऽयमुपास्य इत्याह— यदिद, विषयं, मेतदिति सर्वत्र लिङ्गव्यत्ययश्छान्दसः । एवमितिशब्दे तकारस्य दकारः । इतिशब्दः प्रसिद्धौ । हशब्द आश्चर्ये । इतिशब्देना- १. तै. आ ( नारायणोपनिषदि ) १०. १. २. 'तथा चोक्तं भगवता-न हन्यते हन्यमाने शरीरे ।' इति नास्ति क. पुस्तके. ३. भगवद्गी. २. २०.
आत्मज्ञानसम्पादनम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १९९ वृत्तेन शब्दादिषु विषयेष्ववान्तरप्रकारभेदः प्रतिपाद्यते । विषयापहृत चेतसो हि वदन्ति–‘इति ह तस्या गीतम् , इति ह तस्याः सुखस्पर्शः, इति ह तस्या रूपं निष्ठप्तमिव कनकम् , इति ह तस्याः स्वादिष्ठोऽधर- मणिः, इति ह तस्या गन्धो घ्राणतर्पण’ इति । एवं दिव्यमानुषभेदोऽपि द्रष्टव्यः । अत्राऽनन्तरमपर इतिशब्दोऽध्याहार्यः । इति ह इति हेति यो ऽयं लोके विषय उच्यते, सामान्यापेक्षमेकवचनम् , एतद्विधूय गुहाशय- मनुतिष्ठेत् । कविर्मेधावी ॥ ५ ॥ विवरणम् । तत् क्वाऽनुष्ठातव्यमिति । उच्यते-- आत्मन्नेवाऽहमलब्ध्वैतद्धितं सेवस्व नाऽहितम् । अथाऽन्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया । महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ॥ ६ ॥ आत्मन्नेव आत्मन्येव । प्रत्यगात्मा हि परमात्मा । सर्वै ह्यत्रानुष्ठेयम् । यदि देहादन्यत्राऽनुष्ठीयेत, सोऽनात्मा कल्पितः स्यात्। तस्माद् देहादि- सङ्घात आत्मन्येव विधूय बाह्यासङ्गं गुहाशयमात्मतत्त्वमनुष्ठेयम् । किम- न्येष्वननुष्ठेयमिति भगवतो मतम् ? बाढम् , प्रथममेव नान्येष्वनुष्ठेय- मात्मतत्त्वम् । कथं तर्हि ? सर्वप्रयत्नेनाऽपि स्वदेहादिसङ्घाते यथोक्तमा- त्मतत्त्वं न लभेत, अथाऽहमन्येष्वादित्यादिषु प्रतीच्छामि अभिवाञ्छामि । साधुष्ठानं साधोः परमात्मनः उपलब्धिस्थानं, यत्र गुहाशयं ब्रह्म- तत्त्वमनुष्ठेयम् । अनपेक्षयाऽन्यत् पुत्रवित्तलोकादिसुखं छित्वा निःस्पृ- हतया । न ह्यात्मानुष्ठानं बाह्यार्थाकाङ्क्षा च सह सम्भवतः । कस्मात् पुनरनेकान्यन्यानि हितप्रकाराण्यनपेक्ष्याऽत्मानुष्ठानमेव यत्नत आ- स्थीयत इत्यत आहाऽऽचार्यः—यथान्यन्यानिहितानि हितबुध्या परिगृही- तानि, न तथैवमात्मसेवनम् । किं तर्हि ? (ए)तद्धितमेव । तस्मात् सेवस्वेति । किंविशिष्टश्चाऽऽत्मा सेवितव्य इत्याह—महान्तम् अमितान्तम् अनन्त(र)त्वादबाह्यात्वाच्च महानात्मा, तं महान्तम् । गुणैर्वापाधिस- हचारिभिर्महान्तं, बृंहणमिति यद्वत् । तेजसस्कायं तेजःशरीरमित्यर्थः। चैतन्यात्मज्योतिःस्वरूपम् । तद्धि तेजसां तेजः । (१)‘येन सूर्यस्तपति तेजसेद्धः’(२) ‘तस्य भासा सर्वमिदं विभाति’ इति श्रुतेः । सर्वत्र सर्व- देहेषु ब्रह्मादिस्तम्बपर्यन्तेषु । निहितं स्थितम्, उपलब्धिरूपेणाभिव्यक्त- १. तै. ब्रा. १२. ९. ७. २. मुण्ड. २. २. १०. आप० ध० १७
मित्यर्थः । न हि ब्रह्मणोऽभिव्यक्तिनिमित्तत्वव्यतिरेकेण कस्यचिदा- धारत्वसम्भवः । निराधारं हि ब्रह्म, सर्वगतत्वोपपत्तेः । प्रभु प्रभवति सर्वानीश्वरान् प्रति, अचिन्त्यशक्तित्वात् । एवमाद्यनन्तगुणविशिष्ट- मात्मानं सेवस्वेति ॥ ६ ॥ उज्ज्वला । विषयत्यागे हेतुमाह— शिष्यं प्रत्याचार्यस्य वचनमेतत्। द्वौ चात्र हेतू विषयाणां त्यागे—पराधी- नत्वमहितत्वं च । महान्त गुणतः । तेजसस्कायं तेजसश्शरीरं तेजोराशिं स्वयंप्रकाशम् । (१)'आत्मज्योतिः सम्राडिति होवाचे'ति बृहदारण्यकम्। सर्वत्र निहितं सर्वगतम् । प्रभु स्वतन्त्रम् । एवम्भूतं गुहाशयं एतावन्तं कालं अहमात्मन् , सप्तम्येकवचनस्य लुक्, आत्मनि । अस्मिन् मदीये स- ङ्घाते अन्यानपेक्ष्यैव लब्धुं योग्यमलब्ध्वा अथाऽन्येषु इन्द्रियादिषु तं तं वि- षयं प्रतीच्छामि लब्धैर्र्थै लट्, प्रत्येच्छम् । इदानीं तु त लब्ध्वा न तथा- विधोऽस्मि । त्वमप्येतदेव हितं साधुष्ठानं साधुमार्गे सेवस्व नाहितं विषया- नुधावनमिति ॥ ६ ॥ सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः । अनङ्गोऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्छुचिः । स सर्वं परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ॥७॥ विवरणम् । विशिष्टमात्मानं सेवस्वेति क्रियापद्मनुवर्तते । किं च सर्वभूतेषु ब्रह्मादिष्वनित्येषु यो नित्योऽविनाशी । विपश्चिन्मेधावी, सर्वज्ञ इत्यर्थः । अमृतोऽत एव । यो ह्यनित्योऽसर्वज्ञः स मर्त्यो दृष्टः; अयं तु तद्विपरी- तत्वादमृतः । ध्रुव अविचलः । निष्कम्पस्वभाव इत्यर्थः । अनङ्गः स्थू- लशरीररहित इत्यर्थः । स्थूले हि शरीरे शिरआद्यङ्गानि सम्भवन्ति । अशरीर इति लिङ्गशरीरवर्जित इत्येतत् । अशब्दः नाऽस्य शब्दगुणः सम्भवति । शब्दविद्धि सन् अन्यथा शब्दात्मकः शब्दात्मकमेव विजा- नीयात् । न चैतदस्ति । अतोऽशब्दः । तथा अस्पर्शः आकाशवायुभूत- द्वयगुणप्रतिषेधेन शब्दादयो गन्धावसानाः सर्वभूतगुणाः प्रतिषिद्धा वेदितव्याः । तत इदं सिद्धमाकाशादपि सूक्ष्मत्वम् । शब्दादिगुण- बाहुल्याद्वाय्वादिषु स्थौल्यतारतम्यमुपलभ्यते । शब्दादिगुणाभावा- न्निरतिशयसूक्ष्मत्वं सर्वगतत्वादि चाऽप्रतिबन्धेन धर्मजातं तर्केणाऽपि
१. बृह. उ. ४. ३ ६. अत्र पाठभेदो दृश्यते.
आत्मस्वरूपम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३१ शक्यं स्थापयितुम् । महान्, अत एव शुचिर्निरञ्जनः । अथवा शुचिः पावन इत्यर्थः । शुचि हि वस्तु पावनं दृष्टम्, यथा लोके वाय्वग्न्यादि । किञ्च य आत्मा प्रकृतः, स सर्वम् । (१)'इदं सर्वं यदयमात्मे'ति हि वाज- सनेयके । न ह्यात्मव्यतिरेकेण किञ्चिन्निरूप्यमाणमुपपद्यते । अत एव परमा प्रकृष्टा । काष्ठा अवसानम् । (२)'सा काष्ठा सा परा गति- रि'ति काठके । संसारगतीनां अवसानं निष्ठा समाप्तिरित्यर्थः । स वैषुवतं मध्यं सर्वस्य, सर्वान्तरश्रुतेः। विषुवत्सु वा(३) दिवाकीर्त्येषु मन्त्रेषु नित्यं प्रकाश्यं भवतीति वैषुवतः । स परमात्मा । ननु 'स सर्वं परमा काष्ठा स वैषुवत'मित्युक्तम् । कस्मात् पुनस्तदात्मतत्त्वं विभक्तमुपलभ्यत इति । उच्यते-स परमात्मा वैभाजनं, विभक्तिर्विभजनं विवेकः आत्मनो यस्मिन् देहे क्रियते, तत् । विभाजनमेव वैभाजनम् । आत्मनो विवेकोपलब्ध्य- धिष्ठानं हि शरीरम् । तच्चाऽनेकधा विभक्तम् । तदुपाध्यनुवर्ति- त्वाद् वैभाजनम् सर्वथा शुद्धमेव सर्वैर्नोपलभ्यते । किं तर्हि ? विभक्तो विपरीतश्चोपलभ्यते ॥ ७ ॥ उज्ज्वला । पुनरप्यसौ कीदृश इत्याह- सर्वभूतेषु मनुष्यादिषु सङ्घातेषु यो नित्यः विनश्यत्स्वपि न विनश्यति विपश्चित् मेधावी चित्स्वरूपः । अमृतः नित्यत्वादेवाऽमरणधर्मा । अतः ध्रुवः एकरूपः, विकाररहितः । न प्रधानवद्विकारिणस्सतो धर्मिरूपेणाऽस्य नित्यत्वमित्यर्थः । अनङ्गः करचरणाद्यङ्गरहितः । अशब्दोऽस्पर्श इति भूत- गुणानामुपलक्षणम् । शब्दादिगुणरहितः अशरीरः सूक्ष्मशरीरेणाऽपि वर्जि तः । महाञ्छुचिः महत्त्व शौचस्य विशेषणम् । परमार्थतोऽत्यन्तशुद्धः । स सर्व प्रकृत्यभेदद्वारेण । स एव परमा काष्ठा, ततः पर गन्तव्याभावात् । स वैषुवत विषुवान्नाम गवामयनस्य मध्ये भवमहः । 'एकविंशमेतदह • रुपयन्ति विषुवन्तं मध्ये सम्वत्सरस्ये'ति दर्शनात् । विषुवानेव वै- १ बृह उ. ४. ५. ७ २. काठ. १. ३ ११. ३. गवामयनाख्यस्सवत्सरसाध्यस्सत्रविशेष । स एकषष्ट्यधिकशतत्रयादिवस (३६१) साध्यः । तत्राशीत्युत्तरशत ( १८० ) दिनानि पूर्व पक्ष. । तावन्त्येव दिना- न्युत्तरं पक्षः । मध्यमं यदहरेकाशीत्युत्तरशततमरू (१८१) पं स विषुवान् । तत्र दिवा- कीर्त्याह्य साम ब्रह्मसाम भवति । तेन च साम्ना परमात्मा गीयते । अतो विषुवद्वत् मध्यस्थानत्वात् तत्प्रतिपाद्यत्वाद्वा ब्रह्म वैषुवतमिति भाव. ।
१३२ आपस्तम्बधर्मसूत्रे [ (प.८) क.२३ ध्रुवतम् । तद्यथा सम्वत्सरस्य मध्ये भवति एवमङ्गानामेष मध्ये । (१) 'मध्यं ह्येषामाङ्गानामात्मे'ति बह्वृचब्राह्मणम् । स एव च वैभा- जनं पुरं विविधैर्मार्गैर्भजनीयं विभजनम् । तदेव वैभाजनं प्रज्ञादिरनुश- तिकादिश्च । यथा समृद्धं पुरं सर्वैरर्थिभिः प्राप्यमेवमयमपीति ॥ ७ ॥ तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चाऽस्य सदाऽऽचरेत् । दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥ ८ ॥ विवरणम् । अतस्तदुपाध्यनुवर्तिस्वभावदर्शनमविद्याख्यं हित्वा विद्यया शा- स्त्रजनितदर्शनेन तं यथोक्तलक्षणमात्मानमनुतिष्ठेत् । । सर्वत्र सर्वस्मिन् काले । किञ्च न केवलमनुष्ठानमात्रमस्य । प्राध्वं बन्धनम् आत्मैकत्वरस- प्रज्ञतां स्थिरां बाह्यैषणाव्यावृत्तरूपां सर्वसन्न्यासलक्षणाम् । तद्धि बन्धनं विदुषो ब्रह्मणि । एवं हि बद्धो ब्रह्मणि संसाराभिमुखो नाऽऽव- र्तते । तस्माद् बन्धनं चाऽस्य सदाऽऽचरेत् । तदनुष्ठानबन्धने सदाचरतः किं स्यादिति ? उच्यते—दुर्दर्शं दुःखेन ह्येषणात्यागादिना स दृश्यत इति दुर्दर्शम् । निपुणं यस्माद्धि दुर्दर्शं तस्मान्निपुणम् । अत्यन्तकौशलेन समाहितचेतसा युक्तो यः पश्येत् साक्षादुपलभेत—अहमात्मेति, स मोदेत । एवं दृष्ट्वा हर्षमानन्दलक्षणं प्राप्नुयात् । विष्टपे विगतसन्ताप- लक्षणेऽस्मिन् ब्रह्मणित्यर्थः ॥ ८ ॥ उज्ज्वला । तमेवंभूतमात्मानं योऽनुतिष्ठेदुपासीत यश्चाऽस्य सर्वत्र सर्वास्ववस्थासु सदा प्राध्वमानुकूल्यमाचरेत् । आनुकूल्यं प्रतिषिद्धवर्जनं नित्यनैमित्ति- ककर्मानुष्ठानं च । यश्च दुर्दर्शं निपुण(२) सूक्ष्मतः युक्तः समाहितो भूत्वा पश्येत् साक्षात्कुर्यात् । सः विष्टपे विगततापे स्वे महिम्नि स्थितो मोदेत सर्वदुःखवर्जितो भवति । संसारदशायां वा तिरोहितं निरतिशयं स्व- मानन्दमनुभवतीति ॥ ८ ॥ ॥ इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायां द्वाविंशी काण्डका ॥ २२ ॥ आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्यत्स वै ब्रह्मा नाकपृष्ठे विराजति ॥ ९ ॥ १ ॥ १. ऐ. ब्रा. ६. प. ८. ख. २. सूक्ष्ममेत इति क. ख. पु.
आत्मज्ञानफलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३३ विवरणम् । किञ्च आत्मन् पश्यन् आत्मनि पश्यन् उपलभमानः । सर्वभूतानि सर्वाणि (भूतानि)। सर्वेषां भूतानामात्मस्वरूपतामेव पश्यन्नित्यर्थः । सर्वत्राऽऽत्मानं च परम् । न मुह्येत् मोहं न गच्छेत् । न ह्यात्मैकत्वदर्शिनो मोहावतारः; (१)'तत्र को मोह' इति च मन्त्रलिङ्गात्। कीदृग्वि शिष्टमा- त्मदर्शनं मोहनिबर्हणमित्याह—चिन्तयन् उपसंहृतकरणः कविः मेधा- वी सन् ध्यायमानः । न शब्दजनितदर्शनमात्रेण मोहापगमः । सर्वभूते- ष्वनुप्रविष्टमेकं संव्यवहारकाले यो हि युक्तः पश्येत्, स वै ब्रह्मा ब्राह्मणः । नाकपृष्ठे सुकरागौ(?) ब्रह्मणि। विराजति विविधं दीप्यते ॥९॥ उज्ज्वला । सर्वाणि भूतानि आत्मन् आत्मनि शेषत्वेन स्थितानि पश्यन् उपनिषदादि- भिर्जानन् । पश्चाच्चिन्तयन् युक्तिभिर्निरूपयन्, यो न मुह्येत् मध्ये मोहं न गच्छेत् । कविर्मेधावी । पश्चाच्च सर्वत्रैव शेषत्वेन स्थितमात्मानं पश्येत् साक्षा त्कुर्यात् । स वै ब्रह्मा ब्राह्मणः नाकपृष्ठे तत्सदृशे स्वे महिम्रि स्थितो विरा- जति स्वयं प्रकाशते ॥ १ ॥ निपुणोऽणीयान् बिसोर्णाया यस्सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽ नन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः॥ विवरणम् । किञ्च निपुणः सर्ववित् अणीयान् अणुत्तरो बिसोर्णायाः बिसत- न्तोस्तोरपि । कोऽसौ ? य प्रकृत आत्मा सर्वं समस्तं जगदावृत्य सं- व्याप्य तिष्ठति । किञ्च वर्षीयान् वृद्धतरः स्थूलतरश्च पृथिव्याः । सर्वा- त्मको हि सः। ध्रुवः नित्यः सर्वं कृत्स्नमारभ्य संस्तम्भनं कृत्वा । तिष्ठति वर्तते । (२)'येन द्यौरुग्रा पृथिवी च दृढा' इति मन्त्रलिङ्गात् । स सर्वेश्वरः सर्वज्ञः एको विज्ञेय इत्यर्थः । स परमात्मा इन्द्रियैर्जन्यते यज्ज्ञानं ज- गतोऽस्य, तस्मात् ज्ञानादन्यो विलक्षणः, लौकिकज्ञानादन्य इति विशे- षणाज्ज्ञानात्मक इत्येतत् सिद्धम् । 'सत्यं ज्ञानमनन्तमि'ति च श्रुतेः । अस्य जगत इन्द्रियजन्यज्ञानादन्य इत्युक्तम् । अतश्च तद्व्यतिरिक्तं ज- १. इशा. उ. ७. २. ऋ ८. ७. ३.
१३४ | आपस्तम्बधर्मसूत्रे | [ (प. ८) क. २३. गदिति प्राप्तम् । अतस्तन्मा भूदित्याह — अनन्यस्य अपृथग्भूतस्य ज- गतः, ज्ञेयात् ज्ञातव्यात् परमार्थस्वरूपाद्द्वयात् परमेश्वराद् घटादेरिव मृदः । स च परमेष्ठी परमे प्रकृष्टे स्वे महिम्नि हृदाकाशेऽवस्थातुं शीलमस्येति परमेष्ठी । स्वयमेव विभाज विभक्तो देवपितृमनुष्यादि- ना ज्ञातृज्ञेयज्ञानभेदेन च, यस्मात् स एव ज्ञेय आत्मा स्वतो विभजति जगदनेकधा । तस्मादेवाऽऽत्मनः कायाः शरीराण्याकाशादिक्रमेण प्रभवन्ति सर्वे ब्रह्मादिलक्षणाः । अतो मूलं स जगतः । (१) "यतो वा इमानि भूतानि जायन्ते" इति श्रुतेः । अत एव स शाश्वतिकः । यो हि पृथिव्यादिविकारः, सोऽब्वादिक्रमेण विनश्येत, परं मूलकारणमापद्यते, सोऽशाश्वतिकोऽ- नित्यः । अयं चाऽऽत्मा परं मूलम् । न तस्याऽप्यन्यन्मूलमस्ति, यतो जा- तो विनश्येत्, मूलमापद्यते, ततस्तद्विलक्षणत्वाच्छाश्वतिकः शश्वदे- करूपः । अतो नित्यः एकत्वमहत्वमूलत्वेभ्यश्च ॥ १० ॥ उज्ज्वला । निपुणो मेधावी चित्स्वरूपः । बिसोर्णाया बिसतन्तोरप्यणीयान् सूक्ष्मः । य सर्वमावृत्य व्याप्य तिष्ठति । यश्च पृथिव्या अपि वर्षीयान् प्रवृद्धतरः सर्वग- तत्वादेव सर्वमारभ्य विष्टभ्य ईशित्वेनाऽधिष्ठाय तिष्ठति । ध्रुवः एकरूपः । अस्य जगतो यदिन्द्रियैर्ज्ञानं इन्द्रियजन्यं ज्ञानं तस्मात् । कीदृशात् ? अनन्यस्य ज्ञेयात्, पञ्चम्यर्थे षष्ठी, ज्ञेयात् नीलपीताद्याकारादनन्यभूतं नीलपीताद्याकारं, तस्माद्विज्ञानादन्य इत्यर्थः । श्रूयते च (२) 'तस्मा- द्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमय' इति । (३) 'ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतःस्थितम् ॥' इति पुराणम् । स्वभा- वतः स्वच्छस्य चिद्रूपस्याऽऽत्मनो नीलपीताद्याकारकालुष्यं तद्रूपाया बुद्धेरनुरागकृतं भ्रान्तमित्यर्थः । वैषयिकज्ञानादन्य इति विशेषणेन ज्ञाना- त्मक इत्यपि सिद्धम् । (४) 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति च श्रुतिः । एवंभूत- स्याऽऽत्मा परमेष्ठी परमे स्वरूपे तिष्ठतीति । विभाज इत्यस्य परेण सम्ब- न्धः । विभजत्यात्मानं देवमनुष्यादिरूपेण नानाशरीरानुप्रवेशेनेति वि- भाक् । तस्माद्विभाजो निमित्तभूतात् सर्वे काया देवमनुष्यशरीराणि प्रभवन्ति उत्पद्यन्ते । स मूल प्रपञ्चसृष्टेर्भोक्तृतया मूलकारणम् । स नित्यः अवि- नाशी । शाश्वतिक एकरूपः अविकारः ॥ २ ॥ १. तै. उ. ३. १. | २. तै. उ. २. ५.
आत्मज्ञानफलम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११५ विवरणम् । एवं यथोक्तमात्मान विदितवत आध्यात्मिका योगा न्यायसहिता अप्रतिबन्धेन भविष्यन्ति । मिथ्याप्रत्ययपूर्वका हि दोषाः । दोषनिमि- त्तश्च धर्माधर्मजनितः ससारः दोषनिवृत्तावत्यन्तं विनिवर्तते इत्येतम- र्थं दर्शयिष्यन्नाह-- दोषाणां तु निर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ॥ २१ ॥ ३ ॥ दोषाणां तु क्रोधादीनां निर्घातः विनाशः । योगा अक्रोधादयः, त- न्मूलः तन्निमित्तमित्येतत् । अक्रोधादिषु हि सत्सु प्रतिद्वन्द्विनो दोषा दुर्बलत्वान्निबर्ह्यन्ते । इह जीवित इति दोषप्रभवकर्मनीमत्तत्वाज्जीवि- तस्य देहधारणावसानो दोषव्यापार इत्येतद् दर्शयति । तत्प्रतिपक्षेष्व- क्रोधादिषु कथं नु नाम मुमुक्षवः प्रयत्नातिशय कुर्युरिति योगदोषयो- रितरेतरविरोधित्वे सति स्थितगतिवद् योगेभ्यो दोषाणामेव निर्घातः, न तु विपर्यय इत्येतत् । कथमिति चेत् ? उच्यते-सम्यग्दर्शनसचिव- त्वाद् बलवन्तो योगाः । मिथ्याप्रत्ययसचिवत्वात् दुर्बलत्वान्निबर्ह्यन्ते । निहन्तीत्येतदप्युक्तम् । बुद्धिबलवद्वत्तस्तद्धीनानां लोके निर्घातो दृष्टः । 'अक्रोधनः' (१. १. २३) 'क्रोधादींश्च---' (१. ११. २५) इति लि- ङ्गात् । निर्हृत्य अपहृत्य । भूतदाहान् दोषेषु(न?) हृद्भूतेषु भूतानि द- ह्यन्त इव अग्निना परितप्यन्ते । अतो भूतदाहा दोषा उच्यन्ते । तान् निर्हृत्य । क्षेमं निर्भयं मोक्षं गच्छति । "आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन" "अभयं वै जनक प्राप्तो ऽसि' 'न भवति विदुषां ततो भयम्' इत्यादिश्रुतिस्मृतिभ्यः । न दोषप्रशममात्रेणाऽब्रह्मविदः क्षेमप्राप्तिरित्याह-पण्डित इति । ब्रह्मविदि ह्यत्र पण्डितशब्दः प्रयुक्तो, न शास्त्रविदि । (१)"तस्माद् ब्राह्मणः पा ण्डित्यं निर्विद्य" इति श्रुतेः। इहाऽऽत्मविद्याधिकारात् । यदि तर्हि दोषनिर्हरणं पाण्डितोऽप्यपेक्षत, तं प्रति न हि ब्रह्मवि द्या क्षेमप्राप्तिनिमित्तम् । यदि ब्रह्मविद्यैव क्षेमप्राप्तिनिमित्तं, ब्रह्मविद्या नन्तरमेव न दुःखमुपलभेत । नैष दोषः । उक्तो ह्यत्र परिहारः--सम्यग् ज्ञानबलावष्टम्भाद् बलिनो योगा दुर्बलान् दोषान् मिथ्याप्रत्ययभवान् निर्हन्तुमलमिति । तस्माद् ब्रह्मविद्ययैव क्षेमप्राप्तिः । अन्यथा दोषनिर्ह- रणकर्मक्षययोरसम्भवात् । १. बृ. उ. ३. ५. १.
१३६ आपस्तम्बधर्मसूत्रे [(प.८)क.२३ विद्यया चेद् दोषनिर्हरणकर्मक्षयाववश्यं भवतः, तत इदमयत्नका- र्यत्वाद् दोषनिर्हरणस्य नित्यानुवादरूपमनर्थकम्, निर्हृत्येति, न, प्रवृत्तकर्माक्षिप्तत्वाद् दोषाणाम्। द्विविधानि ह्यनेकजन्मान्तरकृतानि कर्माणि-फलदानाय प्रवृत्तान्यप्रवृत्तानि च। यत्तु प्रवृत्तं कर्म, तेनाक्षि प्ता दोषाः कर्तुः सुखदुःखादिफलदानाय, दोषाभावे फलारम्भकत्वा- नुपपत्तेः। न हि रागद्वेषादिशून्ये सुखदुःख प्रवृत्तिलब्धिः कदाचित् कस्यचिदिह दृश्यते। तस्मात् फलदानाय प्रवृत्तेन कर्मणाऽऽक्षिप्ता दोषाः प्रसङ्गेन प्राप्तबला यत्नतो निर्हर्तव्या । प्रवृत्त्याधिक्यहेतुत्वप्रसङ्गात् । अत एवेदम उक्तम्-दोषाणां तु निर्घातो योगमूले इह जीवित इति। मन्द- मध्यमोत्तमापेक्षत्वाच्च। ब्रह्मविदामपि न सर्वेषां समा ब्रह्मप्रतिपत्तिः, विवेकातिशयदर्शनात् कस्यचित् । 'एष ब्रह्मविदां वरिष्ठ' इति च श्रुतेः सम्यग्दर्शनसम्पन्न' इति च स्मृतेः। मन्दमध्यमब्रह्मविद्पेक्षया त्याग- वैराग्येन्द्रियजयविधेरर्थवत्त्वम्, उत्तमब्रह्मविदां त्वर्थप्राप्तमेतत् सर्वमि- त्यनुवादमात्रम् । (१)'रसोऽप्यस्य परं दृष्ट्वा निवर्तते, इति वचनात्,गुण तीतलक्षणवचनेभ्यश्च। प्रवृत्तकर्माक्षिप्तदोषात् तज्जनितचेष्टाभ्यश्च भ- वति विदुषोऽपि देहान्तरोत्पत्तिरिति चेद्-मुक्तष्विवत् प्रवृत्तकर्माक्षिप्त- त्वाद् विद्षदोषचेष्टानां प्रवृत्तकर्मविभागेनैवोपक्षीणशक्तित्वात् प्रयोजना न्तराभावाच्च न जन्मान्तरारम्भकत्वमुपपद्यते। यद्यप्रवृत्तं कर्म, तत स्त्येवावस्थमेव ब्रह्मविद्याहुताशनदग्धबीजशक्तित्वान्न जन्मान्तरार- म्भाय, 'क्षीयन्ते चाऽस्य कर्माणि' (२) 'ज्ञानाग्निः सर्वकर्माणि' इत्यादिश्रु- तिस्मृतिभ्यः । अतः सिद्धा पण्डितस्य दोषनिर्हरणात् क्षेमप्राप्तिः ॥ ११ ॥ उज्ज्वला । दोषाणा वक्ष्यमाणानां क्रोधादीनां निर्घातः निर्मूलनम् । इह जीविते योगमूलः योगा वक्ष्यमाणा अक्रोधादयः तन्मूलकः । अतश्च तान् भूतदा- हीयान् भूतानि दहत क्रोधादीन्दोषान् निर्हृत्य क्षेमं गच्छति आत्मत्राणद्वारेण । पण्डितो (३) लब्धज्ञानः आत्मसाक्षात्कारी । क्षेम अभय मोक्षम् (४) अभयं वै जनक प्राप्तोऽसी'ति बृहदारण्यकम्ः ॥ समाप्ताः श्लोकाः॥ ३ ॥ अथ भूतदाहीयान्दोषानुदाहरिष्यामः ॥ १२ ॥ ४ ॥ भूतानां दाहो भूतदाहः तस्मै हिताः भूतदाहीयाः तस्मै हितमिति छः।" १. श्रीम० गीता० २. ५९. २. श्रीभगव. ४. ३७.
आत्मलाभयोगाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १३७ क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अना- त्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥ विवरणम् । तत्र क्रोधस्ताडनाक्रोशानादिहेतुरन्तःकरणविक्षोभो गात्रस्वेदक- म्पनादिलिङ्गः । हर्षस्तद्विपरीतोऽभीष्टलाभजनितो बाष्परोमाञ्चनादि- लिङ्गः । रोषोऽनिष्टविषयो मानसो विक्रियाविशेषः । लोभः परद्रव्येप्स्रा, स्वद्रव्याविनियोगस्तीर्थे । मोह कार्याकार्यविवेकता । दम्भ आत्मनो धार्मिकत्वप्रकाशनम् । द्रोहः परानिष्ठाचिकीर्षा । मृषोद्यमनृतवचनम् । अत्याशपरीवादौ अत्याशोऽतिमात्रमशनम् । परीवादोऽसमक्षं परदो- षाभिधानम् । असूया परगुणेष्वक्षमा । काममन्यू कामः स्त्रीव्यतिक- राभिलाषः । मन्युस्तद्विघातकृत्सु द्वेषः । अनात्म्यम् अनात्मवत्त्वा । एष क्रोधादिरयोगः, असमाधानलक्षणो ह्येष चेतसो विक्षेपप्रकारः । तेषां योगमूलो निर्घातः ॥ १२ ॥ १३ ॥ उज्ज्वला । (१)ताडनाक्रोशादिहेतुकोऽन्तःकरणविक्षोभः स्वेदकम्पादिलिङ्गः क्रोधः । हर्षः इष्टलाभाच्चेतस उद्रेको रोमाञ्चादिलिङ्गः । रोषः क्रोधस्यैव कियानपि भेदो मित्रादिषु प्रतिकूलेषु मनसो वैलोम्यमात्रकार्यकरः । लोभो द्रव्यसङ्गः, यो धर्मव्ययमपि रुणद्धि । मोहः कार्याकार्ययोरविवेकः । स च प्रायेण क्रोधादिजन्योऽपि पृथगुपदिश्यते कदाचित्तदभावेऽपि सम्भवतीति । दम्भो धार्मिकत्व(२)प्रकाशनेन लोकवञ्चनम् । द्रोहोऽपका- रः । मृषोद्यमनृतवादः । अत्याशोऽत्यशनम् । परीवादः परदोषाभिधानम् । असूया परगुणे(३)ष्वक्षमा । कामः स्त्रीसंसर्गः । मन्युः गूढो द्वेषः । अनात्म्य अजितेन्द्रियत्वं जिह्वाचाफलादि । अयोगो विक्षिप्तचित्तता । एते भूतदाहीया दोषाः । तेषां योगमूलो निर्घातः ॥ ५ ॥ के पुनस्ते योगा इति, उच्यते-- अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः स- त्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्- र्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्य- १. आक्रोशादि इति ख. पु. २. प्रदर्शनेन इति क. पु. ३. अक्षमता इति क. पु.