कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| २४ | प्रस्तावना |
|---|
···निरुपकारकारको गुरुपदेशविवेकः। निष्प्रयोजना प्रबुद्धता निष्कारणं ज्ञानम्, यदत्र भवादृशा अपि रागाभिषङ्गेः कलुषीक्रियन्ते प्रमादैश्चाभिभूयन्ते'। इत्यादि (कादम्बरी पूर्वार्ध)
अत्र सर्वत्रैव चालङ्काराणां मधुरसङ्गाग श्रोतॄणाममन्दमानन्दं जनयन्तीति न तिरोहितं केषाञ्चिदपि विपश्चिताम्। अपि च रागात्मिकायावृत्ते समर्गव्यञ्जना सहृदयहृदयं विकासयति। परमार्थतस्तु रसालङ्कारयोर्मधुरमेलने भाषाभावयोः परस्परसंपर्के कल्पना वर्णनयोरनुरूपसङ्घटने संस्कृतसाहित्ये प्राचीनावाचीनसर्वकथातिशायिनी कादम्बरी चानुपमाद्वितीयावैति निविवादमेतत्। रसिकहृदयानां मदमत्तताविधायिनी सुमधुरा कादम्बरी मदिरेति विभावयन्ति सहृदयाः। अतएवैतदुत्तरार्ध प्रणेतुर्भूषण (पुलिन्द) भट्टस्योक्तिश्चरितार्था भवति-
'कादम्बरीरसभरेण समस्त एव मत्तो न किञ्चिदपि चेतयते जनोऽयम्॥'
किं वक्तव्यं विशेषतः, यतो हि हृदयग्राहिण्या उपमायाः, चमत्कारिणः श्लेषस्य, सुन्दरपरिसंख्यायाश्चाधिक्येन विलक्षणसमावेशाद् भव्यार्थस्यातीव कमनीयत्वं यत्र तत्र न समुपलभ्यते। यः कोऽपि काव्यं कर्तुं चिकीर्षेत् स ह्येतत्प्रदर्शितालंङ्कारागुच्छिष्टमेव भवेन्न तु कदाचिदपि तत उत्कृष्टतम एव सर्वत्र प्रथितिरियम्-'वाणोच्छिष्टं जगत्सर्वन्' इति।
सत्यम्, यथार्थतस्त एव कवयो भवितुमर्हन्ति ये खलु संसारस्य विविधामनुभवं प्राप्य तन्मार्मिकपक्षग्रहणे समर्था भवन्ति। अस्याञ्च निकषायां कपणे बाणभट्टकविनैव निकषोपलगृष्टसुवर्णमिव विशुद्धाऽवतरति। नानात्मकं लोकवृत्तज्ञानं तु कवेरासीदेव, किन्तु तस्य यथार्थताऽपि निरतिशया चमत्कारिण्येव। अवलोकयन्तु तावत् प्रथमं यदि महाकविरयं क्वापि सुखसमृद्धेस्तथा भोगविलासस्य च जीवनं चित्रितुमनुरक्तो दृष्टिपथेऽवतरति, तर्हि क्वाप्ययं तापसजीवनस्य मार्मिकामभिव्यञ्जनायां निरतोऽवलोक्यते। वस्तुतस्त्विदमेव तथ्यं यद्वाणभट्टस्यानुभवो नितरां विस्तृतो विविधस्तथा यथार्थस्तद्वलेनैवायं प्रतिबन्धेऽतिरमणीयं सुधोपमं गद्यकाव्यं निर्मितवान्।
इह च धनपालस्य कीदृशमतिमनोहरपद्यम्-
'कादम्बरी-सहोदर्या सुधया वैबुधे हृदि।
हर्षव्यायिकया ख्यातिं वाणोऽन्धिरिव लब्धवान्॥
शृङ्गाररसप्रधाना हि कादम्बर्याः कथा। करुणाद्भुतवीरा अङ्गभावेन वीभत्सशान्तादयश्च क्वचिदाभासमात्रेणोन्मिषन्ति। अत्र च निर्दोषपवित्रशृङ्गारस्य वर्णनम्। अस्यां रचनायां कविरयमोजोगुणस्य चरमसीमा सम्प्रापन्। प्रायःश्लेषादयोऽलङ्कारा वर्तन्त एवाधिक्यस्थलेषु। दीर्घवर्णनासु बहूनि तादृशानि पदानि सन्ति यदि तेषां साधारणार्थनां ग्रहणं भवेत्तदा तेषां कश्चिदर्थ एव न स्पष्टीभविष्यति। दीर्घसमासानां प्रयोगः प्रायः प्रत्येकपृष्ठे समुपलब्धो भवति। क्वचित्क्वचित् क्रियास्तु पञ्चषपृष्ठानन्तरमेव दृग्गोचरीभवन्ति। मध्ये चातिकठिनवाक्यानि प्रपूरितानि सन्ति। एषु लालित्यस्य सद्भावेपि जटिलतावश्यमापतिता। महाकवितानेनैव राजभवनवर्णनायामुत्तमगद्यकाव्यस्य लक्षणमभ्यधायि-'उत्कृष्टकविगद्यमिव विविधवर्णश्रेणीप्रतिपाद्यमानानेकाभिनवार्थसञ्चयन्' इति। स्वकीयरचनायामप्वेतन्नियमस्य सार्थक्यं सपरिश्रमं प्रदर्शितम्।
'नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः।
विकटाक्षरवन्धश्च कृत्स्नमेकत्र दुर्लभम्॥'
इति स्वरचितहर्षचरितप्रस्तावनास्थनियमस्यापि-
'स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम्।
रसेन शय्यां स्वयमभ्युपागता कथा जनस्यामिनवा वधूरिव॥
हरन्ति कं प्रोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः।
निरन्तरश्लेषघनाः सुजातयो महालजश्चम्पककुङ्गलैरिव॥'
इति कादम्बर्युपोद्घाते प्रदर्शनेनात्यधिकं स्वरचनासाफल्यं प्रकटितम्। सेयं सकलजनहृदयानन्ददायिनी, - रुचिरस्वरवर्णपदवाहिनी, विविधरसभावभासिनी सकलजनमनोहारिणी कादम्बरीति सहर्षं सर्वे संस्कृतविशेषज्ञा मन्यन्ते। अस्याः कथानकञ्चातिजटिलम्। एकैकस्यामभ्यन्तरेऽन्याः कथाः प्रविष्टाः
प्रस्तावना
२५
सन्ति, किन्तु कथानकानामुद्घाटनाय प्रत्येककथायाः समधिकावश्यकता वरीवर्त्ति। कथानकानां यथा क्रमं विकासं विधाय वस्तुसङ्कलनायां कविना स्वकीयमनुपमं चातुर्यं प्रकटितम्। कथाया अर्धमध्ये संप्राप्यापीदमनवगतमेव तिष्ठति यदस्याः क्रान्तोऽस्तीति। इदमेव हि कथायां समधिकं महत्त्वम्। समग्रा कथा शुकद्वारा निरूपितास्ति, यः खलु परमार्थतः पुण्डरीक इति नाम्ना प्रसिद्धः, तथा चास्याः कथाया उपनायको विद्यते। प्रारम्भे सम्भवतः कस्यचन विचारवीथिकायामागतो भवेद् यत् शूद्रको राजा तम्मन्त्री शुकश्च स्वस्य द्वितीये तृतीये वा जन्मनि अस्याः कथाया नायकोपनायकौ स्तः, कादम्बरी-महाश्वेते च नायिकोपनायिके स्त इति, किन्तु ग्रन्थस्यार्धभागसमाप्तिपर्यन्तं तु नायिकाया नामापि न श्रूयते। कथायाञ्चस्यामेतस्यावगाहो न मिलति यदग्रे किं किं भविष्यति तथा केन प्रकारेणैतस्य समाप्तिर्भविष्यति। एतेन पाठकानां कुतूहलमनवरतमेव जागृतं तिष्ठति, एवमत्यन्तरमणीयालौकिकानन्ददायकानां विषयाणां वर्णनतया चोत्साहस्य शैथिल्यं न जायते।
महाकवेः कल्पितकथाया लेखन एवोद्देश्यमासीत्। तस्य हि काल्पनिककथा सांसारिकयथार्थता-दृष्ट्या विचार्यमाणेऽनुचितं न भविष्यति। कादम्बर्याः सर्वाणि पात्राणि कल्पितानि सन्ति, किन्तु कविना तथाविधचातुर्येणैतच्चरित्रविकासः कृतः यत् पाठकास्तत्सुखदुःखेषु तन्मयीभूय स्वमपि विस्मरन्ति तथा तेषां पात्रकाल्पनिकतया ध्यानमेव न तिष्ठति।
चरित्रचित्रणे बाणभट्टेन हि स्वबुद्धेरद्भुतश्चमत्कारः प्रदर्शितः। कादम्बर्याः सर्वाणि चित्राणि सञ्जीकृतानि सन्ति, तथा तेषां किञ्चिदपि कर्म तेषां स्थितेविरुद्धं नास्ति। नायिकायाश्चित्रणे कविना किञ्चिदपि कर्त्तुं नावशिष्टे स्थापितम्। अस्यां हि तेन स्वसूक्ष्मदर्शितायां मानसिककल्पनायाश्च समग्रसम्पत्तेरुपयोगो विहितः। मनुष्यजीवनस्थितेर्हि समस्तरूपाणां वर्णनमत्यधिकपर्यालोचनया कृतम्। महाश्वेतायाः प्रेम तत्क्लेशकथाञ्च कथयित्वा तेन हि कादम्बर्या दशाः श्रोतुं पाठका उद्यतीकृताः। हारीतमुनेर्महानुभावता तारापीडस्य परोपकारशीलता विलासवत्याः प्रेमालुता, शुकनासस्य विश्वसनीयता, कपिञ्जलस्य मित्रवत्सलता, महाश्वेतायाः शारीरिकमानसिकपवित्रता, पत्रलेखायाः स्वामिभक्तिः पाठकानां हृदयेष्व-
१. प्रसङ्गात् पत्रलेखायाः कीदृशः सम्बन्धश्चन्द्रापीडेनेत्यादि विचार्यते—अस्मिन्नाख्याने पत्रलेखा यादृशेन सुकोमलेन सम्बन्धेनावद्धा नैतादृशी दृष्टाऽन्यत्र कुत्रचिदपि साहित्ये पात्रस्थितिः, सत्यप्येवं कविरतिलीलया सरलेन चेतसा ईदृशमपूर्वं सम्बन्धबन्धनमवातारयत्। न काप्यस्य तन्तोः स्वल्पमपि संवृतं तादृशमाकर्षणं येन क्षणमपि तस्य च्छेदशङ्का आपद्येत। युवराजश्चन्द्रापीडो यदाऽध्ययन समाप्य प्रासाद प्रत्यावृत्तः, तदानीं कस्मिंश्चिदहनि प्रभातसमये कैलासो नाम कश्चित् कञ्चुकी तद्गृह प्रविष्टः।
आसीत् किल तदा ततश्चात् काचिदनतियौवना कन्यका। अस्या शिरसीन्द्रगोपकीटवत् रक्ताम्बरेणावगुण्ठनम्, ललाटे चन्दनतिलकः मध्ये च कनकमेखला। सेयं तरुणी लावण्यप्रभाप्राभावेण परिपूर्य सकलभवनम्, कणितमणिनूपुराकलितेन चरणेन कञ्चुकिनमन्वगच्छत्।
स हि कञ्चुकी चन्द्रापीडं प्रणम्य क्षितितलनिहितदक्षिणकरो व्यजिज्ञपत्—'कुमार ! भवतो माता महादेवी विलासवती विज्ञापयति-'कन्येयं पराजितस्य कुलूतेश्वरस्य दुहिता बन्दीभूता, अस्या नाम पत्रलेखा। तामेनां राजकन्यामियन्तं कालं दुहितृनिर्विशेपेणाहमपालयम्। साम्प्रतमेषा तव ताम्बूलकरङ्कवाहिनी भवत्विति प्रहिणोमि। नेयं साधारणपरिजनवद्रमणीया, अपि तु बालिकेव लालनीया, स्वचित्तवृत्तिरिव निवारणीया चापलात्, शिष्येव दर्शनीया, सुहृदिव च निखिलेषु विस्रम्भव्यापारेष्वन्तरङ्गीकरणीया। किञ्च तादृशेषु कर्मसु इयं कल्याणी नियोजनीया, यथेय तवातिचिरपरिचारिका भवेदिति।' एवं कथयति कैलासे पत्रलेखा तं समुचित प्रणामीत्, सोऽपि चन्द्रापीडो निर्निमेषेण लोचनेन ता सुचिरं निरीक्ष्यावादीत्— 'यथाम्बा ज्ञापयति !' इत्युक्ता त दूतं प्रतिनिवर्त्तयामास।
सेयं पत्रलेखा न खलु पत्नी, न वा प्रणयिनी, नापि किङ्करी, अपि तु पुरुषस्य सहचरी। सोऽयमपूर्वो भावसमुद्रयोर्मध्यवर्ती सैकतनद इद कथमिवार्यं सम्बन्धो रक्ष्येत ? तरुणयोरन्योन्यं प्रति यदिदं नवयौवनस्य चिरन्तनं प्रबलमाकर्षणं, तत्खलूभयनोऽपि संक्षीणं सेतुमित्र किमिति सर्वथा न क्षिणोति न वा लङ्घयति।
सा किल पुरुषस्य हृदयपार्श्वे जागृतवती न तर्पितवती पठं तस्य मध्ये। न जातु अतर्कितागतेऽपि वसन्त-समीरणे सलीलयवनिकायाः प्रान्ततोऽपि व्यचलत्। कविः किल कथयति—तस्मात् प्रथमदिनादारभ्य चन्द्रापीडस्य दर्शनमात्रेणैव समुपजातसेवारसा पत्रलेखा दिवा वा दोप वा अविगणय्य उत्थानश्रमणादिपुच्छाद्येव राजपुत्रस्य पार्श्वे-
४ का० भू०
२६ प्रस्तावना
द्विवा भवति । शुकनासेन हि चन्द्रापीडाय याः शिक्षाः प्रदत्ताः तासां रचनायान्तु कविः स्वलेखनीमन्या- दृशरूपेण प्रावर्त्तयत् । तास्त्वाविज्ञा रहस्यपूर्णास्तथा मार्मिकाः सन्ति या मन्ये प्रत्येकदेशस्यप्रत्येक- राजहिताय सर्वथैवोपयोगिन्यो भविष्यन्ति ।
प्रकृतिनिरीक्षणम्
कादम्बर्याः प्रकृतिवर्णनमतीव सुन्दरं सजीवं च सञ्जातम् । ईदृश महाकवयो यदि प्रकृतेर्मङ्गल- रूपस्य चित्रण एव चतुरा अवलोक्यन्ते तर्हि केचन महाकवयः प्रकृतेर्भयावहस्य तथा रोमाञ्चकारिणः स्वरूपस्य वर्णने कृतकार्याः प्रतीयन्ते, परन्तु महाकवेर्बाणभट्टस्य सूक्ष्मोयमेव विशेषता वर्त्तते यत्तस्य लेखनी समभावेन मधुरमयावहोभयविधदृश्यवर्णने पूर्णं साफल्यमुपगतवती । एतद्द्दृश्यस्वरूपहृद्ग्रह- णविधानाय महाकविर्विविधालङ्काराणां साहाय्यं गृहीतवान् । उपमोत्प्रेक्षा-परिसंख्याविरोधाभासालङ्का- राणां स्तूपामेव स्थापयित्वा कविरयं पाठकानां पुरतः स्ववर्ण्यविषयस्य समुज्ज्वलमिच्छन्नं कृतवान् । विचारण्या भीषणरूपस्य चित्रणं कविर्भादृशेन साफल्येन कृतवान् तद्धि महाश्चर्यं जनयति ।
तथाहि—
'गिरितनयेव स्थाणुलग्ना मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशाचर- परिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरागुरुतिलकभूषिता च, सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च ।'
( कादम्बरीकथामुख-५७ पृ. )
महर्षेर्जाबालेराश्रमस्य कीदृशं सात्विकं मनोरममविहद्यं वर्णनम् ?, यस्य पठनेन कस्य सचेतसः पुरुषस्य चित्तं तपोवनभन्यमूर्त्या प्रभावितं न भवति ? ।
तथाहि—
'यत्र च महाभारते शकुनिवधः, पुराणे वायुप्रलपितम्, वयःपरिणामे द्विजपतनम्, उपवनवन्दनेषु जाड्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां गीतश्रवणव्यसनम्, शिखण्डिनां नृत्यपक्षपातः, भुजङ्गमानां भोगः, श्रीफलाभिलाषः मूलानामधोगतिः ॥'
( कादम्बरी कथामुख-१२४, १२५ पृ. )
न पर्यत्यजत् । चन्द्रापीडस्यापि कादम्बरीं प्रति यावती प्रीतिरासीत् तावती प्रीतिरानन्दं । स्थितस्तद्वान्ते प्रतिदिनं गताभूत् । दूता वार्तां सर्वदैव विक्लव्यान्वेषणमित्र सहभवता । सोऽयमपूर्वः सम्बन्धः झटित्यभूत् । चन्द्रा- पीडेन सार्ध पत्रलेखा नैऋत्यनगरानायं दिग्विजययात्रामनेकदिवसेषु गच्छति पत्रलेखा चन्द्रापीडेन सार्धमा- सनमधिष्ठितवती । निशायां निद्रितस्यचन्द्रापीडस्य रजनिकरशिशिरनिसिद्धेन हस्तच्छत्रेण सह संवदति, तदा, सन्निधौ क्षितितलभिष्टवस्तुषोपरि प्रस्वपिति पत्रलेखा । यदा कादम्बर्या हृदये महामोहात्सन्तप्ताऽभूत् तदा पत्रलेखायास्तत्त्वादिमुखदामिलापादपसारणं नाम्बुच्छन्नमन्वत लोकाः । पत्रलेखां प्रति कादम्बर्या नारोग्यतुलनो नासोदीपदपि द्वेषः । चन्द्रापीडेन पत्रलेखायाः सम्बन्ध इति हि सा द्विहस्तीति कादम्बर्या परमोद्रियत् ।
कादम्बरीकाव्ये पत्रलेखा पद्मभूषणेनाधिकुरुवन्तो, न तत्र द्वेषसन्देहादीनां सम्भावः । तत्स्थाने स्वर्गेणस्निग्धम्- भूत्, परन्तु खलु खलु यद्यप्यंविन्दुः भवति तस्याः पुरतः एव उच्चै जगायाह्वानम् । किन्तु कदाचित् स्वहृ- द्यनेनास्या एकात्यामपि निराशामेकोत्क्रीपे रक्तादिन्दुर्न चाल्यदनापोडे । अपि सा कादम्बर्याश्च स्वदेशानुवर्तिनी, तथापि राजपुत्रस्य ततदारण्येत्येवापि तापस्सां कदाचिदत्यजत् ।
यदा पत्रलेखा नति जगाम् कादम्बर्यां सहागत्यच महाश्वेता प्रत्याहृता, स्वानीरे यदा तद्भित्तिसंकेत दूत एव तीविरसं प्रयाणमन्त्रां चन्द्रापीडं प्रापयत्, तदा सा महतिकष्टमपि कादम्बर्याः प्रसादनार्थं सौम्यान्तेव सहम- तरदानगच्छत् । युवराजाज्ञादातिथ्यं च सर्वदर्शनालसतायाश्च नानाविद्धम् । नान्याद्वाइह्यसत्परेणपरेणोऽपूर्व स्वप- त्नयोः सम्बन्ध इत्यवगम्यते । परमार्थाद्रूपे निदं रोहिणीति कादम्बरी-प्रतीहारे चन्द्रापीडः स्वपनेनेक्षिणन् । अतो युक्त चान्द्रोः सहवास इत्यवमेयम् । इतोऽपिकाव्येऽस्मिन् प्रबन्धकरस्यलघित्त्वाद्वावन्लोचनीपन् ।
प्रस्तावना २७
तपोवनस्य वर्णने यावन्तः प्रभावोत्पादकविषया अपेक्षितास्तावतामेकत्र वर्णनं विधाय कविः सत्यमस्माकं समक्षेऽतीवानुपमं दृश्यं प्रस्तुतवान्। अस्माभिस्तादृशं कथमपि लक्षितुं न शक्यते यत्र कविराश्रमस्थवृद्धान्धतापसानां परिचितवानरद्वारेण यष्टिमवलम्ब्याभ्यन्तरे आगमनस्य बहिर्गमनस्य च वर्णनं कृतवान्।
तथाहि—
‘परिचित शाखामृग-कराकृष्टयष्टि-निष्काश्यमान-प्रवेश्यमान-जरदन्धतापसम्।’ ( कादम्बरी कथामुखम् -११८ पृ. )
ऋतूनां चित्रणमपि नितान्तमार्मिकतया कृतवान्। प्रभातचन्द्रयोरन्धकारचन्द्रोदययोस्तथान्येषां प्रकृतिविविधदृश्यानां वर्णनमप्यधिकसहृदयतया तथा यथार्थतया सहाङ्कितवान् कविः।
प्रेमवर्णनम्
महाकविना यादृशप्रणयस्येयं मनोरमा कथा प्रस्तुता, प्रणयोऽपि बाह्यचाकचिक्येनोत्पन्नरूपे-च्छाया उपरि केवलमनुरक्तिमेव न प्रकटयति, प्रत्युत स द्वयोः सहृदययोरन्तस्तलस्य परस्परबन्धन-विधायकोऽनेकजन्मपर्यन्तं स्वस्याभिव्यक्तिकारकोऽलौकिकानन्दोत्पादको विकारोऽस्ति। कादम्बर्याः प्रणयलीला हि केवलमेकजन्मत एव सम्बन्धं न स्थापयति, किन्तु स जन्मत्रयस्य परिवर्त्तने जातेऽप्यनेक-माधुर्ये कथङ्कारमपि हासानुभवं नोपस्थापयति। वरं शरीरस्य परिवर्त्तनं भवतु, कर्मवशेन प्राणिनो विविधयोनिषु वरं परिभ्रमन्तु किन्तु तेषां दृढप्रेम सर्वदैव तदनुगमनं करोति। अस्याः कथेव ह्येतन्म-हत्तत्त्वस्य सत्यतामस्मान् प्रति यथार्थतः प्रतिपादयति।
शैली
गद्यकवीनां कृते बाणभट्टस्य शैली चादर्शभूता। अयं हि महाकविः प्रभावशालिगद्यस्य लेखने निता-न्तप्रवीण इति सहृदयानां भावः। ये केचनालोचकाः वाग्गद्यं भारतीयसघनविपिनमिव भयावहं हिंसकपशुमिवाप्रसिद्धं तथा कठिनशब्दैर्मण्डितमिति प्रतिपादयन्ति, ते खलु सत्यमेव यथार्थतायाः सुदूरे विद्यन्ते। चित्रणस्य सजीवतायै तथा प्रभावशालिताया उत्पत्तये महाकविना स्थाने स्थाने ओजोगुण-मण्डितायाः समासबहुलायाः शैल्या आश्रयणमवश्यं गृहीतम्, किन्तु यत्र तत्र लघुवाक्यानां प्रयोगं विधाय तेन हि सशक्ता प्रभावोत्पादिका स्वशैली प्रदर्शिता। कयाचिदेकया शैल्या क्रीतदासस्तु न भवति कविः। स हि विषयानुसारेण स्वकीयां शैलीं परिवर्त्तितां करोति। येन महाकविना अटव्याः सन्ध्यायाश्च वर्णने दीर्घसमासानां घटा प्रदर्शिता, तेनैव विरहवर्णनावसरे लघुकलेवरप्रासादिकवाक्यानां शोभा प्रस्तुतीकृता। कपिञ्जलद्वारा विहिता या पुण्डरीकभर्त्सना सा कियती प्रभावशालिनी ?
तथाहि—
‘यदेतदारब्धं भवता किमिदं गुरुभिरुपदिष्टम्, उत धर्मशास्त्रेषु पठितम्, उत धर्मा-र्जनोपायोऽयम्......का वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु भवतः ? स खलु धर्मबुद्ध्या विषलतावनं सिञ्चति, कुवलयमालेति निस्त्रिंशलतामालिङ्गति, कृष्णगुरुधूमलेखेति कृष्णसर्पमवगाहते रत्नमिति ज्वलन्तमङ्गारमभिमृशति, मृणालमिति दुष्टवारणदन्तमुपलमून्मूलयति, मूढो विषयोपभोगेष्वनिष्टानुबन्धिषु यः सुखबुद्धिमारोप-यति। अधिगतविषमतत्त्वोऽपि कस्मात् खद्योत इव ज्योतिर्निर्वीर्यमिदं ज्ञानमुद्वहति, यतो न निवारयसि प्रवलरजःप्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियम-यसि वा क्षुभितं मनः। कोऽयमनङ्गो नाम धैर्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः।’ इति ( कादम्बरी-पूर्वार्धकथा ४५९,४६० पृ० )
२८ प्रस्तावना
परमार्थतस्त्विदमेव प्रतीयते यद् बाणगद्येषु सूक्ष्मनिरीक्षणशक्तिः चमत्कृतवर्णनप्रणाली, अक्षय-शब्दराशिस्तथा कल्पनाप्रसूतालौकिकार्थानामुद्भावना विशेषरूपेणोपलब्धा भवतीति । एतन्महानुभाव-गद्ये चैतादृशः प्रभावस्तथा प्रवाहो विद्यते यत्तदनुकरणकर्तृकविद्वारा भूरिशः कृतेऽपि गरीयसि प्रयत्ने तद्गद्ये तादृशश्चमत्कारो नोत्पन्नः । अत एव त्वेनद्रसभावायुक्तायाः कवितायाः समक्षेऽन्यकवीनां रचना केवलं चापल्यमेव जनयतीति त्रिलोचनकवेः स्पष्टं समुद्घोषः—
'हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः ।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥'
सामाजिकी स्थितिः
कादम्बर्यां वेशविन्यासो विचित्र एव लभ्यते । अत्र भूपतेः शूद्रकस्य वर्णनेनावगम्यते यत् राजापि केवलं विसंस्थुलप्रायं शुभ्रवस्त्रं मूर्ध्नि वेष्टयति । अङ्गे च केवलमुत्तरीयं स्कन्धयोरर्धारयति । यतो ह्यङ्गरागः शरीरे विलिप्यमानः स्पष्टं प्रतीयते । समस्तानामेव पात्राणां वर्णनेऽङ्गरागस्यात्याधिक्यम्, वसनस्य च वैरल्प्यम् । कादम्बरीप्रेषितः केयूरकाभिधानो वीणावाहकः केवलमधोवस्त्रमेव धारयति नोत्तरीयमपि ।... 'अधरवास एव केवलं वसानेन' इत्यनेन ( कादम्बरी-पूर्वार्धम् )
वेशविन्यासादिषु वैचित्येऽपि भूयस्त्यः सामाजिकप्रथा इदानीन्तन इव तदानीमप्यासन् । होलिकायां विविधोपद्रवाः विरूपरूपक ( स्वाँग ) निःसरणादिप्रथा यथा वर्त्तमानकाले तथा बाणकालेऽप्यासीदिति चित्रम् ।
द्रविढधार्मिकपरिचये यथा—
'सर्वदा वसन्तक्रीडिनजनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन ।
( कादम्बरी-पूर्वार्धम्-६४५ पृ० )
एवमाद्यस्तत्तत्सामयिको बह्वयो घटनाः संसूचिता ह्यस्मिन् ग्रन्थे, यासामनुसन्धानेनाधिकतरमैतिहासिकं सामाजिकं च तथ्यमवगतं भवति । परन्तु प्रस्तावनायां निरतिशयो विस्तरः स्यादिति वर्णिका ( 'बानगी' ) मात्रमिहोपन्यस्तमिति सुधीभिराकलनीयम् ।
नायकादिनिरूपणम्
इह हि अनुकूलो धीरोदात्तश्चन्द्रापीडो नायकः । तथा च लक्षणम्—
'अनुकूल एकनिरतः ।'
'अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥' ( सा० द० ३ प० )
नायिका कन्या ( परकीया ) मुग्धा कादम्बरी । यथा—
'कन्या त्वजातोपयमा सलज्जा नवयौवना ।'
'परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ॥'
'प्रथमावतीर्णयौवनमदनविकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥' ( सा० द० ३ प० )
प्रस्तावना
२९
परिणयानन्तरं स्वकीया मध्यापि च नायिका, किन्तु (उत्तरार्द्धे) तन्नसङ्गेऽन्यतप एव । एतावेव नायिकानायकावालम्बनविभावौ । इन्दु-चन्दनानन्योऽन्योक्त्यादय उद्दीपनविभावाः, परस्परचक्षुरादि-क्रिया अनुभावाः, निर्वेदप्रभृतयो व्यभिचारिभावाः, रतिः स्थायी ।
विप्रलम्भशृङ्गारो मुख्योऽङ्गी रसः । तत्र पूर्वार्धे, उत्तरार्धस्य कियदंशे च पूर्वरागाभिधः । उत्तरार्ध-शेषे तु करुणविप्रलम्भाभिधः । सम्भोगशृङ्गारोऽप्यस्ति रसः, किन्तु परिणयानन्तरं केवलं तस्य सूचनमेव । एषां साहित्यदर्पण ३ परिच्छेदगतलक्षणानि यथा—
‘आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात् ।’ ‘उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये । आलम्बनस्य चेष्टाद्या देशकालादयस्तथा ॥’ ‘उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भावं प्रकाशयन् । लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः ॥’ ‘विशेषादाभिमुख्येन चरणाद् व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नाः...................।’ ‘रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितम् ।’ ‘यत्र तु रतिः प्रकृष्टा नाभिष्टमुपैति विप्रलम्भोऽसौ ।’ ‘श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥’ ‘यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये । विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः ॥’
अङ्गतया हास्यादयोऽन्येऽपि रसाः सन्ति । आधिक्येनात्र माधुर्यं गुणाः । यथा—
‘चित्तद्रवीभावमयो ह्लादो माधुर्यमुच्यते । सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥’
प्रसादगुणोऽप्यधिकस्थले । रीतिरत्र पाञ्चाली बाहुल्येन । यथा—
‘...................वर्णैः शेषैः पुनर्द्वयो ।’
(वैदर्भीगौडीययोः परिगृहीतेभ्यो वर्णैभ्यः शेषैरित्यभिप्रायः) ।
‘समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ।’
अन्या अपि रीतयोऽल्पाधिकभावेन यथास्थानमुपलभ्यन्ते, किन्तु मुख्यं ताः । गद्यस्वरूपादिकं तु पूर्वमेव विवेचितं १, २ पृष्ठप्रस्तावनायाम् ।
एतेषां यथासम्भवमेकत्र सौकर्याय श्लोकसंग्रहो यथा—
‘चन्द्रापीडोऽनुकूलः सकलगुणधरो नायकोऽस्मिन्नुदात्तो- नेत्री कन्याऽन्यदीया मृदुललिततनुर्मुग्धकादम्बरी च । पाञ्चाली नाम रीतिर्विलसति बहुला विप्रलम्भो रसोऽङ्गी माधुर्याख्यो गुणो वा कविमुकुटमणेः काव्ययोरन्त्यमेतत्’ ॥^१
१. सन्दर्भोंऽयं महानहोपाध्याय-हरिदाससिद्धान्तवागीशभट्टाचार्यटीकाभूमिकाया उद्धृतः ।
३० प्रस्तावना
कादम्बरीटीका
अस्य ग्रन्थरत्नस्य प्राचीना अर्वाचीनाश्च बहव्यष्टीकाः साम्प्रतं विलसन्ति अत्र—
( १ ) श्री भानुचन्द्रगणि-तच्छिष्य-सिद्धचन्द्रगणिमहोदयाभ्यां निर्मिता टीका मोगेलसम्राजोऽकबरस्य समये निरमीयत । यतो हीमौ अकबरसम्राजा सम्मानिताविति ताभ्यामेव पुष्पिकायां निजकरकमलेन लिखितम् । गुरवे भानुचन्द्रगणिने सम्राजा महोपाध्यायपदमर्पितम् । अनेन महाभागेन हि 'शत्रुञ्जय'–करो मोचितः शिष्याय सिद्धचन्द्रगणिने सम्राजा 'पुष्यदमा' इत्युपपदेन विभूषितः । सेयं टीका प्रतिपदपर्यायप्रकटिताऽपि विद्वद्भ्यो न रोचते, प्रत्युत यत्र तत्रारुन्तुदा । मूलपदार्थस्फोरणायैव या समर्था सैव सर्वमान्या विद्वत्समाजे, परमात्र 'इन्द्रगोपैः (वर्षाकीटैः )' इत्यस्य टीका 'अग्निरजोभिः' इति । एवं निगडः=अन्दुकः, 'मदनः जराभीरुः' इत्यादिरूपेण विहिता टीका नोपकारायेति धीधना गवेषकाः प्रतिपादयन्ति ।
( २ ) 'मयूरेश्वर रामचन्द्रकाले' महाशयेन विरचिता टीका । इयं हि मूलार्थस्फोरणेऽतिविशदा विस्तृता च । अन्ते आङ्ग्लभाषायां टिप्पणीसंयुता, तेनास्य ग्रन्थस्य महत्त्वमत्यधिकं सञ्जातम् ।
( ३ ) 'जीवानन्दविद्यासागर'–महाशयनिर्मिता सरला भावानुकूला टीका, अनयाऽपि सहायता जाता मन्दमतीनामित्यत्र न सन्देहः। परं सर्वथा छात्रमनोऽनुकूला नैवेति तद्विदो जानन्ति।
( ४ ) महामहोपाध्याय-'हरिदास-सिद्धान्त-वागीश' विहिता 'कल्पलता'भिधाना, सर्वतोऽभिनवा छात्रहितैषिणी विद्वन्मनोहारिणी विवृत्तिः स्वल्पेनैव समयेन परां कीर्तिराशिं प्रतिदिशं विस्तारयामास ।
अनुवादः
( १ ) मिसिरिडिङ्ग्रूनेऽनुवादः आङ्ग्लभाषायाम् । यद्यप्यत्र बहूनि वर्णनानि परित्यक्तानि, कानिचिच्चातिसंक्षिप्तीकृतानि सन्ति, तथापि महता परिश्रमेणायमनुवादो विहितः । अत्र कियतामेव वाक्यानां शब्दानाञ्चातिरमणीयोऽर्थः प्रतिपादितः, एवं सत्यपि कियन्ति स्थलानि तथैव सन्ति येषां विस्तृतं व्याख्यानमत्यावश्यकं प्रतीयते ।
( २ ) म० म० 'हरिदाससिद्धान्तवागीश' कृतो भाषानुवादो वङ्गभाषायाम् । अनेन चैतद्ग्रन्थेऽतिसौलभ्यं सञ्जातम् ।
( ३ ) श्रीकृष्णेश्वरनाथभट्टकृतोऽनुवादो महता परिश्रमेण सञ्जातः ।
अन्यसंस्करणम्
( १ ) मोहमयीस्थराजकीयसंस्कृतग्रन्थमालायां-डाक्टर-'पिटर्सन्' महाशयेन संशोधिताङ्गलभाषा-टिप्पणीयुता चावृत्तिः । अत्रत्यातिविस्तृता टिप्पणी गवेषणापूर्णा । विद्वांसो ह्येतत्कृतपाठभेदं भूरिमूरिशः प्रशंसयामासुः । पाठभेदोपरि विशिष्टं ध्यानमाकृष्टमेतन्महानुभावस्य ।
( २ ) पुण्यपत्तन (पूनानगर) स्थग्रन्थमालातश्चायं ग्रन्थः 'काणे'महाशयद्वारा विशेषरूपेण परिच्छेद-विभागसहितोऽतिस्पष्टरूपेण संस्कृतः । एतेनावधार्यते यत्तदावृत्तिप्रकाशानानन्तरं कादम्बर्याः यावन्ति संस्करणानि निःसृतानि तेषां सम्पादका नूनमेव ततः सहायतामवापुरिति ।
प्रस्तुतसंस्करणम्
अत्र 'काणे'-'पिटर्सन' महोदयद्वारा संस्कृते यावन्तः परिच्छेदा विलसन्ति तान् यथामति विविच्यान्यांश्चैतदुपयोगिग्रन्थानाकलय्य समुचितो ग्रन्थांशः पाठभेदश्च संस्थापितः । विरामचिह्नादिसंयोजनं यावच्छक्यं विहितम, तथा सामासिकशब्दानां पङ्क्त्यन्ते विश्लेषपद्धतिश्च यथा वचनसौकर्यमर्थावबोधसौलभ्यञ्च भवेत्तथा विहिता । सम्पादितेऽपि 'चन्द्रकला' संस्कृतव्याख्यया विषयस्य शब्दस्य चातिकाठिन्य-
प्रस्तावना
मनुभूय 'विद्योतिनी' नामिकया राष्ट्रपदनियुक्तया हिन्दीभाषयाऽप्यनूदितः। प्रस्तावनान्ते च सौकर्येणार्या- वबोधनाय हिन्दीभाषयैव कादम्बरीसमीक्षोपनिबद्धा तया तत्सारोऽप्युपनिबद्धः।
अत्रेदमवधेयम्—कस्याप्यनुवादस्य भागत्रयं भवितुमर्हति। यथा—उपाख्यानानुवादः, भावानुवादः, भाषानुवादश्चेति। तत्रोपाख्यानानुवादे ह्यनुवादको मूलाक्षरमगणयित्वैव स्वातन्त्र्येण प्रचलतीति सर्वा- पेक्षया सुगमः सः, किन्तु तयाविधेनानुवादेन ग्रन्थार्थकरणे चोपकारस्तादृशो न भवति यादृशोऽभिल- षितः। एतदपेक्षया मौलिकभावमादाय प्रवृत्तो भावानुवादो मूलार्थबोधने किञ्चित्साहाय्यं सम्पादयति। भाषानुवादो हि मूलभावस्य भाषायाश्च द्वयोरपि पूर्णरुपेणाधीनीभूय एव मूलार्थसाधुस्फोरकोऽनुवादक- कृते निरतिशयकाठिन्यं जनयति। तत्राप्येतद्ग्रन्थस्यात्यधिकक्लिष्टत्वस्य सर्वानुभवसिद्धत्वेन तस्य भाषा- नुवादविधानं न तादृशं सरलमिति विवेचकानां पुरतोऽनिरोहितमेव। अतोऽत्र केवलं साहसं विधायैवै- तत्सम्पादयितुं प्रवृत्तोऽहम्, परन्तु कियत्साफल्यं सञ्जातं तत्र प्रेक्षकाः सहृदया एव प्रमाणम्।
विशेषतो वक्तव्यमिदमेव यत्—'एकानुपूर्वीकवाचकवाच्यत्वरूपं'-सामान्यधर्ममादाय ग्रन्थकारेण सर्वत्र पूर्णोपमाः सुसञ्जीकृताः। यासां संस्कृतव्याख्यानं तु विशदरूपेण कथञ्चिद् भवत्यपि, किन्तु तादृश- स्थले भाषानुवादकरणे महाक्लेशः सञ्जायते। दिङ्मात्रं यथा—'उषानिरुद्धसमागममिव। चित्रलेखादर्शित- विचित्र-सकल-त्रिभुवनाकारम्' (का० पृ० २७६ पृ०) एतस्यानुवादो ह्येवमपि भवितुमर्हति यत्—
'उषा और अनिरुद्धके समागमके समान चित्रलेखामें दिखलाया गया है विचित्र समस्त त्रिभुवनका स्वरूप जहाँ पर ऐसा वह राजभवन था।'
किन्त्वेतादृशानुवादकरणे सादृश्यं न तिष्ठति तथानुवादोऽप्यसम्पूर्ण एव तिष्ठति, अतोऽगत्यैवमनुवादो विधीयते यत्—
'उषा अनिरुद्ध के समागममें जिस प्रकार उषाकी सखी चित्रलेखाने समस्त त्रिभुवनके युवक पुरुषोंकी आकृतिका चित्र खींचकर उषाको दिखाया था, उस राजभवनमें भी उसी प्रकार चित्रकारों द्वारा समस्त त्रिभुवनका सभी पदार्थोंके अनेक प्रकारकी आकृतिका चित्र दीवार पर खींचकर लोगोंको दिखलाया गया था।'
अत्र ह्येवंविधानुवादं विलोक्य साधारणपुरुष एवानुवादकं दूषयिष्यन्ति, किन्तु विवेचकपाठका हृदयेन सानन्दं नूनं जिघृक्षिष्यन्तीति द्रढ़ीयान् मे विश्वासः। कादम्बर्यां पूर्णोपमाया अनेकस्थलेषु विद्यमानत्वात् तत्र सर्वत्रैवंविधा एवानुवादाः सञ्जाताः। बहुषु स्थलेषु संस्कृतटीकया साधुस्फोरणे कृतेऽपि यत्र भाषानु- वादे कोऽप्युपायो न लक्षितस्तत्र भावानुवाद एव गृहीतः। एतद्ग्रन्थकृतपूर्वव्याख्यातॄणामनुवादकतॄणाञ्च साहाय्येनेवैतत्सम्पादनं मया कृतमिति तेषामानृण्यं शिरसा धारयामि।
एतत्सर्वं गीर्वाणवाग्वल्लिलितालवालकल्पानां धर्मनयविनयमनस्वितादिगुणविभूषितानां देशकु- लजातिशास्त्राचारादिसमस्तसनातनधर्ममर्यादापालनतत्पराणां देशप्रसिद्धब्रह्मकुलकमलदिवाकराणां दिगं- तयशसां काव्यकाननपञ्चाननानामस्मत्साहित्यशास्त्रगुरुवराणां कविचक्रवर्त्ति-श्री १००८ ताराचरणभट्टाचार्य- महाशयानां स्वदेशीय-व्या० सा० तीर्थ-विद्यालङ्कारानेकशिष्योपशिष्ययुतपण्डितप्रवर-बेगूसरायस्थ- 'श्रीसरस्वती विद्यालय'-प्रधानाध्यापक-श्रीगेनालालझाजी-गुरुवराणाञ्च द्वयोदयमधुरदृशा सम्पन्नम्।
ग्रन्थस्यास्य यत्र तत्र मूलपाठसंशोधने पाठान्तरविधाने चाहं प्रियसुकृद्वर्-काशीस्थ-'राजकीय संस्कृतमहाविद्यालय'-न्यायाध्यापक-न्याय-वेदान्ताचार्य-काव्य-दर्शनतीर्थ-श्रीसुरेन्द्रनाथद्विवेदी महाभा- गमत्रत्यनेपालदेशीय 'हरिहर-संस्कृत-विद्यालय' प्रधानाध्यापक-व्या० सा० सां० पुराणाचार्य-श्रीकृष्ण- मणित्रिपाठि महाभागं च मुहुर्मुहुः स्मरामि, अभिनन्दामि च तदुपकारसहस्रमजस्रम्।
सम्पादने चास्मिन् परोपकारवद्धपरिकर सुरभारतीसंरक्षणतत्परनिजपितृस्मारक-'श्रीभवानीशङ्कर- संस्कृतमहाविद्यालय'सञ्चालक-काशीविश्वनाथमन्दिराध्यक्ष-श्रीराममङ्गलत्रिपाठिमहाभागानाम, भूमिकाले- खनकार्ये विविधसहायकपुस्तकप्रापकाणां विविधानवद्यविद्याविभूषित-विद्याभास्कर-शास्त्राचार्य-श्रीदेवी- नारायणप्राडूविवाक (एडवोकेट) महाभागानाञ्चोपकृतिसहस्रमजस्रमभिनन्दामि।
३२ प्रस्तावना
एवमेव यत्र तत्र प्रूफसंशोधनादिसाहाय्ये मिथिलाग्रन्थमालासम्पादकाहर्निशमस्मच्छुभचिन्तक-सोदरकल्प-व्याकरणाचार्य-पं० श्रीरामचन्द्रझाजी-महोदयान्मिथिलेशलब्धधौतप्रतिष्ठ-न्याय-व्याकरणाचार्य-पं० श्रीशोभितामिश्रजी महोदयाच्च महानुपकारः सञ्जातस्तदर्थं तयोरानृण्यं सततं शिरसा सहर्षं धारयामि।
सर्वथा दुःस्थितिसङ्कुलेऽपि काले कृतपरिश्रमैः चौखम्बा-संस्कृतपुस्तकालयाध्यक्षैः गोलोकवासि-श्रेष्ठि-श्रीहरिदासगुप्तात्मज-श्रीजयकृष्णदासगुप्तमहोदयैः विस्तृतकलेवरं ग्रन्थमेनं संस्कृत-हिन्दीयुतमिदानीन्तनं यावत् क्वाप्यमुद्रितं प्रकाशयित्वा राष्ट्रस्य महानुपकारः कृतोऽतस्ते सर्वथा धन्यवादार्हाः।
यद्यपि 'आत्मनः प्रियतया तनुभाजां नात्मनः कृतिषु दूषणदृष्टिः' इति न्यायान्मत्सदृशसरागाणां स्वविरचितसन्दर्भे दोषदृष्टिर्नैव जायते, तथापि स्वप्रेमपूर्णनयनावलोकनमात्रेण कस्यचित्सद्गुणत्वं न सम्भवितुमर्हतीत्येतत्प्रबन्धसमीचीनत्वासमीचीनत्वविचारणायां निष्पक्षन्यायभाजः सहृदया विद्वद्वर्ग एव प्रमाणम्। अपि च—
'मर्त्यैरसर्वविदुरैर्विहिते क्व नाम ग्रन्थेऽस्ति दोषविरहः सुचिरन्तनेऽपि।'
इति न्यायाद् भ्रमप्रमादयोः स्वाभाविकत्वात् सीसकाक्षरदोषाद्वा यदत्र स्खलनं सञ्जातं तत् क्षमासारा विद्वद्वरा दयोदयमधुरदृशा निरीक्षमाणाः संशोध्य संसूचनं क्षमिष्यन्ते मामिति सप्रश्रयं निवेदयति—
'तद्विद्वांसोऽनुगृह्णन्तु चित्तश्रोत्रैः प्रसादिभिः।
सन्तः प्रणयवाक्यानि गृह्णन्ति ह्यनसूयवः॥
न चात्रातीव कर्त्तव्यं दोषदृष्टिपरं मनः।
दोषो ह्यविद्यमानोऽपि तच्चित्तानां प्रकाशते॥
निर्दोषत्वैकवाक्यत्वं क्व वा लोकस्य दृश्यते।
सापवादा यतः केचिन्मोक्षस्वर्गावपि क्वचित्॥'
इत्यादिमूक्तयो ह्यत्र स्मरणीयाः सुधीवरैः।
न्याय्यादयं समादाय विपन्नश्चापि चेतसि॥
| रामनवमी<br>वि० सं० २०१८<br>२/९ धर्मकूप, काशी | भावकः—<br>कृष्णमोहनठाकुरः |
संक्षिप्त-कथासार
कथासरित्सागर्गीय-मकरन्दिकोपाख्यान
काञ्चनपुरमें 'सुमन' नामक एक बड़ा प्रतापी राजा राज्य करता था। किसी समय वह अपने दरबारमें बैठा था कि मातङ्गकन्या 'मुक्तालता' एक शुक (तोते) को पिंजड़े में रखकर अपने भाई 'वीरप्रभ'के साथ राजा से मिलने आई। द्वारपाल द्वारा अनुमति प्राप्त होने पर मुक्तालताने सभामें उपस्थित हो राजाका अभिवादन कर निवेदन किया—
महाराज ! यह 'शास्त्रार्थ' नामका शुक समस्त कलाओं और विद्याओं में निपुण है तथा वेदोंका मार्मिक अभिज्ञ है। आप इसे स्वीकार कीजिए, यों कह कर उसने द्वारपाल को वह शुक दे दिया। द्वारपाल उसे राजा के समीप ले गया। शुकने वहीं निम्नलिखित श्लोक पढ़ा—
'राजन् ! युक्तमिदं सदैव वपुषं देवस्य संदृश्यते वृन्दारण्यमुखे द्विजाङ्घ्रिजटिलश्वासावतोऽद्भूयैः। पूतावद्वसुनेव यत्प्रतिभवाद्ब्राम्हन्मुहुर्भगवती प्रावर्त्ततीह दिङ् दृक्षु प्रायः प्रजापालने ॥'
पुनः उसने कहा—'राजन् ! आदेश दीजिए किस शास्त्रका कौनसा प्रमेय कहूँ।'
राजा अत्यन्त आश्चर्यचकित हुआ। मन्त्रीने कहा—'पृथिवीनाथ ! प्रतीत होता है कि पूर्व जन्मके किसी शापवश तिर्यग्योनिमें ये कोई मुनि हैं, स्वभाववश इन्हें पूर्वजन्मके समस्त शास्त्रों का स्मरण है।'
राजाने शुकसे पूछा—'तुम्हारा जन्म कहाँ हुआ ? तिर्यग्योनिमें तुम्हें शास्त्रज्ञान कैसे हुआ ? आखिर तुम कौन हो ? अपना पूरा वृत्तान्त सुनाओ।'
शुकको कोई संकोच नहीं। उसने कहा—'महाराज ! यद्यपि मेरी कथा कहनेके योग्य नहीं, तथापि आपका आदेश शिरोधार्य कर कहता हूँ। सुनिए :
'विन्ध्यके निकट अतिविशाल वृक्ष पर एक शुक अपनी स्त्री के साथ कोटर बनाकर रहता था। मैं उसीका पुत्र हूँ। उत्पन्न होते ही मेरी माता चल बसी। वृद्ध पिता अत्यधिक खिन्न हुए। वे आस-पास रहने वाले शुकों के झूठे फलों को स्वयं खाते और मुझे भी खिलाते। अपने पंखों को ओढ़े रख वे मेरा पालन-पोषण करते।
एक समय वहाँ बहुत से शबर (भील) शिकार खेलने आए। दिन भर अनेक पशुपक्षियोंको मारते रहे। सायंकाल एक वृद्धशबर किसी पशुपक्षीको न पाकर ऐसे वृक्षके समीप आया। पक्षियोंका शब्द सुन कर वह वृक्ष पर चढ़ा और शुकों तथा अन्य पक्षियोंको कोटरोंमें से निकाल मार-मार कर पृथिवी पर पटकने लगा। इसे समीप आता देख मैं भयभीत हो पिताके पंखोंमें छिप गया। इतनेमें उसने मेरे कोटरमें भी हाथ डाल मेरे पिता को निकाल लिया और उन्हें मारकर पृथिवी पर पटक दिया। पिताके पंखोंमें लिपटा मैं भी उनके साथ ही पृथिवी पर गिर पड़ा और पंख से निकल कर वहीं गिरे सूखे पत्तोंमें अन्तर्धान होगया।
शबर समस्त पक्षियों को मार वृक्ष से नीचे उतरा। वहीं उसने कुछ पक्षियोंको अग्नि में भून कर खाया और शेष पक्षियों को लेकर अपने साथियोंके साथ चला गया।
उसके चले जाने पर मैं निर्जीव तो अवश्य हो गया किन्तु वह रात्रि अत्यधिक कष्टमें बीती। प्रातः सूर्योदय होने पर प्याससे व्यग्र होनेके कारण अपने पंखोंकी पैल में समीपवर्ती पद्मसर नामक सरोवरके निकट धीरे-धीरे गया। वहाँ मरीचि मुनि स्नान करने के लिए आए थे। दृष्टिन देख उन्होंने मेरे मुँहमें जल की बूँदें डालीं और मुझे दोनेमें रखकर अपने आश्रम ले गये। वहाँ मुझे देख महर्षि पुलस्त्यजी के मुख पर मुस्कुराहट छा गई। उपस्थित अन्य तपस्वियोंने उनसे पूछा—'भगवन् ! इस शुक को देख आप क्यों मुस्कराये ?'
५ का० सू०
३४ कथासार
महर्षिने उत्तर दिया—'यह शापवश शुकके रूपमें आया है । नित्य-कृत्य से निवृत्त होनेपर इसकी पूरी कथा आप लोगों से कहूँगा, जिसे सुनते ही इसे अपने पूर्व जन्मका स्मरण हो जायगा ।'
यह कह कर वे नित्य-कृत्यके लिए चले गये । समस्त कृत्य समाप्त होने के बाद तपस्वियोंने उनसे मेरी कथा सुनानेकी प्रार्थना की । तब उन्होंने इस प्रकार वर्णन किया ॰
'रत्नाकर नामक नगरमें ज्योतिष्प्रभ नामका अत्यन्त प्रतापी चक्रवर्ती राजा था । उसके उग्र तपसे भगवान् आशुतोष प्रसन्न हो गए । उनकी कृपासे उसकी रानी हर्षवती के गर्भसे एक पुत्र उत्पन्न हुआ । गर्भिणी रानीने स्वप्नमें चन्द्रमाको अपने मुखमें घुसते हुए देखा था, इसलिए राजाने उसका नाम सोमप्रभ रक्खा ।
सोमप्रभ जब समस्त विद्याओं और कलाओंमें निपुण हो युवा हो गया तो पिताने उसे युवराज पद पर अभिषिक्त कर प्रभाकर नामक अपने मन्त्रीके पुत्र प्रियङ्कर को उसका मन्त्री बना दिया । उसी समय मातलि एक अश्व लेकर आकाशसे उतरा । उसने समीप आकर सोमप्रभसे कहा—'आप पूर्वजन्ममें इन्द्रके मित्र विद्याधर थे । उसी प्रेमके कारण इन्द्रने 'उच्चैःश्रवा' का पुत्र यह अश्वश्रवा घोडा आपके लिए भेजा है । इस पर आरूढ़ होनेपर आपको कोई भी शत्रु जीत नहीं सकेगा ।'
उस अश्वको देकर मातलि चला गया । दूसरे दिन सोमप्रभ ने अपने पितासे निवेदन किया—'पिताजी ! क्षत्रियों का यह धर्म नहीं कि विजय की अभिलाषा न करें और स्वस्थ हो अपने स्थान पर ही बैठे रहें, इसलिए मुझे दिग्विजययात्रा के लिए आदेश दीजिये ।'
पिताने प्रसन्न होकर दिग्विजय की सारी तैयारी करनेका आदेश दिया और और शुभ मुहूर्त्तमें उसे प्रस्थान कराया ।
सोमप्रभ ने उस दिव्य घोड़ेके प्रभावसे समस्त दिशाओंके समस्त राजाओं को जीत उनसे अनेक प्रकार के रत्न उपहार में पाये । लौटते समय उसने हिमालयके निकट सैन्यसमेत डेरा डाल दिया । वह उसी दिव्य घोड़े पर चढ़ कर वनमें शिकार खेलनेके लिए निकल पड़ा । मार्ग में एक मणिमय-किन्नर को देख कौतुकवश उसे पकडनेके लिए उसने शीघ्रतासे अपने घोड़े को दौड़ाया । किन्नर तो पर्वत की गुफामें तिरोहित हो गया, किन्तु सोमप्रभ को वह घोड़ा बहुत दूर तक ले गया । इतने में भगवान् सूर्यनारायण भी अस्त हो गये ।
सोमप्रभ अत्यधिक श्रान्त हो गया और लौटने का विचार कर ही रहा था कि उसे एक विशाल सरोवर दिखाई पढ़ा । उसीके तट पर रात्रि बितानेके विचारसे वह घोड़ेसे उतरा और उसे घास और जलसे सन्तुष्ट किया । स्वयं भी मधुर फल खाकर और जल पीकर वहीं कोमल पत्ते बिछा उसने विश्राम किया । उसी समय उसे अकस्मात् सुमधुर गीतों की ध्वनि सुनाई पटी । वह तत्काल उठा और जिस ओरसे ध्वनि आ रही थी, उसी ओर कुछ दूर चल गया । उसने देखा—एक देवालयमें भगवान् शङ्करके लिङ्गके समक्ष एक दिव्य कन्या गान कर रही है । उसने विस्मय-पूर्वक मनमें विचार किया कि यह रूपवती कौन है ? गीत समाप्त होनेपर कन्याने सत्कार-पूर्वक उससे पूछा—'आप कौन हैं ? किस प्रकार और किस प्रयोजनसे इस दुर्गम स्थानमें पधारे हैं ?'
सोमप्रभने अपना सारा वृत्तान्त कह सुनाया और पूछा—'आप कौन हैं ? इस निर्जन वनमें अकेली क्यों रहती हैं ?'
कन्याने आंसुओं की झटी लगाते हुए कहा—'महाभाग ? मुझ अभागिनीका वृत्तान्त सुननेसे क्या लाभ ? फिर भी यदि आपको कुतूहल है तो सुनिए :
'हिमालय पर काञ्चनाभ नामक नगरमें विद्याधरों का राजा पद्मकूट है । उसकी हेमप्रभा-नामक रानी, के गर्भसे मैं उत्पन्न हुई हूँ । मेरा नाम मनोरथप्रभा है । मैं अपनी सखियोंके साथ आश्रमों, द्वीपों, पर्वतों, जङ्गलों और उपवनोंमें क्रीड़ा कर भोजनके समय पिताके निकट आ जाया करती थी । एक बार जब मैं इस सरोवर में तट पर विहार करने के लिए आई तो एक मुनिपुत्र अपने मित्र सहित मुझे यहीं दिखाई पड़े । उनके सौन्दर्य की शोभा देख वशीभूत हो मैं धीरे-धीरे उनके समीप चली गई । उन्होंने भी मुझे प्रेममय दृष्टिसे देखा । मेरी सखीने हम दोनों का अभिप्राय जान मुनिपुत्रके मित्रसे पूछा—'महाभाग ! आप कौन हैं ?' उन्होंने कहा—'सुमुखि ! यहाँ से थोड़ी दूर तपोवनमें दीधिति नामक मुनि रहते हैं । एक समय वे इसी सरोवर में स्नानार्थ आए । उसी समय लक्ष्मी देवी भी उपस्थित हो गई । देवीने उन्हें देख कर मनमें सङ्गम की अभिलाषा की, इसलिए उन्हें तत्काल मानस-पुत्र उत्पन्न हुआ । देवीने
कथासार ३५
बालक को मुनिके कर-कमलोंमें समर्पित करते हुए कहा—'यह आप के ही दर्शनसे उत्पन्न है, इसलिए आपका पुत्र है।' वह अलक्षित हो गई। मुनिने भी अनायास मिले इस पुत्र का नाम रश्मिमान् रखा और चूड़ाकरण, यज्ञोपवीत आदि संस्कारों को विधिवत् सम्पादन करके उसे समस्त विद्याओं की शिक्षा दी ये वही मुनि-पुत्र 'रश्मिमान्' हैं, मेरे साथ यहाँ भ्रमण करने आये हैं।'
उन्होंने मेरी सखीसे मेरा नाम और वंश पूछा। जब मैं उस मुनिपुत्रके निकट बैठी थी तो घरसे एक सखीने आकर मुझसे कहा-'शीघ्र चलो, पिता भोजनके लिए तुम्हारी प्रतीक्षा कर रहे हैं।' उस मुनिपुत्र को वहीं छोड़ मैं भयभीत हो पिताके समीप चली गई। भोजन कर ज्यों ही बाहर निकली त्यों ही मेरी पहली सखीने कहा—'मुनि-पुत्र का मित्र बाहर उपस्थित है। वह कहता है कि मुझे रश्मिमान्ने अपने पिता द्वारा उपदिष्ट हुई आकाशगामिनी-विद्या देकर 'मनोरथप्रभा' के निकट भेजा है और यह सन्देश बतलाया है कि 'कामदेवने ऐसी भीषणदशा उपस्थित कर दी है कि अब मैं तुम्हारे बिना क्षण भर भी जीवित नहीं रह सकता।' सुनते ही मैं सखीको साथ लेकर यहाँ आई, किन्तु मेरे पहुँचनेके पहले ही चन्द्रोदय होने पर मेरे वियोग से मुनिपुत्र यह असार संसार छोड़ परलोक सिधार गये थे। उन्हें मृत देख कर मैंने उनके साथ अपने को भी भस्म करना चाहा, किन्तु उसी समय एक अत्यन्त तेजस्वी पुरुष आकाशसे उतरा और उस शरीर को लेकर चला गया। मैं अकेली ही अग्निमें भस्म होनेके लिए उद्यत हुई, तो आकाशवाणी हुई कि 'वत्से ! इस प्रकार साहस न करो, कुछ ही काल बाद इस मुनिपुत्रसे पुनः तुम्हारा अवश्य समागम होगा।' आकाशवाणी सुन कर मैंने अनुगमनका विचार छोड़ दिया और समागम की प्रतीक्षामें मैं वही रहने लगी। तभीसे यहाँ भगवान् शङ्करके भजन-पूजनमें सर्वदा लगी हूँ। मुनिपुत्र का वह मित्र भी कहाँ गया, इसे अबतक न जान सकी हूँ।'
यह वृत्तान्त सुन 'सोमप्रभ'ने पूछा—'तुम्हें अकेली छोड़कर तुम्हारी वह सखी कहाँ चली गई !' प्रत्युत्तरमें मनोरथप्रभा ने कहा—'विद्याधरोंके अधिपति महाराज सिंहविक्रम की एक बड़ी सौन्दर्यवती कन्या है। उसका नाम मकरन्दिका है। वह मेरी प्राणसे भी अधिक प्रियतमा सखी है। मेरे ही दुःखसे दुःखित होकर उसने अब तक अपना पाणिग्रहण नहीं किया है। उसने अपनी सखीको मेरे समीप कुशल पूछनेके लिए भेजा था। इसलिए मैंने भी उसीकी सखीके साथ उसे देखनेके लिए अपनी सखीको भेजा है अतएव आज यहाँ मैं अकेली हूँ।'
मनोरथप्रभा यों कह ही रही थी कि इतनेमें उसे आकाशसे उतरती उसकी सखी दिखाई पड़ी। समक्ष उपस्थित होने पर उसने मकरन्दिकाका सब समाचार पूछ सोमप्रभ के लिए कोमल पत्तों की शय्या बिछवायी और उसके घोड़ेके खानेके लिए घास डलवा दिया। उन लोगों ने उसी देवालय में वह रात्रि बितायी। प्रातःकाल देवजय नामक विद्याधर राजाका सन्देश लेकर उपस्थित हुआ। प्रणाम करके उसने मनोरथप्रभा से कहा—'राजकुमारी, राजा सिंहविक्रम ने यह सन्देश भेजा है कि जब तक तुम्हारा पाणिग्रहण नहीं होगा, तब तक तुम्हारी प्रियसखी मकरन्दिका भी अपना पाणिग्रहण नहीं करना चाहती। इसलिए तुम यहाँ आकर उसे समझाओ कि आपना पाणिग्रहण कर ले।' मनोरथप्रभा वहाँ जानेके लिए उद्यत हुई। सोमप्रभ ने कहा—'शुभे ! मैं विद्याधरोंका लोक देखना चाहता हूँ, जाने योग्य समझिये तो मुझे भी साथ ले चलिए। मेरा घोड़ा जब तक मैं लौट नहीं आता तब तक यहीं बँधा रहेगा, इसके आगे खानेके लिए घास डाल देता हूँ।' मनोरप्रभा ने सोमप्रभ को देवजयकी गोदमें बिठा कर अपने साथ ले लिया और दिव्यशक्ति द्वारा विद्याधरोंके लोकमें पहुँच गई। वहाँ मकरन्दिकाने प्रियसखी का उचित सत्कार किया। साथमें सोमप्रभको देख वह उसका समाचार पूछने लगी। मनोरथप्रभाने उसका समस्त वृत्तान्त यथावत् सुना दिया। सुन कर मकरन्दिका उसे पर आसक्त हो गयी, सोमप्रभ भी लक्ष्मी समान अतिसौन्दर्यवती मकरन्दिकाको देखकर आसक्त हो गया। वह आश्चर्य के साथ विचार करने लगा कि यह लावण्यवती किस धन्य युवाके साथ पाणिग्रहण करेगी।
तदनन्तर एकान्तमें मनोरथप्रभाने मकरन्दिकासे विवाह न करने का कारण पूछा। प्रत्युत्तरमें उसने कहा—'सखि ! अभी तो तुमने भी अपने लिए वर स्वीकार नहीं किया है, फिर मैं कैसे अपना विवाह कर सकती हूँ ? तुम मुझे प्राणों से भी अधिक प्यारी हो।' मकरन्दिकाके प्रेम-युक्त वचन सुन मनोरथप्रमाने कहा—
२६ प्रस्तावना
ङ्किता भवति। शुकनासेन हि चन्द्रापीडाय याः शिक्षाः प्रदत्ताः तासां रचनायान्तु कविः स्वलेखनीमन्या- दृतरूपेण प्रावर्त्तयत्। तास्तथाविधा रहस्यपूर्णास्तथा मार्मिकाः सन्ति या मन्ये प्रत्येकदेशस्थप्रत्येक- राजहिताय सर्वथैवोपयोगिन्यो भविष्यन्ति।
प्रकृतिनिरीक्षणम्
कादम्बर्याः प्रकृतिवर्णनमतीव सुन्दरं सजीवं च सञ्जातम्। केचन महाकवयो यदि प्रकृतेर्मङ्गल- रूपस्य चित्रण एव चतुरा अवलोक्यन्ते तर्हि केचन महाकवयः प्रकृतेर्भयावहस्य तथा रोमाञ्चकारिणः स्वरूपस्य वर्णने कृतकार्याः प्रतीयन्ते, परन्तु महाकवेर्बाणभट्टस्य भूयसीमेव विशेषता वर्त्तते यत्तस्य लेखनी समभावेन मधुरभयावहोभट्विधदृश्यवर्णने पूर्णं साफल्यमुपगतवती। एतद्दृश्यस्वरूपहृदयङ्ग- मविधानाय महाकविर्विविधालङ्काराणां साहाय्यं गृहीतवान्। उपमोत्प्रेक्षा-परिसंख्याविरोधाभासालङ्का- राणां स्तूपानैव स्थापयित्वा कविरयं पाठकानां पुरतः स्ववर्ण्यविषयस्य मञ्जुलाभिव्यञ्जनं कृतवान्। विन्ध्याटव्या भीषणरूपस्य चित्रणं कविर्यादृशेन साफल्येन कृतवान् तद्धि महादाश्चर्यं जनयति।
तथाहि—
'गिरितनयेव स्थाणुसङ्गता मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशाचर- परिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरागुरुतिलकभूषिता च, सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च।'
(कादम्बरी-कथामुखम्-५७ पृ.)
महर्षिजावालेराश्रमस्य कीदृशं सात्त्विकं मनोरममतिहृद्यं वर्णनम् ?, यस्य पठनेन कस्य सचेतसः पुरुषस्य चित्तं तपोवनभव्यमूर्त्त्या प्रभावितं न भवति ?।
तथाहि—
'यत्र च महाभारते शकुनिवधः, पुराणे वायुप्रलपितम्, वयःपरिणामे द्विजपतनम्, उपवनचन्दनेषु जाड्यम्,, अग्नीनां भूतिमत्त्वम्, एणकानां गीतश्रवणव्यसनम्, शिखण्डिनां नृत्यपक्षपातः, भुजङ्गमानां भोगः, श्रीफलाभिलाषः मूलानामधोगतिः ॥'
(कादम्बरी कथामुखम्-१२४, १२५ पृ.)
न पर्यत्यजत्। चन्द्रापीडस्यापि ततःप्रभृति तस्यां प्रतिक्षणमुपचीयमाना महती प्रीतिरजायत। स्थितस्तस्यामस्य प्रतिदिन प्रसादः। कृता चासौ सर्वथैव विस्रम्भव्यापारेष्वभिन्ना सहृदयता। सोऽयमपूर्वः सम्बन्धः सुमधुरश्च। चन्द्रा- पीडेन सार्धं पत्रलेखाया नैकट्यमसामान्यं दिग्विजययात्रायामेकस्मिन्नेव गजपृष्ठे पत्रलेखा चन्द्रापीडेन सार्धमा- सनमधितिष्ठति। निशाया शिबिरस्थचन्द्रापीडः यदा अनतिदूरशयाननिपुणेन वैशम्पायनेन सह संलपति, तदा, सन्निधौ क्षितितलविन्यस्तकुथ्योपरि प्रस्वपिति पत्रलेखा। यदा कादम्बर्या हृदये महामहोत्सवसमारम्भः सन्निकृष्टस्तदा पत्रलेखायास्तस्मादतिथुद्रादधिकारादपसारणं नावश्यकनममन्यत लोकः। पत्रलेखां प्रति कादम्बर्या नारीजनसुलभो नासीदीषदपि द्वेषः। चन्द्रापीडेन पत्रलेखायाः सम्बन्ध इति हि सा प्रियसखीति कादम्बर्या परमाद्रियत।
कादम्बरीकाव्ये पत्रलेखा यद्भूखण्डमधिकृतवती, न तत्र द्वेषसन्देहादीना सद्भावः। तत्स्थानं स्वर्गादपि निष्कण्ट- कम्, परन्तु क नु खलु तत्रामृतविन्दुः चलति तस्याः पुरतः एव प्रवलं प्रणयामृतपानम्। किन्तु कदाचिद् एतद्- घागेनास्या एकत्र्यामपि शिरायानेकोऽपि रक्तविन्दुर्न चाञ्चल्यमापेदे। अपि सा चन्द्रापीडस्य च्छायेवानुवर्तिनी, तथापि राजपुत्रस्य तस्तारुण्यस्येषदपि तापस्तां कदाचिन्नासृजत्।
यदा पत्रलेखा कति कालान् कादम्बर्या सहावस्थाय तद्वार्त्तया प्रत्यावृत्ता, एवमपि यदा ललितस्मितेन दूरत एव प्रीतिरासं प्रकाशयन्ती चन्द्रापीडं प्राणमत्, तदा सा प्रकृतिलह्वमापि कादम्बर्याः प्रसादलब्धं सौभाग्यमिव वह्नम- तरतामगच्छत्। युवराजश्चादरातिशय प्रदर्शयेन्नासनादुत्थाय तामालिङ्गत्। तस्माद्वाङ्मनसयोरगोचरोऽपूर्व एवा- नयोः संमन्य इत्यवगम्यते। परमार्थिकरूपे त्वियं रोहिणीति कादम्बरी-प्रश्नोत्तरे चन्द्रापीडः स्वयमेवोक्तवान्। अतो युक्त एवानयोः सहवास इत्यवधेयम्। इतोऽधिकजिज्ञासुभिः प्रबन्धकल्पलतिकादाववलोकनीयम्।
प्रस्तावना
२७
तपोवनस्य वर्णने यावन्तः प्रभावोत्पादकविषया अपेक्षितास्तावतामेकत्र वर्णनं विधाय कविः सत्यमस्माकं सम्मवेऽतीवानुपमं दृश्यं प्रस्तुतवान् । अस्माभिस्तादृशं कथमपि लङ्घितुं न शक्यते यत्र कविराश्रमस्थवृद्धान्धतापसानां परिचितवानरद्वारेण यष्टिमवलम्ब्याभ्यन्तरे आगमनस्य वहिर्गमनस्य च वर्णनं कृतवान् ।
तथाहि—
‘परिचित शाखामृग-कराकृष्टयष्टि-निष्क्राम्यमान-प्रवेश्यमान-जरदन्धतापसम् ।’
( कादम्बरी कथामुखम् - १९८ पृ. )
ऋतूनां चित्रणमपि नितान्तमार्किकतया कृतवान् । प्रभातचन्द्रयोरन्धकारचन्द्रोदययोस्तथान्येषां प्रकृतिविविधदृश्यानां वर्णनमत्यधिकसहृदयतया तथा यथार्थतया सहाङ्कितवान् कविः ।
प्रेमवर्णनम्
महाकविना यादृशप्रणयस्थेयं मनोरमा कथा प्रस्तुता, प्रणयोऽपि वाह्यचाकचिक्येनोत्पन्नरूपे-च्छाया उपरि केवलमनुरक्तिमेव न प्रकटयति, प्रत्युत स द्वयोः सहृदययोरन्तरस्तलस्य परस्परवन्धन-विधायकोऽनेकजन्मपर्यन्तं स्वस्याभिव्यक्तिकारकोऽलौकिकानन्दोत्पादको विकारोऽस्ति । कादम्बर्याः प्रणयलीला हि केवलमेकजन्मत एव सम्बन्धं न स्थापयति, किन्तु स जन्मत्रयस्य परिवर्तने जातेऽप्यनेक-माधुर्यं कथङ्कारमपि हासानुभवं नोपस्थापयति । वरं शरीरस्य परिवर्तनं भवतु, कर्मवशेन प्राणिनो विविधयोनिषु वरं परिभ्रमन्तु किन्तु तेषां दृढप्रेम सर्वदैव तदनुगमनं करोति । अस्याः कथेव ह्येतन्म-हत्त्वस्य सत्यतामस्मान् प्रति यथार्थतः प्रतिपादयति ।
शैली
गद्यकवीनां कृते बाणभट्टस्य शैली चादर्शभूता । अयं हि महाकविः प्रभावशालिगद्यस्य लेखने निता-न्तप्रवीण इति सहृदयानां भावः । ये केचनालोचकाः वाणगद्यं भारतीयसघनविपिनमिव भयावहं हिंसकपशुमिवाप्रसिद्धं तथा कठिनशब्दैर्मण्डितमिति प्रतिपादयन्ति, ते खलु सत्यमेव यथार्थतायाः सुदूरे विद्यन्ते । चित्रणस्य सजीवतायै तथा प्रभावशालिताया उत्पत्तये महाकविना स्थाने स्थाने ओजोगुण-मण्डितायाः समासबहुलायाः शैल्या आश्रयणमवश्यं गृहीतम्, किन्तु यत्र तत्र लघुवाक्यानां प्रयोगं विधाय तेन हि सशक्ता प्रभावोत्पादिका स्वशैली प्रदर्शिता । कयाचिदेकया शैल्या क्रीतदासस्तु न भवति कविः । स हि विषयानुसारेण स्वकीयां शैलीं परिवर्त्तितां करोति । येन महाकविना अटव्याः सन्ध्यायाश्च वर्णने दीर्घसमासानां छटा प्रदर्शिता, तेनैव विरहवर्णनावसरे लघुकलेवरप्रासादिकवाक्यानां शोभा प्रस्तुतीकृता । कपिञ्जलद्वारा विहिता या पुण्डरीकभर्त्सना सा कियती प्रभावशालिनी ?
तथाहि—
‘यदेतदारब्धं भवता किमिदं गुरुभिरुपदिष्टम्, उत धर्मशास्त्रेषु पठितम्, उत धर्मार्जनोपायोऽयम् ॰ ॰ ॰ ॰ । ॰ ॰ ॰का वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु भवतः ? स खलु धर्मबुद्ध्या विपलतावनं सिञ्चति, कुवलयमालेति निस्त्रिंशलतामालिङ्गति, कृष्णागुरुधूमलेभेति कृष्णसर्पमवगाहते रत्नमिति ज्वलन्तमङ्गारमभिसंपृशति, मृणालमिति दुष्टवारणदन्तमुपलमुन्मूलयति, मूढो विषयोपभोगेष्वनिष्टानुवन्धिषु यः सुखबुद्धिमारोपयति । अधिगतविपमतत्त्वोऽपि कस्मात् खद्योत इव ज्योतिर्निर्वाणमिदं ज्ञानमुद्वहति, यतो न निवारयसि प्रवलरजःप्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियम-यसि वा क्षुभितं मनः । कोऽयमनङ्गो नाम धैर्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः ।’ इति
( कादम्बरी-पूर्वार्धकथा ४५९,४६० पृ० )
२८ प्रस्तावना
परमार्थतस्त्विदमेव प्रतीयते यद् बाणगद्येषु सूक्ष्मनिरीक्षणशक्तिः चमत्कृतवर्णनप्रणाली, आश्चर्य-शब्दशालिस्तथा कल्पनाप्रसूतालौकिकार्थानामुद्भावना विशेषरूपेणोपलब्धा भवतीति। एतन्महानुभाव-गद्ये चैतादृशः प्रभावस्तथा प्रवाहो विद्यते यत्तदनुकरणकर्तृकविद्वारा भूरिशः कृतेऽपि गरीयसि प्रयत्ने तद्गद्ये तादृशश्चमत्कारो नोत्पन्नः। अत एव स्वेतरद्रसभावयुक्तायाः कवितायाः समक्षेऽन्यकवीनां रचना केवलं चापल्यमेव जनयतीति त्रिलोचनकवेः स्पष्टं समुद्घोषः—
'हृदि लग्नेन वाणेन यन्मन्दोऽपि पदक्रमः।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम्॥'
सामाजिकी स्थितिः
कादम्बर्यां वेशविन्यासो विचित्र एव लभ्यते। अत्र भूपतेः शूद्रकस्य वर्णनेनावगम्यते यत् राजापि केवलं विमंस्थूलप्रायं शुभ्रवस्त्रं मूर्ध्नि वेष्टयति। अङ्गे च केवलमुत्तरीयं स्कन्धयोर्धारयति। यतोऽङ्गरागः शरीरे विलिप्यमानः स्पष्टं प्रतीयते। समस्तानामेव पात्राणां वर्णनेऽङ्गरागस्यात्याधिक्यम्, वसनस्य च वैरल्पम्। कादम्बरीप्रेषितः केयूरकाभिधानो वीणावाहकः केवलमधोवस्त्रमेव धारयति नोत्तरीयमपि।*** 'अधरवास एव केवलं वसानिन' इत्यनेन (कादम्बरी-पूर्वार्धम्)
वेशविन्यासादिषु वैचित्र्येऽपि भूयस्यः सामाजिकप्रथा इदानीन्तन इव तदानीमप्यासन्। होलिकायां विविधोपद्रवाः विरूपरूपक (स्वाँग) निःसरणादिप्रथा यथा वर्त्तमानकाले तथा बाणकालेऽप्यासीदिति चित्रम्।
द्रविडधार्मिकपरिचये यथा—
'सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन।
(कादम्बरी-पूर्वार्धम्-६४५ पृ०)
एवमादयस्तत्सामयिक्यो बह्वयो घटनाः संसूचिता ह्यस्मिन् ग्रन्थे, यासामनुसन्धानेनाधिकतरमैतिहासिकं सामाजिकं च तथ्यमवगतं भवति। परन्तु प्रस्तावनायां निरतिशयो विस्तरः स्यादिति वर्णिका ('बानगी') मात्रमिहोपन्यस्तमिति सुधीभिराकलनीयम्।
नायकादिनिरूपणम्
इह हि अनुकूलो धीरोदात्तश्चन्द्रापीडो नायकः। तथा च लक्षणम्—
'अनुकूल एकनिरतः।'
'अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः॥' (सा० द० ३ प०)
नायिका कन्या (परकीया) मुग्धा कादम्बरी। यथा—
'कन्या त्वजातोपयमा सलज्जा नवयौवना।'
'परकीया द्विधा प्रोक्ता परोढा कन्यका तथा॥'
'प्रथमावतीर्णयौवनमदनविकारा रतौ वामा।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा॥' (सा० द० ३ प०)
प्रस्तावना
२९
परिणयानन्तरं स्वकीया मध्यापि च नायिका, किन्तु (उत्तरार्द्धे) तत्प्रसङ्गोऽप्यल्प एव। एतावेव नायिकानायकावालम्बनविभावौ। इन्दु-चन्दनान्योऽन्योक्त्यादय उद्दीपनविभावाः, परस्परचक्षुरादिक्रिया अनुभावाः, निर्वेदप्रभृतयो व्यभिचारिभावाः, रतिः स्थायी।
विप्रलम्भशृङ्गारो मुख्योऽङ्गी रसः। तत्र पूर्वार्धे, उत्तरार्धस्य कियदंशे च पूर्वरागाभिधः। उत्तरार्धशेषे तु करुणविप्रलम्भाभिधः। सम्भोगशृङ्गारोऽप्यस्ति रसः, किन्तु परिणयानन्तरं केवलं तस्य सूचनमेव। एषां साहित्यदर्पण ३ परिच्छेदगतलक्षणानि यथा—
'आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्।' 'उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये। आलम्बनस्य चेष्टाद्या देशकालादयस्तथा॥' 'उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भावं प्रकाशयन्। लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः॥' 'विशेषेणाभिमुख्येन चरणाद् व्यभिचारिणः। स्थायिन्युन्मग्ननिर्मग्नाः..........................।' 'रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितम्।' 'यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ।' 'श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः। दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते॥' 'यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये। विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः॥'
अङ्गतया हास्यादयोऽन्येऽपि रसाः सन्ति।
आधिक्येनात्र माधुर्यं गुणाः। यथा—
'चित्तद्रवीभावमयो ह्लादो माधुर्यमुच्यते।
सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात्॥'
प्रसादगुणोऽप्यधिकस्थले। रीतिरत्र पाञ्चाली बाहुल्येन। यथा—
'...............................वर्णैः शेषैः पुनर्द्वयो।'
(वैदर्भीगौडीययोः परिगृहीतेभ्यो वर्णैः शेषैरित्यभिप्रायः)।
'समस्तपञ्चषपदो बन्धः पाञ्चालिका मता।'
अन्या अपि रीतयोऽल्पाधिकभावेन यथास्थानमुपलभ्यन्ते, किन्तु मुख्यं ताः। गद्यस्वरूपादिकं तु पूर्वमेव विवेचितं १, २ पृष्ठप्रस्तावनायाम्।
एतेषां यथासम्भवमेकत्र सौकर्याय श्लोकसंग्रहो यथा—
'चन्द्रापीडोऽनुकूलः सकलगुणधरो नायकोऽस्मिन्नुदात्तो-
नेत्री कन्याऽन्यदीया मृदुलललिततनुर्मुग्धकादम्बरी च।
पाञ्चाली नाम रीतिर्विलसति बहुला विप्रलम्भो रसोऽङ्गी
माधुर्याख्यो गुणो वा कविमुकुटमणेः काव्ययोरन्त्यमेतत्'॥१
१. छन्द सोऽयं महामहोपाध्याय-हरिदाससिद्धान्तवागीशभट्टाचार्यटीकाभूमिकाया उद्धृतः।
२० प्रस्तावना
कादम्बरीटीका
अस्य ग्रन्थरत्नस्य प्राचीना अर्वाचीनाश्च बह्वयष्टीकाः साम्प्रतं विलसन्ति तत्र—
(१) श्री भानुचन्द्रगणि-तच्छिष्य-सिद्धचन्द्रगणियमहोदयाभ्यां निर्मिता टीका मोगेलसम्राजोऽकबरस्य समये निरमीयत । यतो हीमौ अकबरसम्राजा सम्मानिताविति ताभ्यामेव पुष्पिकायां निजकरकमलेन लिखितम् । गुरवे भानुचन्द्रगणिने सम्राजा महोपाध्यायपदमर्पितम् । अनेन महाभागेन हि 'शत्रुञ्जय'-करो मोचितः शिष्याय सिद्धचन्द्रगणिने सम्राजा 'पुण्यदमा' इत्युपपदेन विभूषितः । सेयं टीका प्रतिपदपर्यायप्रकटिताऽपि विद्वद्भ्यो न रोचते, प्रत्युत यत्र तत्रारुन्तुदा । मूलपदार्थस्फोरणायैव या समर्था सैव सर्वमान्या विद्वत्समाजे, परमत्र 'इन्द्रगोपैः ( वर्षाकीटैः )' इत्यस्य टीका 'अग्निरजोभिः' इति । एवं निगहः = सन्दुकः, 'मदनः जराभीरुः' इत्यादिरूपेण विहिता टीका नोपकारायेति धीधना गवेषकाः प्रतिपादयन्ति ।
(२) 'वदूदेश्वर रामचन्द्रकाले' महाशयेन विरचिता टीका । इयं हि मूलार्थस्फोरणेऽतिविशदा विस्तृता च । अन्ते आङ्गलभाषायां टिप्पणीसंयुता, तेनास्य ग्रन्थस्य महत्त्वमत्यधिकं सञ्जातम् ।
(३) 'जीवानन्दविद्यासागर'-महाशयनिर्मिता सरला भावानुकूला टीका, अनयाऽपि सहायता जाता मन्दमतीनामित्यत्र न सन्देहः । परं सर्वथा छात्रमनोऽनुकूला नैवेति तद्विदो जानन्ति।
(४) महामहोपाध्याय-'हरिदास-सिद्धान्त-वागीश' विहिता 'कल्पलता'भिधाना सर्वतोऽभिनवा छात्रहितैषिणी विद्वन्मनोहारिणी विवृतिः स्वल्पेनैव समयेन परां कीर्तिराशिं प्रतिदिशं विस्तारयामास ।
अनुवादः
(१) मिसिरिडिहकृतोऽनुवादः आङ्गलभाषायाम् । यद्यप्यत्र बहूनि वर्णनानि परित्यक्तानि, कानिचिच्चातिसंक्षिप्तीकृतानि सन्ति, तथापि महता परिश्रमेणायमनुवादो विहितः । तत्र कियतामेव वाक्यानां शब्दानाञ्चातिरमणीयोऽर्थः प्रतिपादितः, एवं सत्यपि कियन्ति स्थलानि तथैव सन्ति येषां विस्तृतं व्याख्यानमत्यावश्यकं प्रतीयते ।
(२) म० म० 'हरिदाससिद्धान्तवागीश' कृतो भाषानुवादो वङ्गभाषायाम् । अनेन चैतद्ग्रन्थेऽतिसौलभ्यं सञ्जातम् ।
(३) श्रीऋषीश्वरनाथभट्टकृतोऽनुवादो महता परिश्रमेण सञ्जातः ।
अन्यसंस्करणम्
(१) नोहम्वोस्थराजकीयसंस्कृतग्रन्थमालायां-डाक्टर-'पिटर्सन' महाशयेन संशोधिताङ्गलभाषा-टिप्पणीयुता चावृत्तिः । तत्रत्यातिविस्तृता टिप्पणी गवेषणापूर्णा । विद्वांसो ह्येतत्कृतपाठभेदं भूरिभूरिशः प्रशंसयामासुः । पाठभेदोपरि विशिष्टं ध्यानमाकृष्टमेतन्महानुभावस्य ।
(२) पुण्यपत्तन ( पूनानंगर ) स्थग्रन्थमालातश्चायं ग्रन्थः 'काने'महाशयद्वारा विशेषरूपेण परिच्छेद-विभागसहितोऽतिस्पष्टरूपेण संस्कृतः । एतेनावधार्यते यत्तदावृत्तिप्रकाशनानन्तरं कादम्बर्याः यावन्ति संस्करणानि निःसृतानि तेषां सम्पादका नूनमेव ततः सहायतामवापुरिति ।
प्रस्तुतसंस्करणम्
तत्र 'काने'-'पिटर्सन' महोदयद्वारा संस्कृते यावन्तः परिच्छेदा विलसन्ति तान् यथामति विविच्यान्यांशैस्तदुपयोगिग्रन्थानाकलय्य समुचितो ग्रन्थांशः पाठभेदश्च संस्थापितः । विरामचिह्नादिसंयोजनं यावच्छक्यं विहितम्, तथा सामासिकशब्दानां पङ्क्त्यन्ते विश्लेषपद्धतिश्च यथा वचनसौकर्यमर्थावबोधसौ-लभ्यञ्च भवेत्तथा विहिता । सम्पादितेऽपि 'चन्द्रकला' संस्कृतव्याख्यया विषयस्य शब्दस्य चातिकाठिन्य-
प्रस्तावना
३१
मनुभूय ‘विद्योतिनी' नामिकया राष्ट्रपदनियुक्तया हिन्दीभाषयाऽप्यनूदितः। प्रस्तावनान्ते च सौकर्येणार्या-वबोधनाय हिन्दीभाषयैव कादम्बरीसमीक्षोपनिबद्धा तथा तत्सारोऽप्युपनिबद्धः।
अत्रेदमवधेयम्—कस्याप्यनुवादस्य भागत्रयं भवितुमर्हति । यथा—उपाख्यानानुवादः, भावानुवादः, भाषानुवादश्चेति । तत्रोपाख्यानानुवादे ह्यनुवादको मूलाक्षरमगणयित्वैव स्वान्वयेण प्रचलतीति सर्वापेक्षया सुगमः सः, किन्तु तथाविधेनानुवादेन ग्रन्थार्थकरणे चोपकारस्तादृशो न भवति यादृशोऽभिलषितः। एतदपेक्षया मौलिकभावमादाय प्रवृत्तो भावानुवादो मूलार्थवोधने किञ्चित्साहाय्यं सम्पादयति । भाषानुवादो हि मूलभावस्य भाषायाश्च द्वयोरपि पूर्णरूपेणाधीनीभूय एव मूलार्थसाधुस्फोरकोऽनुवादककृते निरतिशयकाठिन्यं जनयति । तत्राप्येतद्ग्रन्थस्यात्यधिकक्लिष्टत्वस्य सर्वानुभवसिद्धत्वेन तस्य भाषानुवादविधानं न तादृशं सरलमिति विवेचकानां पुरतोऽतिरोहितमेव । अतोऽत्र केवलं साहसं विधायैवैतत्सम्पादयितुं प्रवृत्तोऽहम्, परन्तु कियत्साफल्यं सञ्जातं तत्र प्रेक्षकाः सहृदया एव प्रमाणम् ।
विशेषतो वक्तव्यमिदमेव यत्—'एकानुपूर्वीकवाचकवाच्यत्वरूपं'-सामान्यधर्ममादाय ग्रन्थकारेण सर्वत्र पूर्णोपमाः सुसज्जीकृताः। यासां संस्कृतव्याख्यानं तु विशदरूपेण कथञ्चिद् भवत्यपि, किन्तु तादृशस्थले भाषानुवादकरणे महाक्लेशः सञ्जायते । दिङ्मात्रं यथा—'उषानिरुद्धसमागममिव । चित्रलेखादर्शित-विचित्र-सकल-त्रिभुवनाकारम्' (का० पू० २७६ पृ०) एतस्यानुवादो ह्येवमपि भवितुमर्हति यत्—
'उषा और अनिरुद्धके समागमके समान चित्रलेखोंने दिखलाया गया है विचित्र समस्त त्रिभुवनका स्वरूप जहाँ पर ऐसा वह राजभवन था।'
किन्त्वेतादृशानुवादकरणे सादृश्यं न तिष्ठति तथानुवादोऽप्यसम्पूर्ण एव तिष्ठति, अतोऽगत्यैवमनुवादो विधीयते यत्—
'उषा अनिरुद्ध के समागममें जिस प्रकार उषाकी सखी चित्रलेखाने समस्त त्रिभुवनके युवक पुरुषोंकी आकृतिका चित्र खींचकर उषाको दिखाया था, उस राजभवनमें भी उसी प्रकार चित्रकारों द्वारा समस्त त्रिभुवनका सभी पदार्थोंके अनेक प्रकारकी आकृतिका चित्र दीवार पर खींचकर लोगोंको दिखलाया गया था।'
अत्र ह्येवंविधानुवादं विलोक्य साधारणपुरुष एवानुवादकं दूषयिष्यति, किन्तु विवेचकपाठका हृदयेन सानन्दं नूनं जिघृक्षिष्यन्तीति द्रढीयान् मे विश्वासः । कादम्बर्यां पूर्णोपमाया अनेकस्थलेषु विद्यमानत्वात् तत्र अत्रैवंविधा एवानुवादाः सञ्जाताः। बहुषु स्थलेषु संस्कृतटीकया साधुस्फोरणे कृतेऽपि यत्र भाषानुवादे कोऽप्युपायो न लक्षितस्तत्र भावानुवाद एव गृहीतः। एतद्ग्रन्थकृतपूर्वव्याख्यातॄणामनुवादकर्तॄणाञ्च साहाय्येनैतत्सम्पादनं मया कृतमिति तेषामानृण्यं शिरसा धारयामि।
एतत्सर्वं गीर्वाणवाग्वल्लिललितालवालकल्पानां धर्मनयविनयमनस्वितादिगुणविभूषितानां देशकुलजातिशास्त्राचारादिसमस्तसनातनधर्ममर्यादापालनतत्पराणां देशप्रसिद्धवङ्गकुलकमलदिवाकराणां दिगंतयशसां काव्यकाननपञ्चाननानामस्मत्साहित्यशास्त्रगुरुवराणां कविचक्रवर्त्ति-श्री १००८ ताराचरणभट्टाचार्य-महाशयानां स्वदेशीय—व्या० सा० तीर्थ-विद्यालङ्कारानेकशिष्योपशिष्ययुतपण्डितप्रवर-बेगूसरायस्थ-'श्रीसरस्वती विद्यालय'-प्रधानाध्यापक-श्रीगेनालालझाजी-गुरुवराणाञ्च द्वयोदयमधुरदृशा सम्पन्नम् ।
ग्रन्थस्यास्य यत्र तत्र मूलपाठसंशोधने पाठान्तरविधाने चाहं प्रियसृहद्वर-काशीस्थ-'राजकीय संस्कृतमहाविद्यालय'-न्यायाध्यापक-न्याय-वेदान्ताचार्य-काव्य-दर्शनतीर्थ-श्रीसुरेन्द्रनाथद्विवेदि महाभागमत्रत्यनेपालदेशीय 'हरिहर-संस्कृत-विद्यालय' प्रधानाध्यापक-व्या० सा० सां० पुराणाचार्य-श्रीकृष्णमणित्रिपाठि महाभागं च मुहुर्मुहुः स्मरामि, अभिनन्दामि च तदुपकारसहस्रमजस्रम् ।
सम्पादने चास्मिन् परोपकारबद्धपरिकर सुरभारती संरक्षणतत्परनिजपितृस्मारक-'श्रीभवानीशङ्कर-संस्कृतमहाविद्यालय'सञ्चालक-काशीविश्वनाथमन्दिराध्यक्ष-श्रीरामशङ्करत्रिपाठिमहाभागानाम्, भूमिकालेखनकार्ये विविधसहायकपुस्तकप्रापकाणां विविधानवद्यविद्याविभूषित-विद्याभास्कर-शास्त्राचार्य-श्रीदेवीनारायणप्राड्विवाक (एडवोकेट) महाभागानाञ्चोपकृतिसहस्रमजस्रमभिनन्दामि।
३२
प्रस्तावना
एवमेव यत्र तत्र मूलसंशोधनादिसाहाय्ये मिथिलास्थताराचन्द्राङ्काहर्तिङ्गलकुलचन्द्रिक-सोदरेश्वरव्याकरणाचार्य-पं० श्रीरामचन्द्रझा-महोदयैरखिललक्ष्यसम्मतनिरुक्ताद्यलङ्कार-चार्य-पं० श्रीरत्नेश्वरझा महोदयैश्च महानुपकारः कृतस्तदर्थं मयैताभ्यं सर्वथा नितरां महर्णं धार्यानि ।
सर्वथा दुर्भिक्षनिन्दितेऽपि काले कृतपरिश्रमैः चौखम्बा-संस्कृतपुस्तकालयाध्यक्षैः गोलोकवासि-श्रेष्ठि-श्रीहरिदासगुप्तारमज-श्रीजयकृष्णदासगुप्तमहोदयैः विस्तृतकलेवरं ग्रन्थरत्नं संस्कृत-हिन्दीपुस्तकनिर्मा-णार्थ यावत् साध्यमुद्रितं प्रकाशयित्वा राष्ट्रस्य महानुपकारः कृतोऽतस्ते सर्वथा धन्यवादार्हाः ।
यद्यपि 'आत्मनः स्निग्धेषु चक्षुषां नान्तः कुण्ठेषु दृष्टयः' इति न्यायात्स्वहस्तलिखितपुस्तकानां स्ववि-रचितग्रन्थानां दोषद्दष्टिनैव जायते, तथापि स्वनेत्रदूषणेनान्यलोचनरूपेण कस्यचिद्गुणवत्तां न मन्तव्यितु-मर्हतीत्येतद्बृहत्पुस्तकस्थीनवाग्मयीचीदन्तादिषारणानां विमृश्यन्वाचकाः सहृदया विद्वांस एव प्रमा-णम् । अपि च—
'भर्तृस्नेहविदुर्दर्शनेहिने नन नामेऽस्मि दोषैर्हरः दुर्हिशन्तेऽपि ।'
इति न्यायात् प्रमादादणोः स्वाभाविकत्वाद् नीरक्षारदोषोद्वाद् यदत्र स्खलनं सञ्जातं तत् दयावान् विद्वद्गण दूयोद्दयसमुद्धत्या निरीक्षमाणाः संशोध्य सद्ग्रन्थं गनिष्यन्ते नास्तिति मत्वाऽग्रयं निवेदयति—
'तद्विद्वांसोऽनुगृह्णन्तु चित्तदोषैः प्रसादिनिः सन्तः प्रणयवाक्यानि गृह्णन्ति ह्यनसूयवः ॥ न चात्रातीव कर्त्तव्यं दोषद्दष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तच्चित्तानां प्रकाशते ॥ निर्दोषत्वैकवाक्यत्वं क वा लोकस्य दृश्यते । सापवादा यतः केचिन्मोक्षस्वर्गादपि क्वचित् ॥'
इत्यभियुक्तोक्तं सदा स्मरणीयं सुधीवृन्दैः । व्याख्यद्ऋचे समोदार टिप्यद्रापि केनचित् ।
मातृनवमी
वि० सं० २०१०
२९ धर्मकूप, काशी
सम्पादक—
कृष्णमोहनठाकुरः
संक्षिप्त-कथासार
कथासरित्सागरीय-मकरन्दिकोपाख्यान
काञ्चनपुरीमें 'सुमना' नामक एक बड़ा प्रतापी राजा राज्य करता था। किसी समय वह अपने दरबारमें बैठा था कि चाण्डालाधिपकी कन्या 'मुक्तालता' एक शुक (तोते) को पिजड़े में रखकर अपने भाई 'वीरप्रभ'के साथ राजा से मिलने आई । द्वारपाल द्वारा अनुमति प्राप्त होने पर मुक्तालताने सभामें उपस्थित हो राजाका अभिवादन कर निवेदन किया—
महाराज ! यह 'शास्त्रगञ्ज' नामका शुक समस्त कलाओं और विद्याओं में निपुण है तथा वेदोंका मार्मिक अभिज्ञ है। आप इसे स्वीकार कीजिए, यों कह कर उसने द्वारपाल को वह शुक दे दिया । द्वारपाल उसे राजा के समीप ले गया । शुकने वहाँ निम्नलिखित श्लोक पढ़ा—
'राजन् ! युष्मदिदं सदैव यदयं देवस्य संधुक्ष्यते धूमश्याममुखो द्विषद्विरहिणीनिःश्वासवातोद्गमैः । एतत्त्वद्भुतमेव यत्परिमवाहाष्पाम्बुपूर्णाक्षैरासां प्रज्वलतीह दिक्षु दशसु प्राज्यः प्रतापानलः॥'
पुनः उसने कहा—'राजन् ! आदेश दीजिए किस शास्त्रका कौनसा प्रमेय कहूँ।'
राजा अत्यन्त आश्चर्यचकित हुआ । मन्त्रीने कहा—'पृथिवीनाथ ! प्रतीत होता है कि पूर्व जन्मके किसी शापवश तिर्यग्योनिमें ये कोई मुनि हैं, तपःप्रभावसे इन्हें पूर्वजन्मके समस्त शास्त्रों का स्मरण है।'
राजाने शुकसे पूछा—तुम्हारा जन्म कहाँ हुआ ? तिर्यग्योनिमें तुम्हें शास्त्रज्ञान कैसे हुआ ? आखिर तुम कौन हो ? अपना पूरा वृत्तान्त सुनाओ ।'
शुककी आँखें डबडबा गयीं। उसने कहा—'महाराज ! यद्यपि मेरी दशा कहनेके योग्य नहीं, तथापि आपका आदेश शिरोधार्य कर कहता हूँ। सुनिए :
'हिमालयके निकट अतिविशाल वृक्ष पर एक शुक अपनी स्त्री के साथ कोटर बनाकर रहता था। मैं उसीका पुत्र हूँ। उत्पन्न होते ही मेरी माता चल बसी। वृद्ध पिता अत्यधिक खिन्न हुए। वे आस-पास रहते वाले शुकों के जूठे फलों को स्वयं खाते और मुझे भी खिलाते। अपने पंखों की ओटमें रख वे मेरा पालन-पोषण करते।
एक समय वहाँ बहुत से शवर (भील) शिकार खेलने आए। दिन भर अनेक पशुपक्षियोंको मारते रहे। सायङ्काल एक वृद्धशबर किसी पशु-पक्षीको न पाकर मेरे वृक्षके समीप आया। पक्षियोंका शब्द सुन कर वह उस पर चढ़ा और शुकों तथा अन्य पक्षियोंको कोटरोंमें से निकल मार-मार कर पृथिवी पर पटकने लगा। उसे समीप आता देख मैं भयभीत हो पिताके पंखोंमें छिप गया । इतनेमें उसने मेरे कोटरमें भी हाथ डाल मेरे पिता को निकाल लिया और उन्हें मारकर पृथिवी पर पटक दिया। पिताके पंखोंमें चिपका मैं भी उनके साथ ही पृथिवी पर गिर पड़ा और पंख से निकल कर वहीं गिरे सूखे पत्तोंमें आत्मरक्षार्थ घुस गया ।
शबर समस्त पक्षियों को मार वृक्ष से नीचे उतरा। वहीं उसने कुछ पक्षियोंको अग्नि में भून खा डाला और शेष पक्षियों को लेकर अपने साथियोंके साथ चला गया ।
उसके चले जाने पर मैं निर्भीक तो अवश्य हो गया किन्तु वह रात्रि अत्यधिक कष्टमें बीती । प्रातः सूर्योदय होने पर प्याससे व्यग्र होनेके कारण अपने पंखोंको फैला मैं समीपवर्ती पद्मसर नामक सरोवरके निकट धीरे-धीरे गया। वहाँ मरीचि मुनि स्नान करने के लिए आए थे। तृषित देख उन्होंने मेरे मुंहमें जल की बूँदें डालीं और मुझे दोनेमें रखकर अपने आश्रम ले गये । वहाँ मुझे देख महर्षि पुलस्त्यजी के मुख पर मुस्कुराहट छा गई। उपस्थित अन्य तपस्वियोंने उनसे पूछा—'भगवन् ! इस शुक को देख आप क्यों मुस्कराये ?'
५ का० भू०