भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

७ कण्डिका ] गोभिलगृह्यसूत्रे— ८७ “श्रापाके” ण्यन्ताल्लिङ् । पुगागमः । मित्त्वाद्ध्रस्वत्वमुपधायाः (पा० ६।४।९२) तस्माद्दग्धमकठिनमनतिशिथिलमवीतरसं, लोकप्रसिद्धेः । कर्मप्रदीपोऽप्याह— “स्वशाखोक्तविधिश्विन्नोह्यदग्धोऽकठिनः शुभः । न चातिशिथिलः पाच्योन च वीतरसश्चरुः ॥” इति । प्रदक्षिण-दक्षिणावर्त्तं यथाभवति तथा मेक्षणेनोक्तलक्षणेन (१।५।१९) उदायुवन् “युमिश्रणे” (अ० प० ) इति स्मरणादूर्ध्वमौषन्मिश्रयन् । श्रपये- दिति सम्बन्धः । मेक्षणेनेति तु “तस्मिन्नेवाग्नौ श्रपयत्योदनञ्चरुञ्च मांसञ्च- रूञ्च पृथङ्मेक्षणाभ्यां प्रदक्षिणमुदायुवन्” इति (४।२।१४) अग्रिमसूत्रात् ॥७॥ शृतमभिघार्योदगुद्वास्य प्रत्यभिघारयेत् ॥ ८ ॥ शृतम्पक्वचरुम् । अभिघार्य-स्रुवगृहीतेनाज्येनाप्लाव्य । उदगुत्तरस्या- मग्नेः । उद्वास्य उत्तार्य्य प्रत्यभिघारयेत् पुनस्तथाऽऽप्लावयेत् । गृह्यसंग्रहे— “पवित्रमन्त(१)रा कृत्वा चरुम्प्राञ्चोऽभिघारयेत् । उद्वास्य चैवं विधिवद्देवन्तन्त्र न लुप्यते ॥” इति ॥ “चतुर्मुष्टिंश्चरुः कार्यश्चतुर्णामुत्तरोऽपि वा” इति च ॥ ८ ॥ अग्निमुपसमाधाय कुशैः समन्तं परिस्तृणुयात्पुरस्ताद्दक्षिणत उत्त- रतः पश्चादिति ॥ ९ ॥ अग्निम् उपसमाधाय-समिद्भिः समिध्य ( प्रज्वाल्य ) कुशैः पूर्वासदितै- र्बर्हिःस्वरूपैः ( विशाखाप्रतिलूनैः ) ( १।५।१६ ) समन्तं—समन्तात् । सर्वतः सर्वासु दिक्षु ) अग्नेर्बहिः । परिस्तृणुयात्—आच्छादयेत् । “स्तॄञ्-आच्छादने” ( स्वा० उ० ) लिङ्विधौ । स्तरणक्रममाह पुरस्तादिति । पूर्वस्यां दक्षिणास्यामु- त्तरस्याम्पश्चिमायामित्येवं क्रमेणेत्यर्थः । अत्र समन्तमिति द्वितीया पञ्चम्यर्थे व्यत्ययेन । ( ३।१।८५ ) समस्तमिति पाठः प्रामादिकः ॥ ९ ॥ सर्वतस्त्रिवृतं पञ्चवृतं वा ॥ १० ॥ सर्वतः सर्वासु दिक्षु । त्रिवृतं-त्रिवारं, पञ्चवृतं-पञ्चवारं वा । परिस्तृणुया- दित्यनुवर्त्तते ॥ १० ॥ अथ कथम्पुनरेकं परिस्तरणं सम्पद्यते ? यस्य त्रिःपञ्चकृत्वोवा करणमुप- दिश्यते ? । तदुच्यते— बहुलमयुग्मंसंहतम् ॥ ११ ॥ बहुलं-बहुत्तृणकम् (२) । अयुग्माः (३)संहताः परस्परं संलग्नाः कुशा यत्र ( १ ) पवित्रान्तर्हितं कृत्वेत्यपिपाठः क्वचित् ॥ ( २ ) बहून्कुशान् लाति गृह्णातीति बहुलम् । परिस्तरणक्रियाविशेषणमेतत् । ( ३ ) मुरारिमिश्रास्तु-अयुग्मञ्च तत्संहतञ्चेत्ययुग्मसंहतम् । त्रिवृतं पञ्चवृतं वेत्यने-

८८ दर्शपूर्णमासविधिः । [ १ प्रपाठके- तत् । तदेवं प्रतिदिशमयुग्मैः परस्परसंलग्नैः कुशैरेकम्परिस्तरणं सम्पद्यते । तस्य खल्वस्य त्रिः पञ्चकृत्वो वा करणमुपदिश्यत इत्यर्थः । तदिदं परिस्तरणं पूर्वस्यामुत्तरान्ताद्दक्षिणान्तं यावत् । दक्षिणायां पूर्वान्तात्पश्चिमन्तं यावत् । यथा दक्षिणस्यान्तथोत्तरस्याम् । यथा पूर्वस्यान्तथा पश्चाद्दिशि कर्त्तव्यम् । प- रिस्तरणक्रियाविशेषणमेतत्सर्वन्द्वष्टव्यमिति मुरारिमिश्राः प्राहुः(१) ॥ ११ ॥ अथेदानपरिस्तरणप्रकारोऽभिधीयते-- प्रागग्रैरग्रैर्मूलानि च्छादयन् ॥ १२ ॥ प्राक् प्रथमं पतितान्यग्राणि येषान्तैस्तथाभूतैः कुशैः समन्तं परिस्तृणुया- दिति सिंहावलोकितेन समन्वयितव्यम् । तथैव कर्म्मठप्रसिद्धेः । कथमित्यपे- क्षायामाह-अग्रैरिति । अग्रमूलक्रमेण स्थापिनकुशानामूलानि स्थाप्यमानकु- शाग्रैश्छादयन्नीशानादाग्नेयान्तं वायव्यान्रैर्ऋतान्तं प्राक् प्रतीच्योः । प्राक्प्रत्य- क्क्रमेण च दक्षिणोत्तरयोरित्येष परिस्तरणक्रम आयाति । किन्तु-“प्राङ्युदञ्चि वा कर्म्माणि सन्तिष्ठन्ते" इति श्रुतेराजानिकशिष्टाचापरिगृहीतत्वादाग्नेय्या- मुत्तराग्रास्तीर्णकुशाग्राधस्तादास्तीर्य्यमाणकुशमूलङ्कार्य्यमित्येवमुदक्संस्था भवति । तथाच साङ्ख्यायनीये-“प्रागग्रैः कुशैः परिस्तृणो”ति-इत्युपक्रम्य “सर्वाश्चावृत्तो- दक्षिणाप्रवृत्तय उदक्संस्था भवन्ति” इत्युक्तम् । आवृत्तः प्रक्रियाः परिपाट्योवां “आवृत्पर्रिपाटी अनुक्रमः” इत्यमरः ।। आश्वलायनोऽपि-“दिक्षु सर्वासूद- क्संस्था-प्राच्यादिषु परिस्तृतिः” इत्युक्तवान् । अतएव पार्वणे पश्चिमादारभ्य पूर्वान्तम् । आभ्युदयिकेच दक्षिणादारभ्योत्तरान्तमर्ध्यादिक्रमः सकलशिष्टा- चारपरिगृहीत उपलभ्यते । वीरेश्वरादयोऽपि-“आग्नेयादीशानान्तम्” इत्येवं परिस्तरणक्रमं स्वपद्धतौ वाजसनेयके लिखन्ति स्म । यत्तु-प्रागग्रैरित्यनेन प्रा- क्पश्चिमयोरपि पूर्वाग्राणामेव कुशानाम्परिस्तरणमिति केषाञ्चिन्मतं तत्र परि- धिकार्य्यनिर्वाहकताऽग्रे (१।७।१६) वक्ष्यमाणा नोपपद्यते । इति द्रष्टव्यम् ॥१२॥ परिस्तरणे प्रकारान्तरमाह- पश्चाद्वाऽऽस्तीर्य दक्षिणतः प्राञ्चं प्रकर्षति तथोत्तरेण ॥१३॥ वा-अथवा। पश्चात्--प्रतीच्यामग्रैः । प्राच्यामिवास्तीर्य । दक्षिणतः-- दक्षिणास्यां, प्राञ्चं पूर्वपूर्वाप्रक्रमेण यथास्यात्तथा (अग्रैर्मूलानिच्छादयन्) प्रकर्षति । प्रकीर्णयति । ( परिस्तृणाति ) तथा-तेनैव प्रकारेण । उत्तरेण उत्त- नैवायुग्मत्वे प्राप्ते एकत्रृत्तस्यापि प्राप्यर्धमिदम् “शब्दाधिक्यादि”--तिन्यायात् । तथा- चशृङ्गान्तरम्-“सकृत्त्रिर्वा प्रदक्षिणं प्रतिदिशमग्नेरि”—ति । संहतमन्तरालशून्यं, सर्व- मिदं क्रियाविशेषणमिति द्रष्टव्यम् । अत्रप्रदक्षिणमिति शाखान्तराभिप्रायमित्याहुः ॥ ( १ ) अत्रारुचिविशेषोऽनुपदं मूलएव द्रष्टव्यः ॥

७ कण्डिका ] गोभिलगृह्यसूत्रे- ८६ रतः । पूर्वतस्तुसूर्य्यएव कार्यनिर्वाहको भावनया याज्ञिकानामित्यवगन्त(१)- व्यम् ॥ १३ ॥ दक्षिणोत्तराण्यग्राणि कुर्यात् ॥ १४ ॥ दक्षिणानि च तान्युत्तराणि चेति दक्षिणोत्तराणि । अग्राणि । “कुशाना- म्” इति शेषः । पश्चात् पुरस्ताद्वा यानि बर्हींषि स्तृतानि भवन्ति । तेषामग्राणि दक्षिणोत्तरक्रमेण कुर्यात् इत्यर्थः । गृह्यवृत्तिकृतोभट्टनारायणोपाध्यायास्तु--पूर्व- सूत्रे--उभयहस्तेन कुशान् गृहीत्वा दक्षिणहस्तगृहीतैर्दक्षिणत परिस्तृणाति । स- व्यहस्तगृहीतैरपि सव्यत इत्यभिधायात्र सूत्रे दक्षिणहस्तगृहीतकुशाग्राणि उत्त- राणि-उपरिष्टात् ऊर्ध्वम्पूूर्वस्यां दिशि, अर्थात्सव्यहस्तगृहीतान्यधराणि पश्चाद्दि- शि इत्यर्थ इत्याहुः । महाममहो-मुरारिमिश्रास्तु—दक्षिणहस्तगृहीतकुशाग्राणि उत्तराणि-उपरिष्टात्कुर्यान् । एवञ्चार्थात्सव्यहस्तगृहीतानि अधराणीत्यर्थ इत्या- हुः । कतमोऽर्थोऽत्र याज्ञिकावृत्तिसिद्ध इति विद्वांस एव विदाङ्कुर्वन्तु ॥ १४ ॥ एष परिस्तरणन्यायः सर्वेष्वाहुतिमत्सु ॥ १५ ॥ एषोऽनन्तरोक्तः परिस्तरणस्य न्यायः प्रकारः । सर्वेष्वाहुतिमत्सु । यत्र ३ आहुतयस्तत्र २ भवति । अन्यत्र सायंम्प्रातर्होमादिभ्यः । तथाच कात्यायनः— “यान्यधस्तरणानाम्नान्न तेषु स्तरणं भवेत् । एककार्यार्थसाध्यत्वात्परिधीनपि वर्जयेत् ॥” इति । स्तरणाम्नानादधः पूर्वं यानि आम्नातानि प्रातर्होमादीनि तेषु स्तरणं न भवेत् , एकेति-स्तरणवैकल्पिकान्-स्तरणैककार्यकारित्वात्परिधीनपि तेषु वर्जयेदित्यर्थः ॥ १५ ॥ कुशानां परिधीनाञ्च (२)खल्वभावे--- परिधीनप्येके कुर्वन्ति शामीलान्पार्णान्वा ॥ १६ ॥ परिधीन्— “बाहुमात्राः परिधय ऋजवः सत्वचोऽव्रणाः । त्रयामवन्त्यशीर्णाग्रा एकेषान्तुचतुर्दिशम् ॥” इति कर्मप्रदीपोक्तलक्षणसंख्याकानपि । एके आचार्याः कुर्वन्ति । परि- स्तरणार्थम् । तानेव विशिनष्टि-शामीलान्-शमीमयान् । “शम्याः ष्ल्ञ्” (पा० ४।३।१४२) इति विकारार्थे प्रत्ययः । तदलाभे पार्णान्-पलाशमयान् वा । “प- लाशे किंशुकः पर्णोवातपोथः” इत्यमरः ॥ परिधीनां विन्यासप्रकारमाह-कर्म- ( १ ) परिस्तरणं कुशानान्देवतोपवेशनार्थेति तान्त्रिकप्रसिद्धिः । असुरोपघातनि- वृत्तये च परिधिः । तथाचानुपदं सूत्रयिष्यति-“परिधीनप्येके कुर्वन्ती”ति ॥ ( २ ) तथाच गृह्यान्तरम् “दर्भाणां स्थाने शरैः प्रस्तरितव्यम्” इति । शरैरित्युप- लक्षणम् ॥ १२ गो०गृ० सू०

९० अथ दर्शपूर्णमासविधिः । [ १ प्रपाठके- प्रदीपः- “प्रागग्रावभितः पश्चादुदगग्रमथापरम् । न्यसेत्परिधिमन्यञ्चोदगग्रः स पूर्वतः ॥” इति । अत्र-एके कुर्वन्तीत्यनेनैतदपि सूचयत्याचार्यः । स्तरणकल्पे परिधिरनर्थ- कः । स्तरणेनैव तत्कार्यस्य कृतत्वात् । परिधिर्हि-असुरोपघातप्रतिषेधाय चतु- र्दिक्षु क्रियते । गृह्यसङ्ग्रहेतु— “परिधींस्तु न कुर्वीत गृह्यकर्मसु याज्ञिकः । उदकाञ्चलयस्तिस्रस्ते वै परिधयः स्मृताः ॥” इत्युक्तम् ॥ १६ ॥ उत्तरतोऽपां पूर्णः स्रुवः प्रणीता ॥ १७ ॥ उत्तरत उत्तरस्यान्दिशि अग्नेः । अपाम्-अद्भिः । शेषे षष्ठी (पा०२।३।५०) उदकेन पूर्णः सम्भृतः । स्रुवोयथोक्तलक्षणः । स एव प्रणीता-तत्कार्यकृद्भवति । तदनेन संस्कारविशेषादप एवाभिधीयन्ते ताभिश्च पर्युक्षण-पवित्रमार्जनाद्य उदकार्थाः कर्त्तव्या इत्यभिप्रायः । “प्रणीताभिरुदकार्थः कार्य” इति च गृह्या- न्तरम् । अत्र गृह्यसङ्ग्रहे- “विहितप्रतिषिद्धाञ्च प्रणीतां नोपकल्पयेत्” इति । प्रणीतान्तत्पात्रम् ॥ १७ ॥ भावे न वा स्यादित्येके ॥ १८ ॥ भावः सत्तेत्यर्थान्तरम् । भावे अन्यस्य महतः पात्रस्य प्रणीतादेः । अन- न्तरोक्तः स्रुवः प्रणीतार्थकृ(१)न्नवा नैव स्यादित्येके आचार्या मन्यन्ते ॥१८॥ बर्हिषि स्थालीपाकमासाद्येध्ममभ्याधायाज्यꣳसंस्कुरुते ॥ १९ ॥ बर्हिषि आस्तृते स्थालीपाकं चरुम् । आसाद्य-स्थापयित्वा इध्ममित्येकव चनं जात्यपेक्षमिध्मान्यथोक्तानभि-आत्मनोऽभिमुखम् आधाय-“इध्मोऽप्येधा- (२)र्थमेवाग्नेर्हविराहुतिषु स्मृतः” इति कर्म्मप्रदीपदर्शनादमन्त्रकमग्नौ प्रक्षिप्य । अन्यत्राङ्ग(३)होमादिभ्य इति चन्द्रकान्तभाष्यम् । भट्टनारायणोपाध्याया अ- प्येवमेवाहुः । वस्तुतः समन्त्रकमिध्मस्येन्धनस्याप्याधनं वचनबलात् । तथा-


( १ ) चन्द्रकान्तभाष्ये तु-स्याद्वाऽदृष्टार्थमिति वाशब्दस्वारसिकार्थमाहुः । ( २ ) इन्धनमेधः । एधार्थमग्निसमिन्धनार्थम् ॥ “ञिइन्धीदीप्तौ” (रु० आ०) अ- स्माद् घञि निपातः । (पा० ६।४।२९) ॥ “इध्ममेधः समित्स्त्रियाम्' त्यमरः । ( ३ ) कात्यायनः-“अङ्गहोम-समित्तन्त्र-सोष्यन्त्याख्येषु कर्मसु । येषाञ्चैत- दुपयुक्तेषु तत्सहशेषु च ॥ अक्षभङ्गादिविपदि जलहोमादिकर्म्मणि । कृत्याहुतिषु स- र्वासु नैतेष्विध्मो विधीयते ।” इति । अङ्गहोमाः सर्वप्रायश्चित्तादयः । समित्तन्त्रं-ब्रह्म- चारिणां समिदाधानहोमः । येषामिति-येषाङ्कर्मणामुपरि सूत्रकृता इध्मोविहितस्तेषु तत्सदृशेषु क्षिप्रहोमादिषु चेत्यर्थः ॥ _ क्षिप्रहोमोऽनुदितदिहोमः ॥

७ कण्डिका ] गोभिलगृह्यसूत्रे— ९१ चाङ्गिराः— “इध्मसन्नहनाधानं चरुश्रपणमेव च । तूष्णीमेतानि कुर्वीत समन्त्रञ्चेध्ममादहेत् ॥” इति । यद्यपि समन्त्रकत्वे तूष्णीमिति विरुद्धम् । तथापि-तूष्णीमिति द- र्शनान्मन्त्रस्य स्मरणमात्रं न तु पाठोऽतोन विरोधः । अतएव प्रजा(१)पति- म्मनसा ध्यात्वेति वीरेश्वरादिपद्धतिषु समिदाधान उक्तम् । मन्त्रश्चात्र महाव्या- हृतिरूप एव । तदुक्तं छन्दोगपरिशिष्टे— “आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥” इति । अनादेशे-अविधाने । “होमद्रव्यस्ये”ति शेषः । मन्त्रस्य देवतायाश्चे- त्यत्रानादेश इति सम्बध्यते । मन्त्रस्यानादेशे प्रजापतिदेव(२)ताको महाव्याहृति- मन्त्रः । स च

९२ दर्शपूर्णमासविधिः । [ १ प्रपाठके अङ्गिराः— “इध्मः समानवृक्षाणां द्विप्रादेशः प्रमाणतः ।” कात्यायनोऽपि— “समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः । दर्शं च पौर्णमासे च क्रियास्वन्यासु विशतिम् ॥” इति । तथा— “मूलमध्याग्रदेशेषु ईषत्सिक्तांस्तु निर्वपेत् ।” इति । अयञ्च सेको घृतादिनैव । अत एवोक्तं वीरेश्वरादिभिः स्वस्वपद्धतौ “मूलमध्याग्रक्रमेणघृताक्तानि”ति । स्थौल्यादिकन्तु यथोक्तं ( २।२।७ ) धर्म्मा- न्तरमिध्मस्य । समित्समानमेव ग्राह्यम् । तथाच समित्स्वरूपमुक्त्वा कात्यायनः— “प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्त्तितम् । एवं विधाः स्युरेवेह समिधः सर्वकर्म्मसु ॥” इति । इह गृह्यकर्म्मणि । समिध्यतेऽग्निरेभिरिति व्युत्पत्त्या समिध इध्मा एवं विधा एव समित्समाना एवेत्यर्थ इति मुरारिमिश्राः । आज्यमिति । अन- (१)क्त्यनेनेत्याज्यं सर्पिरादि । संस्करुते-संस्कुर्याद्वक्ष्यमाणेन विधिना ॥ १९ ॥ किन्तदाज्यन्तदाह— सर्पिस्तैलं दधि पयो यवागूं वा ॥ २० ॥ सर्पिर्घृतम् “घृतमाज्यं हविस्सर्पिः” इत्यमरः । तैलम् तिलस्नेहम् । यवा- गूः । भृष्टयवचूर्णं षड्गुणजले ( दुग्धे वा ) सिद्धं द्रवद्रव्यम् । यूयते मिश्रय- तेऽसाविति “युमिश्रणे” (अ०प०) इत्यस्मात्कर्म्मणि ( उ० ३।८१ ) अगूच्प्र- त्ययः । “यवागूः षड्गुणजले सिद्धा स्यात्कृशरा घना” इति शार्ङ्गधरीये (म०खं०२अ०) अत्र पूर्वपूर्वासम्भवे उत्तरोत्तरोपादानमिति द्रष्टव्यम् ॥ सर्व- मेतदाज्यमुच्यते तदाह गृह्यासङ्ग्रहे कात्यायनः— “अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा । ऋतुभिरेव यत्पूतन्तदाज्यमितरद् घृतम् ॥ घृतं वा यदि वा तैलं पयो वा यदि यावकम् । आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते ॥” इति । यावकम् । यवागूः ॥ २० ॥ आज्यसंस्कारप्रकारमाह— तत एव वर्हिषः प्रादेशमात्रं पवित्रे कुरुते ॥ २१ ॥ ( १ ) “अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) इत्यस्मात् “अञ्जेः संज्ञा- याम्” ( पा० ३।१।१०९ वा० ) इति क्यपि बाहुलकाद्वृद्धिः । तेनाञ्जन-(स्निग्धीकरण) साधनमुच्यते । यत्तु इज्यत अनेनेति आज्यमिति चन्द्रकान्तभाष्यादावुक्तन्तदर्थसङ्गति- मनुसृत्य व्याख्यानमात्रम् ॥

तत—स्तृतादेवेत्यर्थे इति कौमुदी। तत्रायमाशयः। तत्पदस्य पूर्वप्रक्रान्त- वाचकत्या स्तृतस्य चाव्यवहितोपस्थितत्वात्तत्परामर्शौचित्यात्। न च विनि- युक्तविनियोगविरोधः। औपदेशिकत्वात्। यथा "व्रीहीन्प्रोक्षती"त्यादौ प्रो- क्षितानामेव व्रीहीणामवघातान्वयः। न च तत्र "प्रोक्षिता व्रीहयोऽवघाताय कल्पन्त" इति स्मरणात्सामानाधिकरण्यानुरोधात्तथोपदेशोगम्यत इति न दोष इति वाच्यम्। अत्रापि तत्पदस्य प्रक्रान्तवाचकत्वोपदेशसत्त्वात्। अत एव “न तर्हि बर्हिष इवे"ति कुसुमाञ्जलौ वर्द्धमानचरणैर्बर्हिष इवेति व्यतिरेके दृष्टान्त इत्युक्तम्। धीरवीरादिपद्धतिरप्येवमेव। भाष्यकृतस्तु—तत एव वि- स्तीर्णशेषादेवेति व्याचक्षते— “स्तृतेभ्यो न प्रचिनुयाद्यातयामं स्तृतं स्मृतम्” इति स्तृतनिषेधात्तेन च स्तरणक्रिययैकदा नियमादृष्टजननात्तैनैव पवित्रकरणे विनियुक्तविनियोगविरोधाच्चानास्तृतादेव ग्रहणमुचितमिति तेषामाशयः। प्रादे- शमात्रे—विस्तृततर्जन्यङ्गुष्ठप्रमाणे । प्रमाणेऽर्थे मात्रच्प्रत्ययः (पा० ५।२।३७) पवित्रे कुरुते इति द्विवचनन्दलापेक्षम्। प्रादेशमात्रस्य वर्हिर्द्वयस्य खल्वत्र पवि- त्राकरणमुपदिश्यते। न हि द्विदलपवित्रस्य द्वित्वं शक्यते वक्तुम्। वर्हिषः प्रादे- शमात्र इत्यभिधानात्। तथाच कर्म्मप्रदीपे कात्यायनः— “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च। प्रादेशमात्रं विज्ञेयम्पवित्रं यत्र कुत्रचित्॥” एतदेव हि पिञ्जल्या लक्षण समुदाहृतम्। आज्यस्योत्पवनार्थंयँत्तदप्येतावदेवतु॥” इति। “समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति” इति च ब्राह्मणम्। अत एव शुभकर्म्मनिर्णये— “नन्वनन्तर्गर्भिणं साग्रं कौशं द्विदलमेवचे”ति कात्यायनवचनादेतावद्विशेषणयुक्तं कुशपत्रद्वयं पवित्र- पदार्थस्तत्र च द्विवचनविभक्त्यर्थद्वित्वान्वयात्पत्रचतुष्टयन्तावल्लभ्यते तथाचाचा- रविरोध इति चेन्मैवम्। "प्रादेशमात्रे पवित्रे कुरुते" इत्यत्र पवित्रपदस्य शक्यै- कदेशपत्रमात्रपरत्वात्। मुख्यपरत्वे हि सूत्रे प्रादेशमात्रे इति विशेषणं व्यर्थ- मापद्येत विशिष्टशक्तपदादेव तल्लाभसम्भवात्। किञ्च “पवित्रे स्थ” इति मन्त्रलिङ्गात् प्रकृतसूत्राच्च पत्रचतुष्टयविनियोगशङ्कामाभूदिति पवित्रलक्षणम- भिधाय कात्यायनेनोक्तम् “आज्यस्योत्पवनार्थंयँत्तदप्येतावदेव तु” इति। ननु- विनिगमनाविरहात् कथन्तदनुरोधेन सूत्रादौ मुख्यार्थत्याग इति चेन्न तस्य सू- त्रतात्पर्य्योन्नायकत्वात्। तदुक्तम्— “अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदीपवत्” इति। एवञ्चाचारोपष्टब्धं "पवित्रमन्तरा कृत्वे"ति गृह्यसङ्ग्रहवचनमपि

शङ्गच्छते । एवञ्च “पवित्रे स्थो वैष्णव्यावि”त्यादि मन्त्रस्थपवित्रपदान्तरं यत्र यत्र द्विवचनविभक्तिरस्ति तत्र तत्र पवित्रपदं शक्यैकदेशदलपरमेव श्रोत्रि- यपदवत् । देवस्त्वेति मन्त्रस्थ पवित्रपदञ्च मुख्यपरमेव, अनुपपत्त्यभावात् । अतएव तत्र पवित्रेणेत्येकवचनमपि सङ्गच्छते इति दिक् ॥ कश्चित्तु—‘‘कौश- न्द्विदलमेवचे’’ति पवित्रलक्षणे दलपदं न पत्रपरमपि तु तदुभयपार्श्वपरमि- त्येकमेव पवित्रपदार्थस्तथा च न द्विवचनानुपपत्तिरिति प्रकृते समाधानमाह तन्न—एवमप्यर्घ्यादावेकपात्रात्मकपवित्रदानापत्तावाचारविरोधस्य “आज्यस्यो- त्पवनार्थं यत्तद्दष्येतावदेव तु” इति परिशिष्टवचनविरोधस्य, सूत्र “प्रादे- शमात्रे” इति विशेषणवैय्यर्थ्यस्य चापरिहारादिति मुरारिमिश्राः प्राहुः ॥ २१ ॥ ओषधिमन्तर्द्धाय

७ कण्डिका ] गोभिलगृह्यसूत्रे- ६५ तदेव हस्तघटितं प्रशस्तं हव्यकव्ययोः ॥" इति । उदगग्राभ्यां पवित्राभ्यां-पवित्रघटितदलाभ्यामित्यर्थः । उत्पूनाति ऊर्द्ध्वं शोधयति ॥ २४ ॥ कथमिति ? तत्प्रकारमाह- अङ्गुष्ठाभ्याञ्चोपकनिष्ठिकाभ्याञ्चाङ्गुलिभ्यामभिसंगृह्य प्राक्- शस्त्रिरुत्पुनाति "देवस्त्वासवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्य्यस्य रश्मिभि"रिति सकृद्यजुषा द्विस्तूष्णीम् ॥२५॥ तथाचैकहस्तानामिकाङ्गुष्ठाभ्यां मूलदेशे अपरहस्तानामिकाङ्गुष्ठाभ्यामग्रदे- शेऽभिसंगृह्य-अर्थात्पवित्रे गृहीत्वोत्तराग्राभ्यान्ताभ्यामाज्यमादाय **"देवस्त्वे"**ति यजुषा प्राङ्मुखं प्राकशः । त्रिरिति । मन्त्रेण सकृदुत्पुनाति ऊर्ध्वन्नीत्वा क्षिप- ति । द्विस्तूष्णीमित्यर्थः ॥ अत्र व्यस्तहस्तानामिकाङ्गुष्ठाभ्याम्पवित्रग्रहणमिति पद्धतिकृतोधीरे श्वरादयः ॥ मन्त्रार्थस्तु हे आज्य ! 'त्वा' त्वां 'सविता' 'देवः' आभ्याम् 'अच्छिद्रेण' अच्छिद्राभ्यामव्यवच्छिन्नाभ्याम् 'पवित्रेण' पवित्राभ्या- म् । 'उत्' अधिकं 'पुनातु' अज्ञातकेशकीटादिदोषमपनयतु । किञ्च वसु तेजः रश्मिर्वा ( निघं० १।५।१० ) तत्प्रधानत्वात्सोऽपि ( सूर्य्यः ) तथोच्यते । तस्य 'वसोः' तेजानिधेः 'सूर्य्यस्य 'रश्मिभिः' किरणैः "किरणप्रग्रहौरश्मी" इत्यमरः। त्वामुत्पुनात्विति सम्बन्धः । अभिधानभेदाभिप्रायेण सविता(१)सूर्यादन्यः । पवित्रेणेति व्यत्ययेन एकवचनम् ॥ २५ ॥ अथैने अद्भिैरभ्युक्ष्योग्नावप्युत्सृजेत् ॥ २६ ॥ अथानन्तरमेवाविमुञ्चन्नेव एने पवित्रे सव्येन गृहीत्वा दक्षिणेन अद्भिः प्रणीताजलेनाभ्युक्ष्य दक्षिणेनैवाग्नावपि उत्सृजेन्निः क्षिपेदित्यर्थः ॥ २६ ॥ अथैतदाज्यमधिभ्रित्योदुद्वासयेत् ॥ २७ ॥ अथोत्पवनानन्तरम् । एतद् अनन्तरोक्तं सर्पिरादिरूपमाज्यम् । अधिश्श्रि- त्य-अग्नेरुपरि कृत्वा प्रतप्य उदगुत्तरस्यामग्नेः कुशोपरि उद्वासयेत् । अवतार्य स्थापयेत् । अत्र चाधिश्रयणन्दधिभिन्नानामेवाज्यानान्न तु दध्नोऽपि तत्र निषे- धात् । तथाच कात्यायनः- "आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते । अनधिश्रयणन्दध्नः शेषाणां श्रपणं स्मृतम् ॥" इति । तथा- "यथा सीमन्तिनी नारी पूर्वगर्भेण संस्कृता । ( १ ) मन्त्रमयीवैं देवता इति हि कर्ममीमांसकानामालाभ्रः । तस्य शब्दात्मिका इत्यर्थः । अत एव चणकमसूरादयोऽपि देवतास्तेषामान्नायन्ते । तदधिष्ठात्र्यो देवता इति हि तत्त्वविदः प्राहुः ॥

एवमाज्यस्य संस्कारः पूर्वैर्गोवोत्तरह्य तु ॥” इति । एवञ्च यत्किञ्चिदवशिष्टे संस्कृते घृतादौ पुनर्घृतान्तरप्रवेशने तत्र न संस्कारान्तरापेक्षा । सर्वापचारे पुनस्तदपेक्षैव तत्र संस्काराभावादिति द्रष्ट- व्यम् ॥ वारत्रयमेवमाज्यसंस्कार इति पद्धतिकृतोधीरोश्वरादयः ॥ एवमाज्यस्य संस्करणकल्पोभवतीति ॥ २८ ॥ इति गो० गृ० प्र० प्र० के सप्तमी कण्डिका ॥ १ ॥ ७ ॥ ॐ ॥ एवमनेन प्रकारेण आज्यस्य संस्करणकल्पोभवति । यत्र यत्राज्यं संस्कृ- यते तत्र तत्रैवकत्तर्व्यमित्यर्थः । इतिः कण्डिकापरिसमाप्त्यर्थः । स्रुवादिसंस्कार- समुच्चयार्थो वा । तथाच गृह्यान्तरम्-“स्रुवं प्रतप्य दर्भैः सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात्” इति । कर्म्मप्रदीपोप्याह-- “तेषां प्राक्शः कुशैः कार्य्यः सम्प्रमार्गोऽजुहूवता । प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा ॥” इति ॥ २८ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्मृदुलाख्यायां मुकुन्दशर्म्मकृतायाम्प्रथ- मप्रपाठकस्य सप्तमी कण्डिका ॥ १ ॥ ७ ॥ * ॥ अथाष्टमी कण्डिका - पूर्वमाज्यमपरः स्थालीपाकः ॥ १ ॥ पूर्वापरदेशत्वाद्द्वयोरपि पूर्वापरव्यपदेशः । पूर्वस्यान्दिश्याज्यम् आसाद- यितव्यम् । अपरस्याञ्च स्थालीपाक आसादयितव्य इति शेषः । पूर्वं खल्वग्ने- रुत्तरतः समासादितयोरनयोरिदानीङ्क्रियासौकर्यार्थमग्नेः पश्चिमतः पूर्वापरभावेन समासादनमिति बोद्धव्यम् । तथाच गृह्यान्तरम्--“होत्रग्न्योरन्तरा आज्यह- विषी आसादयेत्” इति । इदानीं हविषः पश्चिमतः समासादनादेव वक्ष्यत्या- चार्य्यः “अथैतद्धविरुच्छिङ्घमुदगुद्वास्य” इति ॥ १ ॥ पर्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणेनोपघात ँहोतुमेवोपक्रमते २ “अदितेऽनुमन्यस्व” इत्येवमादिनाऽग्निं पर्युक्ष्यस्थालीपाके चरौ आज्य- मानीय--प्रक्षिप्य मेक्षणेन यथोक्तेन ( १।५।१९ सू० ) उपघातम्--उपघात- नामा यथा भवति होमस्तथा होतुमेवोपक्रमते--प्रारभेत इत्यर्थः । विद्ध्यर्थेऽत्र- लेट् । एवकारोऽवधारणार्थः । नान्यत् किञ्चिदभिघारणादिकं कुर्य्यादिति तदर्थः । “चरावाज्यमानीय प्रपद्विरूपाक्षौ जपित्वा समिधमाधाय जुहुयादेव” इति भट्टभाष्यम् । तदनेनोपघातहोमे अभिघारणादिकमाज्यभागौ च न भवतीति

सूचयति । द्विविधः खलु होमो याज्ञिकप्रसिद्धः।उपघातः उपस्तीर्णाभिघारितश्च । चरावाज्यं निःक्षिप्य विनैवाभिघारणादिकयँद्धूयते स उपघातः । यश्च स्रुचि स्रुवेणाज्येनाभिघार्य्य चरुमवदाय पुनराज्येनाभिघार्य्य हूयते सउपस्ती- र्णाभिघारित इत्याख्यायते । स्रुवेण स्रुचि यदाज्य प्रथमङ्गृह्यते तदुपस्तीर्णं, हविरवदायानन्तरं यदाज्यन्दीयते तदभिघारितम इति व्यपदिश्यते । यथाचो- पस्तीर्णाभिघारितं होतव्यन्तदनुपदं व्युत्पादयिष्यते । यथाचोपघातहोमस्तदत्र सूत्र्यते । तथा च गृह्यासङ्ग्रहः— पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः । हूयते चानुपस्तीर्य्य उपघातः स उच्यते ॥ यद्युपघातञ्जुहुयाच्चरावाज्यं समावपेत् । मेक्षणेनच होतव्यं नाज्यभागौ न स्विष्टकृत् ॥ ” इति । तदेवमुपघातमिति पारिभाषिकी संज्ञा होमविशेषस्य । स खल्वयमु- पघातहोमः समशनीयचरु—पितृयज्ञचर्वोरन्यत्रापि बहुदैवत्ये चरौ आन्वष्ट- क्यचरौ च भवति । तदाह कर्म्मप्रदीपः— “चरौ समशनीये तु पितृयज्ञचरौ तथा । होतव्यं मेक्षणेनान्यदुपस्तीर्णाभिघारितम् ॥ ” इति । “चरौ तु बहुदैवत्ये होमस्तस्योपघातवत्” इति चस्मरणम् । वक्ष्य- ति चान्वष्टक्ये “कंसे चरुं समादाय मेक्षणेनोपघातञ्जुहुयात्” इति ॥ “त- त्रान्वष्टक्यपितृयज्ञयोः क्षिप्रहोमधर्मः । समशनीयेतु ब्रह्मोपवेशनादितन्त्रधर्म” इति भट्टनारायणोपाध्यायाः । वृषोत्सर्गहोमस्य तु बहुदैवत्येऽपि नोपघातत्वं, तदाह कर्म्मप्रदीपः— “एतेभ्य एव जुहुयान्मेक्षणेनावदाय च । स्रुच्याहुतीश्चरोः पृथक् सिञ्चेदाज्याभिघारितम्” इति । “चतुर्गृहीतं कृत्वाज्यमाभिरूग्भिः पृथक् पृथक् ॥ स्वाहाकारावसानाभि-र्जुहुयाद्विधिवत्सदा ॥ ” इति च ॥ २ ॥ यद्युवा उपस्तीर्णाभिघारितञ्जुहुयात् आज्यभागावेव प्रथमौ जुहुयात् ॥ ३ ॥ उ-इति वितर्कार्थको निपातः । वै-इति निश्चयार्थः । यद्युपस्तीर्णाभिघारितं यथानुषदोक्तलक्षणं जुहुयात्(१) । तर्हि आज्यभागावेव प्रथमौ जुहुयात् । यद्वा तर्ह्येवाज्यभगौ प्रथमौ जुहुयादित्येवमवध्रियत एवकारेण । तदिमावाज्य- भागौ उपघातहोमे न भवत इति दर्शयति । मुरारिमिश्रास्तु-उपस्तीर्णाभि-


( १ ) अत्र जुहूषेद्दिति चन्द्रकान्तभाष्यादौ पाठः । होतुमिच्छेदिति तदर्थः । १३ गो०गृ० सू०

२८ अथ दर्शपौर्णमासविधिः । [ १ प्रपाठके- घारितं लक्षयित्वा तथा वा जुहुयात् । एवकारोभिन्नक्रमस्तथा चोभयोरपि कल्पयोराज्यभागौ प्रथमौ जुहुयादेवेत्यर्थः । विकल्पश्च मेक्षणहोमेन सह व्यव- स्थितः । व्यवस्थामाह कात्यायनः । “चरौ समशनीये तु पितृयज्ञचरौ तथा । होतव्यं मेक्षणेनान्यदुपस्तीर्णाभिघारितम्” इति ॥ ३ ॥ अथ कथमाज्यभागौ जुहुयात्तदुच्यते— चतुर्गृहीतमाज्यं गृहीत्वा पञ्चावत्तन्तु भृगूणाम् । अग्नये स्वाहेत्युत्तरतः सोमाय स्वाहेति दक्षिणतः प्राक्शो जुहुयात् ४ चतुः कृत्वोगृहीतम् स्रुवेण(१) । सुची(२)ति शेषः । गृहीत्वा कृत्वा (३) । “अग्नये स्वाहा” इति मन्त्रेणाग्नेरुत्तरभागे प्राक्शः प्राग्गतं (४) यथा स्यात्त- था स्रुचैव जुहुयात् । एवं ( तथैव गृहीत्वा ) “सोमाय स्वाहा” इत्यग्नेर्दक्षिणभागे प्राग्गतञ्जुहुयात् । अन्यास्त्वाहुतयोऽग्नेर्म्मध्यभागे होतव्या इत्यर्थादवगम्यते । तथा च साङ्ख्यायनगृह्यम्— “उत्तरमाग्नेयं दक्षिणे सौम्यम्मध्येऽन्या आहुतयः” इति । वक्ष्यति चाचार्य्यः “अग्नये स्वाहेति मध्ये जुहुयात्” इति ॥ अत्रा- ज्यग्रहणे—गोत्रकृतां व्यवस्थामाह पञ्चावत्तन्विति । पञ्चावत्तं—पञ्चकृत्वोव- दानेन गृहीतन्तु भृगूणाम् भृगुगोत्रापत्यानाम् । अत्र “अत्रिभृगुकुत्सवसि- ष्ठगौतमाङ्गिरोभ्यश्च” (पा० २।४।६५) इति गोत्रप्रत्ययस्याणोलुक् । भृगुगो- त्राणां भार्गवप्रवराणाञ्चेति भवदेवभट्टः । भार्गवप्रवराणामिति भट्टनारायणो- पाध्यायाः । तन्त्रान्तरकारास्तु स्मरन्ति— “जामदग्न्या वत्सविदा वार्ष्टिषेणास्तथैव च । भार्गवाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः ॥” इति ॥ ४ ॥ अथ हविष उपस्तीर्यावद्यति ॥ ५ ॥ अथानन्तरम् । उपस्तीर्य—प्रकृतत्वादाज्यं स्रुवेण स्रुचि निधाय । हविषः इत्यवयवलक्षणा षष्ठी । तथाच हविषोऽवयवं मेक्षणेन अवद्यति—अवदाय स्रु- चि गृह्णातीत्यर्थः ॥ ५ ॥ ( १ ) आज्यधारणे तस्य गुणत्वात् । ( २ ) अत्र मुरारिमिश्राः स्रुचैव जुहुयात् कुतः ? होमार्थत्वादेव तस्या इत्याहुः । जुहूः प्रदाने गुणभूतेति तान्त्रिकसमयात् । “यस्य पर्णमयी जुहूर्भवति न स पापꣳ श्लो- कं शृणोति यस्य खादिरी न सोऽन्नात्परिहीयते” इति च श्रवणात् । पर्णमयी—पलाशम- यी । तथाचोक्तं “द्रव्यसंस्कारकर्मसु फलार्थवादः स्यात्” ( जै० सू०.४।३।१ ) इति । “अनेन गृहीतं जुह्वा जुहोति” इति च गृह्यान्तरम् ॥ ( ३ ) “अश्वालम्भनमालभेत” इत्यादिष्विहापि प्रत्ययार्थमात्रविवक्षा द्रष्टव्या ॥ ( ४ ) प्राङ्मुख इति मुरारिमिश्राः ।

८ कण्डिका ] गोभिलगृह्यसूत्रे— ९९ कथमवद्यतीत्युच्यते— मध्यात्पूर्वाद्धाच्चतुरवत्ती चेद्भवति, मध्यात्पूर्वाद्धात् पश्चाद्धादिति पञ्चावत्ती चेद्भवतीति ॥ ६ ॥ मध्यात् — चरोर्म्मध्यप्रदेशात् । पूर्वाद्धात् — चरोरित्येव । चशब्दश्च समुच्च- यार्थोलुप्तवद्द्रष्टव्यः । तथाचान्यत्राप्युक्तम् “विनापि चं समुच्चयो द्योत्यते गाम- श्वं पुरुषम्पशुमिति यथे ” ति । तथाच गृह्यान्तरं “मध्यात्पूर्वाद्धाच्च हविषोऽव- द्यति” इति । चतुःकृत्वोऽवत्तान्यवदानानि सन्त्यस्येति (१) मत्वर्थ इनिः । ( पा० ५।२।११५ ) एवमग्रेऽपि । चेद्यदि अवदाता भवति तर्हि मध्यात्पूर्वाद्धा- च्चावद्यतीति गतेन सम्बन्धः । चेत्-यदि पुनः पञ्चावत्ती अवदाता भवति, तदा चरोर्म्मध्यात् — पूर्वाद्धात् पश्चाद्धात्-अपराद्धाच्च(२) अवद्यतीत्यर्थः । इति-एवमवदानं भवतीति मन्तव्यम् ॥ ६ ॥ अभिघारयत्यवदानानि ॥ ७ ॥ अवदानानि—यथा श्रुचि गृहीतानि हवींषि अभिघारयति-आज्यस्रुवेणा- प्लावयति । बहुवचनं वक्ष्यमाणत्रिर्होमापेक्षया । व्यक्तिभेदापेक्षया वा ॥ ७ ॥ प्रत्यनक्त्यवदानस्थानान्ययातयामतायै ॥ ८ ॥ अवदानानां स्थानानि येभ्योऽवद्यति तानि मेक्षणेनानक्ति-अङ्क्तानि करोतीत्यर्थः । बहु- वचनं पूर्ववद्व्याख्येयम् । प्रति प्रत्येकम् अनक्ति — अक्तानि करोति । आज्यस्रु- वेणाप्लावयतीत्यर्थः । किमर्थम् ? अयातयामतायै । यज्ञायोग्यता यातयामते- त्युच्यते(३) । न यातयामताऽयातयामता तस्यै । एतदुक्तं भवति । मेक्षणक्षतेन यातयामता चरोरुत्पद्यते । आज्याप्लावनेन पुनरयातयामता तस्य भवतीति ॥८॥ एवं खल्ववदाय— अग्नये स्वाहेति मध्ये जुहुयात् ॥ ६ ॥ मध्ये-अग्नेरेव ॥ ९ ॥ ( १ ) यद्यपि “न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेतदर्थप्रतिपत्तिकर” इति न्यायᳲपाणिनीयैराहतस्तथाप्येष “कृष्णसर्पवान्वल्मीक.” इत्यादौ व्यभिचरित इत्यु- पेक्षितोऽत्र तस्य परिग्रहः ॥ ( २ ) पश्चिमाद्धात् । “अपरस्यार्द्धे पश्चभावो वक्तव्य” ( पा० २।२।१८ वा० ) इति साधुः ॥ ( ३ ) तथाच “यो ह वा अविहितार्षेयच्छन्दोदैवतमन्त्रेण यजति याजयति अधी- तेऽध्यापयति × × × ×वा यातयामान्यस्य च्छन्दांसि भवन्ती”ति ॥ उद्धृत्य शिष्ट- मुच्छिष्टमित्येष दोषोऽपनीयते प्रत्यञ्जनेनेति वदन्ति ॥

२०७ दर्शपूर्णमासविधिः । [ १ प्रपाठके

कति जुहुयादित्युच्यते— सकृद्वा त्रिर्वैतेन कल्पेन ॥ १० ॥ एतेन कल्पेन-अनन्तरोक्तयाऽऽवृता ( परिपाट्या ) इत्यादरार्थमुक्तम् सकृद्वा त्रिर्वा जुहुयात् । वाशब्दद्वयन्तुल्यवद्विकल्पार्थम् । त्रित्वपक्षे च—"ए- का देया तिस्रोदेया" (१)इत्यादिवच्छ्रेयोभूयस्त्वं कल्पयितव्यम् । अन्ये- त्वाहुः अभावविकल्पोऽयं, त्रित्वपक्षाशक्तौ सकृत् ॥ १० ॥ अथ स्विष्टकृत उपस्तीर्यावद्यत्युत्तरार्द्धपूर्वाद्धत् । सकृदेव भूयिष्ठमवद्य द्विरभिघारयेत् ॥ ११ ॥ अथ—प्रधानहोमानन्तरं स्विष्टकृतः(२) अर्थे । अवद्यति अवदाय(३) स्रु- चि गृह्णाति । किङ्कृत्वा ? उपस्तीर्य—सकृदाज्यं स्रुवेण स्रुचि निधाय । कथम् ? चरोरुत्तरार्द्धपूर्वाद्धत्-अपराजिताया ( ऐशान्या ) दिशः । सकृदेक- वारमेव भूयिष्ठं बहुतरं यथा स्यात्तथा अवद्य-हविर्द्विरभिघारयेत् । आज्य- स्रुवेण वारद्वयमाप्लावयेत् । एवं किल चत्वार्यवदानानि सम्पद्यन्ते । सकृदुप- स्तरणमवदानं हविषोद्विरभिघारणञ्चेति ॥ ११ ॥ यद्यु पञ्चावत्ती स्याद्विरुपस्तीर्यावदाय द्विरभिघारयेत् ॥ १२ ॥ उ वितर्के(४) । यदि पुनरयं यजमानः पञ्चावत्ती(५) स्यात् तर्हि द्विरु- पस्तीर्थ अवदाय हविर्द्विरभिघारयेत्—द्विवारमाप्लावयेत् । पञ्चावदानसम्पत्त्य- र्थम् ॥ पञ्चावत्तिनस्तु— "जामदग्न्या विदा वत्सा वार्षिषेणास्तथैव च । भार्गवाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः" ॥ इति गोभिल गृह्यभाष्योक्ता बोध्याः ॥ १२ ॥ न प्रत्यवनक्त्यवदानस्थानान्ययातयामतायै ॥ १३ ॥ स्विष्टकृतोऽर्थेऽवद्य होमान्तरकर्त्तव्यताभावात्तदर्थ-मयातयामतायै प्रत्यवने- जनमवदानस्थानस्य नोपयुज्यत इति न प्रत्यवनक्तीति समासार्थः । अत्र "मश- काय धूम" इतिवन्निवृत्त्यर्थं (६)भाक्तमिदमयातयामताया इति । केचित्तु-


( १ ) कात्यायनोऽपि "यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तत्र कृच्छ्राच्छ्रेयोविशिष्यते" इति ॥ ( २ ) चतुर्थ्यन्तपाठे तादर्थ्यं चतुर्थी बोध्या ॥ ( ३ ) द्यतिरत्र खण्डने ( दि० प० ॥ ( ४ ) "यद्युवा" इति पाठे सोऽयं निपातसमुदायो यद्यर्थ इति भाष्यम् ॥ ( ५ ) अत्र "कृष्णसर्पवान्वल्मीक" इतिवन्मत्वर्थीय इनिर्बोद्ध्यः । पञ्च-संख्याकम् । ग्रस्तमवदानमस्यास्तीति कर्त्तरि षष्ठ्यर्थे इनिः ॥ ( ६ ) लाक्षणिकम् ।

८ कण्डिका ] गोभिलगृह्यसूत्रे--- १०१ संहितापाठे षष्ठ्यन्तं पठन्ति । तत्र निवृत्त्यर्थमित्यस्याध्याहारः क्लेशः । पञ्च- म्यन्तत्वे तु हेतौ पञ्चमी "विभाषा" ( पा० २।३।८५ ) इति योगविभागाद्बो- ध्या । यातयामं पर्युषितम् ॥ १३ ॥ अग्नये स्विष्टकृते स्वाहेत्युत्तरपूर्वार्द्धे जुहुयात् ॥ १४ ॥ उत्तरपूर्वार्द्धे-अग्नेरेव । ऐशान्यामिति तदर्थः ॥ १४ ॥ महाव्याहृतिभिराज्येनाभिजुहुयात् ॥ १५ ॥ भू-र्भुवः-स्वरिति तिस्रोमहाव्याहृतयः प्रसिद्धाः । कर्म्मप्रदीपोऽप्याह— “भूराद्यास्तिस्र एवेता महाव्याहृतयोऽव्ययाः” इति । ताभिः स्रुवेण (१)कृत्वाऽऽज्येनाभिस्रुव्येन जुहुयात् । स खल्वयम- हाव्याहृतिहोमश्चरुहोमे पश्चादेव । तथैवोपदेशात् । आज्याहुतिषु तु पुरस्ता- त्परस्ताच्च कर्त्तव्य इति वक्ष्यत्युपरिष्टात् ॥ १५ ॥ प्राक्स्विष्टकृत आवापः ॥ १६ ॥ स्विष्टकृत—स्तद्धोमात्प्राक्” आउप्यत इत्यावापः । प्रधानहोमः “कर्त्तव्यः” इति शेषः । मुख्यहोममात्रे-स्विष्टकृत्तदन्ते महाव्याहृतिहोमः । ततः कर्मापवर्ग- विहितां समिधमाधाय प्रायश्चित्तहोम आज्येनाज्यतन्त्रेण कार्यः । हविषोऽना- देशात् । स च यद्यपि “सर्वस्यैव प्रायश्चित्तिः” इति श्रुतेरुल्लिखितुमुचितः । भट्टभाष्येऽपि “एतत्सर्वं प्रायचित्तं क्षिप्रहोमवर्ज्जं सर्वत्रैव स्यादि”त्युक्तन्तथा- प्यर्थं प्रकृतहोमवैगुण्य एव तत्प्रशमनार्थोविधीयते, इति नाऽसाववैगुण्ये कर्त्तव्य इति नात्र सूत्रित आचार्येण । अनियतत्वादिति द्रष्टव्यम् । अत्र मुख्यहोमेऽकृते यदि चरुर्नष्टोदुष्टोवा भवति तदान्यः पाक्यः । मु- ख्ये कृते चेन्नाशदुष्टी स्यातान्तदाऽऽज्येनैव स्विष्टकृद्धोम इति सरलाकार आह । चन्द्रकान्तस्तु—“एकदेशद्रव्योत्पत्तौ विद्यमानसंयोगात्” (४-१-२८) इति जैमिनीयसिद्धान्तात्स्विष्टकृद्धोमस्य प्रतिपत्तिरूपत्वात्प्रतिपत्तेश्च प्रतिपाद्याभावे लोप एवाकरणे निरूपित इत्येवमाह । मुख्यहोमार्थमवत्ते हविषि नष्टे दुष्टे वा खल्वाज्येन होतव्यम् । न पुनरवदातव्यं न वान्यत्पाच्यं कुतः ? “निर्देशाद्वाऽ- न्यदागम्यते” ( ४।४।२ ) इति जै० सिद्धान्तात् । “यस्य सर्वाणि हवींषि नश्ये- युर्दुष्येयुरपहरेयुर्वा, आज्येन ता देवताः परिसंख्याय यजेरन्” इति च हविषो- नाशे आज्यविधानात् । “तत्र सर्वशब्दस्य निमित्तविशेषणत्वेनाविवक्षितत्वान्ना- शमात्रे सर्वत्राज्यस्य विधिः” इत्यधिकरणमालायां माधवाचार्याः । स खल्वयं प्रायश्चित्तहोमः व्यस्तसमस्तमहाव्याहृतिभिर्वा । “अज्ञातमि” ( १ ) द्रवद्द्रव्यकत्वात् ॥

१०२ दर्शपूर्णमासविधिः । [१ प्रपाठके त्यादिना मन्त्रेण वा प्राजापत्यमन्त्रेण वा कर्त्तव्यः । "तस्मादेतामेव जुहुयादपि- वाऽऽज्ञातं यदनाज्ञातमि"-त्येवमादिकायां श्रुतौ विकल्पोपदेशात् । व्यक्तमाह कर्मप्रदीपः— "यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मकोऽभवेत् । चतस्रस्तत्र विज्ञेयास्त्रीपाणिग्रहणे यथा ॥ अपि वाज्ञाऽऽतमित्येषा प्राजापत्याऽपि वाऽऽहुतिः । होतव्या त्रिविकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥" इति ॥ तदत्र त्रिविकल्प इत्यनेन कल्पान्तरस्य प्रतिषेधोऽवगम्यते । केचिदत्र "पाहिनो यज्ञ एनसे स्वाहा" । इत्यादिकमधिकं प्रायश्चित्तहो- ममाचक्षते । तदसारम् । इह तस्यानुपदेशात् । यदपि शाठ्यायनकं ग्रन्थान्तर- मत्राधीयते । तदप्यप्रमाणम् । अनार्षत्वात् । परिशिष्टमध्यान्तःपातित्वासम्भ- वाच्चेति भट्टनारायणोपाध्यायाः । शाठ्यायनहोमस्य समूलत्वेऽपि शाखान्तरी- यवचनमिति(१)तत्त्वकारः ॥ १६ ॥ गणेष्वेकं परिसमूहनमिध्मोबर्हिः पर्युक्षणमाज्यभागौ च ॥ १७ ॥ गणेषु-एकदा क्रियमाणेष्वनेकहोमेषु । एकम् एव परिसमूहनम् । एकशब्दः परस्तादपि प्रत्येकमनुषञ्जनीयः । अनेनैव सूत्रशेषोव्याख्यातः । प्रत्येकं तन्त्रविधा- ने प्राप्ते यानि तन्त्रेण कर्त्तुं शक्यन्ते तेषान्तन्त्रभाव इहोपदिश्यते । परिकीर्त्तन- ञ्च परिसमूहनादीनामुदाहरणप्रपञ्चार्थं न परिसंख्यानार्थं, तेनोलूखलमुसला- दिकमपि एकमेव भवतीति द्रष्टव्यम् । गणेषु इति सामान्यतोऽभिधानाद्भिन्नदे- वताकेष्वपि होमेषु एकदा क्रियमाणेष्वेकमेव परिसमूहनादिकमित्यवगम्यते । तथा च गृहान्तरम्— "पाकयज्ञात्समासाद्य एकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवते" ॥ इति ॥ १७ ॥ सर्वेभ्यः समवदाय सकृदेव सौविष्टकृतं जुहोति ॥ १८ ॥ गणेष्विति सम्बध्यते । सकृदेकवारं न पृथक्पृथगित्यर्थः । उपलक्षणमेतत् । महाव्याहृत्याद्यपि सकृदेव भवतीति सरलाकारः ॥ १८ ॥ (१) अत्र मुरारि मिश्रः—क्रियार्थस्य मेक्षणस्य तदनन्तरमेव प्रतिपत्तिर्मा भूदिति हुत्वेति । व्याहृतिभिरपि हुत्वेत्यर्थः ॥ अनुप्रहरेत्-जुहुयात् । अनुप्रहरतिशब्दोहोमव- चनः । तथाच श्रौतसूत्रम् "अष्टावष्टौ शकलानि आहवनीयेऽनुप्रहरेयुर्देवकृतस्येति" (ला० २।११।१४) ।

८ कण्डिका ] गोभिलगृह्यसूत्रे- १०३ हुत्वैतन्मेक्षणमनुप्रहरेत् ॥ १९ ॥ एतदिति सन्निकृष्टं सौविष्टकृतं परामृश्यते । मेक्षणमुक्तलक्षणम् । अनु- प्रहरेत् अग्नौ क्षिपेत् । सेयङ्गमार्थस्य मेक्षणस्य अनन्तरमेव कर्म्मणः प्रतिप- त्तिराख्याता । अन्येत्त्वाहुः-महाव्याहृतिभिरपि हुत्वा मेक्षणमनुप्रहरेन्न स्विष्ट- कृद्धोमानन्तरमेवेति । स खल्वयं मेक्षणप्रक्षेपोऽन्यत्रङ्गकेषु होमेषु प्रत्येयः । तत्र चरुशेषस्य तस्मै प्रतिपादयितव्यस्य वक्ष्यमाणत्वात् । अन्यत्र च मेक्षणेनै- वोद्धृत्य तद्भोजनस्य सूत्रणात् । न चानुप्रहितेनैव मेक्षणेनोद्धरणन्तस्माद्यथोक्त एवार्थः ॥ १९ ॥ प्रक्षाल्य वैनेनोद्धृत्य(१) भुञ्जीत ॥ २० ॥ प्रक्षाल्य वा मेक्षणम् । एनेन-मेक्षणेनोद्धृत्यचरुशेषं भुञ्जीत यजमानः । तथा च यत्र हौत्रं ब्रह्मत्वञ्च स्वयमेव करोति सोऽस्य विषयः । यत्र चान्योब्र- ह्मा भवति तत्र वक्ष्यति “अथैतद्बविरुच्छिष्टम्” ( १।९।१। ) इत्यादि ॥ अन- न्वादेशेप्येनादेशश्छान्दसः(२) ॥ २० ॥ न स्रुवमग्नौ प्रहरेदित्येक आहुः ॥ २१ ॥ स्रुवमग्नौ न क्षिपेदित्येके आचार्या वदन्ति । अस्मादेवावगम्यते स्रुव- मग्नौ क्षिपेदिति-अन्ये वदन्तीति । तस्मादत्र विकल्पः ॥ २१ ॥ आग्नेय एवाऽनाहिताग्नेरुभयोर्दर्शपूर्णमासयोःस्थालीपाकः स्यात् ॥२२॥ अनाहिताग्नेः । श्रौताग्निरहितः स्मात्तग्निरित्यवगन्तव्यम् । स्पष्टम न्यत् ॥ २२ ॥ आग्नेयो वाऽग्नीषोमीयो वा माहेन्द्रो वा अमावास्यायाम् ॥ २३ ॥ ऋज्वर्थं सूत्रम् ॥ २३ ॥ ऐन्द्रो वा ऐन्द्राग्नो वा माहेन्द्रो वा अमावास्यायाम् ॥ २४ ॥ आहिताग्नेरेव । ऋजुरक्षरार्थः । अत्रैके विनिवेशविकल्पमाहुः । ऐन्द्रमा- हेन्द्रौ सोमयाजिनः । ऐन्द्राग्नस्त्वसोमयाजिनः । अत्राप्येकेनेष्टवत ऐन्द्रो, बहु- भिरिष्टवतोमाहेन्द्र इति । अन्ये तु इच्छाविकल्पमाहुः ॥ २४ ॥ अपिवाऽऽहिताग्नेरप्युभयोर्दर्शपूर्णमासयोराग्नेय एव स्यात् ॥ २५॥ ऋज्वर्थम् ॥ २५ ॥ समिधमाधायानुपर्युक्ष्य यज्ञवास्तु करोति ॥ २६ ॥ ( १ ) उद्धृत्येति पाठो मुरारिमिश्रै रेव धृतः ॥ ( २ ) अत्र केचित् एनः प्रकृत्यन्तरमिति पठन्ति । अग्रेऽप्येवं क्वचिद्दृश्यते पाठः ।

'!

Let's check line 10: “कर्म्मावृत्तौ तु मन्त्रस्याऽप्यावृत्तिर्गृह्यकर्म्मणि” Yes, double 'म्' in 'कर्म्मावृत्तौ' and 'कर्म्मणि'.

Line 11: इत्यभियुक्तवचनात् । यत्र खल्वनावृत्तिरिष्यते मन्त्राणां, प्रायेण तत्रो- Line 12: त्तरत्र तूष्णीमिति करोति । सकृद्यजुषा द्विस्तूष्णीमित्येवम् ।। मन्त्रार्थस्तु- 'वयः' Line 13: पक्षिणः । “वि-विष्किरपतत्रयः” इति पक्षिपर्यायेऽमरः । 'अक्तं' घृतेनाभ्यक्त- Line 14: मिदं तृणं 'रिहाणाः' लिहानाः । आस्वादयन्तः लिह्येर्वर्णव्यत्ययः । 'व्यन्तु' Line 15: खादन्तु इति ॥ २७ ॥

Line 6: ततस्तस्मादाहृतादेव (१)बर्हिष इति नियमादन्यद्वर्हिर्व्यवच्छिद्यते । कुशमु- Line 7: ष्टिम् अनियतसंख्याकं कुशमादायाज्ये-यथोक्ते । हविषि-चरौ वा त्रिरवदध्या- Line 8: द्वारत्रयमञ्जयेत् । अग्रा

गान्ध in गन्धपुष्प (L7): न्ध has a small circle/loop. * In L12, it looks like न्द्या or न्धा? It is न्द्या or न्धा? * Wait, what should it be in Katyayana? * "गान्धाद्यङ्गे" or "नान्दी"? * Wait! "नान्द्याद्यङ्गे वास्त्वन्ते ब्रह्मणे वाससी तथा"? * Look at the first letter: is it गा or ना? * Look at गा in गन्ध: top has a loop? No, has a loop on the left leg, right leg goes down. * Look at ना in नाय (L19): ना has a loop on the left, then horizontal, then vertical. * In L12, the first letter is गा! Wait, does have a loop at the bottom? Yes. * Wait, is it ना? Look at गान्द्याद्यङ्गे vs नान्द्याद्यङ्गे: * In Sanskrit ritual, "नान्द्याद्यङ्गे" (in an anga of Nandi-shraddha etc.)? No, Nandi-mukha is very common! * Wait, look at the first letter again: is the loop

'? No, 'राहैनं' with an anusvara! Wait, look at line 30: "तान्प्रजापतिराहैनं मा कृध्वं विषमं समम् ।" Wait, between 'राहैन' and 'मा', what is that character? It's 'ं' (anusvara) or 'न' + '्'? Wait, look at: 'र' 'ा' 'ह' 'ै' 'त्' 'य'? "राहैनं मा कृध्वं" -> in some texts it is "राह नैवं मा कृध्वं" or "राहैनं मा कृध्वं"! Wait, look at the letters: 'ह' with ऐ-कार = 'है' then 'त्' + 'य' = 'त्य'? "राह्रैत्य"? Wait, look at line 30: "तानप्रजापतिराह्रैत्य" -> "तान् प्रजापतिराह्रैत्य"? "आहैत्य" = आह + इत्य? "आहैत्य" (āha + itya -> not standard) or "आहैतं"? Wait, look at the characters: 'ह' has ऐ-कार: 'है'। Next character has a 'त' on top and 'य' below: 'त्य'! Yes, it literally says: "तान्प्रजापतिराहैत्य मा कृध्वं विषमं समम् ।" Wait, could it be "आहैत्य"? Yes, printer error for "आ