आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
सप्तदशः खण्डः] अनाविलोपेतुम् । ७३
अनुकल्पानाह—
आ षोडशाद् ब्राह्मणस्यानतीतः कालः, आ द्वाविंशात् क्षत्रियस्य आ चतुर्विंशाद् वैश्यस्य ॥ ५ ॥
अभिविधावाङ् । यद्यप्यनतीतः काल इत्युक्तं तथापि मुख्यात् कालादूर्ध्वं कियदपि प्रायश्चित्तं भवति । आहापस्तम्बः — 'अतिक्रान्ते सावित्र्याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनं ततः संवत्सरमुदकोपस्पर्शनमथाध्याप्य' इति ॥ ५ ॥-
अत ऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ६ ॥
अतः षोडशादिभ्यो वर्षेभ्य ऊर्ध्वम् एषामकृतप्रायश्चित्तानां सावित्र्यामधिकारो नास्ति ॥ ६ ॥
अतश्च —
नैनानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्व्यावहेयुः ॥ ७ ॥
(विवाहः १ व्यावाहः) कन्याया दानप्रतिग्रहौ। रागाल्लोभाद् भयादज्ञानाद् वा केनचिदुपनीतस्यापि नाध्यापनादीनि कर्तव्यानीत्येवमर्थस्तेषां प्रतिषेधः। एतच्च सर्वं प्रायश्चित्ते सति कर्तव्यमेव। आहापस्तम्बः—'अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुताः। तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्। तेषामिच्छतां प्रायश्चित्तम्। यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरः। अथोपनयनं तत उदकोपस्पर्शनम्। प्रतिपुरुषं संख्याय संवत्सरान् यावन्तोऽनुपेताः स्युः। सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इत्येताभिर्यजुष्पवित्रेण सामप-
१. 'युः ॥ क' क. ख. ग. पाठः
७४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
वित्रेणाङ्गिरसेनेति। अपिवा व्याहतीभिरेव। अथाध्याप्यः। अथ यस्य प्रपितामहादि नानुस्मर्येत उपनयनं ते श्मशानसंस्तुताः। तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् तेषामिच्छतां प्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिः। अथ गृहमेधोपदेशनम्। नाध्यापनम्। ततो यो निर्वर्त्तते तस्य संस्कारः यथा प्रथमेऽतिक्रमे। तत ऊर्ध्वं प्रकृतिवदिति। यस्य पिता पितामहश्चानुपेतौ इतिशब्दात् स्वयं च षोडशादिभ्य ऊर्ध्वं ते तथाविधा माणवका ब्रह्महण इत्येव कीर्तिता वेदवादिभिः। तेषामभ्यागमनादि वर्जयेत्। अभ्यागमनं यज्ञार्थमुपसर्पणं गृहागते प्रत्युत्थानादि। तेषामिच्छतामिति वचनात् न बलात्कारेण कारयितव्याः। यथा प्रथमेऽतिक्रमे सप्तदशात् प्रागष्टमादूर्ध्वमुपनयनातिक्रमे ऋतुस्त्रैविद्यकस्य ब्रह्मचर्यस्य कालः। एवमत्र संवत्सरः। अथोपनयनं तत उदकोपस्पर्शनम्। कियन्तं कालं कैर्वा मन्त्रैः। प्रतिपुरुषं यदि स्वयमेवानुपेतस्तदैकं संवत्सरम् अथ पिता द्वौ संवत्सरौ अथ पितामहोऽपि त्रीन् संवत्सरानिति। अथ मन्त्राः 'यदन्ति यच्च दूरके' इति सप्त पवमानदेवत्याः। यजुष्पवित्रम् 'आपो अस्मान् मातरः शुन्धयन्त्व'ति। सामपवित्रं वामदेव्ये तृचे गीतं 'कयानश्चित्र आभुवदि'ति। आङ्गिरसं 'हंसः शुचिषदिति। अपिवा व्याहृतयः। एवं संवत्सरे गते अथाध्याप्यः। अथ यस्य, पूर्वेण गतम्। द्वादशवर्षाणि तु¹ ब्रह्मचर्यम्। त्रिषु वेदेषु समानं त्रैविद्यकं
१. 'तु वेदम्' ख. ग. पाठः.
सप्तदशः खण्डः ] अनाविलोपेतम् । ७५
ब्रह्मचर्यम् । गुरुशुश्रूषा भैक्षचरणम् इत्येतत् पावमानादि- भिरिति उदकोपस्पर्शनमिति गम्यमानत्वान्नोक्तम् । काल- स्यानुक्तत्वात् संवत्सरमेव । गृहमेधो गृह्यशास्त्रं तस्योपदेशो गृह्यकर्मभिरधिक्रियत इत्यर्थः । नाध्यापनं वेदस्य । तत एवं कृतेप्रायश्चित्ताद् यो निर्वर्तते उत्पद्यते तस्योपनयनं सं- स्कारः कर्तव्यः । यथा प्रथमेऽतिक्रमे अष्टमादूर्ध्वमृतुं त्रैविद्यकं ब्रह्मचर्यं चरेदित्यादि ततस्तु यो निर्वर्त्तते तत आरभ्य प्रकृ- तिवद्यथाप्राप्तमुपनयनं न किञ्चित् प्रायश्चित्तमिति ॥ ७ ॥
अलङ्कृतं कुमारं कुशलीकृतशिरसमहतेन वा- ससा संवीतमैणेयेन वाजिनेन ब्राह्मणं रौरवेण क्षत्रिय- माजेन वैश्यम् ॥ ८ ॥
द्वितीयानिर्देशादुपनयेदिति व्यवहितमपि सम्बध्यते । कुमाराधिकारे पुनः कुमारग्रहण‘मथोपेतपूर्वस्ये’त्युपनीतस्य पुनरुपनयनेऽलङ्कारो मा भूदिति । व्याख्यातं कुशलीकरणम् । अहतम् अनुपयुक्तमभिनवं तेन वाससा संवीतं प्रावृतम् । अजिनं चर्म तेन वा वाससा वा संवीतम् । वासोऽजिनयो- र्विकल्पः । एतावत् साधारणम् । अजिने विशेषानाह — ऐणेयेन ब्राह्मणमित्यादि । एणी बिन्दुरहिता मृगी तस्या वि- कार ऐणेयम् । ‘एण्या ढञ्’ । रुरुः बिन्दुमान् मृगः । एवं संवीतं कुमारमुपनयेत् । उपनयनं नाम पितृकुलाद् विधिवदा- चार्यकुलप्रापणम् । अस्मिन्नवसरे यज्ञोपवीतधारणम् । यथाह बोधायनः — स्नातं बद्धशिखं यज्ञोपवीतं प्रतिमुञ्चन् वाच- यति ‘यज्ञोपवीतं परमं पवित्रमि’ति ॥ ८ ॥
१. ‘त्वा’ क. पाठः.
७६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
यदि वासांसि वसीरन् रक्तानि वसीरन् काषायं ब्राह्मणो माञ्जिष्ठं क्षत्रियो हारिद्रं वैश्यः ॥ ९ ॥
व्यवहितकल्पनया योगद्वयमिदं व्याख्येयम् । वासांसि वसीरन्निति नित्यो विधिः। यदि रक्तानि वसीरन् काषायं ब्राह्मण इत्यादिरनित्यो विधिः । शुक्लस्य वर्णान्तरोपादानं रागः कषायमञ्जिष्ठाहारिद्रा रञ्जनद्रव्याणि ॥ ९ ॥
तेषां मेखला मौञ्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्य आवी वैश्यस्य ॥ १० ॥
मुञ्जा तृणविशेषः । धनुर्ज्या धनुषोऽपनीय ग्राह्या मौर्वी । अविरूर्णांयुः तद्रोमभिः कृता आवी ॥ १० ॥
तेषां दण्डाः पालाशो ब्राह्मणस्य औदुम्बरः क्षत्रियस्य बैल्वो वैश्यस्य केशसंमितो ब्राह्मणस्य ललाटसंमितः क्षत्रियस्य घ्राणसंमितो वैश्यस्य ॥ ११ ॥
ते च क्रमेण मूर्धललाटनासाग्रप्रमाणाः यूपवक्राः सत्वचोऽनभिदूषिता नृणामनुद्वेजकाः ॥ ११ ॥
सर्वे वा सर्वेषाम् ॥ १२ ॥
उक्ताश्चानुक्ताश्च । तथाच गौतमः — 'यज्ञियो वा सर्वेषामि'ति । आपस्तम्बस्तु — 'वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ती'ति ॥ १२ ॥
१. 'स्य तेषां मतेन दण्डा भवन्ति । दण्डनियमो मेखलाभिर्व्याख्यातः । ते च शाखान्तरोक्तलक्षणा भवन्ति । के' ख. पाठः.
सप्तदशः खण्डः] अनाविलोपेतुम् । ७७
समन्वारब्धे हुत्वोत्तरतोऽग्नेः प्राङ्मुख आचार्योऽवतिष्ठते ॥ १३ ॥
अथ कुमारे समन्वारब्धे समन्वारब्धवति जुहोत्याचार्यः । शेषं स्पष्टम् ॥ १३ ॥
पुरस्तात् प्रत्यङ्मुख इतरः ॥ १४ ॥
अवतिष्ठत इत्येव । इतरः कुमारः ॥ १४ ॥
अपामञ्जली पूरयित्वा तत्सवितुर्वृणीमह इति पूर्णेनास्य पूर्णमवक्षारयत्यासिच्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात् ॥ १५ ॥
अथाचार्य आत्मनः कुमारस्य चाञ्जली अपां पूरयति अद्भिः पूरयति तत्रार्थादाचार्यस्यान्यः पूरयति आचार्यस्यै प्रयोजककर्तृत्वम् । पूर्णेन चात्मनोऽञ्जलिना पूर्णं कुमारस्याञ्जलिमवक्षारयति तत्सवितुर्वृणीमह इति मन्त्रेण । अवक्षारणे सत्यर्थसिद्धमासेचनम् । तथाप्यासिच्येत्युच्यते । कथम् । आसेचनं कुर्यात्, न कारयेदित्येवमर्थम् । आसिञ्च्य तस्य कुमारस्य पाणिं साङ्गुष्ठं गृह्णीयात् पाणिना देवस्य त्वेति मन्त्रेण । असावित्यत्र सम्बुद्ध्या कुमारस्य नामनिर्देशः कर्तव्यः ॥ १५ ॥
सविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निराचार्यस्तवासाविति तृतीयम् ॥ १६ ॥
१. 'स्य तु प्र' क. पाठः.
७८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
सविता ते हस्तमग्रभीदित्यनेन मन्त्रेण द्वितीयं ग्रह- णं कुर्यात् । एतेनोत्तरं व्याख्यातम् ॥ १६ ॥
आदित्यमीक्षयेद् देव सवितरेष ते ब्रह्मचारी तं गोपाय स मामृतेत्याचार्यः ॥ १७ ॥
अथ कुमारमीक्षयेदाचार्यो देव सवितरिति मन्त्रं ब्रू- यात् । आचार्यग्रहणमनर्थकं यथा पूर्वेषु कर्मस्वाचार्यः कर्ता एवमत्रापि भविष्यति । तत् क्रियते मन्त्रोऽप्याचार्यस्य कथं स्यादिति । इदमपि पूर्ववदेव सिद्धम् । एवं तर्ह्येतद् ज्ञाप- यत्याचार्यः अन्यत्रैवंविधे विषये ईक्षितुरेव मन्त्र इति । यथा ‘मुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापयेत् त्वं व्रतानां व्र- तपतिरसी’ति ॥ १७ ॥
कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वा कमुपनयते काय त्वा परिददामीति ॥ १८ ॥
परिदद्यादिति शेषः, मन्त्रलिङ्गात् । वक्ष्यति च ‘एतेन वापनादि परिदानान्तं व्रतादेशनं व्याख्यातमिति ‘परिदानं कालश्चे’ति च ॥ १८ ॥
युवा सुवासाः परिवीत आगादित्यर्धर्चेनैनं प्रद- क्षिणमावर्तयेत् ॥ १९ ॥
प्रकृतेऽपि कुमारे पुनरेनामिति वचनादावर्तयितुर्मन्त्रः, नावर्त्यमानस्य ॥ १९ ॥
तस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्त- रेण ॥ २० ॥
१. 'रमादित्यमी' घ. पाठः.
अष्टादशः खण्डः] अनाविलेापेतम् । ७९
तस्य कुमारस्याध्यंसौ अंसयोरुपरि पाणी हृत्वा गमयित्वा तस्य हृदयदेशमालभेत उत्तरेणार्धर्चेन ‘तं धीरा’ सइत्यनेन । अर्थादुभौ प्राङ्मुखौ भवतः पुरस्तादाचार्यः ॥ २० ॥
अग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् ॥
यद्यप्यसावग्निः पूर्वमेव परिसमूहनेन संस्कृतः, तथापि वचनात् पुनरपि परिसमूहितव्यः । अपर आह — वक्ष्यति ‘सायं प्रातः समिधमादध्यादि’ति तदर्थोऽयं परिसमूहनविधिरिति । ब्रह्मचारिग्रहणमाचार्यनिवृत्त्यर्थम् । मन्त्रानुपदेशादेव सिद्धे तूष्णींग्रहणं तूष्णींहोमधर्मप्राप्त्यर्थं प्रजापतिं मनसा ध्यायन्निति ॥ २१ ॥
तमिमं तूष्णींपक्षं स्तौति —
तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते ॥ २२ ॥
कस्त्वा कमुपनयते काय त्वा परिददामीति प्रजापतये ब्रह्मचारी परिदत्तस्तस्मादसौ प्राजापत्यः ॥ २२ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये सप्तदशः खण्डः ।
अथाष्टादशः खण्डः ।
मन्त्रेण हैके ॥ १ ॥
एके आचार्या मन्त्रेण समिदाधानमिच्छन्ति । हकारोऽभिमतत्वप्रदर्शनार्थः । अन्यथा ब्राह्मणोक्तत्वात् पूर्वपक्षो बलीयान् स्यात् । हशब्दात् तुल्यबलत्वं भवति । तुल्यबल-
८० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः त्वाद् विकल्पः । अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहेति मन्त्रः ॥ १ ॥ स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति ॥ २ ॥ स इत्युच्यते नियमार्थम् अन्यत्र समिदाधाने संमा- र्जनं मा भूदिति समिधौ वा जपेद्वेति (?)। समिद्ग्रहणमनर्थकं प्रकृतत्वात् । तत् क्रियते उभयोरपि पक्षयोर्यथा स्यादिति म- न्त्रपक्षे चामन्त्रपक्षे च । आधायाग्रहणं सायं प्रातः समिध- मादध्यादित्यत्राप्युत्तरो१ विधैर्यथा स्यादिति । प्रतिनिमार्जन- मग्नेरुपस्पर्शनं मन्त्रश्च भवति ॥ २ ॥ तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ॥ ३ ॥ ब्राह्मणानुकर्षणं प्ररोचनार्थम् ॥ ३ ॥ मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासम् इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयाद् अधीहि भोः सा- वित्रीं भो अनुब्रूहीति ॥ ४ ॥ ततो मयि मेधामित्यादिभिरग्निमुपतिष्ठेत । एतच्च सायं- प्रातः समिधमादध्यादित्यत्र नित्येऽपि समिदाधाने भवति । १. 'रतो वि' ख. पाठः.
अष्टादशः खण्डः] अनाविलोपेेतम् । ८१
आचारप्राप्तं भसितधारणम् । उपस्थाय जान्वाच्य दक्षिणजा- नुं भूमौ कृत्वाचार्यमुपसंगृह्णीयात् । उपसंग्रहणमभिवादनम् । तच्च दक्षिणोत्तराभ्यां पाणिभ्यामाचार्यस्य पादौ स्पृष्ट्वा कर्त- व्यम् । दक्षिणेन दक्षिणं सव्येन सव्यम् । एवमुपसंगृह्य अधी- हि भोः सावित्रीम् इत्यादिमन्त्रं ब्रूयादाचार्यं प्रति ॥ ४ ॥
तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावि- त्रीमन्वाह पच्छोऽर्धर्चशः सर्वाम् ॥ ५ ॥
तस्येत्युच्यते ब्रह्मचारिणो यद्वासः तेन यथा स्यादि- ति । तस्य वाससात्मनश्च पाणिभ्यां ब्रह्मचारिणः पाणी संगृ- ह्य सावित्रीमन्वाह प्रथमं पच्छः ततोऽर्धर्चशः ततः सर्वामिति । तत्सवितुर्वरेण्यमित्येषा सावित्री प्रसिद्धेः, न याकाचन सवि- तृदेवत्या ॥ ५ ॥
यथाशक्ति वाचयित्वा हृदयदेशेऽस्योर्ध्वाङ्गुलिं पाणिमुपदधाति । मम व्रते हृदयं ते दधामि मम चित्तम- नु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति ॥ ६ ॥
सर्वेषु वचनेषु यथा शक्नोति ब्रह्मचारी वक्तुं तथा वाचयितव्यम् । वाचयित्वा कुमारस्य हृदयदेशे आत्मनः पाणिमूर्ध्वाङ्गुलिमुपदधाति 'मम व्रत' इत्यनेन मन्त्रेण ॥ ६ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्यायेऽष्टादशः खण्डः ।
M
द्वादशवर्षाणि वेदब्रह्मचर्यम् ॥ २ ॥
८२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
अथैकोनविंशः खण्डः।
मेखलामावध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत् । ब्रह्मचार्यस्यपोऽशान कर्म कुरु दिवा मा स्वाप्सीराचार्याधीनो वेदमधीष्वेति ॥ १ ॥
या यस्य मेखला तां तस्याबध्य यो यस्य दण्डः तं तस्मै प्रदाय ब्रह्मचार्यसीत्यादिना ब्रह्मचर्यमादिशेत् । दृष्टार्थत्वादादेशस्य मन्त्रार्थमपि ब्रूयात्। त्वमिदानीं ब्रह्मचार्यसि अ-पोऽशान मयानुज्ञातोऽप एवाशान । कर्म कुरु समिदाधान-भिक्षाचरणादि । दिवा मा स्वाप्सीः स्पष्टम् । आचार्याधीनः तच्छासने तिष्ठन् वेदमधीष्व इति मन्त्रार्थः ॥ १ ॥
द्वादशवर्षाणि वेदब्रह्मचर्यम् ॥ २ ॥
वेदस्य ब्रह्मचर्यमित्येकवचनान्तस्य समासः । एक-स्य वेदस्य द्वादशवर्षाणि ब्रह्मचर्यं, द्वयोश्चतुर्विंशतिः, त्रया-णां षट्त्रिंशत्, चतुर्णामष्टाचत्वारिंशत् । तथाचापस्तम्बः— ‘उपेतस्याचार्यकुले ब्रह्मचारिवासः। अष्टाचत्वारिंशद्वर्षाणि। पा-दोनम् । अर्धेन । त्रिभिर्वा । द्वादशावराध्यम्’ इति ॥ २ ॥
ग्रहणान्तं वा ॥ ३ ॥
अथवा यावता कालेन यो वेदो गृहीतो भवति, तावन्तं कालं तस्य ब्रह्मचर्यम् । पूर्वोक्तात् कालात् प्रागूर्ध्वं वा। एवं ब्रुवता त्रिविधं स्नानं प्रदर्शितं भवति । यथाह या-ज्ञवल्क्यः —
“वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ॥”
इति ॥ ३ ॥
एकोनविंशः खण्डः] अनाविलोपे तम् । ८३
सायंप्रातर्भिक्षेत ॥ ४ ॥
यावदात्मने चाचार्याय च पर्याप्तं तावद् भिक्षेत ।
आत्मन एव वा ॥ ४ ॥
सायंप्रातः समिधमादध्यात् ॥ ५ ॥
पुनः सायंप्रातर्ग्रहणं तावन्मात्रप्रयुक्तं समिदाधानं यथा स्यात् । तेन भोजने सति भिक्षाचरणं भवति । असति नास्ति । समिदाधानं तु नित्यम् ॥ ५ ॥
अप्रत्याख्यायिनमग्रे भिक्षेत ॥ ६ ॥
* आदौ ह्रस्वश्छान्दसः । अपपाठो वा । यो न प्रत्याचष्टे तं प्रथमं भिक्षेत । ततो यथासम्भवम् ॥ ६ ॥
अप्रत्याख्यायिनीं वा ॥ ७ ॥
एवंभूतां स्त्रियं वा प्रथमं भिक्षेत ॥ ७ ॥
भिक्षां भवान् ददात्विति ॥ ८ ॥
अनेन मन्त्रेण सर्वेषां वर्णानां पुरुषं प्रति याचनम् । यदा तु स्त्री याच्यते तदा भिक्षां भवती ददात्विति ॥ ८ ॥
अनुप्रवचनीयमिति वा ॥ ९ ॥
अनुप्रवचनीयं भवान् ददात्विति वा भिक्षां याचते । अस्मादेवं ज्ञायते — अनुप्रवचनीयार्थं भिक्षान्तरमिदं, न सायंप्रातर्भिक्षाचरणे गुणविधिरिति । तत्र मनुराह —
“भवत्पूर्वं चरेद् भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥
इति ॥ ९ ॥
* 'अप्रत्यख्यायिनम्' इति पाठं मन्यते ।
८४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
तदाचार्याय वेदयित्वा तिष्ठेदहःशेषम् ॥ १० ॥
तल्लब्धमाचार्याय निवेद्य तस्मिन्नहनि यच्छिष्टं तावन्तं कालं तिष्ठेत आसनादि न कुर्यात् ॥ १० ॥
अस्तमिते ब्रह्मोदनमनुप्रवचनीयं श्रपयित्वाचार्याय वेदयीत ॥ ११ ॥
अस्तमित इत्युच्यते । कस्मिन्नस्तमिते, आदित्ये । कुत एतत् तिष्ठेदहःशेषमित्युक्तत्वात्, प्रसिद्धेश्च । ब्रह्मोदनं वक्ष्यति 'ब्राह्मणान् भोजयित्वे¹'ति । तेनासौ ब्रह्मोदनः अनुप्रवचनीयः । 'सावित्रीं भो अनुब्रूहि' 'सावित्रीमन्वाहे'ति च सावित्र्यनुप्रवचनं विहितम् । तन्निमित्तोऽयं स्थालीपाकः । तत्र 'तदस्य' 'प्रयोजनम्'त्यधिकारे 'अनुप्रवचनादिभ्यश्छः' निमित्तमपि प्रयोजनमुच्यते यथा रक्षोहागमलध्वसन्देहाः प्रयोजनमित्यत्रागमः प्रयोजनं व्याकरणस्येति । तं श्रपयति ब्रह्मचारी स्थालीपाकं श्रपयित्वाचार्याय वेदयति ॥ ११ ॥
आचार्यः समन्वारब्धे जुहुयात् सदसस्पतिमद्भुतमिति ॥ १२ ॥
अथाचार्यः समन्वारब्धे कुमारे जुहोति सदसस्पतिमिति मन्त्रेण ॥ १२ ॥
सावित्र्या द्वितीयम् ॥ १३ ॥
सावित्र्या प्रकृतया द्वितीयं होमं जुहोति । उपदेशादेव सिद्धे द्वितीयवचनमधिकारार्थम् ॥ १३ ॥
१. 'येदिति' ख. पाठः.
एकोनविंशः खण्डः] अनाविलोपेत्तम् । ८५
यच्चात ऊर्ध्वमनूक्तं स्यात् ॥ १४ ॥
द्वितीयमिति वर्तते । अतः सावित्र्यनुप्रवचनादूर्ध्वं यद्यदनूक्तम् अनुब्रूहीति चोदितं वा । यथाह — 'महानाम्नीर्भो अनुब्रूहीति संमील्यनुब्रूयादि'ति । तच्च तत्र द्वितीयं भवति । तत्र होमे विप्रतिपत्तिः यथा सावित्र्या होमस्तथात्रापि महानाम्नीभिर्होम इति केचित् । अपरे महानाम्नीभ्यः स्वाहेति होममिच्छन्ति । एवं महाव्रतानुप्रवचने व्रतमनुयुज्यानुक्रोशिनॆ प्रब्रूया'दुत्तरमहरि'ति 'महाव्रताय स्वाहे'ति होमः उपनिषद़नुप्रवचने 'उपनिषदे स्वाहे'ति। अनयोस्तु पक्षान्तरस्यासम्भव एव ॥ १४ ॥
ऋषिभ्यस्तृतीयम् ॥ १५ ॥
वचनादेकोऽयं होम ऋषिभ्यः स्वाहेति । न तु वसिष्ठादिभ्यो होमः ॥ १५ ॥
सौविष्टकृतं चतुर्थम् ॥ १६ ॥
वचनादाज्यभागौ न भवतः । तयोर्हि सतोः षष्ठः स्यात् ॥ १६ ॥
ब्राह्मणान् भोजयित्वा वेदसमाप्तिं वाचयीत ॥ १७ ॥
ब्रह्मौदनमिति पूर्वमुक्तत्वात् तद्द्धुतशिष्टाद् ब्राह्मणभोजनम् । तैर्भुक्तवद्भिर्वेदसमाप्तिरस्त्विति वाचयीत वाचयेत् ॥ १७ ॥
अत ऊर्ध्वमक्षारलवणाशी ब्रह्मचार्यधःशायी त्रिरात्रं द्वादशरात्रं संवत्सरं वा ॥ १८ ॥
१. 'ब्रूवे'ति' क. ख. ङ. पाठः.
८६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्याय :
अतोऽनुप्रवचनीयादूर्ध्वमस्यैते भवन्ति । अक्षाराशि- त्वमलवणभोजित्त्वमधःशायित्वं च । क्षारमम्लं लकुचादि । त्रिरात्रादयो नियमस्य कालाः। उपदेशक्रमादेव सिद्धे अत ऊ- र्ध्वमिति वचनं पूर्वेण सह सम्बन्धकरणार्थं, प्राग् भोजने नियमो मा भूदिति । तेन भुक्तवत उपनयनं सिद्धं भवति । यथाहापस्तम्बः — 'आशिषो वाचयित्वा कुमारं भोजयि- त्वे'ति। ब्रह्मचारिग्रहणमाचार्यस्य मा भूदिति ॥ १८ ॥
चरितव्रताय मेधाजननं करोति ॥ १९ ॥
चरितव्रताय योऽयं नियम उक्तः तस्यान्त इत्यर्थः । मेधाजननमिति वक्ष्यमाणस्य कर्मणो नामधेयम् । चरित- व्रतायेत्येतदपि सम्बन्धार्थमेव । तेन यत्र मेधाजननं तत्र व्रतचर्या तत्रानुप्रवचनीयमित्येवमादि सिद्धम् । तेन 'कृता- कृतं केशवपनं मेधाजननं चे'त्यत्र व्रतचर्यानुप्रवचनीये इ- त्यपि न भवतः ॥ १९ ॥
अनिन्दितस्यां दिश्येकमूलं पलाशं कुशस्तम्बं वा पलाशापचारे प्रदक्षिणमुदकुम्भेन त्रिः परिषिञ्चन्तं वाचयति सुश्रवः सुश्रवा असि यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सुश्रवसं कुरु यथा त्वं देवाना यज्ञस्य निधिपोऽस्येवमहं मनुष्याणां वेदस्य निधिपो भूयास- मिति ॥ २० ॥
अनिन्दितस्यामितिच्छान्दसं रूपम् । यथा 'यदि- न्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यामि'ति । तिस्रो दिशो
एकोनविंशः खण्डः] अनाविलोपेसम् । ८७
निन्दिताः दक्षिणा प्राग्दक्षिणा प्रत्यग्दक्षिणेति। एकमूलमशा- खाजम्। शाखाजस्य हि द्वे मूले भवतः, पूर्वं यस्य शाखां छित्वा निर्मिता निर्मितायाश्च शाखाया इदानीमपरेति। मूल- प्रदेशे शाखारहितमित्येके। पलाशोपचार इति सर्वथानेकमू- लस्यापि पलाशस्याभाव एव कुशस्तम्बपरिग्रहार्थम्। तं ब्र- ह्मचारी त्रिः परिषिश्चति। आचार्यस्त्रिर्वाचयति सुश्रवः सुश्र- वा असीत्येवं मन्त्रम्। यद्यपि सुश्रवा इति पलाशस्याभिधा- नं देवानां ब्रह्मवादं वदतां, ‘यदुपाइशृणोः सुश्रवा वै श्रुतोऽसी’- ति दर्शनात्, तथापि कुशस्तम्बेऽपि मन्त्रो भवत्येव वचनाद् ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठत’ इतिवत्। समाप्तमुपनयनम् ॥२०॥
एतेन वापनादिपरिदानान्तं व्रतादेशनं व्याख्या- तम् ॥ २१ ॥
एतेनोपनयनेन व्रतादेशनं व्याख्यातम्। वापनादि- ग्रहणमलङ्कारनिवृत्त्यर्थम्। ‘काय त्वा परिददामी’त्येतत् परिदानम्। परिदानान्तमित्युत्तरकर्मनिवृत्त्यर्थम् ॥ २१ ॥
इत्यनुपेतपूर्वस्य ॥ २२ ॥
एवमनुपेतपूर्वस्योपनयनमुक्तम् ॥ २२ ॥
अथोपेतपूर्वस्य ॥ २३ ॥
अथ अनन्तरे वेदान्तरे उपेतपूर्वो य इमं वेदमध्येतु- मिच्छति तस्योपनयने विशेषो वक्ष्यते। एवं ब्रुवन्नेतद् ज्ञाप- यति तेन तेन प्रकारेण प्रतिवेदमुपनयनं कर्तव्यमिति। अन्ये तु सकृदुपनयनं सर्ववेदार्थं मन्यन्ते। यथाहापस्तम्बः — ‘स- र्वेभ्यो वेदेभ्यः सावित्र्यनूच्यत इति ब्राह्मणमि’ति ॥ २३ ॥
८८ आश्वलायनगृह्यसूत्रम्
कृताकृतं केशवपनं मेधाजननं च ॥ २४ ॥
कृताकृतं क्रियतांवा मा कारीत्यर्थः ॥ २४ ॥
अनिरुक्तं परिदानम् ॥ २५ ॥
निरुक्तमभिहितम् । परिदीयते यस्मिन् कर्मणि तत् परिदानं, यदभिहितं परिदानं तदत्र न भवतीत्यर्थः । न परिदानमित्येव सिद्धे अनिरुक्तमिति वचनमुत्तरार्थम् ॥ २५ ॥
कालश्च ॥ २६ ॥
यो निरुक्तः कालः सोऽत्र न भवति। अत्र यस्यकस्यचित् कालस्यावर्जनीयत्वादुक्तकालस्य प्रतिषेधो विधेयः । तदर्थं पूर्वत्रानिरुक्तवचनम् । आभिहितः कालोऽष्टमवर्षादिरत्र न भवतीति । अनारभ्यमाणे एतस्मिन् यावतो वेदानध्येतुं शक्नोति कुमारस्तावन्त्युपनयनानि तस्मिन्नेव काले स्युरिति सूत्रारम्भः ॥ २६ ॥
तत्सवितुर्वृणीमह इति सावित्रीम् ॥ २७ ॥
सावित्रीं भो अनुब्रूहीत्युक्ते इमामनुब्रूयात् सदो वेमां जपेत् ॥ २७ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये एकोनविंशः खण्डः।
१. 'चेमां' घ. पाठः. २. 'दान् ज' ख. पाठः.
विंशः खण्डः] अनाविलोपेताम् । ८९
अथ विंशः खण्डः ।
ऋत्विजो वृणीतेऽन्यूनानतिरिक्तान् ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात् ॥ १ ॥
वृणीते सम्भजते (कामा ? कर्मा)र्थं परिगृह्णाति । अन्यूना अनतिरिक्ताश्च प्रमाणपरिमाणाभ्याम् । प्रमाणतो नातिदीर्घा-न्नातिह्रस्वान् परिमाणतो न त्र्यङ्गुलीन् न षडङ्गुलीन् । एवमाकारतो गुणा उक्ताः । चरित्रत आह—ये मातृत इति ॥१॥
युवान ऋत्विजो वृणीत इत्येके ॥ २ ॥
द्वितीयार्थे प्रथमा । युवान ऋत्विजो भवन्ति तान् वृणीत इति वा । एक इति वचनादन्ये कर्मसमर्थानां वरणमिच्छन्ति । ऋत्विगधिकारे पुनर्ऋत्विग्ग्रहणमनृत्विजां चमसाध्वर्यूणां युवत्वं मा भूदिति ॥ २ ॥
ब्रह्माणमेव प्रथमं वृणीतेऽथ होतारमथाध्वर्युमथोद्गातारम् ॥ ३ ॥
प्रथमग्रहणमेवकारं च कुर्वन्नुपदेशक्रमस्याविवक्षां दर्शयति । तेन होत्रादीनामनियतक्रमो भवति अथशब्दे सत्यपि ॥ ३ ॥
सर्वान् वा येऽहीनैरैकाहैर्य्याजयन्ति ॥ ४ ॥
सर्वान् वा ऋत्विजो वृणीते चतुर एव वा । येऽहीनैरैकाहैर्य्याजयन्तीति वचनात् सोमयागेष्वेव मन्त्रवद्वरणं भवति ॥ ४ ॥
१. 'न्ये प्रकृतक' घ. पाठः.
९० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
सदस्यं सप्तदशं कौषीतकिनः समामनन्ति ॥ ५ ॥
कौषीतकिनः शाखाविशेषाध्यायिनः, ते सदस्यं सप्तदशमृत्विजं समामनन्ति । सप्तदशग्रहणं नियमार्थं, कथम्, एक एव सदस्यः स्याद् इति 'प्रयन्तु सदस्यानामि'ति प्रैषे बहुवचननिर्देशादनेकसदस्या उक्ताः ॥ ५ ॥
तस्य व्यापारमाह —
स कर्मणामुपद्रष्टा भवतीति तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति ॥ ६ ॥
सदस्योऽभिष्टूयते ततश्च सदस्यसद्भावः तस्योपद्रष्टृत्वं च प्रतिपादितं भवति ॥ ६ ॥
होतारमेव प्रथमं वृणीते ॥ ७ ॥
पूर्वं 'ब्रह्माणमेव प्रथममि'त्युक्तम् । इदानीं होतारं प्रथममित्युच्यते । तदनयोर्होतृब्रह्मणोः प्राप्तयोर्विकल्पः । अपर आह — यदा चतुर्णां वरणं तदा ब्रह्मण एव प्रथमं, यदा सर्वेषां तदा होतुरेवेति व्यवस्थितो विकल्प इति ॥ ७ ॥
वरणे मन्त्रानाह —
अग्निर्मे होता स मे होता होतारं त्वामुं वृण इति होतारम् ॥ ८ ॥
होत्रधिकारे पुनः होतृग्रहणं यदा द्वितीयं होतारं वृणीते तदाप्ययं मन्त्रो यथा स्यादिति । अन्यथा प्रथमं व्रियमाणे समाम्नानान्न स्यात् । अमुमिति सर्वनामस्थाने व्रियमाणस्य नामनिर्देशो द्वितीयाया होतारं त्वा यज्ञशर्माणमिति ॥ ८ ॥
विंशः खण्डः] अनाविलोपेतम् । ९१
चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वामुं वृण इति ब्रह्माणम् ॥ ९ ॥
अयं ब्रह्मणो वरणमन्त्रः। उत्तरेषामपि प्रदर्शनार्थं कृत्स्नं पठितम् ॥ ९ ॥
आदित्यो मेऽध्वर्युरित्यध्वर्युम् । पर्जन्यो म उद्गातेत्युद्गातारम् । आपो मे होत्राशंसिन्य इति होत्रकान् । रश्मयो मे चमसाध्वर्यव इति चमसाध्वर्यून् । आकाशो मे सदस्य इति सदस्यम् ॥ १० ॥
आदित्यो मेऽध्वर्युः स मेऽध्वर्युरध्वर्युं त्वामुं वृणे । पर्जन्यो म उद्गाता स म उद्गातोद्गातारं त्वामुं वृणे । आपो मे होत्राशंसिन्यस्ता मे होत्राशंसिन्यो होत्राशंसिनीर्वोऽमूर्वृणे । रश्मयो मे चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यून् वोऽमून् वृणे । आकाशो मे सदस्यः स मे सदस्यः सदस्यं त्वामुं वृणे इतीतरेषां वरणमन्त्राः ॥ १० ॥
स वृतो जपेन् महन्मेऽवोचो भर्गो मेऽवोचो भगो मेऽवोचो यशो मेऽवोचः स्तोमं मेऽवोचः कॢप्तिं मेऽवोचस्तृप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोच इति ॥
वृत इति वचनात् सर्वस्य वृतस्य जपो भवति, नानन्तरस्यैव सदस्यस्य । सग्रहणं जपस्य वरणस्य चानन्तर्यार्थम् । अन्यथा सर्वान्ते जपस्योपदेशात् सदस्यवरणानन्तरमेव सर्वे जपेयुः । सग्रहणात्तु वरणानन्तरमेव जपो भवति ॥ ११ ॥
जपित्वाभिष्टे होता स ते होताहं ते मानुष इति होता प्रतिजानीते ॥ १२ ॥
| ९२ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
प्रतिज्ञानमभ्युपगमः । जपे प्रकृते पुनर्जपित्वेति वचनं कथम् । अन्यमपि जपं जपित्वैव प्रतिजानीत इत्येवमर्थम् । कः पुनरसौ । 'तन्मावतु तन्मा विशतु तेन भुक्षिषीये'त्येषः । कस्मात् पुनः सोऽपि जप इहैव न पठ्यते । कारणमुत्तरत्र वक्ष्यामः ॥ १२ ॥
चन्द्रमास्ते ब्रह्मा स ते ब्रह्मा ॥ १३ ॥
अहं ते मानुष इत्यनुषज्यते । प्रतिजानीत इत्येव ॥
एवमितरे यथादेशम् ॥ १४ ॥
अध्वर्य्वादयो यथादेशं येन प्रकारेण वरण आदेशनं कृतं तदनुरूपं प्रतिजानते । तद्यथा — आदित्यस्तेऽध्वर्युः स तेऽध्वर्युंरहं ते मानुषः, पर्जन्यस्त उद्गाता स त उद्गाताहं ते मानुषः, आपस्ते होत्राशंसिन्यस्तास्ते होत्राशंसिन्यो वयं ते मानुषाः, अहं ते मानुषः इति वा प्रत्येकम्, रश्मयस्ते चमसाध्वर्यवस्ते ते चमसाध्वर्यवो वयं ते मानुषाः, आकाशस्ते सदस्यः स ते सदस्योऽहं ते मानुष इति ॥ १४ ॥
तन्मावतु तन्मा विशतु तेन भुक्षिषीयेति च याजयिष्यन् ॥ १५ ॥
यो याजयिष्यन् भवति स एवं जपित्वा प्रतिजानीते । प्रत्याचक्षाणस्तु नेत्येवमर्थं याजयिष्यन्निति वचनम् । प्रत्याख्यानविषयावतरणार्थं चैतत् । अपर आह — याजयिष्यत एवायं जपशेषः पूर्वस्त्वयाजयिष्यतोऽपीति । अस्ति