भारतकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

प्रथमः खण्डः] अनाविलोपेताम् । १७३

प्रथमः खण्डः] अनाविलोपेताम् । १७३

अनिष्ट्वा वा ॥ ५ ॥
अथ वानिष्ट्वैव प्रविशेदगदः ॥ ५ ॥

संस्थिते भूमिभागं खानयेद् दक्षिणपूर्वस्यां दिशि दक्षिणापरस्यां वा दक्षिणाप्रवणं दक्षिणाप्राक्प्रवणं दक्षिणाप्रत्यक्प्रवणमित्येके यावानुद्बाहुकः पुरुषस्तावदायामं व्याममात्रं तिर्यक् वितस्तिमर्वाक् ॥ ६ ॥

यदि संस्थितो मृतः स्यात् ततस्तस्मात् प्रदेशाद् दक्षिणपूर्वस्यां दिशि आग्नेय्यां दक्षिणापरस्यां निर्ऋत्यां वा भूमिभागं खानयेत् कर्ता पुत्रादिः । दक्षिणादिप्रवणं यथा स्यात् तथा खानयेत् । प्रमाणनिर्देशः— उत्क्षिप्तबाहुकः पुरुषो यावान् तावानायामो यस्य तं तावदायामम् । तिर्यक्प्रमाणेन् व्याममात्रम् ।

“बाह्वोः सकरयोर्व्यामस्ततयोस्तिर्यगन्तरम्”

इति नैघण्टुकाः । अर्वाक्प्रमाणेन् वितस्तिं वितस्तिप्रमितम् ।

कनिष्ठाङ्गुष्ठयोर्मध्यं वितस्तिस्ततदीर्घयोः ।

अर्वाङिति ङकारोऽपपाठः। यथा पूर्वत्र तिर्यगिति एवमत्रावागिति ॥ ६ ॥

अभितआकाशं श्मशानम् ॥ ७ ॥
अभितः परित आकाशं यस्य एवंविधं श्मशानं भवति । मध्ये छदिरादिभिरनाकाशमित्युक्तं भवति ॥ ७ ॥

१७४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

बहुलौषधिकम् ॥ ८ ॥ बहुला ओषधयो यत्र एवं च तत् ॥ ८ ॥

कण्टकिक्षीरिणस्त्वति यथोक्तं पुरस्तात् ॥ ९ ॥ वास्तुपरीक्षायां तथात्रापि कार्यम् ॥ ९ ॥

यत्र सर्वत आपः प्रध्वंसेरन्नेतदादहनस्य लक्षणं श्मशानस्य ॥ १० ॥ यत्र प्रदेशे सर्वत आपः प्रध्वंसेरन् नावतिष्ठेरन् ए- तदादहनस्य श्मशानस्य लक्षणम् । यत्रासावादह्यते तदा- दहनम् । आदहनस्येति विशेषणादन्यदपि श्मशानमस्तीति गम्यते यत्र संचितान्यस्थीनि निधीयन्ते तदेवंलक्षणं न भवति । १तत्राप्यभित आकाश२मिति३ भवति श्मशानस्य तत्रा- विशेषितत्वात् ॥ १० ॥

केशश्मश्रुलोमनखानीत्युक्तं पुरस्तात् ॥ ११ ॥ 'केशश्मश्रुलोमनखानि वापयीरन्नि'त्यादि 'अवच्छेद्य- मस्य पुत्रा अमाकुर्वीरन्नि'त्यन्तं यत् पुरस्तादुक्तं तदिहापि द्रष्टव्यम् ॥ ११ ॥

विगुल्फं बर्हिराज्यं च ॥ १२ ॥ विगुल्फं प्रभूतं तत् तदुपविगुल्फयेयुः । सौम्यं वौ४- विगुल्फमिति५ ॥ १२ ॥

दध्यन्यत्र सर्पिरानयन्त्येतत् पित्र्यं पृषदाज्यम् ॥ १३ ॥


१. 'तलक्ष' ख. ङ. पाठः.
२. 'अभित आकाशमित्येतत् तु तत्रा-पि भ' घ. पाठः.
३. 'शं भ' ख. पाठः.
४. 'वा गु' ङ. पाठः.
५. 'तिवत् ॥' ग. ङ. पाठः.

द्वितीयः खण्डः] अनाविलो॑पेतम् । १७५

द्वितीयः खण्डः] अनाविलो॑पेतम् । १७५

अत्र कर्माणि दधनि सर्पिरानयन्ति । एतत् सर्पिर्मिश्रं दधि पित्र्यं पृषदाज्यम् । संज्ञेयम् । तेन 'निष्पुरीषमेके कृत्वा पृषदाज्यस्य पूरयन्ती'त्यत्रापि ग्रहणं भवति ॥ १३ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये प्रथमः खण्डः ।


अथ द्वितीयः खण्डः ।

अथैतां दिशमग्नीन् नयन्ति ॥ १ ॥

यस्यां दिशि भूमिभागः खानितः तां दिशमग्नीन् नयन्ति ॥ १ ॥

यज्ञपात्राणि च ॥ २ ॥

नयन्तीत्येव ॥ २ ॥

अन्वञ्चं प्रेतमयुजोऽमिथुनाः प्रवयसः ॥ ३ ॥

नयन्तीत्येव । अन्वञ्चं पात्राणां पृष्ठतः अयुजः अयुग्मसंख्यास्त्रयः पञ्चेत्यादि । अमिथुनाः स्त्रियः पुमांस एव वा न मिश्रिताः । प्रवयसो वृद्धाः । उपदेशक्रमादेव सिद्धे अन्वञ्चमिति वचनादग्नीनां च पात्राणां च क्रमो यथारुचि स्यात् ॥

पीठचक्रेण गोयुक्तेनेत्येके ॥ ४ ॥

एके गोयुक्तेन पीठचक्रेण शकटविशेषेण नयन्ति । एक इति वचनादन्ये शिबिकादिना ॥ ४ ॥

अनुस्तरणीं गामजां वैकवर्णां कृष्णामेके ॥ ५ ॥

कल्पान्तरेष्वनुस्तरणी विकल्‍पिता । तदनुविधानाय

१७६ | आश्वलायनगृह्यसूत्रम् | [चतुर्थोऽध्यायः

व्यवहितकल्पनया योज्यम् । यत्त्वचा प्रेतोऽनुस्तीर्यते सानुस्तरणी तां गामजां वा ॥ ५ ॥

सव्ये बाहौ बद्ध्वानुसंस्कारयन्ति ॥ ६ ॥

अन्येनैवं विकल्पितानुस्तरणी तत्र गामेकवर्णीमसङ्कीर्णवर्णाम् अजां कृष्णाम् । अन्ये त्वेकवर्णां कृष्णामित्येकमेव विशेषणं मन्यन्ते । कृष्णमित्युक्ते कृष्णप्रायापि गृह्येत तन्निवृत्त्यर्थमेकवर्णामन्यवर्णसंयुक्तामिति ॥ ६ ॥

अन्वञ्चोऽमात्या अधोनिवीताः प्रवृत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः ॥ ७ ॥

अमात्याः पुत्रादयः तेऽन्वञ्चो गच्छन्ति अधोनिवीताः अधःकृतोपरिवाससः बाह्वोरधःकृतयज्ञोपवीता वा । प्रवृत्तशिखा मुक्तशिखा मुक्तकेशा वा । ज्येष्ठः प्रथमोऽग्रगामी येषां ते ज्येष्ठप्रथमाः । कनिष्ठः पृष्ठगामी येषां ते कनिष्ठजघन्याः । एवंभूता गच्छेयुः । ज्येष्ठप्रथमा इत्येतावत्युच्यमाने ज्येष्ठ एव प्रथमः स्यात्। कनिष्ठजघन्यवचनात्तु ज्येष्ठानुपूर्व्याद् गच्छेयुः ॥

प्राप्यैतं भूमिभागं कर्तोदकेन शमीशाखया त्रिः प्रसव्यमायतनं परिव्रजन् प्रोक्षत्यपेतवीतविचसर्पतात इति ॥ ८ ॥

यः पूर्वं खानितः एतं भूमिभागं प्राप्य कर्ता पुत्रादिः उदकेन शमीशाखया तदायतनं त्रिप्रदक्षिणं परिव्रजन् प्रोक्षति । अपेतेति मन्त्रस्यावृत्तिः ॥ ८ ॥

Text analysis of the image:

Page header: द्वितीयः खण्डः] अनाविलो block? -> अनाविलो block -> अनाविलो block Wait, look at: अनाविलो block -> No, अनाविलो block? It says अनाविलो block -> अनाविलो block? Reading the Devanagari: अनाविलो block? अ ना वि लो पे त म् । -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block -> अनाविलो block ->

१७८ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

धनुश्च क्षत्रियाय ॥ १४ ॥

क्षत्रियाय पत्नीं च धनुश्च ॥ १४ ॥

तामुत्थापयेद् देवरः पतिस्थीयोऽन्तेवासी जरद्दा- सो वोदीर्ष्व नार्य्यभिजीवलोकमिति ॥ १५ ॥

तां पत्नीमुत्थापयेद् देवरः स च पतिस्थीयः पतिस्था- नीयः। या देवरन्याययोग्या तद्विषयमेतत् । अन्ये तु सार्वत्रि- कमिच्छन्ति, पतिस्थानीयत्वं रक्षणाद्यभिप्रायमिति । अन्ते- वासी शिष्यः । जीर्णो वा दासः। उदीर्ष्वेति मन्त्रेण ॥ १५ ॥

कर्ता वृषले जपेत् ॥ १६ ॥

यदा वृषल उत्थापयेत् तदा कर्ता मन्त्रं जपेत् ॥ १६॥

धनुर्हस्तादाददानो मृतस्येति धनुः ॥ १७ ॥

उत्थापयेद् आददीत ॥ १७ ॥

उक्तं वृषले ॥ १८ ॥

कर्ता वृषले जपेदिति ॥ १८ ॥

अधिज्यं कृत्वा सञ्चितिमचित्वा संशीर्यानुप्रह- रेत् ॥ १९ ॥

धनुराततज्यं कृत्वा इध्मचितेर्यः शेषः तमचित्वैव भङ्क्त्वा तस्यामेव चितौ क्षिपेत् ॥ १९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये द्वितीयः खण्डः ।

तृतीयः खण्डः] अनाविलोपेतुम् । १७९

तृतीयः खण्डः] अनाविलोपेतुम् । १७९

अथ तृतीयः खण्डः।

अथैतानि पात्राणि योजयेत् ॥ १ ॥
अनन्तरमेतानि वक्ष्यमाणानि पात्राणि योजयेत् मृतस्याङ्गेषु निदध्यात् ॥ १ ॥

दक्षिणे हस्ते जुहूम् ॥ २ ॥
एकवचनस्याविवक्षितत्वात् पाशुकीमप्येवं चातुर्मास्यप्राप्तौम् । एतेनोपभृद् व्याख्याता । सर्वत्र योजयेदिति संबन्धः ॥ २ ॥

सव्य उपभृतम् ॥ ३ ॥
हस्त इत्येव ॥ ३ ॥

दक्षिणे पार्श्वे स्फ्यं सव्येऽग्निहोत्रहवणीम् ॥ ४ ॥
पार्श्वे इत्येव ॥ ४ ॥

उरसि ध्रुवां शिरसि कपालानि दत्सु ग्राव्णः ॥ ५ ॥
दन्तेषु ग्राव्णो योजयेत् । ‘यत्किञ्चित्सोमलिप्तं द्रव्यं तेनावभृथयन्ति’ इत्यभिषवग्राव्णामवभृथे विनियोगात् सोममध्यमृतविषयमेतत् ॥ ५ ॥

नासिकयोः स्रुवौ ॥ ६ ॥
चातुर्मास्ययाजिनस्त्रयः ॥ ६ ॥

भित्त्वा वैकम् ॥ ७ ॥
अथ यद्येकः स्रुवः तं भित्त्वा नासिकयोर्योजयेत् ॥ ७ ॥


१. ‘प’, २. ‘तम्।’ ख. पाठः., ‘सा’ ग. पाठः., ३. ‘चै’ ङ. पाठः.

१८०                      आश्वलायनगृह्यसूत्रम्                  [चतुर्थोऽध्यायः

कर्णयोः प्राशित्रहरणे भित्त्वा वै¹कम् ॥ ८ ॥
व्यतिरिक्तविषयमेतत् ॥ ८ ॥

उदरे पात्रीं समवत्तधानं च चमसम् ॥ ९ ॥
उदरे ॥ ९ ॥

उपस्थे शम्याम् अरणी² ऊर्वोः उळूखलमुसले
जङ्घयोः पादयोः शूर्पे ॥ १० ॥
द्विवचनं पूर्ववत्³ । नानाबीजेषु त्रीणि ॥ ११ ॥
छि⁴त्त्वा वैकम् ॥ ११ ॥
इदमपि पूर्ववत् । तदेवं यस्यां दशायां यत् पात्रमु-
त्पन्नं⁵विनियुक्तं तस्य धारणमास्मात् कर्मणः अत्र प्रतिपत्तिः ।
मध्ये चेत् स्वयं प्रतिपन्नं न तस्यैतदर्थमुत्पत्तिः⁶ ॥ ११ ॥

आसेचनवन्ति पृषदाज्यस्य पूरयन्ति ॥ १२ ॥
यानि बिलवन्ति पात्राणि तानि पृषदाज्येन पूरयन्ति ।
उक्तं पृषदाज्यम् ॥ १२ ॥

अमा पुत्रो दृषदुपले कुर्वीत ॥ १३ ॥
मृतस्य पुत्रो दृषदुपले अमाकुर्वीत स्वीकुर्वीत ॥ १३ ॥

लौहायसं च कौलालम् ॥ १४ ॥
यल्लोहायसनिर्मितं यच्च कुलालकृतं तच्चोभयं पुत्रो-
ऽमाकुर्वीत ॥ १४ ॥


१. 'चै' ङ. पाठः. २. 'णिम्' ख. ग. घ. पाठः. ३. 'त् । छि' घ. पाठः-
४. 'हि' ङ. पाठः. ५. 'न्नमवि' ख. ग. ङ. पाठः. ६. 'पपत्ति' ङ. पाठः.

तृतीयः खण्डः] अनाविलोपेतम् । १८१

तृतीयः खण्डः] अनाविलोपेतम् । १८१

अनुस्तरणया वपामुत्खिद्य शिरो मुखं प्रच्छादये-
दग्नेर्वर्मपरिगोभिर्व्ययस्वेति ॥ १५ ॥

अनुस्तरणीपक्षे तस्या वपामुत्कृत्य प्रेतस्य शिरश्च मुखं च प्रच्छादयेद् अग्नेर्वर्मेति मन्त्रेण ॥ १५ ॥

वृक्कयावुद्धृत्य पाण्योरादध्यादतिद्रवसारमेयौ
श्वानाविति दक्षिणे दक्षिणं सव्ये सव्यम् ॥ १६ ॥

वृक्कयावित्याम्रफलाकृती मांसपिण्डौ । तावुद्धृत्य प्रेतस्य पाण्योरादध्याद् दक्षिणे पाणौ दक्षिणं वृक्कयं सव्ये सव्यम् अतिद्रवेति मन्त्रेण ॥ १६ ॥

हृदये हृदयम् ॥ १७ ॥

प्रेतस्य हृदयेऽनुस्तरण्या हृदयमुद्धृत्यादध्यात् ॥ १७ ॥

पिण्ड्यौ चैके ॥ १८ ॥

एक आचार्या ओदनपिण्डावपि हृदये निदधति । पिण्डीनामानौ मांसपिण्डाविति वा ॥ १८ ॥

वृक्कयावेचार इत्येके ॥ १९ ॥

एक आचार्याः वृक्कयाभावे पिण्ड्यावाधातव्ये मन्यन्ते पाण्योर्हृदये वा ॥ १९ ॥

सर्वां यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्य ॥ २० ॥

सर्वामनुस्तरणीं यथाङ्गम्^२ अनुस्तरण्यास्तत्तदङ्गं प्रेतस्य तस्मिंस्तस्मिन्नङ्गे विनिक्षिप्य तस्या एव चर्मणौ^३ प्रेतं प्रच्छादयेत् ॥ २० ॥


१. 'प' ख. ङ. पाठः.
२. 'ङ्गं यद्यदनुस्तरण्या अङ्गं तत्तत् प्रे' घ. पाठः.
३. 'णा प्र' ङ. पाठः.

१८२आश्वलायनगृह्यसूत्रम्[चतुर्थोऽध्यायः

इममग्ने चमसं मा विजिह्वर इति प्रणीताप्रणयनमनुमन्त्रयते ॥ २१ ॥

दर्शपूर्णमासयोर्येन प्रणीताः प्रणीयन्ते तं चमसं प्रेतस्याङ्गे यत्र क्वचिन्निक्षिप्यानुमन्त्रयते इममग्ने चमसमिति मन्त्रेण। केचित् तस्मिन्नपि कर्मणि अग्निनिधानादूर्ध्वं प्राक् चितिसंचयनात् प्रणीताः प्रणयन्ति ॥ २१ ॥

सव्यं जान्वाच्य दक्षिणाग्नावाज्याहुतीर्जुहुयादग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहानुमतये स्वाहेति ॥ २२ ॥

आच्य निपात्य अत्र होमार्थमन्यं स्रुवमुत्पाद्य। हुत्वा तु^१ योजने विनियोगक्रमो बाधितः स्यात् ॥ २२ ॥

पञ्चमीमुरसि प्रेतस्यास्माद्वै त्वमजायथा अयं त्वदधि^२जायतामसौ स्वाहेति ॥ २३ ॥

पञ्चमीमाहुतिं प्रेतस्योरसि जुहुयात् । अस्माद् वै त्वमिति मन्त्रेण। असावित्यस्य स्थाने प्रेतस्य नामनिर्देशः प्रथमाया । पञ्चमीग्रहणात् पुरस्तात् तन्त्रमुपरिष्टात् तन्त्रं च निवर्तते ॥ २३ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थोऽध्याये तृतीयः खण्डः।


१. ‘तु होमयो’ घ. पाठः. २. ‘म’ ग. पाठः.

चतुर्थः खण्डः ] अनाविलोपेसम् । १८३

चतुर्थः खण्डः ] अनाविलोपेसम् । १८३

अथ चतुर्थः खण्डः ।

प्रैष्येति युगपदग्नीन् प्रज्वलयेतेति ॥ १ ॥ कर्ता परिकर्मिण आह युगपदित्यादि ॥ १ ॥

आहवनीयश्चेत् पूर्वं प्राप्नुयात् स्वर्गे लोके एनं प्रापदिति विद्यात् ॥ २ ॥ तेष्वग्निषु युगपत् प्रज्वलितेषु यद्याहवनीयः पूर्वं प्रा- प्नुयात् प्रेतं तत एतं प्रेतं स्वर्गलोकं प्रापत्तै प्राप्तवानिति विद्यात् ॥ २ ॥

रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ॥ ३ ॥ असौ प्रेतः अमुत्र लोके रात्स्यति संसिद्धो भविष्यति एवमस्यामात्यजनोऽस्मिन् लोके रात्स्यतीति पुत्रो विद्यात् । एतेनोत्तरे सूत्रे व्याख्याते ॥ ३ ॥

गार्हपत्यश्चेत् पूर्वं प्राप्नुयादन्तरिक्षलोके एनं प्रा- पदिति विद्यात् रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः । दक्षिणाग्निश्चेत् पूर्वं प्राप्नुयान्मनुष्यलोके एनं प्रापादि- ति विद्यादन्नमेवासावत्स्यत्येवमयमस्मिन्निति पुत्रः ॥ ४ ॥

एवकारो भिन्नक्रमः अन्नमत्स्यत्येव “अद भक्षणे” अस्मिन् लोके पुनर्जातोऽन्नवान् भविष्यत्येवेत्यर्थः । एवमय- मिति व्याख्यातम् ॥ ४ ॥

युगपत् प्राप्तौ परामृद्धिं वदन्ति ॥ ५ ॥


१. ‘प्येतेति’ ख. पाठः. २., ३. ‘र्वः’ ख. घ. ङ. पाठः. ४. ‘त् प्राप्नुयात् प्रा’ घ. पाठः. ५., ६. ‘र्वः’ ग. पाठः. ७. ‘त्तौ तु प’ ख. ग. ङ. पाठः.

१८४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

यद्येनं त्रयोऽप्यग्नयो युगपत् प्राप्नुयुः तदा परा ऋ- द्धिर्भवतीति वदन्ति ब्रह्मवादिनः ॥ ५ ॥

तं दह्यमानमनुमन्त्रयते प्रेहि प्रेहि पथिभिः पूर्व्ये- भिरिति समानम् ॥ ६ ॥

प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयामित्या- रभ्य समाप्येत्यन्तं यदुक्तं तदत्र कर्तव्यमित्यर्थः ॥ ६ ॥

स एवंविदा दह्यमानः सहैव धूमेन स्वर्गलोकमै- तीति विज्ञायते ॥ ७ ॥

स प्रेत एवंविदा उक्तं दहनप्रकारं यो वेत्ति तेन द- ह्यमानः सहैव धूमेन यदैव धूम उद्गच्छति तदैव स्वर्गलोक- मेतीति ब्राह्मणं भवति ॥ ७ ॥

उत्तरपुरस्तादाहवनीयस्य जानुमात्रं गर्तं खात्वा- द्भिः पूरयित्वावकाः शीफालमित्यवधापयेत् ततो ह वा एष निष्क्रम्य सहैव धूमेन स्वर्गं लोकमेतीति विज्ञायते ॥

तत एवं कल्पिताद् गर्तादेष प्रेतो निष्क्रम्य । सहैवे- त्यादि गतम् । हवै इत्यव्ययद्वयमयमर्थः सिद्ध इत्यर्थे ॥

इमे जीवा विमृतैराववृत्रन्निति सव्यावृतो व्रज- न्त्यनवेक्षमाणाः ॥ ९ ॥

ततोऽमात्या इमे जीवा इति मन्त्रमुक्त्वा सव्येन भा- गेनावर्तमानाः प्रेतमनवेक्षमाणा व्रजन्ति ॥ ९ ॥

यत्रोदकमवहं भवति तत् प्राप्य सकृदुन्मज्जै- काञ्जलिमुत्सृज्य तस्य गोत्रनाम गृहीत्वोत्तीर्यान्यानि

पञ्चमः खण्डः] अनाविलोपेताम् । १८५

पञ्चमः खण्डः] अनाविलोपेताम् । १८५

वासांसि परिधाय सकृद्देनान्यपीड्योदग्दशानि विष-
ज्ज्यासन्त आनक्षत्रदर्शनादादित्यस्य वा ॥ १० ॥
यस्मिन् प्रदेशे उदकमवहं स्थिरं भवति तटाकादि तत् प्राप्य सकृदुन्मज्ज्य तस्य प्रेतस्य गोत्रनाम गृहीत्वा ग-
र्गगोत्राय तुभ्यमिति एकैकं जलाञ्जलिमुत्सृज्य उत्तीर्यान्यानि शुष्काणि वासांसि परिधाय एनानि गृहीतमुक्तानि वासांस्युद-
ग्दशानि कृत्वा सकृदापीड्य विषज्ज्य सङ्घीभूयासते दिवा चे-
दानक्षत्रदर्शनाद् रात्रौ चेदा आदित्यस्य च दर्शनात् ॥ १० ॥
दृश्यमाने प्रविशेयुः कनिष्ठप्रथमा ज्येष्ठजघन्याः ॥
दृश्यमाने नक्षत्रे आदित्ये वा ग्रामं प्रविशेयुः ॥ ११ ॥
प्राप्यासद्मश्मानमग्निं गोमयमक्षतं तैलमप
इत्युपस्पृशन्ति ॥ १२ ॥
आसीदन्त्यस्याभित्यासद् गृहं तामासदं प्राप्याश्मादी-
न्युपस्पृशन्ति बहिरैव द्वारदेशे ॥ १२ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
चतुर्थाध्याये चतुर्थः खण्डः ।

अथ पञ्चमः खण्डः ।
नैतस्यां रात्र्यामन्नं पचेरन् ॥ १ ॥
रात्रिग्रहणादहोरात्रस्य ग्रहणं दिवा मरणे दिवाप्यन्नं न पचेरन् । अन्नग्रहणान्मुद्गादीनां प्रतिषेधः । अन्ये तु अदनी-
यमन्नं तन्न पचेरन् न किञ्चिद् भुञ्जीरन्नित्यर्थ इति वर्णयन्तः
फलादिभक्षणमपि नेच्छन्ति ॥ १ ॥


१., २. 'ता' ग. घ. पाठः... ३ 'यं तै' ग. पाठः.

१८१ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

त्रिरात्रमक्षारालवणाशिनः स्युः ॥ २ ॥

अपरेद्युरारभ्य त्रिरात्रमश्नन्तोऽपि क्षारं लवणं च नाश्नीयुः ॥ २ ॥

द्वादशरात्रं वा महागुरुषु ॥ ३ ॥

माता पिता पितामहः प्रपितामहः यश्चोपनीय कृत्स्नं वेदमध्यापयति एते महागुरवः । एतेषु मृतेषु द्वादशरात्रं वा त्रिरात्रं वाक्षारालवणाशिनः स्युः । शक्त्यपेक्षो विकल्पः ॥ ३ ॥

दानाध्ययने वर्जयेरन् दशाहं सपिण्डेषु ॥ ४ ॥

“सापिण्डता तु पुरुषे सप्तमे विनिवर्तते” इति हि सपिण्डलक्षणम् । स्मर्यते च —

“उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥”

इति । नित्यानि निवर्तन्ते वैतानवर्जं शालाग्नौ चैके । अन्ये एतानि कुर्यादिति च । अन्ये तु दानाध्ययनमात्रप्रतिषेधोऽयम् आशौचं तु शास्त्रान्तरादवसेयमिति स्थिताः ॥ ४ ॥

गुरौ चासपिण्डे ॥ ५ ॥

असपिण्डो गुरुर्मातुलश्वशुरादिः ॥ ५ ॥

अप्रत्तासु च स्त्रीषु त्रिरात्रम् ॥ ६ ॥

सपिण्डासु त्रिरात्रं दानादि वर्जयेत् ॥ ६ ॥


१. ‘णं ना’ ग. पाठः. २. ‘निक्व’ ख. ग. ङ. पाठः.

५ ष्ठः खण्डः] अनाविलोपेताम् । १८७

इतरेषु ॥ ७ ॥

महागुरुव्यतिरिक्तेष्वाचार्येषु 'एकदेशमुपाध्याय' इत्या- दिषु ॥ ७ ॥

ज्ञातौ चासपिण्डे ॥ ८ ॥

असपिण्डो ज्ञातिः समानोदकः । तत्र च त्रिरात्रम् ।

“समानोदकभावस्तु जन्मनाम्नोरवेदने”

इति समानोदकलक्षणम् ॥ ८ ॥

प्रत्तासु च स्त्रीष्वदन्तजाते परिजाते चैकाहं स- ब्रह्मचारिणि समानग्रामीये च श्रोत्रिये ॥ ९ ॥

प्रत्तासु दुहित्रादिषु अदन्तजाते दन्ता यस्य न जाताः तस्मिन् बाले परिजातो दन्तजातः तत्रापि एकाहं दानादि वर्जयेत् । उपनयनादारभ्यासमावर्तनाद् यः सह व्रतं चरितवान् एकस्मिन्नाचार्ये स सब्रह्मचारी एवंविधमपरं प्रति तस्मिन् मृते एकाहमाशौचम् । समाने एकस्मिन् ग्रामे भवः समानग्रामीयः, श्रोत्रियोऽधीतवेदः तस्मिंश्च ॥ ९ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये पञ्चमः खण्डः ।


अथ षष्ठः खण्डः ।

संचयनमूर्ध्वं दशम्याः कृष्णपक्षस्यायुजास्वेक- नक्षत्रे ॥ १ ॥

अस्थीनि सञ्चीयन्ते यस्मिन् कर्मणि तत् संचयनं कृष्णपक्षस्य दशम्या ऊर्ध्वमयुजासु विषमासु तिथिषु एका-


१. 'श उपा' ग. ङ. पाठः.

१८८ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

दशीत्रयोदशीपञ्चदशीषु एकनक्षत्रे दिवसे कर्तव्यम् । सा दशमी यद्यन्तर्दशाहे भवति तत्रैव कर्तव्यम् । अथ बहिर्दशाहात् संचयनमपि तत्रैव । अपर आह — दशमी रात्रिर्गृह्यते मृताहादारभ्य तस्या ऊर्ध्वमित्यादीति ॥ १ ॥

लक्षणे कुम्भे पुमांसम् ॥ २ ॥

लक्षणे लक्षणयुक्ते शुभे कुम्भे पुमांसं संचिन्वीरन् पुंसोऽस्थीनीत्यर्थः ॥ २ ॥

अलक्षणायां स्त्रियम् ॥ ३ ॥

अलक्षणायां कुम्भ्यां स्त्रियोऽस्थीनि संचिन्वीरन् ॥ ३ ॥

अयुजोऽमिथुनाः प्रवयसः ॥ ४ ॥

व्याख्यातम् । एते संचेतारः ॥ ४ ॥

क्षीरोदकेन शमीशाखया त्रिः प्रसव्यायतनं परिव्रजन् प्रोक्षति शीतिके शीतिकावतीति ॥ ५ ॥

क्षीरमिश्रेणोदकेन ॥ ५ ॥

अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्लादयन्तोऽवदध्युः ॥ ६ ॥

संह्लादः शब्दः, यदि ग्रावाणः संह्लादेरन्निति दर्शनात् । उपकनिष्ठिकानामिका । अङ्गुष्ठोपकनिष्ठिकाभ्यामङ्गुलीभ्याम् एकैकमस्थ्यादाय असंह्लादयन्तोऽस्थ्नां परस्परसङ्घट्टनेन शब्दो यथा न स्यात् तथा कुर्वन्तः कुम्भेऽवदध्युः ॥ ६ ॥

पादौ पूर्वं शिर उत्तरम् ॥ ७ ॥

तत्र पादास्थीनि पूर्वमवदध्युः । ततोऽङ्गान्तराणि क्रमेणाशिरसः । चरमं शिरःकपालम् ॥ ७ ॥

षष्ठः खण्डः] अनाविलोपेताम् । १८९

षष्ठः खण्डः] अनाविलोपेताम् । १८९

सुसंचितं संचित्य पवनेन संपूय यत्र सर्वत॑ आपो नाभिव्यन्देरन् अन्या वर्षाभ्यस्तत्र कर्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति ॥ ८ ॥

अस्थि सुसंचितं यथा तथा संचित्य पवनेन शूर्पादिजन्येन संपूय भस्मपांसूंच्च संशोध्य सूक्ष्माण्यप्यस्थीनि संचित्य तं कुम्भं यत्र वर्षाभवाभ्योऽन्या आपो नाभिव्यन्देरन् तादृशे कर्तेऽवदध्युरुपसर्पेत्यृचा ॥ ८ ॥

उत्तरया पांसूनवकीर्य अवकीर्णे उत्तरामुत्ते स्तभ्नामीति कपालेनापिधायाथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य श्राद्धमस्मै दद्युः ॥ ९ ॥

उत्तरया उच्छ्वञ्चस्वेति^२ पांसूनभितोऽवकीर्य उच्छ्वञ्चमानेति जपति तत उत्त स्तभ्नामीति कपालेनापिधाय कुम्भमुपर्यपि पांसूनवकिरति । केचित्तु पूर्वमपिधाय जपित्वा पांसूनवकिरन्ति । प्रत्याव्रज्य श्मशानाद् अप उपस्पृश्य स्नात्वा श्राद्धमस्मै प्रेताय दद्युः । सर्वमेतत् कर्ता करोति । अमात्यानामनुसन्धानमात्रकमिदम् । श्राद्धमेकोद्दिष्टं तच्चोत्तरत्र वक्ष्यते । नवश्राद्धमासिकादीनि श्राद्धान्तराणि स्मृतिभ्योऽवगन्तव्यानि ॥ ९ ॥

ति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ चतुर्थाध्याये षष्ठः खण्डः ।


१. 'त्रापो' ख. घ. पाठः.
२. 'त्यनया पां' घ. पाठः.

CC-0. Agamnigam Digital Preservation Foundation, Chandigarh

१९०आश्वलायनगृह्यसूत्रम्[चतुर्थोऽध्यायः

अथ सप्तमः खण्डः ।

गुरुणा॑भिम्मृता अन्यतो वापक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वीरन् ॥ १ ॥

येषु जीवत्सु गुरुर्म्रियते ते गुरुणाभिम्मृताः । यथा सूर्योदये स्वपन् सूर्याभ्युदित इत्युच्यते तथा । गुरुः कुलश्रेष्ठः पित्रादिर्वा । अन्येषां वा पित्रादीनां बहूनामुपर्युपरि मरणेनापक्षीयमाणा अमावास्यायां शान्तिकर्म वक्ष्यमाणं कुर्वीरन् अमात्याः। तत्रैको ज्येष्ठः पुत्रादिः कर्ता । अपरेऽनुसन्धातारः ॥

पुरोदयादग्निं संहभस्मानं सहायतनं दक्षिणा हरेयुः क्रव्यादमग्निं प्रहिणोमि दूरमित्यर्धर्चेन ॥ २ ॥

प्रागुदयादग्निं भस्मना सहितमायतनेन सहितं दक्षिणस्यां दिशि हरेयुः क्रव्यादमित्यर्धर्चेन । गृहोपकरणभूतानां मणिकादीनां पुराणानामुत्सर्गः नवानां चोत्पत्तिरनन्तरं वक्ष्यते । तत्साहचर्याद् गृहोपकरणभूतस्य पचनाग्नेरयमुत्सर्गः न गृह्यस्य नापि श्रौतानाम् ॥ २ ॥

तं चतुष्पथे न्युप्य यत्र वा त्रिः प्रसव्येमायतनं परियन्ति सव्यैः पाणिभिः सव्यानूरूनाघ्नानाः ॥ ३ ॥

यत्र वा चतुष्पथादन्यत्रापि यत्र कुत्रापि वा दक्षिणस्यामेव दिशि ॥ ३ ॥


१. 'साय' ख. ग. ङ. पाठः. २. 'व्यं प' ङ. पाठः. ३. 'त्रचिद् वा' ख. पाठः. ४. 'स्यां दि' ख. घ. पाठः.

सप्तमः खण्डः] अनाविलोपेताम् । १९१

सप्तमः खण्डः] अनाविलोपेताम् । १९१

अथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य केशश्मश्रुलो- मनखानि वापयित्वोपकल्पयेरन् ॥ ४ ॥

अथ परीत्यानन्तरं पृष्ठतोऽनवेक्षमाणोस्ततः स्थानात् प्रत्याव्रजन्ति। ततः अप उपस्पृश्य स्नात्वा केशादीनि वापयित्वा पुनः शौचार्थं स्नात्वा वक्ष्यमाणानि द्रव्याण्युपकल्पयेरन् ॥ ४ ॥

'नवान् मणिकान् कुम्भानाचमनांश्च शमीसुमनसो मालिनः शमीमयमिध्मं शमीमय्यावरणी परिधींश्वानडुहं गोमयं यावत्यो युवतयस्तावन्ति कुशपिञ्जूलानि ॥ ५ ॥

मणिक उक्तः। कुम्भः प्रसिद्धः। येनाचम्यते स आचमनः करकः। उपलक्षणं चेदं मणिकादिग्रहणं यच्चान्यदेवम् (उप)युक्तं मृन्मयं तस्य सर्वस्य पुराणस्योत्सर्गः नवस्य चोपादानम्। शमीसुमनसः शमीवृक्षस्य पुष्पाणि स्त्रीलिङ्गः सुमनश्शब्दः तत्र सौत्रो लिङ्गव्यत्ययः। मालिनः मालीकृताः शमीसुमनसः। उपकल्पयेरन्निति सर्वत्र संबध्यते। परिधींश्च शमीमयान्। अत्र नवनीतमप्युपकल्पनीयम् उपरिष्टादुपयोगदर्शनात्। येषां चोपयोगो न वक्ष्यते तेषामपि यथायथमु-


१. 'णाः प्रत्याव्रज्य प्रत्यागत्योपस्पृश्य स्नात्वा केशश्मश्रुलोमनखानि वापयित्वा स्नात्वा व',
२. 'नवान् मणिकान् अनुपयुक्तान् ये' ङ. पाठः.
३. 'णि मालिनः मालीकृ.... व्यत्ययः उ' ख. ग., 'णि मालिनः मालीकृताः शमीमयमिध्मम् अरणी च शमीमय्यौ व्यत्ययः उ' ङ. पाठः.
४. 'गो व' क. पाठः.

१९२ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

प्रयोगः कल्प्येः । तद्यथा शमीसुमनसां धारणेम् । यावत्यश्च ज्ञातिभूता युवतयस्तावन्ति कुशपिञ्जूलान्युपकल्पयेरन् ॥ ५ ॥

अग्निवेलायामग्निं जनयेदिहैवायमितरो जातवेदा इत्यर्धर्चेन ॥ ६ ॥

सायं प्रणयनकालोऽग्निवेला । तस्यां शमीमयीभ्यामरणीभ्यामग्निं जनयेद् इहैवेत्यर्धर्चेन ॥ ६ ॥

तं दीपयमाना आसत आ शान्तरात्रादायुष्मतां कथाः कीर्तयन्तो मङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः ॥ ७ ॥

तमग्निं गृहाद् बहिः क्वचित् संस्कृते देशे काष्ठैरिन्धानाः दीर्घायुषां कथाः कीर्तयन्तो मङ्गलनिमित्तानि चेतिहासपुराणानि परस्परमाख्यापयमाना आ शान्तरात्रादासते शाम्यन्ति शब्दा यत्र तच्छान्तम् अकर्मकत्वादधिकरणे क्तः रात्रेः शान्तो भागः शान्तरात्रः मध्यरा (त्रं?त्रः) आ तस्मादासते ॥ ७ ॥

उपरतेषु शब्देषु गृहं निवेशनं वा संप्रविष्टेष्वेतस्मिन् काले दक्षिणाद् द्वारपक्षात् प्रक्रम्याविच्छिन्नामुदकधारां हरेत् तन्तुं तन्वन्नजसो भानुमन्विहीत्योत्तरस्मात् ॥ ८ ॥

अथ सर्वतः शब्देषु उपरतेषु गृहं निवेशनं वा संप्रविष्टेषु, केषु, शब्देष्वेव । निवेशनं शयनस्थानम् । तिस्र एतौ


१. 'र्तव्यः । त' घ. पाठः. २. 'णं ज्ञातिभूताः ॥' ख. ग., 'णं युवतयो ज्ञातिभूताः ॥' ङ. पाठः. ३. 'का' ग. ङ. पाठः.