बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
१७२ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम्
पतितानामेव किञ्चिद्वदाह—
'अथ पतितास्समवसाय धर्मांश्चरेयुरितरेतरयाजका इतरेतराध्याप-
का मिथो विवहमानाः पुत्रान् सन्निष्पाद्य ब्रूयुर्विप्रव्रजताऽस्मत्त
एवमार्यान् सम्प्रतिपत्स्यथेति ॥ अथापि न सेन्द्रियः पतति । तदेतेन
वेदितव्यमङ्गहीनोऽपि ²हि साङ्गं जनयतीति ॥ १० ॥
अनु०—सभी पतित एक साथ एक स्थान पर निवास करें, आपस में ही धर्मों का पालन करें, एक दूसरे का यज्ञ करावें, एक दूसरे का अध्यापन करें, आपस में ही विवाह करें और पुत्र उत्पन्न होने पर उनसे कहें हमें छोड़ कर जाओ, इस प्रकार तुम पुनः आर्यों को प्राप्त करोगे ॥ १० ॥
टि०—मनुष्य अपने इन्द्रियों के साथ पतित नहीं होता, इसका दृष्टान्त यही है कि विकलांग मनुष्य का पुत्र भी सम्पूर्ण अंगों से युक्त उत्पन्न होता है।
टि०—तात्पर्य यह है कि आर्यों के सम्पर्क में आने पर पतितों के पुत्र पवित्र हो हो जाते हैं। मनुष्य के पतित होने पर भी उसके इन्द्रियों का पतन नहीं माना जाता और इस कारण पुत्र को भी पतित नहीं माना जाता।
समवसाय सम्भूय परस्परं पतिता धर्मांश्चरेयुः ! किंल्लक्षणान् । यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणान् अत्र परस्परं विवहमानेषु यदि पुत्रा निष्पन्ना भवेयुः तान्निष्पादितानुपनीयैव पितरो ब्रूयुः—विप्रव्रजत निर्गच्छत अस्मत्तः अस्मान् त्यक्त्वा निर्गच्छत निर्गता आर्यान् प्रतिपत्स्यथ यूयमार्यान् प्रतिपत्स्यथ, अपिशब्दस्सम्भावनावचनः । आर्यैः किल यूयं सम्प्रयोगं प्राप्स्यथेति आर्या एव युष्माकमुपनेतारो भविष्यन्तीति । पतितपुत्रा अपि तैस्संसर्गाभावे शुचयो भवन्ति । संसर्गे हि संसर्गपतनमिति ॥
ननु पतितपुत्रत्वादपि तद्वत्वतीत्याशङ्कयाऽऽह—अथाऽपि न सेन्द्रियः पतति यद्यपि च पिता पतति तथाऽपि सेन्द्रियः इन्द्रियैस्सह न पतति । कस्मात् ? न हि पतनीयकारणम् । न चेन्द्रियाणि करणानि पतितानि । कर्तृकरणयोश्च पृथक्त्वं प्रसिद्धम् , उपस्थेन्द्रियं च कर्मेन्द्रियम् ।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥ इति ॥
१. इदमपि सूत्रमापस्तम्बधर्मसूत्रे समानानुपूर्वीकं समानाक्षरमेव । परन्तु तत्र चतुर्धा विभक्तम् । see, आप. ध. १. २९. ८-११,
२. अङ्गहीनोऽपि क. घ. पु.
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७३
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७३
पुत्राश्चेन्द्रियनिष्पादिताः । तथा च मन्त्रः—'अङ्गादङ्गात्सम्भवसि' इति । अतः करणसमवायिनः ।
अथोच्येत सर्वैरेव पितृगुणैः पुत्रैर्भवितव्यम् । अपि पतितत्वेनेति । तदपि न । कस्मात्—तदेतेन वेदितव्यम् दृश्यते ह्ययमर्थोऽङ्गहीनोऽपि साङ्गं जनयति, साङ्गोऽप्यङ्गहीनम् । अतो नाऽवश्यं पतितपुत्रेणाऽपि पतितेन भवितव्यम् ॥ १० ॥
अमुं तावत्पक्षं दूषयति—
'मिथ्यैतदिति हारीतो दधिधानीसधर्माः स्त्रियस्तयो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तच्छिष्टा धर्मकृत्येषूपयोजयन्ति । एवमशुचि शुक्लं यन्निर्वर्तते न तेन सह सम्प्रयोगो विद्यते ॥ ११ ॥
हारीत का कथन है कि यह धारणा मिथ्या है । उनके अनुसार स्त्रियां यज्ञिय दधिधानी पात्र के समान होती हैं, जिस प्रकार दधिधानी में अशुद्ध दूध को मथने पर शिष्ट लोग उसका प्रयोग धर्म कार्यों में नहीं करते हैं इसी प्रकार जो व्यक्ति अपवित्र वीर्य से उत्पन्न होता है उसके साथ किसी प्रकार का संबन्ध नहीं होना चाहिए ॥ ११ ॥
टि०—इस मत के अनुसार देह भी कर्ता होने के कारण पतित होता है ।
अपतितायामपि जनन्यां पतितादुत्पन्नश्चेत् पतित एव भवतीत्येतदनेन कथ्यते । कस्य हेतोः ? यावता जनन्या अपि स उत्पन्नः । मिथ्यैतदिति हारीतः । हारीतग्रहणं पूजार्थम्, नाऽऽत्मीयं मतं पर्युदसितुम् । अत्र दधिधानीसाधर्म्यात् स्त्रीणां बीजप्राधान्यं दर्शयति । तथा द्रव्यानन्तरनिष्पत्त्यायतनत्वं दधिधान्या एव । आसामप्यशुचिशुक्लाधारत्वम् । यथा च दधिधान्यां प्रयतायामातञ्चितादप्रयताद्दध्नो मथननिष्पन्नं नवनीतं घृतं न धर्मकार्येष्विष्ट्यादिषु उपयुज्यते, एवमशुचिशुक्लनिष्पादितेन पुंसा न धर्मसम्बन्धो विधीयते । अथ यदुक्तं 'न सेन्द्रियः पतति इति तत् मिथ्यैव'। कथं ? द्वौ हि पुरुषौ भवतः-सोपाधिको निरूपाधिकश्च । यो निरूपाधिकः परमात्मा तस्याऽकर्तृत्वम् । सोपाधिकस्तु पुण्यापुण्ये करोति, तत्फलं चाऽनुभवति । उपाधिश्च बुद्ध्यादिर्देहपर्यन्तः । स हि क्षेत्रज्ञः । तस्मिंश्चाऽहम्प्रत्ययः । स च भूतात्मा स देहोऽहङ्कारं मनः ॥
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ इति ॥
१. इदमपि सूत्रमापस्तम्बीये धर्मे प्रायशस्समानानुपूर्विकमेव See. आप. ध. १ २९. १२--१४ ।
१७४ बौधायन-धर्मसूत्रम् [ प्रायश्चित्तम्
ततो देहोऽपि कर्तृत्वादेव पतति । एवं च कृत्वा मृतेष्वपि पतितेषु तत्सपि- ण्डानां तद्देहस्पर्शनादिः शिष्टैर्नाऽभ्युपगम्यते । तस्मादशुचिशुक्लोत्पन्नानामशु- चित्वमेव । तथा च स्मृतिः--'पतितोत्पन्नः पतितो भवतीत्याहुः' इति । यदप्यु- क्तम् 'अङ्गहीनोऽपि साङ्गम्' इति, तदपि ग्रहस्थितिवशात् आहारविशेषवशाच्च युक्तम् । इह तु सेन्द्रिय एव पततीत्युक्तम् । किञ्च--स्त्रीपुंसाभ्यां हि पुत्रो जन्यते । यद्यत्राऽपि पुमानङ्गहीनः स्त्री तु साङ्गा भवत्येव । ततोऽस्याऽङ्गानि- प्रवर्तन्ते ॥ मनुः-- पितुर्वा भजते शीलं मातुर्वोभयमेव वा ॥ इति । इदं चाऽन्यत्-भूयांसो धर्माः कारणगताः कार्ये भवन्ति । तत्र शुक्लादयो गुणाः पुत्रे न भवन्तीति प्रमाणशून्यं वचः । अत एव तदपि मिथ्यैव । तस्मान्न तेन सह सम्प्रयोगो विद्यत इति स्थितम् ॥ ११ ॥
यद्यपि सम्प्रयोगो न विद्यते, तथाऽपि प्रायश्चित्तं तस्याऽस्तीत्याह-- अशुचिशुक्लोत्पन्नानां तेषामिच्छतां प्रायश्चित्तिः । पतनीयानां तृतीयांशस्स्त्रीणामंशस्तृतीयः ॥ १२ ॥
अनु०—इस प्रकार अपवित्र वीर्य से ( पतित पुरुषों से ) उत्पन्न पुरुष यदि प्रायश्चित्त करने के इच्छुक हों तो उनका व्रत पतनीयों के व्रत का तीसरा अंश होता है और इस प्रकार उत्पन्न स्त्रियों का व्रत उसको भी तृतीय अंश होता है ॥ १२ ॥
पतनीयप्रायश्चित्तं यत्तूक्तं 'चतुर्थकाला मितभोजिनस्स्युः' इति तस्य तृतीयो भागः पतितोत्पन्नानां प्रायश्चित्तम् । स्त्रीणां तदुत्पन्नानां तस्याऽपि तृतीयो भागः, नवमभाग इति यावत् । तत्र तौल्येऽपि तद्बीजत्वे स्त्रीणां दोषलाघवमवगम्यम् । तथा च वसिष्ठो युक्तिमेवाऽऽह-- 'पतितोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः, सा हि परगामिनी, तामरिक्थामुपेया'दिति ॥ १२ ॥
'सर्वपण्यैर्व्यवहरणम्' ( २.२.५ ) इति पतनीयमुक्तम् । तत्र किल विषये किञ्चिदुच्यते- भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । श्वविष्ठायां क्रिमिर्भूत्वा पितृभिस्सह मज्जतीति ॥ १३ ॥
अनु०—यदि भोजन, मालिश और दान के अतिरिक्त किसी अन्य प्रयोजन के लिए तिलों का व्यवहार करता है तो वह क्रिमि बनकर अपने पितरों के साथ कुत्ते के मल में डूबता है, ऐसा उद्धरण दिया जाता है ॥ १३ ॥
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७५
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७५
^१नाऽत्र तिरोहितं किञ्चिदस्ति ॥ १३ ॥
पितॄन्वा एष विक्रीणीते यस्तिलान् विक्रीणीते ।
प्राणान् वा एष विक्रीणीते यस्तण्डुलान् विक्रीणीते ॥ १४ ॥
अनु०— जो तिल का विक्रय करता है वह अपने पितरों का ही विक्रय करता है, जो चावल बेचता है वह अपने प्राणों को ही बेचता है ॥ १४ ॥
निन्दैषा तिलतण्डुलयोर्विक्रयस्य ॥ १४ ॥
सुकृतांशांन्वा एष विक्रीणीते यः पणमानो दुहितरं ददाति ॥ १५ ॥
अनु०— जो सौदा कर (बदले में द्रव्य लेकर) पुत्री देता है वह अपने पुण्य के अंशों को ही बेचता है ॥ १५ ॥
सुकृतं पुण्यं तदंशाः सुकृतांशाः । पणमानो योऽन्यस्माद् द्रव्यं गृहीत्वाऽन्यस्मै द्रव्यान्तरप्राप्त्यर्थं प्रयच्छति ॥ १५ ॥
अथ प्रसङ्गात् पण्यमाचष्टे—
तृणं काष्ठमविकृतं विक्रेयम् ॥ १६ ॥
अनु०— तृण और काष्ठ अविकृत रूप में बेचे जा सकते हैं ॥ १६ ॥
टि०— अविकृत से तात्पर्य यह है कि उनसे कोई उपकरण न बनाया गया हो—जैसे चटाई, रस्सी, काष्ठपात्र आदि ।
तृणविकाराः रज्ज्वासनकटादयः । काष्ठविकाराः स्रुक्स्रुवप्रतिमादयः । तद्वर्ज्जं तृणं काष्ठं ब्राह्मणैरप्यापदि विक्रेयम् ॥ १६ ॥
अथाप्युदाहरन्ति—
पशवश्चैकतोदन्ता ^२अश्मा च लवणादुद्धृतः ।
एतद् ब्राह्मण ते पण्यं तन्तुश्चा^३रजनीकृत इति ॥ १७ ॥
अनु०— इस विषय में निम्नलिखित पद्य उद्धृत किया जाता है—ब्राह्मणो, तुम इन्हीं वस्तुओं को बेच सकते हो वे पशु जिनके मुख में केवल एक जबड़े में दांत होते हैं, नमक के अतिरिक्त अन्य खनिज पदार्थ, तथा बिना रंगा हुआ धागा ॥ १७ ॥
ऋचा ब्राह्मणमाह—हे ब्राह्मण ! तवैतत्पण्यं यदेकतोदन्ताः । पशवः शृङ्गिण-
१. नेदं ग-पुस्तकेऽस्ति ।
२. अश्मानो लवणोद्धृताः इति ग. पु.
३. रजनीकृतः इति. ग. पु.
| १७६ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् |
|---|
स्तेष्वेकतोदन्ताः, अश्मा$^१$ पाषाणश्च लवणोद्धृतो लवणवर्जितः। तन्तु$^२$श्चारजनीकृतः कुसुम्भकुङ्कुमहरिद्राद्यरञ्जित इत्यर्थः ॥ १७ ॥
पातकविवर्जितेषु पण्याविक्रेयेषु प्रायश्चित्तं वक्तव्यम्, तदुच्यते—
पातकवर्जं वा बभ्रुं पिङ्गलां गां रोमशां सर्पिषाऽवसिश्च्य कृष्णैस्तिलैरवकीर्याऽनूचानाय दद्यात् ॥ १८ ॥
अनु०— पातक के अतिरिक्त कोई अन्य पाप कर्म करने पर प्रायश्चित्त के रूप में वेदों के विद्वान् ब्राह्मण को भूरे या पिंगल वर्ण की प्रचुर रोमवाली गौ का उसके ऊपर जल छिड़क कर तथा काला तिल बिखेर कर दान करे ॥ १८ ॥
वाशब्दो वक्ष्यमाणेन प्रायश्चित्तेन विकल्पार्थः । बभ्रुपिङ्कलयोर्विकल्पार्थो वा । रोमशाम् एवंभूतां गां घृतेनाऽभ्यज्य तामेव कृष्णतिलैरवकीर्य बहुश्रुताय ब्राह्मणाय दद्यात् ॥ १८ ॥
$^३$कूष्माण्डैर्वा द्वादशाहम् ॥ १९ ॥
अनु०— अथवा कूष्माण्ड मन्त्रों का उच्चारण करते हुए बारह दिन हवन करे ॥ १९ ॥
जुहुयादिति शेषः ॥ १९ ॥
यदवचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते इति ॥ २० ॥
अनु०— इस प्रकार प्रायश्चित्त करने वाला विद्वान् ब्राह्मण की हत्या की अपेक्षा कम दोष वाले दुष्कर्मों के पाप से मुक्त हो जाता है ॥ २० ॥
अर्वाचीनमर्वाक्तनम् । फलविधिः फलार्थवादो वाऽयम् ॥ २० ॥
पातकाभिशंसने कृच्छ्रः ॥ २१ ॥
अनु०— पातक का दोष लगाये जाने पर भी प्रायश्चित्त के लिए कृच्छ्र व्रत करे ॥ २१ ॥
पातक्ययमित्युक्तिमात्रे प्राजापत्योऽयं प्रायश्चित्तम् । कस्य ? अनृतेन पातकेनाऽभिशस्तस्य ॥ २१ ॥
अथाऽस्मिन्नेव विषयेऽभिशंसितुराह—
तदब्दोऽभिशंसितुः$^४$ ॥ २२ ॥
१. अत्राऽपि बहुवचनान्तपाठो दृश्यते ग. पुस्तके
२. रजनीकृतः कुसुम्भहरिद्रादिभी रञ्जित इत्यर्थः इति. ग. पु.
३. कूष्माण्डा व्याख्याताः १७. पृष्ठे ।
४. अभिशंसितरिति. घ. पु.
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७७
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७७
अनु०— पातक का मिथ्या दोष लगाने वाला एक वर्ष तक कृच्छ्र व्रत करे।२२।
तदिति कृच्छ्रं प्रतिनिर्दिशति । ब्राह्मणमनृतेन पातकेनाभिशंस्य संवत्सरं प्राजापत्यव्रतं चरेत् । अत्र गौतमः—'ब्राह्मणाभिशंसने दोषस्तावत् । द्विरनेन-सि' इति ॥ २२ ॥
पतितसम्पयोगे सति कियता कालेन केन सम्प्रयोगेण पततीति ? तदुभयं वक्ति—
संवत्सरेण पतति पतितेन समाचरन् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनादिति ॥ २३ ॥
अनु०— जो व्यक्ति पतित के साथ एक वर्ष तक संबन्ध बनाये रखता है वह भी पतित हो जाता है, पतित का यज्ञ कराने, उसका अध्यापन करने या उससे वैवाहिक संबन्ध स्थापित करने से नहीं, अपितु उसके साथ एक सवारी पर चलने, एक साथ बैठने, एक साथ भोजन करने से ही पतित हो जाता है ॥ २३ ॥
यानासनाशनानैस्संवत्सरेण पतति । न तु याजनादिभिस्संवत्सरेण । किं तर्हि ? सम्बन्धमात्रेण, सद्य एवेत्यर्थः । अन्तरङ्गत्वात् याजनादीनां बहिरङ्ग-त्वाच्च यानादीनाम् । तस्माद्युक्ता योजना । याजनं नाम ऋत्विग्यजमानस-म्बन्धः । शिष्योपाध्यायसम्बन्धोऽध्यापनम् । कन्यादानप्रतिग्रहलक्षणसम्बन्धो यौनम् । यानाद्येकस्यां शालायामेकस्मिन् कुञ्जरे खट्वायाँ वा ॥ २३ ॥
१अमेध्यप्राशने प्रायश्चित्तं नैष्पुरीष्यं तत्सप्तरात्रेणाऽवाप्यते । २अपः पयो घृतं पराक इति प्रतित्र्यहमुष्णानि स तप्तकृच्छ्रः ॥ २४ ॥
अनु०— अमेध्य वस्तुओं को खा लेने का प्रायश्चित्त यह है कि जब तक पेट का मल पूर्णतः शरीर से बाहर नहीं निकल जाता तब तक उपवास करे, सात दिन रात में मलोत्सर्ग द्वारा पूर्णतः शुद्धि होती है। जल, दूध और घृत को उष्ण कर तीन-तीन दिन सेवन करते हुए पुनः तीन दिन उपवास करे तो वह तप्तकृच्छ्र नामक व्रत होता है ॥ २४ ॥
अमेध्यशब्देन श्वापदोष्ट्रखरादीनां मांसं लशुनगृञ्जनपलाण्डुकवकाद्-यश्च गृह्यन्ते । अबादीनि त्रीण्युष्णानि । पराक उपवासः प्रतित्र्यहम् । एवमे-कैकस्मिन् कृते सति द्वादश सम्पद्यन्ते । तस्यैतस्य तप्तकृच्छ्र इति संज्ञा ॥ २४ ॥
१. See, आप. ध. १. २७. ३. and गौ. ध. २१. ४
२. See. याज्ञवल्क्य. ३. ३२७. and मनु also. ११; २१४.
१५ बौ०ध०
१७८ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् ]
^१त्र्यहं प्रातस्तथा सायं त्र्यहमन्यदयाचितम् ।
त्र्यहं परं तु नाऽश्नीयात् पराक इति कृच्छ्रः ॥ २५ ॥
**अनु०—**तीन दिन केवल प्रातः काल भोजन करने, अगले तीन दिन केवल सायंकाल भोजन करने, उसके बाद तीन दिन बिना माँगे मिले हुए भोजन पर निर्वाह करने और फिर तीन दिन भोजन न करने पर कृच्छ्र व्रत होता है ॥ २५ ॥
अयमपि द्वादशाह एव ॥ २५ ॥
अथ बालकृच्छ्रमाह—
प्रातस्सायमयाचितं पराक इति त्र्यूश्चतूरात्राः स एषः स्त्रीबालवृद्धानां कृच्छ्रः ॥ २६ ॥
**अनु०—**यदि प्रातः भोजन, सायंभोजन, अयाचित अन्न का भोजन तथा उपवास करते हुए चार-चार दिनों के तीन भागों में बारह दिनों का समय विभक्त किया जाय तो वह स्त्रियों, बालकों और वृद्धों का कृच्छ्र व्रत होता है ॥ २६ ॥
एकैकमेकाहः परं तु नाऽश्नीयात् अतश्चतुरहोऽयम् । बालादिग्रहणमशक्तोपलक्षणम् ॥ २६ ॥
^२यावत्सकृदाददीत तावदश्नीयात्पूर्ववत्सोऽतिकृच्छ्रः ॥ २७ ॥
**अनु०—**एक बार में जितना अन्न खा सकता हो उतना मात्र ही खाते हुए उपर्युक्त विधि से व्रत करे तो वह अतिकृच्छ्र नाम का व्रत होता है ॥ २७ ॥
पूर्ववदित्येतेन सर्वातिदेशे प्राप्ते ग्रासनियमार्थं सकृद्ग्रहणम् । ग्रासस्तु ^३शिख्यण्डपरिमितो पाणिपूरणान्नो वा ॥ २७ ॥
^४अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥ २८ ॥
**अनु०—**यदि केवल जल पीकर ( बारह दिन का ) व्रत करे तो वह तीसरा व्रत कृच्छ्रातिकृच्छ्र नाम का व्रत होता है ॥ २८ ॥
कृत्स्नोऽपि द्वादशाहोऽब्भक्षो भवेत् । तृतीयग्रहणं समुच्चितानामेषां सर्वप्रायश्चित्तत्वप्रदर्शनार्थम् । यथाऽयं तृतीयो भवति तथा कुर्यादित्यर्थः । यद्वा—
१. See. आप. ध. १. २७. ७. and गो. ध. २६. ४.
२. cf. गौ. ध. २७. १८.
३. See. या. स्मृ. ३. २१९. शिख्यण्डो मयूराण्डः ।
४. cf. गौ. ध २७. १९. and See also. या. स्मृ. ३. ३२०
द्वितीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः [ १७९
द्वितीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः [ १७९
चतुर्षु त्र्यहेषु तृतीयस्त्र्यहोऽन्भक्षो भवति । प्रथमद्वितीयौ चोदनमक्षौ । चतुर्थः पराक इति । स एष कृच्छ्रातिकृच्छ्रः ॥ २८ ॥
अथ कृच्छ्रव्रतमुच्यते—
कृच्छ्रे त्रिषवणमुदकोपस्पर्शनम् ॥ २६ ॥
अनु०—कृच्छ्र व्रत करते समय तीनों सवन काल में स्नान करे ॥ २९ ॥
त्रीणि सवनानि प्रातर्मध्यन्दिनं सायमिति । उपस्पर्शनं स्नानम् ॥ २९ ॥
अधश्शयनम् ॥ ३० ॥
अनु०—भूमि पर सोवे ॥ ३० ॥
उपरि खट्वादिषु शयननिषेधः। अनुपस्तीर्णे देशे शयनमधश्शयनमित्यपरे ॥ ३० ॥
एकवस्त्रता केशश्मश्रुलोमनखवापनम् ॥ ३१ ॥
अनु०—केवल एक वस्त्र धारण करे, केशों। दाढ़ी-मूँछ, शरीर के लोम तथा नखों को कटवाए ॥ ३१ ॥
अत्रोत्तरीयं प्रतिषिध्यते ॥ ३१ ॥
एतदेव स्त्रियाः केशवपनवर्जं केशवपनवर्जनम् ॥ ३२ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयः खण्डः ॥
अनु०—यही नियम स्त्रियों के लिए भी होता है, किन्तु वे अपने केश न कटवाएँ ॥ ३२ ॥
यो यावान्निग्रमः कृच्छ्रेषु पुरुषस्योक्तः स एव स्त्रीणाम् । कृच्छ्रचरणे केशवपनं तु वर्ज्यते । द्विरुक्तिरुक्तप्रयोजना ॥ ३२ ॥
इति बौधायनधर्मविवरणे गोविन्दस्वामिकृते द्वितीये प्रश्ने प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः
तृतीयः खण्डः
एवं तावद्ब्रह्मचारिधर्मप्रसङ्गात् प्रसक्तानुप्रसक्तमभिहितम् । अधुना गृहस्थधर्मा उच्यन्ते । तत्र प्रथमं तावत्संक्षिप्याऽऽह—
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी ।
ऋतौ च गच्छन् विधिवच्च जुह्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ १ ॥
१८० | बौधायन-धर्मसूत्रम् | [ गृहस्थधर्माः
अनु०-सदैव कमण्डलु में जल लेकर चलने वाला, सदा यज्ञोपवीत धारण करने वाला, नित्य वेद का स्वाध्याय करने वाला, शूद्र के अन्न को न ग्रहण करने वाला, ऋतुकाल में ही अपनी पत्नी से मैथुन करने वाला और वेदविहित विधि के अनुसार हवनादि यज्ञ कर्म करने वाला ब्राह्मण मृत्यु के बाद ब्रह्म के लोक से च्युत नहीं होता ॥ १ ॥
टि०--इस सूत्र के अनुसार यदि गृहस्थ भी अपने आश्रम के अनुसार कर्मों को करते हुए धर्म का आचरण करता है तो मुक्ति का अधिकारी बन सकता है। इस संबन्ध में गोविन्दस्वामी ने याज्ञवल्क्य स्मृति का पद्य उद्धृत किया है।
नित्योदकी उदकमण्डलुहस्तः। नित्ययज्ञोपवीती निवीतिप्राचीनावीतिभ्यामन्यत्र। नित्यस्वाध्यायी नित्याध्ययनः अन्यत्रानध्यायात्। वृषलश्शूद्रः। अन्नग्रहणादामं प्राणसंशये तत्स्थित्यर्थमभ्यनुज्ञातमेव। ऋतुः आर्तवः ऋतेर्ग-तिकर्मणो गर्भाधानक्षमकालः। न वसन्तादिः। तत्र गच्छन् मैथुनमाचरन् आह--
ऋतुस्स्वाभाविकः स्त्रीणां रात्रयष्षोडश स्मृताः।
चतुर्भिरितरैस्सार्धमहोभिस्सद्भिर्गर्हितैः॥
तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः॥
एतच्च स्वभार्यायामेव। विधिवच्च जुह्वत् श्रुतिस्मृतिचोदितेन मार्गेण ब्रह्मलोकान्न च्यवते। ब्रह्म च तल्लोकश्च ब्रह्मलोकः। तस्मान्न च्यवते न भेदं प्रतिपद्यत इत्यर्थः। अनेन प्रकारेण गृहस्थस्याऽपि स्वाश्रमविहितकर्मणा मुक्तिमनुमन्यते¹। आह च याज्ञवल्क्यः--
न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ इति ।
तथा च धर्मस्कन्धब्राह्मणम्--'सर्व एते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्वमे'ति इति ॥ १ ॥
'ऋतौ च गच्छन्' इत्युक्तम् । तच्च 'प्रजानिश्श्रेयसम्' इति गृह्येषूक्तम् । प्रजानां च जीवनं कथं भवतीति दायविभागप्रकरणमारभ्यते । तत्र परकृतिरूपां श्रुतिमुदाहरति--
"²मनुः पुत्रेभ्यो दायं व्यभज"दिति श्रुतिः ॥ २ ॥
१. अनुमीयत. इति. ग. पु.
२. "मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् स
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८१
अनु०--श्रुति में कहा गया है कि मनु ने अपने पुत्रों में अपनी सम्पत्ति का विभाजन किया ॥ २ ॥
टि०--'पुत्रेभ्यः' से यह विशेष अर्थ निकलता है कि पुत्रों को ही पिता की सम्पत्ति में अधिकार है, पुत्रियों को नहीं । "मनुः पुत्रेभ्यो दायं व्यभजत् स नाभाने दिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् स आगच्छत्सोऽब्रवीत् कथा मा निरभागिति न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्रमासते ते सुवर्गं लोकं न प्रजानन्ति तेभ्य इदं ब्राह्मणं ब्रूहि ते सुवर्गं लोकं यन्तो य एषां पशवस्तांस्ते दास्यन्तीति तदेभ्योऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषां पशव आसन् तानस्मा अददुः ।"
पुत्रग्रहणात् पुंस एव विभजेत्, न दुहितुः । तथा च श्रुतिः-'तस्मात्स्त्रियो निरिन्द्रिया अदायादीः' इति । स्मृतिरपि—
विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ॥ इति ।
तत्र दायो दातव्यं द्रव्यम्, तस्य विभागो दायविभागः, इदानीं कर्तव्य इति विधिकल्पना ॥ २ ॥
तत्राऽयं प्रकारः—
समशस्सर्वेषामविशेषात् ॥ ३ ॥
अनु०— पिता अपनी सम्पत्ति का सभी पुत्रों में विशेष भाग न देकर समान विभाजन करे ॥ ३ ॥
न विशेषः कश्चिच्छिष्यते—विषमो विभाग इति । अयं तु समो विभागः सवर्णापुत्राणामौरसानां समानगुणानां च । न त्वसवर्णापुत्राणामनौरसानामसमानगुणानाम् ॥ ३ ॥
अस्मिन्नेव विषये उद्धारयुक्तं विभागमाह—
वरं वा रूपमुद्धरेज्ज्येष्ठः ॥ ४ ॥
अनु०— अथवा ज्येष्ठ पुत्र उस सम्पत्तिमें सबसे उत्कृष्ट द्रव्य अपने विशेष भाग के रूप में प्राप्त करे ॥ ४ ॥
'आगच्छत्सोऽब्रवीत् कथा मा निरभागिति न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्रमासते ते सुवर्गं लोकं न प्रजानन्ति तेभ्य इदं ब्राह्मणं ब्रूहि ते सुवर्गं लोकं यन्तो य एषां पशवस्तांस्ते दास्यन्तीति तदेभ्योऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषां पशव आसन् तानस्मा अददुः" इति समग्रा श्रुतिः ॥ नाभानेदिष्ठः इति मनुपुत्रेष्वन्यतमस्य नाम । ब्रह्मचर्यं वसन्तं गुरुकुलेऽधीयानम् । निरभजत् भागरहितमकरोत् । कथा कथम् । अन्यदत्र सुगमम् ।
१८२ | बौधायन-धर्मसूत्रम् | [ दायविभागः
वरमुत्कृष्टरूपं द्रव्यमुद्धरेत् गृह्णीयात् ॥ ४ ॥
किं तत्र प्रमाणम्—
तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीति श्रुतिः ॥ ५ ॥
**अनु०—**इस कारण लोग ज्येष्ठ पुत्र को धन (का विशिष्ट भाग) देकर पृथक् करते हैं ऐसा श्रुति का वचन है ॥ ५ ॥
**टि०--**यह तैत्तिरीय संहिता, २.५.२.७ में आया है। इस श्रुतिवाक्य से पूर्वोक्त अविशेष समान विभाजन का नियम निरस्त हो जाता है।
निरवसायनं पृथक्करणम् । धनेनोपतोष्य पृथक्कुर्वन्तीत्यर्थः । अनया श्रुत्याऽविशेषादिति हेतुरपसारितो भवति ॥ ५ ॥
दशानां वैकमुद्धरेज्ज्येष्ठः ॥ ६ ॥
**अनु०—**अथवा ज्येष्ठ पुत्र दश भागों में एक भाग अपने विशेष अंश के रूप में प्राप्त करता है ॥ ६ ॥
सर्वं धनजातं दशधा विभज्य ज्येष्ठस्यैको भाग उद्धारः कार्यः । दशसङ्ख्याधिकेषु सत्स्वेष विभागो लाभाय भवति, न तु दशसंख्यान्यूनेषु । एतावुद्धारौ गुणवज्ज्येष्ठविषयौ वेदितव्यौ ॥ ६ ॥
सममितरे विभजेरन् ॥ ७ ॥
**अनु०--**शेष धन को दूसरे पुत्रों में समान अंश देते हुए विभाजन करे ॥ ७ ॥
सर्वं धनजातं दशधा विभज्य ज्येष्ठस्यैको भाग उद्धारः कार्यः । अवशिष्टनवभागानितरे पुत्रास्समं विभजेरन् ॥ ७ ॥
पितुरनुमत्या दायविभागस्सति पितरि ॥ ८ ॥
**अनु०—**पिता के जीवित रहने पर सम्पत्ति का विभाजन उसकी आज्ञा से ही होना चाहिए ॥ ८ ॥
तदनिच्छ्या विभागो दोषो भवति ॥ ८ ॥
चतुर्णां वर्णानां गोऽश्वाजावयो ज्येष्ठांशः ॥ ९ ॥
**अनु०—**ज्येष्ठ पुत्र का अतिरिक्त अंश चार वर्णों के क्रम के अनुसार गो, अश्व, बकरा और भेड़ होता है ॥ ९ ॥
अंशनियमेनोद्धारः । मृते जीवति वा पितरि सत्सु गोऽश्वाजाविष्वेतत् । इतरे समं विभजेरन् । गवादीनां ज्येष्ठभागद्गवावशिष्टस्याऽप्याधिक्ये सति विज्ञेयम् ॥ ९ ॥
तायः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः
एवं समानवर्णस्त्रीपुत्रविषयो विभाग उक्तः। अथ—
नानावर्णस्त्रीपुत्रसमवाये दायं दशांशान् कृत्वा चतुरस्त्रीन् द्वावे-
कमिति यथाक्रमं विभजेरन् ॥ १० ॥
अनु०—यदि अनेक वर्ण की स्त्रियों से उत्पन्न अनेक पुत्र हों तो सम्पत्ति का दश भाग कर, स्त्री के वर्ण-क्रम के अनुसार पुत्रों को चार, तीन, दो और एक भाग मिलता है। १० ॥
टि०—ब्राह्मणी का पुत्र चार भाग, क्षत्रिया से उत्पन्न पुत्र तीन भाग, वैश्या से उत्पन्न पुत्र दो भाग तथा शूद्रा से उत्पन्न पुत्र एक भाग प्राप्त करते हैं। इसी प्रकार क्षत्रिय अपनी सम्पत्ति का छः भागकर अपनी क्षत्रिया, वैश्या, शूद्रा पत्नियोंके पुत्रों को क्रमशः तीन, दो और एक भाग बाँटता है; वैश्य अपनी सम्पत्ति का तीन भाग कर वैश्या से उत्पन्न पुत्रों को दो भाग तथा शूद्रा पत्नीसे उत्पन्न पुत्रों को एक भाग दे।
नानावर्णस्त्रियो ब्राह्मणादिखियः। तत्पुत्रसमवाये सति सर्वं दशधा विभ-
ज्य चतुरोंऽशान् ब्राह्मणीपुत्रो हरेत्। इतरेषु षट्सु त्रीनंशान् क्षत्रियासुतः। तत्परि-
शिष्टेषु त्रिषु द्वौ वैश्यासुतः। तायैतदविशिष्टांशं शूद्रासुतः। एवं क्षत्रियोऽपि सुत-
स्य वर्णक्रमात् षोढा कृतानां त्रीन् द्वावेकमिति यथाक्रमं प्रकल्पयेत्। तथा
वैश्योऽपि स्वपुत्रयोः द्वावेकमिति विभजेत् ॥ १० ॥
अथौरसविषयविभागः—
औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः ॥ ११ ॥
अनु०—औरस पुत्र के उत्पन्न होने पर अन्य सवर्ण पुत्र सम्पत्ति का तृतीय अंश प्राप्त करते हैं ॥ ११ ॥
टि०—औरस पुत्र पति द्वारा अपनी सवर्णा पत्नी से स्वयं उत्पादित पुत्र को कहते हैं। यदि किसी पुरुष का औरस पुत्र उत्पन्न होता है तो उसके अन्य सवर्ण पुत्र पूरी सम्पत्ति के तृतीय अंश में ही अपना हिस्सा पाते हैं। गोविन्दस्वामी की व्याख्या में 'सवर्णाः' के स्थान पर “असवर्णाः” ग्रहण किया गया है अर्थात् औरस सवर्ण पुत्र उत्पन्न होने पर अन्य वर्ण की पत्नियों से उत्पन्न पुत्र पूरी सम्पत्ति के तृतीय अंश में भी छः भाग कर वर्णानुसार तीन, दो, एक अंश ग्रहण करें।
औरसं सवर्णापुत्रं वक्ष्यति—'सवर्णायां संस्कृतायाम्' इति। तस्मिन्नु-
त्पन्नेऽसवर्णास्तृतीयांशहरा भवेयुः। सर्वं धनजातं त्रेधा विभज्य तेषामेकं
षोढा सम्पाद्य त्रीन् द्वावेकमिति कल्पयेत् ॥ ११ ॥
१८४ बौधायन-धर्मसूत्रम् [ पुत्रभेदाः
'सवर्णापुत्रानन्तरापुत्रयोरनन्तरापुत्रश्चेद्गुणवान् स ज्येष्ठांशं हरेत्॥१२॥
अनु०— सवर्णा पत्नी से उत्पन्न पुत्र तथा उससे ठीक नीचे के वर्ण वाली पत्नी से उत्पन्न पुत्र में यदि ठीक नीचे के वर्ण वाली पत्नी का पुत्र गुणवान् हो तो वही ज्येष्ठ पुत्र का अंश प्राप्त करे ॥ १२ ॥
गुणवत्ता हि श्रुतशीलादिः ॥ १२ ॥
गुणवत्पुत्रस्य ज्येष्ठांशहरणे कारणमाह—
गुणवान् हि शेषाणां भर्ता भवति ॥ १३ ॥
अनु०— गुणवान् पुत्र ही शेष पुत्रों का भरण-पोषण करने वाला होता है ॥१३॥
आहारदानादिगुणवत्त्वे समर्थ एव । अतो ज्यैष्ठ्यं गुणवयः-कृतम् ॥ १३ ॥
'औरसे तूत्पन्ने' इत्युक्तम् ; तत्र सर्वस्यौरसनिमित्तग्रहणे प्राप्ते परिभाषते—
सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं पुत्रं विद्यात् ॥१४॥
अनु०-- अपने वर्ण की संस्कारपूर्वक विवाहिता पत्नी से स्वयम् उत्पादित पुत्र को औरस पुत्र समझना चाहिए ॥ १४ ॥
पाणिग्रहणेन शास्त्रलक्षणेन तस्यां स्वयमुत्पादित औरसो न क्षेत्रजादिः ॥ १३ ॥
एतत्सञ्ज्ञात् पुत्रप्रतिनिधीनाह—
अभ्युपगम्य दुहितरि जातं पुत्रिकापुत्रमन्यं दौहित्रम् ॥ १५ ॥
अनु०-- संविदा के अनुसार पुत्री से उत्पन्न पुत्र को पुत्रिकापुत्र कहते हैं और उसके अतिरिक्त पुत्री के पुत्र को दौहित्र कहते हैं ॥ १५ ॥
विद्यादित्यनुवर्तते । अभ्युपगम्य संवादाऽस्मदर्थमपत्यमिति या दुहिता दीयते तस्यां जातं दौहित्रं पुत्रिकापुत्रं विद्यात् । अन्यत्वमौरसापेक्षया । तस्याऽस्य गौणत्वप्रदर्शनार्थम् । अन्यं दौहित्रमित्यस्याऽपरा व्याख्या—अन्यः असंवादपूर्वकं दत्तायां जातः तं दौहित्रमेव विद्यात् ॥ १५ ॥
१. एतत्सूत्रानन्तरं "अथाप्युदाहरन्ति-अङ्गादङ्गात् सम्भवसि हृदयादधि जायते । आत्मा वै पुत्र नामासि स जीव शरदश्शतमिति" इति । सूत्रं सर्वेषु मूलपुस्तकेषूपलभ्यते । परन्तु व्याख्यानपुस्तकेष्वनुपलम्भात्र व्याख्यातमिति भाति"
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८५
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८५
पुत्रिकापुत्रेत्येवंलक्षणः पुत्रो मातामहस्यैवेत्येतत्प्रकटयति—
अथाऽप्युदाहरन्ति — आदिशेत्प्रथमे पिण्डे मातरं पुत्रिकासुतः । द्वितीये पितरं तस्यास्तृतीये च पितामहमिति ॥ १६ ॥
**अनु०—**इस विषय में निम्नलिखित पद्य उद्धृत किया जाता है—पुत्रिकापुत्र श्राद्ध का प्रथम पिण्ड अपनी माता को प्रदान करे, दूसरा पिण्ड उसके पिता को तथा तीसरा पिण्ड उसके पितामह को अर्पित करे ॥ १६ ॥
**टि०—**पुत्रिकापुत्र के लिए माता ही पिता का स्थान ग्रहण करती है । दूसरा पिण्डदान माता के पिता को अर्थात् अपने मातामह को अर्पित करे । तीसरा पिण्ड अपनी माता के पितामह अर्थात् अपने मातामह के पिता को दे ।—गोविन्दस्वामी । ब्यूहलेर ने तीसरे पिण्डदान के विषय में अनुवाद में अपने पितामह को अर्पित करे ऐसा अर्थ किया है । मनु ने तीसरे पिण्डदान को अपने पितामह के अर्पित किये जाने का उल्लेख किया है ।
मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः ।
द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥
वसिष्ठ ने पुत्रिकापुत्र के विषय में संवाद का निम्नलिखित प्रकार बताया है कि पिता पुत्री को अलंकृत कर उसके पति को अर्पित करते हुए कहे कि इससे जो पुत्र होगा वह मेरा पुत्र माना जायगा ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् ।
अस्यां जनिष्यते पुत्रः स मे पुत्रो भवेदिति ॥
गौतमधर्मसूत्र में इस सम्बन्ध में निम्नलिखित पद्य द्रष्टव्य है: पितोत्सृजेत् “पुत्रिकामनपत्योग्निं प्रजापति चेष्ट्वास्मदर्थमपत्यमिति संवाद्यं । ३ । १० । १६ चौखम्बा संस्करण का पृष्ठ २७९ ।
पिण्डपितृयज्ञे क्रियमाणे प्रथमं पिण्डं मातरमुद्दिश्य दद्यात् । स्त्रियाः पिण्डदानं वचनप्रामाण्याद्भवति । पितृस्थानीया हि सा । द्वितीये मातुः पितरमात्मनो मातामहम् । तृतीये तस्याः पितामहमात्मनो मातामहपितरम् । यद्वा—मातरं परिहाप्यैव पिण्डदानम् । कुत एतत् ? कर्मान्ते प्रदर्शनात् । तन्न युक्तम्—कथं खलु पुत्रिकापुत्रस्य पिण्डदानं भवतीति पृष्ट्वा एतत्तेऽमुष्यै पितामह मम प्रपितामह ये च त्वामनु, एतत्तेऽमुष्यै प्रपितामह मम प्रपितामह ये च त्वामन्विति अमुष्यै अमुष्या इति स्वमातरं निर्दिशति ॥ १६ ॥
१८६ | बौधायन-धर्मसूत्रम् | [ पुत्रभेदाः
मृतस्य प्रसूतो यः क्लीबव्याधितयोर्वाऽन्येनाऽनुमतेन स्वे क्षेत्रे स क्षेत्रजः ॥ १७ ॥
**अनु०—**जो पुत्र मृत व्यक्ति की, नपुंसक की, रोगी की पत्नी से दूसरे व्यक्ति द्वारा अनुमति दिये जाने पर उत्पन्न किया जाता है उसे क्षेत्रज कहते हैं ॥ १७ ॥
मृतस्य स्वे क्षेत्रे प्रसूत इति सम्बन्धः। स्वक्षेत्रे स्वपाणिग्रहणादिना संस्कृते। कार्यानभिज्ञः क्लीबः तृतीया प्रकृतिः। व्याधितस्तीव्ररोगेण प्रजोत्पादनासमर्थो गृह्यते। एषां त्रयाणां भार्यायामन्येन भ्रात्रा पित्रा वाऽनुमतेन देवरेणोत्पादितः क्षेत्रजो भवति ॥ १७ ॥
स एष द्विपिता द्विगोत्रश्च द्वयोरपि स्वधारिक्थभाग्भवति॥१८॥
**अनु०—**इस प्रकार के क्षेत्रज के पुत्र के दो पिता होते हैं, दो गोत्र होते हैं और वह दोनों पिताओं को पिण्डदान आदि देने और दोनों की सम्पत्ति प्राप्त करने का अधिकारी होता है ॥ १८ ॥
स एष क्षेत्रजः द्विपिता द्वौ पितरो यो जनकः क्षेत्रवांश्च। द्विगोत्रत्वमप्यस्य तद्गोत्राभ्यामेव। गोत्रभेदे सत्यस्य प्रयोजनम्—स्वधा पिण्डोदकादि। रिक्थं मृतस्य यदातिरिच्यते द्रव्यम् ॥ १८ ॥
शुश्रूषाविवाहपिण्डदानदायग्रहणस्योपयोगमाह—
अथाऽप्युदाहरन्ति—
द्विपितुः पिण्डदानं स्यात्पिण्डे पिण्डे च नामनी।
त्रयश्च पिण्डाष्षण्णां स्युरेवं कुर्वन्न मुह्यतीति ॥ १९ ॥
**अनु०—**इस विषय में धर्मशास्त्रज्ञ निम्नलिखित पद्य उद्धृत करते हैं—
दो पिताओं वाले व्यक्ति का पिण्डदान प्रति पिण्ड के साथ दो नामों के उच्चारण के साथ होता है। तीन ही पिण्ड छः पिण्डों का प्रयोजन सिद्ध करते हैं। इस प्रकार पिण्डदान करने वाला भ्रान्ति का दोषी नहीं होता है ॥ १९ ॥
नामनी उत्पादयितुः क्षेत्रिणश्च। तयोस्सह पिण्डदाने सति त्रय एव पिण्डाष्षण्णां स्युः। 'पित्रे पितामहाय' इति च वचनात् ॥ १९ ॥
मातापितृभ्यां दत्तोऽन्यतरेण वा योऽपत्यार्थे परिगृह्यते स दत्तः॥२०॥
**अनु०—**जो पुत्र माता और पिता द्वारा प्रदत्त होकर या उन दोनों में केवल एकद्वारा प्रदत्त होने पर पुत्र के स्थान पर ग्रहण किया जाता है वह दत्त-पुत्र कहलाता है ॥ २० ॥
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८७
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८७
यो मातापितृभ्यां मात्रा पित्रा वा दत्तः ॥ २० ॥
सदृशं यं सकामं स्वयं कुर्यात्स कृत्रिमः ॥ २१ ॥
**अनु०—**वह पुत्र कृत्रिम कहलाता है, जिसके पुत्र बनने की इच्छा को देखकर स्वयं ही पुत्र के रूप में मान लिया जाय ॥ २१ ॥
सादृश्यं जात्यादिना । सकामं अस्याऽहं पुत्रो भविष्यामि यदि मां ग्रहीष्यतीति यो मन्यतेः पुत्रार्थी च स्वयमेव पूजापूर्वकं यदि गृह्णाति । एवं गृहीतः कृत्रिम उच्यते ॥ २१ ॥
गृहे गूढोत्पन्नोऽन्ते ज्ञातो गढोः ॥ २२ ॥
**अनु०—**घर के भीतर गुप्त रूप से ( व्यभिचार द्वारा ) उत्पन्न पुत्र को गूढज कहते हैं, जिसके गुप्त रूप से उत्पादित होने का ज्ञान बाद में हो ॥ २२ ॥
गृहे अतिगुप्तायामपि स्त्रियामसमुत्पादितोऽयमिति पूर्वमज्ञातः । पश्चात्कालान्तरे येन व्यभिचारादिना कारणेनाऽस्यामुत्पादितोऽयं पुत्र इति विज्ञायते तथापि गूढजः इत्यभिप्रायः । अत्र गृहग्रहणं प्रव्रजितायां गूढोत्पन्नस्य गूढ इति संज्ञा मा भूदित्येतदर्थम् ॥ २२ ॥
मातापितृभ्यामुत्सृष्टोऽन्यतरेण वा योऽपत्यार्थे परिगृह्यतेसोऽपविद्धः॥२३॥
**अनु०—**माता और पिता के द्वारा या उनमें से किसी एक द्वारा त्यागे हुए और पुत्र के रूप में ग्रहण किये गये को अपविद्ध कहते हैं ॥ २३ ॥
अत्राऽपि सदृश इत्यनुवर्तते । उत्सृष्टस्त्यक्तः ॥ २३ ॥
असंस्कृतामनतिसृष्टां यामुपयच्छेत्तस्यां यो जातस्स कानीनः ॥२४॥
**अनु०—**अविवाहिता कन्या से गुरुजनों की अनुमति के बिना ही योनिसंबन्ध करने पर जो पुत्र उत्पन्न होता है उसको कानीन कहते हैं ॥ २४ ॥
**टि०—**इस सूत्र में 'असंस्कृता' शब्द का प्रयोग किया गया है, जिससे यह सिद्ध होता है कि गूढज पुत्र संस्कृता अर्थात् विवाहिता स्त्री से उत्पन्न होता था ।
अनेन ज्ञायते गूढजः संस्कृतायां जात इति । अनूढामसंस्कृतामाहुः । अनतिसृष्टां अनभ्युपगतां गुरुभिः अतिसृष्टायामप्यसंस्कृतायां संस्कृतायामप्यनतिसृष्टायां स एव । सोऽयं सदृश्यामुत्पादितो मातामहस्य पुत्रः ॥ २४ ॥
या गर्भिणी संस्क्रियते विज्ञाता वाऽविज्ञाता वा तस्यां यो जातः स सहोढः ॥ २५ ॥
१८८ बौधायन-धर्मसूत्रम् [ पुत्रभेदाः
अनु०—विवाह के समय ही यदि वधू ज्ञात या अज्ञात रूप से गर्भिणी हो तो उससे उत्पन्न पुत्र को सहोढ कहते हैं ॥ २५ ॥
या गूढगर्भिणी सती परिणीयते तस्यां यो जातस्स सहोढो नाम । वोढुश्चायं पुत्रः । विज्ञातायां तु संस्कार एनोऽस्ति ॥ २५ ॥
मातापित्रोर्हस्तात्क्रीतोऽन्यतरेण वा योऽपत्यार्थे परिगृह्यते स क्रीतः ॥ २६ ॥
अनु०—जो पुत्र माता और पिता को धन देकर खरीदा जाता है या उनमें से किसी एक द्वारा बेचा जाकर पुत्र के रूप में ग्रहण किया जाता है उसे क्रीत कहते हैं ॥ २६ ॥
स्वद्रव्यं प्रदायेति शेषः ॥ २६ ॥
क्लीवं त्यक्त्वा पतितं वा याऽन्यं पतिं विन्देत्तस्यां पुनर्भ्वां यो जातस्स पौनर्भवः ॥ २७ ॥
अनु०—नपुंसक या पतित पति को छोड़कर दूसरे पुरुष से विवाह करने वाली स्त्री से जो पुत्र उत्पन्न होता है उसको पौनर्भव कहते हैं ॥ २७ ॥
टि०—यहां पति के मृत होने पर दूसरा विवाह करने वाली स्त्री से भी अर्थ लेना चाहिए ।
मृतोऽप्यत्राऽभ्यनुज्ञातः । तथा च वसिष्ठः—'मृते वा सा पुनर्भूर्भवति' इति ॥ २७ ॥
मातापितृविहीनो यः स्वयमात्मानं दद्यात्स स्वयंदत्तः ॥ २८ ॥
अनु०—माता और पिता से विहीन होकर जो स्वयं को पुत्र के रूप में अर्पित करता है उसे स्वयं दत्त कहते हैं ॥ २८ ॥
स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् । अत्राऽपि शरीरेन्द्रियाणामा-त्मीयत्वाद्दानव्यवहारः ॥ २८ ॥
द्विजातिप्रवराच्छूद्रायां जातो निषादः ॥ २९ ॥
अनु०—द्विजातियों में प्रथम वर्ण अर्थात् ब्राह्मण द्वारा शूद्रा स्त्री से उत्पन्न किये गये पुत्र को निषाद कहते हैं ॥ २९ ॥
द्विजातिप्रवरो ब्राह्मणः ॥ २९ ॥
कामात्पारशव इति पुत्राः ॥ ३० ॥
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८९
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८९
**अनु०—**ब्राह्मण द्वारा केवल भोगार्थ शूद्रा से योनिसंबन्ध करने पर उत्पन्न पुत्र को पारशव कहते हैं ॥ ३० ॥
**टि०—**इस सूत्र के अर्थ से यह स्पष्ट है कि निषाद विवाहिता शूद्रा स्त्री से उत्पन्न पुत्र को कहा जाता था।
द्विजातिप्रवरादेव पूर्वः क्रमोढायाः पुत्रः। अयं तु कामादूढायाः। अनन्तरप्रभवप्रकरणे तयोरपि पुनर्ग्रह्णमनयोः पुत्रकार्येष्वपि प्रापणार्थम् ॥ ३० ॥
अथैतान् पुत्रान्विविधान्विविनक्ति—
अथाऽप्युदाहरन्ति—
औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृत्रिमौ ।
गूढजं चाऽपविद्धं च रिक्थभाजः प्रचक्षते ॥ ३१ ॥
कानीनं च सहोढं च क्रीतं पौनर्भवं तथा ।
स्वयंदत्तं निषादं च गोत्रभाजः प्रचक्षते ॥ ३२ ॥
**अनु०—**इस सन्दर्भ में भी निम्नलिखित पद्य उद्धृत करते हैं—औरस, पुत्रिकापुत्र, क्षेत्रज, दत्त, कृत्रिम, गूढज, अपविद्ध, सम्पत्ति के अधिकारी कहे जाते हैं ॥ ३१ ॥
**अनु०—**कानीन, सहोढ, क्रीत, पौनर्भव, त्स्वयंदत्त, तथा निषाद पुत्र गोत्र के भागी होते हैं ॥ ३२ ॥
औरसादयः गोत्रभाजश्च रिक्थभाजश्च । रिक्थं द्रव्यम् । कानीनादयश्च तत् गोत्रभाजः । पारशवः अभाग एव विष्ठावत् । अस्मात्सूत्रादिदमप्यवगम्यते—निषादकन्याऽपि सुसमोक्ष्यऽसगोत्रादेव वोढव्या । अन्यथा सगोत्रागमनप्रसङ्गादिति । एते पुत्रिकापुत्रादयः काशकुशस्थानीयाः पुत्रप्रतिनिधयो मन्तव्याः । अवश्यकरणीयत्वात् पुत्रोत्पत्तेः । उक्तं 'पुत्रांश्चोत्पाद्य धर्मतः' इति । योषिताऽपि पुत्रवत्या भवितव्यम् । 'अवीरायाश्च योषितः' इत्यभोज्यान्नप्रकरणे दर्शनात् ॥ ३१-३२ ॥
तदेतत्परमतेनोपन्यस्यति स्म—
तेषां प्रथम एवेत्याहौपजङ्घनिः ॥ ३३ ॥
**अनु०—**ओपजंघनि आचार्य का मत है कि इन पुत्रों में केवल प्रथम पुत्र अर्थात् औरस ही सम्पत्ति का अधिकारी होता है, अन्य पुत्र नहीं ॥ ३३ ॥
१. यस्याः पतिः पुत्रो वा नाऽस्ति सा अवीरा ।
१९० बौधायन-धर्मसूत्रम् [ पुत्रभेदाः
औपजङ्घनिराचार्यो मन्यते स्म। प्रथमः औरस एव पुत्रो न पुत्रिकापुत्रा- दय इति ॥ ३३ ॥
'इदानीमहमीर्ष्यामि स्त्रीणां जनक नो पुरा । यतो यमस्य सदने जनयितुः पुत्रमब्रुवन् ॥ ३४ ॥
अनु०— हे जनक, अब मैं अपनी स्त्रियों के प्रति अधिक ईर्ष्या से सावधान रहता हूँ पहले ऐसा नहीं करता था। क्योंकि यम के भवन में ऐसा कहा गया है कि मृत्यु के बाद पुत्र उत्पन्न करने वाले का ही होता है ॥ ३४ ॥
टि०— इस सूत्र में निम्नलिखित कथा उल्लिखित है। गोविन्द स्वामी की व्याख्या के आधार पर यह इस प्रकार है—ओपजंघनि ने जनक से इस प्रकार कहा-कृतयुग में यम ने ऋषियों को बुलाकर पूछा—दूसरे की पत्नियों से उत्पन्न पुत्र उत्पन्न करने वालेका होता है या क्षेत्री का होता है। तब ऋषियों ने यही निर्णय किया कि मृत्यु के बाद पुत्र उत्पन्न करने वाले का ही होता है, क्षेत्री का नहीं।
स हि जनकं राजानं प्रकृत्यैवमुवाच—
यमः कृतयुगे मन्दिरे ऋषीनाहूय पप्रच्छ—परदारेषूत्पादितः पुत्रः किं जन- यितुरिति ? उताहो क्षेत्रिण इति। एवं पृष्टे ते प्रजा जनयितुरेवेति निश्चित्य अब्रुवन्। तदिदमाह—पुरा यमस्य सदने जनयितुः पुत्रमब्रुवन्। इदानीमहमि- त्यादि। सम्प्रति अहमीर्ष्यामीति न सहे। स्त्रीणामिति द्वितीयार्थे षष्ठी। अथवा स्वार्थ एव। स्त्रीणां चरन्तं पुरुषं नेर्ष्यामोत्यर्थः। हे जनक ! पुरा यस्माद्यमस्य धर्मराजस्य सदने वेश्मनि जनयितुरेव पुत्रमब्रुवन्नृषयो, न क्षेत्रिण इति। न हि यमराजसकाशे निश्चितोऽर्थो मिथ्या भवितुमर्हतीत्यौप- जङ्घनेः मुनेर्मतम् ॥ ३४ ॥
रेतोधाः पुत्रं नयति परेत्य यमसादने । तस्माद्भार्या रक्षन्ति बिभ्यन्तः पररेतसः ॥ ३५ ॥
अनु०— वीर्यं का आधान करने वाला मृत्यु के बाद पुत्र को यम के यहां ले जाता है। इस कारण लोग दूसरे पुरुष से वीर्याधान की आशंका करते हुए अपनी पत्नियों की रक्षा करते हैं ॥ ३५ ॥
रेतो दधातीति रेतोधाः बीजं पुत्रं प्रकृतं नयति भुङ्क्ते पुत्रफलं लभते परेत्य मृत्वा यमसादने पुण्यपापफलोपभोगस्थाने। नैवं क्षेत्री। यस्मादेवं तस्मात्पररेतसो बिभ्यन्तो भार्या रक्षन्ति ॥ ३५ ॥
१. cf. आप. ध. २. १३. ६,
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १९१
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १९१
एवं जनकादिः अन्यशिष्यान् प्रत्याह— २अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि वप्सुः । जन- यितुः पुत्रो भवति साम्पराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥ ३६ ॥
अनु०—सावधान होकर सन्तान की उत्पत्ति की रक्षा करो, कहीं तुम्हारे क्षेत्र में दूसरे के बीज न पड़े । मृत्यु के बाद पुत्र उत्पन्न करने वाले का होता है ओर पति सन्तान की उत्पत्ति को निष्फल कर देता है ॥ ३६ ॥
अन्ये बीजवपनं मा कार्षुः। तत्र को दोषः? जनयितुः पुत्रो भवति साम्प- राये परलोकेऽपि यदनेन पिण्डोदकदानादि जनयितुरेव भवेत् , न क्षेत्रिण इति । ननु। भार्यायाः पुत्रस्य च रक्षणपोषणचिकित्सादि सर्वं क्षेत्रिणैव क्रियते, तत्कथमस्मिन् पक्षे इति ? उच्यते—मोघं वेत्ता कुरुते तन्तुमेतमिति । वेत्ता लब्धा क्षेत्रस्य कुरुते यतं तन्तुं मोघं कुरुते निष्फलोऽस्य प्रयासः इत्यभि- प्रायः । इतिशब्द औपजङ्घनेर्मतोपसंहारार्थः ॥ ३६ ॥
अथेदानीं स्वकीयमतेन पुत्रभरणक्रममाह— तेषामप्राप्तव्यवहाराणामंशान् सोपचयान् सुनिगुप्तान्निदध्युरा- व्यवहारप्रापणात् ॥ ३७ ॥
अनु०—पुत्रों में जो वयस्क न हों (बालिग न हों) उनके अंश को तथा सम्पत्ति के उस अंश पर होने वाले लाभ एवं वृद्धि को अत्यन्त सावधानी से उस समय तक सुरक्षित रखे जब तक वे समझदार या बालिग न हो जायें ॥ ३७ ॥
अप्राप्तव्यवहाराश्च बाला आ षोडशाद्वर्षात् । तथा हि— गर्भस्थैस्सदृशो ज्ञेय आऽष्टमाद्वत्सराच्छिशुः । बाल आ षोडशाज्ज्ञेयः पौगण्डश्चेति शब्द्यते ॥
तेषां पुत्राणां मध्ये बालानामंशान् सोपचयान् गुप्तान्निदध्युः । उपचयो नैयायिकी वृद्धिः । तथा बालानां द्रव्यं वर्धयेत् । उपचीयमानांश्चांशान्वा सुगुप्तान् रक्षितान् अव्यवहारप्रापणान्निदध्युः ॥ ३७ ॥
अतीतव्यवहारान् ग्रासाच्छादनैर्बिभृयुः ॥ अन्धजडक्लीबव्यसनि- व्याधितादींश्च ॥ अकर्मिणः ॥ पतिततज्जातवर्जम् ॥ ३८–४१ ॥
अनु०—जो किसी प्रकार का ( सम्पत्ति विषयक ) व्यवहार करने में असमर्थ हों उन्हें भोजन, वस्त्र आदि देकर उनका भरण-पोषण करे, यथा—अन्धे, जड,
२, cf. व. ध. १७. ९.