गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
७ कण्डिका ] गोभिलगृह्यसूत्रे- १८६ एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् । आयस्योत्पवनार्थं यत्तद्ध्येतावदेव तु ॥ एतत्प्रमाणमेवैके कौशीमेवार्द्रमञ्जरीम् । शुष्कां वा शीर्णकुसुमां पिञ्जलीम्परिचक्षते ॥” इति कर्म्मप्रदीपोक्तलक्षणाभिः । कतमाभिरिति चेत्तिसृभिरित्यवधेहि । कपिञ्जलाधिकरणन्यायात् । तदिदं प्रथममुन्नयनं, भुव इति द्वितीयं दर्भपिञ्ज- लीभिरेव । स्वरिति तृतीयं दर्भपिञ्जलीभिरेव। तदेवं तिसृभिस्तिसृभिरेकैकमुन्न- यनमिति-उन्नयनत्रित्वाददर्भपिञ्जाल्योऽपि नत्रैव सम्पद्यन्ते । तासाञ्च तिसृभिरे- कमुन्नयन, तावतीभिरपरं, तावतीभिरेवापरमिति व्याख्येयम् । अत एव भूरि- ति दर्भपिञ्जलीभिरिति सूत्रयित्वा प्रथममिति सूत्रितम् । यदि पुनस्तिस्र एवदर्भपिञ्जल्यः स्युस्तर्हादित एव दर्भपिञ्जलीभिरिति सूत्रयित्वा भूरिति प्रथमम् सुवरिति द्वितीयम् । इत्येवं विनियोगममूषामसूत्रयिष्यत् नचैवम् । तस्मादनुमिमीमहे भूरिति प्रथम एवोन्नयने तिस्रोदर्भपिञ्जल्योव्यप्रियन्ते एवमु- त्तरयोः। एवकारोऽत्र पक्षे करणान्तरव्यावृत्त्यर्थ इति चन्द्रकान्तभाष्यम् । मुरा- रिमिश्रास्तु—दर्भपिञ्जलोभिरेवेत्येवकारकरणाद्यावन्त्युन्नयनानि तावतीभिरेव तिसृभिरित्यर्थः । प्रथमं द्वितीयं तृतीयमिति वचनं व्याहृतिपिञ्जल्योः पृथग्वि- नियॊगप्रदर्शनार्थम् । अन्यथा मिलिताभिरहृत्योन्नयनं प्रसज्येत । तथा चैकैक- याऽपि पिञ्जल्या एकैकमुन्नयनमिति ॥ ५॥ अथ वीरतरेण “येनादितेरि”—त्येतयर्चा ॥६॥ ( मं०ब्रा०१।५।२ ) अथेति पूर्वप्रकृतार्थम् । वीरतरेणेति । वीरास्तरन्त्यनेनेति वीरतरः शरस्ते- नेत्यर्थः । तथाच कर्म्मप्रदीपः— “श्वाविच्छलाका शलली तथा वीरतरः शरः” इति । सीमन्तमुन्नयेदित्यनुषज्यते । तत्र मन्त्रमाह- “येनादितेरि”-ति । अनेन मन्त्रेणेत्यर्थः । मन्त्रोयथा— “येनादितेः सीमानं नयति प्रजापतिर्महते सौभाग्याय । तेनाहमस्यै सीमानं नयामि प्रजामस्यै जरदष्टिङ्कृणोमि” ॥ २ ॥ इति । अस्यार्थः । 'प्रजापतिः' कश्यपः । 'येन' वीरतरेण शरेण 'अदितेः' देवमातुः 'सीमानम्' सीमन्तम्(१) । 'नयति' विनीतवान्(२) ( विवृतं कृत- वान् ) किमर्थम ? 'महते' बृहते 'सौभाग्याय' सुभगतवाय । 'तेन' (३)शरेण ( १ ) नामैकदेशग्रहणे नामग्रहणं भीमोभीमसेन इतिवत् ॥ ( २ ) नयतिरिह सोपसृष्टार्थे विनयेने वत्तॆते धातूनामनेकार्थत्वात् ॥ ( ३ ) तेनेति "तादर्थ्यात्ताद्रूप्याच्च ताच्छब्द्यम्" इति हि न्यायः । तथाचेह "तदे-
१६० सीमन्तोन्नयनम् । [ २ प्रपाठके 'अहम्' 'अस्यै' अस्याः(१)स्त्रियाः । 'सीमन्तं 'नयामि' विनयामि । (विवृतंक- रोमि ) तेनच 'अस्यै' अस्याः 'प्रजां' पुत्रपौत्रादिकाम् 'जरदष्टिं' दीर्घकालजी- विनीम् । 'कृणोमि' करोमि(२) ॥ २ ॥ ६ ॥ अथ पूर्णचात्रेण “राकामहम्”-त्येतयर्चा ॥ ७ ॥ ( मं०ब्रा०१।५।३ ) अथानन्तरम् । पूर्णचात्रेण सूत्रपूर्णेन तर्कुणा । “चात्रं तर्कु प्रकीर्त्तितम्” इति मुरारिधृतवचनात् । सीमन्तमुदूर्ध्वन्नयतीति पूर्ववत् । मन्त्रोयथा— “राकामहँ॑ सुहवां सुष्टुती हुवे शृणोतु नःसुभगा बोधतु त्मना । सीव्यत्वपः सूच्याऽच्छिद्यमानया ददातु वीरँ॑शतदायमुक्थ्यम्”॥३॥ इति । अस्यार्थः । 'अहं'
)
L19: ‘रराणा’ (९)ददतीति? Wait, where is (८)?
Wait! Look closely at L19:
Is it ‘रराणा’ (८) ददतीति or (९)?
Wait, if footnote (८) is: ( ८ ) रातिर्दानार्थः ( अ० प० ) पदव्यत्ययेन ( पा०३।१।८५ ) लटः शानच् ॥
That explains रराणा!
And footnote (९) is: ( ९ ) “कर्मण्यण्” ( पा०३।२।१ ) इत्यण्प्रत्ययः ॥
Wait, what word has अण् प्रत्यय?
सहस्रपोषम्!
Wait, does सहस्रपोषम् have footnote (८) or (९)?
Wait, look at L12: सहस्रपोषंसुभगे
Look at L18-19: ‘सहस्र- / पोषम्’ - is there a footnote number?
Wait! In L19: look before ‘रराणा’:
Wait, look at L19:
पोषम्’ बहुजनपोषकं सुतम् । ‘रराणा’ (९)ददतीति ॥ ८ ॥?
Wait, where is (८)?
Look at L19:
१४२ सीमन्तोन्नयनम् । [ ३ प्रपाठके गृह्यासङ्ग्रहे— "कृत्वा ब्रह्मासनान्तं द्विः प्रक्षाल्य क्रुसरं पचेत् । भक्तार्थत्वान्न निर्वाप उद्गुद्वासानन्तथा ॥ चूड़ाकर्म्मणि सीमन्ते यश्च पाकः सदा गृहे । विवाहे चैव लाजानां नोक्तो निर्वापगोविधिः ॥" इति । उत्तरघृतः। उत्तरे उपरि घृतं यस्य सोऽयमुत्तरघृत(दत्त)घृत इत्यर्थः । तमिमं स्थालीपाकमवेक्षयेत् । पत्नीं दर्शयेत पतिः । स खल्वयं क्रुसरः स्थालीपा- काऽऽवृता यत्र कुत्रचिद्येन केनापि पक्तव्यः । सिद्धस्य तस्यावेक्षणमात्रस्यैव सूत्रणात् । तस्मादवेक्षणार्थमेवाभ्यासादनमिति सिद्धम् । अत्र होमानादेशान्न "मन्त्रस्य देवतायाश्च प्रजापतिरितिस्थितिः"-ति वचनात्प्रजापतिदेवताकत्व- ञ्चरोर्होमादेशे सत्येवास्य प्रवृत्तेरित्यवेक्षणलक्षणे एव प्रयोजने इति द्रष्टव्यम् । अत एव चूड़ाकरणेऽन्नं वृथापक इति वक्ष्यति ( २।९।५ ) ॥ ९ ॥ एवं स्थालीपाकं पश्यन्तीं वधूम्— किम्पश्यसीत्युक्त्वा “प्रजामि"-ति वाचयेत् ॥ १० ॥ “किंपश्यसि ?” इति मन्त्रभागं पतिरुक्त्वा—"प्रजाम्पशून्त्सौभाग्यन्मह्यं दीर्घायुष्ट्वं पत्युः” इति वधू वाचयेद्भाषयेत् । अत्र मह्यमिति षष्ठ्यर्थे चतुर्थी । ( पा०२।३।६२ ) दीर्घायुष्ट्वं -बहुकालसुखजीवित्वम् ॥ १० ॥ तꣳसा स्वयम्भुञ्जीत ॥ ११ ॥ सा-वधूः । तमवेक्षितं सिद्धं क्रुसरम् ॥ ११ ॥ “वीरसू-र्जीवसू-र्जीवपत्नी"-ति ब्राह्मण्योमङ्ग- ल्याभिर्वाग्भिरुपासीरन् ॥ १२ ॥ वीरान्-विक्रान्तान् सूते-इति वीरसूः । "वीरविक्रान्तौ” ( चु० आ०) वीरयतेऽमित्रानिति वीरः तं सूते इतिवीरसूः । "षूङ्प्राणिगर्भविमोचने" (अ० आ०) ततः क्विप् । एवमग्रेऽपि (१) । "त्वंभवे"ति वाक्यशेषः । इति-एवं प्रका- राभिर्मङ्गल्याभिर्मङ्गलेसाध्वीभिः "तत्र साधुः” ( पा०४।४।९८ ) इति यत् । वाग्भिर्ब्राह्मण्योवधूमुपासीरन्गायेरन् । अनुनयेयुरित्यर्थः। यत्तु-साङ्ख्यायनपरि- शिष्टभाष्ये तत्तत्कालेऽकृतान्यपि क्षेत्रसंस्कारकर्म्माणि काले जाते, सूतकेऽपगते मातुरङ्के तन्निधाय व्याहृतिभिर्हुत्वा क्रमेण कर्त्तव्यानीत्युक्तं तत्तु प्रमाणाभावा- दुपेक्ष्यमिति मुरारिमिश्राः ॥ १२ ॥ ( १ ) जीवान्-जीवतः सूते इतिजीवसूः । यान्सूते ते जीवेरन्नित्याशंसा वाक्यार्थः । एवं-जीवस्य-जीवतः पत्नी जीवपत्नी अविधवेति ॥
७ कण्डिका ] गोभिलगृह्यसूत्रे— १६३ अथ सोष्यन्तीहोमः ॥ १३ ॥ अथेत्ययमपूर्वप्रकरणोपन्यासार्थः । आसन्नप्रसवां ज्ञात्वा सुखप्रसवार्थं होमः सोष्यन्ती होमः । “कार्य्य” इति शेषः ॥ १३ ॥ कस्मिन्काले कथञ्चेत्यपेक्षायामाह— प्रतिष्ठिते वस्तौ परिस्तीर्याग्निमाज्याहुती जुहोति “या तिरश्ची”— त्येतयर्चा “विपश्चित्पुच्छमभरदि”—ति च ॥ १४ ॥ ( मं० ब्रा० १।५।६-७ ) वस्तौ-योनिद्वारे(१) प्रतिष्ठिते-गर्भस्थित एव “बाले” बर्हिर्गन्तुमुपक्रान्ते । अग्निं परिस्तीर्य्य-परिस्तरणमुक्तन्तत्कृत्वा द्वे आज्याहुती जुहोति। पतिः। “या तिर- श्ची”त्यादि ऋग्भ्यां प्रत्येकं स्वाहान्ताभ्याम् ॥ अत्र-परिस्तीर्येति विशेषोपदेशा- द्ब्रह्मोपवेशनादिबाधः । एवञ्च क्षिप्रहोम एवायं, विशेषवचनात्परिस्तरणाज्य- संस्कारावत्राधिकाविति द्रष्टव्यम् ॥ ऋचौ यथा— “या तिरश्ची निपद्यते अहं विधारणी इति । तान्त्वा घृतस्य धारया यजे सँराधिनीमहं ( सँराधिन्यै देव्यै देष्ट्र्यै ) स्वाहा ॥ ६ ॥ विपश्चित्पुच्छमभरद्धाता पुनराहरत् । परेहि तं विपश्चित्पुमानयं जनि- ष्यतेऽसौ नाम स्वाहा ॥ ७ ॥ इति । अर्थोयथा—हे संराधिनि ! ( तदभिख्ये देवते ! ) या ते धारणा शुभे कर्म्मणि प्रस्तूयमाने 'अहं' 'विधारणी' शुभफलविघातकारिणी 'इति' एवं विधा सती 'तिरश्ची'(२)वाञ्छितफल-विघ्नकारिणी 'निषद्यते' 'अहं' 'तां' ताग्धारणावतीं 'त्वा' त्वामेव देवतां 'घृतस्य धारया' 'यजे' (३)पूजयामि । कथम्भूतां त्वाम् ? 'संराधिनीं' सम्यक्साधिनीम्प्रार्थिनामिष्टस्य(४) । तस्यै 'सं- राधिन्यै' 'देव्यै' दानादिगुणविशिष्टायै । अतएव 'देष्ट्र्यै' शुभफलानां(५)दा- त्र्यै । 'स्वाहा' सुहुतमस्तु ॥ ६ ॥ 'विपश्चित्' कश्चिद्देवविशेषः । स 'पुच्छं' शिश्नं शिशूनाम् 'अभरत्' अ- हरत्(६) । हृतवान् 'तत्' विपश्चिदाहृतं पुच्छं 'धाता' प्रजापतिः 'पुनः' 'आ- ( १ ) “वस्तिर्नाभेदधोद्वयोः” इत्यमरः ॥ ( २ ) तिरोऽञ्चतीत्यर्थे किन् । उगित्वान्ङीप् । ( पा० ४।१।६ ) “अचः” ( पा० ६।४।१३८ ) इत्यकारलोपः । ( ३ ) “यजदेवपूजादौ” ( भ्वा० उ० ) लट् ॥ ( ४ ) “राधसंसिद्धौ” ( स्वा० प० ) ताच्छील्ये णिनिः । ( पा० ३।२।७८ ) ॥ ( ५ ) “दिश अतिसर्जने” ( तु० प० ) तृन् । ऋदन्तत्वान् ङीप् । ( पा० ४।१।५ ) अतिसर्जनं दानम् ॥ ( ६ ) ह्रस्य मः ( पा० ३।१।८४ वा० ) ॥ २५ गो० गृ० सू
हरन्' आनीतवान् । तदनुध्यानेन तत्पुनर्यथावस्थितमवातिष्ठत । इतिपरोक्षमु- क्त्वा प्रत्यक्षमुच्यते—हे 'विपश्चिन् !' 'त्वं' 'परेहि' (१)परागच्छ दूरमपसर । येन 'अयं' मद्बुद्धिस्थो(२) मयाभिध्यातोऽत्र गर्भिण्याम् 'पुमान्' शिश्नस- म्पन्नो 'जनिष्यते' उत्पत्स्यते । 'असौनाम' देवदत्ताभिधानः। तस्मै तुभ्यं 'स्वाहा' सुहुतमस्तु ॥७॥ इति ॥ “पुमानयञ्जनिष्यतेऽसौ नामे”ति नामधेयं गृह्णाति ॥ १५ ॥ उक्तमन्त्रे “पुमानयमि”ति मन्त्रांशे असौ नामेत्यस्मिन्सर्वनाम्नि देवदत्त- शर्मन्नाम स्वाहेत्येवं नामधेयं नाम गृह्णीयात् । स्वार्थेऽत्र धेयप्रत्ययः । ( पा० ५।४।२५ वा० ) ॥ १५ ॥ यत्तद्गुह्यमेव भवति ॥ १६ ॥ यत्तदानीं नाम गृह्णाति तद्गुह्यम् अप्रकाश्यम्भवति । एवकारकरणाद्याव- ज्जीवं स्वयमपि न गृह्णीयाज्ज्येष्ठस्येति स्मर्य्यते— “आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥” इति । अपरञ्चैतत्कारणं, यद्रिपुणा तज्जातमभिचार (३)उपयोजितम्मह- तेऽनर्थायावकल्पेतेति । अत्रशङ्खः—“काकादन्याः सेचकघातक्याः कोशात- क्याः बृहत्याः कालक्लीतकस्य मूलानि पेषयित्वोपलेपयेद्देशं यस्मिन्प्रजायेत रक्ष- सामपहस्त्यै” इति । काकादनी-काकजङ्घा । गुञ्जेत्येके । सेचकघातकी-का- कमाची । कोशातकी घोषकः । “सोनखेसर” इतिप्रसिद्धः । कालक्लीतकः कृ- ष्णगुञ्जा ॥ मार्कण्डेयपुराणे— “अग्न्यम्बुशून्ये च तथा निर्धूपे सूतिकागृहे । प्रदीपशस्त्रमुशालभूतिसर्षपवर्जिते ॥ अनुप्रविश्य जातन्तमपहृत्यात्मसम्भवम् । अद्यप्रसविनी बालं तत्रैवोत्सृजति द्विज! ॥ सा जातहारिणी नाम सुघोरा पिशिताशनी । तस्मात्संरक्षणार्थाय यत्नतः सूतिकागृहे ॥” ( १ ) परापूर्वक “इण्गतावि—”ति धातोरत्र लोडन्तः । गुणविष्णुस्तु-त्वं परःश्रेष्ठ इत्यस्मिन्कर्मण्येहि सन्निहितोभव । सोर्लोपः ( पा० ७।१।३९ ) । किन्त्वत्र-अवेहीति वत् ( पा० ६।१।८९ ) वृद्धयभावानोपपद्यते । आर्षत्वानुसरणं तु क्लेशः ॥ .. ( २ ) “इदमस्तु सन्निकृष्टे०” इति नियमात् । सान्निध्यं बुद्धयवस्थानात् ॥ ( ३ ) “जन्मनक्षत्रयोन्या वै मारणानि यथातथम् । कृतानि न चिरेणैव सिद्धिदानि महेशरी”ति शारदाटीकायां राघवभट्टः ॥
७ कण्डिका ] गोभिलगृह्यसूत्रे- १६५ इति । यूपोऽत्र यूपाकारः काष्ठविशेषः । बैजवापः— “षष्ठेऽह्नि रात्रिजागरणं जन्मगानं च कारयेत्” इति ॥ १६ ॥ ( अथजातकर्म्म ) यदास्मै कुमारञ्जातमाचक्षीरन्नथ ब्रूयात् “काङ्क्षत नाभिकृन्त- नेन स्तनप्रतिधानेन चे”ति ॥ १७ ॥ अस्मै-पित्रे । वक्तव्यमाह-काङ्क्षतेति । नाभिकृन्तनेन-नाभिच्छेदनेन । “कृतीच्छेदने” (तु० प०) ल्युटि बाहुलकान्नुम् (पा० ३।३।१) स्तनप्रतिधानेन- स्तनपानेन । “धेट्पाने” ( भ्वा० प० ) भावे ल्युट् । ( पा० ३।३।११५ ) का- ङ्क्षत-प्रतिपालयत । समयं प्रतीक्षत । प्रकृत्यादित्वात्तृतीया ॥ ( पा० २।३। १८ वा० ) । तदुभयञ्जातकर्म्मानन्तरं मातरः ! करिष्यथेत्यर्थः । नाभि-र्ना- भिलग्ना नाडी नालमित्यनर्थान्तरम् ॥ हारीतः “ब्राह्मणमाहूय नाड़ीच्छेदना- त्प्राक् जातकर्म-पुण्याहवाचनङ्कुर्व्वन्ति” इति । ब्राह्मणं-तत्कर्म्माभिज्ञं विप्रम् । विष्णुपुराणे— “जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते । जातकर्म ततः कुर्याच्छ्राद्धमभ्युदये (१)च यत् ॥” इति । मनुः— “प्राङ्नाभिवर्द्धनात्पुंसोजातकर्म विधीयते । मन्त्रवत्प्राशनञ्चास्य सुवर्णमधुसर्पिषाम्” ॥ इति । “वर्द्धनं छेदने” इत्यमरः । “वर्द्धच्छेदने” ( चु० प० ) इति धा- त्वनुसारात् । पुंस इत्युक्तेः कन्याया एतन्न भवतीति गम्यते । अतएवास्य प्रा- शनमित्यप्युक्तम् । सुवर्णेति । सुवर्णेन हेम्ना मधुसर्पिषोर्मन्त्रपूर्व्वकम्प्राशनं मु- खे निःक्षेपणम् । अस्य बालकस्येत्यर्थः । तदुक्तं गृह्यान्तरे—“अनामिकया सुव- र्णान्तरितया मधुघृते प्राशयति-घृतं वे”ति । विकल्पे व्यवस्था गृह्यानुसारेण द्रष्टव्या । ब्रह्मपुराणे—“जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्मणेषु हि” इति । एवं विधे श्राद्धेऽवनेजनपिण्डदानादि नास्तीति भर्तृयज्ञ-स्वामिनाविति रत्नाकरः ॥ व्रीहियवौ पेषयेत्तयैवाऽऽवृता यथाशुङ्गम् ॥ १८ ॥ व्रीहियवाविति द्वन्द्वनिर्देशादुभावपि मिलितौ पेषयेन्नत्वेकैकशः । तयैवा- ऽऽवृता-परिपाट्या यथाशुङ्गाम्पूर्वोक्ताम् । अन्यतरालाभेऽपि तत्प्रतिनिधिरूपा- ( १ ) अत्र “नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न शोषयन्ती जातकर्म्मे प्रोषितागतकर्म्मसु” इति कर्म्मप्रदीपवचनं भवदेवभट्टमुरारिमिश्रादिभिरुपेक्षितम् । बीर- पद्धत्यादिष्वपि “कर्त्तास्नानं वृद्धिश्राद्धञ्च कुर्यादित्युपक्रमएवोक्तम् ।
१४६ जातकर्म्मविधिः । [ २ प्रपाठके देयः । तथाच कर्म्मप्रदीपः— “यथोक्तवस्त्वसम्पत्तौ ग्राह्यन्तदनुकारि यत् । यवानाभिव गोधूमा व्रीहीणामिव शालयः ॥” इति । तदेवं पिष्टौ व्रीहियवौ— दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या अभिस- ङ्गृह्य कुमारस्य जिह्वायान्निमार्ष्टि—“यमाज्ञे”ति ॥१६॥ ( सं० ब्रा० १।५।८ ) निमार्ष्टि-निश्च्योतयति(१) । अत्र करणमन्त्रमाह—“इयमाज्ञा” इति- एवमादिनेति । मन्त्रोयथा—“इयमाज्ञेयमन्नमिदमायुरिदममृतम्” इति । म- न्त्रार्थस्तुगमः । अत्र— “प्राक् चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तावद्विज्ञेयोयावन्मौञ्जीनिबन्धनम् ॥” इति विशेषाभिधानेऽपि कुमारस्येति वचनं मौञ्जीबन्धनस्याँवदधिकारा- र्थम् । तेनैतानि जातकम्मोदिमौञ्जीबन्धनान्तानि कर्म्माणि कुमारस्यैव न कु- मार्याः । मनुरपि— “अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ वैवाहिकोविधिः स्त्रीणां संस्कारोवैदिकः स्मृतः । पतिसेवागुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥” इत्येताभ्यां वचनाभ्यां जातकर्मोदिसंस्कारमुपनयनाभावञ्च बोधय(२)तीति व्याख्यातारः ॥ १९ ॥ तथैव मेधाजनन ंसर्पिष्प्राशयेत् ॥ २० ॥ तथैवेति दक्षिणस्य पाणेरित्यादिनोक्तप्रकारेणैवेत्यर्थः । मेधा श्रुतधारण- ( १ ) तद्रसं वस्त्रान्तरितमित्येतदर्थवशात् । बीरपद्धतौ तु-अनुमार्ष्टीत्युक्तन्तत्रानुमा- र्जनं तद्रसस्य, घर्षणं प्रक्षेपणं वा चूर्णस्येत्यत्र शिष्टाचारः प्रमाणम् ॥ ( २ ) वस्तुतस्तु—“प्राधान्यात्कुमारग्रहणं क्रियते । अनुपादेयलिङ्गाविवक्षायां तु कु- मार्य्यप्यवगम्यमाना न निराक्रियते । ननु चैवमुपनयनव्रतादिकमपि क्रियताम् इति चे- च्छृणु-अध्ययनार्थानि हि तानि व्रतानि । स्त्रियाः खल्वध्ययनं नास्ति । “न स्त्रीशूद्रौ वेद- मधीयाताम्” इति हि ब्राह्मणम् । याज्ञवल्क्योऽपि “वैवाहिकोविधिः स्त्रीणामौपनायनि- कः स्मृतः” इत्याह । औपनायनिकः उपनयनप्रतिनिधिभूतः ( तत्कार्यकारी ) । एतेन तत्पूर्व्वेः सर्वोऽयममन्त्रकः संस्कारः स्त्रीणामप्रतिहत एव मनुवचनाथैः” इति व्याख्यान चन्द्रकान्तभाष्यस्थं युक्तमुत्पश्यामः ॥ अत्र ब्राह्मणवाक्ये—“स्त्रीशूद्रौ नाधीयेताम्” इत्यपि पाठो मुद्रितपुस्तके दृश्यते ॥
२ कण्डिका ] गोभिलगृह्यसूत्रे- १६७
विषया शक्तिः । "धीर्धारणावती मेधा" इत्यमरः । तज्जनयतीति मेधाजननं सर्पिविशेषणम् । प्राशयेत् निःक्षिपेत् ॥ २० ॥ जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति "मेधान्ते मित्रावरु- ( मं० ब्रा० १।५।९ ) णावि"-त्येतयर्चा "सदसस्पतिमद्भुतमि"-ति च ॥२१॥ ( छं० ब्रा० २।२।३७ ) जातरूपं-सुवर्णम् । तथाच तत्पर्याये "चामीकरं जातरूपं महारजतका- ञ्चने" इत्यमरः । वाशब्दः समुच्चये । क्रियाद्वयोपादानं मन्त्रयोः पृथग्विनियोग- प्रदर्शनार्थम् । जुहोति-जुहुयात् । निःक्षिपे(१)दित्यर्थः । जुहोति पदोपादानमिह कुमारमुखस्याग्नित्वेन ध्यानलाभार्थम् । अत एव गृह्यसंग्रहे "प्रगल्भोजातकर्म्म- णो"-त्यग्निविशेषकथनमनर्थवत् । अत एवाग्निविशेषापदेशादत्र व्याहृतिहोमो- ऽपि कार्य इति कस्य चिन्मतमपास्तम् । प्रमाणान्तराभावादस्य चान्यथासिद्धेः । शिष्टाचारोऽप्येवमेव । अत्र गणेश्वरमिश्रादयस्तु-छन्दोगानामन्यस्यान्नप्रा- शनस्याविधानात्कुमारमुखे यवरसदानमेतदेवान्नप्राशनम् । अन्यथा संस्कार- न्यूनता स्यात् । अतएव न पृथक्करणमिति(२) । ननु सूत्रकारेण पृथक्सूत्र- णादत्रान्नप्राशनं संस्कार एव नास्तीति चेन्न सूत्रकारानुक्तत्वमात्रस्याप्रयोजकत्वा- त् । अन्यथा-कन्यादानकर्णवेधाग्निहोत्राणामकरणप्रसङ्गात् । “यन्नाम्नातं स्वशाखायां पारक्यमविरोधि च । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ॥”
( १ ) जुहोति पदोपादानात्स्वाहाकारान्तामन्त्रयोरवगम्यते । मन्त्रयोर्भेदेनोपदेशाद्भेदे- नैव होमः । अतएव वीरपद्धतौ विनियोगोऽपि पृथगेव दर्शितः । किन्त्वत्र प्रथममन्त्रान्ते स्वाहाकारोनास्तीति चित्रं प्रतिभाति ॥ ( २ ) एषामयमाशयः । शास्त्रप्रामाण्यबलादेकेनापि कर्म्मणा संस्कारद्वयनिष्पत्ता- वपि न किमप्यनुचितम् । ननु “षष्ठेऽन्नप्राशनं मासि” इति नियतकालत्वमन्नप्राशनस्य स्मर्यते नामकरणेन व्यवहितत्वञ्चे ति चेच्छृणु - अस्मच्छाखे खल्विदानीमेवान्नप्राशनमुप- दिश्यते इत्यन्येषामेव नियतकालत्वन्नामकरणेन व्यवहितत्वञ्च, नास्माकम् । नाप्यस्य नि- यतकालत्वमप्यस्ति-यथा च यमः-“ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि । अष्ट- मेवाडथ कर्त्तव्यं यद्वेष्टम्मङ्गलङ्कुले” इति कालद्वयमुपदिश्य कालान्तरमप्युपदिशति । मनु- रपि “षष्ठेऽन्नप्राशनं मासि यद्वेष्टम्मङ्गलं कुले" इति तथैवोपद्दिशति । तदेतदपरे न क्षमन्ते। जातकर्म्मरूपत्वादेतस्य नान्नप्राशनत्वम् । न खल्वेकेन कर्म्मणा संस्कारद्वयनिष्पत्तिर्युक्ता। नियतकालत्वादन्नप्राशनस्य नामकरणेन व्यवहितत्वाच्चेति प्राङ्नाभिवर्द्धनात्करणमस्य न युक्ततरम् । स्वशाखायामनभिधातेऽपि च पारशाखिकोपादानमविरोधेऽनुमतं कात्याय- नेन । तस्मात्प्रधानहोमदेवतामात्रमेवाध्वर्युभ्योऽग्रहीतव्यम् । पूर्वापरेतिकर्त्तव्यताकलापस्तु स्वशाखोक्त एव स्यादिति न किञ्चिदेतत् ॥
:
It is मातुरस्पृश्यत्वं यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥ or मातुरस्पृश्यत्वैर्य्यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥?
Wait! Look at the word:
मातुरस्पृश्यत्वैर्य्यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति
Wait, look at the characters:
म 1
ा
त 2
ु
र 3
स 4
्
प
ृ
श 5
्
य
त 6
्
व
ै ? No, look above 'त्व': there is NO matra.
Wait, look above the letter after 'त्व':
There is a repha: 'र्य्य' or 'य्य'?
Wait, if there's no matra on 'त्व', how could it be 'त्वै'? It CANNOT be 'त्वै'!
So it is NOT 'त्वै'!
Could it be मातुरस्पृश्यत्वं यदभिहितन्तद...?
Wait, look at the space: between 'त्व' and 'द', there is ं य or र्य्य?
Wait, look at the letter: it has a loop on the left, a vertical stem on the right, and a repha on top. That is `
८ कण्डिका ] गोभिलगृह्यसूत्रे- १६६ अथाष्टमी कण्डिका- ( अथ निष्क्रमणम् ) जननाद्यस्तृतीयोज्यौत्स्नस्तस्य तृतीयायां प्रातःसशिरस्कं कुमारमाप्लाव्यास्तमिते वीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते॥१॥ जननाज्जन्मन आरभ्य तृतीयोयोऽज्यौत्स्नः ज्योत्स्नायुक्तः पक्षः शुक्लपक्षस्त- स्य तृतीयायां तिथौ सशिरस्कं शिरसा सह । अत्र सशिरस्कमित्यभिधानाद- न्यदा बालानामशिरस्कं स्नानन्दर्शयति । तथाच ब्रह्मपुराणम्- “शिरोराभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् । रजस्वलादिस्पर्शे तु स्नातव्यन्तु कुमारकैः ॥” इति । एवञ्चेदं स्नानमदृष्टार्थम् । न तु शौचार्थमिति ध्येयम् ॥ कुमारं- बालम् ॥ तथाच ब्रह्मपुराणम्- “प्राक्चूड़ाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तावद्विज्ञेयोयावन्मौञ्जीनिबन्धनम् ॥” इति । आप्लाव्य-स्नापयित्वा । रात्रौ कर्म्मणोविधानाद्रात्रावेव स्नानम्मा- भूदित्येवमर्थं प्रातरित्युक्तम् । अस्तमिते अस्तङ्गते सवितरि सूर्ये । वीते-विगते। लोहितिम्नि-लौहित्ये सन्ध्योपरम इत्यर्थः । अञ्जलिकृतः । कृताञ्जलिः । “आहि- ताग्न्यादिषु” ( पा० २।२।३७ ) पाठात् कृतशब्दस्य परनिपातः । उपतिष्ठते- आराधयति । अर्थाच्चन्द्रमसम् । “अभिमुखश्चन्द्रमसम्” इति लिङ्गात् । अत्र “उपान्मन्त्रकरणे” (पा० १।३।२५) इत्यात्मनेपदम् । अत्र “उपाद्देवतापूजासङ्ग- तिकरणमित्रकरणपथिष्विति वाच्यम्” इति वार्त्तिकादाराधने । अत्र दिशोऽनुप- देशात् प्राङ्मुख उपस्थानङ्कुर्यात् । “यत्र दिङ्नियमोनास्ती”ति कात्यायनवचना- दिति भाष्यकृतः । प्रत्यङ्मुख इति पद्धतिकृतः । युक्तञ्चेदं शुक्लपक्षतृतीयायां चन्द्रमसः पश्चिमदिगवस्थितत्वेन तत्साम्मुख्येनैवोपस्थानस्य न्याय्यत्वात् ॥१॥ अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणत उदञ्चं पित्रे प्रयच्छत्युदक्शिरसम् ॥ २ ॥ अथ-अनन्तरमेव । शुचिना-निर्णिंक्तेन । आच्छाद्य-आ ईषत्-मुखव- र्जम् छादयित्वा दक्षिणतः पितुर्द्दक्षिणस्यान्दिशि भूत्वा । अत्र च “आद्या- दिभ्यस्तसेरुपसंख्यानम्” ( पा० ५ । ४ । ४४ वा० ) इति सप्तम्यन्तात्तसिः । एवमग्रेऽपि । उदञ्चम्-उत्तानम् । उदक्शिरसञ्च कुमारं पित्रे प्रयच्छति- ददाति ॥ २ ॥ स्वयञ्च- अनुपृष्ठम्परिक्रम्योत्तरतोऽवतिष्ठते ॥ ३ ॥
२०० निष्क्रमणविधिः । [ २ प्रपाठके
अनुपृष्ठं-पत्युः पृष्ठदेशेन । परिक्रम्य-गत्वा । उत्तरतः पत्युत्तरस्यान्दिशि अवतिष्ठते ऊर्ध्वा तिष्ठति । अत्र “समवप्रविभ्यःस्थः” (पा० १।३।२२) इत्या- त्मनेपदम् ॥ ३ ॥ अथ जपति-“यत्ते सुसीम” इति । “यथायन्न प्रमीयेते पुत्रोजनित्र्याअधी”-ति ॥ ४ ॥ ( मं० ब्रा० १।५।१०-१२ ) अथे-त्यानन्तर्यार्थम् । परिक्रम्योत्तरतः स्थितायान्तस्याम् । अनन्तरं पिता जपति-न तु परिक्रममाणायामेव । जप्यमाह-यत्त इति-एवमादि । यथायं अधीयेतेदन्तम् । तदिदन्त्यृचस्या(१)द्यन्तज्ञापनार्थमिति पदद्वयमुक्तमिति बोध्यम् । ऋचो यथा— “यत्ते सुसीमे हृदय ँहितमन्तःप्रजापतौ । वेदाहम्मन्ये तद्ब्रह्म माहं पौत्रमघं नि गाम् ॥ १० ॥ यत्पृथिव्यामन्नममृतं दिवि चन्द्रमसि श्रितम् । वेदामृतस्याहन्नाम माहं पौत्रमघ ँरिषम् ॥ ११ ॥ इन्द्राग्नी शर्म्ययच्छतं प्रजायै मे प्रजापतिः । यथायं न प्रमीयेत पुत्रोजनित्र्या अधि” ॥ १२ ॥ इति । आसामर्थः—हे चन्द्र ! “यत्” ‘ते’ तव ‘अन्तः’ मध्ये ‘सुसीमे’ सुषीमे सुशीमे वा(२) । अतिशीतले ‘प्रजापतौ’ प्रजानामानन्दजनकत्वेन पत्याविव (स्वामिनीव) ‘हृदयं’ मनः ‘हितम्’ निहितम् अर्पितम् । ‘अहं’ ‘वेद’ जानामि । किं ? ‘मन्ये तद् ब्रह्म’ तदेतद्ब्रह्मैवभवतोति ध्रुवमुत्प्रेक्षे(३)। तेन ‘पौत्रम्’ पुत्र- सम्बन्धि । ‘अघम्’(४)दुःखम् ‘अहं’ ‘मा निगाम्’ मानितरां प्राप्नुयाम् । अय- मर्थः । यस्मादहं ब्रह्मवित्तस्मान्ममानिष्टसम्बन्धोन सङ्गच्छते इति ॥ १० ॥ ‘यत्’ ‘पृथिव्याः’ सकासात् ‘अन्’(५) निर्गतम् । अमृतम्(६) । ‘दिवि’ द्युलोके ‘चन्द्रमसि’ चन्द्रे ‘श्रितम्’ आश्रितम् । तद् ‘अहम्’ ‘अमृतस्य’ ‘नाम’ प्राकाश्यं(७) सम्भाव्यं वा रहस्यम् ‘वेद’ जानामि । ब्रह्मवित्त्वात् । अतः ‘पौत्रं’
( १ ) ऋक्त्रयस्य । ( २ ) “सुषी(शी)मः शिशिरोजडः” इत्यमरः । ( ३ ) “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षां व्यज्यते शब्दैरिवश- ब्दोऽपि तादृशः” इति मद्दुकः । तादृशः क्रियापदसङ्गतः । उत्प्रेक्षाभिधायी । ( ४ ) “अंहोदुःखव्यसनेष्वघम्” इत्यमरः । ( ५ ) “अम्गत्यादिषु” ( भ्वा० प० ) तस्मात्क्तिनि मस्यनत्वे रूपम् । ( ६ ) छान्दसोदीर्घः । गुणविष्णुस्तु-अनामृतममृतमित्याह— ( ७ ) “नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने” इत्यमरः ।
Here is the complete line-by-line transcription of the text from the provided image:
८ कण्डिका ] गोभिलगृह्यसूत्रे- २०१ पुत्रसम्बन्धि 'अघं' दुःखम्प्राप्य(१) 'मा रिषम्' हिंसितो माभवेयमित्यर्थः ॥११॥ हे 'इन्द्राग्नी'! युवां 'मे' मम 'प्रजायै' सन्तानाय । 'शर्म्म' कल्याणम् । 'यच्छतम्' दत्तम् । किम्भूतो ? 'प्रजापती' लोकपालौ । तथाच शर्म्म यच्छतं 'यथायं पुत्रो' 'मम' 'जनित्र्याः' मातुः । 'अधि' उत्सङ्गे स्थितो 'न प्रमीयेत' न (२)हिंस्येत कदाचिदापुरुषायुषम् ॥ १२ ॥ इति । अत्र भविष्यपुराणम्- "द्वादशेऽहनि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । चतुर्थे मासि कर्त्तव्यन्तथाऽन्येषाम्मतं विभो ! ॥" इति । द्वादशेऽहनीति शाखाभेदाद्विकल्पः । तथा- "चतुर्थे मासि कर्त्तव्यं शिशोश्चन्द्रस्य दर्शनम् । तृतीये मासि कर्त्तव्यं शिशोस्सूर्यस्य दर्शनम् ॥" इति । सूर्यचन्द्रदर्शनयोर्गृह्यानुसारेण व्यवस्था । अतुल्यार्थत्वात्समुच्चय इति कल्पतरुः । पारस्करः "चतुर्थे मासि निष्क्रमणिका-सूर्यमुदीक्षयति तच्च- क्षुरिती"ति । अत्र च संस्कारोनिष्क्रमणमेव । तत्परिगणने तस्यैव पाठात् । अनयोर्दर्शनयोराभ्युदयिकश्राद्धन्न कुर्वन्ति-"सूपन्दोः कर्मणी ये तु तयोः श्रा- द्धन्न विद्यते" इति कात्यायनवचनादितिकल्पतरुः ॥ ४ ॥ एवञ्जपित्वाऽथ कुमारम्- उदञ्चम्मात्रे प्रदाय यथार्थम् ॥ ५ ॥ ऋजुरञ्चरार्थः । यथार्थमिति कर्मणः परिसमाप्तिरुच्यते । इत्यसकृदवो- चाम । तेन वामदेव्यगानमिदानीङ्कर्त्तव्यम् । तथा च कर्मप्रदीपः- "अहोमस्र्केऽवपि भवेद्यथोक्तञ्चन्द्रदर्शने । वामदेव्यं गणेश्र्वन्ते बल्यन्ते वैश्वदेविके ॥" इति ॥ ५ ॥ अथयेऽत ऊर्ध्वं ज्योत्स्नाः पूर्वोदित (३) एव तेषु पितोपतिष्ठतेऽ- पामञ्जलिं पूरयित्वाऽभिमुखश्चन्द्रमसम् ॥ ६ ॥ ( १ ) केचित्तु- "मा ऋषम्" नावगच्छेयम् । "ऋषी गतौ" ( तु० प० ) माङि- लुङर्थेलडडभाव आर्षः । अत्रानुस्वारोवर्णव्यत्ययकृतोऽभावमापन्नः । इत्याहुः । ( २ ) "मीहिंसायाम्" ( दि० आ० ) आशंसायां लिङ् । ( ३ ) अत्र "प्रथमोद्दिष्टे" इति पाठश्चन्द्रकान्तेन धृतः । प्रथमं यः काल उद्दिष्टः क- थितस्तस्मिन्नेव काले तृतीयायामिति तदर्थमाह । प्रथमोदित इतिपाठेऽपि प्रथममुदितः कथितोयः कालस्तस्मिन्निति स एवार्थ इति च । एषोऽर्थः पद्धतिवृतोबीरेेश्वरस्याप्य- भिमतः । परं स "ततस्तथावस्थितमेव कुमारं मातरि समर्प्य तद्दिने तत्क्षण एव चन्द्रा- भिमुखः पिता गन्धदुग्धयवफलपुष्पचन्दनसहितमपामञ्जलिं पूरयित्वा चन्द्रोद्देशेन सकृ- न्मन्त्रेण द्वस्तूष्णीमुत्सृजेदि"त्याह । एतदन्त एव च पात्राल्रेन पुष्पेण चापूयं पूर्ववद्वा- २६ गो० गृ० स०
ाम्यामितरशौचापकषै- wait,शौचापकर्षे! Look at line 18: अस्यचौचमग्रोऽपि-> wait, look at the letter betweenचौandम: Is it चorल? It looks like लorच. Wait, let's look at वर्षट्यांवत्: Look at द्व: in line 7 द्विरञ्जलिद्वयम्hasद्विandद्व. In line 18: वर्षthenद्व या व त्? Yes! द्वwithया: द्व्याorद्वया? Wait, there is a वandत्: वर्षद्वयावत्? No, वर्षद्वयं यावत्? Look at the character between द्वandवत्: वर्षद्वयांवत्? No, look at: वर्ष द्व या त्? Wait, look at the letters: व र् षthenद्वthenयाthen anusvara onया? No, वर्षद्वयात्? Wait, after वर्षद्व: It's यwithा: या. Then what is above? A dot? Then व`
वाऽहनी" - no, look at the end of L28: "वाऽहनी" (no hyphen visible, just broken word).
Wait, look at L27: "नाम कुर्यात् ।” इति ।" - notice the space and closing quote: नाम कुर्यात् ।” इति ।
Line 31: "ङ्गवचनमतन्त्रम्” इत्यपि परिभाषन्तेस्म पाणिनीयाः ॥"
Everything looks very accurate and well-checked. Ready to output.८ कण्डिका ] गोभिलगृह्यसूत्रे- २०३ 'मा रुदम्' मा रुद्याम् । ब्रह्मवित्त्वादेव(१) ॥ १३॥ इति ॥ ७ ॥ ( अथ नामकरणम् ) जननाद्दशरात्रे व्युष्टे शतरात्रे संव्वत्सरे वा नामधेयकरणम् ॥ ८ ॥ जननात्-जन्मदिवसादारभ्य दशरात्रे व्युष्टे-अतिक्रान्ते । एवं शत- रात्रे संव्वत्सरे वा व्युष्टे । नामैव नामधेयम् । “भागरूपनामभ्योधेयः” (पा० ५।४।३६ वा० ) इतिधेयप्रत्ययः स्वार्थे । तस्य करणम् । इति कर्मणोनाम- धेयम्
[२०४ नामकरणविधिः । [ २ प्रपाठके-]
निगदव्याख्यातम् ॥ १० ॥ प्रदाय च माता— अनुपृष्ठम्परिक्रम्योत्तरत उपविशत्युदगग्रेषु दर्भेषु ॥११॥ एतदप्युक्तार्थम् ॥ ११ ॥ अथ जुहोति प्रजापतये तिथये नक्षत्राय देवताया इति ॥ १२ ॥ अथेत्यानन्तर्यार्थकम् । उपविष्टायान्तस्याङ्केकुमारं तस्यै प्रदाय जुहोति । (१)इतरथा गृहीतकुमारस्य हवनासम्भवान् । इत्येवमेके । गृहीतकुमार एव जुहोतीत्यपरे । पद्धतावप्येवमेव । कस्मै जुहोति? प्रजापतये । स चायं [ प्रजा- पतिहोमः ] “मनसा प्रजापतिन्ध्यायेत्तूष्णीं होमेषु सर्वत्रे”त्याश्वलायनवचना- त्तथा कर्त्तव्यः । अत्राविशेषोक्तेर्देवतापेदन (२)तिथिनक्षत्रोभयदेवतालाभः । अत एव च विसमासकरणम् । तदुभयञ्च कुमारजन्मकालिकमेव । तथाच बह्वचगृहे—“त्रीणि चेतानि सदैवतानि जुहुयाद्यस्मिन्जातः स्यादि”ति । तिथि- देवतास्तु— “ब्रह्मा त्वष्टा च विष्णुश्च यमः सोमः कुमारकः । मुनिर्वसुः पिशाचश्च धर्मोरुद्रोरविस्तथा ॥ मदनश्चैव यक्षश्च विश्वेदेवास्तथैव(३) च । अमायां पितरः प्रोक्ता यज्ञार्थास्तिथिदेवताः ॥” इति वचनोपात्ता इह ग्राह्याः । न तु पुराणान्तरोक्ताः । परिशिष्टसंवादात् । तथाचात्र होमप्रकारे कात्यायनः— “नामधेये मुनिवसुपिशाचां बहुवत्सदा । यक्षांश्च पितरोदेवा यष्टव्यास्तिथिदेवताः ॥” इति । पुराणान्तरे मुन्यादिदेवतानभिधानात् । बहुवदिति—बहुवचनान्तशब्देनेत्य- र्थः । एवमग्रेऽपि नक्षत्रदेवताहोममधिकृत्य तथा— “आग्नेयाद्येऽथ(४) सार्पाद्ये विशाखाद्ये तथैव च । अषाढाद्ये धनिष्ठाद्ये अश्विन्याद्ये तथैव च ॥ ( १ ) अनादेशादाज्यन्द्रव्यम् । “आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते” इति कात्यायनवचनात् ॥ ( २ ) तिथयः प्रतिपदाद्याः । तासान्देवता पूर्णिमान्तानां ब्रह्मादयोविश्वेदेवान्ताः । तत्र तिथिहोमे “ॐ प्रतिपदे स्वाहा” इत्येवमादिकः प्रयोगः । तिथिदेवताहोमे प्रकारः कर्मप्रदीपोक्तोऽग्रेव्यक्तः । ( ३ ) पूर्णिमायाम् ॥ ( ४ ) द्विवचनान्तात् सन्धिरत्रार्षः । प्रगृह्यसंज्ञायां [ ( पा० १।१।११) प्रकृतिभाव ( पा० ६।१।१२५ ) स्मरणात् ।
८ कण्डिका ] गोभिलगृह्यसूत्रे— २०५ द्वन्द्वान्येतानि बहुवत्तृक्षाणाञ्जुहुयात्सदा । देवतास्वपि हूयन्ते बहुवत्सर्पपितृपः ॥” इति आग्नेयाद्ये-कृत्तिकारोहिण्यौ । एवमग्रेऽपि । साप-मश्लेषा । शेषमव- शिष्टम् । द्वन्द्वद्वयं-पूर्वोत्तरफल्गुन्यौ । पूर्वोत्तरभाद्रौ च द्विवद्विवचनान्तम् । अवशिष्टानि-मृगशिरः प्रभृतीनि नक्षत्राणि । एकवदेकवचनान्तशब्दे(१)ने- त्यर्थः । देवाः विश्वेदेवाः । ज्यौतिषे— “अश्वोयमोऽनलोब्रह्मा शशी शर्वोऽदितिर्गुरुः । सर्पः पिता भगश्चैव अर्यमा च दिवाकरः ॥ त्वष्टा वातः कृशान्विन्द्रोमित्रश्चैव पुरन्दरः । निर्ऋतिः सलिलञ्चैव विश्वेदेवा हरिस्तथा ॥ वसवोवरुणश्चैव तथैव स्यादजैकपात् । अग्निर्बु(र्ब्र)ध्न्यस्तथा पूषा क्रमान्नक्षत्रदेवताः ॥” इति । अत्र अहिर्बुध्न इत्यपपाठः । 'उत्तानाहिर्बु(र्ब्र)ध्न्यः शृणोत्वज एकपा- त्पृथिवी समुद्र” इति श्रुतौपाठाविवादेन तथा निर्णयात् । सोऽयं होमस्य प्रका- रविशेष इतिशब्देन सूच्यत-इति द्रष्टव्यम् ॥ १२ ॥ तस्य मुख्यान्प्राणान्संस्पृशन् (२) “कोऽसि कतमोऽसी” त्येतमन्त्रं जपति ॥ १३ ॥ ( मं० ब्रा० १।५।१४-१५ ) तस्य-कुमारस्य । मुख्यान्-मुखप्रभवान् । “शरीरावयवाद्यत्” ( पा० ५। १।६ ) इति भवार्थे यत्प्रत्ययः । प्राणान्-प्राणनिर्गमोपायभूतान्सप्तच्छिद्रविशे- षान् । मुखमक्षिणी नासिके कर्णावित्येतरूपानिति यावत् । “कोऽसी”त्येवमा- दिमन्त्रं जपति । मन्त्रो यथा— “कोऽसि कतमोऽस्येषोऽस्यमृतोऽसि, आह्स्पत्यं मासं प्रविशासौ” ॥१४॥ स त्वाऽह्ने परिददात्वहस्त्वा रात्र्यै परिददातु रात्रिस्त्वाऽहोरात्राभ्याम्परि- ददात्वहोरात्रौ त्वाऽर्द्धमासेभ्यः परिदत्तामर्द्धमासस्त्वाम्मासेभ्यः परिददातु मा- सास्त्वामृतुभ्यः परिददत्वृतवस्त्वा सव्वँत्सराय परिददतु सव्वँत्सरस्त्वाऽऽयुषे जरायै परिददा
२०६ नामकरणविधिः। [ २ प्रपाठके- इति। अस्यार्थः-असौ-इत्यामन्त्रणे। हे देवदत्त(१)! त्वं ‘कोऽसि?’ इति स्वरूपप्रश्नः। ‘कतमोऽसि?’ इति जातिप्रश्न. (किञ्जातीयोऽसीति) ‘एषोऽसि’-ति प्रत्यञ्जनिर्देशः। ‘अमृतोऽसि’ अमरणधर्म्माऽसि। (अविना- श्यसि) यतोऽतस्त्वां ‘आहस्पत्यम्’ अहस्पतेः-सूर्य्यस्य सम्बन्धिनं (सौरं) ‘मासं’ सङ्क्रान्तिचिह्नितम्। ‘प्रविश’ तत्रात्मानमनुप्रवेशय। प्रथमं मासजीवी भव। ततः क्रमेणामृतत्वमेष्यसीति भावः ॥ १४ ॥ ‘असौ’ हे देवदत्त! इतिपुनरामन्त्रणमादरार्थम्। ‘स’ अहस्पतिः सूर्य्यः। ‘त्वा’ त्वाम् ‘अह्ने’ दिवसाय ‘परिददातु’ अर्पयतु। संवर्द्धनाय। यावच्छता- युष्त्वम्। अत्र मासस्य विशेषणभूतोऽपि अहस्पतिः प्राधान्यात्स इत्यनेन परा- मृश्यते। इति गुणविष्णुभाष्यम् ॥ १५ ॥ इति। त्र्यवसानोऽयमन्त्रः ॥ १३ ॥ तत्र च मन्त्रे— “आहस्पत्यम्मासं प्रविशासावि”-त्यन्ते च मन्त्रस्य घोषवदा- द्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतन्नाम दध्यात् ॥१४॥ इति-एतस्मिन् मन्त्रान्तस्थे चासाविति स्थानद्वयस्थसर्वनाम्नि प्रकृतत्वा- त्कुमारस्य नाम दध्यात् गृह्णीयात्। इत्यर्थः। कीदृशं नामेत्यपेक्षायामाह—घो- षवदादीति। वर्गाणाम्प्रथमद्वितीयाः शषसाश्चाघोषप्रयत्नवन्तस्तद्भिन्नाश्च घोष- वन्तः(२)। तेषाम्मध्ये एकतमोवर्ण आदौ यस्य तद् घोषवदादि। अन्तरन्तः- स्थम्। अन्तःस्था यरलवाः(३)। तेषाम्मध्ये चैकतमोऽपि वर्णोऽन्तर्मध्ये यस्य तत्तथा। दीर्घाभिनिष्ठानान्तम्। दीर्घोद्विमात्रोवर्णः। अभिनिष्ठानोविसर्जनीयम- क्षरम्। “अभिनिष्ठानेऽप्यक्षरमात्रेऽपि स्याद्विसर्जनीयेऽपी”ति मेदिनी। तौ ( तदन्यतरौ ) अन्तौ यस्य तत्तथा। क्वचित्तु—दीर्घाभिनिष्ठानमिति पाठः। दीर्घेणाभिनिष्ठन्यते समाप्यते यन्नाम तदिति तत्रैव व्याख्या चेति। कृतं- ( १ ) एतच्च यथाशास्त्रं कुलक्रमागतनामोपलक्षणम् ॥ ( २ ) तथाच बाह्यप्रयत्नानेकादशोपक्रम्य-शिक्षार्थमवलम्ब्य भट्टोजिदीक्षिताः प्राहुः- “खयांयमाः खय)(क)(पौ विसर्गः शरएवच। एते श्वासानुप्रदानाअघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः”। इत्यादि। तथा च पाणिनीयशिक्षाऽपि- “घोषा वा संवृताः सर्व” इति ॥ ( ३ ) स्पर्शोष्मणोरन्तर्म्मध्ये स्थिता इत्यन्तःस्था इत्युच्यन्ते, एष चाबन्तेऽपि पठ्यते। तथा चपा०शिक्षायाम् “अन्तस्तामिश्र संयुक्तम्”इति। तइमे यरलवाः। तथाच वचना- न्तरमपि-“अदौ” घोषवदक्षरान्तरस्थवान्मध्यं पुनः स्थापयेदन्ते दीर्घविसर्जनीयसहितं नाम प्रयत्नात्कृतम् ॥ इति ॥
४ कण्डिका ] गोभिलगृह्यसूत्रे- २०७ कृदन्तम् । अथच कृतं-पूर्वेषान्तेन पितामहादीनान्नामस्वेवैकमिति(१) दाक्षि- णात्याः ॥ १४ ॥ एतदतद्धितम् ॥ १५ ॥ एतदिति- नाम्नःपरामर्शः । अतद्धितम् न विद्यते तद्धितस्तन्नामा प्रत्यय- विशेषोयत्र तत् तद्धितान्तभिन्नम् । ननु कृतन्नाम दध्यादित्यनेनैवैतत्सिद्धमिति चेत्सत्यम् । सर्वथा तद्धितस(२)म्बन्धनिरासार्थमेतदिति पृथगभिहितम् । तथाच महाभाष्यं “नाम कृतङ्कुर्यान्न तद्धितम्-”ति । तथाच पुंसोनाम-बलि- ध्वंसी(३)-विश्वम्भरः । इत्येवम् ॥ १५ ॥ अयुग्दान्तᳪस्त्रीणाम् ॥ १६ ॥ स्त्रीणां पुनरयुक्-अयुग्माक्षरम् । दान्तं-दाकारान्तन्नाम दध्यादित्यनुवर्त्तते। अयमेव विशेषः । सर्वमन्यत्पूर्ववत् । तथाच महाभाष्यं “द्व्यक्षरं चतुरक्षरं वा नामे”-ति । तदेतत्स्त्रीपुंसयोर्यथायोगमभिसम्बन्धनीयमयुग्मयुग्मोपलक्षणार्थम्। तथाच स्त्रीनाम “यशोदा” इत्येवमादि । अत्रान्येऽपि विशेषाः “स्त्रीणां सुखो- द्यमक्रूरम्’-त्यादि मन्वादिषु द्रष्टव्याः ॥ १६ ॥ मात्रे चैव प्रथमन्नामधेयमभिधाय यथार्थम् ॥ १७ ॥
(१) तथाच महाभाष्यम् “घोषवदाद्यन्तरन्तस्थं त्रिपुरुषानूकमनरि प्रतिष्ठितं तद्धि- प्रतिष्ठितमम्भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतङ्कुर्यान्न तद्धितम्” इति । त्रिपुरु- षानूकमिति । त्रिपुरुषानुगतं कायति उच्चारयति यत्तदित्यर्थः । “कैगै शब्दे” (भ्वा० प०) कप्रत्यये कृताकारलोपमेतत् ॥ “अनुकः कामुकोऽमिकः” इत्यभिधानात्त्रिपुरुषाननुकामयते- ऽभिधातुमभिलषतीत्यर्थे निपातितः पाणिनिना “अनुकाभिकाभीकः कमिते ( ५।२।७४ ) ति । दीर्घमध्यता चार्षवचनात् ॥ (२) अत्र चन्द्रकान्तभाष्ये-दीर्घाभिनिष्टानान्तत्वसूत्रणादेव तद्धितान्तत्वे सिद्धे पुनरुपादानन्नियमार्थम् । एतदेवनामातद्धितान्तं नपुनरन्यदिति । तेन “यत्तद्गुह्यमेव भव- ति” इति । “अभिवादनीयं नामधेयङ्कल्पयित्वा” इति चैवमादिनाम्नां तद्धितान्तःत्वमपि स्यादिति ॥ (३) केचित्त्वत्राचक्षते-दीर्घाभिनिष्ठानान्तमित्यत्रान्तशब्दो “दशान्तः पट” इति वदवयवार्थः । तथाच दीर्घान्तं नाम “गोविन्दशर्म्मा” इत्यादिरूपम् । विसर्गाञ्च “गोविन्दः” इत्यादिरूपम् । यद्वा “हरिशर्म्मा”-“हरिदेवः” इत्येवम् । अतएव कर्म्म- प्रदीपे “गिरिशर्म्मैवमुक्तवान्” इति । तथाच मनुः “माङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ शर्म्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥” इति । अत्र माङ्गल्य- मित्यनेनामङ्गलसम्बन्धव्युदासोऽभिमतः । एवं पुष्टिर्धनस्य ॥ शङ्खः “शर्म्मान्तं ब्राह्मण- स्योक्तं वर्म्मान्तं क्षत्रियस्य च । धनान्तञ्चैव वैश्यस्य दासान्तञ्चान्त्यजन्मनः” ॥ इत्येवमादि ।
१०८ नामकरणविधिः । [ २ प्रपाठके- तच्च नामधेयं प्रथमं-पूर्वं मात्रे कुमारस्य । आख्याय-कथयित्वा यथार्थम्। तत्कर्मसमाप्तङ्कुर्यादित्यर्थः । चशब्दात्पुरुषनाम्नः स्त्रीनाम्नश्च प्रथमम्मात्रे कथनम् । एवकारोमात्रे प्रथमनिवेदनार्थः ॥ १७ ॥ गौर्दक्षिणा ॥ १८ ॥ नामधेयकर्मणः ॥ १८ ॥ ( अथ जन्मदिनादिकृत्यम् ) कुमारस्य मासि मासि संवत्सरे सावँत्सरिकेषु वा पर्वस्वग्नीन्द्रौ द्यावापृथिवी विश्वान्देवाꣳश्च यजेत ॥ १६ ॥ जननादित्युपक्रमात् कुमारस्य जन्मतिथौ वक्ष्यमाणा देवता यजेत् । तत्र समयविशेषमाह-मासि मासीति । प्रतिमासमित्यर्थः । तेन संवत्सरपर्यन्तं यागः । ऊर्ध्वं संवत्सराज्जननमास एवैकस्मिन्वर्षान्ते जन्मतिथौ संवत्सरे “वा पूर्णे” इति वाक्यशेषः । अत्रापि जन्ममासे जन्मतिथौ यजेतेति द्रष्टव्यम् । वा-अथवा सावँत्सरिकेषु पर्वसु । यजेत । संवत्सरस्येमानि सावँत्सरिकानि तेषु “कालाट्ठञ्” (पा०४।३।११) इति ठञ्प्रत्येक आदिवृद्धिः । पर्वसु-त्रयाणा- मृतूनां शरच्छिशिरग्रीष्माणा(१)मवसानतिथिषु कार्त्तिकी फाल्गुनी आषाढीषु । अथवा द्वावत्र कालविकल्पौ । संवत्सरपर्यन्तं मासि मासि कुमारस्य जन्म- तिथौ यजेत । सावँत्सरिकेषु वा पर्वसूक्तरूपेषु यजेत। कतमाः पुनस्ता देवता- उच्यन्ते-अग्नीन्द्रौ। द्यावापृथिवी द्यावापृथिव्यौ(२) एते द्वन्द्वदेवते । विश्वा- न्देवांश्चेति । विश्वेभ्योदेवेभ्य इत्येवम् ॥ १९ ॥ दैवतामिष्ट्वा तिथिन्नक्षत्रञ्च यजेत ॥ २० ॥ जन्मतिथेर्देवतम् इष्ट्वा जन्मतिथिं, जन्मनक्षत्रस्य दैवतामिष्ट्वा जन्मन्क्षत्र- ञ्च यजेत ॥ २० ॥ ( अथ प्रोषितागतकर्म ) विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्याम्पाणिभ्याम्मूर्द्धानम्परिगृह्य जपेत् यदा वा पिता म इति विद्यात्, उपेतस्य वा “अङ्गादङ्गात्सम्भवसी”ति ॥ २१ ॥ ( मं० ब्रा० १।५।१६-१८ ) विप्रोष्य प्रवासादागत्य गृहम् । पिता पुत्रस्येति सम्बन्धपदोपादानात् । ( १ ) एतच्च “त्र्यूतुः सव्ँवँत्सर” इति मतेन, बोध्यम् । यत्र च मार्गादिमासचतुष्टय- स्यैक ऋतुरेवमग्रेऽपि बोध्यम् ॥ ( २ ) द्यावापृथिवीचेत्यर्थे द्वन्द्वे “दिवोद्यावे-” ( पा० ६।३।२९ ) ति द्यावादेशः ।