भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ
६०८कादम्बरी-[ कथायाम्-

निपत्तित-शशिप्रतिमाभर-गुरुणीव कृच्छ्रादुत्क्षिपन्ती, लीला-मन्थर-गमन-पटूनि पदानि शय्यागृहमगात् । शयन-निक्षिप्त-गात्रयष्टिश्च, ततः प्रभृति प्रबलया शिरोवेदनया विचेष्टमाना, दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना केनाप्याधिना^२ मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्द्धमनिमीलितलोचना दुःखदुःखेन क्षणदामनैषीत् । उषसि च मामाहूय देवस्य वार्त्ताव्यतिकरोपलम्भाय सोपालम्भमादिष्टवती' ।

^६चन्द्रापीडस्तदाकर्ण्य जिगमिषुः 'अश्वोऽश्व' इति वदन्^५ भवनान्निर्ययौ । आरोपितपर्याणञ्च त्वरित-तुरग-परिचारकोपनीतमिन्द्रायुधमारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे

निर्मलेषु नखेषु पादयोरेव नखरेषु निपतिता याः शशिप्रतिमाः चन्द्रप्रतिविम्बानि तासां भरेण गुरुणीव भारवन्तीव, अन्यथा क्लेशादुत्क्षेपणं न युज्यत इत्याशयः । लीला विलासः तया मन्थरगमने मन्दसञ्चरणे पटूनि कुशलानि, पदानि चरणन्यासानि, शय्यागृहं शयनीयभवनम् अगात् अगच्छत् । बहुवचनमौपचारिकम्, न्यासानामाधिक्यादित्यवगन्तव्यम् ।

इह 'चन्द्रकान्तमयीव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः, 'चन्द्रविम्बप्रवेशभयेनेव' इत्यत्र हेतूत्प्रेक्षालङ्कारः, 'गुरूणीव' इत्यत्र गुणोत्प्रेक्षालङ्कारः ।

शयनेति । अपि च, शयने तल्पे निक्षिप्ता स्थापिता गात्रयष्टिः शरीरयष्टिर्यया सा । ततः प्रभृति तत्कालादारभ्य प्रबलया तीव्रया शिरोवेदनया शिरःपीडया विचेष्टमाना व्याकुलीक्रियमाणा, दाहः सन्तापस्तद्रूपिणा दारुणेन भयङ्करेण ज्वरेण तापेन अभिभूयमाना परामूयमाना केनापि अनिर्वचनीयेन आधिना मानसव्यथया, मङ्गलप्रदीपैः शयनीयभवनस्थायिभिरिति शेषः । कुमुदाकारैः कैरवसदृशैश्चक्रवाकै रथाङ्गैरनिमीलितलोचना असुकुलितेक्षणा सती । राजन्यां दीपकानां स्वत एव प्रकाशात् कैरवाणां चन्द्रोद्गमेन प्रस्फुटनात् रथाङ्गानाञ्च विरहवशादमुद्रितनयनत्वमित्याशयः । दुःखदुःखेन गुरुतरक्लेशेने क्षणदां निशाम् अनैषीत् क्षपितवती ।

इह प्रदीपकमुदयोरमुद्रितनयनत्वं प्रकाशमात्रं कादम्बरीरथाङ्गयोस्तु लोचननिमीलनाभाव इति भेदेऽप्यभेदमूलातिशयोक्तिरलङ्कारः तन्मूला च सहोक्तिः ।

उषसीति । उषसि प्रातःकाले । आहूय आह्वानं कृत्वा, देवस्य भवतः, वार्त्ताव्यतिकरोपलम्भाय वृत्तान्तव्यापारप्राप्तये समाचाराकर्णनायेत्यर्थः । सोपालम्भम् उचितज्ञोऽपि सम्भावितमहोदारस्यातिये राजकुमारस्य कुशलप्रवृत्तिमानेतुं न व्रजसीति सतिरस्कारम् आदिष्टवती कथितवती ।

चन्द्रेति । तदाकर्ण्य तच्छ्रुत्वा जिगमिषुः गन्तुमिच्छुः । भवनान्निर्ययौ गृहान्निर्जगाम । आरोपितं यथास्थानं स्थापितं पर्याणं पल्ययनं यस्य तम्, त्वरित्रेन शीघ्रण तुरगपरिचारकेण अश्वपालकेन उपनींतम् उपस्थापितम् । पश्चात् आत्मन् एव पश्चाद्भागे आरोप्य उपवेशनं कारयित्वा । स्कन्धावारे सैन्यवेशे । अशेषं

भारी हुए चरणयुगलको महाकष्टसे उठाकर, विलासयुक्त मन्द गतिसे चलकर शयनगृहमें गई और तत्रस्थ शय्याके ऊपर लेट गई । तबसे लेकर ही अत्यन्त प्रबल शिरोवेदनासे छटपटाने लगीं और दारुण दाह-ज्वरसे आक्रान्त हो गईं । उसने सब रात उन्होंने अनिर्वचनीय मनःपीडासे, माङ्गलिक-प्रदीप, कुमुद-समूह और चक्रवाकगणके साथ ही अनुद्रित (खुले) नयनसे अत्यन्त दुःखमें बिताई । फिर प्रातःकाल मुझे बुलाकर, (तुम मेरे विवेचक प्रियनृत्य होकर भी मेरे ही अतिथिमूत राजकुमारकी इन समय भी सुखसे पहुँचनेकी वार्ताको लानेके लिए नहीं जाते हो, इस प्रकारका) तिरस्कार (ताना दे) कर, आपके वृत्तान्तको जाननेके लिए आदेश दिया ।'

इस कथाको सुनकर चन्द्रापीड जानेकी इच्छासे—'घोड़ा घोड़ा, [लाओ]' इस प्रकार कहता भवनसे बाहर निकला और किसी अश्वसंरक्षक (साईश) द्वारा शीघ्रतासे पल्ययन (जीन) कसकर लाये गये इन्द्रायुध पर चढ़, पीछे पत्रलेखाको बैठाकर, शिविरपर वैशम्पायनको नियत कर, समस्त परिजनोंको साथ आनेसे निषेध


१. क्षिप्त । २. व्याधिना । ३. उपालम्भाय । ४. क्वचित् 'अद्य' इत्यादिकः पाठ उपलभ्यते । ५. वदन्-पूर्वदृष्टवमक्रुतचेताः । ६. कचित् 'तुरग' इति नोपलभ्यते ।

चन्द्रापीडस्य पुनः प्रस्थानव०१०७ ] चन्द्रकला-विद्योतिनीसहिता । ६०६

स्थापयित्वा^१ वैशम्पायनम्, अशेषं परिजनं^२ निवर्त्य च अन्यतुरगारूढेनैव केयूरकेणानुगम्य- मानो हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार । अवतीर्य च^३ द्वारपालापिंत- तुरङ्गः कादम्बरी-प्रथम-दर्शन-कुतूहलिन्या च पत्रलेखया चानुगम्यमानः प्रविश्य 'क्व देवी कादम्बरी तिष्ठति' इति सम्मुखागतमन्यतमं वर्षवरम्^४ अप्राक्षीत् । कृतप्रणामेन च तेन 'देव ! मत्तमयूरस्य^५ क्रीडापर्वतकस्याधस्तात् कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते' इत्यावेदिते केयूरकेणोपदिश्यमानवर्त्मा प्रमदवनमध्येन गत्वा किञ्चिदध्वानम् , मरकतहरि- तानां कदलीवनानां^६ प्रभया शष्पीकृत्तरविकिरणं हरितायमानं दिवसं ददर्श । तेषाञ्च मध्ये निरन्तर-नलिनी-दलच्छन्नं हिमगृहमपश्यत् । तस्माच्च निष्पतन्तमाद्रांशुकच्छलेनाच्छोद-

समग्रं । निवर्त्य पश्चाद्व्याघुट्य । अन्यतुरगारूढेनैव इतराश्वकृतारोहणेनैव । अनुगम्यमानः अनुव्रज्यमानः । आसाद्य प्राप्य । अवततार उत्तीर्णवान् । द्वारपालस्य अर्पितः तुरङ्ग इन्द्रायुधो येन सः । कादम्बर्याः प्रथमदर्शने आद्यावलोकने कुतूहलं कौतुकमस्या अस्तीति तया पत्रलेखया, चकारात् केयूरकेण चानुगम्य- मानः । संमुखागतं समक्षोपस्थितम् । वर्षवरं क्लीवम् अप्राक्षीत् पृष्टवान् । अन्तःपुरप्रवेशे पूर्वमेव महाश्वे- ताद्वारेण राज्ञोऽनुमतिप्रदानत्वादन्गुमोदनेन च प्रविशन्तं चन्द्रापीडं न कोऽपि प्रतिपेधयामासेत्यवधेयम् ।

कृतेति । कृतो विहितः प्रणामो नमस्कारो येन तेन । मत्ताः शीवा मयूराः कलापिनो यत्र तस्य । अधस्तात् अधोभागवर्त्तिनि, कमलवनेन पङ्कजविपिनेन पूर्णा दीर्घिका वापी तस्याः तीरे तटे विरचितं निर्मितं हिमगृहं सलिलोद्गारयन्त्रविद्यमानत्वाद् शिशिरं सद्म, अध्यास्ते अधितिष्ठति 'अधिशीङ्स्थासां कर्म' इत्य- नेनाधारस्य गृहस्य कर्मसंज्ञा बोध्या । प्रमदवनेन उद्यानवाटिकया । मरकतवत् अश्मगर्भंवत् हरिता हरिद्वर्णास्तेषाम् , कदलीवनानां रम्भाकाननानां प्रभया दीप्त्या शष्पीकृता अभिनवतृणवदवलोक्यमानी- कृता रविकरणाः सूर्यरश्मयो यस्मिन् तम् , अतएव हरितायमानं नीलायमानं दिवसं दिनं ददर्श अव- लोकयामास । इह शष्पीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः, 'शष्पीकृता' इत्यत्र लुप्तोपमा चेत्युभयोः सङ्करः ।

तेषामिति । तेषां कदलीवनानाम् निरन्तरैः अविरलैः, नलिनीदलैः उपनीतैः कमलपत्रैः, छन्नम् आच्छादितं हिमगृहं शीतलं वेश्म अपश्यत् दृष्टवान् ।

तस्मादिति । अपि च, तस्मात् हिमगृहात् निष्पतन्तं निःसरन्तम् , आद्रांशुकच्छलेन क्लिन्नवस्त्रव्या- जेन, अच्छोदस्य एतन्नामकसरोवरस्य जलेन सलिलेनेव संवीतम् आच्छादितशरीरम् । आद्रांशुकाच्छोद्- सलिलयोः श्वेतसादृश्यादित्याशयः । 'अच्छोदजलेनेव' इत्यत्र जात्युत्प्रेक्षा । इत आरभ्य द्वितीयाया एक- वचनान्तानि पदानि अग्रेतनस्य 'परिजनमद्राक्षीद्' इत्यत्र परिजनमित्यस्य विशेषणान्यवगन्तव्यानि ।

'(लौटा) कर दूसरे घोड़े पर चढ़कर पीछे-पीछे आते केयूरकके साथ हेमकूट-पर्वतकी ओर प्रस्थान किया। [क्रमशः चलते-चलते ] कादम्बरीके महलके द्वार पर उपस्थित होकर घोड़े परसे उतरा; उतर कर किसी द्वार पालके समीप घोड़ेको रख (सुपुर्द) कर, कादम्बरीको पहले देखनेके लिए कौतुकवती पत्रलेखा एवं केयूरकको पीछे कर, अन्दर जाकर, सम्मुखागत किसी नपुंसकसे पूछने लगा—'देवी कादम्बरी कहाँ हैं ?' उसने प्रणाम कर सूचित किया कि—'राजकुमार ! मत्त-मयूर-गण जहाँ रहते हैं, उस क्रीडा-पर्वतके नीचे कमल-वन-परिपूर्ण बावहीके तट पर एक शीतल-गृह निर्मित है, वहाँ पर ही देवी कादम्बरी विराजती हैं। इस प्रकार उसके सूचित करने पर केयूरकके बताए मार्गसे प्रमदोद्यानके मध्यमें होकर वह कुछ दूर गया था कि इतनेमें ही मरकतके समान हरिद्वर्ण कदलीवनके प्रभासे-नूतन तृणके समान—सूर्यके किरणोंसे समन्वित दिवस हरिद्वर्ण (हरासा) दीखने लगा और उनके मध्यमें कमलके पत्तोंसे निरन्तर आच्छादित (ढँके) हिम-गृहको उसने देखा । उसमेंसे बाहर निकलती हुई, शिशिर उपचारमें निपुण, कादम्बरीके शरीरको परिचर्या करनेवाली, अलङ्कार-रहित दासियोंको उसने देखा । वे आर्द्र वस्त्रके बहाने अच्छोद सरोवरके जलसे ही मानो आच्छादित की


१. संस्थापयित्वा । २. अशेषपरिजनम् । ३. अवततार तुरगात् । ४. क्वचिद् चकारो नास्ति । ५. वर्षधरम् । ६. नृत्त्यन्मयूरस्य । ७. कदल्यदलानाम् ।

६१० कादम्बरी- [ कथायाम्-

जलेनेव संवीतम्, बाहुलतताविधृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम्, आपाण्डुभि- श्चैकश्रवणाश्रयैस्ताटङ्कीकृतैः¹केतकीगर्भदलैरुपहसितदन्तपत्रम्, आलिखितचन्दनललाटिकानि मुखारविन्दानि बद्धसौभाग्यपदान्तीव² दधानम्, कृतचन्दनबिन्दुविशेषकांश्च दिवापि स्पर्श- लोभस्थितेन्दुप्रतिबिम्बानिव कपोलानुद्वहन्तम्³, अपहृताशेषशिरीषसौभाग्याभिः शैवलमञ्ज- रीभिः कृतकर्णपूरम्, कर्पूरधूलिधूसरेषु मलयज-रस-लव-लुलितेषु⁴ वकुलावलीवलयेषु⁵ स्तनेषु⁶ न्यस्तनलिनीपत्रप्रावरणम्, अनवरत-चन्दन-चर्चा-प्रणयनै⁷-पाण्डुरैः सन्ताप-रोष-मृदित-चन्द्र-

बाहुलतेति । अपि च, आभरणकैरिव रजताभूषणैरिव बाहुलताबिधृतैः भुजवल्लीस्थापितैः मृणाल- वलयैः विसकङ्कणैः धवलिताः श्वेतीकृताः, अवयवा अङ्गानि यस्य तम् इह श्रौतोपमा ।

आपाण्डु०ति । अपि च, आपाण्डुभिः अत्यन्तपाण्डुरैः, एकं श्रवणं श्रोत्रम् आश्रय आधारो येषां तः, ताटङ्कीकृतैः श्रवणालङ्कारीकृतैः केतक्याः पुष्पस्य गर्भदलैः आभ्यन्तरपत्रैः, उपहसितं निजरूपातिश- यात् परिहसितं दन्तपत्रं करिदर्शनरचितपत्रसदृशाभूषणं यस्य तम् । इह 'उपहसितम्' इत्यनेन साम्या- क्षेपादर्थोपमा ।

आलिखितेति । आलिखिताः चित्रिताः चन्दनस्य मलयजस्य ललाटिकाः तिलकविशेषा येषु तानि, अतएव बद्धानि रचितानि सौभाग्यपदानि स्वामिस्नेहव्यद्योतकत्वलक्षणानि येषु तानीव विद्यमानानि, मुखा- रविन्दानि वदनकमलानि दधानं विभ्राणम् । इह लुप्तोपमा क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

कृतचन्दनेति । कृता विहिताः चन्दनविन्दवो मलयजकणा एव विशेषकाः तिलकानि येषु तान्, अतएव दिवाऽपि, रात्रौ तु चन्द्रोद्गमात्प्रतीमाः सम्भवन्त्येव किन्तु चन्दनविन्दवस्तथा प्रतीयन्ते यथा स्पर्शलोभवशाद्दिनेऽपि चन्द्रस्य प्रतिबिम्बाः स्थिता इत्यर्थः । स्पर्शलोभेन स्पर्शतृष्णया स्थितानि विद्यमा नानि इन्दोः शशिनः प्रतिविम्बानि प्रतिच्छाया येषु तानिव विद्यमानान्, चन्दनविन्दुशशिप्रतिबिच्छायानां सादृश्यादित्याशयः । कपोलान् गण्डभागान् उद्वहन्तं धारयन्तम् । इह इन्दुप्रतिविम्बविद्यमानत्वोत्प्रेक्ष- णात् क्रियोत्प्रेक्षा ।

अपहृतेति । अपहृतानि दूरीकृतानि अशेषपाणि समग्राणि शिरीषस्य कुसुमस्य सौभाग्यानि शुभ्रत्व- मृदुत्वशिशिरत्वानि याभिस्ताभिः शैवालमञ्जरीभिः जलशुकवल्लरीभिः कृतकर्णपूरं विहितश्रवणा- लङ्कारम् । इहान्येनान्यसौभाग्यदूरीकरणासम्भवाद्धस्तुसम्बन्धोऽसम्भवान् सौभाग्यसाम्यमाक्षिपतीत्य सम्भम्वद्वस्तुसम्बन्धा निदर्शना । तदुक्तं दर्पणे—

'सम्भवन् वस्तुसम्बन्धोऽसम्भवन वापि कुत्रचित् । यत्र बिम्बानुबिम्बत्वं वोधयेत्सा निदर्शना ॥'

कर्पूरेति । कर्पूरस्य घनसारस्य धूलिभिः रजोभिः धूसरेषु ईषत्पाण्डुषु, मलयजरसचन्दनद्रवस्तस्य लवैर्विन्दुभिः लुलितेषु विच्छुरितेषु (एकीभूतेषु), तथा वकुलावलीनां वकुलपुष्पदाम्नां वलयानि मण्ड- लानि येषु तेषु, स्तनेषु वक्षोजेषु न्यस्तानि स्थापितानि नलिनीपत्राणां कमलिनीदलानां प्रावरणानि आच्छादनानि यस्य तम् ।

अनवरतेति । अनवरतं निरन्तरं चन्दनचर्चायाः मलयजविलेपनस्य प्रणयनेन सम्पादनेन पाण्डुराः श्वेतास्तैः, अतएव सन्तापेन उत्तेजकतया सन्तापोत्पादनेन यो रोषश्चन्द्रं प्रति कोपः तेन कारणेन मृदिताः

गई हों इस प्रकार दीखती थीं; आभूषणके समान भुज-लताओं पर धारण किए मृणाल-वलयोंसे उनके अङ्ग-प्रत्यङ्ग धवलवर्ण प्रतीत होते थे; उनके एक कानमें धारण किए हुये अच्छे धवलवर्णके केतकी-गर्भपत्रके किए हुए कर्ण भूषण गज-दन्त-पत्र निर्मित कर्णाल्ङ्कारकी शोभाकी भी हँसी करते थे; उनके मुखारविन्द पर सौभाग्य-सूचक चिह्नके समान चन्दन द्वारा किए हुए तिलक-विशेष लगे थे; कपोलदेशमें चन्दन-विन्दुके तिलक लगानेसे उनके स्पर्श-लोभसे ही मानों दिनमें भी चन्द्रका प्रतिबिम्ब वहाँ आकर वास करता है ऐसा प्रतीत होता था । समस्त शिरीष-पुष्पोंके सौन्दर्यको जिन्होंने अपहरण कर ली थी ऐसी शैवल-मञ्जरियोंके उन्होंने कर्णभूषण पहन रक्खे थे । कर्पूरकी रेणुसे धूसर रूप,- चन्दन-विन्दुसे परिपूर्ण, वकुल-कुसुम-मालाओंके वलयवाले स्तनों पर उन्होंने कमल-पत्ररूपी वस्त्र रख लिए थे; निरन्तर चन्दन लेपन करनेसे शुभ्रवर्ण हुए—सन्ताप और क्रोधसे निष्पिष्ट


१. तालङ्कीकृतैः ताडङ्कीकृतैः । २ ॰॰॰पदान्नीव । ३. कपोलफलकम् । ४. ललितेषु । ५. वकुलावलिषु, कुवलयावलिषु, ललितकुवलयेषु । ६. पयोधरेषु । ७ प्रणय ।

चन्द्रापीडस्य पुनः प्रत्यान० १०७ ] चन्द्रकला-विद्योतिनीसहिता । ६११

करैरिव करैः कल्पितमृणालदण्डानि बिसतन्तुमयानि चामराणि बिभ्राणम्, उन्नालैश्च कमलैः कुमुदैः कुवलयैः किसलयैः कदलीदलैः कमलिनीपलाशैः कुसुमस्तबकैश्चातपत्रीकृतैर्निवारितातपम्, जलदेवतानामिव समूहम्, वरुणश्रियामिव समूहम्, शरद्दामिव समाजम्, सरसीनामिव गोष्ठीबन्धनम्, शिशिरोपचारनिपुणं कादम्बर्याः शरीरपरिचारकं शरीरप्रायं परिजनमद्राक्षीत् । तेन च प्रणम्यमानः पादनखपतनभयादिव त्वरितापसृतेन दीयमानमार्गः, चन्दनपङ्ककृतवेदिकानां पुण्डरीककलिकाघटितघण्टिकानां विकसितसिन्दुवारकुसुममञ्जरीचाम-

पिष्टा ये चन्द्रस्य शशिनः करा रश्मयस्तैरिव, करैर्हस्तैः, कल्पितः कृतो मृणालं बिसमेव दण्डो येषां तानि, बिसतन्तुमयानि मृणालसूत्ररचितानि चामराणि बालव्यजनानि, बिभ्राणं 'दधानम् । '......चन्द्रकरैरिवे'त्यत्र जात्युत्प्रेक्षा ।

उन्नालैरिति । अपि च, उद्गतम् उपरि विद्यमानं नालं वृन्तं शाखादण्डश्चेति यथासम्भवं येषां तैः तादृशैः, कमलैः पङ्कजैः, कुमुदैः, कैरवैः, कुवलयैः नीलोत्पलैः, किसलयैः पल्लवैः, कदलीदलैः रम्भापत्रैः, कमलिनीपलाशैः पद्मिनीपत्रैः, कुसुमस्तबकैः पुष्पगुच्छैः, आतपत्रीकृतैः छत्रीकृतैः उत्तमाङ्गोपरिधृतैरित्यर्थः । निवारितो निषेधित आतपः सूर्यप्रकाशो यस्य तम् ।

जलेति । जलदेवतानां सलिलाधिष्ठात्रीणां समूहमिव वृन्दमिव, आर्द्रशरीरत्वादित्याशयः, इत्यमन्यत्रापि । वरुणस्य प्रचेतसः याः श्रियः सम्पतयः तासां समागमं सम्मेलनमिव प्रचेतसः सलिलाधिष्ठा-तृत्वात्तत्सम्पत्तीनामपि सलिलार्द्रशरीरत्वासम्भव इत्यभिप्रायः । शरदां घनात्ययर्तूनां समाजं समूहमिव । सरसीनां सरोवराणां गोष्ठीबन्धं परिपद्रचनामिव ।

इह 'समूहमिव' इत्यत्र जात्युत्प्रेक्षालङ्कारः, 'समागममिव' इत्यत्राप्युक्तारङ्कारः सम्मिलितवरुण-सम्पत्तिसमूहमिवेति विवक्षणात् । 'समाजमिव' इहाप्युक्तारङ्कारः, 'समागममिव' इहाप्युक्तारङ्कार एव परिगत्यसरसीनां समूहमिवेत्यभिप्रायोत् ।

शिशिरेति । शिशिरोपचारे शीतलक्रियायां निपुणः दक्षस्तम् । शरीरप्रायं वपुःसदृशं प्रियमित्यर्थः । अद्राक्षीत् अपश्यत् ।

तेनेति । तेन परिजनेन पादनखानां चन्द्रापीडचरणनखराणां पतनभयादिव मृदुलत्वात् निज-मस्तकखर्पणेन स्खलनत्रासादिव त्वरितं शीघ्रम् अपसृतेन केनापि प्रकारेण दूरं यातेन सता प्रणम्यमानो नमस्क्रियमाणो दीयमानमार्गश्च चन्द्रापीडः कदलीतोरणानां रम्भाबहिर्द्वाराणां तलेन प्रविश्य सर्वतः समन्तात् निसृष्टदृष्टिः अग्रेतनं सर्वं दृष्टवान् अन्याँश्चैवंप्रकारान् वीक्षमाणः सन् हिमगृहकस्य मध्यभाग-माससादेति सम्बन्धः । 'पतनभयादिव' इत्यत्र हेतूत्प्रेक्षा ।

इतः कदलीतोरणानि विशिनष्टि—चन्दनेति । चन्दनस्य मलयजस्य पङ्केन सवनद्रवेण कृता उल्लीकृता वेदिकाः परिष्कृतभूमयः ( बद्धतलभूमयः ) येषां तेषाम् ( तोरणानाम् ) । पुण्डरीकाणि सिताम्भोजानि तेषां कलिकाभिः कोरकैः घटिता रचिता घण्टिका लघुघण्टा येषां तेषाम् । विकसितानि प्रस्फुटितानि यानि सिन्दुवारकुसुमानि निर्गुण्डीप्रसूनानि तेषां मञ्जर्यो वह्ल्य एव चामराणि बालव्यज-

(मस्त उतारि गई) चन्द्रकिरण-समूहके समान है ऐसे दीखते हाथोंमें उन्होंने मृणाल-दण्ड समन्वित और मृणाल-सूत्रसे ही निर्मित बहुतसे चामर धारण किये थे । कमलोंके नाल और दण्डको ऊंचे करके कोई कमल, कोई श्वेतप-द्मल, कोई नीलोत्पल, कोई पल्लव, कोई कदलीपत्र, कोई पद्मपत्र एवं कोई पुष्पके गुच्छे छत्रके आकारमें मस्तकके ऊपर रखकर उन्होंने रौद्र-निवारण ( छाया ) कर रक्खी थी और वे जलदेवतासमूहके समान, सम्मिलित वरुण-सम्पत्तिके समान, शरत्कालसमूहके समान एवं एकत्र समवेत सरोवरसमूहके समान हो—ऐसी शोभायमान थीं ।

परिचारिकाओंने पद-नखों पर प्रतिबिम्ब गिर जानेके भयसे ही मानो शीघ्रतासे दूर खिसक प्रणाम कर उसको मार्ग दे दिया, इतनेमें ही उसने कदली-तोरणोंके नीचे होकर प्रवेश किया (हुआ) । वहाँ वेदीके ऊपर गाढ़ चन्दन-द्वारा लेपन किया गया था; श्वेत पद्मकी कलिकाद्वारा छोटी छोटी घण्टियां निर्माण की गई थीं; प्रस्फुटित सिन्दुवार-पुष्पकी माला-द्वारा चामर बने हुए थे;


१. '...शरच्चन्द्रकरैरिव, स्नापरोपकल्पित...' । २. शरीरपरिचारिकाप्रायम् । ३. पादनखपतन...', पादनखपतनदशमयादिव । ४. '...'सिन्दुवार...' ।

६१२कादम्बरी-[ कथायाम्

राणां लम्बितस्थूलमल्लिकामुकुलहाराणामाबद्धलवङ्ग-पल्लव-चन्दन-मालिकानां दोलायमानकुमुद-दामध्वजानां मृणालवेत्रहस्ताभिर्गृहीतरुचिरकुसुमाभरणाभिर्मधुलक्ष्मीप्रतिकृतिभिरिव द्वारपालिकाभिरधिष्ठितानां कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिर्दृष्टवान् । क्वचिदुभय-तट-निखात-तमालपल्लव-कृत-वनलेखाः कुमुद-धूलि-वालुका-पुलिन-मालिनीश्चन्दनरसेन प्रवर्त्त्यमाना गृहनदिकाः, क्वचिनिचुल-मञ्जरी-रचित-रक्त-चामराणां जलार्द्र-वितानकानां तलेषु ससिन्दूरकुट्टिमेषु आस्तीर्यमाणानि रक्तपङ्कजशयनानि, क्वचिदेलारसेन सिच्यमानानि स्पर्शानुमेयरम्यभित्तीनि, स्फटिकभवनानि क्वचिच्छिरीषपक्ष्मकृतशाद्वलानां मृणालधारा-

नानि येषां तेषाम् । लम्बितः स्थूलमल्लिकामुकुलानां पृथुलमालतीकुड्मलानां हारा येषु तेषाम् । आबद्धाः संमेलिताः लवङ्गपल्लवानां देवकुसुमकिसलयानां चन्दनानां मलयजानां मालिका येषु तेषाम् । दोलायमानाः कम्पमानाः कुमुददामान्येव कैरवस्रज एव ध्वजाः पताका येषु तान् । मृणालं विसमेव वेत्रं वेतसं हस्ते यासां ताभिः, गृहीतानि आत्तानि रुचिराणि मनोहराणि कुसुमाभरणानि प्रसूनाभूषणानि याभिस्ताभिः तथा मधुलक्ष्म्या वसन्तश्रियः प्रतिकृतिभिः प्रतिरूपाभिरिव द्वारपालिकाभिः द्वाररक्षिकाभिः निसृष्टदृष्टिः दत्तदृष्टिः दृष्टवान् अवलोकितवान् । 'प्रकृतिभिरिव' इत्यत्र जात्युत्प्रेक्षा ।

यद् यद् दृष्टवान् तद्व्रदतोयति—क्वचिदिति । केचित् कस्मिंश्चित्प्रदेशे उभयतटयोः गृहनदिकानामेव उभयतोरियोः निखातैः आरोपितैः तमालपल्लवैः तापिच्छकिसलयैः कृता विहिता वनलेखा विपिनपङ्क्तयो यासां ताः, तथा कुमुदानां कैरवाणां धूलयो रजांसि एव वालुकाः तासां पुलिनमालाः सैकतपङ्क्तय आसां सन्तीति ताः, चन्दनस्य रसेन सलिलेन करणेन, प्रवर्त्यमाना विरच्यमानाः, गृहनदिका भवनीयलघुसरितः दृष्टवानिति सम्बन्धः । इत्थमन्यत्रापि सम्बन्धो ज्ञेयः ।

क्वचिदिति । निचुलानां हिजलानां ( स्थलवेतसानां ) या मञ्जर्यः पुष्पवल्लयः ताभिः रचितानि निर्मितानि रक्तानि रक्तवर्णानि चामराणि बालव्यजनानि येषां तेषाम्, जलेन सलिलेन आर्दाणि क्लिन्नानि यानि वितानकानि क्षुद्रचन्द्रातपाः तेषाम्, तलेषु अधोभागेषु, ससिन्दूराणि नागसंभववरन्नितानि यानि कुट्टिमानि बद्धभूमयः तेषु आस्तीर्यमाणानि विस्तीर्यमाणानि रक्तपङ्कजशयनानि लोहितवर्णकमलमयतल्पाः । 'वानीरे कविभेदे स्यात् निचुलः स्थलवेतसे' इति शब्दार्णवः ।

क्वचिदिति । एला वालुकाख्यगन्धद्रव्यं तस्या रसेन जलेन सिच्यमानानि सेचनविषयीक्रियमाणानि, स्पर्शेन अनुमेया ज्ञेया अतएव रम्यः मनोहरा भित्तयः कुड्यानि येषाम् एवंविधानि स्फटिकभवनानि स्फटिकमणिरचितहर्म्याणि स्फटिकानां पारदर्शकत्वात्तद्भित्तयो नावलोकयितुं शक्याः किन्तु स्पर्शानुमेया इत्यर्थः ।

क्वचिदिति । शिरीषाणां कपीतनानां पुष्पाणां पक्ष्मभिः कोमलकेसरैः कृता । विहिताः शाद्वलाः नवतृणप्रचुरदेशा येषां तेषाम्, मृणालधारागृहाणां विसपूर्णसलोद्वारभवनानां शिखरम् । ऊर्ध्वभागम् आरोप्यमाणानां सेविकाभिर्नीयमानानाम्, धाराकदम्बस्य सलिलधारासमूहस्य धूलिभिः बिन्दुभिः

मल्लिका-पुष्पकी बड़ी बड़ी कलियोंके हार लटकाकर रक्खे गए थे; लवङ्गके पल्लोंसे समन्वित चन्दन-पुष्पकी मालाएँ बाँधी गई थीं, श्वेतोत्पल-मालाकी पताकाएं फहरा रही थीं और मृणालकी छड़ी हाथमें लेकर, सुन्दर फूलोंके आभूषण धारण करके वसन्त-लक्ष्मीकी प्रतिमूर्त्तिसमूहके समान द्वारपालिकाएँ खड़ी थीं। सब ओर दृष्टिपात करते करते इस प्रकार देखा कि—किसी स्थानमें दोनों तटों पर तमालपल्लव लगाकर निर्माणकी हुई वन-लेखावाली तथा श्वेतोत्पलके धूलि-रूपी बालुका (रेत) से समन्वित पुलिनवाली चन्दनरस बहाती गृह-नदियाँ हैं; किसी स्थानमें हिज्जल-(स्थलवेत्तस) वृक्षकी मञ्जरीसे निर्मित हुए रक्तवर्ण, चामरवाले, जलसे आर्द्र वितान (चँदोवे) के नीचे, सिन्दूरसे रँगे अधोदेशमें रक्त कमलोंकी शय्याएँ आस्तृत (बिछी) हैं; किसी स्थान में—स्पर्श द्वारा ही जिनका अनुमान हो इस प्रकार की-सुन्दर भित्ति (दीवारों) वाले स्फटिक-मय गृहोंमें इलायचीका रस सेचन किया (छिटका) जाता है, किसी स्थानमें शिरीष पुष्पके कोमल केसरसे समन्वित नव-तृण-मय निम्न


१. लविङ्ग... ।
२. ***प्रकृतिभिरिव ।
३. ***अन्तर्निखात... ।
४. कुमुदवन... ।
५. जलाद्रीकृत ।
६. सिन्दूर ।
७. स्पर्शानुमेयभित्तीनि, स्पर्शानुमेयरम्यस्थितिप्रादेशानि ।
८. अभ्र [ अभ्रक ] भवनानि ।

कादम्बरी विरह, हिमगृह वर्णन व पूर्वभाग समाप्ति

कादम्बरीहिमगृहवर्णना १०८ ] चन्द्रकला-विद्योतिनीसहिता । [ ६१३

गृहाणां शिखरमारोप्यमाणानां धारा-कदम्ब-धूलिधूसरितानां¹ यन्त्रमयूरकाणां कदम्बकानि, क्वचित् सहकार-रससिक्तैः² जम्बूंपल्लवैराच्छाद्यमानाभ्यन्तराः पर्णशालाः, क्वचित् क्रीडित-कृत्रिम-करि-कलभ-यूथकाकुलीक्रियमाणाः काञ्चनकमलिनीकाः³, क्वचिद्-गन्धोदककूपेषु बद्ध-काञ्चन-सुधा-पङ्क-कामपीठेषु-स्थूल-बिसलता-दण्ड-घटितारकर्णिकृतकै⁴-केत...-जल-जल-द्रोणि-कानि कुवलयावलीरज्जुभिश्च बध्यमानानि पत्र⁵-पुट-घटी-यन्त्रकाणि, क्वचित् स्फटिकवलाकावलीवान्त-वारिधारा-लिखितॆन्द्रायुधाः सञ्चार्यमाणा मायामेघमालाः, क्वचिदुपान्त प्ररूढ-पाण्डु¹⁰...

धूसरिता धूम्रवर्णीकृताः तेषाम्, यन्त्रमयूरकाणां यन्त्रनिर्मितलघुबर्हिणां कदम्बानि समूहान् मृगालयुक्त-जलधारागृहाणां शिखरे (पृष्ठे) सेविकाभिर्यन्त्रमयूरा नीता ये हि जलधारासमूहानां क्षोदैर्धूसरिता इत्यर्थः 'पद्माक्षिलोगिन किञ्जल्कॆऽतन्त्वाचंशोऽप्यणोरसि' इति । 'शाद्वलः शादहरिते' इति चामरः ।

क्वचिदिति । सहकाररसेन आम्रद्रवेण सिक्ताः क्लिन्नीकृताः तैः, जम्बूंपल्लवैः जाम्बवकिसलयैः बाच्छाद्यमानानि छाद्यमानानि अभ्यन्तराणि यासां ताः, पर्णशाला उटजानि ।

क्वचिदिति । क्रीडितेन रचनानैपुण्यात् खेलाप्रवृत्तेन कृत्रिमेण क्रियया निर्वृत्तेन करिकलभानां त्रिशद्वर्षीयहस्तिशावकानां यूथकेन समूहेन आकुलीक्रियमाणाः परिचाल्यमानाः काञ्चनकमलिनीकाः कनकनलिनीः ।

क्वचिदिति । बद्धानि रचितानि, काञ्चनं सुवर्णमेव सुधापङ्कः धवलीकरणसम्पादकविलेपनद्रव्यं येषु तानि काञ्चनसुधापङ्कानि कामपीठानि अर्ध्याणां प्रयोजनीयानि मदनविष्टराणि येषु तेषु, गन्धोदकानां मलयजसंयुक्तसलिलानां कूपेषु उद्पानेषु स्थूलैः बिसलतादण्डैः मृगालदण्डैः घटितानि रचितानि अराणि चक्रान्तर्गतानि काष्ठनिर्मितान्यवयवानि येषां तानि, कृतकानि कृत्रिमाणि केतकदलानि केतकीपत्राण्येवं जलद्रोणिका सलिलाधारविशेषा येषु तानि, कुवलयावल्या नीलोत्पलपङ्क्त्या रज्जुभिर्नालतन्तुभिः ग्रथ्यमा-नानि मिथोबध्यमानानि, पत्रपुटान्येव घंट्यः लघुघटाः ता एव च यन्त्रकाणि तानि । शिशिरोपचारवर्णनेऽ-स्मिन् सुगन्धिसलमुताः कूपा अपि तथा येषामुपरि पत्रपुटरूपान् घटान् वहन्ति यन्त्राणि, जलधारा अपि केतकपत्रैर्विहितानीत्यर्थः । 'अरमङ्गे रथाङ्गस्य शीघ्रशीघ्रगयोरपि' इति शाश्वतः ।

क्वचिदिति । स्फटिकवलाकावलीषु स्फटिकरचितवकपङ्क्तिषु वान्ता उद्गीर्णा वारिधारा जलधारा याभिस्ताः, लिखितानि चित्रितानि इन्द्रायुधानि शक्रधनूंषि यासु ताः, तथा सञ्चार्यमाग् रचनानैपुण्येनैव सञ्चाल्यमानाः, मायामेघमालाः कृत्रिमजलदपङ्क्तीः ।

क्वचिदिति । उपान्तेषु प्रान्तनिकटेषु प्ररूढाः सञ्जाताः पाण्डवः पाण्डुरवर्णा यवाङ्कुरा यासां तासु


देशवाले, मृणाल-प्रचुर जल-यन्त्रों ( फुहारे ) के शिखर पर रखे, जलधारासमूहों के क०से धूसरवर्ण हुए कृत्रिम यन्त्रमयूरो के झुण्ड हैं; किसी स्थानमें आमके रससे संसिक्त ( भिगोये हुए ) जम्बू (जामुन) पल्लवोंसे आभ्यन्तरदेश आच्छादित हुई पर्णशालाएँ निर्माण की हुई हैं; किसी स्थानमें कृत्रिमद्वारा कृत्रिम हस्तीके शावकों ( बच्चों ) की क्रीड़ासे सञ्चालित होतीं सुवर्णकी कमलिनियाँ हैं; किसी स्थानमें सुवर्णको गलाकर चूर्णद्रव्यके समान बना उससे लेपकर जिसके चबूतरे सुन्दर बना दिए गए हैं और जिनमें चन्दनसुवासित जल परिपूर्ण हैं-ऐसे कूपोंमें पत्र-पुटक ( पत्तेके ढोंगा ) के जलनिःसारणके यन्त्र पड़े हैं-उनके चक्रके अन्तर्गत-सरल-काष्ठ ( आरे ) स्थूल-मृगाल-दण्डरूपी दण्डके निर्माण किये गए थे, जल-ग्रहण-पात्र-विशेष ( डोल ) केतकीके कृत्रिम पत्तोंके थे और वे नीलो-त्पलावली-रूप रज्जुओंत परस्पर बँधे थे; किसी स्थानमें स्फटिक-निर्मित-बक-पङ्क्तियों ( क्रमबद्ध बगुलों ) के मुखोंमेंसे निकलती ( वमनकी हुई ) जलधारावाली और चित्रित इन्द्र-धनुषवाली कृत्रिम मेघ-मालाएँ निर्माण-कौशलसे सञ्चालित हो रही हैं; जिनके तटके समीपमें श्वेतवर्ण यवाङ्कुर उत्पन्न हुए थे और जिनकी तरङ्ग तैरती हुई नूतन मालती-पुष्पोंकी कलियोंसे विषम ( उच्च-नीच ) दीखती थी ऐसे श्वेतचन्दन-जलसे परिपूर्ण


¹ ॰॰॰धूसरितानि, ॰॰॰धूसराणाम् । ² सहकाररससिक्तैः । ³ ॰॰॰कमलिनिकाः । ⁴ ॰॰॰दण्डारकानि । ⁵ कनकवेनक ॰॰॰, कृतकेतक ॰॰॰ । ⁶ दलद्रोणिकानि । ⁷ कमलपत्र ॰॰॰ । ⁸ वलाकावलीः । ⁹ ॰॰॰रूढ ॰॰॰ । ¹⁰ क्वचित् 'पाण्डु' इति पदन्न विद्यते ।

६१४ कादम्बरी [ कथायाम्-

चवाङ्कुरासु तरूण-मालती-कुङ्मल-दन्तुरित-तरङ्गासु हरिचन्दन-द्रव-वापिकासु शिशिरीक्रिय-माणा हारयष्टीः, क्वचिन्मुक्ताफलक्षोद-रचितआलवालकान् अनवरतस्थूलै जलविन्दु-दुर्द्दिनमुत्सृ-जतो यन्त्रवृक्षकान्, क्वचिद्विधुत-पक्ष निक्षिप्त-शीकरानीत-नीहारा भ्रमन्तीर्यन्त्रमयीः पत्र-शकुनिश्रेणीः, क्वचिन्मधुकर-किङ्किणी-पङ्कि-पटुतर-स्वावध्यमानाः कुसुमदामदोलाः क्वचि-दुदराूढ-निर्गतोन्नाल-नलिनी-च्छद-च्छादितमुखान् प्रवेश्यमानान् शातकुम्भकुम्भान्, क्वचि-द्घटित-कदली-गर्भस्तम्भदण्डानि बध्यमानानि चारुवंशाकृतीनि कुसुमस्तवकातपत्राणि, क्वचित् कर-मृदित-कर्पूर-पल्लव-रसेनाधिवास्यमानानि विसतन्तुमयान्यंशुकानि, क्वचिल्लवली-

तरङ्गेः अभिनवैः मालतीनां कुसुमानां कुड्मलैः कोरकैः दन्तुरिता उन्नतानताः तरङ्गाः कल्लोल यासां तासु, हरिचन्दनस्य तैलपर्णिकस्य (श्वेतमलयजस्य) द्रवो रसः तस्य वापिकासु दीर्घिकासु, शिशिरीक्रियमाणाः प्रक्षालनेन शीतलीक्रियमाणाः, हायष्टीः मौक्तिकस्रजः।

क्वचिदिति। मुक्ताफलक्षोदैः मौक्तिकचूर्णैः रचितानि घटितानि आलवालानि आवापस्थानकानि (सलिलरक्षणाय उच्चवेष्टनानि। येषां तान्, तथा बनवरतं निरन्तरं स्थूलजलविन्दूनां बृहत्सलिक-णानां दुर्द्दिनं वर्षणमित्यर्थः। उत्सृजतः मुञ्चतः, यन्त्रवृक्षकान् यन्त्रमयान् लघुतरून्। 'स्यादालवाल-मावालमावापः' इत्यमरः, 'घनान्धकारे वृष्टौ च दुर्द्दिनं कवयो विदुः' इति वागीशः।

ह्वचिदिति। विधुताः कम्पिता ये पक्षाः पत्राणि तैर्निक्षिप्ताः प्रक्षिप्ता-ये शीकरा अम्बुकणाः तैः आनीता उपस्थापिता जनिता नीहारास्तुषाराः याभिस्ताः, भ्रमन्तीः श्रमणं विदधतीः यन्त्रमयाः यन्त्रा-त्मिकाः, पत्रशकुनिश्रेणीः दलरचितपंक्त्यावलीः।

क्वचिदिति। मधुक्रा भ्रमरा एव किङ्किण्यः क्षुद्रघण्टिकाः तासां पङ्क्तेः आवल्यः पटुतरः अत्युच्चतः रवः शब्दो यासु ताः, बध्यमानाः सेविकाभिर्विरच्यमानाः (कुसुमदामरचिता दोलाः)। 'मधुकरकिङ्किगी' इत्यत्र निरङ्गं केवलरूपकमलङ्कारः। -

क्वचिदिति। उदरेषु अभ्यन्तरेषु आरूढाः सञ्जाता अथ च निर्गता वदनेम्यो बहिर्निःसृताः उन्नाला उद्गतदण्डाश्च या नलिन्यः कमलिन्यः तासां च्छदैः पर्णैः छादितानि पिहितानि मुखानि अग्रभागा येषां तान्, प्रवेश्यमानान् गृहान्तर्नीयमानान् शातकुम्भस्य सुवर्णस्य कुम्भान् कलसान्। येषामुदरेषु नलिन्यः उत्पन्नास्ततश्च मुखेभ्यो बहिः उन्नालास्ता निःसृताः तत्पत्रैः कुम्भमुखमाच्छन्नम्। शैत्यार्थं शोभार्थं च वृक्षाधारविशेषः। 'दलः पर्ण छदः पुमान्' इत्यमरः। इह छेकानुप्रासः।

क्वचिदिति। घटिता रचिताः कदलीनां रम्भातरूणां गर्भस्तम्भा अभ्यन्तरस्थूणा एव दण्डा येषां तानि, बध्यमानानि सेविकाभिर्विरच्यमानानि, चारुवंशानां सुन्दरवेणूनाम् आकृतिरिव आकृतिः स्वरूपं येषां तानि, कुसुमस्तवकातपत्राणि पुष्पगुच्छच्छत्राणि।

इह .....'गर्भस्तम्भदण्डानि' इत्यत्र रूपकम्, 'चारुवंशाकृतीनि' इत्यत्र च लुप्तोपमा।

क्वचिदिति। करेण हस्तेन मृदिता विमर्दिता ये कर्पूरपल्लवा घनसारकिसलयाः तेषां रसेन निर्या-सेन अधिवास्यमानानि सुगन्धीक्रियमाणानि, विसतन्तुमयानि मृणालसूत्ररचितानि, अंशुकानि वस्त्राणि।

क्वचिदिति। तुणशून्यानां मल्लिकापुष्पाणां मञ्जरीकर्णपूराण् वल्लरीमयश्रवणाभूषणानि।


दीर्घिकाओं (बावलियों) में किसी परिचारकद्वारा किसी स्थानमें हारलता (मुक्ताका हार) धोकर ठण्डी की जा रही थी; किसी स्थानमें यन्त्रमय क्षुद्रवृक्ष (फुहारे) लग रहे थे—उनके चारों ओर मूलमें मुक्ताचूर्णद्वारा आलवाल (मोतीके चूरेसे क्यारियाँ) निर्माणकी गई थीं और उनमेंसे निरन्तर बड़े-बड़े जलविन्दुओ के वर्षण हो रहे थे; किसी-किसी स्थानमें कम्पित पक्षों (फड़फड़ाते पंखों) से जलविन्दुओसे नीहार उत्पादित कर भ्रमण करते पत्र-निर्मित यन्त्र-मय (कल-पुर्जेके) पक्षियोंकी पक्तियाँ (कतारें) हैं; किसी-किसी स्थानमें पुष्पमालाओंके हिंडोले (झूले) परिचारिकाओं द्वारा निर्माण किए गये हैं—जिनमें भ्रमर-रूपी घण्टियोंकी पंक्तियों (कतारों) से अत्युच्च शब्द हो रहे हैं; किसी स्थानमें किसीके द्वारा सुवर्ण-कलस प्रवेश कराये जा रहे हैं—उनके मुख अभ्यन्तरमें उत्पन्न होकर बाहर निकले ऊँचे दण्डवाले कमलके पत्तोंसे छाये हुए हैं; किसी स्थानमें कदलीके अभ्यन्तरके रमणीय बाँसके आकृतिवाले—स्तम्भरूप दण्डोंवाले पुष्पके गुच्छोंके छत्र परिचारिकाओं द्वारा निर्माण किये गये हैं; किसी स्थानमें मृणाल-सूत्र-निर्मित वस्त्र, हस्तमर्दित (हाथसे मसलकर) कर्पूर-पल्लवके रससे सुगन्धित किए


१. सिततरु, तरत्तरुण। २. अनवरत-चन्दनस्थूल ..। ३... 'पटुतरवाध्यमानाः, पटुतराबध्यमानाः। ४... 'निर्गतोत्नाल..। ५. शातकुम्भान्। ६. ...दण्डनिबध्यमानचारु...।

कादम्बरी-हिमगृहवर्णनम्-१०८ ] चन्द्रकला-विद्योतिनीसहिता ६१५

...चन्द्रापीडः क्रियमाणान् तृणशून्य-मञ्जरीकर्णपूरान्, क्वचिदम्भोजिनी-दल-व्यजनैर्वीज्यमानान् उपलभाजनभाजः शीतोपधिरसान्, अन्याँश्चैवं प्रकारान् शिशिरोपचारोपकरणकल्पनाव्यापारान् परिजनेन कृतान् क्रियमाणांश्च वीक्षमाणः, हिमगृहकस्य मध्यभागं हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, जन्मभूमिरिव सर्वचन्द्रकलानाम्, कुलगृहमिव सर्वचन्दनवनदेवतानाम्, प्रभवमिव सर्वचन्द्रमणीनाम्, निवासमिव सर्वमाघमासयामिनीनाम्, सङ्केतसद्ममिव सर्वश्रावृताम्, ग्रीष्मोष्मापनोदनाद्देशमिव सर्वनिम्नगानाम्, वडवानलसन्तापापनोदननिवासमिव सर्वसागराणाम्, वैद्युत-दहन-दाह-प्रतीकारस्थानमिव सर्वजलधराणाम्, इन्दु-विरह-दुःसह-दिवसातिवाहन-स्थानमिव कुमुदिनीनाम्, हरहुताशननिर्वापणक्षेत्रमिव

'मल्लिका शतभीरुश्च गवाक्षी सद्गमल्लिका ।
शीतमीलन्मदयन्ती भूपदी तृणशून्यकम् ॥'

इति वनस्पतिः ।

क्वचिदिति । अम्भोजिनीदलानि कमलिनीपर्णान्येव व्यजनानि तालवृन्तानि तैः, उपलभाजनानि प्रस्तरपात्राणि भजन्त इति तान्, शीताः शिशिरा ये ओषधीनां फलरूपाक्रान्तवल्लीनां रसा निर्यासास्तान् ।

अन्यांश्चेति । एवं प्रकारान् एवंविधान्, शिशिरोपचाराः शीतलक्रियाः तेषाम् उपकरणकल्पनाः सामग्रीरचनानि तद्रूपा व्यापाराः क्रियास्तान् वीक्षमाणः अवलोकमानश्चन्द्रापीडः हिमगृहकस्य मध्यभागमगादिति सम्बन्धः सन्निहित एव ।

हिमगृहकस्य मध्यभागं विशिनष्टि-हिमेत्यादिना । इह द्वितीयाकवचनान्तानि पदानि 'मध्यभागम्' इत्यस्य विशेषणानि । हिमवतः तुषाराद्रेः हृदयं स्वान्तमिव, प्रचेतसो वरुणस्य जलक्रीडागृहमिव सलिलखेलाभवनमिव, सर्वचन्द्रकलानां समस्तशशिकलानां जन्मभूमिरिव उत्पत्तिस्थानमिव सर्वचन्दनवनदेवतानां निखिलमलयजारण्याधिष्ठात्रीणां कुलगृहमिव वंशपरम्परागतसद्ममिव, सर्वचन्द्रमणीनां समस्तचन्द्रकान्तानां प्रभवन्ति उत्पद्यन्ते अस्मादिति प्रभवो जन्मभूमिस्तमिव, सर्वमाघमासयामिनीनां समस्ततपोमासरात्रीणां निवसन्ति अस्मिन्निति निवासो वासस्थानमिव, सर्वश्रावृतां समस्तदर्षर्तूनां सङ्केतसद्ममिव सङ्कमाय सङ्केतितं गृहमिव, सर्वनिम्नगानां सकलसरितां ग्रीष्मे ग्रीष्मर्त्तौ य उत्पन्ना सन्तापः तस्य अपनोदनं दूरीकरणं तस्योद्देशो भूमिस्तमिव, सर्वसागराणां समस्तसमुद्राणां वडवानलेन वडवाग्निना यः सन्तापः तस्य यदपनोदनं तस्य निवासं वासस्थानमिव, सर्वजलधराणां सकलमेघानां विद्युत्तस्तडितः अयमिति वैद्युतो यो दहन ईरमदः (वह्निः) तेन यो दाहः सन्तापः तस्य प्रतीकारस्थानमिव प्रतिक्रियागृहमिव, कुमुदिनीनां कैरविणीनाम्, इन्दोश्चन्द्रस्य विरहेण वियोगेन दुःसहः असहो यो दिवसो वासरः तस्य अतिवाहनस्थानमिव उद्बहनभूमिमिव, तथा मकरध्वजस्य कामदेवस्य, हरस्य महेशस्य यो हुताशनस्तृतीयलोचनोत्पन्नो वह्निः तस्य निर्वापणक्षेत्रमिव निर्वापनस्थानमिव, सर्वत्रैव नितान्तशिशिरत्वादित्याशयः । वाच्योत्प्रेक्षालङ्कारश्च ।


जा रहे हैं; किसी स्थानमें मल्लिका-पुष्पमञ्जरीके कर्णपूर कदली-फलके रसमें आर्द्र किये जा रहे हैं; और किसी स्थानमें पाषाणनिर्मित पात्र (कुंडी) में परिपूर्ण शीतल-लताके रसको पद्मपत्रके पंखेसे किसी परिचारिका द्वारा वायु की जा रही है; परिजनवर्ग शीतलता-सम्पादन करनेके लिए इस प्रकार अन्यान्य समस्त सामग्रियोंका सङ्ग्रह करते और करते थे। उन सबोंको देखता-देखता जाकर राजपुत्र उस हिमगृहके मध्यस्थानमें उपस्थित हुआ (जा पहुँचा)। वह मध्यस्थानका भाग हिमालयका मानो हृदय था; वरुण-देवका मानो जल-क्रीडिका गृह था; समस्त चन्द्रकलाओंका ही मानो उत्पत्तिस्थान था; समस्त चन्दन वनदेवताओंका ही मानो पैतृक वासस्थान था; समस्त चन्द्रकान्त-मणियोँका ही मानो जन्मस्थान था; माघमासकी समस्त रात्रियोंका ही मानो निवास-भूमि था; समस्त वर्षाऋतुका ही संम्मिलित होनेके लिए सङ्केत-गृह था; समस्त नदियोंका ही मानो ग्रीष्म-सन्ताप-निवृत्तिके लिए निर्दिष्ट स्थान था; समस्त समुद्रोंक ही मानो वडवानल-सन्ताप दूर करनेके लिए वासगृह था; समस्त मेघों (वारिदों) का ही मानो विद्युत्सम्भूत अग्निके द्वारा दाहका प्रतीकार (शान्त) करनेका स्थान था; कुमुदिनियोंकी मानो चन्द्रविरहमें दुःसह दिन व्यतीत करने (काटने) का स्थान था; कामदेवका मानो हरनयनाग्निके


१. ०हृदयम् । २. ०भाजान् । ३. ०परिकल्पनाब्यापारान् । ४. अपनोदोद्देशमिव ।

६१६कादम्बरी-[ कथायाम्-

मकरध्वजस्य¹, दिनकरकरैरपि सर्वतो जलयन्त्र-धारासहस्र-समुत्सारितैरतिशीतस्पर्शभयनि- वृत्तैरिव परिहृतम्, अनलैरपि कदम्ब-केसरोत्करवाहिभिः कण्टकितैरिवानुगतम्, कदली- वनैरपि पवनचलितदलैर्जाड्यजनितवेपथुभिरिव परिवारितम् , अलिभिरपि कुसुमामोदमद- मुखरावद्धदन्तवीणैरिव वाचालितम्, लताभिरपि निरन्तर²-मधुकर-पटल-जटिलाभिर्गृहीत- नीलप्रावरणकाभिरिव विराजितमाससाद ।

क्रमेण च तत्रान्तर्बहिश्चातिबहुलेन पिण्डहार्येणेवोपलिप्यमानोऽतिशीतलेन स्पर्शेनार्- मन्यतात्मनो मनश्चन्द्रमयम् , कुमुदमयानीन्द्रियाणि, ज्योत्स्नामयान्यङ्गानि, मृणालिकामयीं

दिनेति । दिनकरः सूर्यस्तस्य करैः रश्मिभिरपि सर्वतः समन्तात् जलसून्त्राणां धारासहस्रेण संपातसमूहेन समुत्सारितैः दूरीकृतैः, अतएव अतिशीतस्पर्शभयेन नितान्तशिशिरस्पर्शत्रासेन निवृत्तैरिव विद्यमानैः परिहृतं परित्यक्तम् । 'निवृत्तैरिव, इति क्रियोत्प्रेक्षा ।

अनिलैरिति । अनिलैः पवनैरपि, कदम्बा नीपाः कुसुमानि तेषां केसरोत्करं किञ्जल्कसमूहं वहन्तीति तैः, अतएव कण्टकितैः पुलकितैरिव विद्यमानैः कदम्बकिञ्जल्कानां पुलकसादृश्यादित्याशयः, अनुगतं संगतम् । इहापि पुलकोत्पादनस्यैवोत्प्रेक्षणादुक्तालङ्कारः ।

कदलीति । कदलीवनैरपि रम्भाकाननैरपि पवनेन समीरणेन चलितानि कम्पितानि दलानि पर्णानि येषां तैः अतएव जाड्येन शैत्येन जनित उत्पादितो वेपथुः कम्पनो येषां तैरिव विद्यमानैः, परिवारितं परिवेष्टितम् । उक्तालङ्कारः ।

अलिभिरिति । अलिभिर्मधुकरैरपि कुसुमामोदेन पुष्पपरिमलेन यो मदो हर्षः तेन मुखरैः शब्दायमानैः, अतएव आबद्धा कृता दन्तवीणा शैत्यातिशयेन मुखकम्पनकाले उपर्यधोभागदशनानाम् अन्योन्यसंघर्षगोत्पन्नः शब्दो यैस्तैरिव विद्यमानैः, वाचालितं मुखरीकृतम् उक्तालङ्कारः ।

लताभिरिति । लताभिरपि वल्लीभिरपि निरन्तरेण सान्द्रेण मधुकरपटलेन भ्रमरसमूहेन जटिलाभिः आच्छादितप्रभिः, अत एव गृहीतानि शैत्यापनोदनाय धृतानि नीलानि श्यामानि प्रावरणानि आच्छादनवसनानि याभिस्ताभिरिव विद्यमानाभिः विराजितं विभूषितम् । आससाद प्राप्तवान् । उक्तालङ्कारः ।

क्रमेणेति । अपि च, तत्र हिमगृहे, अन्तर्बहिश्च अतिबहुलेन अत्यन्ताधिकेन, पिण्डवत् मृत्तिकादिपिण्डवत् हार्येण हर्तुं शक्येन करग्रहणोचितेनेत्यर्थः, अतएव तेनोपलेपनसम्भव इत्याशयः, अतिशीतलेन अत्यन्तशिशिरेण स्पर्शेन, उपलिप्यमान इव चन्द्रापीडः आत्मनः स्वस्य मनश्चित्तं चन्द्रमयं चन्द्रनिष्पन्नम् अमन्यत अवुध्यत । इन्द्रियाणि चक्षुरादीनि करणानि कुमुदमयानि कैरवनिष्पन्नानि, अङ्गानि हस्तपादादीनि ज्योत्स्नामयानि चन्द्रिकानिष्पन्नानि धियं बुद्धिं मृणालिकामयीं बिसनिष्पन्नाम् 'अमन्यत' इत्यस्य सर्वत्राप्यन्वयो ज्ञेयः ।

इह 'उपलिप्यमान इव' इत्यत्रोक्तालङ्कारः स्पष्ट एव, किन्तु 'अमन्यत' इति क्रियाया अपि उत्प्रेक्षावाचकत्वादन्येषु चतुर्ष्वप्युत्कालङ्कार एवेति सर्वेषां परस्परनैरपेक्ष्येण संसृष्टिः ।

निर्वापण (बुझाने) का क्षेत्र है इस प्रकार प्रतीत होता था। वहाँ सब ओरसे जलयन्त्रों (फुहारों) में से निकलती हजारों धाराओंसे दूर हुई सूर्यकी किरणें भी अत्यन्त शीत-स्पर्शके भयसे निवृत्ति पाकर ही मानो उसका परित्याग की हुई हैं इस प्रकार प्रतीत होती थीं, कादम्ब-कुसुमके केसरसमूह वहन करती वायु भी रोमाञ्चित होकर ही मानो विचरण करती थी; चारों ओर लगे कदलीवनके पत्ते पवनवेगसे कम्पित होने (हिलने) के कारण ऐसे प्रतीत होते थे कि मानो शीतलतासे कम्पित हो रहे हों; पुष्पोंके सौरभसे आनन्दित होकर गुञ्जार करते भ्रमरगण भी मानो दन्तवीणाका रव करते (दाँत किड़किड़ाते) हों इस प्रकार प्रतीत होता था, और निरन्तर सान्द्र प्रविष्ट हुए भ्रमरोंसे आच्छादित लताएँ ऐसी प्रतीत होती थीं मानो उन्होंने अत्यन्त शीतवश शरीरमें नीलवर्ण वस्त्र ओढ़ लिया हो, इस प्रकार वहाँ उस गृहमध्यको शोभित करती थीं ।

क्रमसे उस गृहमध्यमें अत्यन्त प्रचुर और मृत्पिण्डके समान हस्तधारण-योग्य अत्यन्त शीतल-स्पर्शसे अभ्यन्तर और बाहरमें उपलिप्त होकर ही मानो चन्द्रापीड अपने मनको चन्द्रमय, इन्द्रियोंको कुमुदमय, अङ्गोंको


१. मकरध्वजस्य सदनमिव वनदेवतानाम् । २. क्वचित् 'निरन्तर' इति पदं न दृश्यते ।

मदनावस्थाकादम्बरीवर्णनम्-१०९ ] 'चन्द्रकला-विद्योतिनीसहिता ६१७

विन्दन्। अगणयच्च हारमयान् अर्ककिरणान्, चन्दनमयमातपम्, कर्पूरमयं पवनम्, उदकमयं कालम्, तुषारमयं त्रिभुवनम्। एवंविधस्य च तस्यैकदेशे सखीकदम्बपरिवृताम्, अशेषसरित्परिवारामिव भगवतीं गङ्गां हिमवतो गुहावलग्नाम्², कुल्याभिरभित्रेन कर्पूररसन्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, हाराङ्गद-वलय-रसना-नूपुरैर्मृणालमयैर्निगडैरिव संयतामीय्यया³ मन्मथेन, चन्दनधवले स्पृष्टामिव ललाटे शशलाञ्छनेन, बाष्पवारिवाहिनि चुम्बितामिव चक्षुषि वरुणेन, वर्द्धितनिश्वास-मरुति दत्तामिव⁴ मुखे मातरिश्वना,

अगणयदिति। अर्ककिरणान् सूर्य्यरश्मीन् हारमयान् मुक्ताप्रालम्बसञ्ज्ञानान्, अगणयत् अमन्यत अतिशिशिरत्वात्तादृश्यादित्याशयः। आतपं सूर्य्यालोकं चन्दनमयं मलयजसञ्ज्ञानम् भावश्चोक्त एव। पवनं वायुं कर्पूरमयं घनसारसञ्ज्ञानं तच्छैत्यमुक्तत्वादिति भावः। कालं समयम् उदकमयं जलसञ्ज्ञानम्। त्रिभुवनं त्रिविष्टपं तुषारमयं हिमसंज्ञानम् अतिशीतलत्वात्तादृशादित्याशयः।

इहाप्यगणयदिति क्रियाया एकैकावाचकत्वात् सञ्जातार्थे मयट्प्रत्ययविधानात् पदस्वरूपं वाच्यक्रियोत्प्रेक्षानां प्राग्वत्संसृष्टिः।

एवमिति। अपि च, एवंविधस्य एतादृशस्य तस्य हिमगृहस्य एकदेशे कस्मिंश्चिद्भागे चन्द्रापीडः 'कादम्बरीं व्यलोकयत्' इति दविष्ठया क्रियया सम्बन्धः। इह स्त्रीलिङ्गानि द्वितीयाकवचनान्तपदानि अग्रेतनस्य कादम्बरीमित्यस्य विशेषणान्यवगन्तव्यानि। सखीकदम्बकेन सहचरीसमूहेन परिवृतां परिवेष्टिताम्, अतएव अशेष्याः समग्राः सरितो नद्यः परिवाराः स्वजना यस्यास्ताम्, हिमवतो हिमाचलस्य गुहावलग्नां कन्दरानलस्थितां भगवतीं माहात्म्यवतीं गङ्गां भागीरथीमिव विद्यमानाम्। उपमालङ्कारः।

कुल्येति। कूल्या तरणमण्डपिकाया एव परितो विद्यमाना अल्पा कृत्रिमा सरित् तस्या या अभिः स्वेदैश्च अभ्रतस्तया अभित्रेन घूर्णित्रेन कर्पूररसन्रोतसा घनसारद्रवप्रवाहेण कृतो विहितः परिवेषः परिवेष्टनं यस्यास्तस्याः, मृणालानि बिसान्येव दण्डाः स्तम्भा यस्याः सा चासौ मण्डपिका चेति तस्याः, तले अधोभागे, कुसुमशयनं पुष्पतरुल्पम् अधिशयानां कृतस्वापाम्। 'कुल्याऽल्पा कृत्रिमा सरित्' इत्यमरः।

हारेति। मन्मथेन कामेन ईर्ष्याया स्पर्द्धया, निगडैः शृङ्खलास्वरूपैः, मृणालमयैः बिसरचितैः, हारो मुक्ताप्रालम्बः, अङ्गदं बाहुकटकम्, वलयं कङ्कणम्, रसना काञ्ची, नूपुरानि पादकटकानि तैः संयतां बद्धामिव विद्यमानाम्। इह निरङ्गं केवलरूपकम्, क्रियोत्प्रेक्षा चेत्यनयोः सङ्करः।

चन्दनेति। शशलाञ्छनेन चन्द्रमसा, चन्दनेन मलयजाङ्गरागेण धवले शुक्ले ललाटे भाले स्पृष्टामिव, लिप्तमलयजव्याजादित्याशयः। इह क्रियोत्प्रेक्षाऽपह्नुतिरलङ्कारः प्रतीयते। तथाधिकरण एव सतमोहेतुत्वमवगन्तव्यम्। इत्थमग्रेऽपि।

वरुणेनेति। वरुणेन प्रचेतसा बाष्पवारिवाहिनि अश्रुजलकारिणि चक्षुषि लोचने चुम्बितामिव, तदश्रुजलव्याजात्प्रचेतसः सलिलप्रदत्वादित्याशयः। प्राग्वदेवाहङ्कारेण ध्वनिः।

वर्द्धितेति। मातरिश्वना पवनेन, वर्द्धितः कामेन विस्मृतीकृतो निश्वासमरुद् श्वसनवायुः यत्र

शीतलमय और दृष्टिको तृप्तिकामय भावना करने (समझने) लगा; और वह सूर्यके किरणोंको मुक्ताकालामय, धूपको चन्दनमय, वायुको कर्पूरमय, उस समयको जलमय और त्रिभुवनको शिशिरमय मनमें करने (समझने) लगा।

उसके बाद इस प्रकारके हिमगृहके मध्यमें बैठी हुई और समस्त नदियोंसे परिवेष्टित (घिरी हुई) भगवती गङ्गादेवीके समान; सखियोंसे परिवेष्टित कादम्बरीको उसने देखा। वहाँ मृणालदण्डमय स्तम्भसे निर्माण की हुई एक मण्डपिका थी। उसके सब ओर कर्पूररसका स्रोत, छोटी-सी कृत्रिम एक नदीके समान अपनेसे ही बह रहा था। कादम्बरी उस मण्डपिकाके नीचे कुसुममय शय्याके ऊपर शयन कर रही थी। कामदेवने ईर्ष्यासे मानो शृङ्खला (जंजीर) स्वरूप और मृणाल-निर्मित हार, केयूर (बाजूबन्द), कङ्कण, मेखला (करधनी) और नूपुरके बहाने उसे बाँधकर रख लिया था। उसके ललाटमें चन्दन-लेपन करनेसे वह शुक्लवर्ण हो गया था, अत एव मानो चन्द्रने उस स्थानका स्पर्श किया था। नेत्रोंसे अश्रुजल बहते थे, अत एव मानो वरुणने उसका चुम्बन किया था। शोकके समीप होकर दीर्घ निश्वास (लम्बी साँस) निकलते थे, अत एव मानो वायुने उसे


१. नीहारमयान्। २. गुहावलम्नाम्, नदीपक्षे पतिताम्। ३. ईर्ष्याया। ४. निश्वास०... । ५. दृशाम्। ३६ का०

६१८ कादम्बरी- [ कथामुखम्-

सन्तापप्रतप्तेष्वध्यासितामिवाङ्गेषु पतङ्गेन, कन्दर्पदाहदीपिते गृहीतामिव हृदये हुतभुजा, स्वेदिनि परिष्वक्तामिव वपुषि जलेन, दैवतैरपि विलुप्यमानसौभाग्यामिव सर्वशः, हृदयेन सह प्रियतमसमीपमिवोपगतैरङ्गैरुपजनितदौर्बल्यम्, आश्यान-चन्दनपाण्डुरञ्च रोमाञ्च-मनवरतहारस्पर्शलग्नं मुक्ताफलकिरणपुञ्जम् इवोद्वहन्तीम्, स्वेदशीकरिणीञ्च कपोलपालीं पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवावतंसकुसुममधुकरैः, अवतंस-कुसुम-मधुकर-रव-दहने-दग्धमिव श्रोत्रमपाङ्गनिर्गतेनाश्रुस्रोतसा सिञ्चन्तीम्, अतिप्रवृत्तस्य चाश्रुणो निर्वाहप्रणालि-

तस्मिन् मुखे अधर इत्यर्थः। दष्टां विहितदन्तघातामिव, तन्निःश्वासव्याजादित्याशयः। इहाप्युक्तवद्देवा-लङ्कारो ध्वनिश्च।

सन्तापेति। पतङ्गेन रविणा, सन्तापप्रतप्तेषु कामोत्तापतप्तेषु अङ्गेषु अवयवेषु अध्यासिताम् अधि-ष्ठितामिव, अवयवेषु तथैव सन्तापाज्ञानादित्याशयः क्रियोत्प्रेक्षालङ्कारः। 'पतङ्गः शलभे शालिप्रभेदे पक्षि-सूर्ययोः। क्लीवे सूते' इति मेदिनी।

कन्दर्पेति। हुतभुजा अग्निना, कन्दर्पदाहदीपिते कामोत्तापसन्तप्ते हृदये गृहीतां धृतामिव, काम-व्याजादित्याशयः। इह क्रियोत्प्रेक्षालङ्कारः, तेनापह्नुतिः प्रतीयते।

स्वेदिनीति। जलेन सलिलसामान्येन स्वेदिनि घर्मवति, वपुषि शरीरे परिष्वक्ताम् आश्लिष्टामिव, घर्मव्याजादित्याशयः। प्राग्वदेवोत्प्रेक्षाऽपह्नुतिरवगम्यते।

दैवतैरिति। दैवतैरपि प्रागभिहितमदनशशधरादिभिर्देवैरपि सर्वशः सर्वप्रकारेण विलुप्यमानं पृथक् पृथक् सुरतेन विनाशयमानं सौभाग्यं स्वामिप्रियत्वं यस्यास्तामिव, सौन्दर्यमुग्धत्वाद् देवा अपि तस्याः स्वामिप्रियत्वं पतिवल्लभत्वं न्यूनीकृत्य स्वस्मिन् तदासक्तिं कामयन्ते इत्यभिप्रायः।

इह सौभाग्यलोपोत्प्रेक्षणात् क्रियोत्प्रेक्षालङ्कारः, तेन चात्यधिकसौन्दर्यमस्या इति व्यञ्जितम्।

हृदयेनेति। हृदयेन चेतसा सह, प्रियतमस्य दयितस्य चन्द्रापीडस्य समीपमन्तिकम् उपगतैः प्राप्तैरिव अङ्गैः अवयवैः उपजनितम् उत्पादितं दौर्बल्यं दुर्बलता यस्यास्ताम्, दूरगमनश्रमेण दुर्बलता समुत्पद्यत एवेत्याशयः।

आश्यानेति। अपि च, आश्यानेन किञ्चिच्छुष्केन चन्दनेन मलयजेन पाण्डुरं श्वेतं रोमाञ्चं पुलकम्, अनवरतहारस्पर्शेन निरन्तरमौक्तिकस्पर्शेन लग्नं सक्तं मुक्ताफलानां हारमध्यस्थितानां मौक्तिकानां किरण-पुञ्जमिव रश्मिसमूहभिव उद्वहन्तीं शरीरे धारयन्तीम्। इह 'किरणपुञ्जमिवे' त्यत्र जात्युत्प्रेक्षालङ्कारः।

स्वेदेति। अपि च, पक्षपवनेन पतत्रवायुना, स्वेदशीकरिणीं घर्मकणयुक्तां कपोलपालीं कादम्बर्याः कपोलद्वयं वीजयद्भिः वातं कुर्वद्भिः, अवतंसकुसुमेषु कर्णभूषणपुष्पेषु ये मधुकारा भ्रमराः तैः अनुकम्प्य-मानां कृपापात्रीक्रियमाणामिव, घर्मबिन्दुविनाशार्थेव वीजनादित्याशयः। क्रियोत्प्रेक्षालङ्कारः।

अवतंसेति। अवतंसकुसुममधुकराणां कर्णभूषणपुष्पस्थभ्रमराणां रवः शब्द एव दहनो विरहो-त्थापनेन अग्निः तेन दग्धं ज्वलितमिव श्रोत्रे कर्णम्, अपाङ्गात् नेत्रप्रान्तात् निर्गतेन निःसृतेन अश्रुस्रोतसा बाष्पप्रवाहेण सिञ्चन्तीं सेकं विदधताम्, ज्वालापनोदनायेत्याशयः। अपरोऽपि जनो ज्वलितं वस्तु सलिलेन सिञ्चति। इह निरङ्गकेवरूपकं क्रियोत्प्रेक्षा चेत्युभयोः सङ्करः।

अतिप्रवृत्तेति। अपि च, अतिप्रवृत्तस्य बाहुल्येन निःसृतस्य अश्रुणो नयनाम्बुनः, निर्वाहप्रणालिका-


दंशन किया था। मदनसन्तापसे सन्तप्त समस्त अङ्गोंमें ही मानो सूर्यने वास किया था। मदन-दाहसे प्रज्वलित हृदयमें मानो अग्निने ग्रहण किया था। उसके शरीरसे पसीने निकलते थे, इससे प्रतीत होता था कि मानो जलने उसे आलिङ्गन किया है। इस प्रकार देवताओंने भी मानो सब तरहसे उसका सौभाग्य नष्ट कर दिया था। हृदयके साथ उसके समस्त अवयव भी मानो प्रियतम चन्द्रापीडके निकट चले गये थे, उससे ही उसकी दुर्बलता उत्पन्न हुई थी। ईषत् शुष्क चन्दन-लेपसे उसका रोमाञ्च शुभ्रवर्ण हो गया था, इससे प्रतीत होता था कि निरन्तर हारके स्पर्शसे शरीरमें मुक्ताओंकी किरणें लग गई हों। घर्मबिन्दुओं (पसीने की बूँदों) से व्याप्त गण्डस्थलों पर पक्षसञ्चालन द्वारा पवन करके शिरोभूषणीभूत पुष्पोंसे आकृष्ट हुए मधुकर मानो ऐसे प्रतीत होते थे कि उसके प्रति अपनी दया प्रकट करते हों। कर्णभूषण-पुष्पस्थित भ्रमरोंके रव (गुञ्जार) स्वरूप अग्निसे मानो कर्णयुगल दग्ध होते थे, उसे वह तापशान्तिके लिए नयनप्रान्तनिर्गत (आँखके कोनेमेंसे निकलते) अश्रु-जलसे सिञ्चन


१. अतङ्गेन। २. उल्लेन। ३. ॰निकरपुञ्जम्। ४. क्वचित् 'कुसुम' पदं न विद्यते। ५. ॰रवदवदहन ॰।

मदनार्त्तकादम्बरीवर्णना १०९] चन्द्रकला-विद्योतिनीसहिता । ६१६

कामिव कर्पूरकेतकीकलिकां कर्णे कलयन्तीम्, आयत-श्वास-विधुति-तरलितेन च सन्ताप-भय-पलायमानेन देहप्रभावित्तानेनेवांशुकेन विमुच्यमानकुचकलसाम्, आपतत्-प्रचल-चामर-प्रतिबिम्बञ्चं कुचकलसयुगलं प्रियान्तिकगमनौत्सुक्यकृतपक्षमिव करतलेन निरुन्धतीम्; मुहुर्मुहुर्भुजलतया तुषारशिलाशालभञ्जिकामालिङ्गन्तीम्; मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम्² मुहुश्चरणारविन्देन चन्दनपङ्कप्रतियातनामाभृशन्तीम्³, स्तन-संक्रान्तेनात्ममुखेनापि कुतूहलिनेव परिवृत्य विलोक्यमानाम् , कर्णपूरपल्लवेनापि

मिव निःसरणनालमिव कर्पूरो घनसारः तद्वत् या केतक्यः कुसुमस्य शुभ्रा कलिका कोरकं कर्पूरवासिता केतकीकलिका वा तां कर्णे श्रवणे कलयन्तीं धारयन्तीम्, सलिलनिःसरणप्रणालिकावद् केतकीकलिकाया अपि लम्बमानत्वादित्याशयः। जात्युत्प्रेक्षालङ्कारः।

गदतेति। अपि च, आयतो दीर्घो यः श्वासो निश्वासमरुत् तेन या विधुतिः कम्पनं तया तरलितेन अस्थिरीकृतेन सन्तापभयपलायमानेन ज्वालात्रासात् धावता देहप्रभाणां शरीरकान्तीनां वितानेन लब्धिध्येनेव अंशुकेन उत्तरीयवस्त्रेण विमुच्यमानौ परित्यज्यमानौ कुचकलसौ स्तनघटौ यस्यास्ताम्। उत्कालङ्कारः।

आपतदिति। आपतन्ती निपतन्ती प्रचलयोः पार्श्वद्वये वीजनाच्चलितयोः चामरयोर्वालव्यजनयोः प्रतिबिम्बे प्रतिच्छायायुगलं यत्र तत्, अतएव प्रियस्य दयितस्य ( चन्द्रापीडस्य ) अन्तिके समीपे गमनाय यानाय यद् औत्सुक्यम् उत्कण्ठा तेन कृतौ विहितौ पक्षौ पत्रद्वयं यस्य तद्विव कुचकलसयुगलं स्तनकलसद्वयं करतलेन पाणितेलेन निरुन्धतीं निरोधं कुर्वन्तीम्, अन्यथा यदि ब्रजेद्देवैत्याशयः। चामरप्रतिच्छायाद्वयं कुचद्वयस्य पक्षस्थानीयम्, चामरान्दोलनात्तत्प्रतिबिम्बयोरप्यान्दोलनम्, तदान्दोलनाच्च पार्श्वद्वयेन विद्यमानस्यापि द्वित्वप्रतीतिः अतएव हि गमनसम्भावनेत्यवधेयम्। ......'कृतपक्षमिव' इत्यत्र पङ्ककरणौत्प्रेक्षणात्क्रियोत्प्रेक्षा।

मुहुरिति। भुजलतया बाहुवल्ल्या तुषारशिलाशालभञ्जिकां शिशिरपाषाणरचितपुत्तलिकां मुहुर्मुहुः वारं वारम् आलिङ्गन्तीम् आश्लिष्यन्तीम्, सन्तापोपशमनायेत्याशयः।

मुहुरिति। कपोलफलकेन गण्डद्वयेन कर्पूरपुत्रिकां घनसारस्य पुत्तलिकां मुहुर्वारंवारम् आश्लिष्यन्तीम् आलिङ्गन्तीम्।

मुहुरिति। चरणारविन्देन पादकमलेन चन्दनपङ्कस्य गाढमलयजरसस्य प्रतियातनां प्रतिमूर्त्ति मुहुः आमृशन्तीम् आमर्शं विदधतीम्। प्राग्वदेवाशयः। अनेन निरतिशयस्तापः प्रतीयते।

स्तनेति। स्तनयोः कुचयोः संक्रान्तेन प्रतिबिम्बितेन आत्ममुखेन स्वकीयवदनेनापि, कुतूहलिनेव 'अस्याः कीदृशी अवस्था समुत्पन्ना' इति कौतुकिनेव विद्यमानेन, परिवृत्य उत्तानीकृत्येत्यर्थः। प्रतिबिम्बस्य बिम्बसंमुख्यादित्याशयः, विलोक्यमानां वीक्ष्यमाणाम्। 'कुतूहलिनेव' इत्यत्र गुणोत्प्रेक्षा।

कर्णेति। कर्णपूरपल्लवेनापि श्रवगालङ्कारीभूतकिसलयेनापि, स्वस्य आत्मनः प्रतिबिम्बे अर्थात्

करती थी। अधिक पसीनामें निकलते अश्रुजलके निःसरणमार्ग ( नलिका ) के समान कपूरके तुल्य शुभ्रवर्ण केतकी-पुष्पकी कलिकाको धारण करती (पहनती) थी। उसका उत्तरीय वस्त्र, दीर्घ निश्वास (लंबी साँस) के वेगसे काँपनेके कारण चञ्चल होकर स्तन-कलशके ऊपरसे खिसक गया था, इससे प्रतीत होता था कि शरीरकी कान्ति-का प्रवाह मानो सन्तापके भयसे भाग गया हो। (दो परिचारिकाएँ दोनों तरफ खड़ी होकर दो चामर डुलाती थीं) अत एव उसके दोनों कुचकलशों पर उस प्रचल चामर-युगलका प्रतिबिम्ब पड़ता था, इससे प्रतीत होता था कि प्रियतम चन्द्रापीडके निकट जानेके लिए उत्कण्ठासे ही मानो उसके दो पंख उत्पन्न हो गये हों, ऐसे उन कुच-कलशोंको अपने करतलसे उसने अवरुद्ध कर (दबा) रखा था। शीतल प्रस्तर-निर्मित पुतलियोंको सन्ताप-शान्तिके लिए भुज-लतासे वह बारम्बार आलिङ्गन करती थी। कपूरकी पुतलीको भी बारन्बार कपोलसे स्पर्श करती थी। चरणकमलोंसे बारम्बार चन्दन-पङ्ककी मूर्तिको आमर्शन करती थी। अपना मुख भी स्तनमें प्रतिबिम्बित होकर मानो कौतुकवश ही हुआ हो, इस प्रकार फिरकर उसको देखता था । कर्णका अलङ्कार


१. आपतत् प्रचलचामर..., क्वचित् चकारो नास्ति । २. निरुन्धतीम् । ३. आमृशन्तीम् 'आस्पृशन्तीम् ।

६२० | कादम्बरी- | [ कथामुखं-

स्वप्रतिबिम्बपल्लवग्राहिणं सोत्कण्ठेनेव चुम्ब्यमानकपोलफलकम्; हारैरिव मुक्तामभिर्मदनपरवशैरिव प्रसारितकरैरालिङ्ग्यमानम्; सान्द्रचन्दनमुरसि निहितं 'नोद्वेष्टव्यमद्य त्वया' इति जीवितस्पर्शमयं शपथं शशिनमिव कारयन्तीम्; करिणीमिव संमुखागतप्रमदवनगन्धवारप्रसारितकराम्; प्रस्थितामिवानलीढदक्षिणवातपङ्कवालगम्; मदनमभिषेकवेदिकाम्

गण्डनिपतिते प्रतिबिम्बयुक्त्ये पल्लवे किसलये नेत्रे विशतीति वेन, अनेनास्यापि बालत्वं ध्वनितम्, सोत्कण्ठेनेव समुद्भूतेनेव च्छिन्तानेन, चुम्ब्यमानं सुख्यमानं कपोलफलकं यस्यास्ताम्। उत्प्रेक्षा।

हारैरिति। मुक्ताः संसारबन्ध्यान्मुक्ता आत्मा येषां ते, मोक्षमुक्तानेऽपि मदनपरवशैः कामपरवशैरि-वेति विरोधः, मुक्ता मौक्तिकानि यान्त्या स्वरूपं येषां तैरिति तत्परिहारः, तथाविधेमुक्ताफलैरिपि प्रभा-रिता विस्तारिताः करा रश्मयो हस्ताश्च येस्तथोक्तैः विद्यमानैरालिङ्ग्यमानाम् आश्लिष्यमाणाम्।

इह विरोधाभासोऽलङ्कारो गुणोत्प्रेक्षाऽलङ्कारश्चेत्यनयोरङ्गाङ्गिभावरूपः सङ्करः, अनेन चास्या निरतिशयं सौन्दर्यमुक्तम् इत्युक्तेन वस्तुनालङ्कारो वस्तुव्यक्तिः।

मपति। उरसि वक्षःस्थले निहितं शीतलतामप्यादधाय स्थापितम्, सान्द्रचन्दनमेव रक्तांशुकमिव शशिनं तिमिरस्थगुक्तवस्तुत्वादसाधनात् सान्निमित्तापहोत्प्रयुक्तं चन्द्रम्, 'विरहेऽस्मिंश्च मया शशिनः क्व च नोद्वेष्टव्यं न उद्वेगभाजा भवितव्यम्, मन्नाशनिविनापसम्भवादित्याशयः' इति पूर्वोक्तवेदनान्नावा-नित्यर्थः, जीवितस्पर्शमयं निजजीवनस्पर्शपूर्वकं शपथम् 'अद्य नाहमुद्वेक्ष्यामि' एवं शपथं कारयन्तीमिव, रक्तादर्शनपरमितः तत्काले हृदयस्पर्शकारित्वादित्यध्याः। अन्योऽपि जीवितस्थानहृदयस्पर्शपूर्वकं निश्चितं शपथं विदधाति। इह समासात्समेऽपि निरङ्गकेवलरूपकम् क्रियोत्प्रेक्षा हेतुप्रमयोः सङ्करः।

करिणीमिति। करिणी गजपत्नीमिव संमुखे सन्मुखे आगतः समायातो यः प्रमदवनस्य वालोद्यान-स्योद्यानस्य गन्धः सौरभं तस्य वारणाय निषेधाय प्रसारितौ विस्तारितौ करौ हस्तौ यया ताम्, वियो-गिन्या गन्धस्य उद्वेचकत्वाद् वरोधोरादकत्वादित्याशयः। पक्षान्तरे तु सन्मुखागते प्रमदे प्रकृष्टमदे वन्य-गन्धवारणे करण्यगन्धराजे ने प्रतीत्यर्थः। प्रसारितः करः शुण्डा यया ताम्। पूर्णोपमालङ्कारः।

प्रस्थितामिति। प्रस्थितां विदेशे चलितां नारीमिव, अनलीढम् अनमिलितं दक्षिणवातस्य मलय-मारुतः पङ्कस्य (सङ्गत्या) मृगमदसुगन्धेऽपगततद् उपविष्टिस्यत्कालग्नम्, वियोगिन्या मलयप-वमुक्तुरीसुगन्ध्वादीनामत्यन्तोद्वेककत्वादित्याशयः। पक्षान्तरे तु वनलीढं दक्षिणे अजलवलादौ वात-मृगस्य वातप्रमीसंज्ञकह्मणस्य वालम्नं यस्यास्ताम्। नारीणां प्रवासे दक्षिणपार्श्वे मृगस्य सम्मुखप्रवे-शवण वामभागयोर्देः प्रशस्तत्वादित्यङ्कारः। उपमालङ्कारः।

मदनेति। मदनस्य कामस्य अभिषेकः स्नाने तस्य वेदिका संमृता भूमिः ताम्बिव, कान्तैः पञ्च-शरैः आवृत्तौ शीतकवादाच्छ्वादितौ चन्दनेन मलयजाहरणेन धवली स्थेते, यौ पयोधरौ पीनस्तनद्वयं तन्-माहात्म्याद् कलगौ स्तनकुम्भौ तान्याम् आक्रूष्णौ आक्रान्तौ पार्श्वो भागद्वयं यस्यास्ताम्। पक्षान्तरे तु

पल्लव की शोभावाले अपने प्रतिबिम्बमयी पल्लवों से शान्त होकर उल्लासके साथ ही मानो उसके गालका चुम्बन करता था। मुक्ताहारों (मोतियों के हार) भी मानो ईर्ष्या ही मानों कर (किरण, हाथ) पसार कर उसका आलिङ्गन करते थे। वक्षःस्थल पर लगाया अतिसान्द्र-गाढ़ा चन्दन 'आज तुम उद्विग्न मत होवो' इस प्रकार सान्त्वनाके अनन्तर अपने जीवन-स्पर्श कराकर 'आज मैं उद्विग्न नहीं होऊँगा' इस प्रकार शपथ हो मानो कराती थी। हथिनी जिस प्रकार मदमत्त वनगजके सम्मुख आनेपर अपने करको फैलावती कर देती है, उसने भी इसी प्रकार सामनेसे आते हुए आमोदवाले सौरभको निवारण करनेके लिए हाथ फैला दिये थे। देशान्तर में प्रस्थित स्त्रियोंकी जिस दक्षिणभागमें वायुमृगी (उस मृगका यह प्रप्रथा मृग का आगमन सम्मुख नहीं होता है, उसकी भी उसी प्रकार दक्षिणबाट और कस्तूरी-सौरभका आगमन अभीष्ट नहीं था, कामदेवके


१. स्वप्रतिबिम्बपातिनः। २. हिमोद्वेष्टव्यमेवम् त्वयाः। ३. जीवितस्य स्पर्शमिवैतम्, जीवनस्पर्शसमयं मुद्वितम्।

मदनार्त्तकादम्बरीवर्णनम् १०९] चन्द्रकला-विद्योतिनीसहिता । ६२१

मिव कमलादृतचन्दनधवलपयोधरकलसावबद्धपार्श्वाम्, आकाशकमलिनीमिव स्वच्छाम्ब- रलक्ष्यमानमृणालकोमलोरुमूलाम् कुसुमचापलेखामिव मदनारोपित-गुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीम्, मधुकरीमिव कुसुममार्गणाकुलाम्, चन्दनविलेपनामनङ्ग- रागिणीञ्च, बालां मन्मथजननीञ्च मृणालिनीमभ्यर्थिततुषारस्पर्शाञ्च कादम्बरीं व्यलोकयत् ।

कमलावृतौ नलिनस्य शैत्यरक्षणाय पङ्कजदलाच्छादितमुखौ, तथा चन्दनधवलानि मलयजमिश्रणेन श्वेतवर्णानि पयांसि सलिलानि धरतो धारयत इति तौ यौ कलसौ स्नानकुम्भौ ताभ्याम् अवद्धौ आश्रितौ पार्श्वों यस्यान्ताम् । उक्तोऽलङ्कारः । अविशेषे विशेषदोपवादाय 'मदनाभिषेक' इत्यस्य स्थाने 'राजाभिषेके'त्यादिपाटोऽवश्यं विधेयः।

आकाशेति । आकाशकमलिनीमिव वियद्गङ्गानलिनीमिव, स्वच्छस्य अत्यन्तनिर्मलस्य अम्बरस्य परिहितवस्त्रस्य तले अभ्यन्तरं दृश्यमानम् अवलोक्यमानं मृणालवत् कोमलं तत्समयेऽपि लोमरहितत्वात् सुन्दरम् ऊरुमूलं सक्थिमूलप्रदेशो यस्यास्ताम् । पक्षान्तरे तु स्वच्छे विशदे अम्बरतले गगने दृश्यमानं मृणालं कोमलं ऊरुमूलं बृहन्मूलदेशश्च यस्यास्ताम् । उक्तोऽलङ्कारः । एतस्या वर्णनं पूर्वं विशेषणं पूर्वमप्युक्तम्।

कुसुमेति । कुसुमचापलेखा प्रसूनमयधनुर्यष्टिः तामिव, मदनेन कामावेगेन आरोपिता अध्यस्ता या गुणकोटयो विशेषलावण्यादयो गुणसमूहाः ताभिः कान्ततरा रमणीयतरा ताम्। पक्षान्तरे तु मदनेन मन्मथेन आरोपितः स्थापितो गुणो मौर्वी ययोस्ताभ्यां कोटिभ्याम् अग्रभागाभ्यां कान्ततरां रमणीयत-राम् । उक्तोऽलङ्कारः ।

मध्विति । मधुमासस्य वसन्तसमयस्य देवताम् अधिष्ठात्रीमिव, शिशिरः शीतलो हारो मुक्तामाला अस्या अस्तीति सा ताम् । पक्षान्तरे तु शिशिरमृतुं प्रणिषेविनीम् । उक्तोऽलङ्कारः ।

मध्विति । मधुकरी भ्रमरी तामिव, कुसुममार्गणेन पुष्पशरेण आकुला व्यग्रा ताम्। पक्षान्तरे तु कुसुममार्गणे पुष्परसपानाय तदन्वेषणे आकुला विह्वला ताम् । उक्तोऽलङ्कारः ।

चन्दनेति । चन्दनस्य मलयजस्य विलेपनम् अङ्गरागो यस्यास्ताम्, अपि च अङ्गरागोऽस्या अस्तीति अङ्गरागिणी अङ्गरागान्विता सा न भवतीत्यनङ्गरागिणी तामिति विरोधः, अनङ्गरागो मदनानुरागोऽस्या अस्तीति तामिति तत्परिहारः । बालां बालिकाम्, अपि च मन्मथजननीं कामस्य मातरमिति विरोधः, कामोत्तेजनाया उत्पादियित्रीमिति तत्परिहारः । मृनालिनीं कमलिनीम्, अपि च अभ्यर्थितो याचितः तुषार-स्पर्शस्तुहिनसंसर्गो यया तामिति कमलिन्याः तुषारसंसर्गे विनाशावश्यकभावेऽपि तदभ्यर्थनया विरोधः, मृणालिनीं सन्तापनिवृत्तये मृणालवतीं तापाधिक्याच्चाभ्यर्थितशीतस्पर्शाामिति तत्परिहारः । इह प्रत्येक-विशेषण एव विरोधाभासोऽलङ्कारः ।

अहो ! कीदृशी प्रतिभा मदनपीडितकादम्बरीवर्णनमधुरिम्णि महाकवेः, सर्वथैव सचेतसां चेतो-विनोदसम्पादिनीषामिति न मनागपि सन्देहेलेश इति विभावयन्तु सुधियः ।


स्नान करनेके दोनों बगलमें जिस प्रकार चन्दन-मिश्रणसे शुक्लबर्ण हुए जलसे परिपूर्ण और पद्मपत्राच्छादित दो कलश अधिष्ठित रहते हैं, उसके दोनों बगल भी उसी प्रकार कमल-दलसे आच्छादित और चन्दन-लेपनसे शुभ्रवर्ण स्तनरूपी कुम्भद्वय (दो कलस) से आक्रान्त था । निर्मल आकाशमें जिस प्रकार आकाशगोद्भव कमलिनीके कोमल और बृहद् मूलदेश और मृणाल देखे जाते हैं, उसी प्रकार उसके भी निर्मल वस्त्रके नीचे मृणालके समान उस समयमें भी रोम नहीं होनेके कारण कोमल अरु-युगलका मूलदेश दिखाई देता था । कामदेवके द्वारा गुणारोपण करने (डोरीके चढ़ाने) पर कामदेवके वह पुष्पमय धनुष जिस प्रकार अत्यन्त शोभायमान प्रतीत होता है, वह भी उसी प्रकार सुवावत्यादि विशेष सौन्दर्यके कारण बहुतसे गुणोंसे अत्यन्त शोभायमान प्रतीत हुई थी । वसन्तऋतुकी देवता जिस प्रकार शीत निवारण (शिशिर ऋतुका अपहरण) करने-वाली होती है, वह भी उसी प्रकार शीतल हार धारण करनेवाली थी । भ्रमरी जिस प्रकार पुष्पान्वेषणमें व्यस्त रहती है, वह भी उसी प्रकार पुष्पमयी बाणों (कामावेगों) से विह्वल थी । चन्दनके लेपसे समन्वित होने पर भी वह अनङ्गरागिणी (अङ्गराग रहित) कामानुरागिणी थी । बाला होने पर भी वह मन्मथजननी (कामोद्दीपन-कारिणी) और मृणालिनी होने पर भी तुषार-स्पर्शकी प्रार्थना करती थी (मृणाल-धारण करती थी एवं अन्यान्य शीतलद्रव्योंकी प्रार्थना करती थी) ।


१. कुसुमचापवल्लेवानिव ।
२. कान्तां ।

६२२कादम्बरी-[ कथायाम्-

अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमुत्तरलतारकेण चक्षुषा विलोक्य^१ 'कथय, किं^३ सत्यमागतो दृष्टस्त्वया, कियत्यध्वनि क्वासौ' इति प्रतिमुखं निक्षिप्तनामाक्षरं^४ पप्रच्छ। प्रवर्द्धमान^५-धवलिम्ना चक्षुषा दृष्ट्वा च सम्मुखमापतन्तं तं दूरादेव वरारोहा, नवग्रहा करिणीवोरुस्तम्भविघृता विचेष्टमानाङ्गी, कुसुमशयनपरिमलोपगतैः परवशा मुखरैर्मधुकरकुलै^६रिवोत्थाप्यमाना, ससम्भ्रमच्युतोत्तरीयां- हारकिरणानुरसि कर्तु-मिच्छन्ती, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना,

अथेति। सा कादम्बरी, उत्तरला नितान्तचपला तारका कनीनिका यस्य तेन तथोक्तेन चक्षुषा लोचनेन विलोक्य, आगत्य आगत्य दर्शनमनतिक्रम्येति यथादर्शनम्, यस्यां यस्यामवस्थायां दृष्टां-तामवस्थामिति भावः, चन्द्रापीडस्य लागमनम् उपस्थितिम् आवेदयन्तं कथयन्तं परिजनं परिचारक-वर्गम्। इति एतत् प्रतिमुखं प्रत्येकमुखे निक्षिप्तानि प्रतिमुखेनैवाभिधीयमानत्वादर्पितानि नामाक्षराणि चन्द्रापीडेतिनामवर्णा यस्मिन् कर्मणि तद्यथा स्यात्तथा पप्रच्छ पृष्टवती। इह द्विकर्मकोऽयं प्रच्छधातुः। अनेन चन्द्रापीडावलोकनस्य निरतिशयावेगः प्रतीयते।

प्रवर्द्धेति। अपि च, वरौ विस्तृतौ आरोहौ नितम्बौ (स्त्रीकट्याः पश्चाद्भागौ) यस्याः सा वरारोहा 'नितम्बवारोहो स्त्रीकट्याः पश्चाज्जघनपार्श्वतः' इति कोशः। कादम्बरी, प्रवर्द्धमानः स्नेहाधिक्येनोपचीयमानो धवलिमा श्वेतता यस्य तेन चक्षुषा, सम्मुखम् समक्षम् आपतन्तम् आयान्तं तं चन्द्रापीडं दूरादेव दूवि-ष्टादेव दृष्ट्वा निरीक्ष्य कुसुमशयनात् पुष्पशयनीयात् उत्तस्थौ उत्थिता बभूवेति सम्बन्धः।

तत्कालीना यादृशी दशा कादम्बर्यास्तामेव विशिनष्टि—नवेति। नवो नूतनो ग्रहो ग्रहणं यस्याः सा अभिनवगृहीतेत्यर्थः करिणी हस्तिनीव, ऊर्वोः जङ्घयोः स्तम्भेन सात्त्विकभावजातेन निश्चलत्वेन विघृता व्याहतगमना, पक्षान्तरे तु-ऊरुस्तम्भे विस्तृतबन्धनस्थूणायां विघृता आबद्धा, अत एव विचेष्टमानाङ्गी निस्पन्दशरीरा विशेषेण कम्पमानशरीरा च। इह पूर्णोपमालङ्कारः।

कुसुमेति। परवशा परतन्त्रा देहस्तब्धतया स्वयमुत्थातुमशक्येत्यर्थः, अतएव कुसुमशयनस्य पुष्पल्पस्य परिमलेन सुगन्धेनोपगतैरित्यभिप्रायः। उपगतैः उपस्थितैः, मुखरैः शब्दयामानैः मधुकरकुलैः द्विरेफसमूहैः उत्थाप्यमाना उत्थोत्थ्यमानेव। क्रियोत्प्रेक्षा।

ससम्भ्रमेति। ससम्भ्रमेण उत्थानवेगेन च्युतं स्रस्तम् उत्तरीयं प्रावरणवस्त्रं यस्याः सा, अतएव उरसि वक्षःस्थले हारकिरणान् मौक्तिकारश्मीन् कर्तुम् अर्पयितुम् इच्छन्ती अभिलषन्तीव, कुचयोराच्छा-दनायेत्याशयः। इह प्रतीयमाना क्रियोत्प्रेक्षा।

मणीति। मणिकुट्टिमे रत्नमयबद्धभूमौ निहितं स्थापितं यद् वामकरतलं सव्यपाणितलं तेन, निज-प्रतिमां बद्धभूमिस्थङ्क्रान्तं स्वकीयप्रतिविम्बं हस्तावलम्बनं याचमानेव अभ्यर्थयमानेव तन्निमित्तमेक


उसके बाद, परिजनवर्ग जिस-जिस भावसे एकके पीछे एक उस चन्द्रापीडको देखे, उस-उस भावसे कादम्बरीके समीपमें आ-आकर उसका आगमन निवेदन किये, तब वह चञ्चल पुतलीवाले नेत्रसे बिना कहे ही पूछती कि 'कहो, वे क्या सचमुच आये हैं ? तुमने उनको देखा है ? वे कितनी दूर हैं ? कहाँ हैं ?' इस प्रकार संकेतसे पूछने पर प्रत्येकके द्वारा चन्द्रापीडका नामोच्चारण किया जाता था। इतनेमें सब स्नेहने अत्यन्त शुभ्र होते अपने नेत्रसे चन्द्रापीडको दूरसे ही, सामने आते देखा, तब वह विशाल-नितम्बा कादम्बरी पुष्पशय्या परसे उठी। तत्काल पकड़ी गई हस्तिनी जिस प्रकार विशाल-बन्धन-स्तम्भमें बद्ध रहकर शरीर-स्खलन करती है, वह भी उसी प्रकार अपने विशालनितम्ब-भागसे बद्ध हो चलनेमें असमर्थ रहकर स्वयंकोको निःचेष्ट रखती थी। शरीर पराधीन रहनेके कारण वह अपनेसे ही उठनेमें असमर्थ थी, अतएव पुष्प-शय्याके सौरभके लोभसे उपस्थित हुए शब्दायमान भ्रमरोंने ही मानो वह बलपूर्वक उठाई गई थी। शीघ्रतावश उत्तरीय वस्त्र खिसक गए थे, इससे वह हारकी किरणोंसे ही मानो वक्ष स्थल (छाती) का आवरण करनेकी इच्छा करती थी। मणिमय भूमिमें स्थापित (रखे) वाम-हस्तद्वारा समीपस्थ अपने प्रतिबिम्बसे ही मानो उठनेके लिए हस्तावलम्बनको


१. क्वचित् 'तारकेण' इत्यनन्तरं 'कथय' इत्यधिकः पाठो दृश्यते। २. क्वचित् 'विलोक्य' इति पदं नोपल-भ्यते। ३. कथं सम्यक् । ४. निक्षिप्तेनाक्षरं, निक्षिप्तेन चक्षुषानक्षरम्। ५. वर्द्धमानः। ६. लैः। ७. चाच्छा-दनाना। ८...उत्तरीयका, उत्तरीयशुका।

का० चन्द्रापीडयोर्व्यवहार० ११० ] चन्द्रकला-विद्योतिनीसहिता । ६२३

स्रस्त केशकलाप-संयमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणेकरेणाभ्युद्ध्येव आत्मानमर्पयन्ती, चलितं-त्रिकताम्यत्त्रिवली-तरङ्गित-रोमराजितया निष्पीड्यमानेव सर्वरसाननङ्गेन, अन्तः-प्रविष्टललाटिका चन्दनरसमिश्रमिव चक्षुषा क्षरन्ती शिशिरमानन्दजलम्, आनन्द-वारिविन्दु-वेणिकया चलितावतंसँ-धूलिधूसरं प्रियप्रतिमाप्रवेशलोभेनेव कपोलफलकं प्रक्षालयन्ती, ललाटिकाचन्दनभरेणेव किञ्चिदधोमुखी तत्क्षणमपाङ्ग-भाग-पुञ्जित-तारकया तन्मुखलग्नयेव दीर्घया दृष्ट्याकृष्यमाणा कुसुमशयनादुत्तस्थौ ।

तत्र वामकरन्यासादित्याशयः । अनेनोत्थानासामर्थ्यं ध्वनितम् । इह वाच्या क्रियोत्प्रेक्षा । 'दुह्माञ्च्पच' इत्यादिना द्विकर्मके परिगणितोऽयं याच् धातुः ।

स्रस्तेति । स्रस्तो विस्रंसो यः केशकलापः कचसमूहः तस्य संयमनेन बन्धनेन श्रमितः तद्व्यापारेण स्वेदितः तेन, अतएव गलन्ति क्षरन्ति स्वेदसलिलानि घर्मजलानि यस्मात्तेन दक्षिणेकरेण, अपसव्यपाणिना, अभ्युक्ष्य आत्मानं स्वम् अर्पयन्तीव चन्द्रापीडाय प्रयच्छतीव, स्वेदजलानामेवाभ्युक्षणजलरूपत्वादित्याशयः । यः कोऽपि समर्पणीयं वस्तु अभ्युक्ष्य यस्मै कस्मैचित् समर्पयतीति स्थितिः । उत्थाऽलङ्कारः ।

चलिनेति । चलितम् उत्थानत्वरया कम्पितं यत् त्रिकं पृष्ठवंशस्य अधरास्थि, तेन ताम्यन्ती खिद्यमाना या त्रिवली उदरस्थरेखात्रयं तया तरङ्गिता कम्पिता रोमराजिः लोमपङ्क्तिर्यस्यास्तस्या भावस्तया कारणेन, अनङ्गेन कामेन सर्वरसान् निष्पीड्यमानेव निष्कासयितुं मर्चमानेव, कम्पितत्रिकस्य निष्पीडनयन्त्रसदृशत्वादित्याशयः । उत्थाऽलङ्कारः । 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः ।

अन्तरिति । अन्तःप्रविष्टो भालान्तःशुष्को यो ललाटिकाचन्दनरसः भालस्यतिलकविशेषमलयजद्रवः तन्मिश्रमिव सम्पृक्तमिव, अतएव शिशिरं शीतलम् आनन्दजलं प्रमोदाश्रु चक्षुषा नयनेन क्षरन्ती निःसारयन्ती । इह गुणोत्प्रेक्षालङ्कारः ।

आनन्देति । आनन्दवारिविन्दूनां प्रमोदाश्रुपृषतां वेणिकया प्रवाहेण, चलितानां कम्पितानाम् अवतंसानाम् उत्तमाङ्गाभरणभूतकुसुमानां धूलिभिः परागैः धूसरं पाण्डुरं स्वं कपोलफलकं गण्डयुगलम्, प्रियप्रतिमायाः चन्द्रापीडप्रतिविम्वस्य प्रवेशलोभेन तद्गण्डे प्रवेशतृष्णयेव प्रक्षालयन्ती धौतं कुर्वन्ती, प्रक्षालनाभावे धूलिधूसरत्वे च प्रियप्रतिमाप्रवेशासम्भव इत्याशयः । उत्थाऽलङ्कारः । 'वेणी सेतुप्रवाहयोः । देव-ताडे केशबन्धे' इति हेमचन्द्रः ।

ललाटिकेति । ललाटिकाचन्दनस्य भालस्यतिलकविशेषमलयजस्य भरेण भारेणेव किञ्चिदधोमुखी ईषदवाङ्मुखी, तत्क्षणं चन्द्रापीडदर्शनसमये अपाङ्गभागे लोचनप्रान्तदेशे पुञ्जितां समस्तां शक्तिमादाय पुञ्जभावेन स्थिता तारका कनीनिका यस्यास्तया, तन्मुखलग्नया चन्द्रापीडमुखसंसक्तया, अतएव दीर्घया विस्तृतया दृष्ट्या लोचनेन आकृष्यमाणेव आकर्षणं विधीयमानेव । दृष्टिश्च तन्मुखे दृढसम्बद्धा पुनश्च साकृष्यमाणा अतएव सा दीर्घीभूता रज्जुवदित्याशयः । क्रियोत्प्रेक्षालङ्कारः ।

प्रार्थना करती थी। स्खलित केशकलापके बन्धन करनेसे परिश्रान्त दक्षिण हाथमेंसे घर्म-जल (पसीने) निकल रहे थे, अतएव वह मानो उस दक्षिण-हस्त द्वारा अभ्युक्षण कर चन्द्रापीडको अपना आत्मसमर्पण करती थी । उठनेके समय पीठ झुकनेसे त्रिवली (उदरके ३ थर) चलित होनेके कारण रोमराजिके भी कम्पित होनेते ऐसा प्रतीत होता था मानों कामदेव उसे निष्पीडन (निचोड़) कर समस्त रसोंको बाहर निःसारण कर (निकाल) रहा हो । नयनद्वारा जो आनन्दाश्रु निःसारण करती थी, वह तिलकमेंसे ललाटके अन्दर पहुँचे चन्दन-रससे मिश्रित होकर ही मानो शान्त हो गया था । शिरोभूषण-भूत पुष्पोंकी रेणुसे कपोलदेश धूसरवर्ण (मलिन) हो गया था, अतएव उसमें प्रियतम चन्द्रापीडके प्रतिबिम्ब प्रवेश कर जानेके लोभसे ही मानो आनन्द-जलकी बूँदोंके प्रवाहसे उसको धो रही थी । ललाट-तिलक-चन्दनके भारसे ही मानो थोड़ा नीचे देख रही थी, उस क्षण नयन की तारा उसके प्रान्तभागमें जाकर पुञ्जीभूत हुई और राजपुत्रके मुखमण्डल पर संलग्न होकर और भी लम्बी हुई इस प्रकारकी दृष्टि ही मानो उस पुष्पशय्यासे उसका आकर्षण कर रही थी ।


१. समभ्युद्ध्येव । २. दलित्त... । ३. तान्त्रिवली तरङ्गि... । ४...चन्दनरसानिव, ...रसमिश्रम्, सरान्। ५. चक्षुर्भ्याम्। ६. नन्द...। ७. घटितावतंस। ८....पुञ्जित...।

६२४कादम्बरी-[ कथायाम्-

चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणाम। कृतप्रतिप्रणामायाञ्च तस्यां पुनस्तस्मिन्नेव कुसुमशयने समुपविष्टायां प्रतीहार्या समुपनीतां^१ जाम्बूनदमयीमासन्दिकां रोचिष्णु-रत्न-प्रत्युप्तपादां पादेनैवोत्सार्य क्षितावेवोपाविशत्। अथ केयूरकः 'देवि ! देवस्य चन्द्रापीडस्य प्रसादभूमिरियं पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी' इत्यभिधाय पत्रलेखामदर्शयत्। अथ कादम्बरी दृष्ट्वा ताम् 'अहो ! मानुषीषु पक्षपातः प्रजापतेः' इति चिन्तयाम्बभूव ! कृतप्रणामाञ्च तां सादरम् 'एहोहि' इत्यभिधायात्मनः समीपे सकौतूहल परिजनन्दृश्यमानां पृष्ठतः समुपायेशयम्। दर्शनादेवोपारूढप्रीत्यतिशया च मुहुर्मुहुरेनां सोपग्रहं करकिसलयेन पस्पर्श।

चन्द्रापीडस्तु सपदिकृतसकलागमनोचितोपचारस्तद्वस्थां चित्ररथतनयामालोक्याचिन्तयत्—'अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति। भवतु, पृच्छामि तावदेनं निपु-

चन्द्रेति। समुपसृत्य समीपमागत्य। महाश्वेतायाः प्रणामो नमस्कारः पुरःसरः अग्रवर्त्ती यत्र क्रियायां तद् यथा स्यात्तथा, दर्शितविनयः प्रकटनशिष्टाचारः, तां कादम्बरीम्, प्रणनाम नमश्चक्रे। तदनन्तरं कृतो विहितः प्रतिप्रणामोऽनुनमस्कारो यया तस्याम्, तस्मिन्नेव कुसुमशयने पुष्पशय्यायां समुपविष्टायां समासीनायां तस्यां कादम्बर्याम्, प्रतीहार्या द्वारपालिकया समुपनीतां समुपस्थापितां जाम्बूनदमयीं सुवर्णरचिताम्, रोचिष्णुभिः दीप्तिशीलैः रत्नैः मणिभिः प्रत्युप्ताः खचिताः पादा यस्यास्ताम्, आसन्दिकां वेत्रासनम्, पादेनैव चरणेनैव उत्सार्य, अपसार्य, क्षितावेव भूमावेव उपाविशत् उपविष्टवान्, शिष्टाचारप्रदर्शनस्यावश्यकत्वादित्याशयः। 'वेत्रासनमासन्दी स्त्री नृपी च प्रतिकासनम्' इति रामाश्रमी।

अथेति। अथ उपवेशनानन्तरम्, प्रसादभूमिः अनुग्रहपात्रम्। अदर्शयत् दृग्गोपयतां प्रापयत्। प्रजापतेः विधातुः पक्षपातः, निरतिशयसौन्दर्यनिर्माणादित्याशयः। तां पत्रलेखाम्। सकौतूहलैः सकौतुकैः परिजनेः स्वीयपरिचारकैः दृश्यमाना अवलोक्यमाना ताम्, पृष्ठतः पश्चात् आत्मनः स्वस्य समीपे निकटे समुपावेशयत् इत्यन्वयः। उपारूढः उत्पन्नः प्रीत्यतिशयः स्नेहाधिक्यं यस्याः सा कादम्बरी। एनां पत्रलेखाम्, सोपग्रहं सस्नेहं करकिसलयेन पाणिपल्लवेन पस्पर्श स्पृष्टवती।

चन्द्रेति। सपदि तत्क्षणम्, कृतो विहितः सकलानां समस्तानां मदलेखाप्रभृतिजनानाम् आगमनोचितोपचारः आत्मनोऽभिभवोपस्थितियोग्याभिनन्दनव्यवहारो येन सः। सैवावस्था मदनविह्व्वकदशा यस्यास्तां चित्ररथतनयां गन्धर्वराजपुत्रीं कादम्बरीम्, आलोक्य वीक्ष्य अचिन्तयत् चिन्तितवान्—मे मम हृदयं चेतः अतिदुर्विदग्धम् अतीव दुःशिक्षितं प्रस्तुत निश्चयायोग्यमिति तात्पर्यम्, यस्मादद्यापि न श्रद्दधाति मां लक्षी कृत्यैवेयं मदनपीडितेति न विश्वसिमि प्रस्तुत निश्चययोग्यत्वे तु नूनमेवैतद् विश्वसेदित्याशयः। निपुणालापेन चतुरजनोचितसम्भाषणेन व्यङ्ग्यार्थपूर्णवाक्येनेत्यर्थः।

चन्द्रापीडने तो समीपवर्ती होकर पहले के समान ही विनय-प्रदर्शन-पूर्वक महाश्वेताको प्रणाम कर कादम्बरीको प्रणाम किया। वह भी प्रतिप्रणाम (बदलेमें नमस्कार) करके फिर उसी पुष्प-शय्या पर बैठी थी कि इतनेमें प्रतीहारीने एक सुवर्णकी बनाई हुई आसन्दिका (कुर्सी) लाकर रखी, जिसके पायों में दीप्तिशील (चमकते हुए) रत्न खचित (जड़े) थे; उसे पैर से हटाकर वह पृथिवी पर ही बैठ गया। उसके बाद केयूरकने कहा—'देवि ! यह राजकुमार चन्द्रापीडके अनुग्रहकी पात्र पत्रलेखा नामकी ताम्बूलकरङ्कवाहिनी (पानके डब्बेको धारण करनेवाली) है'—यों कहकर पत्रलेखाको दिखाया। तदनन्तर उसको देखकर ही कादम्बरी सोचने लगी कि—'अहो ! मनुष्यजातिकी स्त्रियों के प्रति प्रजापतिका यह पक्षपात !' फिर पत्रलेखाके प्रणाम करते ही उसने आदरके साथ—'आओ, आओ'—यों कहकर अपने समीप पृष्ठभाग (पीछे) में ही बैठा लिया, और समस्त परिजनवर्ग कौतुकके साथ उसको देखने लगे। देखनेके अनन्तर ही उसके प्रति अत्यन्त प्रेम उत्पन्न होनेके कारण वह बारंवार स्नेह-पूर्वक अपने करपल्लवसे उसका स्पर्श करने लगी।

उस समयमें ही मदलेखादि समस्त परिजनोंको अभिनवागमनोचित सन्तोषणादि सब उपचार सम्पादन कर चन्द्रापीड, कादम्बरीको उस अवस्थामें देखकर विचार करने लगा—'मेरा चित्त अत्यन्त कुशिक्षासे शिक्षित


१. उपविष्टायां। २. उपनीतां। ३. सकुतूहलं परिजनेन । ४. क्वचित् दिरुक्तिर्नास्ति।

चन्द्रापीडस्य समङ्गिककथन० १११] चन्द्रकला-विद्योतिनीसहिता । ६२५

'पालापेनेति'। 'प्रकाशमब्रवीत्—'देवि ! जानामि$^२$ कामरतिं निमित्तीकृत्य प्रवृत्तोऽयमविरल-सन्तापतीव्रो व्याधिः$^३$। सुतनु ! सत्यं न तथा त्वामेष व्यथयति यथास्मान्$^४$ । इच्छामि देह-दानेनापि$^५$ स्वस्थामत्रभवतीं कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषुपीडया पतितामवेक्ष-माणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते$^६$ ते भुजलते गाढसन्तापया$^७$ च दृष्ट्या वहसि

प्रकाशमिति । जानामि अग्रेत्समहं मन्ये । कां कामपि शब्दतोऽप्रतिपाद्याम् अरतिं विरागं निमित्तीकृत्य हेतुं विधाय, अविरलेन अजस्रेण सन्तापेन संज्वरेण तीव्रो महान् अयं प्रत्यक्षतयोपलभ्य-मानो व्याधिः रुक् प्रवृत्तः त्वयि सञ्जात इति वाच्योऽर्थः । कामरतिं मदनानुरागम्, अविरलेन सन्तापेन देहोत्तापेन तीव्र इति व्यङ्ग्योऽर्थः ।

सुतन्विति । हे सुतनु कादम्बरि !, एष त्वयि विद्यमान एव व्याधिः, यथा अस्मान् व्यथयति पीड-यति, सत्यमेव नौपचारिकं वचः तथा त्वां भवतीं न व्यथयतीत्यन्वयः । पीडा हि निजाश्रितजनादपि स्नेहिनं जनं निरतिशयं व्यथयतीति जनश्रुतेर्यथार्थत्वादित्याशयः । व्यङ्ग्यार्थस्तु—एष काम इति । इह 'सुतनु !' इति सम्बोधनमपि रतिकालिक सर्वावयवसौन्दर्य हृदयाकर्षक मभिव्यनक्ति । एतदनुरूप एव भावः शाकुन्तले यथा—

'तपति तनुगात्रि ! मदनस्त्वामनिशं मां पुनर्दहत्येव'

अत एवोक्तम्—इच्छामीति । देहदानेनापि शरीरावसानं कृत्वापि अत्रभवतीम् आदरणीयां त्वां स्वस्थां सुस्थां कर्तुम् इच्छामि अभिलषामि, स्वीयशरीरतोऽपि भवत्या अधिकप्रियत्वादित्याशयः । देह-दानेनापि सुरतसमये तुभ्यं देहार्पणेनापीति व्यङ्ग्योऽर्थः ।

उत्केति । उत्कम्पिनीं पीडातिशयात् नितान्तकम्पवतीं त्वाम् अनुलक्ष्याकृत्य कम्पमानस्य तव कम्पं दृष्ट्वा कम्पयुक्तस्येत्यर्थः, तथा पीडया कामव्यथया कुसुमेषु पुष्पेषु पतितां शयिताम् अवेक्षमाणस्य अव-लोकमानस्य मे मम हृदयं चित्तं पततीव बहिर्निःसरतीव, भवत्याः क्लेशतिरीक्षणेन दारुणक्लेशोदया-दित्याशयः, इति स्फुटोऽर्थः । उत्कम्पिनीम् उत्कटमदनाविर्भावात् कम्पाभिधसात्त्विकभाववतीं त्वाम् अनु-कम्पमानस्य सुरतद्वारा कृपापात्रं कर्तु मभिलषतः, तथा कुसुमेषोः पुष्पबाणस्य मदनस्य पीडया यातनया पतितां शिथिलतनु त्वामवेक्षमाणस्य मे हृदयं पततीव त्वां सुरताय (आलिङ्गनाय) धावतीवेति व्यङ्ग्योऽर्थः ।

अनङ्गद इति । तनुभूते पीडावशात् कृशीभूते तव भुजलते बाहुवल्लीयगलम् अनङ्गदे केयूराख्य-बाहुभूषणवर्जिते सति इति ज्ञेयः, पूर्वतस्तनुत्वेन सम्प्रति शिथिलीभावसम्भवादित्याशयः । तथा गाढः तीव्रः सन्तापो यस्यां तया दृष्ट्या नयनेन च, रक्तं रक्तवर्णं तामरसं कमलं यत्र तां स्थलकमलिनीं स्थलनलिनीं वहसीव प्रापयसीव, एतद्द्वयमपि महतकष्टं जनयतीत्याशयः । इह क्रियोत्प्रेक्षालङ्कारः । अनङ्गं कामं कामोत्तेजनां ददाति प्रयच्छतीत्यनङ्गदा तत्सम्बुद्धौ हे अनङ्गदं कामवृद्धिके इत्यर्थः । ते तव भुजलते तनुभूते मदनव्यथया कृशीभूते, तथा गाढसन्तापया तीव्रकामपीडाद्योतिकया दृष्ट्या, दृष्टिपातेन च, स्थले पद्मिनीचित्रिणीत्यादिनायिकाकीर्णस्थले कमलिनी नलिनीरूपा तां चतुर्विधनायिकामध्येपद्मिनीरूपमात्मानं

है, क्योंकि इस समयमें भी इसकी प्रकृत अवस्था पर विश्वास नहीं करना है । जो हो, इससे भङ्गीपूर्णवाक्यमें कुछ पूछूँ।' इस प्रकार विचार कर प्रकाश्यरूपमें उसने कहा—'देवि ! मैं जानता हूँ कि आपको किस अनिर्वचनीय वैराग्यके अभाव (दूसरा अर्थ—कामजनित अनुराग) के कारण यह रोग उत्पन्न हुआ है, और निरन्तर सन्ताप होनेसे भयङ्कर हो गया है [जिसे आप सहन करती हैं], सुन्दरि ! यह रोग मुझे जिस प्रकार व्यथित करता है, सत्य ही आपको उस प्रकार व्यथित नहीं करता है । इसलिए देहदानसे भी आपको मैं स्वस्थ करनेकी इच्छा करता हूँ । व्याधिके प्रभावसे काँपती आपको देखकर अनुकम्पा (कृपा, कम्पन) करता और पुष्प शय्यामें व्याधि (दूसरा अर्थ—कामकी पीडा) से पड़ी आपको देखना मेरा हृदय मानो बाहर निकल पड़ता है । आपकी कृश भुज-लता अनङ्गद (बाजूबन्द-विहीन, कामको दत्तक करनेवाली) हुई है, तीव्र सन्तापसे युक्त आपका नयन युगल मानो रक्ततामरस (कठोर रक्तता, विरक्त अनुराग) समन्वित स्थलपद्मिनीको धारण करता है । विशेषतः


१. प्रकाशं वाचम् । २. जानाति । ३. अविरलसन्तापतप्तो व्याधिः । ४. तामयं व्यथयति यथा मान् । ५. देहप्रदानेन । ६. अनङ्गदेवतानुभूते । ७. गाढसन्तापतया ।

६२६कादम्बरी-[ कथामुखम्-

स्थलकमलिनीमिव रक्ततामरसाम्। दुःखितायाञ्च त्वयि परिजनेऽपि चानवरतकृताश्रुबिन्दु- पातेन वर्त्तते मुक्ताभरणता। गृहाण स्वयंवरार्हाणि मङ्गलप्रसाधनानि। सकुसुमशिलीमुखा हि शोभते नव लता' इति। अथ कादम्बरी बालतया स्वभावमुग्धापि कन्दर्पेणोपदिश्येव प्रज्ञया तमशेषमस्या- ऽव्यक्तव्याहारसूचितम् अर्थं मनसा जग्राह; मनोरथानान्तु तावतीं भूमिमसम्भावयन्ती शालीनताञ्चावलम्बमाना तूष्णीमेवासीत्। केवलमुत्पादितान्यव्यपदेशा तत्क्षणं तमानतामोद-

वहसीव, तथा सरसां शृङ्गारवर्जितां सुरतरूपशृङ्गारप्रयोजनवर्जिताम्, रक्तां केवलमनुरक्तां वहसीव,- गाढकामसन्तापोत्केकेन दृष्टिपातेन कमलिनीभूतस्य स्वस्य वामानुरागं प्रकटयसीवेति व्यङ्ग्योऽर्थः। 'स्थलकमलिनीम्' इत्यस्यापि कर्मसंज्ञा तु वहतेर्द्विकर्मकत्वादोध्या।

दुःखीति। अपि च, त्वयि दुःखितायां व्याधिप्रभावात् समुत्पन्नक्लेशायां सत्याम्, परिजनेऽपि च अन-रतं निरन्तरं कृतो विहितो यः अश्रुपातः नयनाम्बुपतनं तेन सह मुक्ताभरणता त्यक्तभूषणता वर्त्तते, अत्यन्तानुरागयुक्ततया त्वत्क्लेशेने क्लेशोदयादित्याशयः। अतएव स्वयम् आत्मनैव त्वम्, वराणि सर्व- श्रेष्ठाणि च तानि अहार्णि नियोजितानि चेति तानि वरार्हाणि, मङ्गलप्रसाधनानि माङ्गलिकभूषणानि गृहाण धारय तथा सति परिचारकेष्वपि प्राप्ताश्वासेन सता भूयोऽप्यानन्दपदं गृहेतेत्याशयः। एवञ्च नवा नवीना लता अवतिः, कुसुमैः प्रसूनैः शिलीमुखैर्भृङ्गैश्च सह वर्त्तत इति सकुसुमशिलीमुखा सत्येव राजते न पुनः सकुसुमशालिमुखेत्यर्थः, अतो भवति अपि सालङ्कारैव राजसे न पुनरलङ्कारेति भवत्या नूनमेवालङ्करणं ग्रहणीयमित्याशयः। इह दृष्टान्तोऽलङ्कारः। त्वयि दुःखितायां कामयात नया समुत्पन्न- क्लेशायां सत्यां परिचारकेऽपि च अनवरतकृताश्रुबिन्दुपातेन सह निरन्तरविहितनयनाम्बुकणपतनेन सार्धं मुक्ताभरणता वर्त्तते, भवत्याः क्लेशेनेव क्लेशोदयादिति प्राग्वदेवानिप्रायः। अतएव स्वयंवरार्हाणि विवाहोचितानि, मङ्गलप्रसाधनानि करसूत्रादीनि माङ्गलिकाभूषणानि, गृहाण। एवंविधायामपि दशायां स्वं शोभितैवेति विभञ्ज्याह—सकुसुमेति। नास्ति वालता शिशुता यस्याः सा नवालता तरुणी, कुसुममेव पुष्पमेव शिलीमुखः शरो यस्य सः कुसुमशिलीमुखो मदनः, तेन सह वर्त्तत इति सा तादृश्येव शोभते न पुनरमदनेत्याशयः, इह 'नैकधा' इत्यादिवत् 'नवालता' इत्यत्र नञः प्रकृतिभावाच्छ्लोपाभावः। नन्वो- ष्ठादन्त्यस्यवकारयोर्भेदस्य स्थानभेदेनैव स्फुटं प्रतीयमानत्वात्प्रकृतेऽभेदः कथमिति चेत् ?

'यमकादौ भवेदैक्यं डलयोर्वो रलोस्तथा'

इति नियमादवगमेन छतेरभावात्।

अथेति। बालतया शिशुत्तया स्वभावेन प्रकृत्या मुग्धा सरलापि कन्दर्पेण कामेन उपदिष्टयेव सिद्धि- तयेव प्रज्ञया धिया। कन्दर्पं समन्तम्, अव्यक्तव्याहारसूचितम् अस्फुटवाक्यप्रतिपादितम् अर्थम् उपभोग- विषयकं रहःसम्मिलनरूपं वा मनसा हृदयेन जग्राह बुबुधे। इह 'उपदिष्टयेव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः। मनोरथानाम् अभिलाषाणां तु तावतीं भूमिं समागमरूपमत्युन्नतविषयम् असम्भावयन्ती अवितर्कयन्ती शालीनतां विनीततामित्यर्थः अवलम्बमाना वाश्रीयमाणा तूष्णीं मौनमेव आसीत्। उत्पादित्तन्यव्यपदेशा

आपके दुःखित रहनेसे परिजनोंने भी निरन्तर अश्रुबिन्दु बहा कर रत्नाहार परित्याग कर दिया है (अर्थात् मोतियोंके आभूषणोंके स्थानमें अश्रुधारण दिय हैं) अतएव आप खुद सर्ववरयोग्य (स्वयं करने योग्य अच्छे और उपयुक्त स्वयंवरके योग्य) उत्कृष्ट माङ्गलिक प्रसाधनको धारण करें, क्योंकि नवीनलता (नई लता और युवती) तो पुष्प और शिलीमुख (भ्रमर तथा मन्मदेव के बाण) के साथ ही शोभावमान प्रतीत होती है।'

तदनन्तर बाल्यवस्थाप्रयुक्त स्वभावसे सरल होने पर भी मानो कन्दर्पदेव द्वारा उपदिष्ट हुई हो इस प्रकार राजकुमारके उस अस्पष्टार्थ वाक्यसे सूचित समस्त अर्थको मन ही मन वह समझ गई, किन्तु अपने अभिलाषाओंके विषयमें इतनी उच्चताको सम्भावना न सम्भव समझकर लज्जाका अवलम्बन कर चुप होकर रह गई। उस समय इसके सौरभसे व्यथित हुए भ्रमरोंके अन्धकारसे आच्छादित (ढके) चन्द्रापीडको देखनेके लिए ही मानो अन्य किसी


१. स्थलकमलिनीव । २. दुःखितायामपि । ३. क्वचित् 'मङ्गल' पदं न दृश्यते । ४. अपि च त्वय्यनवरतं', परिजनेऽपि चानवरतकृताश्रुबिन्दुपातेन वर्त्तते । मुक्ताभरणतां गृहाण ।' 'कुसुमशिलीमुखान्विता शोभते यथ लता इति । ५. अस्य दव्यङ्गुचितम् ।

चन्द्रापीडस्य मदलेखायाः प्रत्युत्तरम् । ११२ ] चन्द्रकला-विद्योतिनीसहिता । ६२७

मधुकरपटलान्धकारितं द्रष्टुमिव स्मितालोकमकरोत् । ततो मदलेखा प्रत्यवादीत्—'कुमार ! किं कथयामि, दारुणोऽयमकथनीयः खलु सन्तापः । अपि च कुमारभावोपेतायाः किमिवान्यन्न सन्तापाय । तथाहि, मृणालिन्याः शिशिरकिसलयमपि हुताशनायते, ज्योत्स्नातपायते; ननु किसलयतालवृन्तवातेन मनसि जायमानं किं न पश्यसि खेदम् ? धीरत्वमेव प्राणसन्धारणहेतुरस्याः' इति । कादम्बरी तु हृदयेन तमेव मदलेखालापमस्य प्रत्युत्तरीचकार । चन्द्रापीडोऽप्युभयथा घटमानार्थतया सन्देहदोलाधिरूढेन चेतसा महारवेणदा

प्रकाशिताभ्यन्तराणाम् । लाननामोदेन वदनपरिमलेनोपस्थितेनमित्यर्थः यद् मधुकरपटलं भ्रमरसमूहः तेन अन्धकारितं समुत्पन्नान्धकारं तं चन्द्रापीडं द्रष्टुम् अवलोकयितुमिव स्मितालोकम् ईषद्वहास्यरूपप्रकाशम् अकरोत्, निबिडाच्छादितं वस्त्वदिकं द्रष्टुं दीपप्रकाशवदित्यदाशयः ।

इह तथोपस्थितभ्रमरसमूहेन अन्धकारितत्वसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलङ्कारः, 'द्रष्टुमिव' इत्यत्र क्रियोत्प्रेक्षालङ्कारश्चेत्युभयोरेकाङ्गिभावस्सङ्करः ।

तत इति । प्रत्यवादीत्प्रत्युत्तरमकार्षीत् । अकथनीयो वक्तुमशक्यः दारुणोऽतिकठिनः सन्तापो दाहः, रूपविकृतितयाऽस्य अनिर्वचनीयत्वाद्, कामोत्पन्नतया हीजनकत्वाच्चेत्याशयः । कुमारभावोपेतायाः कौमार्यनुरागाढ्याः सुतगमेव निरतिशयसुकुमाराया इत्याशयः, अस्याः कादम्बर्याः सम्बन्ध किमिव वस्तु विद्यते यन्न सन्तापाय दाहायेापपद्यते इति वाच्योऽर्थः । प्रतीयमानास्त्वस्तु कुमारे (अर्थात् त्वयि) भावोपेताया अनुरागवत्याः अथवा कुत्सितो गर्हितो मारः कन्दर्पो यस्मादेवंविधे परमसुन्र्दरे त्वयि, किं वा कुत्सितो यो मारः तस्य भावोपेताया नादेशक्रियामुपगताया अस्या विरहोद्दीपकतया सर्वमपि वस्तुजातं तापायेवेति ।

सन्तापप्रतिद्वन्द्विनामपि बहुत्वादैकत्वकथनेन निखिलवस्तूनामेव सन्तापकत्वं निरूपयितुमाह—तथहीति । मृणालिन्याः कमलिन्याः शिशिरकिसलयमपि शीतलवृक्षत्वमपि हुताशनायते वह्निवदाचरति, ज्योत्स्ना चन्द्रिकाऽपि लानपायते सूर्यालोकायते, स्यादनहृदेऽपि सन्तापयन्तीत्यर्थः ।

इहोनयोः प्रत्येकं क्यङन्तोपमालङ्कारः, तेन शिशिरपदायोन् सन्तापजननत्वादिपनालङ्कारः प्रतीयत इत्यलङ्कारेणालङ्कारध्वनिः ।

नन्विति । सामन्त्रणे ननुशब्दः । 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः । किसलयं पहवमेव तालवृन्तं व्यजनं तस्य वातैः पवनैः मनसि चेतसि खेदं क्लान्तिं किं न पश्यसि अवलोकयसि ? ननु तयाविधसन्तापे जीवनधारणमित्यत आह—धीरत्वमिति । अस्याः कादम्बर्याः प्राणसन्धारणे जीवितधारणे धीरत्वमेव धैर्यमेव हेतुनिमित्तमिति वाच्योऽर्थः । हे धीर ! त्वमेव संप्रति तस्याः प्राणसन्धारणे हेतुः, त्वां प्राप्यैव सेयं जीवितुं शक्नुयादिति तु प्रतीयमानोऽर्थः सहृदयसंवेद्यः ।

कादेति । मदलेखालापं मदलेखासम्भाषणम्, अस्य चन्द्रापीडप्रतिपादितवचनमन्दमंस्य, प्रत्युत्तरीचकार प्रतिवचः प्रादाद्, स्वस्यापि तथैवाभिधीयमानत्वादित्याशयः ।

बलेति । उभयथा घटमानार्थतया 'कुमारभाव' पदस्य कौमार्येन आमन्त्यनुरागश्चेति प्रकारद्वयेन घटिततया कारणेन, सन्देहः मदनुरागाथैव कुमारभावपदं प्रयुक्तं न वेति संशय एव दोला ताम् आरूढेनैव

बहानेसे ईषद् हास्य-प्रकाश करने लगी। उसके बाद मदलेखाने प्रत्युत्तर दिया—'राजपुत्र ! क्या कहूँ ? मदन सङ्कटूर यह सन्ताप अकथनीय है; जिसमें शिर देवी कुमारभावयुक्त (सुकुमारता) सन्ताप देनेवाले कन्दर्पके भावसे संबन्धित (अथवा आप कामसे भी अधिक रमणीय हैं, आपके भावमे युक्त) हैं इसलिए कौन-सी ऐसी वस्तु है जिससे उनको सन्ताप उत्पन्न न होता हो। देखिए—कमललता शीतल पल्लव भी अग्निके समान व्यवहार करता है और चन्द्रिका (चाँदनी) भी रौद्रके समान आचरण करती है। पल्लवोंके पंखेकी पवनसे भी इनके चित्तमें जो कष्ट उत्पन्न होता है, उसे क्या आप देखते नहीं ? ऐसी स्थितिमें इनके प्राण-धारण करनेका केवल धैर्य ही कारण है।' कादम्बरीने तो मन ही मन मदलेखाके कहनेको ही चन्द्रापीडके वाक्योंका प्रत्युत्तर दिया । 'कुमारभाव' शब्दके अर्थ दो प्रकारसे सङ्गत होनेके कारण ही, 'मेरे प्रति अनुरागार्थमें 'कुमारभाव' शब्दका प्रयोग किया है या नहीं ?' इस प्रकारके संशयरूप-दोलापर चित्तमें चन्द्रापीड, महाश्वेताके साथ प्रलाप-डूबे


१. ०००अन्धकारितं द्रष्टु । २. सुकुमार । ३. सुकुमार... । ४. पश्यति । ५. कादम्बरीहृदयेन ।