गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
४ कण्डिका ] गोभिलगृह्यसूत्रे- १६६ 'अरातयः' शत्रवः(१) 'अपद्रवन्तु' भीत(२)भीता अपगच्छन्तु ॥ इति ॥१२॥ अक्षभङ्गे नद्धविमोक्षे यानविपर्यासेऽन्यासु चापत्सु यमेवाग्निं हरन्ति तमेवोपसमाधाय व्याहृतिभिर्हुत्वाऽन्यद्- व्यमाहृत्य "यन्नृतेचिदभिश्रिष" इत्याज्य- शेषेणाऽभ्यञ्जेत् ॥ ३ ॥ ( मं० ब्रा० १।३।१३ ) अध्वनात्यनुवर्त्तते । (३)अक्षभङ्गे । अक्षोरथचक्रम् । नद्धविमोक्षे-नद्ध- स्य(४)योक्त्रादिबन्धस्याश्वादेर्वा विमोक्षे-अकस्माद्विमोके यानस्य रथादेर्वि- पर्यासे औत्तराधर्य्यप्रातिलोम्ये अन्यथागमने विपथगमने वा । अन्यासु चाप- त्सु-यानात्परिपतनादिकासु चौरव्याघ्रादिकृतासु वा । यमेवाग्निमौपासनं(५) हरन्ति नयन्ति । यमेव(६) वा कञ्चिदग्निं लौकिकमपि सन्निधौ लब्ध्वाऽऽनय- न्ति तमेवाग्निमुपसमाधायेन्धनं सन्धुक्ष्य व्याहृ(७)तिभिराज्येन स्रुवेण हुत्वाऽ- न्यदक्षादिद्रव्यन्तदाऽऽहृत्यानीय “य ऋते चिदि”-त्यनयर्चा(८) । आज्य- शेषेण कृतहोमावशिष्टेनाज्येनाभ्यञ्जेत् । अन्तर्भावितण्यर्थोऽञ्जतिः । क्वचित्त- थैव पाठः । ऋग्यथा- “य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । सन्धाता सन्धिं मघवा पुरुवसुर्निष्कर्त्ता विहुतं पुनः” ॥ १३ ॥ ( ऋ० सं० ८।१।१२ ) ( १ ) “रादाने” (अ०प०) कर्त्तरि किच् (पा०३।३।१७४) नञ्समासः । “अभि घातिपराती”ति शत्रुपर्यायेऽमरः । ( २ ) “द्राकुत्सायां गतौ” ( अ० प० ) आशंकायां लोट् ॥ कुत्सितगमनेन हि भीतिरत्रावेद्यते । ( ३ ) “अक्षोऽक्षासार्थ-शकट व्यवहारेषु पाशके” इति मेदिनी । ( ४ ) नद्धमिति भावे क्तः । नद्ध इति कर्म्मणि । बन्धनसाधनन्तु योक्त्रादि अर्थ- वशात् । योक्त्रञ्च युगबन्धोपयोगिन्यां रज्जावित्यमरविवेके महेश्वरः । तथा चामरः “आ- बन्ध्योयोक्त्रं योक्त्रमि-“ति” । ( ५ ) दाराहरणाऽऽद्यकालिकम् । ( ६ ) एतच्चानाहिताग्निविषयम् । अन्ये त्वाहुः-“सायमाहुत्युपक्रम एवात ऊर्ध्वं गृहेऽग्नौ होमोविधीयते” ( १-१-२३ ) इति सूत्रणात् सायमाहुतेः पूर्वमक्षभङ्गादौ जाते होमोऽयं विवाहाग्नौ न प्राप्नोति-इति यमेवाग्निं हरन्तोति सूत्रितमिति ॥ ( ७ ) पूर्वोक्ताभिर्भूर्भुवादिभिः । ( ८ ) न साम्ना । ऋगधिकारात्साम्नेति चावचनात् । अत्र सत्यव्रतः । ऋङ्मूलकं साम ( गे० गा० ६।२।२२ ) गायन् । अनादिष्टपरिभाषया च साम्न एव बोधः। सूत्रे ऋगादिपदानुल्लेखादिति । २१ गो० गृ० सू
इति। अस्यार्थः। 'य' इन्द्रः। 'अभिश्रिषः' अभिश्रिषः (अभिश्र्लेष- णात्सन्धानद्रव्यात् ) 'ऋतेचिद्' विनाऽपि 'जत्रुभ्यः' ग्रीवाभ्यः (स्कन्ध(१) सन्धिभ्यः) सकाशात् 'आतृदः' आतर्द्नात्। (आ रुधिरनिःस्रावणात् ) 'पुरा' पूर्वमेव 'सन्धि' सन्ध्यातव्यं तं 'सन्धाता' संयोजयिता भवति, 'मघवा' धनवान्(२) 'पुरुवसुः' बहुधनः स इन्द्रः, 'अविह्रुतम्' विच्छिन्नं तं 'पुनः' 'इष्कर्त्ता' संस्कर्त्ता भवति। इति सायणः॥ १३॥ अभ्यञ्जनमिह 'ऋक्षणम्(३)। अत्रहि व्याहृतिहोममात्रविधानात्तूष्णींप्रहो- मोऽयम्। तत्र च न्यञ्चकरणपर्युक्षणाऽऽज्यसंस्कार-समिदाधान-व्याहृति- होम-पर्युक्षणान्येव कार्याणि॥ ३॥
ध्वम्। प्रजा जनयन्तु(१)। 'इह' च 'अश्वः' निषीदतु' आवसतु। 'इह' पूरुषः' परिचारकवर्गः। परिजनश्च निषीदतु। 'इह' 'उ' वितर्के। पदपूरणो- वा। 'सहस्रदक्षिणः' सहस्रं दक्षिणा यत्र स महाधनसाध्योयज्ञः। 'अपि' च 'पूषा' तन्नामकोदेवः सर्वपोषकोऽपि निषीदतु॥ सम्भवतु-उपविशतु वेति क्रमे- णार्थः ॥ १४ ॥ इति ॥ ६ ॥ तस्याः कुमारमुपस्थ आदध्युः ॥ ७ ॥ तस्या आनडुहे चर्मण्युपविष्टाया वध्वा उपस्थे उत्सङ्गे ( क्रोड़े ) “उप- स्थः शेफसि क्रोड़े तथा मदनमन्दिरे" इति मेदिनी। कुमारम्-अकृतचूडं यं कञ्चिद्बालकम्(२)। आदध्युः। स्थापयेयुः। ता एव ब्राह्मण्यस्तासामेवो- पक्रमात् ॥ ७ ॥ तस्मै शकलोटानञ्जलावावपेयुः ॥ ८ ॥ [L1
१७२ विवाहविधिः । [ २ प्रपाठके तत्र होमे चतुर्थी न प्रयोक्तव्या । यथाच छन्दोगपरिशिष्टे कात्यायनः— “धृतिहोमे न प्रयुञ्ज्याद्गोनामसु तथाघ्न्यसु । चतुर्थी,-मध्य इत्येतद्गोनाम्नैव हि हूयते ॥” इति । धृतिहोमेऽस्मिन्नेव । तथा “आश्वयुज्यां पौर्णमास्यां गोनामभिश्च पृथक् “काम्यासी”त्येतत्प्रभृतिभिरे”त्यनेन गोभिलसूत्रेण काम्यासि-प्रियासि इडासि-रत्यसि-सरस्वत्यसि-मह्यसि हव्यासि-विश्रुतिरसि-इत्यघ्न्यानामानि, एतदष्टनामभिः स्वाहान्तैर्होम उक्तः । तत्र चतुर्थीन्न प्रयुञ्ज्यादित्यर्थः । एवञ्चे- “इहधृतिःस्वाहे”त्यादिः। “काम्यासिस्वाहे”त्यादिश्च प्रयोगोद्रष्टव्यः । अघ्न्या गौः ( निघं २।११।१ ) अमरोऽपि “अर्जुन्यघ्न्या रोहिणी स्यादि”त्याह । भारते ऽपि “अघ्न्या इति गवां नामे”त्युक्तम् । अघ्न्यै स्वाहेति यत्र न्वाहुतयस्तत्र बोद्धव्यमिति मुरारि(१)मिश्राः प्राहुः ॥ १० ॥ समाप्तासु समिधमाधाय यथावयसं गुरून्गोत्रेणाऽ भिवाद्य यथार्थम् ॥ ११ ॥ इतिश्रीमद्गोभिलीये गृह्यसूत्रे द्वि-प्र-स्य चतुर्थी कण्डिका ॥ २ ॥ ४ ॥ ॐ ॥ समाप्तासु धृत्याहुतिषु अन्यास्वप्याज्यतन्त्रविहितासु आहुतिषु समिधमा- धायैवाभिवादयेन्नत्वनुपर्युक्षणादिकमपि कृत्वा । यथावयसम् । वयोऽनतिक्रम- णेन । यथार्थेऽव्ययीभावे ( पा. २।१।६ ) “शरदादित्वात्” ( पा, ५।४।१०७ ) टच्समासान्तः । योयोवयसा वृद्धस्तंतंप्रथममित्यर्थः । गुरून् विद्यागुरु-मातृ- पितृ-प्रभृतीन् । तत्राऽपि प्रथमं विद्यागुरुम् । तथाच स्मर्यते— “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतोज्ञानं तं पूर्वमभिवादयेत्” ॥ इति । “न चानिसृष्टो गुरुणा स्वान्गुरून्अभिवादयेत्” इतिच ( मानवाक्यम् ) गुरुणा ब्रह्मदेन अनिसृष्टोऽनाज्ञप्तः स्वानात्मीया- न्गुरून्पित्रादीन् । तथा— “उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता” इति । मातापित्रोस्तु पूर्व्वमातरमेव(२) । ( १ ) अतएव हि सूत्रेऽष्टावित्युक्तिरिति तद्भावः । ( २ ) यत्तु कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरम् । देवक्याश्च महाबाहुर्वसुदेव- सहायवान्”—ति पौराणिकवचनात्क्रमकल्पनाकुतोनेति । तन्मन्दं “यन्मनुरवदत्तद्भेष- जम्भेषजताया” इति श्रुत्या मनूक्तक्रमस्य श्रुतिसम्मितत्वेन । “भगवानपि सर्वात्मा” इत्युपक्रम्य—“ननाम दण्डवद्भूभौ मातरं पितरन्तथे”—ति पुराणान्तरवचनेन च सत्प्रति- पक्षतत्त्वात् । किञ्चोक्तवचने सत्वरमित्युक्त्या ससम्भ्रममित्येवार्थ आयाति । इत्थञ्च
“सहस्रेण पितॄन्माता गौरवेणातिरिच्यते” इति मानवीयेन तत्र गौरवातिरेकबोधनात् । पितॄनिति व्यक्तिभेदाभिप्रायम् । सहस्रेण गुणेन प्रकृत्यादित्वादुपलक्षणे वा तृतीया⁶ । यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते । यथोक्तार्थकम् ॥ दक्षिणा चास्यानादेशात्पूर्णपात्रादिकै- वेति शुभम् ॥ ११ ॥ ॐ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वि०प्र०स्य चतुर्थीकण्डिका ॥ २ ॥ ४ ॥ * ॥ ( अथ पञ्चमी कण्डिका ) अथातश्चतुर्थीकर्म ॥ १ ॥ वर्त्तिष्यत इति शेषः । अथ शब्दोविवाहानन्तर्यार्थः । अतः शब्दोहेत्वर्थः । यत एतस्मिन्नक्रियमाणे वध्वाः पापोलक्ष्मी शरीरात्रापैति । अत एतदवश्य- कर्त्तव्यमिति । एवञ्चात्र कल्पे चतुर्थीहोमस्य पापीलक्ष्म्पादिरूपाऽलक्षण- फलन्न शाखान्तरवद्गोत्रसंक्रमणशरीरैक्यादि । अन्त एवतत्संभवादित्युक्तमेव (२।३६-१३) तथाच दैवादेतदनिष्पत्तौ न विवाहवैगुण्यमपीतिस्मर्त्तव्यम् । अत्र च तैलोर्द्धर्त्तनादि कृत्वा युगकाष्ठ उपविश्य वध्वा सह यवमाषचूर्णेन स्ना- नमाचारादिति मुरारिमिश्राःप्राहुः ॥ १ ॥ अग्निमुपसमाधाय प्रायश्चित्त्याऽऽहुतीर्जुहोति “अग्नेप्रायश्चित्त”इति चतुः॥ २ ॥ अग्निमुपसमाधायेत्युक्तार्थम्। प्रायश्चित्तेति। प्रायश्चित्तलिङ्गकैर्म्मन्त्रैराज्या- हुतयः प्रायश्चित्ताख्याहुतयः । “अग्ने प्रायश्चित्ते” इत्यादिमन्त्रेण चतु-र्वारंचतु- ष्ट्यञ्जुहोति जुहुयात्। यद्यप्यत्र वीप्सा नश्रूयते तथापि कल्प्या, वक्ष्यमाणकात्या- यनस्वरसात् तस्य तत्तात्पर्योन्नायकत्वात् ॥ २ ॥ तत्किमाम्नायपठितेनैव चतुश्चतुर्होमो, नेत्याह— अग्नेः स्थाने वायुचन्द्रसूर्याः ॥ ३ ॥ क्रमशः सम्बोधनान्ताः “प्रयोक्तव्याः”इति सूत्रशेषः । समाम्नायपाठोद्देशा-
तदानीं कंसवधान्ते सभायां वसुदेव एव पुरस्तादुपलब्धः सभ्येषु । देवकीत्वन्तःपुरिकत- याऽज्ञातस्वरूपतया च वसुदेवसहायेन तेन तत्र गत्वाऽवाप्तपरिचया प्रणतेति क्रमकल्पना- न्तरकल्पनावसरः । उभयसन्निधाने तु—“मातरम्पितरञ्चोभौ दृष्ट्वा पुत्रस्तु धर्म्मवित् । प्रणम्य मातरं पश्चात्पितरं प्रणमेदगुरुम्” इति पुराण एव प्रथमं मातुः प्रणामभिधान- मिति न किञ्चिदेतत् ।
१७४ विवाहविधिः। [ २ प्रपाठके
वानेव विशेषोन पुनरपरःकोऽपि । प्रथमस्यैव मन्त्रस्याग्निपदस्थाने वायुचन्द्र- सूर्यपदप्रक्षेपमात्रेणाभ्यासोपदेशात् । तस्माच्चतसृष्वप्याहुतिषु पापीलक्ष्मीरिति पदमेव स्यात् ॥ ३ ॥ समस्य पञ्चमीं बहुवदूह ॥ ४ ॥ समस्य-वायुचन्द्रसूर्या इत्युद्धार्य । बहुवदूह्य-प्रायश्चित्तयोयूयमित्येवमादि- बहुवचनमूहयित्वा पञ्चमीमाहुतिञ्जुहोति(१) । नचैवम्पञ्चममन्त्रस्य यथाम्ना- यपठितस्य काप्यत्राविनियोगे निरर्थकत्वापत्तिः । अत्रविनियुक्तस्यापि विनियो- गान्तरसम्भवादस्मदादिभिस्तत्परिशेषस्य कर्तुमशक्यत्वात् । अन्यत्रान्यथा पठि- तविनियोगस्य महर्षिणा दर्शितत्वेनापर्येनुयोज्यत्वात् । तथाचाग्नेः स्थाने वाय्वा- द्यूहेनाग्न्यादिसमस्तवचनान्तोहेन च मन्त्रपञ्चकं सम्पन्नं तच्चतुर्द्धाभ्यसनीयमिति आहुतीनां विंशतिर्भवतीति शास्त्रार्थः । प्रयोगोयथा— “ॐअग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि, ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्याः पापी लक्ष्मी(२)स्तामस्या अपजहि स्वाहा” ? द्वितीय-तृतीय-चतुर्थीषु-वायो-चन्द्र-सूर्येति पुरस्ताद्योजनं विशेषः(३) । पञ्चमीं समस्य यथा- ॐअग्नि-चन्द्र-वायु-सूर्याः प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयःस्थ । ब्राह्मणोवोनाथकाम उपधावामि याऽस्याः पापीलक्ष्मीस्तामस्या अपजहत स्वाहा”॥ इति । अत्र द्वितीयपञ्चके-पापीलक्ष्मीस्थाने पतिघ्नीति विशेषः । तृतीये अपुत्र्या । चतुर्थे अपसव्येति विशेषोद्रष्टव्यः । एतच्च स्पष्टीकृतञ्छन्दोग- परिशिष्टे कात्यायनेन ।
( १ ) जुहुयात् । अयमपि सूचितविशेषमात्रेण प्रथमस्यैव । “अग्ने प्रायश्चित्ते’ त्यादिमन्त्रस्याभ्यासोपदेशः । तेनाऽत्रापि पापीलक्ष्मीरिति पदमेव स्यात् । अत्रापि पञ्चमीति वीप्सा बोध्या । ( २ ) अत्र। “तनूरि”-ति कश्चित्कोऽपपाठः । मन्त्रब्राह्मणादिष्वदर्शनात् । अर्थतस्त- स्तिष्ठेदिति चेत् । ( ३ ) मन्त्राम्नाये ( मं. ब्रा. १।४।१ ) तु इत्थं पठ्यते— “अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्याः पापीलक्ष्मीस्तामस्या अपजहि ॥ १ ॥ वायो प्रायश्चित्ते त्वं देवानाम्प्रायश्चित्तिरसि ब्राह्म- णस्त्वा नाथकाम उपधावामि याऽस्याः पतिघ्नी तनूस्तामस्या अपजहि ॥ २ ॥ चन्द्र- प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्या अपुत्र्या तनूस्तामस्या अपजहि ॥ ३ ॥ सूर्यं प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्या अपशव्या तनूस्तामस्या अपजहि ॥४॥ अग्नि वायु-चन्द्र- सूर्याः प्रायश्चित्तयोयूयन्देवानाम्प्राायश्चित्तयः स्थ ब्राह्मणोवोनाथकाम उपधावामि याऽ- स्याः पापीलक्ष्मीर्यापतिघ्नी याऽअपुत्र्या याऽअपशव्या ( तनूस्- ) तामस्या अपजहत
:
In line 31:
( पा० ५।१।४० ) or ( पा० ६।१।१४० )?
Wait, look at line 31:
( पा० ५।१।४० ) - wait, between '। ' and '४', is there a '१'?
Let's zoom in 400%:
There is:
(
पा०
५ (wait, it has a hook on top left, curved body... wait, or ६? It looks like ५! But wait, look at the top right: no, it's ५!)
Wait, let's look at ६ in line 32:
Line 32: ( पा० ६।१।३९ )
The ६ has a distinct hook at the bottom or top? In Devanagari font here, ६ is like an open loop, like ६.
Wait, in line 31, the digit is:
Wait, let's look at ( पा० ६।१।१४० ) vs ( पा० ५।१।४० ):
Wait, look at the digits: ५ । १ । ४ ०?
Wait, count the glyphs:
(
पा०
५
।
१
।
१?
वक्ष्यते । स्त्रीणां". This clearly comments on "यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन्"! So the printer forgot the marker (५) in the verse, or it's somewhere there. But footnote 5 is labeled ( ५ ).
Wait, let's re-read line 33 carefully:
( ५ ) अस्यायमारायः । vs अस्यायमाशयः ।
Look at the letters in line 33:
अ स्या य म ा श य ः
Wait! Is that a 'श' or an 'आ' or 'रा'?
Let's compare with 'श' in line 34: 'वाशब्दो': 'श' has a loop on left, and a vertical bar on right with a crossbar connecting them.
Now look at line 33: the letter has a loop on top-left, and a vertical bar on right... wait, it is identical to 'श'!
Wait, why did I see 'रा' earlier? Because some OCR read it as 'रा'. But it is clearly 'श'!
Wait, what about between 'म' and 'श'?
Is there a 'ा'?
Look at: 'अ स्या य म ा श य ः'
Wait, between 'म' and 'श', there is a single vertical line ा.
So 'मा'!
Thus: अस्यायमाशयः ।
Let's check line 10
? No, it's clearly मन्तूपगमनदोषाभिधानम्!
Wait, what does मन्तूपगमन mean?
Wait, मन्तु in Vedic/Sanskrit means fault, transgression: मन्तु = transgression!
"मन्तूपगमनदोषाभिधानम्" -> मन्तु (offence) + उपगमन? But why मन्तू with dirgha?
Wait, could it be a typo for ऋतूपगमन?
In Devanagari script, if the manuscript had मृत्वोपगमन or मृतूपगमन or मन्तूपगमन:
The printed text clearly has: मन्तूपगमनदोषाभिधानमकामो-
Let's transcribe what is printed: मन्तूपगमनदोषाभिधानमकामो-
* Line 29:
पगमविषयम् । अतएव “अनृतौ तु सदा कार्यं शौचम्मूत्रपुरीषवद्”-ति शातातपीयवच-
Wait: "शौचम्मूत्रपुरीषवद्”-ति" - note double म: `शौचम्मूत्रपुरीषवद्”-ति`!
Yes, `शौचम्मूत्र` has double `म` (शौचं मूत्र -> शौचम्मूत्र).
And hyphen before ति: `”-ति`.
* Line 30:
नमपि सङ्गच्छते । तेन
१९८ गर्भाधानविधिः । [ २ प्रपाठके- सादारभ्य षोडशाहोरात्रः । सोऽस्या अस्तीत्यृतुमती । सा यदा भवति । तत्रापि उपरतशोणिता । शोणितस्रावरहिता । तथाविधा च प्रायश्चतुर्भिरहोरात्रैर्भ- वति । तदा सम्भवस्य सङ्गमस्य ( मैथुनस्य ) कालोभवति । तदेतत्सामान्यतो- ऽभिहितम् । विशेषस्तु तत्रापि पर्वादिवर्जित एव । सोऽपि सन्निहितस्य श- क्तस्य ( स्वस्थस्य ) न सर्वस्येति बोध्यम् । तथाच याज्ञवल्क्यः- “षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । ब्रह्मचार्येव, पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् ॥ ७९ ॥ ( अ०१ ) एवङ्ग(१)च्छन्स्त्रियं क्षामां मघां मूलञ्च वर्जयेत् । सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ॥ इति । तस्मिन्नृतौ । युग्मासु समासु षष्ठाष्टमादिषु । रात्रिषु । रात्रिग्रहणा- दिवसप्रतिषेधः । संविशेत्—गच्छेत् । पुत्र(२)र्थम् । युग्मास्विति बहुवचनं समुच्चयार्थम् । अतश्चैकस्मिन्नपि ऋतौ अप्रतिषिद्धासु सर्वासु युग्मासु रात्रिषु गच्छेन् । एवं गच्छन्नपि ब्रह्मचार्येव “भवति”—इति शेषः । अतोयत्र ब्रह्मच- र्यं श्राद्धादौ चोदितन्तत्राग्रे समयालाभे गच्छतोऽपि न ब्रह्मचर्यस्खलनदोषोऽ- स्ति । किन्तु-पर्वाणि-आद्याश्चतस्रश्चरात्रीर्वर्जयेत् । पर्वाणि पञ्चयथा च स्मर्यते-- “चतुर्दशीष्टमी चैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसङ्क्रान्तिरेव च ॥” इति । रविसंक्रान्तिर्मेषादिषु राशिषु सूर्यस्य गमनसमयः । मनुरप्याह- “अमावास्यामष्टमीञ्च पौर्णमासीञ्चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातकोद्विजः ॥” इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चतस्रोरात्रीश्च वर्जयेदिति ( १ ) एवमिति । एवममुना प्रकारेण । स्त्रियं गच्छन् । क्षामां कृशामल्पसत्त्वां गच्छेत् । सा(क्षामता)च तस्मिन्काले रजस्वला व्रतेनैव भवति । अथचेन्न भवति कर्त्तव्या क्षामता पुत्रोत्पत्त्यर्थमल्पास्निग्धभोजनादिना । “पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः”इति वचनात् । यदा युग्मायामपि रात्रौ, शोणिताधिक्यं तदा स्त्र्येव भवति पुंप्र- कृतिः । एवम् अयुग्मायामपि पुंशुक्राधिक्ये पुमानेव भवति स्त्रीप्रकृतिः । कालस्य तत्र निमित्तत्वात् । शुक्रशोणितयोश्चोपादानकारणत्वेन प्राबल्यात् । तस्मात्क्षामा कर्त्तव्या । मघामूलनक्षत्रे वर्जयेत् । इन्दौ-चन्द्रे । सुस्थे एकादशादिशुभस्थानगते । चकारात्पुंन- क्षत्रशुभयोगलग्नादिसम्पत्तौ । सकृदेकस्यां रात्रौ न द्वित्रिर्वा । ततो लक्षण्यं-लक्षणैर्यु- क्तम्पुत्रं जनयेत् । पुमान्-अप्रतिहतपुंस्त्व इत्यर्थः ॥ ( २ ) एतेन जातपुत्रस्य तु नायं विधिः । किन्त्विच्छैव नियामिकेत्याहुः ।
५ कण्डिका ] गोभिलगृह्यसूत्रम्– १७६ मिताक्षराकारः । पर्वाणीति बहुवचननिर्देशादार्थावगमाद्गेयामपिग्रहणं, यथा- चाग्रे स्फुटीभविष्यति ॥ दक्षिणेन पाणिनाोपस्थमभिमृशेत् । “विष्णुर्योनि कल्पयत्वे”- तयर्चा । “गर्भन्धेहि सिनीवाली”-ति च ॥ ६ ॥ ( मं० ब्रा० १।४।६-७ ) यदा प्रथमं (१)सम्भवेत्तदा दक्षिणेन पाणिना । उपस्थं-योनिम् । “उप- स्थः शेफसि क्रोडे तथा मदनमन्दिरे” इति मेदिनी । अभिमृशेत्-स्पृशेत् । वि- ष्णुर्योनि” “गर्भन्देही”-त्येताभ्यामृग्भ्याम् । यद्यपि “दक्षिणेन पाणिना(२) कृत्यमनादेशे” इति परिभाषायत एव प्राप्तेर्दक्षिणेनेति विशेषणमयुक्तमिव प्रति- भाति । तथापि शौचादौ सव्यस्यैव विनियोजनादत्रापि गुह्याङ्गे तथा भ्रमोमा- भूदिति तदुपादानम् । मन्त्रौयथा— “विष्णुर्योनि कल्पयतु त्वष्टा रूपाणि पिं॑शतु । आसिञ्चतु प्रजापतिर्धाता गर्भन्दधातु ते ॥ ६ ॥ गर्भन्धेहि सिनीवालि गर्भन्धेहि सरस्वति । गर्भन्ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ ७ ॥ अनयोरर्थो—हेवधु ! ‘विष्णुः’ नारायणः ‘ते’ तव ‘योनिं’ ‘कल्पयतु’ सुप्र- सवसम(३)र्थङ्करोतु । ‘त्वष्टा’ भूस्थानदेवता ( निघं० ५।५।११ ) ‘रूपाणि’ ‘पि- शतु’ प्रकाश(४)यतु । किञ्च ‘प्रजापतिः’ विधाता तामेव योनिम् ‘आसिञ्चतु’
( १ ) “ऊढायाः प्रथमार्त्तवे” इति वचनात् । गर्भसंस्कारश्चायं गर्भाधानाख्यः पात्र- द्वारेण स्यात्ततश्च सकृत्संसकृते स्त्रीद्रव्ये योयोगर्भ उत्पत्स्यते स स संस्कृत एव भविष्यति तस्मात्सकृदेव स्यान्न प्रतिगर्भम् । एवं पुंसवनसीमन्तोन्नयने अपि द्रष्टव्ये । इति भट्टनारा- यणादयः । त्रयोऽप्यमी संस्काराः प्रतिगर्भमावर्त्तन्तेऽन्यथा परेषाङ्गभाणामसंस्कारः स्यादिति कर्कापाध्यायाः । गर्भाधानं प्रतिगर्भमावर्त्तते न पुसवनसोमन्तोन्नयने । इति विज्ञानेश्वरः । सीमन्तोन्नयनं प्रतिगर्भन्नावर्त्तते । गर्भाधानपुंसवने आवर्त्तते एवेति शूल- पाणिगायेनारायणप्रभृतयः । किंपुनरत्रयुक्तम् ? शूलपाण्यादिमतमेष । “ऋतावृतावि” ति स्मरणात् । “ऊढायाः प्रथमार्त्तवे” इति तु मातृश्राद्धपरम् । “असकृद्यानि कर्माणि क्रियेरन्कर्मकारिणा । प्रतिप्रयोगं नैवं स्युर्मातरः श्राद्धमेव चे”ति कर्म्मप्रदीपस्मरणात् । तथाचात्र प्रथममिति व्याख्यानं मुरारिमिश्रीयमनुदिनं द्रष्टव्यम् । तस्य च प्रथमानति- क्रमएव तात्पर्यम् । संवदति चामुमर्थमेतन्नं सूत्रम् “अथ सीमन्तकरणं प्रथमगर्भे” इति॥ ( २ ) तथाच कर्म्मप्रदीप. “कर्मोपद्दिश्यते यत्र कर्तुरङ्गं नचोच्यते । दक्षिणस्तत्र वि- ज्ञेयः कर्मणां पारगः कर” इति ॥ ( ३ ) “कृपूसामर्थ्ये” ( भ्वा०आ० ) णिजन्तात्प्रार्थनायां लोट् । ( ४ ) “पिशअवयवे” ( तु०प ) मुचादित्वान्नुम् । अयन्दीपनायामपीति दीक्षितच- रणाः ( सि० कौ० ) प्राहुः ॥
१८० गर्भाधानविधिः। [ २ प्रपाठके यावन्मात्रेण बीजेन गर्भोभवति तावन्मात्रमेव प्रक्षेपयत्वित्यर्थः । किञ्च 'धाता' सर्वस्य प्रसविताऽऽदित्योमध्यस्थानदेवता (निघं० ५।५।६ ) 'ते' तव 'गर्भ' पुत्रार्थ 'न्दधातु' स्थापयतु(१) ॥ ६ ॥ पूर्वामावा(२)स्या सिनीवालिः ( दृष्टेन्दुः ) सा प्रार्थ्यतेऽस्या अतिशुभलक्ष- ण(३)प्रेप्सया । हे 'सिनीवालि' अस्यां वध्वां 'गर्भन्धेहि' वन्ध्यात्वमस्या अप- नयेत्यर्थः । तथा हे 'सरस्वति' त्वमप्यस्यां 'गर्भन्धेहि' त्वदनुध्यानादस्या गर्भोवि- द्वत्प्रकाण्डं भवितेत्यर्थः । हेवधु ! 'ते' तव 'गर्भम्' 'देवौ' दीप्त्यादिगुणवन्तौ 'अश्विनौ' सूर्याचन्द्रमसौ । द्यावा(४)पृथिव्यावहोरात्रे वा ( निघं० ५।६।१ ) 'आधत्ताम्' त्वदात्मनास्थित्वा समाधत्तामिति बृहदारण्यकभाष्यव्याख्याया- मानन्दगिरिः । कथम्भूतौ ? 'पुष्करस्रजौ' 'पद्ममालिनौ । इति गुणविष्णुः । स्वकीयरश्मिमालिनावित्यानन्दगिरिः ॥ ९ ॥ समाप्यर्चौ सम्भवतः ॥ १० ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि·प्र·स्य पञ्चमी कण्डिका ॥ २ ॥ ५॥*॥ समाप्येति । ऋग्द्वयानन्तरमेवा(५)भिगच्छेदित्यर्थः । यदि दैवादिनाऽत्र मु- ख्यकालातिपत्तिः स्यात्तत्राह—गृह्यसंग्रहकारः— “ऋतुपुंसवने दैवात्स्वकाले न कृते यदि । सीमन्तकरणात्पूर्वं कृत्वा सीमन्तमाचरेत् ॥” इति । ऋतु-गर्भाधानम् (६) । कात्यायनः— “देवतानां विपर्यासे जुहोतिषु कथम्भवेत् । सर्वप्रायश्चित्तं हुत्वा क्रमेण जुहुयात्पुनः ॥ ( १ ) लोटाशंसायाम् ॥ ( २ ) “या पूर्वाऽमावास्या सा सिनीवाली योत्तरा सा कुहूः” इति श्रुतिः ॥ ( ३ ) इन्दुदर्शनी सा शुभलक्षणलक्षिताति तदधिष्ठातृदेवता प्रार्थ्यते ॥ ( ४ ) अत्र द्यौर्ज्योतिषाऽश्नुतेव्याप्नोति । पृथिवीरसेनान्नलक्षणेनेत्यश्विनौ । अश्वे र्विनिः । एवमहर्ज्योतिषा, रात्रिश्चस्यायेन । सूर्य्योज्योतिषा चन्द्रमा रसेन । ह्लादादि- ना वा । इत्यश्विनौ पदव्याख्यायां देवराजयज्वानः प्राहुः ॥ ( ५ ) ऋचौ समाप्य सम्भवत एव न पुनरन्तरा किञ्चित्कुर्यात् । इति कालार्थं वच- नव्यक्तिः कर्त्तव्या । तेन पूर्वत्र सूत्रितोऽभिमर्शोऽपि ऋचोः परतो न स्यात्किन्तु तत्पाठ- समकालमेवेति सिध्यति ॥ ( ६ ) अस्य पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्होतव्यम् । “अग्नेस्तु मारुतोनाम गर्भाधाने विधीयते”इति गृह्यसङ्ग्रहोक्तेर्नामकरणेनैवाग्नेराहुतिरुपतिष्ठते । तत्र च नियमतोव्याहृतिहोमः पुरस्ताच्चोपरिष्टाच्चोक्तः ( १-९-२७ ) एव ॥
६ कण्डिका ] गोभिलगृह्यसूत्रे- १८१ संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन । हुत्वैतदेव कर्त्तव्या ये तूपनय(१)नादयः ॥” इति ॥ सर्वप्रायश्चित्तं-व्याहृति होमः । शाट्चायनहोम इति वीरेश्वरः । क्रमेणेति । यतोविपर्यासस्तत एवेत्यर्थः । तदुक्तं तेनैव- “यतस्तदन्यथाभूतं तत एव समापयेत्” । इति । एतदेव सर्वप्रायश्चित्तमेव । एतदादौ वृद्धिश्राद्धे प्रमाणमुक्त- पूर्वमिति ॥ १० ॥ ( इति गर्भाधानम् ) इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वि०प्र०स्य पञ्चमी कण्डिका ॥ २ ॥ ५ ॥ * ॥ ( अथ षष्ठी कण्डिका ) ( अथ पुंसवनम् ) तृतीयस्य गर्भमासस्यादिसद्देशे पुँसवनस्य कालः ॥१॥ गर्भोयस्मिन्मासि जायते सोऽयङ्गर्भमासस्तस्य यस्तृतीयोमासः । सम्बन्ध- लक्षणा षष्ठी तृतीयोयोगर्भमासः । गर्भादारभ्य यस्तृतीय इति वा व्याख्येयम् । तस्य । आदिसद्देशे-अदि-समीपप्रदेशे प्रथमे तृतीयभाग इत्यर्थः । एतस्मिन्काले यत् पुण्यमहस्तत्पुंसवनस्य कालः । तथाच पारस्करोऽपि “मासि द्वितीये तृतीये वा ऽऽपूर्यमाणपक्षे(२) पुण्याहे । यदहः पुंसा नक्षत्रेण चन्द्रमा युज्यते” इति । अत्र द्वितीय इति वाजसनेयिमात्रपरमिति मुरारिमिश्राः । आपूर्यमाणपक्षे- शुक्लपक्षे । पुण्याह इति पुण्ये शोभने विष्ट्यादिरहिते दिने इत्यर्थः । पुंसा नक्ष- त्रेण-पुन्नामधेयेन हस्तपुष्यादिना । पुंसवनस्य पुमान्सूयते येन कर्म्मणा तदिदं पुंसवनं गर्भसंस्कारकर्म्मणोनामधेयम् । अनेन हि कर्म्मणाऽव्यक्तलिङ्गं गर्भं पुमांसङ्करोति “पुंसवनात्पुंसी करोति”ति श्रवणात् । अत्र कालातिपाते प्राय- श्चित्तमुक्तमधस्तादनुपदम् ॥ १ ॥ प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु पश्चादग्रेषु दर्भेषु प्राच्युपविशति ॥ २ ॥ ( १ ) एतेन चूडाकरणपर्यन्तमेव सर्वप्रायश्चित्तहोमः प्रायश्चित्तम् । उपनयनातिपाते तु व्रात्यस्तोमः शास्त्रान्तरे पठ्यते । स एव प्रायश्चित्तं दोषगुरुत्वादित्यभिप्रायः ॥ ( २ ) अत्र यस्मिञ्छुक्लपक्षे तिथिक्षयो(अवमं) न भवेत्सोऽपि आवश्यकतया वोच्यते।
१८२ पुंसवनविधिः । [ २ प्रपाठके प्रातरुदयसन्निधौ(१) उत्तराग्रेषु कुशेषूपविश्य । सशिरस्काऽऽप्लुता । शिरः स्नाता वधूः । पत्या संस्कृतस्याग्नेः पश्चादुत्तराग्रेषु कुशेषु प्राङ्मुखी उप- विशेत्पत्युर्द्दक्षिणतः । “दक्षिणतः पाणिग्राहस्योपविशती”-त्यन्यत्र दर्शनात् । एवम् उपविष्टायान्तस्यां व्याहृतिहोमान्तङ्कर्म कुर्यात्पतिः ॥ २ ॥ पश्चात्पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमंᳪसमन्व- वमृश्यानन्तर्हितन्नाभिदेशमभिमृशेत् “पुमांᳪसौ मित्रावरुणा” वित्येतयर्चा ॥ ३ ॥ ( मं० ब्र० १।४।८ ) पश्चात्-पृष्ठदेशे अवस्थाय-प्राङ्मुख ऊर्ध्वजानु.स्थित्वा 'दक्षिणम् अंसम् भुजशिरः (अंशः) “स्कन्धोभुजशिरोंसोऽस्त्री”-त्यमरः। तूष्णीम्(२)। अन्वव- मृश्य । पृष्ठतोऽन्ववलम्ब्य स्पृष्ट्वा । अनन्तर्हितम् । अव्यवहितम् (वस्त्राद्यना- च्छादितम्) अभिमृशेत्-स्पृशेत् । “पुमांᳪसावि”त्येतयर्चा, सा यथा— “पुमांᳪसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानग्निश्च वायुश्च पुमान्गर्भस्तवोदरे” ॥ ८ ॥ इति । अस्या अर्थः । अत्र साकाङ्क्षत्वाद्वाक्यस्य यथा तथेत्यस्तु इति चाध्याहा- र्य्यम् । तथाच-यथा 'पुमांसौ' 'मित्रावरुणौ' आदित्यप्रचेतसौ । यथा च “अश्विनौ” देवभिषजौ 'पुमांसौ' । यथा च 'अग्निः वायुश्च' पुमान् । तथा 'तव' उदरे' कुक्षावयं 'गर्भः पुमान्' अस्तु ॥ इति ॥ ३ ॥ अथ यथार्थम् ॥ ४ ॥ अथ-अनन्तरम् । यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते । वामदेव्य- गानान्ततन्त्रसमापनमत्र कर्त्तव्यम् ॥ ४ ॥ अथाऽपरम् ॥ ५ ॥ अथैतस्मात्पुंसवनकर्म्मणोऽनन्तरम् अपरमन्यद्द्वितीयं पुंसवनं शृङ्गाकर्म्म- संज्ञकम् । “कर्त्तव्यम्(३)” इति वाक्यशेषः । पाठादेवाऽऽनन्तर्यलाभादथशब्दः पूर्वप्रकृतार्थो वा वर्णनीयः । पूर्ववदिदमपि पुंसवनम्पूर्वप्रकृत एव काले करणी- ( १ ) अन्यथा “प्रागावर्त्तनादहः” ( १-१-३ ) इति प्राप्तत्वात्पुनरुक्तत्वापत्तेः । तथाच स्मरन्ति 'प्रातः कालोमुहूर्तांस्त्रीन्" इति । तत्राद्यमुहूर्त्तस्य निषिद्धत्वात्तदुपरीतनः कालोऽत्र विवक्षितः ॥ ( २ ) अत्र तूष्णीमंसस्याभिमर्शनम् । मन्त्रेण नाभिदेशस्येति भट्टनारायण-मुरारि- मिश्र-प्रभृतयः । ( ३ ) तदेतत्प्रथमे कृते फलानुपलब्धौ द्वितीये गर्भे कर्त्तव्यमिति मे प्रतिभाति । पद्धतिकृतस्तु-यथालिखितमाहुः ॥
६ कण्डिका ] गोभिलगृह्यसूत्रे- १८३ यमित्यर्थः । तच्चैकदिने दिनद्वये वेति विशेषोऽत्र न गम्यतेऽतः प्रथमदिने चेदङ्ग- यङ्गक्रियते तर्हि नान्दीश्राद्धमपि तन्त्रेणैव कर्त्तव्यम् । तथाच कर्म्मप्रदीपः— “गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु ॥” इति ॥ ५ ॥ तस्येतिकर्त्तव्यतामाह— प्रागुदीच्यान्दिशि न्यग्रोधशुङ्गामुभयतः फलामस्रामामकृमिपरि- सृप्तान्त्रिः सप्तैर्यवैर्माषैर्वा परिक्रीयोत्थापयेत् ॥ ६ ॥ प्रागुदीच्यामैशान्याम् । दिशि अवस्थितायाः । न्यग्रोधस्य-वटस्य । “न्य- ग्रोधोबहुपाद्वटः” इत्यमरः । शुङ्गाम्-“लताग्रपल्लवोगृहः शुङ्गेति परिगीयते” इति कात्यायनोक्तलक्षणां ( मुकुलितपल्लवरूपाम ) कथम्भूताम् ? उभयतः फलाम्—उभयतः पार्श्वद्वये फले यस्यास्ताम् । अस्रामाम्-अम्लानाम् । इति मुरारिः(१) । अकृमिपरिसृप्ताम् । कृमिभिरव्याप्ताम् । एवम्भूतां परिक्रीय-क्री- त्वा उत्थापयेत् । गृह्णीयान् । कियतामूल्येनेत्यत्राह-त्रिः सप्तैरिति(२) । त्रिरावृत्तैः सप्तभिः । एकविंशत्या यवैर्माषैर्वेत्यर्थः । क्रयश्च वृक्षस्वामिनो न वृक्षात् । यवा- न्माषान्वा मूले निःक्षिप्य (३)परिक्रयणमित्येके प्राहुः ॥ ६ ॥ अथ क्रयणमन्त्राः— “यद्यसि सौमी सोमाय त्वा राज्ञे परिक्रीणामि” ॥ १ ॥ “यद्यसि वारुणी वरुणाय त्वा राज्ञे परिक्रीणामि” ॥ २ ॥ “यद्यसि वसुभ्योवसुभ्यस्त्वा परिक्रीणामि” ॥ ३ ॥ “यद्यसि रुद्रेभ्योरुद्रेभ्यस्त्वा परिक्रीणामि” ॥ ४ ॥ “यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रीणामि” ॥ ५ ॥ “यद्यसि मरुद्भ्योमरुद्भ्यस्त्वा परिक्रीणामि” ॥ ६ ॥ “यद्यसि विश्वेभ्योदेवेभ्यो विश्वेभ्यस्त्वादेवेभ्यः परिक्रीणामि” ॥७॥ अत्र “यद्यसि” इत्यादिक्रयलिङ्गैः सप्तभिर्मन्त्रैर्यवैर्माषैर्वापरिक्रयणं, प्रतिमन्त्रं त्रीं-स्त्रीन् यवान्माषान्वावृक्षमूले प्रक्षिप्येति पद्धतिकृतोवीरेश्वरादयः । ( १ ) मेदिन्यां तु “नीलिकायामथश्रामो मासे मण्डपकालयोः इति तालव्यादिः श्रामशब्दउक्तः । तेनाश्रामामितिपाठेऽविद्यमानकालिमामितितदर्थः । ( २ ) अत्र क्रियाभ्यावृत्तिगणने “द्वित्रिचतुर्भ्यः सुच्” ( पा० ५।४।१८ ) इति सुच् । त्रिःसप्तैरिति बहुव्रीहिः । ( पा० २।२।२६ ) ततोडच् ( पा० ५।४।७३ ) समा- सान्तः । डित्त्वाट्टिलोपः ॥ ( ३ ) एवञ्च यस्यात्मीयोऽपि न्यग्रोधोभवेत्तेनापि सोमक्रयणवत्क्रयणमवश्यं कार्यम् ॥
१८४ पुंसवनविधिः। [ २ प्रपाठके- मन्त्रार्थस्तु— हेशुङ्गे ! त्वं 'यदि' 'सौमी' सोमप्रिया सोमदेवत्य। वा 'असि' भवसि । तदा 'सोमाय' 'राज्ञे' सोमराजप्रीत्यर्थमेव 'त्वा' त्वां 'परिक्रीणामि' । एवमग्रेऽपि । अत्र सर्वत्र तादर्थ्ये ( पा० १।४।४४वा० ) चतुर्थी । उपकार्योपकारकभावसम्ब- न्धश्च तादर्थ्यम् । “कृत्तद्धितसमासेभ्यः सम्बन्धाऽभिधानं भावप्रत्ययेने”ति सिद्धान्तात् ॥ १-७ ॥ ७ ॥ ( अथोत्थापनमन्त्रः ) ततश्च “ओषधः सुमनसोभूत्वाऽस्यां वीर्यं समाधत्त इयङ्कर्म करिष्यती” त्युत्थाप्य तृणैः परिधायाऽऽहृत्य वैहायसीं निदध्यात् ॥ ८ ॥ “ओषधयः” इत्यनेन मन्त्रेणेति कारान्तेनोत्थाय-उत्तोल्य । तृणैः कुशैः । तथैव समाचारात् । पद्धतिरप्येवमेव । परिधाय-परिधाप्य । अन्तर्भावितण्य- र्थोऽयम् । वेष्टयित्वा । आहृत्य-आनीय । वैहायसीम्-आकाशस्थां कृत्वा गृहो- परि अधोवा निदध्यात् । धारयेत् । मन्त्रार्थस्तु—हे 'ओषधयः' । ओषधिदेव- ताः! । “ओषधि फल(१)पाकान्ता स्या”-दित्यमरादिकारान्तोऽपि। ङीषि ओ- षधीत्यपि । रात्रिः रात्रीति वत् । यूयं 'सुमनसः' प्रसन्ना 'भूत्वा' 'अस्यां' वध्वां (२)'वीर्यम्' सामर्थ्यम् । 'समाधत्त' (३)सम्यग्विर्याधानं कुरुत । कुतः ? यतः 'इयं' वधूः 'कर्म्म' गर्भप्रसवनाख्यं(४) त्वत्सेवाञ्च 'करिष्यति' । 'इति' हेतोरि- तिसत्यव्रतः ॥ ८ ॥ तां खल्वाहृतां शुङ्गाम्— दृषदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धुः कुमारी वाऽपत्याहरन्ती पिनष्टि ॥ ९ ॥ व्याहृतिहोमान्ते । दृषद्च्छिला ( पेष(५)णी ) तां प्रक्षाल्य-शोधयित्वा । ब्रह्मचारी-प्रथमाश्रमी । व्रतवती-पतिव्रता । गर्भिण्येवेत्येके । ब्रह्मबन्धुः । अन(६)धीतविद्यः । तथाचच्छन्दोगपरिशिष्टम्—“पतिव्रता व्रतवती ब्रह्मबन्धु- ( १ ) फलानां पाके एवान्तोयासान्ताः । ( २ ) क्रीतायां वटशुङ्गायाम् । ( ३ ) अर्पयत । ( ४ ) पुंसवनाख्याम् । ( ५ ) पिनष्ट्यस्यामित्यधिकरणे ल्युट् । ङीप् । तत्करणभूतं लोढकञ्च ॥ ( ६ ) कुत्सार्थे
स्तथाऽश्रुतः ॥” इति । अप्रत्याहरन्ती-प्रत्याहरणं पिष्टस्य पश्चादानयनम्(१) । तदकुर्वती । पिनष्टि-चूर्णीकरोति । ॰“पिष्लृसञ्चूर्णने” (रु० प०) लट् । मध्ये श्नम् । शुङ्गामित्यनुषञ्जनीयम् ॥ ९ ॥ वधूश्च— प्रातःसशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु । पश्चादग्नेरुदगग्रेषु दर्भेषु प्राक्शिराः संविशति । १० । प्राक्शिराः—पूर्वशिरस्का । संविशति-स्वपिति । “स्यान्निद्राशयनं स्वापः स्वप्नः संवेश इत्यपि” इत्यमरः । शेषमुक्तार्थम् ॥ १० ॥ पश्चात्पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गु- ल्याऽभिसंगृह्य दक्षिणे नासिकास्रोतस्यवनयेत् । “पुमानग्निः पुमानिन्द्र” इत्येतयर्चा ॥ ११ ॥ (मं. ब्रा. १।४।९) अभिसंगृह्य-गृहीत्वा । पिष्टां शुङ्गाम् । नासिकास्रोतसि-नासापुटरन्ध्रे । वध्वाएव । अवनयेत् । क्षिपेत् । (२)“पुमानग्निरि”ति मन्त्रेण । शेषमुक्ता- र्थम् । मन्त्रो यथा— “पुमानग्निः पुमानिन्द्रः पुमान्देवोबृहस्पतिः । पुमाग्ं सं पुत्रं विन्दस्व तम्पुमाननुजायताम् ॥” ॥ ९ ॥ इति । मन्त्रार्थः सुबोध एव । पुमांसमित्यनेन सुपुरुषलक्षणोपेतम् । तमि- त्यनेन च बहुपुत्रसम्पत्तिश्वोक्तवान्मन्त्रदृगिति ॥ ११ ॥ अथ यथार्थम् ॥ १२ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि-प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ 🌸 ॥ निगद्व्याख्यातमेतत् ॥ १२ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”-ख्यायां मुकुन्दशर्म्म सङ्कलितायां द्वि प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ * ॥ ( १ ) केचित्तु-उच्छ्रितशिलापुत्रकेणाहृत्याहृत्य पेषणं कर्त्तव्यम् । अथवा-सकृत्प्र- योगेणैव यथा पेषणं निर्वहति तथा कर्त्तव्यमित्यप्रत्याहरणस्यार्थमाचक्षते । ( २ ) वस्त्रबद्धां पिष्टां शुङ्गां गृहीत्वा निष्पीड्य दक्षिणनासापुटे तद्रसं क्षिपेदिति भव- देवभट्टः । २४ गो० गृ० सू
१८४ सीमन्तोन्नयनम् । [ ३ प्रपाठके- अथ सप्तमी कण्डिका - ( अथ सीमन्तोन्नयनम् ) अथ सीमन्तकरणम्प्रथमगर्भे ॥ १ ॥ अथ-पुंसवनसंस्कारानन्तरम् । सीमन्तकरणम् । “सीमन्तः केशवेशे स्यात्” इत्यभिधानात्सीमन्तस्य केशरचनाविशेषस्य(१) वक्ष्यमाणविधिना करणम् “वर्त्तिष्यते” इति सूत्रशेषः । तस्य कालमाह-प्रथमगर्भे इति । इदं हि क्षेत्रसंस्कार(२)द्वाराऽपत्यसंस्कारकन्तेन सकृदेव कार्यम् । तथा च हारीतः— “सकृत् कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतोभवेत् ॥” इति । गृह्यसंग्रहेऽपि— “यथा सीमन्तिनी नारी पूर्वगर्भेण संस्कृता । एवमाद्यस्य संस्कारः संस्कारविधिचोदितः ॥” इति । एव माश्वलायनगृह्यपरिशिष्टेऽपि-“सीमन्तोन्नयनं प्रथमे गर्
पुंसवने । तथाच स्मृत्यन्तरम्— “या नायेकृतसीमन्ता प्रसूयते कदाचन । अङ्के विधायतं बालं पुनः संस्कारमर्हति ॥” इति । असंकृतगर्भप्रसवे-द्वितीयगर्भे संस्कारस्तु प्रकृत-( प्रथम-) बालवि- नाशविषयो बोद्धव्य इति चन्द्रकान्तः । मुरारिमिश्रास्तु-नैतन्मन्यन्ते-इति कर्मशेषे वक्ष्यते । तत्र कालमाह—( २।८।१२ ) ॥ १ ॥ चतुर्थे मासि षष्ठेऽष्टमेवा ॥ २ ॥ ऋजुरक्षरार्थः । अत्र वाशब्द, एक एवेति न तुल्यवद्विकल्पार्थः । एवञ्चा- क्तकल्पेषु यत्रोदगयनादि-विहितसमयलाभस्तत्रेद्ङ्कार्यम् । तथाचाङ्गिराः—“यत्रो- दगयनादिः स्यात्कालस्तत्रे”ति । बैजवापगृह्येऽपि-“मासि चतुर्थे पञ्चमे वा षष्ठाष्टमयोर्वाऽऽपूर्यमाणपक्षे यदहः पुंसा नक्षत्रेण चन्द्रमा युज्यते सप्तमे मासि [L1
फले शलाटुः स्याद्दि"-त्याग्नेयाभिधानाद् "अस्त्वस्तवक उच्यते” इति कर्म्मप्रदी- पपाठाच्च । नीलाभिधानम्(१)फलस्य तद्रूपत्वाद्विरतमिति तदर्थः । औदुम्बर- म्-उदुम्बरवृक्षोद्भवम् । तस्येदम्" (पा० ४।३।१२०) इत्यण्प्रत्यय आदि- वृद्धिः ॥ यथोक्तं स्तवकम् “अयसूर्जावत” इति मन्त्रेण वध्वाः कण्ठे सुडोलके- नामुच्य वध्नाति । बध्नीयात् । मन्त्रोयथा— “अयसूर्जावतोवृक्ष ऊर्जीव फलिनी भव । पर्णं वनस्पते नुत्त्वा नुत्त्वाऽस्यां सूयतायूँरयिः” ॥ १ ॥ इति । अस्यार्थः । ‘अयम्' उदुम्बरो यज्ञाङ्गो ‘वृक्ष’ “ऊर्जावान्” इति शेषः । अस्य 'ऊर्जावतः'(२) वृक्षस्य 'ऊर्जीव' (३) फलशाखेव (हेवधु !) त्वं 'फलिनी' बहुफलवती(४)प्रशस्तफलवती वा भव । किञ्च हे ‘वनस्पते’ उदुम्बर ! (५)त्वया- ऽस्यां 'रयिः' पुत्ररूपं धनम् (निघं०२।१०।८) 'सूयताम्' प्रसूयताम् । त्वयाऽनुगृ- हीतेयं भाग्यवतः पुत्राँल्लभतामित्यर्थः । किमिव ? 'नुत्त्वा' 'नुत्त्वा' प्रेर्य्य२ 'पर्ण' पत्राणीव । (६) जातावेकवचनम् । यथा त्वया पत्राणि प्रेर्य्य २ प्रसूयन्ते तथेयं बहुपुत्रा त्वया क्रियतामित्यर्थः ॥ १ ॥ इति ॥ अथ सीमन्तमुर्ध्वन्नयति(७)भूरिति दर्भपिञ्जलीभिरेव प्रथमम् । भुव इति(८) द्वितीयम् स्वरिति तृतीयम् ॥ ५ ॥ अथेति स्थाननियमार्थम् । तत्रस्थ एव पतिः । सीमन्तमुक्तरूपमूर्द्ध्वमुपरि नयति-नयेत् । इत्यर्थः । तत्र मन्त्रमाह-भूरितीति । अनेन मन्त्रेण प्रथमम् । केनोन्नयति ? दर्भपिञ्जलीभिरेव । “अनन्तर्गर्भिणं साग्रङ्कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥ ( १ ) आममपक्वम् “आमोहरुक् तद्विदोः पुंसि स्यादपक्वेऽन्यलिङ्गवद्दि”ति मेदिनी ॥ ( २ ) ऊर्जशब्दोऽन्नाथैः ( निघं० २।७ ) “ऊर्जाद उत यज्ञियासः” ( ऋ० सं० ८।१। १३।४ ) इति श्रुतौ ऊर्जादाश्च यज्ञियाश्चे”—ति निरुक्तम् । (१।८।१ ) अत्राङ्गमिरित कर्म्म- कान्तम् । यद्यतेत्स्म तदङ्गन्तदिहोदुम्बरफलम् । पक्के सुप्रवृकणमितितन्निर्वचनदर्शनादि- ति गुणविष्णुसम्मतार्थः । ततोभूम्नि मतुपि ‘शरादीनाञ्च” (,पा० ६।३। १२० ) इति पूर्वपदस्य दीर्घः ॥ ( ३ ) ऊर्जीति भूम्नि मत्वर्थे ई ( पा० ५।२।१२२ वा० ) प्रत्ययेन साधुः ॥ ( ४ ) भूम्नि प्रशंसायां वा मत्वर्थे इनिः । ( पा० ५।२।१२६ ) ॥ ( ५ ) “वानस्पत्यः फलैः पुष्पैरपुष्पाद्वनस्पतिरि”—त्यमरः । अनेन तदधिष्ठात्री देवतैव संबोध्य प्रार्थ्यते ॥ ( ६ ) “पत्रं पलाशं छदनं दलं पर्णं छदः पुमानि”त्यमरः ॥ ( ७ ) अत्राप्युन्नयतीति चन्द्रकान्तसम्मतः पाठः । मुरारिमिश्रादिभिस्तु उन्नयती- त्येव पठितम् ॥ ( ८ ) अत्रापि भुवर्वारिति चेति चन्द्रकान्तः पपाठ ॥