भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

सानुवाद-मिताक्षरावृत्तिसहितानि १४७

सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् ।
मातुर्वा सूतकं तस्मादुपस्पृश्य पिता शुचिः ॥ इति ।
शङ्खलिखितौ—जननेऽप्येवम् । तत्र मातापितरावशुची इति । मातेत्येके ॥ इति ।
पैठीनसिः—जनने सपिण्डाः शुचयो मातापित्रोस्तु सूतकम् ।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ इति ।
अत्र वृत्ताद्यपेक्षो दशाहो नैषां विकल्पः । अन्ये भणन्ति अनधिकारलक्षणमाशौचं सर्वेषां भवति । 'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति मानवे दर्शनात् । अस्पर्शितालक्षणं तु मातापित्रोरेवेति । गृहान्तरे वसतस्तत्संसर्गमगच्छतः पितुश्च नेति । 'सूतके सूतकावर्जं संस्पर्शो न निषिध्यते' इति च पठन्ति ॥ १४ ॥

जन्म का सूतक माता और पिता को होता है, अथवा केवल माता को ही होता है ॥ १४ ॥

गर्भमाससमा रात्रीः स्रंसने गर्भस्य ॥ १५ ॥

आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं तु नारीणां स्रवः प्रसव उच्यते ॥ इति ।
तिस्रो गर्भविपदस्ताः सर्वाः स्रंसनशब्देनोच्यन्ते । यावतिथे मासे गर्भस्य स्रंसनं तन्माससमा रात्रोराशौचं भवति । अत्यन्तसंयोगे द्वितीया । द्वितीयमासादियथामाससंख्यान्यहानीति ॥ १५ ॥

गर्भपात होने पर जितने मास का गर्भ रहा हो उतने दिन आशौच होता है ॥ १५ ॥

त्र्यहं वा ॥ १६ ॥

द्वितीयेऽपि मासे त्र्यहं वाऽपि भवति । चतुर्थे तूत्कर्षः ॥ १६ ॥

अथवा कम से कम (दूसरे मास में गर्भपात होने पर) तीन दिन आशौच होता है ॥ १६ ॥

श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥ १७ ॥

दशमीग्रहणं दशाहादेः परिपूर्णाशौचस्योपलक्षणम् । अहर्द्वयमध्यगता रात्रिः पक्षिणी रात्रिद्वयमध्यगतमहर्वा । पूर्ववद् द्वितीयाप्राप्तिर्विपत्तिप्रकरणात् । मरणनिमित्तमूर्ध्वं दशाहादाशौचकालेऽतिक्रान्ते यदि ज्ञातिमरणं शृणुयात्ततः पक्षिणीमाशौचं भवति । दिवा श्रवणे तदहरन्तरा रात्रिश्च(र) परेद्युश्चाहः । रात्रौ श्रवणे सा रात्रिर्परेद्युरहोरात्र इति ।

१४८ गौतमधर्मसूत्राणि

अत्र मनुः—अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥ इति ।
तथा जाबालिः—अतीते सूतके स्वे स्वे त्रिरात्रमशुचिर्भवेत् ॥ इति ।
अत्र सूतकशब्द आशौचपर्यायः । विष्णुस्तु-व्यतीते त्वासंवत्सर-
स्यान्त एकरात्रेणेति । एषा देशकालधर्मापेक्षया व्यवस्था ।
वृद्धवसिष्ठः—मासत्रये त्रिरात्रं तु षण्मासे पक्षिणी भवेत् ।
एतच्च सर्वं संवत्सरादर्वाक् । अत्र मनुः—
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ इति ।
अत्र पैठीनसिः—पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः ।
श्रुत्वा तद्दिनमारभ्य दशाहं सूतको भवेत् ॥ इति ।
स्मृत्यन्तरे—पितृपत्न्यां व्यतीतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे व्यतिक्रान्ते त्रिरात्रमशुचिर्भवेत् ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
एतत्तु समानोदकविषयम् ॥ १७ ॥

मृत्युविषयक दस रात्रियों का आशौच समाप्त होते ही किसी सपिण्ड की मृत्यु का समाचार सुने तो पक्षिणी (दो दिन और उनके मध्य की रात्रि अथवा दो रात्रियों और उनके मध्य के दिन का) आशौच होता है (अर्थात् दिन में सुनने पर उस दिन, उसके बाद की रात्रि और दूसरे दिन तक आशौच रहता है; रात्रि में सुनने पर, वह रात्रि, उसके बाद का दिन और दूसरी रात तक आशौच रहता है) ॥ १७ ॥

असपिण्डे योनिसंबन्धे सहाध्यायिनि च ॥ १८ ॥

सपिण्डता यस्य निवृत्ता सोऽसपिण्डः समानोदकः । योनिसंबन्धो मातामहमातृष्वसृतत्पुत्रादयः स्त्रीणां प्रत्तानां पित्रादयः स्वस्रादयश्च । सहाध्यायी एकस्मादुपाध्यायादधीतकृत्स्नवेदः । चकारात्स्मृत्यन्तरपठिताः पितृष्वसृतदपत्यादयोऽन्ये च । एतेषु मृतेषु परस्परं पक्षिणीमाशौचं भवति । पक्षिणीकाले त्वतीते स्नानमेव । मनुस्तु समानोदके त्रिरात्र-
माह—
राजन्याऽहैव चैकेन त्रिरात्रैरेव च त्रिभिः ।
शवस्पृशो विशुध्यन्ति त्र्यहात्तूदकदायिनः ॥ इति ।
अनयोः पूर्ववद् व्यवस्था । एतद्द्वयमप्यनुपनीतमरणविषयम् ।
ततोऽर्वाक्स्नानमेव । जननेऽपि समानोदकानां मनुना त्र्यहो दर्शितः-
जन्मन्येकोदकानां तु त्र्यहाच्छुद्धिरिहेष्यते ॥ इति ॥ १८ ॥

असपिण्ड और योनि सम्बन्ध वाले (मातामह, मौसी, उनके पुत्र आदि

सानुवाद-मिताक्षरावृत्तिसहितानि १४९

विवाहिता के पिता आदि, बहन (आदि) एवं एक साथ एक गुरु के यहाँ अध्ययन करने वाले की मृत्यु पर पक्षिणी आशौच होता है ॥ १८ ॥

सब्रह्मचारिण्येकाहम् ॥ १९ ॥

समानो ब्रह्मचारी सब्रह्मचारी सुहृत् । तस्मिन्मृते एकमहोरात्रमाशौचं भवति ॥ १९ ॥

( एक साथ ब्रह्मचर्याश्रम में रहने वाले ) समान ब्रह्मचारी की मृत्यु पर दिन-रात का आशौच होता है ॥ १९ ॥

श्रोत्रिये चोपसंपन्ने ॥ २० ॥

श्रोत्रियोऽधीतवेदः । उपसंपन्न आश्रितो गृहवासादिना । तस्मिन्मृते एकाहमाशौचम् । चकारादेकाहमित्यनुवर्तते । अत्राङ्गिराः— गृहे यस्य मृतः कश्चित्तत्सपिण्डः कथंचन । तस्याप्याशौचं विज्ञेयं त्रिरात्रं नात्र संशयः ॥ इति । मनुः—श्रोत्रिये तूपसपन्ने त्रिरात्रमशुचिर्भवेत् ॥ इति । आङ्गिरसमपि वचनं श्रोत्रियविषयम् । अत्र विष्णुः-स्त्रीणां विवाहः संस्कारः संस्कृतासु स्त्रीषु नाऽऽशौचं पितृपक्षे । तत्प्रसवमरणे पितृगृहे चेद्भवतां तदैकरात्रं त्रिरात्रं चेति । प्रसव एकरात्रं मरणे त्रिरात्रमिति व्यवस्थितो विकल्पः ॥ २० ॥

घर में निवास आदि द्वारा आश्रित वेदज्ञ की मृत्यु पर भी ( एक दिन-रात का ) आशौच होता है ॥ २० ॥

प्रेतोपस्पर्शने दशरात्रमाशौचमभिसंधाय चेत् ॥ २१ ॥

नात्रोपस्पर्शनशब्देन स्पर्शमात्रं विवक्षितम् । पतितचण्डालेत्यादिना सचैलस्नानस्य तद्विषये वक्ष्यमाणत्वात् । किं तर्ह्युपस्पर्शनं प्रेतनिर्हरणम् । तस्मिन्दशरात्रमाशौचं भवति । तच्चेन्निर्हरणमभिसंधाय वेतनादिप्रयोजनाभिसंधानेन भवति न धर्मार्थम् । सत्यप्याशौचाधिकारे पुनराशौचग्रहणं पूर्वस्मादाशौचादस्य वैधर्म्यज्ञापनार्थम् । तेन वक्ष्यमाणमधःशय्यासनादिकमस्मिन्विषये न भवति । अस्पृश्यताधिकारलक्षणमेव ॥ २१ ॥

यदि वेतनादि प्रयोजन से शव का उपस्पर्शन किया गया हो तो उसके लिए दस दिन का आशौच होता है ( किन्तु इस आशौच में पूर्वोक्त आशौच के समान अधःशय्यासन आदि नहीं होता ) ॥ २१ ॥

उक्तं वैश्यशूद्रयोः ॥ २२ ॥

अस्मिन्नभिसंधाय प्रेतोपस्पर्शनादिविषये वैश्यशूद्रयोरुक्तमाशौचं द्वादशरात्रमर्धमासमिति पूर्वोक्तम् ॥ २२ ॥

१५० | गौतमधर्मसूत्राणि

वेतनादि प्रयोजन से शव को ले जाने में वैश्य और शूद्र के लिए पूर्वोक्त ( बारह रात्रि या अर्धमास का ) आशौच होता है ॥ २२ ॥

आर्तवीर्वा ॥ २३ ॥

ऋतुसमानसंख्या वा रात्रीराशौचम् । षड् ऋतवः । पञ्च वा हेमन्त-शिशिरयोः समासेन ॥ २३ ॥

अथवा ऋतुओं की संख्या के बराबर रात्रियों तक का आशौच हो ॥ २३ ॥

पूर्वयोश्च ॥ २४ ॥

पूर्वयोर्ब्राह्मणक्षत्रिययोरपि वर्णयोरुक्तमाशौचमार्तवीर्वा रात्रीरा-शौचम् । उक्तस्यापि ब्राह्मणस्य पूर्वयोरिति पुनरुपादानमार्तवीर्वेति विक-ल्पसिद्ध्यर्थम् । पूर्ववद्देशकालावस्थाद्यपेक्षो विकल्पः । अत्र भृतिरहिते निर्हारे मनुः—

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥
यद्यन्नमत्ति तेषां यः स दशाहेन शुध्यति ।
अनदन्नन्नमह्नैव न चेत्तस्मिन्गृहे वसेत् ॥ इति ।

बन्धुवत्स्नेहादिना । ग्रामाद्वहिर्वासे वोढॄणां सज्योतिः । यथाऽह हारीतः—प्रेतस्पृशो ग्रामं न प्रविशेयुरा नक्षत्रदर्शनाद्रात्रौ चेदाऽऽदित्य-दर्शनात्ततः शुद्धिरिति । ग्रामप्रवेशे तु अनदन्नन्नमह्नैवेति मानवमेकाहः । अनाथविषये पराशरः—

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे क्रतुफलमानुपूर्व्याल्लभन्ति ते ॥
प्रेतस्पर्शनसंस्कारैर्ब्राह्मणो नैव दुष्यति ।
वोढा चैवाग्निदाता च सद्यः स्नात्वा विशुध्यति ॥ इति ॥ २४ ॥

अथवा पूर्ववर्ती ब्राह्मण और क्षत्रिय वर्णों के लिए भी यह आशौच ऋतु की संख्या के बराबर रात्रियों तक का हो ॥ २४ ॥

त्र्यहं वा ॥ २५ ॥

प्रेतोपस्पर्शन इत्यारभ्य सर्वेषां वर्णानां त्र्यहं वा । अत्युत्कृष्टविषय-मिदम् ॥ २५ ॥

अथवा ( प्रेतोपस्पर्शन में सभी वर्णों के लिए ) तीन दिन का आशौच होता है ॥ २५ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १५१

आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥ २६ ॥

उपनीय तु यः शिष्यमित्युक्तलक्षण आचार्यः । तत्पुत्र आचार्यपुत्रः । आचार्यस्त्री । याज्यो यजनीय ऋत्विगपेक्षया यजमानः । शिष्यः प्रसिद्धः । एतेषु मृतेषु चैवं त्र्यहमिति ॥ २६ ॥

आचार्य, उनके पुत्र, आचार्य की पत्नी, यजमान और शिष्य की मृत्यु पर तीन दिन का आशौच होता है ॥ २६ ॥

विजातीयनिर्हारविषयमाह—

अवरश्चेद्वर्णः पूर्ववर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र शवोक्तमा- शौचम् ॥ २७ ॥

अवरो जघन्यः क्षत्रियादिर्ब्राह्मणापेक्षया । पूर्वो ब्राह्मणादिः क्षत्रियाद्यपेक्षया । तयोरन्योन्यनिर्हारे शवजात्युक्तमाशौचं भवति । ब्राह्मणशवनिर्हरणे क्षत्रियस्य दशरात्रम् । क्षत्रियस्य शवनिर्हरणे ब्राह्मणस्यैकादशरात्रमित्यादि । अत्रैव भृत्यर्थे व्याघ्रः— अवरश्चेद्वरं वर्णमवरं वा वरो यदि । चरेच्छ्रावं तदाऽऽशौचं दृष्टार्थे द्विगुणं भवेत् ॥ २७ ॥

यदि कोई निम्नवर्ण का व्यक्ति किसी उच्च वर्ण के व्यक्ति का शव ले जाय अथवा कोई उच्च वर्ण का व्यक्ति निम्न वर्ण के व्यक्ति का शव ले जाय तो उस मृत व्यक्ति के वर्ण के अनुसार आशौच काल होता है । यथा क्षत्रिय ब्राह्मण का शव ले जाय तो उसे दस दिन-रात्रि का आशौच होता है ॥ २७ ॥

बुद्धिपूर्वशवस्पर्शमात्रे प्रासङ्गिकेन सह शुद्धिमाह—

पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचै- लोदकोपस्पर्शनाच्छुध्येत् ॥ २८ ॥

पतितो ब्रह्महादिः । चण्डालसूतिकोदक्याशवाः प्रसिद्धाः । एतेषां स्पृष्टौ तत्स्पृष्टौ स्प्रष्टॄणां च स्पृष्टावुपस्पर्शने तदुपस्पर्शने, स्प्रष्टॄणां स्पर्शने च सचैलोदकोपस्पर्शनात्स्नानाच्छुध्येत् । स्नानेन सचैलत्वेन शुद्धौ । अतः क्रियाविशेषणपाठोऽयुक्तः । अबुद्धिपूर्वे मानवम्— दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ इति ॥ २८ ॥

ब्रह्महत्यादि पापों से युक्त पतित, चण्डाल, सूतिका स्त्री, रजस्वला स्त्री, और शव छूने पर अथवा इनका स्पर्श किये हुए व्यक्ति को छूने पर पहने हुए वस्त्रों के साथ स्नान करने पर शुद्धि होती है ॥ २८ ॥

१५२ गौतमधर्मसूत्राणि

शवानुगमने च ॥ २९ ॥

अनुगम्येच्छयाऽप्येतं ज्ञातिमज्ञातिमेव वा ।
स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ इति ।

घृतप्राशनादूर्ध्वमपि स्नानं केचिदिच्छन्ति । तत्र मूलं मृग्यम् । याज्ञवल्क्योऽपि स्पृष्ट्वाऽग्नि घृतमुक्शुचिरित्येतावदेवाऽऽह । इदं सजातीयविषयम् । ब्राह्मणस्य क्षत्रियानुगमने वसिष्ठोक्तम् । 'मानुष्यास्थि स्पृष्ट्वा त्रिरात्रमाशौचमस्थिस्ने त्वहोरात्रं शवानुगमने चैवमिति' । एवमिति त्रिरात्राहोरात्रयोरतिदेशः । अत्र क्षत्रियानुगमन एकरात्रं वैश्यानुगमने त्रिरात्रमिति व्यवस्था । शूद्रानुगमने त्वङ्गिराः—

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन्नोयमानं त्रिरात्रं सोऽशुचिर्भवेत् ॥
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति ।

क्षत्रियवैश्ययोर्वैश्यशूद्रानुगमने ब्राह्मणवत्कल्प्यम् । क्षत्रियस्य शूद्रानुगमन एकरात्रं प्राणायामशतं च । मनुः—

नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेत् ।
आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वोक्ष्य वा रविम् ॥ इति ।

इदमबुद्धिपूर्वविषयम् । वृद्धमनुः—

दहनं वहनं चापि प्रेतस्यान्यस्य गर्भवान् ।
न कुर्यादुभयं तत्र कुर्यादेव पितुः सदा ॥
ज्येष्ठस्य वाऽनपत्यस्य मातुलस्य सुतस्य वा ॥ इति ।

पितुरिति मातुरप्युपलक्षणम् । आतुररोदने पारस्करः—

अस्थिसंचयनादर्वाग्रुदित्वा स्नानमाचरेत् ।
अन्तर्दशाहे विप्रस्य ऊर्ध्वमाचमनं स्मृतम् ॥ इति ।

विप्रस्य मृतस्यान्तर्दशाहे रुदतां सर्वेषां वर्णानां समानमिदम् । अत्र विष्णुः—सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन । अकृतास्थिसंचये सचैलस्नानेन शुद्धिरिति प्रकरणाद् गम्यते । इदं क्षत्रियादिमरणे समानापकृष्टांनां रोदने शूद्रवर्जम् । त्रिवर्णविषयातुररोदने ब्रह्मपुराणे पठन्ति—

अनस्थिसञ्चयो विप्रो रौति चेत्क्षत्रवैश्ययोः ।
तदा स्नातः सचैलस्तु द्वितीयेऽहनि शुध्यति ॥
कृते तु संचये विप्रः स्नानेनैव शुचिर्भवेत् ॥ इति ।

सानुवाद-मिताक्षरावृत्तिसहितानि १५३

क्षत्रियस्य वैश्यातुरव्यञ्जनेऽप्येवमेवोहितव्यम् । शूद्रातुरव्यञ्जने पारस्करः—

अस्थिसंचयनादूर्वाग्यदि विप्रोऽश्रु पातयेत् ।
मृते शूद्रे गृहं गत्वा त्रिरात्रेण विशुध्यति ॥
अस्थिसंचयनादूर्ध्वं मासो यावद् द्विजातयः ।
अहोरात्रेण शुध्यन्ति वाससां क्षालनेन च ॥
इत्यलं प्रसक्तानुप्रसङ्गेन ॥ २९ ॥

अथवा ( दाहकर्म के लिये ले जाये जाते हुए ) शव के पीछे जाने पर भी वस्त्रों सहित स्नान करने पर शुद्धि होती है ॥ २६ ॥

शुनश्च ॥ ३० ॥

उपसमस्तमप्यपेक्षते । शुनश्चोपस्पर्शने सचैलोदकोपस्पर्शनाच्छुद्ध्येत् । पृथक्करणं तत्सृष्टिन्यायनिवृत्त्यर्थम् ॥ ३० ॥

कुत्ते को छूने पर भी (वस्त्रसहित स्नान करने पर ही शुद्धि होती है) ॥३०॥

यदुपहन्यादित्येके ॥ ३१ ॥

एके तु यदङ्गं श्वोपहन्यात्तस्यैव प्रक्षालनमिच्छन्ति । अत्राऽऽपस्तम्बीयो विशेषः—शुनोपहतः सचैलोऽवगाहेत । प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवतीति । ऊर्ध्वाङ्गस्पर्शे स्नानमधः प्रक्षालनमिति व्यवस्थां जातूकर्ण्य आह—

ऊर्ध्वं नाभेः करौ मुक्त्वा स्पृश्येदङ्गं खरो यदि ।
स्नानं तत्र विधातव्यं शेषे प्रक्षाल्य शुध्यति ॥ इति ॥ ३१ ॥

कुछ आचार्यों का मत है कि जिस अंग को कुत्ते ने छू लिया है उसे धोने से ही शुद्धि हो जाती है ॥ ३१ ॥

उदकदानं सपिण्डैः कृतचूडस्य ॥ ३२ ॥

कृतचूडान्तस्य प्रेतस्य सपिण्डैरुदकदानं कर्तव्यं यावदाशौचम् । न ततोऽर्वागिति । अग्निसंस्कारोऽप्यस्यैव । यथाऽऽह लौगाक्षिः—

तूष्णीमेवोदकं दद्यात्तूष्णीमेवाग्निमेव च ।
सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम् ॥ इति ।

एवं च कृतचूडस्य नियतोऽग्निसंस्कार उदकदानं च । अकृतचूडस्य त्वनियतं तदकरणे न प्रत्यवायः । चूडाकरणेन कालो लक्ष्यते तृतीयं वर्षम् । बहुषु स्मृतिषु तथा दर्शनात् । मनुरपि—

द्वादशाद्वत्सरादर्वाक्पौगण्डमरणे सति ।

१५४ गौतमधर्मसूत्राणि

नात्रिवर्षस्य कर्तव्या ब्राह्मणैरुदकक्रिया ।
जातदन्तस्य वा कुर्यान्नाम्नि चापि कृते सति ॥ इति ।
अग्न्युदकग्रहणमौर्ध्वदेहिकस्योपलक्षणम् । तत्र देवलो विशेषमाह—
द्वादशाद्वत्सरादर्वाक्पौगण्डमरणे सति ।
सपिण्डीकरणं न स्यादेकोद्दिष्टानि कारयेत् ॥ इति ॥ ३२ ॥

जिस मृत व्यक्ति का चूडान्त संस्कार किया गया हो उसे ही सपिण्डों द्वारा उदकदान दिया जाना चाहिए ॥ ३२ ॥

तत्स्त्रीणां च ॥ ३३ ॥

तदुदकदानं स्त्रीणां च कृतचूड़ानां कार्यम् ॥ ३३ ॥
जिन का चूडाकरण हुआ हो उन्हीं की स्त्रियों एवं पुत्रियों को मरने पर जल दिया जाय ॥ ३३ ॥

एके प्रत्तानाम् ॥ ३४ ॥

एके मन्यन्ते प्रत्तानामेव स्त्रीणामुदकदानमप्रत्तानां तु नैवेति । प्रत्तानां च भर्तृपक्षैर्देयम् ॥ ३४ ॥
कुछ आचार्यों का मत है कि विवाहिता स्त्रियों को ही मरने पर जल दिया जाय ॥ ३४ ॥

अथाऽऽशौचकाले ज्ञातयः कथं वर्तेरन्—

अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ॥ ३५ ॥

भूमावेव शयीरन्नासीरंश्च न कटासनादिषु । मैथुनं च बर्जयेयुः । सर्वग्रहणं समानोदकार्थम् ॥ ३५ ॥
(आशौच काल में) सभी सपिण्ड भूमि पर ही सोवें और बैठें (चटाई और आसन आदि पर नहीं) तथा ब्रह्मचारी रहें (मैथुन से विरत रहें) ॥ ३५ ॥

न मार्जयीरन् ॥ ३६ ॥

मार्जनं गात्रमलापकर्षणम् । तच्च न कुर्युः ॥ ३६ ॥
शरीर की मैल न साफ करें ॥ ३६ ॥

न मांसं भक्षयेयुरा प्रदानात् ॥ ३७ ॥

प्रदानं श्राद्धम् । आ तदन्तं मांसं न भक्षयेयुः ॥ ३७ ॥
श्राद्ध समाप्त होने तक मांस का भक्षण न करे ॥ ३७ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १५५

प्रथमतृतीयसप्तमनवमेषूदकक्रिया ॥ ३८ ॥
प्रथमादिष्वहःसु सपिण्डैः प्रेताय तिलमिश्रमुदकं देयमेवंगोत्रायै- वं शर्मणे प्रेतायैतत्तिलोदकं ददामीति । प्रथमे त्रीन् । तृतीये नव । सप्तमे त्रिंशत् । नवमे त्रयस्त्रिंशत् । इति पञ्चसप्ततिर्जलाञ्जलयो देयाः । आचारस्तु प्रथमेऽह्नि त्रयः । द्वितीयादिष्वेकोत्तरं दीयते ॥ ३८ ॥
पहले, तीसरे, सातवें और नवें दिन ( तिल युक्त ) जल की अंजलि प्रेत के लिए प्रदान करें ॥ ३८ ॥

वाससां च त्यागः ॥ ३६ ॥
उदकदानकाले परिहितानि वासांसि प्रथमतृतीयसप्तमनवमेषु त्या- ज्यानि । अन्यानि क्रमेण परिधेयानि ॥ ३९ ॥
उदकदान के समय धारण किये गये वस्त्रों का त्याग ( करके दूसरे वस्त्र धारण ) करें ॥ ३९ ॥

अन्ते ( न्त्ये ) त्वन्त्यानाम् ॥ ४० ॥
वर्णेष्वन्त्याः शूद्रास्तेषामन्त्ये नवमेऽहनि वाससां त्यागः ॥ ४० ॥
शूद्र अन्तिम उदकदान के समय अर्थात् नवे दिन वस्त्र त्याग करे ॥ ४० ॥

दन्तजन्मादि मातापितृभ्याम् ॥ ४१ ॥
दन्तजन्मप्रभृति पुत्रस्य मातापितरौ जलं दद्याताम् । तूष्णीं माता ॥ ४१ ॥
दाँत निकलने के बाद (मृत) पुत्र को माता और पिता उदकाञ्जलि दें ॥ ४१ ॥

बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यःशौचम् ॥ ४२ ॥
बालोऽकृतचूडः । देशान्तरितो देशेन व्यवहितो देशान्तरस्थः । प्रव्रजिता नैष्ठिकवानप्रस्थपरिव्राजकाः असपिण्डाः समानोदकाः । तेषां मरणे ज्ञातीनां सद्यःशौचं स्नानेन शुद्धिः । बालविषये याज्ञवल्क्यः-

ऊनद्विवार्षिकं प्रेतं निखनेन्नोदकं ततः ।
आ दन्तजन्मनः सद्य आ चूडान्नैशिकी स्मृता ॥
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् । इति ।

अङ्गिराः-

यद्यप्यकृतचूड़ो वै जातदन्तस्तु संस्थितः ॥
दाहयित्वा तथाऽप्येनमाशौचं त्र्यहमाचरेत् ॥ इति ।

मनुस्तु-

ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः ।
अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥
नास्य कार्योऽग्निसंस्कारो नास्य कार्योदकक्रिया ।
अरण्ये काष्ठवत्त्यक्त्वा क्षपेत् त्र्यहमेव तु ॥ इति ।

१५६ गौतमधर्मसूत्राणि

आश्वलायन—अदन्तजाते परिजात एकाहम्। इति। आपस्तम्बस्तु—मातुश्च योनिसंबन्धेभ्यः पितुश्चा सप्तमात्पुरुषाद्यावत्ता वा संबन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान्परिहाप्यापरिसंवत्सरान्मातापितरावेव तेषु हर्त्तारश्चेति। एतेषां देशकुलधर्मापेक्षया व्यवस्था। अत्र कन्याविषय आपस्तम्बः—

अप्रौढायां तु कन्यायां सद्यःशौचं विधीयते। इति।

अप्रौढाऽकृतचूडा।
[याज्ञवल्क्यः—] अहस्त्वदत्तकन्यासु बालेषु च विशोधनम्॥ इति। इदं चौलादूर्ध्वम्। व्याघ्र आह—

बाले मृते सपिण्डानां सद्यःशौचं विधीयते।
दशाहेनैव दंपत्योः सोदराणां तथैव च॥ इति।

इदं तु सूतकं दशाहान्तर्मरणविषयम् तथा च—

अन्तर्दशाहे जातस्य शिशोर्निष्क्रमणं यदि।
सूतकेनैव शुद्धिः स्यात्पित्रोः शातातपोऽब्रवीत्॥ ४२॥

जिसका चूडान्त संस्कार न हुआ हो ऐसे बालक, परदेश गये हुए की, नैष्ठिक या वानप्रस्थ परिव्राजक तथा असपिण्ड की मृत्यु पर उनकी जातिवाले तत्काल स्नान द्वारा शुद्ध हो जाते हैं॥ ४२॥

राज्ञां च कार्यविरोधात् ॥ ४३ ॥

राज्ञश्च सद्यःशौचं कार्यविरोधात्। कार्यं प्रजारक्षणादि। बहुवचननिर्देशाच्चे चान्येऽमात्यादयस्तत्कार्यवन्तस्तेषामपि। यस्य चेच्छति पार्थिव इति मनुः॥ ४३॥

राजकार्य में विघ्न न हो अतः राजा सदैव पवित्र होते हैं (अमात्य आदि भी)॥ ४३॥

ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थं स्वाध्यायनिवृत्त्यर्थम् ॥४४॥

ब्राह्मणस्य च सद्यःशौचं स्वाध्यायनिवृत्तिर्मा भूदिति। बहुशिष्यस्याध्यापयत इदमुक्तम्। [अभ्यासोऽध्यायसमाप्त्यर्थः] इत्याशौचम्॥४४॥

इति श्रीगौतमयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने पञ्चमोऽध्यायः॥ ५॥

ब्राह्मण भी सदैव पवित्र रहता है जिससे उसके दैनिक अध्यवसाय में विघ्न न हो पड़े॥ ४४॥

द्वितीयप्रश्ने पञ्चमोऽध्यायः समाप्तः।

अथ षष्ठोऽध्यायः

अथ श्राद्धम् ॥ १ ॥

अथशब्दोऽधिकारार्थः । श्राद्धं नाम कर्माधिक्रियते । श्रद्धा यत्र विद्यते तच्छ्राद्धम् । तच्च पञ्चविधम्

नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् ।
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥

तत्र नित्यं मनुराह—

दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥
एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयाज्ञिके ।
न चैवात्राऽशयेत्किंचिद्वैश्वदेवं प्रतिद्विजम् ॥ इति ।

ग्रहणादिषु यत्क्रियते तन्नैमित्तिकम् । तस्य प्रयोगः पार्वणवत् । एकोद्दिष्टं सपिण्डीकरणमष्टकेत्येतान्यपि नैमित्तिकान्येव । तत्रैकोद्दिष्टं षोडशविधम् ।

मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥ इति याज्ञवल्क्यः ।

एकोद्दिष्टं तु कर्तव्यमित्याद्यपादे लौगाक्षिः ।
व्याघ्रः—

एकादशेऽह्नि कर्तव्यं त्रिपक्षे च तथैव च ।
षण्मासे च ततः कुर्यादेकोद्दिष्टं प्रयत्नतः ॥ इति ।
तत्त संवत्सरे पूर्णे त्रिपक्षे वा तथैव च ।
सपिण्डोकरणं कुर्यादर्वाग्वा वृद्धिसंभवे ॥ इति ।

जातूकण्यैः—

चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
यदन्नं दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥

इति च पठन्ति । वर्णानुपूर्व्येव्यवस्थितानि चत्वार्येतानि । तदेव श्राद्धमेकमेकादशेऽहनीति प्रधानम् । एकादशग्रहणमाशौचान्तोपलक्षणम् । तत्र च मासे तदैव मासिकम् । सपिण्डोकरणे प्रेतस्यैकोद्दिष्टं पित्रादिभ्यः पार्वणम् । तत्रापि मासे तदेव मासिकम् । मध्ये दश मासिकानि त्रिपक्षषाण्मासिकयोः प्रतिसंवत्सरं चापरं मृताहे सांवत्सरिकमिति षोडशैकोद्दिष्टानि ।

१५८ गौतमधर्मसूत्राणि

पठन्ति च—

नवत्रिपक्षषण्मास्यसांवत्सरिकमासिकम् ।
श्राद्धैः षोडशभिः प्रेतः पिशाचत्वं विमुञ्चति ॥
यस्यैतानि न कुर्वन्ति एकोद्दिष्टानि षोडश ।
पिशाचत्वं स्थिरं तस्य कृतैः श्राद्धशतैरपि ॥ इति ।

हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका एकस्यां वा । प्रथमेऽहनि क्रियमाणे रूपवत्यं जायत इत्यादि कामसंयोगेन क्रियमाणं काम्यम् । तदपि पार्वणवदेव । विवाहादिवृद्धिकर्मसु पूर्वेद्युः कर्तव्यं वृद्धिश्राद्धम् । तस्मात्पितृभ्यः पूर्वेद्युः क्रियत इति ब्राह्मणमूलम् । तत्र युग्मा ब्राह्मणा यवास्तिलार्थाः । अन्यत्पार्वणवत् । पार्वणं तु वक्ष्यते ॥ १ ॥

अब श्राद्ध का विवेचन किया जाता है ॥ १ ॥

अमावास्यायां पितृभ्यो दद्यात् ॥ २ ॥

सूर्याचन्द्रमसौ यस्यां सह वसतः साऽमावास्या । पितृभ्य इति बहुवचनात्पितृपितामहप्रपितामहेभ्यो दद्यात् । दानप्रकारो गृह्येोक्तः 'होमो ब्राह्मणभोजनं पिण्डनिर्वपणम्' इति । इह तु ब्राह्मणभोजने विशेषः ॥ २ ॥

अमावस्या को पितरों के लिए (होम, ब्राह्मण, भोजन और पिण्ड का दान) देना चाहिए ॥ २ ॥

पञ्चमीप्रभृतिषु वाऽपरपक्षस्य ॥ ३ ॥

अपरपक्षः कृष्णपक्षः । तस्य पञ्चमप्रभृति वा दद्यात् ॥ ३ ॥

अथवा कृष्णपक्ष की पञ्चमी आदि तिथियों पर देना चाहिए ॥ ३ ॥

यथाश्रद्धं सर्वस्मिन्वा ॥ ४ ॥

सर्वस्मिन्वाऽपरपक्षे दद्याद्यथाश्रद्धं यथा श्रद्धा भवतीति ॥ ४ ॥

अथवा कृष्णपक्ष की सभी तिथियों में अपनी श्रद्धा के अनुसार देना चाहिए ॥ ४ ॥

द्रव्यदेशब्राह्मणसंनिधाने वा कालनियमः ॥ ५ ॥

तिलमाषेत्यारभ्य वक्ष्यमाणं तत्तत्प्रशस्तं द्रव्यम् । देशो गयापुष्करादिः ।

पुष्करेष्वक्षयं श्राद्धं कुरुक्षेत्रे तथैव च ।
दद्यान्महोदधौ चैव हृद्गोष्ठे गिरौ तथा ॥ इति व्यासः ।
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते । इति याज्ञवल्क्यः ।

सानुवाद-मिताक्षरावृत्तिसहितानि १५९

ब्राह्मणाः पङ्क्तिपावना वक्ष्यमाणाः षडङ्गविदादयः । एतेषां द्रव्यादीनां संनिधाने समवाये कालनियमः संनिधिरेव काल इति । वाशब्दो विकल्पार्थः ॥ ५ ॥

अथवा (तिल, माष इत्यादि) द्रव्य, (गया, पुष्कर आदि) देश, और (पवित्र, षडङ्गविद्) ब्राह्मण के संयोग होने पर श्राद्ध का समय समझना चाहिए ॥ ५ ॥

शक्तितः प्रकर्षेद् गुणसंस्कारविधिरन्नस्य ॥ ६ ॥

अन्नस्य भक्ष्यभोज्यादेर्गुणविधयः पायसत्वविशदसिद्धत्वादयः । संस्कारविधयो भर्जनमरिचजीरकलवणादिभिः सुरभीकरणादयः । एतान्यथाशक्ति प्रकर्षेत्प्रकृष्टान्कुर्यात् ॥ ६ ॥

अपनी शक्ति के अनुसार उत्तम प्रकार के भक्ष्य एवं (मरिच, जीर, लवण आदि द्वारा छौंक बघार कर) संस्कार विधि द्वारा अन्न विशेष रूप से बनवाने चाहिए ॥ ६ ॥

नवावरान्भोजयेद्युजः ॥ ७ ॥

नवसंख्याऽवरा येषां ते नवावरास्तावतो ब्राह्मणान्भोजयेत् । अयुजोऽयुग्मसंख्यान् । नवपक्षे पितुस्त्रीन्पितामहस्य त्रीन्प्रपितामहस्य त्रीन् । अवरग्रहणादधिका अपि भवन्ति पञ्चदशैर्काविंशतिरित्यादयः । अयुज इति वचनाद् द्वादशादिव्यावृत्तिः ॥ ७ ॥

कम से कम नौ अथवा नौ से अधिक विषम संख्या में ब्राह्मणों को भोजन करावे ॥ ७ ॥

यथोत्साहं वा ॥ ८ ॥

यथासामर्थ्यं नवभ्योऽर्वागपि भोजयेत् । अयुज इत्यनुवृत्तेस्त्रीनेव । तथा चाऽऽपस्तम्बः—अयुग्मांस्त्रयवरानिति । शाखान्तरेषु विश्वेभ्यो देवेभ्यो ब्राह्मणभोजनमाम्नातं मातामहानां च । यथाऽऽह याज्ञवल्क्यः—

द्वौ दैवे प्राक्त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥ इति ॥

दैवे द्वौ ब्राह्मणौ प्राङ्मुखावुपवेश्यौ । पित्रर्थे तत्रोदङ्मुखाः । एकैकस्यैकमेव वेति । देवानामेकः पित्रादीनां त्रयाणामेक इति । मातामहानामप्येवं पितृश्राद्धवत् । द्वौ दैवे मातामहार्थे त्रयः । वैश्वदैविकं तन्त्रं वा भवति पितुः श्राद्धस्य मातामहश्राद्धस्य च ॥ ८ ॥

१६० गौतमधर्मसूत्राणि

अथवा अपनी सामर्थ्य के अनुसार ( नौ से कम अयुग्म संख्या में ) ब्राह्मणों को भोजन दें ॥ ८ ॥

कीदृशान्भोजयेत्तत्राऽऽह—

श्रोत्रियान्वाग्रूपवयःशीलसंपन्नान् ॥ ९ ॥

श्रोत्रियानधीतवेदान् । वाक्संपत्तिः सुशिक्षितं वाक्यं संस्कृतभाषणादि । रूपसंपन्नान्सौम्यवेषानन्यूनाधिकाङ्गाञ्श्वित्राद्यदूषितान्वयःसंपन्नाननतिबालान् । शीलमन्तःकरणशुद्धिस्तत्संपन्नान् । एवंगुणान्भोजयेत् ॥ ९ ॥

वेदज्ञ, सुशिक्षित ( शुद्ध ) वाणी वाले, रूपसम्पन्न, वयस्क ( बालक न हों ), एवं शीलवान् ब्राह्मणों को भोजन करावे ॥ ९ ॥

युवभ्यो दानं प्रथमम् ॥ १० ॥

एवंगुणेभ्यो युवभ्यः श्राद्धदानं मुख्यः कल्पः ॥ १० ॥

उपरोक्त गुणों से युक्त युवक ब्राह्मणों को श्राद्धदान देना प्रमुख बताया गया है ॥ १० ॥

एके पितृवत् ॥ ११ ॥

एके मन्यन्ते पितृवत्पित्राद्यनुरूपं दानमिति । यथा पित्रे तरुणाः पितामहाय वृद्धाः प्रपितामहाय वृद्धतरा इति ॥ ११ ॥

कुछ आचार्यों का मत है कि पिता आदि के अनुरूप दान देना चाहिये । ( अर्थात् पिता के लिए तरुणों को, पितामह के लिए वृद्धों को और प्रपितामह के लिए अत्यन्त वृद्ध ब्राह्मणों को दान दे ) ॥ ११ ॥

न च तेन मित्रकर्म कुर्यात् ॥ १२ ॥

न च तेन श्राद्धेन मित्रकर्म कुर्यात् । येन मैत्री कार्या तस्मिन्नर्थापेक्षितं न भोजयेत् । मित्रलोभकारार्थं न भोजयेदित्यर्थः । आपस्तम्बस्तु—अनर्थापेक्षो भोजयेदिति विशेषेणाऽऽह ॥ १२ ॥

उस श्राद्धदान द्वारा किसी से मित्रता स्थापित करने का ( स्वार्थपूर्ण ) प्रयोजन नहीं सिद्ध करना चाहिए ॥ १२ ॥

पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युः ॥१३॥

पुत्रा दद्युरिति प्रथमः कल्पः । तदभावे सपिण्डा भ्रातृतत्पुत्रादयः । तदभावे मातृसपिण्डा मातृभ्रातृतत्पुत्रादयः । तदभावे शिष्यः ॥ १३ ॥

पुत्रों के न होने पर सपिण्ड अर्थात् भाई या उनके पुत्र श्राद्ध करें, उनके भी

सानुवाद-मिताक्षरावृत्तिसहितानि १६१

भी अभाव में माता के भाई (मामा) अथवा उनके पुत्र आदि श्राद्ध करें; इनके भी न होने पर शिष्य श्राद्ध-दान दे ॥ १३ ॥

तदभाव ऋत्विगाचार्यौ ॥ १४ ॥

शिष्याभाव ऋत्विक् । तदभाव आचार्यश्च दद्युरिति ॥ १४ ॥

शिष्य के भी न होने पर ऋत्विक् और उसके अभाव में आचार्य श्राद्ध दान करें ॥ १४ ॥

श्रोत्रियाधीनत्वे सत्यपि वर्ज्यानाह—

न भोजयेत्स्तेनकलीबपतितनास्तिकतद्वृत्तिवीरहाग्रेदिधिषु-

पतिस्त्रीग्रामयाजकाजापालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षिप्रतिहा-

रिकान् ॥ १५ ॥

स्तेनो हिरण्यस्तेनः । क्लीबो मोघवीर्यो न तृतीयाप्रकृतिः । अश्रोत्रियत्वात्पतितो ब्रह्महादिः । नास्तिकः प्रेत्यभावापवादी । तद्वृत्तिर्नास्तिकवृत्तिः । प्रेत्यभावमङ्गीकृत्यापि यस्तदनुकूलं न चेष्टते संसर्गवशात् । वीरहा यो बुद्धिपूर्वमग्नीनुद्वासयीत सत्यामप्युपपत्तौ । श्रूयते हि—वीरहा एष देवानां योऽग्निमुद्वासयत इति । अग्रेदिधिषू इति दीर्घान्तं केचित्पठन्ति । पतिशब्दः प्रत्येकं संबध्यते । अग्रेदिधिषुपतिर्दिधिषुपतिरिति ।

ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा ।
सा त्वग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥ इति ।

तयोः पती । नैघण्टुकास्तु—

पुनर्भूदिधिषूरूढा द्विस्तस्या दिधिषुः पतिः ।
स तु द्विजोऽग्रेदिधिषुः सैव यस्य कुटुम्बिनी ॥ इति ।

स्त्रीग्रामयाजकः । स्त्रीणां व्रतानामुपदेष्टाऽनुष्ठापयिता स स्त्रीयाजकः । ग्रामयाजको बहुयाजकः अजापालोऽजारक्षणजीविकः । उत्सृष्टाग्निराशौचाद्यनुपपत्त्या प्रमादाद्वा विच्छिन्नाग्निः । मद्यपः सुराव्यतिरिक्तमदकरद्रव्यस्य पाता । सुरापस्तु पतितत्वेनोक्तः । कुचरः कुत्सिताचारः । साक्ष्येऽनृतवक्ता कूटसाक्षी । प्रातिहारिको द्वारपालवृत्तिः । एतान्न भोजयेत् । येषां पतितादीनां दर्शनस्पर्शनादिकं प्रतिषिद्धं तेषां प्रतिषेधः कृतप्रायश्चित्तानामपि वर्जनार्थः ॥ १५ ॥

चोर, निःसन्तान (मोघवीर्य), ब्रह्महत्यादि या अध्ययन के तिरस्कार से पतित, नास्तिक, नास्तिक वृत्ति वाले (अर्थात् प्रेत्यभाव स्वीकार करके भी उसके अनुकूल आचरण न करने वाले) जान बूझ कर पवित्र अग्नि

११ गौ०

१६२गौतमधर्मसूत्राणि

का ध्वंस करने वाले, जिस पुरुष से बड़ी बहन के अविवाहिता रहते छोटी बहन का विवाह हुआ हो, जिस पुरुष के साथ ऐसी स्त्री का विवाह हुआ हो जिसके अविवाहिता रहते उसकी छोटी बहन का विवाह हो गया हो, स्त्रियों के लिये यज्ञकार्य कराने वाले, अथवा अनेक मनुष्यों के लिये यज्ञ कराने वाले, बकरी रखने वाले, अग्निकर्म त्यागने वाले, सुरापान करने वाले, दुराचारी, झूठी गवाही देने वाले और चौकीदारी करने वालों को भोजन नहीं कराना चाहिए ॥ १५ ॥

उपपतिः ॥ १६ ॥

उपपतिर्जारः ॥ १६ ॥

जार को भोजन न करावे ॥ १६ ॥

यस्य च सः ॥ १७ ॥

स उपपतिर्यद्विषये स च साक्षात्पतिस्तावुभावपि न भोजनीयौ ॥१७॥

जिस पुरुष की पत्नी का जार हो उस पुरुष को भी भोजन न करावे ॥१७॥

कुण्डाशिसोमविक्रय्यगारदाहिगरदावकीर्णिगणप्रेष्यागम्यागामिहिंस्रपरिवित्तिपरिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्वालकुनखिश्यावदन्तश्वित्रिपौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रापतिनिराकृतिकिलासिकुसीदिवणिकशिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान् ॥ १८ ॥

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥ इति मनुः।

तस्य कुण्डस्यान्नमश्नातीति कुण्डाशी । कुण्डग्रहणं गोलकस्याप्युपलक्षणम् । कुण्डादीनां तु प्रतिषेधो दण्डापूपिकया सिद्धः । अपर आह— पाकभाजनं कुण्डं तत्रैव क्वचिद्दशेऽश्नन्ति तन्न त्यजन्ति ते कुण्डाशिनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । अगारदाही वेश्मदाहकः । गरदो विषस्य दाता । अवकीर्णी व्रतभ्रष्टः । अथवा यो ब्रह्मचारी स्त्रियमुपेयात्सः । गणप्रेष्यो गणानां प्रेषणकृत् । अगम्यागामी समानप्रवरस्त्रीगामी । हिंस्रः प्राणिवधरुचिः ।

परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ।
परिवित्तिस्तु तज्ज्यायान् ॥ इति निघण्टुः ॥

ज्येष्ठेऽकृताधाने कृताधानः कनिष्ठः पर्याधाता ज्येष्ठः पर्याहितः ।

सानुवाद-मिताक्षरावृत्तिसहितानि १६३

वसिष्ठः—उन्मत्तः किल्बिषी कुष्ठो पतितः क्लीब एव च ।
यक्ष्मामयावी च तथा न त्याज्यः स्यात्परोक्षितुम् ॥ इति ।
शातातपः—क्लीबे देशविनष्टे च पतिते प्रव्रजिते तथा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥ इति च ।
त्यक्तात्मा साहसिक उद्वन्धनादौ प्रवृत्तः । दुर्वाळः खलतिः । वेष्टित-
शफे इत्यन्ये । कुनखी विना कारणेन विवर्णनखः । विनष्टनख इत्यन्ये ।
श्यावदन्तः स्वभावतः कृष्णदन्तः । श्वित्री श्वेतकुष्ठी । पौनर्भवो द्विरूढा
पुनर्भूस्तस्याः पुत्रः । कितवो द्यूतकरः कितं वातीति पणपूर्वजीवो वा ।
अजपो विहितस्य सावित्र्यादिजपस्याकर्ता । राजप्रेष्यो दूतादिः । प्राति-
रूपिकः कूटतुलामानादिव्यतिहारी । शूद्रापतिः सैव भार्या यस्य । निरा-
कृतिरस्वाध्यायः । श्रोत्रियानित्युक्तेऽपि पुनः प्रतिषेधाद्ब्राह्मण्याद्यवयवःशीलसंप-
त्तावप्यसत्यां गतौ ग्रहणं भवति । किलासस्त्वग्दोषो बलंडीति द्रविडानां
प्रसिद्धः । भूम्नि मत्वर्थीयः । कुसीदो वार्धुषिको वृद्ध्याजीवी । वैश्यवृत्त्या
वाणिज्योपजीवी वणिक्, वणिगुपजीवी । चित्रकर्मादिभिरुपजीवी शिल्पो-
पजीवी । शीलशब्दो ज्यादिभिः प्रत्येकं संबध्यते । ज्याशीलो धनुर्वेदोष-
जीवो । वादित्रशीलो भेर्यादिताडनवृत्तिः । तालशीलस्तालवृत्तिः । नृत्य-
गीतशीलौ च तथैतान्न भोजयेत् ॥ १८ ॥

कुण्ड (और गोलक-अवैध संबन्ध से उत्पन्न व्यक्तियों) का अन्न खाने
वाले, सोम बेचने वाले, किसी का घर जलाने वाले, ब्रह्मचर्य भंग करने वाले,
किसी गण के सेवक, जिन स्त्रियों से संभोग नहीं करना चाहिए उन (समान
प्रवर आदि की स्त्रियों) का संभोग करने वाले, हिंसा करने की रुचि वाले, बड़े
भाई के विवाह के पूर्व ही अपना विवाह करने वाले, छोटे भाई के विवाह के
बाद विवाहित, जिसके छोटे भाई ने उससे पहले अग्निहोत्राग्नि का आधान किया
हो, बड़े भाई के अग्निहोत्राग्नि का आधान करने के पूर्व स्वयं अग्नि का आधान
करने वाले, स्वयं अपने को आघात पहुँचाने वाले, गंजे व्यक्ति, भद्दे नाखूनों
वाले, काले दाँतों वाले, श्वेतकुष्ठ के रोगी, पुनर्भू (दुबारा ब्याही गई स्त्री)
के पुत्र, जुआड़ी, सावित्री आदि विहित मन्त्रों के जप का तिरस्कार करने वाले,
राजा के दूत आदि, कम तौलने तथा गलत तराजू रखने वाले, जिसकी एक
ही शूद्र जाति की पत्नी हो, दैनिक स्वाध्याय आदि का तिरस्कार करने वाले,
चर्म रोग से पीड़ित, ब्याज लेने वाले, व्यापारी, शिल्पी (चित्रकार आदि),
धनुष बाण द्वारा जीविका निर्वाह करने वाले, बाजा बजाकर जीविका निर्वाह
करने वाले, भेरी बजाने वाले, नृत्य एवं गान द्वारा जीविका चलाने वाले—
इन सबको (श्राद्ध में) भोजन नहीं देना चाहिए ॥ १८ ॥

१६४ गौतमधर्मसूत्राणि

पित्रा वाऽकामेन विभक्तान् ॥ १९ ॥
ये चानिच्छता पित्रा विभक्तास्तान्न भोजयेत् ॥ १९ ॥
जो पिता की इच्छा के बिना विभक्त हुए हैं उन्हें भोजन न करावे ॥१९॥

शिष्यांश्चैके सगोत्रांश्च ॥ २० ॥
एक आचार्याः शिष्यान्सगोत्रांश्चाभोजनीयानाहुः । एकग्रहणाद्भोजनीया इति स्वमतम् । तत्र गुणवदसंभवे तेषां गुणवत्त्वे सतीति । तथा चाऽऽपस्तम्बः–समुदेतः सोदर्योऽपि भोजयितव्य इति ॥ २० ॥
कुछ आचार्यों का मत है कि शिष्यों और सगोत्रों को भोजन न करावे ॥ २० ॥

भोजयेदूर्ध्वं त्रिभ्यः ॥ २१ ॥
यथोत्साहं वेत्यनेन सर्वार्थमेकस्यापि प्रसङ्गस्तन्निवृत्त्यर्थमिदम् । त्र्यवरान्भोजयेत् । त्र्यवरानित्यापस्तम्बीये दर्शनाच्च ॥ २१ ॥
तीन से अधिक ब्राह्मणों को भोजन करावे ॥ २१ ॥

गुणवन्तम् ॥ २२ ॥
एकवचनप्रयोगेण गुणवांश्चेदेकमपि भोजयेत् ।
वसिष्ठोऽपि—

अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।
शीलवृत्तगुणोपेतमवलक्षणवर्जितम् ॥ इति ।

मनुरपि—

एकैकमपि विद्वांसं दैवे पित्र्ये च भाजयेत् ।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान्बहूनपि ॥ इति ॥ २२ ॥

यदि ब्राह्मण गुणवान् हो तो एक को भी भोजन कराया जा सकता है ॥२२॥

सद्यः श्राद्धी शूद्रातल्पगस्तत्पुरीषे मासं नयति पितॄन् ॥२३॥
येन श्राद्धं भुक्तं स तस्मिन्नहोरात्रे श्राद्धीत्युच्यते । श्राद्धमनेन भुक्तमिति, अत इनिठनौ । समानकालः स यदि तदहः शूद्रातल्पं गच्छेत् । तल्पग्रहणं भार्यार्थम् । ऊढामपि शूद्रां यदि गच्छेत्सद्य एव तस्याः पुरीषे पितॄन्मासं नयति ॥ २३ ॥
श्राद्ध भोजन करने वाला यदि उस रात्रि शूद्रा के साथ संभोग करता है तो वह पितरों को उस शूद्रा के पुरीष में एक मास तक डालता है ॥ २३ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १६५

इतरासु भार्यासु कल्प्यमत आह—

तस्मात्तदहर्ब्रह्मचारी च स्यात् ॥ २४ ॥

मानवे दातुरपि नियम उक्तः—
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।
न च च्छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवत् ॥ इति ॥ २४॥
इसलिए उस रात्रि ब्रह्मचारी रहना चाहिए ॥ २४ ॥

श्वचाण्डालपतितावेक्षणे दुष्टम् ॥ २५ ॥

श्वादिभिरवेक्षितमन्नं दुष्टमभोज्यं भवति । श्राद्धं चावेक्षितं दुष्टमकृतं भवति ॥ २५ ॥

जिस अन्न पर कुत्ता, चाण्डाल और ब्रह्महत्यादि पाप से युक्त व्यक्ति की दृष्टि पड़ी हो वह भोजन करने योग्य नहीं होता ( और इसी प्रकार जिस श्राद्ध पर उनकी दृष्टि पड़े वह व्यर्थ हो जाता है ) ॥ २५ ॥

यस्मादेवम्—

तस्मात्परिश्रिते दद्यात् ॥ २६ ॥

परिश्रयणं तिरस्करिण्यादिना व्यवधानम् ॥ २६ ॥
अतएव श्राद्धभोजन घिरे हुए स्थान पर कराना चाहिए ॥ २६ ॥

तदशक्तौ—

तिलैर्वा विकिरेत् ॥ २७ ॥

अत्र भृगुः—पानीयमपि यद्दत्तं तिलैर्मिश्रं द्विजस्य तु ।
पितृभ्यः कामधुक्त्तत्स्यात्पितृगुह्यमिदं ततः ॥ इति ॥२७॥
अथवा ( यदि घिरे हुए स्थान पर भोजन न करा सके तो ) उस स्थान पर तिल बिखेर दे ॥ २७ ॥

पङ्क्तिपावनो वा शमयेत् ॥ २८ ॥

पङ्क्तिर्येन पाव्यते स पङ्क्तिपावनः। श्वाद्यवेक्षणे यो दोषस्तं शमयेत् ॥ २८ ॥

अथवा पंक्ति को पवित्र करने वाला व्यक्ति उपर्युक्त अपवित्रताओं को दूर करता है ॥ २८ ॥

१६६ गौतमधर्मसूत्राणि

स कः पुनरसौ तमाह— पङ्क्तिपावनः षडङ्गविज्ज्येष्ठसामिकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद्धर्मज्ञो ब्रह्मदेयानुसंतान इति ॥ २९ ॥

शिक्षा कल्पो व्याकरणं ज्योतिषं निरुक्तं छन्दोविचितिरिति षडङ्गानि । तेषां पाठतोऽर्थतश्च ज्ञाता षडङ्गवित् । ज्येष्ठसामिकः—तलवकाराणामुदुत्यं चित्रमित्येतयोर्गायको ज्येष्ठसामगश्छन्दोगानां तु तद्विदासीती तोयं तद्यो- गयेति(?) ज्येष्ठं साम तद्वेदिता ज्येष्ठसामिकः । त्रिणाचिकेतो नाचिकेतो- बहुषु शाखासु विधीयते तैत्तिरीये कठवल्लीषु शतपथे च । ते यो वेद ब्राह्मणेन सह स त्रिणाचिकेतः । "मधु वाता ऋतायते" इत्येतत्तृचं त्रिमधु । तत्र प्रत्यृचं त्रयो मधुशब्दाः । आश्वलायनोऽप्याह—'तृप्तान्ज्ञात्वा मधुमतीः श्रावयेत्' इति । इह तु तदध्यायी पुरुषस्त्रिमधुः । त्रिसुपर्ण ऋग्वेदे 'एकः सुपर्णः स समुद्रमाविवेश' इत्यादिकस्तृचः । तैत्तिरीयके ब्रह्ममेतु माम्' इत्यादयस्त्रयोऽनुवाकाः । तत्र हि "य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात्" इति श्रूयते । पूर्ववत्पुरुषे वृत्तिः । पञ्चाग्निः सभ्यावसथ्या- भ्यां सह पञ्चानामनुवाकानामध्येता । स्नातको विद्याव्रताभ्याम् । मन्त्र- ब्राह्मणविन्मन्त्रब्राह्मणयोरर्थज्ञः । धर्मज्ञो धर्मशास्त्राणामर्थज्ञः । ब्रह्मदेयानु- संतानो ब्राह्मविवाहोढासंतानः । इतिकरणाद्यश्चान्य एवंगुक्तः । ये मातृतः पितृतश्चेति दशवर्षं समनुष्ठिता विद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो नान्नब्राह्मणं निनयेयुः । पितृत इत्येक इत्येवमादिलक्षणः । स एष सर्वः पङ्क्तिपावनः ॥ २९ ॥

पंक्ति को पवित्र करने वाले व्यक्ति हैं :--छः वेदाङ्गों का ज्ञाता, ज्येष्ठ साम मन्त्रों का गान करने वाला, नाचिकेत अग्नि का तीन ग्रन्थों के साथ ज्ञान रखने वाला, सुपर्ण के तीन बार उल्लेख से युक्त मन्त्रों को जाननेवाला, पञ्चाग्नि (सभ्य और आवसथ्य के साथ पाँच अनुवाकों का अध्येता, स्नातक मन्त्रों और ब्राह्मणों का अर्थ जानने वाला, धर्मशास्त्रों का ज्ञाता ब्राह्म विवाह से उत्पन्न सन्तान ॥ २९ ॥

हविःषु चैवम् ॥ ३० ॥

हविःशब्देन दैवानि मानुषाणि च कर्माण्युच्यन्ते । ज्येष्ठ्ठा अप्येवमुक्त- लक्षणा एव ब्राह्मणा भोजयितव्या न तु प्रतिषिद्धाः स्तेनादय इति ॥३०॥

दैव एवं मानुष यज्ञ कर्मों में भी (ब्राह्मणों को भोजन कराने के सम्बन्ध में) उपर्युक्त नियम समझने चाहिएँ ॥ ३० ॥