गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
२७६ गन्धर्वतन्त्रे । (६)महातत्त्वार्थ इति यत्तच्च देवि ब्रवीमि ते ॥ ९८॥ निष्कले परमे सूक्ष्मे १निर्लिप्ते भाववर्जिते । व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे ॥ ९९॥ विश्वोत्तीर्णे विश्वमये तत्त्वे स्वात्मनियोज(येत्?नम्) । तदा प्रकाशमानत्वात् तेजसां तमसामपि ॥ १००॥ अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः । प्रकाशते महातत्त्वं दिव्यक्रीडारसो२ज्ज्वले ॥ १०१ ॥ निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः । रहस्यार्थो मया प्रोक्तः सद्यः प्रत्ययकारकः ॥ १०२ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्यासाधननिर्णयो एकोनत्रिंशः पटलः ॥ २९ ॥ १ 'निर्लप्त्ये' ख पाठः । २ 'सोद्वले' ख. पाठ ।
ित्रंशः पटलः । —=:!0:-=— ईश्वर उवाच , अकथ्यमपि देवेशि तव स्नेहाद्वदाम्यहम् । त्रिकूटान्ते हंसबीजं बिन्दुनादविभूषितम् ॥ १ ॥ विपरीतेन वा देवि दुर्लभं पापचेतसाम् । हकारः प्राणरूपस्तु सकारो जीव उच्यते ॥ २ ॥ उभौ जीवेति विख्यातौ त्रैलोक्ये सचराचरे । हकारं शुक्लवर्णाढ्यं चन्द्रकोटिसमप्रभम् ॥ ३ ॥ सकारं रक्तवर्णाढ्यं कोटिसूर्यसमप्रभम् । भावनं त्वस्य मन्त्रस्य जपमात्रं न विद्यते ॥ ४ ॥ अजपा तेन विख्याता शिवशक्तिसमन्विता । न्यासमन्त्रस्य विद्याया हकारः प्राण उच्यते ॥ ५ ॥ सकारो जीव आख्यातो जीवः कामेन मण्डितः मादनं प्राणरूपं तु वि(मर्श?कासः) शिव उच्यते ॥६॥ सकारस्थः परो ज्ञेयः संकोचः शक्तिरूपवान् । संकोचः परमा शक्तिर्वि(मर्शः?कास.) परमः शिवः ॥७॥ संकोचश्च विकासश्च हस इत्यक्षरद्वयम् । तयोरखररूपेण [क?ह]वर्णौ बिल्व(न्दु)मालिनी ॥ ८ ॥
१ 'सकार जीवमाख्यात जीव कामेन मण्डितम्' क पाठ ।
२७८ गन्धर्व्वतन्त्रे । प्राणो 'बिन्दुरिति प्रोक्तः साहचर्याद्वरानने । सपूर्व्वमुदितं मन्त्रं शंभुशक्त्यैक्यवाचकम् ॥ ६ ॥ जीवशक्त्यैक्यसिद्धयर्थं गदितं सुरपूजिते । अस्मिन्मन्त्रे वरारोहे कालकर्म्मान्तवर्त्मना ॥ १० ॥ वर्तते यस्तु युक्तात्मा असाध्यमपि साधयेत् । त्वं च जीवैक्यसिद्धयर्थमुदितं मन्त्रनायकम् ॥ ११ ॥ तथ्यं मद्वाक्यतो(देवि?विद्धि) फलाफलस्पृहां त्यज । अस्मिन्मन्त्रे महाभागे समे जप्ते वदाम्यहम् ॥ १२ ॥ सर्वे मन्त्राः प्रसिध्यन्ति जीवन्ति च पुनन्ति च । प्राणन्ति च महाभागे सत्यं सत्यं वदाम्यहम् ॥ १३ ॥ सोऽहंभावेन भावेन भावनं भावनं मतम् । सोऽहंभावेन भावं तु उक्तलक्षणल(क्ष्यते?ञ्चितम्) ॥१४॥ कृत्वाहंभावमुत्सृज्य सोऽहंभावे स्थिरीभवेत् । शंभुभावे स्थिरीभूते बिन्दुं शंभौ विभावयेत् ॥ १५ ॥ सञ्चित्सुखमयंः शंभुस्त्रिरूपः सर्वकर्मणि । सर्वदा भा(ष?व्य)ते यस्मात्तन्मयं त्वखिलं ततः ॥१६॥ सत्संनिधिसमज्ञेषु शंभुश्चैव प्रकाशते । कामः कामर्यते भेदमिति तद्रूपतां मतिः ॥ १७ ॥ १ ‘यतो भेदमिति तद्रूपतामति’ क्र पाठ ।
त्रिंशः पटलः । २७६ यैत्र चित्सत्तयोर्व्याप्तिस्तत्रानन्दोऽभिजायते । यत्रानन्दो भवेद्भावे तत्र चित्सत्तयोः स्थितिः ॥ १८ ॥ या चित्सत्तैव सा प्रोक्ता यौ सत्ता सा चिदुच्यते । एवं चित्सत्तयोरैक्ये स्थिरीभूते वरानने ॥ १९ ॥ आनन्देन समावेशोऽसुचिरादेव जायते । तदानन्दमयं विश्वं स्वात्माभेदं प्रकाशते ॥ २० ॥ एवं शंभुमये भावे सर्वतः प्रभवे शिवे । सर्वशक्त्युपभोगे तु जीवन्मुक्तो महीं वसेत् ॥ २१ ॥ भावद्या ? वस्तुभूताया हसौ ⸱ ⸱ ⸱ । प्राणाः स्वराः समाख्याता बिन्दुस(ङ्कौ?र्गौ) च चेतना ॥२२॥ अन्यान्यावयवानि स्युरन्यानि परमेश्वरि । तेन तद्युक्तितो मन्त्राः प्रसीदन्ति नचान्यथा ॥ २३ ॥ बिन्दुसर्गौ हसौ तुर्यस्वरश्चेति च पञ्चमम् । भवत्या मातृकादेहे विद्धि चैतन्यजृम्भणम् ॥ २४ ॥ तेन तैर्हीनरूपास्तु मन्त्रा विद्यास्तथा परे । निष्प्राणदेहवत्कार्यकरणेष्वक्षमाः स्मृताः ॥ २५ ॥ रमां मायां हंसबीजं वाग्भ[वत्वे?वाद्ये]नियोजयेत् । शक्त्यन्ते परमेशानि सोऽहं मायां रमां तथा ॥ २६ ॥ १ 'अत्र चित्सत्त्वये व्याप्तिर्य' क पाठ । २ 'त्त्व' क पाठ. । ३ 'अ' क. पाठः । ३ 'त्त्व' क पाठ । ४ 'सर्गौ' क. पाठ ।
२८० गन्धर्वतन्त्रे । कामराजाह्वये देवि क्रोधीशं शक्रसंयुतम् । मायाबिन्दुसमायुक्तं कोटिसूर्यसमप्रभम् ॥ २७ ॥ स्फुरत् त्रिकोणमध्यस्थं किरणानेकसंवृतम् । एतत्प्राणं महाभागे गुप्तं ग्रन्थे प्रकाशितम् ॥ २८ ॥ बोधिन्या बोधयेद्विद्यां संदीपन्या च दीपयेत् । तारमायारमायोगो म(नो?नु)दीपनमुच्यते ॥ २६ ॥ जीवन्या जीवयेद्विद्याममृतैरमृतं चरेत् । पृथग्विधं तु तस्यापि साधनं शृणु पार्वति ॥ ३० ॥ वाग्भवबीजरूपां तु दीपाभां तन्तुरूपिणीं । गच्छन्तीं ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु ॥ ३१ ॥ विशेदकुलामृतं दिव्यं क्षीरधारोपमं द्रवत् । पीत्वाकुलामृतं देवि पुनरेव विशेत् कुलम् ॥ ३२ ॥ पुनरेवाकुलं गच्छेद् द्वादशान्ते वरानने । सहस्रारे महापद्मे वाग्भवं पूर्णचन्द्रकम् ॥ ३३ ॥ ब्रह्मग्रन्थि ततो भित्त्वा ❁सप्तषष्ट्याख्यधारया '?, । नासिकारन्ध्रमार्गेण त्वात्ममूलं प्रवेशयेत् ॥ ३४ ॥ जिह्वामापूर्य भो देवि मातृकावर्णरूपिणीम् । बहिर्गतां तु वाग्रूपां जिह्वाग्रे दीपरूपिणीम् ॥ ३५ ॥ १ 'पं' क. पाठ । २ 'विशदस्था' क पाठ । ३ 'सद्भवम्' क पाठ' । ❁ 'वह्निविषाधारद्वयमध्यवर्तिन शाक्ताख्यमाधार भित्त्वेत्यर्थः ।
त्रिंशः पटलः । २८१ आमूलाद्ब्रह्मरन्ध्रान्तं तस्माजिह्वावधि प्रिये । वाग्भवबीजरूपां तां दीपशिखां विभावयेत् ॥ ३५ ॥ लक्षमेकमिदं जप्त्वा सर्वपापहरो भवेत् । अव्याहतमतिः शास्त्रे विजयी वाक्पतेरपि ॥ ३६ ॥ वादे सदसि वाक्यस्य स्तम्भकः प्रतिवादिनः । सत्पण्डितघटाटोप[जात?जेता]ऽप्रतिहतप्र[भुः?भः] ।३७। पदगुम्फैर्महाकाव्यकर्ता स(त्रा?जा)यते शिवे । इति ते कथितं देवि वाग्भवस्यापि साधनम् ॥ ३८ ॥ अथ कामकलाबीजस्वरूपां चिन्तयेत् पराम् । उद्यदादित्यसंकाशां स्फुरद्दीपशिखानिभाम् ॥ ३६ ॥ गच्छन्तीं ब्रह्ममार्गेण ब्रह्मरन्ध्रावधि प्रिये । प्रैपतद्बिन्दुधाराभिः शुद्धलाक्षारसोपमम् ॥ ४० ॥ समस्तभुवनाभोगकवलीकृतजीवनम् । महा[त्म?स्व]महिमाक्रान्तिध्वस्ताहंकृतिभूमिकाम् ॥४१॥ चिन्तयित्वा महेशानि वशयेज्जगतीमिमाम् । चिन्तयेद्योषितां योनौ चल[ज्वा?ज्ज]लेन्दुसंनिभाम् ॥४२॥ तद्दृष्टिपथगा नारी दैवी वाप्यथवासुरी । निवेदितात्मसर्वस्वा वशगा देवि जायते ॥ ४३ ॥ १ 'पतद्भिर्वि' क. पाठः । २ 'मै.' क पाठः । ३ 'वशगा' क, पाठ. ।
२८२ गन्धर्वतन्त्रे । अथ वक्ष्ये महेशानि शक्तिकूटस्य साधनम् । आधाराद्ब्रह्मरन्ध्रान्तं विद्युदग्निसमप्रभम् ॥ ४५ ॥ स्रवत्सुधामयं देवि शक्तिकूटं विचिन्तयेत् । देहिनाममृतानन्दवर्षधारारसोपमम् ॥ ४६ ॥ सर्पाणां दर्शनादेव (उडी?जडी)करणकारकः । स्थिरजङ्गमेशंकारुयविषघातविनाशकैः ॥ ४७ ॥ महारोगैर्पीडितानां शरच्चन्द्रकरोपमः । देव्युवाच । कथं कामकला देव सूचिता न प्रकाशिता ॥ ४८ ॥ यस्याः स्मरणमात्रेण सायुज्यं लभते नरः । ईश्वर उवाच । तत्तैविध्यं शृणु प्राज्ञे सर्वतन्त्रेषु गोपितम् ॥ ४६ ॥ स्थूलं समं तथा नाम सूक्ष्मं मन्त्रतनुं तथा । नभोमहाबिन्दुमुखी चन्द्रसूर्यस्तनद्वया ॥ ५० ॥ सुमेरुहार्धकलया शोभमाना मही यदा । पातालतलविन्यस्ता त्रिलोकीयं कलात्मिका ॥ ५१ ॥ ललितायास्त्रिभिर्बीजैः प्रकाशार्थो य ईर्यते । तस्यविम(र्ष?र्श)ईकारो बिन्दुना तत्त्रिधा गतम् ॥ ५२ ॥ १ 'सकालाख्य' क पाठ । २ 'विषोपविषनाशनः' ख, पाठ. । ३ 'रौद्र' क. पाठः । ४ 'न्यासात्' ख पाठः ।
त्रिंशः पटलः । २८३ तन्तुरीयस्वरूपार्णं बिन्दुत्रितयवदीरितम् । ईकारोर्ध्वगतो बिन्दुर्मुखं भानुरधोगतौ ॥ ५३ ॥ स्तनौ दहनशीतांशू योनिर्हार्धकला भवेत् । तदात्मक(स्तु?त्व)न्व्यास्तु¹ साधकस्य च तद्भवेत् ॥ ५४ ॥ तदुद्भवं शृणु प्राज्ञे महोदयकरं परम् । ऊर्ध्वबिन्दात्मकं वक्त्रमधोबिन्दुद्वयात्मकम् ॥ ५५ ॥ कुचद्वयं तु तच्छेषैः शेषाङ्गानि विभावयेत् । इति ते कथिता कामकलाया बाह्यभावना ॥ ५६ ॥ तामेव त्वां पुनर्वक्ष्ये भावनामान्तरात्मिकाम् । मूलादिब्रह्मरन्ध्रान्तं स्फुरद्विद्युल्लताकृतिम् ॥ ५७ ॥ ध्यायेत् कुण्डलिनीं देवि तद्विद्यास्वरूपिणीम् । षट्चक्रभेदिनीं देवीं बिन्दुत्रयात्मिकां पराम् ॥ ५८ ॥ तां च हार्धकलारूपां चिन्तयेत्पद्ममध्यगाम् । एवं कामकलारूपा जागर्ति सचराचरे ॥ ५९ ॥ सा च त्रयीमयी प्रोक्ता नास्ति किंचित्तया विना । साम्ना मुखं समाख्यातम्ऋग्यजुर्भ्यां स्तनद्वयम् ॥ ६० ॥ अथर्वणा समाख्याता हार्धरूपा परा कला । तुरीयं परमेशानि साक्षाद्ब्रह्मैव केवलम् ॥ ६१ ॥
१ 'स्ते' ख. पाठः । २ 'ल्किीन्' ख पाठः ।
२८४ गन्धर्वतन्त्रे । एतत्कामकलारूपं ध्यानं गुह्यतमं परम् । नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ६२ ॥ एतत्प्रकाशनं यच्च आयुःक्षयकरं स्मृतम् । साधकस्य विनाशस्तु तस्मान्नैतत् प्रकाशयेत् ॥ ६३ ॥ लोभान्मोहाच्च गर्वाच्च विद्वेषाद्वा प्रकाशयेत् । सोऽचिरान्मृत्युमाप्नोति शस्त्रघातविषादिभिः ॥ ६४ ॥ ──: ❁ :── इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्याकूटत्रयसाधन- निरूपणं त्रिंशः पटलः ॥ ३० ॥
एकत्रिंशः पटलः। —————— देव्युवाच होमस्य कथयेशान विधानं पूर्वसूचितम् । ईश्वर उवाच किंशुकैर्हवनं देव्याः कुसुम्भकुसुमैरपि ॥ १ ॥ नागकेसरपुष्पैर्वा मधूकै रक्तपद्मकैः । करवीरै (र्यवा ? र्जपा ) पुष्पैर्मधुरत्रयमिश्रितैः ॥ २ ॥ सर्वसिद्धिप्रदं कुण्डं चतुरस्रं वरानने । कुण्डं सुलक्षणं कृत्वा होमयेत् संस्कृतेऽनले ॥ ३ ॥ अथवा परमेशानि स्थण्डिलं रचयेद्बुधः । नित्यं नैमित्तिकं कुर्यान्न काम्यं स्थण्डिले चरेत् ॥ ४ ॥ हस्तमात्रं चतुरस्रं गोमयेनोपलेपितम् । अङ्गुष्ठपर्वमात्रोच्चं वालुकामण्डलं तथा ॥ ५ ॥ तत्रापि ले(ख?प)नं कृत्वा तत्र होमः फलप्रदः । यवानां तण्डुलैरेवमङ्गुलं चाष्टभिर्भवेत् ॥ ६ ॥ अदीर्घयोजितैर्हस्तश्चतुर्विंशतिकोऽङ्गुलैः । एतत्प्रमाणहस्तैस्तु कुण्डादिकं समाचरेत् ॥ ७ ॥ १ 'र' क पाठ ।
२८६ गन्धर्वतन्त्रे । त्रिपुराप्रीतिदो होमः कुण्डे त्रिकोणसंज्ञके । पश्चिमात् पूर्वाग्रास्तिस्रो रेखाः प्रादेशमात्रकाः ॥ ८ ॥ विलिख्य च मुकुन्देन्दुपुरन्दरस्वरूपकाः । दक्षिणास्तिस्रो रेखा वै विलिख्य तदनन्तरम् ॥ ६ ॥ रेखाश्च स्युर्वैवस्वतब्रह्मानन्तस्वरूपकाः । त्रिकोणं मध्यतो देवि कृत्वा बाह्ये ततः परम् ॥ १० ॥ षट्कोणं विधिना चैव कारयेदतिसुन्दरम् । अष्टपत्रं च तद्बाह्ये वृत्तेन कर्णिका शुभा ॥ ११ ॥ चतुरस्रं चतुर्द्वारं मण्डलं विरच्य मध्ये पुष्पाञ्जलिं निक्षिप्य स्रुवादिकमासादयेत् । स्रुव आज्यं दधि दूर्वा स- मिधः। आज्यस्थालीं प्रणीताप्रोक्षणीं च वामतोऽस्मै परि- कल्प्याम्भसा प्रोक्षणीमापूर्य वारत्रयमुत्पूय, तानि प्रोक्ष- णयभिमुख्यानि कृत्वा बालयाभिमन्त्र्य तयैव दूर्वाभिर्मूला- दग्रं पुनरग्रान्मूलं त्रिः परिमृज्य दूर्वाभिः पूर्वाग्रमुत्तराग्रं च विस्तरेत्(?)मूलविद्यां समुच्चरन् 'स्थण्डिलाय नमः' इति संपूज्य, त्रिकोणमध्ये कामेश्वरीकामेश्वरौ यष्ट्वा तयोर्मिथु- नीभावं ध्यात्वा तावभ्यर्च्य तस्या गर्भे, वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहेति मूलोद्धतं संविदग्निं ललाटनेत्रद्वारा निर्गतं बाह्याग्नियुक्तं पातयेत् । ओं उत्तिष्ठ पुरुष हरिपिङ्गल लोहिताक्ष सर्वकर्माणि देहि मे दापय स्वाहेति वह्निमुत्थाप्य, ओं चित्पिङ्गल हनहन दहदह पचपच सर्वज्ञाज्ञापय स्वाहेति कामेश्वरीगर्भे धृतं १ 'शप्रमाणा' क पाठ ।
एकत्रिंशः पटलः । १८७ ध्यात्वा, मूलमुच्चरन् वौषडिति वह्निं विलोक्यास्त्रेण संर- क्ष्य ज्वलदग्निमादाय स्थण्डिलं दक्षिणावर्तेन त्रिः परि- भ्राम्य ज्वलदिन्धनमेकं हूंफडित्यनेन क्रव्यादामिं नैर्ऋत्यां त्यजेत् । जानुभ्यामवनीं स्पृष्ट्वा वह्निं मध्ये संस्थाप्य क्लीं महात्रिपुरसुन्दरीवह्निमूर्तये नमें इति देवीं संपूज्य नाभि- मण्डलाद्वह्वन्नासापुटेन तदग्निना बाह्याग्निमेकीकृत्य यजेत् । मूलं ऐंक्लींसौःआंसोऽहं वह्निचैतन्यायै नमः इति का- मेश्वरीगर्भे वह्निं संचिन्त्य तद्देहे षडङ्गानि-सहस्रार्चिषे हृदयाय नमः, स्वस्तिपूर्णाय शिरसे स्वाहा, उत्तिष्ठपुरुषाय शिखायै वषट् , धूमव्यापिने कवचाय हुं, सप्तजिह्वाय नेत्रे- भ्यो वौषट् , धनुर्धरायास्त्राय फट् इति यष्ट्वा तप्तजाम्बून- दप्रभं शक्तिस्वस्तिकधरं वरदाभयशोभितकरपङ्कजं दि- व्यालंकारभूषितकरविग्रहमम्भोजसंस्थं शुक्लाम्बरधरं त्रि- नयनं बद्धमौलिं ध्यात्वा , चक्रे सप्तजिह्वाश्च ईशाने यूँ लो- हितां, पूर्वे रूँ रक्तां , आग्नेये नूँ नीलां, नैर्ऋते वूँ कृष्णां, प- श्चिमे शूँ शुभ्रां, दक्षे करालीं, उत्तरे बहुरूपां जप्त्वा का- मेशीगर्भोद्भववह्नेः सर्वभावेभ्यो नम इति मन्त्रैर्गर्भाधान- पुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचूड़ोपन- यनकर्म निर्वर्त्य, अमुकाग्नेरमुककर्म कल्पयामि इति वि- धाय परिषिच्य परिस्तीर्य परिधाय पुनर्ध्यात्वा अग्निम- न्त्रेणाग्निं त्रिकोणे पूजयित्वा सप्तजिह्वासु सप्ताहुतीर्हुत्वा वैश्वानर-उत्तिष्ठ-चित्पिङ्गलैस्त्रिधाहुतिं विधाय षडङ्गानि ष- १ 'री' क पाठ । २ 'नमोदे' क पाठ । ३ 'यै' के पाठ । ४ 'त्ति' क. पाठ ।
२८८ गन्धर्वतन्त्रे । दृकोणेषु, अष्टदलेषु अग्नये जातवेदसे सप्तजिह्वाय हव्यवाह- नाय अश्रोदरजाय वैश्वानराय कौमारतेजसे विश्वमुखाय देवमुखाय नम इति, लोकपालांश्च भूगृहे, वह्नेर्दक्षिणतो ब्र- ह्माणमाराध्य आज्यस्थालीं पुरतो निधाय बहुरूपायां जिह्वा- यां श्रीचक्रराजं तदन्तःस्थां चित्कलामशेषरश्मिमण्डितामा- लोच्य यद्वा नित्यं हुत्वा कुण्डं मण्डपधूपैरापूर्य दीपैरूज्ज्वल्य समिधं हुत्वा जुहुयादिष्टमेव च बलीन्प्रदाय ओंभूरग्नये च पृथिव्यै च महते च स्वाहा, ओंभुवो वायवे चान्तरिक्षाय च महते च स्वाहा, ओंस्वरादित्याय दिवे च महते च स्वाहा, ओंभूर्भुवःस्वश्चन्द्रमसे च नक्षत्रेभ्यश्च स्वाहा, इति चतुर्भि- र्मन्त्रैर्व्याहृतिहोमं कृत्वा ब्रह्मार्पणमतः परं समिधं हुत्वा देवीमभ्यर्च्य विसृजेदिति ॥ नित्यहोमो मया प्रोक्तः काम्यहोममतः शृणु । मल्लिका-मालतीजातीकुसुमैर्मधुमिश्रितैः ॥ १२ ॥ घृतपूर्णैः (कु ? फ) लैर्वापि वागीशत्वं प्रजायते । (यवा ? जपा) पुष्पैराज्ययुतैः करवीरैस्तथाविधैः ॥ १३ ॥ हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः । चम्पकैः पाटलैर्हुत्वा श्रियमाप्नोत्यनुत्तमाम् ॥ १४ ॥ कमलै (र्व ? र) रुणैर्होमः सम्यक् संपत्तिदायकः । रक्तोत्पलैर्जगद्वश्यं नीलैलैर्दुष्टान्वशं नयेत् ॥ १५ ॥ (स्त्रो ? श्वे) तोत्पलैः श्रियं राज्यं लभते हवनात्प्रिये । कह्लारहवनैर्लक्ष्मीं सर्वसौभाग्यमेव च ॥ १६ ॥
एकत्रिंशः पटलः । २८६ बन्धूककुसुमैर्होमै सर्वसत्त्वान् वशं नयेत् । क्षीरं दधि मधु त्वाज्यं पृथग्हुत्वा वरानने ॥ १७ ॥ आयुर्बलमथारोग्यं समृद्धिर्जायते नृणाम् । रुधिराक्तेन च्छागस्य मांसेन निशि होमतः ॥ १८ ॥ मधुरत्रययोगेन गुरुणोक्तविधानतः । परराष्ट्रं वशं नीत्वा कामभोगी भवेन्नरः ॥ १९ ॥ द्राक्षाभिर्लञ्चहोमेन सिद्धयोऽष्टौ भवन्ति हि । कदलीफलहोमेन नारिकेलफलैस्तथा ॥ २० ॥ राजानो वशमायान्ति समृद्धिरतुला तथा । जम्बूफलैः स्त्रियः सर्वा वश्या भवन्ति निश्चितम् ॥ २१ ॥ श्रीफलैरतुला लक्ष्मीः पत्रैश्चापि तथा भवेत् । इक्षुखण्डैः सुखावाप्तिस्तद्रसैर्वशगा नृपाः ॥ २२ ॥ तिलाज्यहोमतो देवि सर्वकार्याणि साधयेत् । घृतपायसहोमेन सिताज्यमधुना सह ॥ २३ ॥ त्रैलोक्यं वशमायाति धनधान्यमवाप्नुयात् । सोपस्कारैश्च वटकैरुपसर्गान्विनाशयेत् ॥ २४ ॥ कर्पूरस्य च होमेन वाग्वशे जायते नृणाम् । कुङ्कुमैर्होमतो देवि सर्वदुःखानि नाशयेत् ॥ २५ ॥ कस्तूरीहोमतो देवा वशगा नात्र संशयः । चन्दनागुरुहोमेन सर्वांल्लोकान् वशं नयेत् ॥ २६ ॥ शृणु देवि प्रवक्ष्यामि मानं हवनसिद्धये । पुष्पं समग्रं जुहुयाच्छतसंख्यांस्तिलांस्तथा ॥ २७ ॥ १ 'हुनेद्वापि' क पाठ 'मान्' ख पाठ । २ 'श्य' क पाठ । ३ 'ख्यांस्तिलास्तथा' क पाठ ।
२६० गन्धर्वतन्त्रे । लाजा मुष्टिप्रमाणाः स्युर्घृतं कर्षप्रमाणकम् । चुल्लुकार्धं मधु क्षीरमन्नं ग्रासमितं भवेत् ॥ २८ ॥ समग्रैश्च सखण्डैश्च फलानां च यथेच्छया । रम्भाफलं चतुःखण्डं लघु चेत् खण्डितं नहि ॥ २६ ॥ नारिकेलस्य खण्डं तु स्थूलं कुर्यान्मनःप्रियम् । प[र?र्व]स्थाने चेत्तुदण्डं मनःसंतोषकारकम् ॥ ३० ॥ द्राक्षाफलं समग्रं स्याद् गुञ्जामानं ततो भवेत् । कर्पूरकौ(षि ? शि)कादीनां ꕤ मनःसंतोषकारकम् ॥ ३१ ॥ एतदाहुतिमानं च कथितं सर्वसिद्धिकृत् । किंशुकैः पापसंघातनाशकैरथवा प्रिये ॥ ३२ ॥ नानाद्रव्यैः पृथग्भूतैः संगृहीतैर्वरानने । यथाशक्त्या तु मिलितैर्होमं कुर्याद्विचक्षणः ॥ सर्वविघ्नसमूहं तन्नाशयेन्नात्र संशयः ॥ ३३ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे होमतद्रव्य- विधिनिरूपणं नामैकत्रिंशः पटलः ॥ ३१ ॥ ꕤ कौशिको मृगमद आदिना घुसृण ग्राह्यम् । १ 'हा' क पाठ ।
द्वात्रिंशः पटलः । —=०= ❀ =०=— देव्युवाच वह्नीन्द्वर्कमयी मुद्रा प्रतिष्ठा च कथं भवेत् । ईश्वर उवाच सोमसूर्याग्निरूपाः स्युर्वर्णा लो(क ? ह)त्रयं तथा ॥ १ ॥ स्वराः षोडश सौम्यास्ते सौराः स्युः कादयोऽपरे । आग्नेयास्ते समुद्दिष्टा यादयो दश चापरे ॥ २ ॥ रौप्यमिन्दुस्तथा हेम सूर्यस्ताम्रं हुताशनः । लोहभागाः समुद्दिष्टा स्वराद्यक्षरसंख्यया ॥ ३ ॥ तैर्लोहैः कारयेन्मुद्रामसंकलितसंगताम् । पञ्चामृतैः पञ्चगव्यैः क्षालयित्वा शुभेऽहनि ॥ ४ ॥ भानुवारे शुभे लग्ने पूर्वोक्तमातृकाम्बुजे । मध्यादि स्थापयेत्तेषु पत्रेषु कलशानपि ॥ ५ ॥ तन्तुभिर्वेष्टिताञ् शुद्धान् बहिश्चन्दनचर्चितान् । सुधूपवासितान्देवि दूर्वाक्षतसमन्वितान् ॥ ६ ॥ क्वाथेन पूरयेद्देवि यथावदक्षरोषधैः । रोचनाचन्द्रकाश्मीरमधुकस्तूरिकायुतैः ॥ ७ ॥
१ म' क पाठ ।
२६२ गन्धर्वतन्त्रे । आपूर्य गन्धतोयैस्तानवेष्टयेदंशुकैः शुभैः । मुक्तामाणिक्यवैदूर्यगोमेदवज्रविद्रुमान् ॥ ८ ॥ पुष्परागं मरकतं नीलं चेति यथाक्रमम् । विन्यसेत्तेषु कुम्भेषु रत्नाङ्कितफलानि च ॥ ९ ॥ स्थापयेत् कुम्भवक्त्रेषु कोमलांश्चूतपल्लवान् । मध्यकुम्भे च मुद्रां तां विन्यस्य बहुमङ्गलैः ॥ १० ॥ बीजत्रयं त्रिधा कृत्वा मातृकां च त्रिधा तथा । विभज्य पूजयेद्देवि सोमसूर्यहुताशनान् ॥ ११ ॥ तत्रावाह्य यजेद्देवीं संमोहिनीं परां ततः । प्राणानायम्य विधिवत् पूर्ववन्मातृकां न्यसेत् ॥ १२ ॥ (वि? त्रि) नेत्रां तरुणेन्द्राभां बालार्ककिरणारुणाम् । अक्षमालाङ्कुशशरान् पाशं पद्मद्वयं तथा ॥ १३ ॥ आबिभ्रतीं कराम्भोजैः पुण्ड्रेक्षुचापपुस्तकम् । मायाश्रीकामबीजाद्यां नित्यां वर्णमयीं भजेत् ॥ १४ ॥ नानाविधैस्तु कुसुमैर्धूपैर्दीपैर्मनोहरैः । उच्चावचैरुपहारैः पूजयित्वा यथाविधि ॥ १५ ॥ शर्कराघृतसंयुक्तं पायसं च निवेदयेत् । पूजयेद्दिग्क्षु कुम्भेषु व्यापिन्यादीन्यथाक्रमम् ॥ १६ ॥ व्यापिनी पालिनी पश्चात् प्लाविनी क्लेदिनी तथा । धारिणी मालिनी चैव हर्षिणी शान्तिनी तथा ॥ १७ ॥ व्यापिन्यश्चाष्टसंख्या वै एताः पर्वतनन्दिनि³ । साग्रं सहस्रं संजप्य स्पृष्ट्वा तां मुद्रिकां ततः ॥ १८ ॥ १ ‘धरा’ क पाठ । २ ‘कान्’ क पाठ । ३ ‘नी’ क पाठ ।
द्वात्रिंशः पटलः । २६३ होमयेत्संस्कृते वह्नौ सहस्रं हविषा तथा । तस्यां संपातयेद्देवि विधिनाहुतिशेषकम् ॥ १९ ॥ संमोहनीं समुद्दिश्य गृहीत्वाज्यं स्रुवेण तु । बीजत्रययुतां देवि मातृकां बिन्दुसंयुताम् ॥ २० ॥ वह्निभार्यान्वितां पश्चात् कृत्वा वै¹ होमयेत्ततः । मण्डले मातृकादेव्याः शिष्यं निवेश्य सादरम् ॥ २१ ॥ सुरास्त्वामिति मन्त्रैस्तु नवभिः कलशैः शुभैः । अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः ॥ २२ ॥ इयं रक्षाकरी मुद्रा विषरोगविनाशिनी । व्यालचौरमृगादिभ्यो रक्षां कुर्याद्विशेषतः ॥ २३ ॥ सर्ववश्यकरी शुद्धा शुद्धिदाशुद्धिहारिणी । तर्जन्यां धारयेदेनां विधिना मनुजेश्वरः ॥ २४ ॥ युद्धे विजयमाप्नोति श्रिया परमया युतः । विभजेन्मातृकां देवि नववर्गांस्तथोदितान् ॥ २५ ॥ नववर्गसमुत्पन्ना नवरत्नेश्वरा ग्रहाः । अर्केन्दुवक्रज्ञगुरुभृगुमन्दाहिकेतवः ॥ २६ ॥ नवरत्नैर्महेशानि मुद्रां कुर्याद्यथेच्छया । तद्रत्नेषु² ग्रहान्सर्वान् पूजयित्वा विधानतः ॥ २७ ॥ आवाह्य पूजयेद्देवीं संमोहनीं परां तथा । जपहोमादिकं सर्वं कुर्यात्पूर्वोक्तवर्त्मना ॥ २८ ॥ यो मुद्रां धारयेदेनां तस्य स्युर्वशगा ग्रहाः । वर्धते तस्य सौभाग्यं लक्ष्मीरव्याहता भवेत् ॥ २९ ॥ १ 'न्या' क पाठ । २ 'तेषु रत्नेषु' क पाठ ।
२६४ गन्धर्वतन्त्रे । द्रोहिणस्तस्य नश्यन्ति नश्यन्ति सकलापदः । रक्षोभूतपिशाचाद्या ने ( द्य ? त्त ) न्ते तं भयातुराः ॥ ३० ॥ उपर्युपरि वर्धन्ते धनरत्नानि संपदः । विना प्रतिष्ठया मुद्रां धारयित्वा पतत्यधः ॥ नाप्नोति च फलं तस्माद्धारयेद्विधिना प्रिये ॥ ३१ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे मुद्राधारण- विधिनिरूपणं नाम द्वात्रिंशः पटलः ॥ ३२ ॥
त्रयस्त्रिंशः पटलः । —=:◇·०·◇:=— देव्युवाच चक्रराजस्त्वया प्रोक्तः प्रतिष्ठा न प्रकाशिता । ईश्वर उवाच चक्रे मूर्तौ तथा शिष्ये प्रतिष्ठा त्रिविधोच्यते ॥ १ ॥ प्रतिष्ठितस्तथा शिष्यो दीक्षया खलु पार्वति । १अर्चां रत्नमयीं कृत्वा हैमीं वा राजतीं प्रिये ॥ २ ॥ प्रतिष्ठां विधिवत् कुर्यात् संस्थाप्य च गृहे शुभे । मासि मासि चरेद्यात्रां महाविभव२विस्तरात् ॥ ३ ॥ चतुःषष्ट्युपचारैस्तु पूजां कुर्याद्दिने दिने । दीक्षोक्तविधिना पूर्वमधिवासादिकं चरेत् ॥ ४ ॥ वासोभूषणगन्धाद्यैः कार्यतत्त्वार्थविद्गुरुः उक्तेन विधिना पूर्वं कृत्यं निर्वर्त्य ३देशिकः ॥ ५ ॥ पञ्चामृतैः पञ्चगव्यैः क्षालयेच्चक्रराजकम् । तथाविधे गृहे वेद्यां पूजयित्वा यथाविधि ॥ ६ ॥ नानाकुसुमसौरभ्यवासितेऽतिमनोहरे । सुषुम्नाव (र्तिने ? र्त्मना ) चक्रं पर्यङ्केऽथ निवेशयेत् ॥ ७ ॥ ———————————————————————— १ 'अर्चा' क पाठ । २ 'राम्' ख पाठ । ३ 'दै' ख पाठ ।