भारतकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

तत्र सन्देहः किं प्रोक्षणं प्रतीष्टकं कर्त्तव्यम् ? उत सकृदेवेति । तदर्थं किमग्निरवयवीष्टकाव्यतिरिक्तो नास्तीति उतास्तीति । यदि नास्ति तदा इष्टकानामेव संभृतानामग्निशब्दवाच्यत्वात् तासाञ्च संस्कार्याणां बहुत्वात् प्रतिप्रधानं गुणावृत्ति१रिति प्रतीष्टकं प्रोक्षणं कर्त्तव्यम् । यद्यन्योऽवयव्यस्ति तदा तस्यैकत्वात् सकृदेव प्रोक्षणं कर्त्तव्यमिति । तत्र देवदत्तघटादौ एकावयवाकर्षणे अवयवान्तराकर्षणदर्शनात् अवयव- सन्धिदर्शनाच्चास्त्यन्योऽवयवी । इह तु एकेष्टकाकर्षणे अन्यङ्गा- नाकर्षणात् सन्धिदर्शनाच्च नान्योऽवयवी । यद्यपि पुरीषच्छन्नतया न सन्धिदर्शनं तथाप्यनुमानेनावगम्यते सन्धिरिति नान्योऽवयवी । किञ्च पक्वैरामैश्चावयवैरन्योऽवयव्यारभ्यत इति काश्यपीयैर्दर्शित- त्वाच्च । अतो नान्योऽवयवीति प्रतीष्टकं प्रोक्षणमिति प्राप्तेऽभिधीयते देशकालभेदेऽप्यबाधिता एकत्वबुद्धिरेव हि अवयविसद्भावे प्रमाणम् । सा चेहाप्यस्तीत्यस्त्यवयवी । भागान्तरावकर्षणं वृक्षादावनैकान्तिकं, सन्धिदर्शनञ्च पटादावनैकान्तिकमिति प्रमाणबलात् पक्वामैरप्यवयवैर- वयव्यारभ्यत इति तस्यैकत्वात् सकृदेव प्रोक्षणमिति । नन्वग्निसंस्कारचयनमेवाप्रसिद्धम्, अस्त्येव चयनविधिः । “य एवं विद्वानग्निं चिनुत” इति । ननु तत्र अग्निशब्दो यागनामधेयम् । न च प्रत्यक्षयजेरश्रवणाद् यागनामत्वं नास्तीति वाच्यम् । प्रत्यक्षयज्यश्रवणेऽपि “अग्निं कुर्या- दिति तावत्संज्ञयैव कर्मान्तरेऽवधारिते “अथातोऽग्निमग्निष्टोमेनानु- यजन्ति यदग्निमनुयजन्ति तदग्निष्टोमेनेति” संस्थाविधिपरैर्वाक्यैर्याज- नाग्न्यनुवादात्तावदग्निशब्दो यागवचन इति गम्यते । अस्य वाक्यस्य संस्थाविधायकत्वाभावेऽपि “अग्निमनु अग्निष्टोमेन यजन्ती” त्युक्त्याग्ने-


१. मीमांसान्यायः ।

र्यागत्वमवगम्यते । यथा देवदत्तमनुगच्छति यज्ञदत्त इत्युक्ते देवदत्तोऽपि गच्छतीति गम्यते । एवमिहाप्यनुयाजनवशादेवाग्नेर्यागत्वमवगम्यत इति । चयनम् अप्रमाणकमिति चेत्, अत्राभिधीयते—अग्निशब्दस्य वह्नौ रूढत्वाद् यागवाचित्वं नोपपद्यते । न चात्र "चित्रया यजेत पशुकामः" "आज्यैः स्तुवत" इत्यादाविव वाक्यभेदः । नापि "समिधो यजती"त्यादा- विव तत्प्रख्यत्वम् । न वा "श्येनेनाभिचरन् यजेते"त्यादाविव तद्व्यप- देशोऽस्ति येन नामत्वं स्यात् । तस्माज्ज्वलनरूपस्याग्नेरेव संस्कारो विधीयते । तस्य च क्रतुसम्बन्धबोधकानि "अथातोऽग्नि"मित्यादीनि । न चाग्निष्टोमादीनाम् अग्निपश्चाद्भावमात्रप्रतीतेः कथं ततः संस्कार- स्य क्रतुसम्बन्धसिद्धिरिति वाच्यम् ? प्रकरणात्, अग्निशब्दस्य चयन- संस्कारविशिष्टाग्निपरतया तत्संबन्धे बोध्यमाने विशेष्यभूताग्निसम्बन्धस्य यदाहवनीयवाक्येनैव सिद्धतया लोहितोष्णीषादिवद् विशेषणीभूतसंस्कार- सम्बन्धविधिपरत्वस्यावश्यं भावात् । अत एवाग्निशब्दस्य द्रव्य- वचनतयाऽनुशब्दस्य क्रियापश्चाद्भावप्रतिपादकस्यानुपपत्तिरित्यपास्तम् । उक्तरीत्याग्निशब्दस्य चयनपरत्वाग्निपरत्वे विशेषणीभूतचयनक्रियापेक्षया पश्चाद्भावप्रतिपादकत्वोपपत्तेः । तदयमत्र "अथातोऽग्नि" मित्यादि- वाक्यस्य निर्गलितोऽर्थः । चयननिर्वृत्तस्थण्डिलस्थापनसंस्कृतेऽग्नावग्निष्टोमा- दिभिर्यजेतेति । न च तुल्यरूपाणामेव पौर्वापर्यंनियमः । पाकमनुभुङ्क्त इति विजा- तीयानामपि तद्दर्शनात् । तस्मादस्त्यग्नेश्चयनलक्षणः संस्कारः क्रत्वङ्गभूत इति तन्निरूपणप्रतिज्ञोपपन्नैवेति । नन्वेवमपीयं प्रतिज्ञाऽनुपपन्ना । यतो "अथेमे अग्निचया" इति अग्निचयनप्रदर्शनं प्रतिज्ञाय चतुरस्रपरिमण्डलादिकरणमादावुच्यते । न च चतुरस्रादीनामग्निचयनोपयोगितया नासंगतिरिति वाच्यम् । तस्य वेद्यादिसाधारणत्वेन वेद्या अपि प्रतिपादनस्यादौ प्रतिज्ञाप्रसङ्गात् । अग्निचयनस्य वेद्युत्तरमेव प्रतिपादनेन तत्प्रतिज्ञायाश्चैवोचितत्वा-

६ शुल्वसूत्रम् [ प्रथमो- दिति चेन्न । इहाग्निप्रतिपादनस्यैव भूयस्तया प्राधान्यात्तदानुषङ्गिका- नामन्येषामपि पूर्वं प्रतिपादनेऽपि न तेषामिह प्रतिज्ञा । यथा जैमिनिना कृत्स्नवेदस्य धर्मे प्रामाण्येऽपि चोदनायाः प्राधान्यात् "चोदनालक्षणोऽर्थो धर्म" इति निर्देशः कृतः । नन्वर्थवादादीनां सिद्धबोधकत्वेनाप्रामाण्यादेव चोदनाया एव प्रामाण्यमुक्तम्, न तु प्राधान्यादिति चेन्न । “स्वाध्यायोऽध्येतव्य” इत्य- ध्ययनविधेः कृत्स्नस्वाध्यायाध्ययनविधायिनः प्रयोजनवदर्थपरतामन्त- रेणानुपपत्तेः । अर्थवादादीनामपि विधिवाक्यैकवाक्यतया धर्मप्रमितिजन- कत्वेन प्रामाण्यस्यार्थवादाधिकरणे व्युत्पादितत्वात् । यथा वा प्रमाणादि- षोडशपदार्थप्रतिपादकस्यापि शास्त्रस्यानुमानप्रधानत्वाद्वनुमानवाचकन्यायप- देनैव न्यायशास्त्रमिति व्यपदेशः । यथा लोके मल्लप्रचुरे ग्रामे मल्लग्राम इति व्यवहारः ॥ १ ॥ अथ शुल्बदीपिका बौधायनीयशुल्वस्य प्रव्याख्याः प्रेक्ष्य यज्वना । टीका भट्टात्मजेनेयं क्रियते शुल्बदीपिका ॥ अथेति । अथ गृह्यानन्तरम् । अग्निचयग्रहणं वेद्या अप्युपलक्षणार्थम् ॥ १ ॥ तेषां भूमेः परिमाणविहारान् व्याख्यास्यामः ॥ २ ॥ तेषामिति । तेषामग्नीनाम् । भूमेः क्षेत्रस्य । परिमाणविहारान् परिमाणानि विहाराश्च परिमाणविहारा इति इतरेतरयोगे द्वन्द्वः । परि- माणशब्देन अङ्गुल-क्षुद्रपद-प्रादेशादीनां ग्रहणम् । विहारशब्देन भूमे- श्चतुरस्रादिरूपेण करणस्य ग्रहणम् ॥ २ ॥ तेषामिति । परिमाणविशेषान् विहारान् । विहरणं नाम चतुरस्रादिरूपेण भूमेः करणम् ॥ २ ॥ अथाङ्गुलप्रमाणं चतुर्दशाणवः ॥ ३ ॥ अङ्गुलस्य सर्वशेषित्वादौ तद्दर्शयति अथाङ्गुलेति । अणवो धान्य- विशेषा अन्योन्यदीर्घाकारसंश्लिष्टाश्चतुर्दश अङ्गुलप्रमाणं अङ्गुल्याख्यं प्रमाणं वेदितव्यम् ॥ ३ ॥

ऽध्यायः ] बौधायनीयं ७ अथेति । सर्वप्रमाणशेषत्वादङ्गुलप्रमाणमुच्यत इति शेषः । चतुर्दशेति । अणुर्धान्य- विशेषः । परस्परसंश्लिष्टाश्चतुर्दशाणवो यावत्प्रमाणं तावदङ्गुलप्रमाणमित्यर्थः ॥ ३ ॥ चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम् ॥ ४ ॥ चतुस्त्रिंशदिति । कोशे यथावत् स्थितास्तथा संश्लिष्टा ( चतु- स्त्रिशत् तिलाः ) अङ्गुलप्रमाणमित्यपरं मतमित्यर्थः ॥ ४ ॥ चतुस्त्रिंशदिति । कोशसंस्थानवत् पृथुप्रदेशेन संश्लिष्टाश्चतुस्त्रिंशत्तिला अङ्गुल- प्रमाणमित्यपरं मतम् ॥ ४ ॥ दशाङ्गुलं क्षुद्रपदम् ॥ ५ ॥ दशाङ्गुलमिति । दशानामङ्गुलानां समाहारो दशाङ्गुलम् । पात्रादि- त्वान्न ङीप् । ( दशाङ्गुलं ? ) “द्वादशप्रत्यञ्चि क्षुद्रपदानि ( बौ. श्रौ सू. ६।२२ ) इत्यादिषु ( दशाङ्गुलं ) क्षुद्रपदमिति वेदितव्यमित्यर्थः ॥ ५ ॥ दशेति । द्वादश प्रत्यञ्चि क्षुद्रपदानि ( बौ० श्रौ० सू० ६।२२ ) इत्येवमादिषु दशाङ्गुलं क्षुद्रपदं विद्यात् ॥ ५ ॥ द्वादशः प्रादेशः ॥ ६ ॥ द्वादश इति । “तमवस्ताद् प्रादेशेन वर्धयेत्” ( बौ. शु. सू. ३।१० ) इत्यादिषु द्वादशाङ्गुलम् इति पूर्ववत्समाहारः । ( तत् ? ) प्रादेशमिति वेदितव्यमित्यर्थः ॥ ६ ॥ द्वादशेति । तमवस्तात् प्रादेशेन वर्धयेत् ( बौ० शु० सू० ३।१० ।) इत्येव- मादिषु द्वादशाङ्गुलः प्रादेश इति विद्यात् ॥ ६ ॥ पृथोत्तरयुगे त्र

८ शुल्बसूत्रम् [ प्रथमो- पदं पञ्चदश ॥ ८ ॥ पदमिति । “त्रिंशत्पदानि पश्चात्” (बौ. शु. सू. १।६६) इत्यादिषु पञ्चदशाङ्गुलानि पदमिति वेदितव्यम् ॥ ८ ॥ पदमिति । त्रिंशन् पदानि (बौ० शु० सू० १।६९) इत्यादिषु पञ्चदशाङ्गुल- प्रमाणं पदं विद्यात् । क्षुद्रपदादीनां पदान्तानां क्रमविध्युपादानात् परस्पर- संबन्धः ॥ ८ ॥ अष्टाशीतिशतमीषा ॥ ९ ॥ अष्टाशीतीति । “अन्तरेणेपे तिष्ठन् पलाशशाखां धारयन्” (बौ. श्रौ. सू. ३०।४) इत्यादिषु अष्टाशीत्यधिकं शतमङ्गुलानि ईषेति वेदितव्यम् ॥ ६ ॥ अष्टाशीतीति । रथसंमितेत्येकेषाम् (बौ० शु० सू० १।६१ सू०) इत्यादिषु ईषाप्रमाणमष्टाशीतिशताङ्गुलप्रमाणं विद्यात् ॥ ९ ॥ चतुःशतमक्षः ॥ १० ॥ चतुःशतमिति । “रथाक्षान्तराला यूपावटा भवन्ति” (बौ. शु. सू. १।७६) इत्यादिषु चतुरधिकशताङ्गुलानि (अक्ष इति वेदितव्यम् ?) ॥१०॥ चतुरिति । तत्रैव रथाक्षान्तराला यूपावटा भवन्ति (बौ० शु० सू० १।७९) इत्येवमादिषु चतुरधिकशताङ्गुलमक्षप्रमाणं विद्यात् ॥ १० ॥ षडशीतिर्युगम् ॥ ११ ॥ षडशीतीति । “विपथयुगेन पुरस्तात्” (बौ. श्रौ. सू. २०।२५) इत्यादिषु षडशीत्यङ्गुलं युगमिति विद्यात् ॥ ११ ॥ षडेति । तत्रैव षडधिकाशीतिप्रमाणं युगं विद्यात् । ईषादीनां रथावयवापेक्षया संगतिः ॥ ११ ॥ द्वात्रिंशज्जानुः ॥ १२ ॥ द्वात्रिंशेति । “ऊर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत्” (बौ. शु. सू. २।६) इत्यादिषु द्वात्रिंशदङ्गुलानि जानुरिति विद्यात् ॥ १२ ॥ द्वात्रिंशेति । ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य (बौ० शु० सू० २।६) इत्यादिषु द्वात्रिंशदङ्गुलप्रमाणं जानोः प्रमाणं भवति ॥ १२ ॥

प्रथमोध्यायः ] बौधायनीयं ९ षट्त्रिंशच्छम्याबाहू ॥ १३ ॥ षट्त्रिंशादिति । “शम्यामात्री चतुःस्रक्तिर्भवति” (बौ. शु. सू. ३।३) प्राञ्चं बाहुं मित्वा लोके न्यस्य गत्तं खानति” (बौ. श्रौ. सू. १) इत्यादिषु । शम्या च बाहुरिति इतरेतरयोगे द्वन्द्वः। षट्त्रिंशदङ्गुलानि शम्याबाहू वेदितव्याविति ॥ १३ ॥ षट्त्रिंशेति । “शम्यामात्री चतुःस्रक्तिर्भवति” (बौ० शु० सू०) “तस्माद् बाहुमात्राः” खायन्ते (बौ० श्रौ० सू० ?) इत्यादिषु षट्त्रिंशदङ्गुलप्रमाणे शम्याबाहू विद्यात् ॥ १३ ॥ द्विपदः प्रक्रमः ॥ १४ ॥ द्विपद इति । “प्राग्वंशः षोडशप्रक्रमायामः” (बौ. शु. सू. १।६८) इत्यादिषु । द्वे पदे यस्य सः द्विपदः। द्वे पदे प्रक्रम इति वेदितव्य- मित्यर्थः ॥ १४ ॥ द्विपद इति । प्राग्वंशः षोडशप्रक्रमायामः (बौ० शु० सू० १।६८) इत्यादिषु प्रक्रमप्रमाणं द्विपदं विद्यात् ॥ १४ ॥ द्वौ प्रादेशावरत्निः ॥ १५ ॥ द्वौ प्रादेशाविति । “द्वावित्यरत्निना पक्षौ द्राघीयांसौ (बौ. श्रौ. सू. १०।१६) इत्यादिषु द्वौ प्रादेशावरत्निरिति वेदितव्यम् ॥ १५ ॥ द्वाविति । उदक् सप्तविंशत्यरत्नयः (बौ० शु० सू० १।१३०) इत्यादिषु द्वौ प्रादेशावरत्निरिति विद्यात् । एतेषामपि परस्परसम्बन्धोऽन्वेषणीयः ॥ १५ ॥ अथाप्युदाहरन्ति—पदे युगे प्रक्रमेऽरत्नावियति शम्यायाञ्च मानार्थेषु याथाकामीति ॥ १६ ॥ अथाप्युदाहरन्तीति । एके आचार्याः मानार्थेषु चोदितेषु पदा- दिषु याथाकामीति । प्रक्रमचोदनायां पदं, शम्याचोदनायामरत्नमित्यादि, यथेच्छं गृह्णीयादिति । सर्वप्रमाणेषु विकल्पो द्रष्टव्य इति । यद्वा पदादिप्रमाणे बहुविधानि शास्त्राणि दृश्यन्ते । द्विपदः प्रक्रम .इति अस्मदाचार्याः । द्विपदस्त्रिपदो वा प्रक्रम इत्यापस्तम्बाचार्याः । २

तत्र "प्राग्वंशः षोडशप्रक्रमायाम" (बौ. शु. सू.) इत्यत्र द्विपदस्त्रिपदो वा प्रक्रमो ग्राह्यः । एवं पदादिषु । तथा च प्रक्रमादिशब्दार्थानामेव मिथो विकल्प इत्यर्थः ॥ १६ ॥ अथेति । पक्षान्तरमिदम् । अत्र कात्यायनः "द्वादशाङ्गुलं पदं चत्वारोऽष्टकाः शम्येति" च (का० शु०)। आपस्तम्बः "प्रक्रमो द्विपदस्त्रिपदो वेति" (आप० शु०) । पदादिषु मानार्थेषु चोदितेषु लोकसिद्धैः शाखान्तरोक्तैश्च विकल्पन्ते । तत्रापस्तम्बः "यजमानस्याध्वर्योर्वेष हि चेष्टानां कर्त्ता भवति" इति ॥ १६ ॥ पञ्चारत्निः पुरुषः ॥ १७ ॥ पञ्चारत्निः पुरुष इति । पञ्च अरत्नयो यस्य सः पञ्चारत्निः पुरुष इत्यर्थः । "पुरुषमात्रेण वेणुना विमिमीत" (बौ. श्रौ. सू. १०।१९ ) इत्यादिषु पञ्चारत्निः प्रमाणं पुरुष इति वेदितव्यम् ॥ १७ ॥ पञ्चेति । "पुरुषमात्रेण विमिमीते" इत्यादिषु पञ्चारत्निं पुरुषं विद्यात् ॥ १७ ॥ व्यामश्च ॥ १८ ॥ व्यामेति । "व्याममात्रौ पक्षौ" (बौ. शु. सू. २।२०) इत्यादिषु पञ्चारत्निप्रमाणो व्याम इति वेदितव्यम् ॥ १८ ॥ व्यामेति । व्याममात्रौ पक्षौ (बौ० शु० सू० २।२०) इत्यादिषु व्यामश्च पञ्चारत्निः ॥ १८ ॥ चतुररत्निर्व्यायामः ॥ १९ ॥ चतुररत्निरिति । चत्वारोऽरत्नयो यस्य सः । "व्यायाममात्री भवती ति गार्हपत्यचितेर्विज्ञायते" (बौ. शु. सू. २।६०) इत्यादिषु चतुररत्नि- प्रमाणो व्यायाम इति वेदितव्यम् ॥ १९ ॥ चतुरिति । "व्यायाममात्री भवतीति गार्हपत्यचितेः" (बौ० शु० सू० २।६०) इत्यादिषु चतुररत्निव्यायामः ॥ १९ ॥ [ इति रेखामानपरिभाषा ] चतुरश्रं चिकीर्षन् यावच्चिकीर्षेत् तावतीं रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति ॥ २० ॥ अग्न्याहवनीयादिकरणोपयुक्तत्वेन प्रथमं चतुरस्रकरणप्रकारमाह—

ऽध्यायः ] बौधायनीयं १२ चतुरश्रमिति । चतुरस्रं चिकीर्षन् यावच्चिकीर्षेत् यावत् प्रमाणं चतुरस्रं कर्तुमिच्छेत् तावतीं रज्जुमभिलषितसमचतुरस्रस्य पार्श्वकरणा समामेकां रज्जुं संपाद्य तामुभयतःपाशां शङ्कादिप्रवेशानुकूल- ग्रन्थिद्वययुक्तां कृत्वा, ग्रन्थ्योरन्तरालम् उक्तप्रमाणं यथा भवति तथा कृत्वेत्यर्थः । तस्या रज्जोर्मध्ये लक्षणं चिह्नं करोतीत्यर्थः ॥ २० ॥ चतुरश्रमिति । प्राचीज्ञानोपायाः कर्मान्त उक्ताः । “कृत्तिकाः खल्विमाः प्राचीं दिशं न परिजहति । तासां संदर्शनेन मापयेदित्येतदेकं, श्रोणासंदर्शनेन मापयेदि- त्येतदेकं, चित्रास्वात्योरन्तरालेन मापयेदित्येतदपरमिति ( बौ० श्रौ० सू० कर्मान्त० २५।५ पृ० २३३ पं० ३) । एतानि लक्षणानि देशविशेषेषु व्यवतिष्ठन्ते । सर्वदेश- साधारणं कात्यायन आह—“समे शङ्कुं निखाय शङ्कुसम्मितया रज्ज्वा मण्डलं परिलिख्य यत्र लेखयोः शङ्कग्रच्छाया निपतति सा प्राचीति” । लेखयोरिति मण्डललेखयोरित्यर्थः । षडङ्गुलपरीणाहं द्वादशाङ्गुलमुच्छ्रितम् । जठरं चाव्रणं चैव शङ्कुं कुर्याद् विशेषतः ॥ एकतः क्षुण्णहृत्सुस्तीक्ष्णः खादिरः सम आयतः । शङ्कुः समशिराः कार्यस्तस्यार्धं गमयेन्महीम् ॥ इति शङ्कुलक्षणम् ॥ २० ॥ लेखामालिख्य तस्या मध्ये शङ्कुं निहन्यात् । तस्मिन् पाशौ प्रतिमुच्य लक्षणेन मण्डलं परिलिखेत् । विष्कम्भान्तयोः शङ्कू निहन्यात् ॥ २१ ॥ लेखामिति । तां रज्जुं प्राक् प्रत्यक् दीर्घां निधाय अनुरज्जु रेखा- मालिखेत् । तस्या मध्यवित्तप्रदेशे एकं शङ्कुं निहन्यात् । तस्मिन् शङ्कौ पाशौ प्रतिमुच्य ग्रन्थ्यन्तरालद्वयं शङ्कौ प्रवेश्य लक्षणेन चिह्नेन मण्डलं परिलिखेत् । विष्कम्भान्तयोः शङ्कू निहन्यात् दीर्घरेखा-मण्डलरेखयोः सन्ध्योः शङ्कुद्वयं निहन्यात् ॥ २१ ॥ विष्कम्भेति । पूर्वापरीभूता लेखा विष्कम्भः । तस्या मण्डलसंगमो विष्क- म्भान्तः ॥ २१ ॥

१२ शुल्बसूत्रम् [ प्रथमो- पूर्वस्मिन् पाशं प्रतिमुच्य पाशेन मण्डलं परिलिखेदेवमपर- स्मिन् । ते यत्र समेयातां तेन द्वितीयं विष्कम्भमायच्छेत् । विष्कम्भान्तयोः शङ्कू निहन्यात् ॥ २२ ॥ पूर्वस्मिन्निति । पूर्वस्मिन् प्राच्ये शङ्कौ पाशमेकं प्रतिमुच्य पाशेन मण्डलं परिलिखेत् । एवमिति । एवमपरस्मिन् शङ्कावपि मण्डलं परिलिखेत् । ते मण्डले यत्र समेयातां संयुज्येते तेन सन्धिना द्वितीयं विष्कम्भमायच्छेत् कुर्यात् । विष्कम्भान्तयोरिति । विष्कम्भान्तयोर्दक्षिणोत्तरपार्श्वयोः शङ्कुद्वयं निहन्यात् । आहत्य पञ्च शङ्कवो निखाताः ॥ २२ ॥ अथ दक्षिणोत्तरदिग्ज्ञानार्थमाह । पूर्वस्मिन्निति । पाशो रज्ज्यन्तः प्रति- मोचनसमर्थः । तेन द्वितीयमिति । मत्स्यमुखपुच्छानुसारेण लेखां कुर्यादित्यर्थः । विष्कम्भान्तयोरिति । दक्षिणोत्तरलेखायाः प्रथममण्डलस्य च संगमो विष्क- म्भान्तः ॥ २२ ॥ पूर्वस्मिन् पाशौ प्रतिमुच्य लक्षणेन मण्डलं परिलिखेदेवं दक्षिणत एवं पश्चादेवमुत्तरतस्तेषां येऽन्त्याः संसर्गास्तच्चतुरश्रं संपद्यते ॥ २३ ॥ पूर्वस्मिन्निति । तेषु पूर्वस्मिन् शङ्कौ पाशौ प्रतिमुच्य लक्षणेन चिह्नेन मण्डलं परिलिखेत् । एवमिति । एवं दक्षिणे प्रतीच्ये उत्तरे शङ्कौ पाशं प्रतिमुच्येत् । चिह्नेन मण्डलानि परिलिखेत् । तेषां मण्डलानां येऽन्त्याः संसर्गाः अवान्तरदिक्षु संयोगाः तेष्वपि शङ्कून् निहन्यात् । तेषामष्टानां शङ्कूनां मध्यप्रदेशश्चतुरश्रक्षेत्रं सम्पद्यत इत्यर्थः ॥ २३ ॥ अथ कोणदिक्परिज्ञानोपायार्थमाह । पूर्वस्मिन्निति । इत उत्तरं मध्यममण्ड- लचिह्नानि लक्षीकृत्योच्यते । एवमिति । तेषामिति । अन्त्या इति अवान्तरदिक्षु ॥२३॥ अथापरम्—प्रमाणाद् द्विगुणां रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति स प्राच्यर्थः ॥ २४ ॥ समचतुरश्रकरणे प्रकारान्तरमाह—अथापरमिति । करणमिति

ऽध्यायः ] बौधायनीयं १३ शेषः । प्रमाणादिति । अभिमतचतुरश्रस्य पार्श्वमानीप्रमाणकात् द्वाद- शाङ्गुलादिकात् द्विगुणांश्चतुर्विंशत्यङ्गुलायतां रज्जुमुभयतःपाशां कृत्वा द्वादशाङ्गुले लक्षणं चिह्नं करोति । स इति । स रज्जुखण्डः प्राच्यर्थः प्राक्पार्श्वमानी परिज्ञानार्थः ॥ २४ ॥ उपायान्तरमाह । अथापरमिति । करणमिति शेषः । प्रमाणादिति । द्वादशाङ्गुल- प्रमाणां द्विगुणां चतुर्विंशत्यङ्गुलप्रमाणां रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति । प्राच्यर्थ इति । प्राच्यर्थः पार्श्वमानीपरिज्ञानार्थः खण्डः ॥ २४ ॥ अपरस्मिन्नर्धे चतुर्भागोने लक्षणं करोति तन्न्यञ्छनम् ॥ २५ ॥ अपरस्मिन्निति । पूर्वकृतलक्षणसमीपे चतुर्भागेन अङ्गुलेन ऊने लक्षणं करोति । आदित आरभ्य पञ्चदशाङ्गुले चिह्नं करोतीति यावत् । तन्न्यञ्छनमिति । तिर्यक्-दीर्घपरिज्ञानोपायः ॥ २५ ॥ अपरस्मिन्निति । उपरिक्षिसद्वादशाङ्गुले अर्धचतुर्भागोने त्र्यङ्गुलेऽतीते आदित आरभ्य पञ्चदशाङ्गुल इति यावत् । न्यञ्छनमिति । अपसारकम् ॥ २५ ॥ अर्धेऽसार्थम् ॥ २६ ॥ अर्धेऽसार्थमिति । अपरस्य द्वादशाङ्गुलस्यार्धे षडङ्गुले आदित आरभ्याष्टादशाङ्गुल इति यावत् । अंसार्थं चिह्नं करोति । अंसग्रहणं श्रोण्योरप्युपलक्षणम् ॥ २६ ॥ अर्धइति । आदितोऽष्टादशाङ्गुलेऽसार्थम् ॥ २६ ॥ पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य न्यञ्छनेन दक्षिणापायम्यार्धेन श्रोण्यंसांन्निहरेत् ॥ २७ ॥ एवं चिह्नकरणमप्युक्त्वा विहरणप्रकारमाह—पृष्ठ्यान्तयोरिति । पृष्ठ्यान्तयोः अभिमतचतुरश्रमध्यप्रदेशपूर्वापरान्तयोः शङ्कूं निहत्य तत्र पाशौ प्रतिमुच्य न्यञ्छनेन दक्षिणापायम्य न्यञ्छनं गृहीत्वा दक्षिणतो विकृष्य अर्धेन श्रोण्यंसांन्निहरेत् । षडङ्गुलेन कृतेन चिह्नेन श्रोण्यौ च

१४ शुल्वसूत्रम् [ प्रथमो- अंसौ च कुर्यात् । यथा दक्षिणश्रोण्यंसौ कुर्यात् एवमुत्तरापायमनेन उत्तरौ श्रौण्यंसौ कुर्यात् । तथा च श्रोणीद्वयमंसद्वयं च कृत्वा समचतुरस्रं कुर्यादिति समचतुरस्रकरणे प्रकारद्वयम् ॥ २७ ॥ पृष्ठ्येति । अभीष्टक्षेत्रायामसंमिता सर्वमानेपृष्ठयतःपाशा प्राची । पूर्वापरयोः शङ्कोर्निहिता भवति । सैव मध्ये भवतीति पृष्ठ्या । संप्रसार्य षडङ्गुलेन श्रोण्यंसान्नि- र्हरेत् कुर्यात् । एतत्करणद्वयं समचतुरस्रविषयम् ॥ २७ ॥ [ इति समचतुरश्रकरणोपायः । ] दीर्घचतुरश्रं चिकीर्षन् यावच्चिकीर्षेत् तावत्यां भूमौ द्वौ शङ्कू निहन्यात् । द्वौ द्वावेकैकमभितः समौ ॥ २८ ॥ दीर्घचतुरश्रमिति । अभिलषितदीर्घचतुरश्रायां भूम्यां प्राक्पश्चि- मान्तयोः शङ्कुद्वयं निहन्यात् । द्वौ द्वाविति । प्राङ् निखातस्य शङ्कु- द्वयस्य प्राग्भागपश्चिमभागेषु समान्तरालौ द्वौ द्वौ । एकैकमभित इति । प्रत्येकैकस्य शङ्कोः पार्श्वद्वये शङ्कुद्वयं निहन्यात् । "अभितः परितः समया निकषा हा प्रति योगेष्वि"ति षष्ठ्यर्थे द्वितीया । आहत्य पृष्ठ्यान्तयोः प्रत्येकं शङ्कुत्रयं निखातं भवति ॥ २८ ॥ भूमाविति । अभीष्टक्षेत्रायामपृष्ठ्यान्तयोः । अभित इति । अभितः पश्चात् पुरस्ताच्च समान्तरालौ ॥ २८ ॥ यावती तिर्यङ्‌मानी तावतीं रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति । पूर्वेषामन्त्ययोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे लक्षणं करोति ॥ २९ ॥ यावतीति । अभिलषितदीर्घचतुरश्रस्य दक्षिणोत्तरयोः पार्श्वयो- र्मानहेतुरज्जुर्यावती द्वादशाङ्गुलाद्यात्मिका तावतीमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति । पूर्वेषामिति । पूर्वेषां प्राच्यानां शङ्कूनां मध्ये अन्त्ययोः प्राक्पश्चात् स्थितयोः शङ्कोः पाशौ प्रतिमुच्य

ऽध्यायः ] बौधायनीयं १५ लक्षणेन दक्षिणापायम्य लक्षणं गृहीत्वा दक्षिणभागे विकृष्य लक्षणे लक्षण- सङ्गतप्रदेशे लक्षणं करोति चिह्नं करोति ॥ २९ ॥ पूर्वैषामिति । पृष्ठ्यान्त्ययोस्त्रयस्त्रयः शङ्कवः । अन्त्ययोः त्रयाणां पाश्चात्यपौ- रस्त्ययोः ॥ २९ ॥ मध्यमे पाशौ प्रतिमुच्य लक्षणस्योपरिष्टाद् दक्षिणापायम्य लक्षणे शङ्कुं निहन्यात् । सोऽंसः । एतेनोत्तरोऽंसो व्याख्यात- स्तथा श्रोणी ॥ ३० ॥ मध्यम इति । अथ तेषामेव मध्यमे शङ्कौ पाशौ प्रतिमुच्य लक्षणस्य पूर्वकृतस्योपरिष्टाद् दक्षिणापायम्य लक्षणसङ्गतप्रदेशे शङ्कुं निहन्यात् । सोऽंस इति । एवं चिह्नतो दक्षिणोंऽसो भवति । एतेनेति । एतेनोत्तरा- पायम्य उत्तरमंसं कुर्यात् । तथेति । तथा श्रोणी पाश्चात्येषु उक्तरीत्या श्रोणीद्वयं कुर्यादित्यर्थः ॥ ३० ॥ मध्यम इति । उपरिष्टात् समीपेन ॥ ३० ॥ [ इति दीर्घचतुरश्रकरणोपायः । ] यत्र पुरस्तादंहीयसीं मिनुयात् तत्र तदर्धे लक्षणं करोति ॥ ३१ ॥ एकतोऽणिमद्दीर्घचतुरश्रप्रकारमाह—यत्रेति । पुरस्तात् प्राग्भागे अंहीयसीं अल्पीयसीमित्यतः पश्चाद् भागे बृहतीं भूमिं मिनुयात् । तत्र तदर्धे अणिमत्प्रदेशतिर्यङ्मान्या मध्ये लक्षणं करोति । शेषं पूर्ववत् । तथाच अंसार्थमेका रज्जुः, श्रोण्यर्थमपरा रज्जुरिति रज्जुद्वयं भवति ॥ ३१ ॥ यत्रेति । यत्र अंहीयसीमेकतोऽणिमत् चिकीर्षति । तदर्धे चिकीर्षिताणिमत् तिर्यङ्मान्यर्धे ॥ ३१ ॥ [ इति एकतोऽणिमद्दीर्घचतुरश्रकरणोपायः । ] अथापरम्—प्रमाणादध्यर्धां रज्जुमुभयतःपाशां कृत्वा- परस्मिंस्तृतीये षड्भागोने लक्षणं करोति तन्न्यञ्च्छनमिष्टें- ऽसार्थम् ॥ ३२ ॥

१६ शुल्बसूत्रम् [ प्रथमो- दीर्घचतुरस्रकरणे एकतोऽणिमद्दीर्घचतुरस्रकरणे च प्रकारान्तरमाह— अथापरमिति । प्रमाणादिति । प्रमाणादभिलषितात् अपरस्मिन् अधिकतया संयोजिते तृतीयांशे षष्ठेन एकाङ्गुलेन ऊने आदित आरभ्य त्रयोदशाङ्गुल इति यावत् लक्षणं करोति । तन्न्यञ्छनमिति । अपसारकम् । इष्ट इति । इष्टे अभिलषित- प्रदेशे । अंसार्थमिति उपलक्षणम् । स श्रोण्यर्थे अपि ॥ ३२ ॥ प्रमाणादिति । द्वादशाङ्गुले षडङ्गुलं प्रक्षिप्य पञ्चाङ्गुले लक्षणम् । न्यञ्छनमिति । अपसारकम् ॥ ३२ ॥ पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य न्यञ्छनेन दक्षिणापायम्ये- ष्टेन श्रोण्यंसान्निहरेत् ॥ ३३ ॥ पृष्ठ्यान्तयोरिति । निर्हरेदिति । उत्पादयेत् । अत्र च द्वादशा-

ऽध्यायः ] बौधायनीयं १७ प्रमाणं तिर्यग् द्विकरण्यायामस्तस्याक्षणयारज्जुस्त्रिकरणी ॥३५॥ अथ त्रिकरणीमाह—प्रमाणमिति । प्रमाणमभिमतद्वादशाङ्गुलं तिर्यङ्‌मानीं कृत्वा पूर्वोक्तां द्विकरणीं रज्जुं पार्श्वमानीं कृत्वा यद्दीर्घ- चतुरस्रं भवति तस्याक्षणया रज्जुः पार्श्वमानी तिर्यङ्‌मानी च यदि भवेत् सा त्रिकरणी । पूर्वोक्तप्रमाणक्षेत्राद् द्वादशाङ्गुलात् त्रिगुण- समचतुरस्रं क्षेत्रं करोति ॥ ३५ ॥ अथ त्रिकरणीमाह—प्रमाणमिति । प्रमाणं द्वादशाङ्गुलं तिर्यक् । तस्य द्विकरणी तिलोनसप्तदशाङ्गुला पार्श्वमानी । एवं भूतस्य दीर्घचतुरस्रस्याक्षणयारज्जु विंशति- रङ्गुलयः सप्तविंशतिः तिलाश्च । सा त्रिकरणी प्रमाणविमितक्षेत्रत्रिगुणं क्षेत्रं करोति ॥ ३५ ॥ तृतीयकरण्येतेन व्याख्याता । नवमस्तु भूमेर्भागो भवतीति ॥३६॥ प्रमाणक्षेत्रस्य गुणवृद्धिमुक्त्वा उक्तन्यायेन ह्रासेन तृतीयांशकरणमाह— तृतीयेति । एतेन न्यायेन तृतीयकरणी व्याख्याता । प्रमाणक्षेत्रं नवधा विभज्य एकस्य भागस्य या करणी सा तिर्यङ्‌मानी, तस्य द्विकरणीं पार्श्वमानीं कृत्वा तस्याक्षणयारज्जुस्तृतीयकरणी भवति । प्रमाणक्षेत्राद् अंशद्वयहीनं तृतीयमंशं क्षेत्रं करोतीत्यर्थः ॥ ३६ ॥ तृतीयेति । एतेन न्यायेन तृतीयकरणी व्याख्याता । प्रमाणक्षेत्रं नवधा विभज्य एकभागस्य करणी तिर्यङ्‌मानी तद्द्विकरणी पार्श्वमानी । तस्याक्षणयारज्जुः तृतीय- करणी । प्रमाणपरिमितात् क्षेत्रात् तृतीयं क्षेत्रं करोति । एषा फलकरणा- स्तृतीयभागा । अनेन सूत्रेणेदमपि सूचितं भवति— १. प्रमाणं तिर्यक् त्रिकरण्यायामस्तस्याक्षणयारज्जुश्चतुष्करणी । २. प्रमाणानि त्रीणि तिर्यग् द्विकरण्यायामस्तस्याक्षणयारज्जुरेकादशकरणी । एकादशभेदकरण्येतेन व्याख्याता । विभागास्तु एकविंशाधिकशतधेत्यर्थः ॥ ३६ ॥ [ इति त्रिकरणीतृतीयकरण्योरानयनम् । ] दीर्घचतुरश्रस्याक्षणयारज्जुः पार्श्वमानी तिर्यङ्‌मानी च यत्- पृथग्भूते कुरुतस्तदुभयं करोति ॥ ३७ ॥ दीर्घचतुरस्रेति । दीर्घचतुरस्रस्य पार्श्वमान्या सर्वतो मित्वा यत् ३

१८ शुल्बसूत्रम् [ प्रथमो- क्षेत्रं तस्य तिर्यङ्मान्या च सर्वतो मित्वा यत् क्षेत्रं तदुभयं दीर्घचतुर- श्रस्याक्ष्णयारज्जुः ( क्षिप्त्वा तदुभयं ? ) करोतीत्यर्थः ॥ ३७ ॥ दीर्घचतुरश्र इति । दीर्घचतुरस्रपार्श्वमान्या समचतुरस्रे कृते यत् क्षेत्रं संपद्यते, यच्च तिर्यङ्मान्या, तदुभयमक्ष्णयारज्ज्वा समचतुरस्रे कृते संपद्यते । त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुरित्युदाहरणम् । तासां त्रिकरणेऽप्ययमेव प्रकारः । समचतुरस्रविषयः पूर्वसूत्रोक्तः ॥ ३७ ॥ तासां त्रिकचतुष्कयोर्द्वादशिकपञ्चिकयोः पञ्चदशिकाष्टकयोः सप्तिक चतुर्विंशिकयोर्द्वादशिकपञ्चत्रिंशिकयोः पञ्चदशिकषट्- त्रिंशिकयोरित्येतासूपलब्धिः ॥ ३८ ॥ तत्रोदाहरणमाह—तासामिति । त्र्यरत्न्यादिप्रमाणया तिर्यङ्मान्या चतुररत्न्यादिप्रमाणया पार्श्वमान्या यद्दीर्घचतुरश्रं क्रियते तस्याक्ष्णया- रज्ज्वा सर्वतोमान्या मितं क्षेत्रं प्रत्येकं तिर्यङ्मान्या पार्श्वमान्या च सर्वतोमान्या यत् द्विविधं क्षेत्रं, तदुभयात्मकं क्षेत्रं भवति । तथा हि अनया तिर्यङ्मान्या कृतं नवप्रमाणं क्षेत्रं भवति, पार्श्वमान्या च षोडशप्रमाणम् । उभयं मिलितं पञ्चविंशतिप्रमाणं क्षेत्रम्, अक्ष्णया- रज्जुरपि तत्प्रमाणा भवति, तथा च सर्वतोमानेन पञ्चविंशतिप्रमाणं क्षेत्रम् । तथा च त्रिक-चतुष्कयोः प्रमाणयोस्तिर्यङ्मान-पार्श्वमान्योः सत्योरित्यर्थः । एवं द्वादशिक-पञ्चिकयोरित्यादावपि । तासामक्ष्णया- रज्जूनामुभयविधक्षेत्रकरणीनामुपलब्धिः अवगतिर्भवतीति । कुत्रेत्याकांक्षा- याम् उक्तं त्रिकचतुष्कयोरित्यादि । त्रिक-चतुष्कस्थलेऽक्ष्णयारज्जुः पञ्चिका भवति । द्वादशिक-पञ्चिकयोरुभयविधं क्षेत्रम् एकोनसप्तत्यधिक- शत (१६९) प्रमाणकं क्षेत्रं, तस्याक्ष्णयारज्जुस्त्रयोदशिका त्रयोदशप्रमाणा भवति । सा च सर्वतः क्षिप्त्वा एकोनसप्तत्यधिकशत (१६९) प्रमाणकं क्षेत्रमेव करोति । एवं तृतीयोदाहरणे पञ्चदशिका पार्श्वमानी, अष्टिका तिर्यङ्मानी, ताभ्यां च प्रत्येकम् एकोननवत्यधिकद्विशत ( २८९ ) प्रमाणं क्षेत्रं, तत्राक्ष्णयारज्जुः सप्तदशिका भवति । एवं चतुर्थोदाहरणे सप्तिका तिर्यङ्मानी चतुर्विंशिका पार्श्वमानी, तदुभयक्षेत्रं पञ्चविंशत्यधिकषट्-

शतानि (६२५) । तत्राक्ष्णयारज्जुः पञ्चविंशतिका तत्क्षेत्रं करोति । एवं पञ्चमोदाहरणे द्वादशिका तिर्यङ्मानी पञ्चत्रिंशिका पार्श्वमानी । तदुभयं क्षेत्रं सहस्रं त्रीणि शतानि एकोनसप्तति(१३६६)श्च भवति । तत्राक्ष्णयारज्जुः सप्तत्रिंशिका । एवं षष्ठोदाहरणे पञ्चदशिका तिर्यङ्मानी षट्त्रिंशिका पार्श्वमानी तदुभयं क्षेत्रं सहस्रं पञ्चशतानि एकविंशतिः (१५२१) । तत्राक्ष्णयारज्जुःएको- नचत्वारिंशतिका तत्क्षेत्रं करोतीत्याद्युदाहरणैः स्पष्टीकृतमाचार्यैः ॥ ३८ ॥ तासामिति । प्रमाणं तिर्यग् ( बौ० शु० सू० १।३५ ) इत्येवमादिना अवगता- नामक्ष्णयारज्जूनां त्रिकचतुष्कयोरित्यादिषु दीर्घचतुरस्रकरणीषूपलब्धिः अवगतिः । त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । पञ्चदशिकषट्त्रिंशिकयोरेकोनचत्वारिंशिका- क्ष्णयारज्जुरित्यादि । एवं तासां द्वयोर्ज्ञातयोस्तृतीया ज्ञातुं शक्यते । यथा पार्श्वमानीतिर्यङ्मान्यो- र्ज्ञातयोः पृथग् वर्गयित्वा संयोज्य वर्गमूलं अक्ष्णयारज्जुः । तथा पार्श्वमान्यक्ष्ण- यारज्ज्वोर्ज्ञातयोरक्ष्णयारज्जुवर्गात् पार्श्वमानीवर्गं विशोध्य शिष्टस्य मूलं तिर्यङ्मानी । एवं तिर्यङ्मानीवर्गं विशोध्य पार्श्वमानी । एवं सर्वत्र द्रष्टव्यम् ॥ ३८ ॥ [ इत्यन्यासाविष्टकरणीनामानयनम् । ] नाना चतुरश्रे समस्यन् कनीयसः करण्या वर्षीयसो वृध्रमुल्लिखेद् वृध्रस्याक्ष्णयारज्जुः समस्तयोः पार्श्वमानी- भवति ॥ ३९ ॥ नानाप्रमाणकचतुरश्रयोः संयोजनप्रकारमाह—नानाचतुरश्र इति । नानाप्रमाणके चतुरश्रके द्वे समस्यन् संयोजयन् कनीयस अन- योर्मध्ये अल्पप्रमाणकस्य चतुरश्रस्य करण्या रज्ज्वा वर्षीयस अधिक- प्रमाणस्य चतुरश्रस्य तदवधिकमंशमुल्लिखेत् । अल्पप्रमाणकरणीं तिर्यङ्- मानीं कृत्वा वर्षीयसः करणीं पार्श्वमानीं कृत्वा दीर्घचतुरस्रमुल्लिखे- दित्यर्थः । वृध्रस्य एवं कृतस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुः समस्तयोर्भवति, सर्वंतो मानं भवति, तया सर्वंतो मित्वा समचतुरश्रे कृते तयोरुभयोः क्षेत्रं संपद्यत इत्यर्थः ॥ ३९ ॥ नानेति । नानाकारे समचतुरस्रे समस्यन् ह्रसीयसः करणीं तिर्यङ्‌मानीं कृत्वा वर्षीयसः संबन्धिनं सकलमुल्लिखेत् । वर्षीयसः करण्येव पार्श्वमानी । एवं कृतस्य

२० शुल्बसूत्रम् [ प्रथमो- दीर्घचतुरस्रस्याक्षणयारज्जुः समस्तयोः करणी भवति। तदुक्तम् “दीर्घचतुरस्रस्या- क्षणयारज्जुः” (१।३७) इत्यादिना। अत्र लघूपायः। बृहच्चतुरस्रकरणीं अल्पचतुर- स्रकरणीञ्च पृथग् वर्गयित्वा संयोज्य तस्य मूलमानीय तत्प्रमाणया रज्ज्वा सम- चतुरस्रे कृते उभे चतुरस्रक्षेत्रे समस्ते भवतः ॥ ३९ ॥ ( इति समचतुरश्रयोः समसनप्रकारः । ) चतुरश्राच्चतुरश्रं निर्जिहीर्षन् यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयासो वृध्रमुल्लिखेत्। वृध्रस्य पार्श्वमानीमक्षणयेतरत्पा- र्श्वमुपसंहरेत्। सा यत्र निपतेत् तदपच्छिन्द्यात् छिन्नया- निरस्तम् ॥ ४० ॥ महाचतुरश्रादल्पचतुरश्रस्यापोद्धारप्रकारमाह—चतुरश्रादिति । चतुरश्रात् पुरुषचतुष्टयमितक्षेत्रादिकात् चतुरश्रं एकपुरुषप्रमाणादिकं निर्जिहीर्षन् अपोद्धरन् यावन्निर्जिहीर्षेत् तस्य करण्या अपजिहीर्षितस्य चतुरश्रस्य करण्या पार्श्वमान्या वर्षीयसमधिकस्य वृद्धमुल्लिखेत् । वृद्धस्य महाचतुरश्रस्य करणीं पार्श्वमानीं कृत्वा अपजिहीर्षितस्य चतुरश्रस्य करणीं तिर्यङ्मानीं कृत्वा, वृद्धस्य पार्श्वमानीकृतस्य दीर्घचतुर- श्रस्य दक्षिणाप्राचीकोणादारभ्य पश्चिमोत्तरकोणं प्रति अक्षणया कर्षेत् । सा एवं कृत्वा प्रकृतायाः पार्श्वमान्याः यत्र प्रदेशे निपतेत् समाप्ता भवति, तदपच्छिन्द्यात् करणीमिति शेषः । छिन्नयेति । छिन्नया करण्या समचतुरश्रे कृते अपजिहीर्षितं चतुरश्रं निरस्तम् । पुरुषप्रमाणे चतुरश्रे निरस्ते अवशिष्टं क्षेत्रं त्रिपुरुषप्रमाणकमवतिष्ठत इत्यर्थः ॥ ४० ॥ चतुरस्रादिति । निर्हारो निरसनम् । यथा त्रिविधाग्नौ क्रियमाणे द्विपुरुषेण चतुरस्रे कृते चतुःपुरुषो भवति । तत्र एकत्यागार्थं पुरुषमात्र्या तिर्यङ्मान्या वृध्रमुल्लिख्य इतरस्योत्तरां पार्श्वमानीं दक्षिणाप्राचीमितरत्पार्श्वं गमयेत् । सा च तत्र द्विपुरुषप्रमाणायां चत्वारिंशच्छतद्वयाङ्गुलायां पञ्चतिलोने अष्टशतद्वयाङ्गुले निपतति । ततः पुरस्ताद् द्वात्रिंशदङ्गुलं पञ्च तिलांश्च अपच्छिन्द्यात् । परिशिष्ट्या करण्या चतुरस्रे कृते पुरुषो निरस्तो भवति ॥ ४० ॥ [ इति महाचतुरश्रादल्पचतुरश्रापोद्धारप्रकारः । ]

ऽध्यायः ] बौधायनीयं २१ समचतुरश्रं दीर्घचतुरश्रं चिकीर्षंस्तदक्ष्णयापच्छिद्य भागं द्वेधा विभज्य पार्श्वयोरुपदध्याद् यथायोगम् ॥ ४१ ॥ समचतुरश्रमिति । तत्समचतुरश्रमक्ष्णयापच्छिद्य द्वेधा कृत्वा भागं द्वेधा विभज्य, अक्ष्णयापच्छिन्नम् एकं भागं द्वेधा कृत्वा पार्श्वयोरुपसंदध्यात् यथायोगमित्यर्थः । प्राक् समभूतं दीर्घचतुरश्रं चिकीर्षन् समचतुरश्रं महा- दिक्षु यथा स्रक्तयो भवन्ति तथा कृत्वा तदक्ष्णया द्वेधा कृत्वा पुनस्तयोरेकं भागं द्वेधा कृत्वा पार्श्वयोर्यथायोगं प्राक् प्रत्यक् दीर्घचतुरश्रं यथा संपद्यते तथोपदध्यात् योजयेत् ॥ ४१ ॥ समचतुरस्रमिति । महादिक्षु यथा स्रक्तयो भवन्ति तथा समचतुरस्रं कृत्वा चतुरश्रं पूर्वापरमपच्छिद्य दक्षिणभागार्धं द्वेधा विभज्य अक्ष्णया दक्षिणोत्तरम- पच्छिद्य एकं चतुर्थांशं उत्तरापरकोणेऽन्तर्दीर्घपार्श्वं उत्तराप्रत्यग्रं उपदध्यात् । अपरं चतुरस्रार्धभागं उत्तरपूर्वकोणेऽन्तर्दीर्घपार्श्वं उत्तरपूर्वाग्रं उपदध्यात् । पार्श्वयोः पूर्वपश्चिमयोरुपसंदध्यात् । अन्यश्च प्रकारः । यावदिच्छं पार्श्वमान्या प्राच्यौ वर्धयित्वा उत्तरपूर्वा कर्णरज्जुमायच्छेत् । सा दीर्घचतुरस्रमध्यस्थायां समचतुरस्रतिर्यङ्मान्यां यत्र निपतति तत उत्तरं हित्वा दक्षिणांशं तिर्यङ्कानीं कुर्यात् । तद्दीर्घचतुरस्रं भवति । दीर्घस्य दीर्घकरणेऽप्ययमेव प्रकारः । समचतुरस्रविषयः पूर्वसूत्रोक्तः ॥ ४१ ॥ [ इति स . चतुरश्रस्य दीर्घचतुरश्रकरणोपायः । ] अपि चैतस्मिंश्चतुरस्रं समस्य तस्य करण्यापच्छिद्य यदति- शिष्यते तदितरत्रोपदध्यात् ॥ ४२ ॥ समचतुरश्रस्य दीर्घचतुरश्रीकरणे प्रकारान्तरमाह-अपि चैतस्मि- न्निति । एतस्मिन् दीर्घचतुरश्रस्य करण्या तिर्यङ्मान्या तत्समचतुरश्रं करिष्यमाणदीर्घचतुरश्रं समस्य संयोज्य । तत्संयोजनप्रकारमाह- तस्य करण्येत्यादिना । तस्य करिष्यमाणस्य दीर्घचतुरश्रस्य करण्या तिर्यङ्मान्या तत्समचतुरश्रमपच्छिद्य, पार्श्वमान्या अपच्छेदे अतिशेषासंभवात् करण्या तिर्यङ्मान्येव विवक्षितेति गम्यते । यद- तिशिष्यत इति । तिर्यङ्कानीतः अधिकं भवति तदितरत्र पुरस्तात्प- श्चाच्चोपसंदध्यात् । यावत्संयोजयितुं शक्यते तावत्संयोज्यावशिष्टं

२२ शुल्बसूत्रम् [ प्रथमो- चेदस्ति तदपि तत्रैव “नानाचतुरश्रे समस्यन्निति” न्यायेन योजयेत् ॥ ४२ ॥ अपिचेति । दीर्घचतुरस्रं कृत्वा यदतिशिष्यते अनन्तर्भूतं भवति यत् क्षेत्रं तदितरत्र दीर्घचतुरस्रस्य पूर्वपार्श्वे पश्चिमपार्श्वे चोपद्दध्यात् ॥ ४२ ॥ [ इति समचतुरश्रस्य दीर्घचतुरश्रकरणे प्रकारान्तरम् । ] दीर्घचतुरश्रं समचतुरश्रं चिकीर्षंस्तिर्यङ्मानीं करणीं कृत्वा शेषं द्वेधा विभज्य पार्श्वयोर्विपर्यस्येतरत्रोपद्दध्यात् । खण्डमावा- पेन तत्संपूरयेत् । तस्य निर्हार उक्तः ॥ ४३ ॥ दीर्घचतुरश्रमिति । दीर्घचतुरश्रस्य तिर्यङ्मानीं करणीं कृत्वा दीर्घचतुरश्रान्न्यूनं ह्रस्वचतुरश्रं कृत्वा यदतिशिष्यते तं द्वेधा विभज्य विपर्यस्य पार्श्वयोरुपसंदध्यात् । दीर्घचतुरस्रस्य तिर्यङ्मान्यापच्छ

ऽध्यायः ] बौधायनीयं २३ चतुरश्रमेकत इति । पुरस्ताद्ध्रस्वतिर्यङ्मानीकं, पश्चात्ततोऽधिक- तिर्यङ्मानीकमित्यर्थः । अभिमतह्रस्वप्रमाणतिर्यङ्मानीं कृत्वा शेषमवशिष्ट- मक्ष्णया द्वेधा विभज्य विपर्यस्य व्यत्यासं कृत्वा दक्षिणोत्तरयोः पार्श्व- योरेकैकं भागमुपदध्यात् । अयमर्थः—समचतुरश्रशेषमुदग्भागस्थं दीर्घचतुरश्रं प्रागूदक्षिणकोणादारभ्याक्ष्णया विभजेत् । तत्र विभक्त- योर्भागयोर्मध्ये दक्षिणं भागं तथैव स्थापयेत् । उत्तरभागमुद्धृत्य विपर्यस्य दीर्घचतुरश्रस्य दक्षिणभागे पूर्वभागे सूक्ष्मं पश्चाद्भागे विस्तीर्णं योजयेदिति ॥ ४४ ॥ चतुरस्रमिति । अणिमत्पार्श्वस्य करणीं तिर्यङ्मानीकरणीं कृत्वा प्रमाणपार्श्व- मानीकं अणिमत्पार्श्वतिर्यङ्मानीकं दीर्घचतुरस्रं कृत्वा अवशिष्टं क्षेत्रं अक्ष्णया परिच्छिद्य एकं तत्रैव स्थापयित्वापरमादाय विपर्यस्य पार्श्वान्तर उपदध्यात् ॥ ४४ ॥ [ इति चतुरस्रस्यैकतोऽणिमत्करणोपायः । ] चतुरश्रं प्रउगं चिकीर्षन् यावच्चिकीर्षेत् द्विस्तावतीं भूमिं समचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात् । तस्मिन् पाशौ प्रतिमुच्य दक्षिणोत्तरयोः श्रोण्योर्निपातयेत् । बहिःस्पन्द्यमपच्छिन्द्यात् ॥ ४५ ॥ चतुरश्रस्य प्रउगकरणमाह—चतुरश्रमिति । अभिमतचतुरश्र- स्याक्ष्णया रज्ज्वा सर्वतो मित्वा तद्द्विगुणां भूमिं समचतुरश्रां कृत्वा तत्प्राग्देशस्थितायाः करण्या मध्ये शङ्कुं निहत्य तस्मिन् शङ्कौ पाशद्वयं प्रतिमुच्य श्रोणीभूतयोः स्रक्त्योर्निपातयेत् । तत्र स्पन्द्ययोरुभयोरपि बहिः क्षेत्रं विसृजेत् । स्पन्द्यान्तःस्थितं क्षेत्रं प्रउगाकारं सम्पद्यत इत्यर्थः ॥ ४५ ॥ चतुरस्रं प्रउगमिति । प्रउगं शकटमुखम् । द्विकरण्या समचतुरस्रं कृत्वा पूर्व- स्यास्तिर्यङ्मान्या मध्ये शङ्कुं निहत्य तस्मिन् पाशौ प्रतिमुच्य चतुरस्रश्रोण्योर्निपात- येत् । स्पन्द्ययोर्बहिर्भूतंमपच्छिन्द्यात् निरस्येत् ॥ ४५ ॥ [ इति चतुरश्रस्य प्रउगकरणोपायः । ] चतुरश्रमुभयतःप्रउगं चिकीर्षन् यावच्चिकीर्षेद् द्विस्तावतीं भूमिं दीर्घचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात् ।