भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

५२ आपस्तम्बधर्मसूत्रे [ (प.३.) क.९ निगमेष्वध्ययनं वर्जयेत् ॥ ४ ॥ निगमाश्चत्वराः । ग्रामनिर्गमनामार्गा वा ; नियमेन गम्यते तेष्विति । तेषु सर्वप्रकारमध्ययनं वर्जयेत् ॥ ४ ॥ आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ॥ ५ ॥ अनडुत्सम्बन्धिना वा शकृत्पिण्डेनोपलिप्य निगमेष्वप्यधीयीत॥५॥ श्मशाने सर्वतः शम्याप्रासात् ॥ ६ ॥ श्मशाने चाध्ययनं वर्जयेत् । सर्वतः सर्वासु दिक्षु । शम्या क्षिप्ता याव ति देशे पतति ततोऽर्वागिति पञ्चमीनिर्देशाद्गम्यते ॥ ६ ॥ ग्रामेणाऽध्यवसिते क्षेत्रेण वा नाऽनध्यायः ॥ ७ ॥ यदा श्मशानं ग्रामतया क्षेत्रतया वा अध्यवसितं स्वीकृतं भवति तदा अध्येतव्यमेव ॥ ७ ॥ ज्ञायमाने तु तस्मिन्नेव देशे नाऽधीयीत ॥ ८ ॥ यदा तु तदध्यवसितमपि श्मशानं ज्ञायते-अयं स प्रदेश इति, तदा तावत्येव प्रदेशे नाऽधीयीत । न शम्याप्रासात् ॥ ८ ॥ (१) श्मशानवच्छूद्रपतितौ ॥ ९ ॥ शूद्रपतितसकाशेऽपि शम्याप्रासान्नाऽध्येयम् ॥ ९ ॥ समानागार इत्येके ॥ १० ॥ एके मन्यन्ते समानागारे शूद्रपतितौ वर्ज्यौ, न शम्याप्रासादिति ॥१०॥ शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवाऽनध्यायः ॥ ११ ॥ शूद्रायां तु यदा परस्परं प्रेक्षणं भवति तदैवाऽनध्यायः । न समानागारे, नापि शम्याप्रासादिति ॥ ११ ॥ तथाऽन्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने ॥१२॥ शूद्राव्यतिरिक्ताऽपि या स्त्री मैथुने वर्णव्यतिक्रान्ता नीचगामिनी तस्या मपि प्रेक्षणप्रतिप्रेक्षणयोरनध्यायः ॥ १२ ॥ ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन् सम्भा- १ याज्ञवल्क्योऽत्र १. १४८. द्रष्टव्यः ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५३

षितुं ब्राह्मणेन सम्भाष्य तया सम्भाषेत । सम्भाष्य तु ब्राह्मणेनैव सम्भाष्याऽधीयीत । एवं तस्याः प्रजानिःश्रेयसम् ॥१३॥ यो वेदमध्येष्यमाणो मलवद्वाससा रजस्वलया सह सम्भाषितुमि- च्छति स पूर्वं ब्राह्मणेन सम्भाष्य पश्चात्तया सम्भाषेत । सम्भाष्य च पुनरपि ब्राह्मणेनैव सम्भाष्याऽधीयीत । किमेवं सति भवति ? एवं तस्या मलवद्वासस आगामिनी या प्रजा तस्या निःश्रेयसमभ्युदयो भवति । प्रजारूपं वा निःश्रेयसं तस्या भवति । 'प्रजानिःश्रेयस'मिति- वचनात् विधवाद्विभिः सह सम्भाषणे नैतत्कर्तव्यम् ॥ १३ ॥ (१) अन्तश्शवम् ॥ १४ ॥ अन्तश्शवो यत्र ग्रामे तत्र नाध्येयम् । एतेना 'न्तश्चाण्डाल'मिति व्याख्यातम् ॥ १४ ॥ अन्तश्चाण्डालम् ॥ १५ ॥ चण्डाल एव दाण्डालः । उभयत्र प्रथमा सप्तम्यर्थे । अव्ययीभावो वा विभक्त्यर्थे द्रष्टव्यः ॥ १५ ॥ (२)अभिनिस्सृतानां तु सीम्न्यनध्यायः ॥ १६ ॥ यदा शवाः सीम्नि अभिनिस्सृता भवन्ति तदा तत्राऽनध्यायः ॥ १६ ॥ सन्दर्शने चाऽरण्ये ॥ १७ ॥ अरण्ये च यावति प्रदेशे शवश्चण्डालो वा सन्दृश्यते तावत्यन- ध्यायः ॥ १७ ॥ तदहरागतेषु च ग्रामं बाह्येषु ॥ १८ ॥ बाह्याः उग्रनिषादादयः परिपन्थिनः तेषु च ग्राममागतेषु तदहरनध्या- यः, तस्मिन्नहनि नाऽध्येतव्यम् ॥ १८ ॥ अपि सत्सु ॥ १९ ॥ ये विद्याचरित्रादिभिर्महान्तः सन्तः तेष्वपि ग्राममागतेषु तदहर- नध्यायः ॥ १९ ॥

१. मनु. ४. १०८ द्रष्टव्यः । २ अभिनिर्हताना इति. ख. पु.

५४ आपस्तम्बधर्मसूत्रे [ (प.३.) क. ९. सन्धावनुस्तनिने रात्रिम् ॥ २० ॥ सन्धिः सन्ध्या तस्मिन् सन्धौ । अनुस्तनिते मेघगर्जिते सति रात्रिं (१)सर्वां रात्रिं नाऽधीयीत । वर्षतांत्विदम् । अन्यस्मिन्नधिकं वक्ष्यति ॥२०॥ स्वप्नपर्यन्तं विद्युति ॥ २१ ॥ अन्त्यो दीर्घ उपान्त्यो ह्रस्वः । विपर्यासश्छान्दसोऽपपाठो वा । सन्धौ विद्युति सत्यां स्वप्नपर्यन्तां रात्रिमनध्यायः न सर्वाम् । स्वप्नपर्यन्ता रात्रिः प्रहरावशिष्टा ॥ २१ ॥ एवं सायं सन्ध्यायामुक्तं, प्रातस्सन्ध्यायामाह- उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्या- प्रासाद्विजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः ॥ २२ ॥ उपव्युषं उषस्समीपे तत्र विद्योतमाने विद्युति सत्यामपरेद्युस्सप्रदो- षमहरनध्यायः । प्रदोषादूर्ध्वं रात्रावध्ययनम् । यावता वा कालेन शम्याप्रा- सादर्वागवस्थितां गां कृष्णामिति वा रोहिणीमिति वा विजानीयात् । एत- स्मिन्काले उपव्युषं विद्योतमान इत्यन्वयः । रोहिणी गौरवर्णा । इतिशब्द- प्रयोगे द्वितीया प्रयुज्यते । तत्राऽन्वयप्रकारश्चिन्त्यः ॥ २२ ॥ दृढेऽपररात्रे स्तनयित्नुना ॥ २३ ॥ रात्रेस्तृतीयो भागः सर्वोऽपररात्रः । तस्य त्रेधा विभक्तस्याद्योऽशो महारात्रः । अन्त्यो दृढः । तस्मिन् दृढेऽपररात्रे स्तनयित्नुना निमित्तेन सप्र- दोषमहरनध्यायः ॥ २३ ॥ ऊर्ध्वमर्धरात्रादित्येके ॥ २४ ॥ अर्धरात्रादूर्ध्वमनन्तरोक्को विधिरित्येके मन्यन्ते । स्वपक्षस्तु दृढ एवेति ॥ २४ ॥ गवां चाऽवरोधे ॥ २५ ॥ दस्युप्रभृतिभिरवरुद्धासु गोषु तावन्तं कालमनध्यायः । अवरोधो ग्रामाद्विर्गमनिरोधः ॥ २५ ॥ बध्यानां च यावता हन्यन्ते ॥ २६ ॥

१. अस्य सूत्रत्वेन परिगणनं कृतं क पु.

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५५ वर्धाहाणांचो रादीनामवरोधे यावता कालेन हन्यन्ते तावन्तं कालमनध्यायः ॥ २६ ॥ पृष्ठारूढः पशूनां नाऽधीयीत ॥ २७ ॥ हस्त्यश्वादीनां पशूनां पृष्ठारूढः तन्नाऽऽसीनस्सन्नाऽधीयीत ॥२७॥ अहोरात्रावमावास्यासु ॥ २८ ॥ अमावास्यासु द्वावहोरात्रौ नाऽधीयीत । तासु च पूर्वेद्युश्चतुर्दशीषु च । तथा । च मनुः(१)—'अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ।' इति ॥ २८ ॥ इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायां नवमी कण्डिका ॥ चातुर्मासीषु च ॥ १ ॥ चतुर्षु मासेषु भवाश्चातुर्मास्य । संज्ञैषा तिसृणां पौर्णमासीनां यासु चातु- र्मास्यानि क्रियन्ते। काः पुनस्ताः? फाल्गुन्याषाढीकार्तिक्यः। चातुर्मास्यो यज्ञः। 'तत्र भव'इति वर्तमाने 'संज्ञायामाणि' ष्यण्प्रत्ययः । तासु चातुर्मा- सीषु पूर्ववद्द्वावहोरात्रावनध्यायः । गौतमस्तु स्वशब्देनाह(२) 'कार्तिकी फाल्गुन्याषाढी पौर्णमासी' ति । (३)पौर्णमास्यनन्तरप्रतिपत्सु च शाखान्तरवशादनध्यायः । यथा होशनाः—'पर्वणीतिहासवर्जितानां विद्यानामनध्याय' इति । 'प्रतिपत्सु न चिन्तये' दिति च । एवं चतुर्द- शीमात्रस्य वर्जने शाखान्तरं(४) मूलं मृग्यम् । तत्र याज्ञवल्क्यः— (५)'पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।' इति ॥ १ ॥ वैरमणे गुरुष्वष्टाक्य औपाकरण इति त्र्यहाः ॥ २ ॥ विरमणमुत्सर्जनं तदेव वैरमणम् । तस्मिन् वैरमणे । प्रथमान्तपाठे सप्तम्यर्थे प्रथमा । गुरुषु श्वशुरादिषु । संस्थितेष्विति प्रकरणाद्गम्यते । १. मनु. स्मृ ४. ११३. २. गौ. ध. १६. ३२. ३. पौर्णमास्यन्तरे प्रतिपत्सु च इति. ख. पु. ४. मूलम्' इति. नास्ति क. पुस्तके । मृग्यमिति नास्ति ख. पुस्तके ५. या स्मृ १. १४६. ऋतुसन्धिषु भुक्त्वा च श्राद्धिक प्रतिगृह्य च इत्याधिकः पाठः ख. पुस्तके ।

५६ आपस्तम्बधर्मसूत्रे [ (प्र.१) क. १०. अष्टकैवाऽष्टाक्यं स्वार्थिकः ष्यञ् । आदौ प्राप्ता वृद्धिर्मध्ये कृता । उपाकर- णमेवोपाकरणम् । एतेषु निमित्तेषु त्र्यहा अध्ययनरहिताः । तत्र गुरुषु मरणदिनमारभ्य त्र्यहाः । इतरेषु पूर्वेद्युरपरेद्युस्तस्मिंश्च दिने नाधीयीत । अत्र गौतमः—(१) 'तिस्रोऽष्टकास्त्रिरात्रमन्त्यामेकेऽभितो वार्षिक' मिति । उपाकरणादूर्ध्वं प्रागुत्सर्जनात् यदध्ययनं तद्वार्षिकम् । तदभितस्तस्या- दावन्ते च यत्कर्म क्रियते तत्रापि त्रिरात्रमित्यर्थः । औशनसे च व्यक्त मुक्तम्(२)'उपाकर्मणि चोत्सर्गे द्व्यहमनध्याय' इति । मानवे च व्यक्तम्(३)'उपाकर्मणि चोत्सर्गे त्रिरात्र क्षपणं स्मृतम् ।' इति ॥ २ ॥ तथा सम्बन्धेषु ज्ञातिषु ॥ ३ ॥ ये सन्निकृष्टा ज्ञातयः भ्रातृतत्पुत्रपितृव्यादयः । तेष्वपि मृतेषु तथा त्र्यहमनध्यायः । ब्रह्मचारिणोऽविधिरयम् । आशौचवतां तु यावदाशौ- चमनध्यायः शास्त्रान्तरसिद्धः— ‘उभयत्र दशाऽहानि कुलस्यान्नं न भुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥’ इति । उभयत्र जनने मरणे च ॥ ३ ॥ मातरि पितर्याचार्य इति द्वादशाहाः ॥ ४ ॥ मात्रादिषु मृतेषु द्वादशाहमनध्यायः । अयं विधिर्गृहस्थानामपि । केचिदाशौचमपि तावन्तं कालमिच्छन्ति । नेति वयम्, अनध्यायप्र- करणात् ॥ ४ ॥ तेषु चोदकोपस्पर्शनं तावन्तं कालम् ॥ ५ ॥ मात्रादिष्वधिकं तावन्त कालमहरहस्स्नानमपि कार्यम , न केवलमन- ध्यायः ॥ ५ ॥ अनुभाविनां च परिवापनम् ॥ ६ ॥ अनु पश्चात् भूता जाता अनुभाविनः मृतापेक्षयाऽवरवयसः । तेषां परि- वापनमपि भवति केशानाम् । (५) 'कृत्यच' इति प्राप्तस्य णत्वस्य (६)'णे- १. गौ १६. ३८-४०. २. नेद वचनमिदानीमुपलभ्यमानायां पद्यात्मिकामौशनसस्मृतौ दृश्यते । ३ मनु. ४. ११९. ४ मनु ५ ३० ५. “शिखामनु प्रवपन्त ऋद्धयै” इति वचनम् ? तस्य बलीयस्त्वादित्याह”इति ख. पु. ६. पा. सू ८. ४. २२. उपसर्गस्थान्निमित्त. ( रेफषकाराभ्यां ) परस्याऽव उत्तर- स्य कृत्यप्रत्ययगतस्य नकारस्य णत्वं स्यादिति सूत्रार्थः ॥

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५७ (१)'विभाषे' ति विकल्पः । अन्ये तु शावं दुःखमनुभवतां सर्वेषां परिवा- पनमिच्छन्ति । अपर आह—अनुभाविन उदकार्हाः । तेषां मरणे परिवापन- मिति ॥ ६ ॥ न समावृत्ता वपेरन्नन्यत्र विहारादित्येके ॥ ७ ॥ विहारो यागदीक्षा । ततोऽन्यत्र न समावृत्ता वपेरन्नित्येके मन्यते । स्वमतं तु वपेरन्नेवेति ॥ ७ ॥ तत्र वपनस्याऽमङ्गलत्वं गुणविधिना परिहारं च वक्तुं ब्राह्मणमु- दाहरति— अथापि ब्राह्मणम्—रिक्तो वा एषोऽनपिहितो य- न्मुण्डस्तस्यैतदपिधानं यच्छिखेति ॥ ८ ॥ रिक्तः अन्तःशून्यो घटादिः । सोऽनपिहितः पिधानरहितो यादृशः तादृश एषः यन्मुण्डो नाम । तस्य रिक्तस्यापिधानमेतत् यच्छिखा नाम । अनेन चैतद्दर्शित-निषेधशास्त्रं सह शिखया वपनप्रतिषेधपरमिति ॥ ८ ॥ कथं तर्हि सत्रेषु शिखाया वपनम् ? (२)वचनसामर्थ्यादित्याह— सत्रेषु तु वचनाद्वपनं शिखायाः ॥ ९ ॥ स्पष्टम् ॥ ९ ॥ आचार्ये त्रीनहोरात्रानित्येके ॥ १० ॥ आचार्ये संस्थिते त्रीनहोरात्रानध्ययनं वर्जयेदित्येके मन्यते । स्वपक्षस्तु द्वादशाहः पूर्वमुक्तः ॥ १० ॥ श्रोत्रियसंसंस्थाया(३)मपरिसंवत्सरायामेकाम् ॥ ११ ॥ श्रोत्रियं (४)वक्ष्यति । तस्य संस्थायामपरिपूूर्णसंवत्सराया श्रुतायामेकां रात्रि- मेकमहोरात्रमध्ययनं वर्जयेत् । अत्र संस्थाश्रवणाद्गुर्वादिश्वपि सैव १ पा. सू. ८. ४. ३. उपसर्गस्थान्निमित्तात्परस्य, णिजन्ताद्विहितो यः कृतप्रत्ययः तद्भूतस्यानकारस्य णत्वं विकल्पेन स्यात् इति सूत्रार्थ.। २. ५६. पृष्ठे ५. टिप्पणी द्रष्टव्या । ३. उपरि संवत्सरायां इति क. पुस्तकेऽपपाठः । ४. आप. ध. २. ६. ४. सूत्रे । आप० ध० ८

५८ आपस्तम्बधर्मसूत्रे [ (प. ३.) क. १०. निमित्तमनध्यायस्य ॥ ११ ॥ सब्रह्मचारिणीत्येके ॥ १२ ॥ एके तु सब्रह्मचारिणो मरण एवाऽनन्तरोक्तमनध्यायमिच्छन्ति, न तु श्रो- त्रियसामान्यमरणे ॥ १२ ॥ श्रोत्रियाभ्यागमेऽधिजिगांसमानोऽधीयानो वाऽनुज्ञाप्याधीयीत ॥ १३ ॥ श्रोत्रियेऽभ्यागते अध्येतुकामोऽधीयानश्च तमनुज्ञाप्याधीयीत ॥ १३ ॥ अध्यापयेद्वा ॥ १४ ॥ अध्यापयितुकामोऽध्यापयन्वेति प्रकरणाद्गम्यते । सोऽपि तमनु- ज्ञाप्याध्यापयेदिति ॥ १४ ॥ गुरुसन्निधौ “चाधीहि भो” इत्युक्त्वाऽधीयीत ॥ १५ ॥ धारणाध्ययनं पारायणाध्ययनं वा कुर्वन् गुरौ सन्निहिते सति 'अधीहि भो' इत्युक्त्वाऽधीयीत ॥ १५ ॥ * अध्यापयेद्वा ॥ १६ ॥ अध्यापयन्नपि तत्सन्निधावेवमेवोक्त्वाऽध्यापयेत् ॥ १६ ॥ * उभयत उपसंग्रहणमधिजिगांसमानस्याधीत्य च ॥ १७॥ उभयतः अध्ययनस्याऽऽदावन्ते च उपसंग्रहणं कर्तव्यं यथाक्रम(१)मध्ये- तुकामस्याऽऽदावधीत्यान्ते ॥ १७ ॥ * अधीयानेषु वा यत्राऽन्यो व्यवेयादेतमेव शब्दमुत्सृज्याऽधीयीत ॥ १८ ॥ बहुवचनमतन्त्रम् । अधीयानेषु च यत्राऽन्यो व्यवेयादन्तरा गच्छेत्, तत्रा 'प्यधीहि भो' इत्येतमेव शब्दमुत्सृज्य उच्चार्याऽधीयीत । प्रत्ये- कमुपदेशादेकवचनम् । अधीयीरन् ॥ १८ ॥ श्वगर्दभनादास्सलावृक्येकसृकोलूकशब्दास्सर्वे वादितशब्दा रोदनगीतसामशब्दाश्च ॥१९॥ शुनां गर्दभानां च बहूनां नादः । बहुवचननिर्देशात् । सलावृकी १. अध्येतुकामस्येत्यादि ड पुस्तक एवास्ति । * मनौ. २ ७३ श्लोको द्रष्टव्यः ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५९ वृकजाताववान्तरभेदः । क्रोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात्पुंसोऽपि ग्रहणम् । (१)'इन्द्रो यतीन् सालावृकेभ्य' इत्यादौ दर्शनात् । सर्वत्राङ्गि- स्वरो दीर्घः । स एवायं विकृतः प्रयुक्तः । एकसृकः एकचरः सृगालः । उलूको दिवाभीतः । एतेषां च शब्दाः । वादितानि वादित्राणि वीणावेणु- मृदङ्गादीनि । तेषां च सर्वे शब्दाः । रोदनशब्दादयश्च । एते श्रूयमाणा (२)अनध्यायस्य हेतवः ॥ १९ ॥ शाखान्तरे च साम्नामनध्यायः ॥ २० ॥ वेदान्तरसकाशे(३)साम्नामनध्ययनम् । गीतिषु सामाख्या, तयो- र्गाङ्गेद्वचन इत्यन्ये ॥ २० ॥ सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् ॥ २१ ॥ आक्रोश(४)परिवादादिषु सर्वेषु शब्दकर्मसु अनध्यायः । यत्राध्ययनश- ब्देन ते संसृज्येरन् ॥ २१ ॥ छर्दयित्वा स्वप्नान्तम् ॥ २२ ॥ छर्दनं वमनम् । तत्कृत्वा स्वप्नान्तं यावन्नाऽधीयीत ॥ २२ ॥ सर्पिर्वा प्राश्य ॥ २३ ॥ अथ वा सर्पिः प्राश्याधीयीत ॥ २३ ॥ पूतिगन्धः ॥ २४ ॥ दुर्गन्ध उपलभ्यमानोऽनध्यायहेतुः ॥ २४ ॥ शुक्तञ्चाऽऽत्मसंयुक्तम् ॥ २५ ॥ यत्पक्वं कालपाकेनाऽम्लं जातं तच्छुक्तम् । तद्यावदात्मसंयुक्तं स्वोदर- स्थमजीर्णं, यावत्तदनुगुण उद्गारस्तावदनध्यायहेतुः ॥ २५ ॥ प्रदोषे च भुक्त्वा नाधीयीत ॥ २६ ॥ तेनाऽधीत्यैव भुञ्जीत ॥ २६ ॥ प्रोदकयोश्च पाण्योः ॥ २७ ॥ भुक्त्वेत्येव । भुक्त्वा यावत्प्रोदकौ पाणी आर्द्रौ तावन्नाऽधीयीत । केचित् भुक्त्वेति नानुवर्तयन्ति ॥ २७ ॥ १. तै. सं. ६. २. ७. २ या. स्मृतौ १. १४८-१५१. श्लोका द्रष्टव्याः । ३. साम नाऽध्येयम् । इति. ख. पु. ४. परिहासादिषु. इति. क. पु.

६० आपस्तम्बधर्मसूत्रे [ (प्र.३.)क.११. प्रेतसंक्लृप्तं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः ॥ २८ ॥ यो मृतोऽसपिण्डीकृतस्स प्रेतः । तदुद्देशेन दत्तमन्नं भुक्त्वा सप्र- दोषमहर्नाऽधीयीत । प्रदोषार्ध्वं न दोषः । अत्र मनुः- (१)यावदेकानुद्दिष्टस्य गन्धो लेपश्च तिष्ठति । विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥' इति ॥ २८ ॥ आ च विपाकात् ॥ २९ ॥ यदि तावता कालेन तदन्नं पक्वं जीर्णं न भवति, तत आविपाकात् तस्य नाऽधीयीत ॥ २९ ॥ अश्राद्धेन तु पर्यवदध्यात् ॥ ३० ॥ जीर्णे अजीर्णे च तस्मिन् अश्राद्धेनाऽन्नेन पर्यवदध्यात् तस्योपर्यश्राद्धमन्नं भुञ्जीतेत्युक्तं भवति । केचित् अत्र 'अश्राद्धेने' ति वचनात् पूर्वत्रापि प्रेतान्नमिति श्राद्धमात्र विवक्षितं मन्यन्ते ॥ ३० ॥ ॥ इत्यापस्तम्बधर्मसूत्रे तद्वृत्तावुज्ज्वलाया च दशमी कण्डिका ॥ काण्डोपाकरणे चाऽऽमातृकस्य ॥ १ ॥ काण्डोपाकरणं काण्डव्रतादेशनम् । तस्मिन्नहनि अमातृकस्यान्नं भुक्त्वा सप्रदोषमहरनध्यायः। अपर आह-भुक्तेवेति नाऽनुवर्तते । यथाचोत्तरत्र भुक्त्वाग्रहणम् । काण्डोपाकरणे अमातृकस्य माणवकस्य सप्रदोषम- हरनध्यायः । एतेनोत्तर व्याख्यातम् ॥ १ ॥ काण्डसमापने चाऽपितृकस्य ॥२॥ काण्डसमापनं व्रतविसर्गः ॥ २ ॥ मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ॥ ३ ॥ ये मनुष्या भूत्वा प्रकृष्टेन तपसा देवास्सम्पन्नास्ते मनुष्यप्रकृतयो (२)नन्दिकुबेरादयः । तेषां यज्ञः तत्प्रीत्यर्थं ब्राह्मणभोजनम्, तत्र भुक्त्वा १. मनु. स्मृ ४. १११. २. 'नन्दीश्वरशरकुमारादयः' इति पाठान्तरम् ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६१ सप्रदोषमहरनध्याय इत्येके मन्यन्ते । मनुष्यमुखेन देवेष्विज्यमाने- ष्वित्यन्ये ॥ ३ ॥ पर्युषितैस्तण्डुलैराममांसेन च नाऽनध्यायः ॥ ४ ॥ ‘प्रेतसंकॢप्तं चाऽन्न’(१०. २८) मित्यस्यापवादः । पर्युषिता रात्र्यन्तरिताः ह्यः प्रतिगृहीताः, तेषु तण्डुलेष्वद्य पक्त्वा भुज्यमानेषु नानध्यायः । तथा आममांसेन तदहर्भक्षितेनापि नानध्यायः । पर्युषितेनेत्येके । ‘पर्युषितै’ रिति वचनात्तदहर्भक्षितैः सप्रदोषमहरनध्यायः ॥ ४ ॥ तथौषधिवनस्पतिमूलफलैः ॥ ५ ॥ ओषधिग्रहणेन वीरुधोऽपि गृह्यन्ते । वनस्पतिग्रहणेन वृक्षमात्रम् । तेषां मूलै. सूरनकन्दादिभिः फलैश्चाऽम्रादिभिः पक्वैरपक्वैश्च तदहर्भक्षितैरपि नाऽनध्यायः ॥ ५ ॥ यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ॥ ६ ॥ यस्मिन्नहनि यत्काण्डमुपाकृतं न तत्तदहरधीयीत । तथा श्रावण्यां पौर्णमा- स्यामुपाकृत्य प्रशस्तेऽहरन्तरे यस्य काण्डस्यानुवाक्यमध्येतुमा- रम्भं कुर्वीत न तत्तदहरधीयीत । अहरित्यहोरात्रोपलक्षणम् ॥ ६ ॥ उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ॥ ७ ॥ अनेकवेदाध्यायी यद्येकस्य वेदस्य पारायणं कुरुते तदा तस्य पारा- यणस्य (१)ये उपाकरणोत्सर्जने, तयोः कृतयोस्तां विद्यां तदहर्नाऽधीयीत । एतदेव ज्ञापकं पारायणस्याऽप्युपाकरणोत्सर्जने भवत इति । ‘तां विद्या- मि’ ति वचनाद्विद्यान्तराध्ययने न दोषः ॥ ७ ॥ वायुर्घोषवान् भूमौ तृणसंवाहो वर्षति वा यत्र धाराः प्रवहेत् ॥ ८ ॥ घोषवान् कर्णश्रवः । भूमाववस्थितानि तृणानि संवाहयति उत्क्षिप्य गमयतीति तृणसंवाहः । वर्षति वा (२)मेघे धाराः प्रवहेत् विक्षिपेत् । यत्र देशे एवंविधो वायुस्तत्र तावन्तं कालं नाऽधीयीत । अत्र मनुः- (३)“कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने” ॥ इति ॥ ८ ॥ १. उपाकरणोत्सर्जनयोः कृतयोः, इति ड. पु. २. देवे, इति क. पु. ३. म. स्मृ. २. १०२

६२ आपस्तम्बधर्मसूत्रे [ (प.३.)क. ११. उत्तरे द्वे सूत्रे निगदसिद्धे- (१)ग्रामारण्ययोश्च सन्धौ महापथे च विप्रोष्य च समध्ययनं तदहः ॥ ९ ॥ यदा(२) सहाऽधीयानाः कारणवशाद्विप्रवसेयुः । केचिच्चाचार्येण वा सङ्गतास्तदा समध्ययनं सहाऽधीयमानं प्रदेश तदहर्नाधीयीत । विप्रो- षितानां यदहः पुनर्मैलनं तदहर्नाधीयीतेत्यन्ये ॥ ९ ॥ स्वैरिकर्मसु च ॥१०॥ नाधीयीतेत्येव ॥ १० ॥ अत्रोदाहरणम्- यथाहस्तप्रक्षालनोत्सादनानुलेखणानीति ॥ ११ ॥ णत्वमाकास्मिकम्, अपपाठो वा ॥ ११ ॥ तावन्तं कालं नाऽधीयीताऽध्यापयेद्वा ॥ १२ ॥ तेषु स्वैरिकर्मसु तावन्त कालमध्ययनमध्यापनञ्च वर्जयेत् ॥ १२ ॥ सन्ध्योः ॥ १३ ॥ सज्योतिषोऽज्योतिषोऽदर्शनात् उभे सन्ध्ये । तयोस्तावन्तं कालं नाधीयीताध्यापयेद्वा । एवमुत्तरत्राप्यनुवृत्तिः ॥ १३ ॥ उत्तरे द्वे सूत्रे निगदसिद्धे- तथा वृक्षमारूढोऽप्सु चावगाढो नक्तं चापावृते॥१४॥ विवृतद्वारमपावृतम् । तत्र नक्तं नाधीयीत ॥ १४ ॥ दिवा च पिहिते ॥ १५ ॥ संवृतद्वार पिहितम् । तत्र दिवा नाधीयीत ॥ १५ ॥ अविहितमनुवाकाध्ययनमाषाढवासान्तिकयोः ॥१६॥ वासन्तिको वसन्तोत्सवः । स च चैत्रमासि शुक्लत्रयोदश्यां भवति । आषाढशब्देनापि तस्मिन्मासे क्रियमाणस्तादृशः कश्चिदिन्द्रोत्सवादि- र्विवक्षितः । तयोस्तदहरनुवाकाध्ययनमविहितम् । अनुवाकग्रहणान्न्यू- ने न दोषः । १. इद ११ शं च सूत्रं त्रिधा विच्छिन्न ड. पु. २. सहाधीयमानेषु केचित् इति. ख. पु.

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६३ अपर आह—अनुवाकग्रहणान्मन्त्रब्राह्मणयोरेव प्रतिषेधः, नाङ्गाना- मिति ॥ १६ ॥ नित्यप्रश्नस्य चाऽविधिना ॥ १७ ॥ नित्यं प्रश्नाध्ययनं यत्न स नित्यप्रश्नो ब्रह्मयज्ञः । तस्य चाविधिना व- क्ष्यमाणेन प्रकारेण विनाऽनुवाकाध्ययनमविहितम् । यद्यपि नित्यं ब्रह्म- यज्ञाध्ययनं तथापि केनचिदप्यङ्गेन विना न कर्तव्यम् । तेन विस्मृत्य प्रातराशे कृते प्रायश्चित्तमेव न ब्रह्मयज्ञः । मनुः— 'स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्' । इति ॥ १७ ॥ तस्य विधिः ॥ १८ ॥ तस्य नित्यप्रश्नस्य विधिर्वक्ष्यते ॥ १८ ॥ अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे ऽधीयीत यथाध्यायमुत्सृजन्वाचा ॥ १९ ॥ अकृतदिवाभोजन उदकसमीपं गत्वा प्रयतः स्नानमार्जनादिशुद्धः शुचौ देशे प्राच्यामुदीच्यां वा दिश्यच्छदिर्दर्शोऽधीयीत । यथाध्यायं यथा पा- ठमनुषङ्गरहितमुत्सृजन् आदित आरभ्य प्रथमादिष्वहस्सु(१) अधीयीत द्वितीयादिषूत्सृज्य ततः परमधीयीत । वाचा उच्चैरित्यर्थः ॥ १९ ॥ मनसा चाऽनध्याये ॥ २० ॥ अनध्याये च मनसाऽधीयीत नित्यस्वाध्यायम् ॥ २० ॥ विद्युति चाऽभ्रग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते ॥ २१ ॥ विद्युति अभ्रग्रायामविरतायाम् । स्तनयित्नौ चाऽभ्यग्रे । अप्रायत्ये आ- त्मनोऽशुचिभावे । प्रेतान्ने च भुक्ते । नीहारे च नीहारो हिमानी तस्मिंश्च वर्तमाने । मानसमनन्तरोक्तमध्ययनं परिचक्षते वर्जयन्ति ॥ २१ ॥ श्राद्धभोजन एवैके ॥ २२ ॥ एके त्वाचार्याः श्राद्धभोजन एव मानसं परिचक्षते, न विद्युदादिषु॥२२॥ विद्युत्स्तनयित्नुवृष्टिश्चापतौ(२) यत्र सन्निपते- युस्त्र्यहमन्ध्यायः ॥ २३ ॥


१. अधीतं यत् तत् इति ड. पु. २. "यत्र" इति नास्ति क. पु.

६४ आपस्तम्बधर्मसूत्रे [ (प्र.३) क. ११. अपर्तौ यस्मिन् देशे यो वर्षाकालः ततोऽन्यस्तत्रापर्तुः । तत्र यदि विद्युदादयस्सन्निपतेयुः समुदितास्स्युः तदा त्र्यहमनध्यायः ॥ २३ ॥ यावद्भूमिर्व्युदकेत्येके ॥ २४ ॥ यावता कालेन भूमिः विगतोदका भवति तावन्तं कालमनध्याय इत्येके मन्यन्ते ॥ २४ ॥ एकेन द्वाभ्यां वैतेषामाकालम् ॥ २५ ॥ एतेषां विद्युदादीनां मध्ये एकेन द्वाभ्यां वा योगे आकालमनध्यायः । अ- परेद्युरा तस्य कालस्य प्राप्तेरित्यर्थः ॥ २५ ॥ सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्का- यामग्न्युत्पाते च सर्वास विद्यानां सार्वकालिकमाकालम् ॥२६॥ ‘सूर्याचन्द्रमसो’ रिति वचनं बृहस्पत्यादिनिवृत्त्यर्थम् । भूमिचले भू- कम्पे । अपस्वाने निर्घाते । उल्कायामुल्कापाते । अग्न्युत्पाते(१) ग्रामादिदा हे । एतेषु निमित्तेषु(२) सर्वेषु सर्वास विद्यानाम्— (३)अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ इत्युक्तानाम् । सार्वकालि कमृतौ चापर्तौ चाऽऽकालमनध्यायः । अत्र ‘सर्वासामि’ति वचनादन्यत्र वेदानामेव प्रतिषेधः । अङ्गानामपीत्यन्ये ॥ २६ ॥ अभ्रं चापर्तौ सूर्याचन्द्रमसोः परिवेश इन्द्रधनुः प्रतिसूर्य्मत्स्यश्च वाते पूतिगन्धे नीहारे च सर्वेष्वेतेषु तावत्कालम् ॥२७॥ अपर्तावभ्रं दृश्यमानं यावत् दृश्यते तावत्कालमनध्यायः । एवं परिवे- षादिष्वपि योज्यम् । बृहस्पत्यादिपरिवेषे न दोषः । इन्द्रधनुः प्रसिद्धम् । सूर्यसमीपे तदाकृतिः प्रतिसूर्यः । मत्स्यः पुच्छवन्न- १. गृहादिदाहे इति ग. पु २. सर्वेषु इति नास्ति. ख. ग. पु ३. विष्णु पु. अङ्गानि शिक्षाव्याकरणच्छन्दोनिरुक्तज्यौतिषश्रौतसूत्राणि, चत्वारो वेदाः, ऋगादयः प्रसिद्धाः, मीमांसा पूर्वमीमांसा, उत्तरमीमांसा च, न्यायविस्तरः गौतम- प्रणीतमान्वीक्षक्य़ाख्यं न्यायशास्त्रम्, वैशेषिकशास्त्रं च, पुराणं मत्स्यादिपुराणानि, मन्वा- दिप्रणीतानि धर्मशास्त्राणि च विद्यापदवाच्यानीत्यर्थः ।

अनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६५ त्राम् । समाहारद्वन्द्वे छान्दसो लिङ्गव्यत्ययः । सर्वेष्वेतेषु वाता- दिषु च त्रिषु तावत्कालमनध्यायः । वाते घोषवति । पूतिगन्धे दुर्गन्धे । नीहारे हिमान्याम् । वातादिग्रहणं पूर्वोक्तानां श्वगर्दभादीनामुपलक्षणा- र्थम् । पुनरिह वचनं तावत्कालमिति विधातुम् । अत्रैव श्वगर्दभादिग्रहणे कर्तव्ये पूर्वत्र पाठस्य चिन्त्यं प्रयोजनम् ॥ २७ ॥ मुहूर्तं विरते वाते ॥ २८ ॥ वाते घोषवति विरतेऽपि मुहूर्तमात्रमनध्यायः । द्वे नाडिके मुहूर्तम् ॥२८॥ सलावृक्यामेकसृक इति स्वप्नपर्यन्तम् ॥ २९ ॥ (१)‘तावत्काल’मित्यस्याऽपवादोऽयम् । सलावृक्येकसृकशब्दौ व्याख्यातौ ॥ २९ ॥ नक्तं चारण्येऽनग्नावहिरण्ये वा ॥ ३० ॥ रात्रावग्निवर्जिते हिरण्यवर्जिते वाऽरण्ये नाधीयीत ॥ ३० ॥ अननूक्तं चाऽपर्त्तौ छन्दसो नाधीयीत ॥ ३१ ॥ उत्सर्जनादूर्ध्वमुपाकरणादर्वागपर्तुः । तत्र छन्दसोऽननूक्तमंशमपूर्वं नाऽधीयीत । ग्रहणाध्ययनमपर्त्तौ न कर्तव्यम् । यद्यपि(२)तैष्यां पौर्ण- मास्यां रोहिण्यां वा विरमे’ दित्युक्तम्, तथापि कियन्तं कालं तद्विर- रमणम् ? कस्माच्चाऽध्ययनम् ? इत्यपेक्षायामिदमुच्यते-एतावन्तं कालं ग्रहणाध्ययनं न कर्त्तव्यमिति । धारणाध्ययने न दोषः । तथा ‘छन्दस’ इति वचनादङ्गानां ग्रहणाध्ययने न दोषः ॥ ३१ ॥ प्रदोषे च ॥ ३२ ॥ प्रदोषे चाऽननूक्तमृतामपि नाधीयीत । (३)‘मासं प्रदोषे नाधीयीते’ त्येतत्तु धारणाध्ययनस्यापि प्रतिषेधार्थम् । अपर आह—यस्यां रात्रौ द्वादशी त्रयोदशी च मिश्रीभवतः, तस्यां प्रदोषे नाधीयीतानूकमननू- क्तं च, ऋतावपर्त्तौ च । एष आचार इति ॥ ३२ ॥ सार्वकालिकमाम्नातम् ॥ ३३ ॥ आम्नातंमधीतं तत्सार्वकालिकमपर्त्तौ प्रदोषे च सर्वस्मिन्कालेऽध्येतव्यम् ३३ यथोक्तमन्यदतः परिषत्सु ॥ ३४ ॥ १. आप. ध. १. ११. २७. २. आप. ध. १.९.२. ३. आप. ध. १. ९. १. आप० ध० ९

६६ आपस्तम्बधर्मसूत्रे [(प.३.)क.११. अत एतस्मादनध्यायप्रकरणोक्तादन्यदनध्यायनिमित्तम् । परिषद्सु- मानवादिधर्मशास्त्रेषु यथोक्तं (१)तथा द्रष्टव्यम् । तत्र वासिष्ठः (२)‘दिग्दाहपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिक’ मिति । यमः- (३)‘श्लेष्मातकस्य शल्मल्या मधूकस्य तथाप्यधः । कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥’ सङ्ग्रामोद्यानदेवतासमीपेषु नाधीयीतेति ॥ ३४ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्जवलायामेकादशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्जवलायां प्रथमप्रश्ने तृतीयः पटलः ॥ ३ ॥ १. तथा इति नास्ति. क. पु. २ व. स्मृ. १३ ८. दिग्नादपर्वतनादकम्पप्रपातेषु, इति मुद्रितपुस्तकपाठः । निमित्तप्रादुर्भावादारभ्याऽन्येद्युर्यावत् स एव कालः स आकालः । तत्र भवमाकालिकम् । ३. मुद्रितयमस्मृतौ बृहद्यमस्मृतौ वा नेदं वचनमुपलभ्यते ।

अथ चतुर्थः पटलः ॥ तपः स्वाध्याय इति ब्राह्मणम् ॥ १ ॥ योऽयं नित्यस्वाध्यायस्तत्तपः कृच्छ्रातिकृच्छ्रचान्द्रायणादिलक्षणं तपो यावत्फलं साधयति तावत्साधयतीत्यर्थः ॥ १ ॥ तत्र श्रूयते(१)स यदि तिष्ठन्नासीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति ॥ २ ॥ तत्रैव ब्राह्मणे "स यदि तिष्ठन्नासीन' इत्यापत्कल्पः श्रूयते । तत्र (२) 'दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्याय' मित्यादिर्मु- ख्यः कल्पो(३) ब्राह्मण एवोक्तः । इह पुनरासीनवचनं यथाकथञ्चिदा- सनार्थम् । सर्वथाऽप्यधीयानस्तप एव तत्तप्यत इति ब्राह्मणार्थः । मनुरप्याह— (४)आहैव स नखाग्रेभ्यः परमं तप्यते तपः । यस्स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥' इति । स्रग्वीति स्वैरं दर्शयति ॥ २ ॥ एवं कर्तृनियमो नाऽऽपद्यतीवाऽऽदरणीय इत्युक्त्वा कालेऽप्याह— अथापि वाजसनेयिब्राह्मणम् (५) ब्रह्मयज्ञो ह वा एष यत्स्वा- १. तै. आ. २. १२. अत्र सूत्रे ब्राह्मणवाक्यानुपूर्वी योपात्ता सा क्वचित् ब्राह्मणे नोपल भ्यते । किन्तु एवमनुमीयते—तैत्तिरीयारण्यकद्वितीयप्रपाठकद्वादशानुवाकगतं “उत तिष्ठन्नत व्रजन्नुतासीन उत शयानोऽधीतैव स्वाध्यायम्" इत्यंशं 'तप एव तत् तप्यते तपो हि स्वाध्या- यः' इति तत्रैव त्रयोदशानुवाकगतमंशं चाऽऽदायैकीकृत्य सूत्रेऽनूदितवान् सूत्रकार इति । २. तै. आ. २. ११ १ ३. तैत्तिरीयारण्यके स्वाध्यायब्राह्मण इत्यर्थः । ४. मनु. २. १६७. “यदि ह वा अप्य+यक्तोऽलंकृतस्सुहितस्सुखे शयने शयान. स्वाध्यायमधीत आहैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान् स्वाध्यायमधीते, तस्मात् स्वा ध्यायोऽध्येतव्य.” (मा शत. ब्रा ११. ५. ३. ) इति माध्यन्दिनशतपथब्राह्मणवाक्यमू- लेयं मानवी स्मृतिरिति भाति । ५. इदानीमुपलभ्यमानमाध्यन्दिनशतपथब्राह्मणपंक्तिस्त्वियम्-“तस्य वा एतस्य ब्रह्म- यज्ञस्य चत्वारो वषट्काराः यद्वातो वाति यद्विद्योतते, यत् स्तनयति यदवस्फूर्जति तस्मादेवं- विद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामछम्बट्काराय" इति ।

६८ आपस्तम्बधर्मसूत्रे [ (प.४.)क.१२. ध्यायतस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वायति । तस्मात् स्तन- यति विद्योतमानेऽवस्फूर्जति वाते वा वाय- त्यधीयीतैव वषट्काराणामच्छम्ब- ट्कारायेति ॥ ३ ॥ अथापि अपि च स्वाध्यायो नाम य एष ब्रह्मयज्ञ ब्रह्म वेदः तत्साधनो यागः। यथा दर्शपूर्णमासादयः पुरोडाशादिसाधनाः। हवैशब्दौ प्रसिद्धिं द्योतय- तः। तस्य यज्ञस्यैते वक्ष्यमाणाः स्तनयित्न्वादयो वषट्काराः वषट्कारस्थानी- याः। बहुवचननिर्देशात्(१) वषट्कारानुवषट्कारस्वाहाकारास्सर्वे प्रदा- नार्था गृह्यन्ते । (२)स्तनितं मेघशब्दः। विद्योतनं विद्युद्व्यापारः । अवस्फूर्जनम- शनिपातः। तत्र 'अवस्फूर्जथुर्लिङ्ग' मिति दर्शनात् । 'वायती' ति 'ओवै शोषण' इत्यस्य रूपम्। यथा आर्द्रप्रदेशश्शुष्को भवति तथा(३) वाती- त्यर्थः। यस्मादेते वषट्काराः तस्मात् स्तनादिष्वनध्यायनिमित्तेषु सत्स्वप्यधीयीतैव । न पुनरनध्याय इति नाधीयीत । किमर्थम् ? वषट्- काराणामेतेषामच्छम्बट्काराय अव्यर्थत्वाय । अन्यथा एते वषट्कारा व्यर्थास्स्युः । ततश्च(४) यथा होत्रा वषट्कृते अध्वर्युर्न जुहुयात् तादृ- गेव तत्स्यात् ॥ ३ ॥ तस्य शाखान्तरे वाक्यसमाप्तिः ॥ ४ ॥ तस्य वाजसनेयिब्राह्मणस्य । शाखान्तरे वाक्यसमाप्तिर्भवति, न (५)तावति पर्यवसानम् ॥ ४ ॥ १. वषट्कारः सर्वत्र यागादौ हविःप्रक्षेपात् पूर्वं हविःप्रक्षेपार्थमेव पठ्यमानया- ज्यायाः अन्ते पठ्यमानः “वौषट्” इति शब्दः । सोमयागे तत्तद्ग्रहहोमानन्तरं “सोम- स्याग्ने वीहि३ वौषट्” इति द्वितीयवारं पठ्यमानोऽनुवषट्कारः । स्वाहाकारस्तु प्रसिद्धः । २. स्तननं इति. ख. ग. पु. ३. वायतीत्यर्थः, इति क. पु. ४. दर्शपूर्णमासादियागेषु सर्वत्र हविःप्रदानसमये “अमुष्मा अनुब्रूहि” इति प्रैषानन्तर पुरोनुवाक्यामनूच्याऽऽश्राव्य प्रत्याश्राव्य याज्यामुक्त्वा वषट्कृते जुहोति” इति वचनात् वषट्कारानन्तर होमो विहितः। तत्र वषट्कारानन्तर होमाकरणे यादृशो दोषस्तादृशस्स्या- दित्यर्थः । ५. ‘तावतीति. नास्ति ख. पु.

नित्यस्वाध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६९ तदेव (१)शाखान्तरं पठति— अथ यदि वा वातो वाद्यात्स्तनयेद्वा विद्योतित वाऽवस्फू- र्जेदेकां वर्चमेकं वा यजुरेकं वा सामाऽभिव्याहरेद्भूभूर्भु- वस्सुवस्सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो- हैवाऽस्यैतदहस्स्वाध्याय उपात्तो भवति ॥ ५ ॥ अन्ते इतिशब्दोऽध्याहार्यः । वातादिषु सत्सु एकासृचमधीयीत । प्राप्ते प्रदेशे । यजु(२)र्वेदाध्ययन एकं यजुः । साम(३)वेदाध्ययन एक साम । सर्वेषु वा वेदेषु 'भूर्भुवः सुव' रित्यादिकं यजुरभिव्याहरेत्, न पुनर्य- थापूर्वं प्रश्नमात्रम् । तेनैव तावतैवास्याऽध्येतुः तदहः तस्मिन्नहनि स्वाध्याय उपात्तो भवति(४) अधीतो भवतीति यावत् । केचित्तु 'भूर्भुवः सुव' रित्या- दिक ब्राह्मणभागाध्ययनविषयं मन्यन्ते, न सार्वत्रिकम् ॥ ५ ॥ कस्मात् पुनर्वाजसनेयिब्राह्मणस्योदाहृते शाखान्तरे वाक्यसमा- प्तिराश्रीयते न पुनर्यथाश्रुतमात्रं गृह्यते ? तत्राह— एवं सत्यार्यसमयेनाऽविप्रतिषिद्धम् ॥ ६ ॥ एवं सति वाक्यपरिसमाप्तावाश्रीयमाणायामार्यसमयेन आर्याः शिष्टा मन्वादयः तेषां समयो व्यवस्था, तेन अविप्रतिषिद्ध भवति । इतरथा विप्रतिषिद्धं स्यात् ॥ ६ ॥ कथम् ? अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाज- सनेयिब्राह्मणं चेदवेक्षेत ॥ ७ ॥ आर्या हि अध्यागमनध्यायं चोपद्दिशन्ति । तदुपदेशनमनर्थकं स्यात् यदि वाजसनेयिब्राह्मणं यथाश्रुतमवेक्षताऽध्येता ॥ ७ ॥ ननु-अनर्थकमेवेदमस्तु, श्रुतिविरोधात् । तत्राह— आर्यसमयो ह्यगृह्यमाणकारणः ॥ ८ ॥ योऽयमध्यायानध्यायविषय आर्यसमयः न तत्र किञ्चित्कारणं गृह्यते । यथा(५) 'वैसर्जनहीमीयं वासोऽध्वर्यवे ददाती' त्यत्रागृह्यमाण १ किमिदं शाखान्तरमिति न ज्ञायते । २, ३. वेदाध्यायी इति क. पु. ४. स्वीकृतो भवति अधीतो भवतीत्यर्थ , इति. ख. पु ५. सोमयागे अग्नीषोमीयपश्वनुष्ठानकाले तदर्थ शालामुखीयादग्ने काचिदशमुद्धृत्य

७० आपस्तम्बधर्मसूत्रे [ (प.४)क. १२. कारणश्चार्यसमयः श्रुत्यनुमानद्वारेण प्रमाणम् । अतो वाक्यपरिसमा- प्तिरेव युक्ता । एवं हि वाजसनेयिब्राह्मणस्यापि नात्यन्तबाधः । अनध्या योपदेशस्यापि प्रभूताध्ययनविषयतयाऽर्थवत्त्वमिति । सूत्रे 'अगृह्यमान कारण' इति णत्वाभावश्छान्दसः ॥ ८ ॥ का पुनरसौ स्मृतिः ? या ब्रह्मयज्ञेऽप्यनध्यायमुपदिशति । मानवे तावद्विपर्ययः श्रूयते- (१)'नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ।' इति । सामान्येनानध्यायोपदेशस्तु ब्रह्मयज्ञादन्यत्र चरितार्थः । तस्मात्ता- दृशी स्मृतिर्मृग्या । एवं तर्ह्यग्निहोत्रादिष्वपि मन्त्राणामनध्याय प्राप्नोति । नेत्याह- विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ॥ ९ ॥ विद्या वेदाध्ययनम् । तां प्रत्यनध्यायः श्रूयते । न पुनर्मन्त्राणा कर्मयोगे । हेतुः परिभाषायामुक्तो(२)र्थान्तरत्वादिति । अर्थान्तरं हि कर्मणि प्रयोगो मन्त्राणाम् (३)न पुनर्ग्रहणाध्ययनम् । पारायण।ध्ययनमध्येऽनध्यायागमो भवति वा न वेति चिन्त्यम् । एव श्रीरुद्रादिजपेऽपि ॥ ९ ॥ कथं पुनरार्यसमयः प्रमाणम् ? यावता न तेषामतीन्द्रियेऽर्थे ज्ञानं सम्भवति । तत्राह- ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते ॥ १० ॥ विधीयन्त इति विधयः कर्माणि । ते सर्वे स्मार्ता अपि ब्राह्मणेष्वे- तस्य उत्तरवेदिस्थाहवनीयकुण्डे स्थापनार्थं अध्वर्यौ गच्छति तं यजमानस्तत्पत्नीपुत्राद- योऽनुगच्छेयुः । गच्छतस्तानहतेन दीर्घतमेन वस्त्रेणोपर्याच्छाद्य सर्वेष्वाहवनीयदेश प्राप्तेषु तत्र तमग्निं प्रतिष्ठाप्य, आच्छादनवस्त्रान्तं स्रुग्दण्डे बध्वाऽऽज्येन जुहोति । ते वैसर्जनहोम। उच्यन्ते । तच्च वासः अध्वर्यवे दद्यात् इति प्रकृतवाक्यार्थं । स्मृतेरस्याः लोभादिमूलकत्व- मापाद्यातएवाप्रामाण्यमुक्त शबरस्वामिना । कुमारस्वामिना तु एव सति सर्वत्राऽनाश्वासप्र- सङ्गमापाद्य मन्वादिस्मृतिवत् प्रामाण्यमेवाङ्गीकृतम् । १. म. स्मृ. २. १०६. ब्रह्मसत्रं सततप्रवृत्तं सत्रम्, यथा सहस्रसंवत्सरादिकं सत्रं न कदाचिच्छिद्यते तद्वदिद नित्याध्ययनमित्यर्थः । २. आप. प १. ४०. ३. अनुष्ठेयार्थप्रकाशकतया इत्याधिक ख. ग, पु.

पञ्चमहायज्ञाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७१ वोक्ताः । नन्विदानीं ब्राह्मणानि नोपलभ्यन्ते । सत्यम्; तेषामुत्सन्नाः पाठाः, अध्येतृदौर्बल्यात् । कथं तर्हि तेषामस्तित्वम् ? प्रयोगादनुमीयन्ते । प्रयोगः स्मृतिनिबन्धनमनुष्ठानं च । तस्माद्ब्राह्मणान्यनुमीयन्ते मन्वादिभिरु- पलब्धानीति । (१) कथमन्यथा स्मरेयुरनुतिष्ठेयुर्वा । सम्भवति च तेषां वेदसंयोगः ॥ १० ॥ अथ प्रसङ्गादपस्मृतिरुच्यते- यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ॥११॥ यत्र(२)पितृष्वसृसुतामातुलसुतापरिणयनादौ । प्रीत्युपलब्धितः प्रवृत्तिर्न तत्रोत्सन्नपाठं शास्त्रमनुमीयते, प्रीतेरेव प्रवृत्तिहेतोः सम्भवात् ॥ ११ ॥ ततश्च- तदनुवर्तमानो नरकाय राध्यति ॥ १२ ॥ तद्विधानमनुतिष्ठन्नरकायैव राध्यति कल्पते ॥ १२ ॥ अथ ब्राह्मणोक्ता विधयः ॥ १३ ॥ एवं स्मृत्याचारप्राप्तानां श्रुतिमूलत्वमुक्तम् । (३) अथ प्रत्यक्षब्राह्मणोक्ता एव केचिद्विधयो व्याख्यायन्ते तेषामपि स्मार्तेष्वनुप्रवेशार्थम् । तेन तद्- तिक्रमे स्मार्तातिक्रमनिमित्तमेव प्रायश्चित्तं भवति ॥ १३ ॥ तेषां (४)महायज्ञा महासत्राणीति च संस्तुतिः ॥१४॥ तेषां वक्ष्यमाणानां महायज्ञा इति संस्तुतिः स्वाध्यायब्राह्मणे । महासत्रा- णीति च संस्तुतिर्भवति बृहदारण्यकादौ । संस्तुतिग्रहणेन संस्तुतिमात्र- मिदं न नामधेयं(५) धर्मातिदेशार्थमिति दर्शयति । तेन महायज्ञेषु सोम १. कथमपरथा इति ख. पु. २. 'पितृष्वसृसुता' इति नास्ति ख. ग. पु. ३ अथेदानीं इति ख. पु. ४ पञ्चैव महायज्ञाः तान्येव महासत्राणि (श. ब्रा. ११. ५.६.१ ) इति शतपथे । ५. कुण्डपायिनामयनाख्ये संवत्सरसाध्ये सत्रविशेषे "मासमग्निहोत्रं जुहोतीति" श्रुतोऽग्निहोत्रशब्दस्तत्रत्यस्य कर्मविशेषस्य गौण्या वृत्त्या नामधेय सन् प्रसिद्धाग्नि- होत्रात् धर्मातिदेशक इत्युक्तं पूर्वमीमांसायां सप्तमतृतीये । एव च क्वचित् नामत्वेनाभिधावृत्त्या प्रयुज्यमानस्य शब्दस्य प्रकरणान्तरेऽन्यत्र कर्मनामतया यदि श्रवणं, तदा न तत्र कर्मान्तरेऽपि तस्य शक्तिरङ्गीक्रियतेऽनेकार्थतादोषभिया । किन्तु प्रसिद्धतादृशकर्मनिष्ठगुणसमानगुणवत्वरूपां गौणी वृत्तिमाश्रित्य तद्वत्तात् तदीयधर्मातिदेशक- इति स्थितम् । प्रकृते तु न तथा । किन्तु स्तुतिमात्रमिति ।