कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
ॐ काश्मीर-संस्कृतग्रन्थावलिः । ग्रन्थाङ्कः १२ कामकलाविलासः श्रीमत्पुण्यानन्दाचार्यविरचितः सटीकः श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश-(रिसर्च) कार्यालये तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्करणैः परिष्कृत्य मुम्बय्यां तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः संवत् १९७५ ख्रैस्ताब्दः १९१८ काश्मीर-श्रीनगर अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणायधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति )
Printed by Bhiwaji Hari Shinde at the " Tatva-Vivechaka " Press, Nos. 1, 2, 3, Khetwadi Back Road, Bombay; and Published by the Research Department, Srinagar, Kashmir.
ॐ नमः शिवाय क्रमाक्रमात्मसंविन्मूर्तये । अथ कामकलाविलासः श्रीमत्पुण्यानन्दाचार्यविरचितः । क्रमत्रयसमाश्रयव्यतिकरेण या संततं क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः । क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते करोमि हृदि तामहं भगवतीं परां संविदम् ॥ सकलभुवनोदयस्थिति- लयमयलीलाविनोदनोद्युक्तः । अन्तर्लीनविमर्शः पातु महेशः प्रकाशमात्रतनुः ॥ १ ॥ अत्र पुण्यानन्दयोगिनः सकलविद्याधिदैवतभूतात्रिपुर- सुन्दरीमन्त्रचक्रव्याचिकीर्षिततया तदधिष्ठानभूतकामकामेश्व-
२ कामकलाविलासः रीरूपौ आदौ आचक्षते । सकलेत्यादि, सकलानां भुवनानाम् उदयः सर्गः, स्थितिः रक्षा, लयो नाशः, एतत् त्रितयं निरो- धानुग्रहयोरुपलक्षणम्, एतत्पञ्चविधकृत्यप्रचुरा या लीला तया विनोदनं क्रीडनं तस्मिन् उद्युक्तो जागरूकः, मयट् अत्र प्राचुर्यार्थे विहितः । एवं च सति जगद्व्यतिरिक्तलक्षणं ब्रह्मस्वरूपं कीदृशम् ? इत्याकाङ्क्षायाम् आह - अन्तर्लीनवि- मर्श इत्यादिना, विमृश्यते परामृश्यते इदमिति विमर्शः प्रपञ्चः, इदमित्येवं परमात्मना सृष्टस्य जगतः प्रसिद्धः परा- मर्शः, एवंभूतो यो विमर्शः प्रपञ्चः अन्तर्लीनोऽन्तर्गतो यस्य स अन्तर्लीनविमर्शः । तदयमत्रार्थः - स्वात्मसात्कृताखिलप्र- पञ्चः परिपूर्णांहंभावभावनागर्भितः, अथ वा जगदुत्पत्तिस्थि- तिलयहेतुभूताकृत्रिमाहमिति परामर्शो विमर्शः । तथा च नागानन्दाः ' विमर्शो नाम विश्वाकारेण विश्वप्रकाशेन विश्व- संहारेण वा अकृत्रिमाहमिति विश्वस्फुरणम्, तस्य अन्तर्लीनत्वं नाम अन्तर्मुखत्वम् ।' तथा च अयमर्थः - अन्तर्लीनः अन्तर्मुखो विमर्शः पूर्णाहं- भावो यस्य इति, तत्तादृशपरब्रह्मणः परमेश्वरस्य प्रकाशैक- स्वभावत्वं सर्वस्मात्परत्वं च आह - प्रकाशमात्रतनुः इति, अत्र प्रकाशत्वं नाम - इच्छामि जानामि करोमि इति उत्तमपुरुषा-
श्रीमत्पुण्यानन्दाचार्यविरचितः ३ न्तर्गतस्फुरणरूपाहंपरामर्श एव। ननु सूर्यादीनामपि प्रकाशत्वं दृष्टं तत्कथम् अस्यैव परमात्मत्वम्? अत आह – महेश इति, महांश्चासौ ईश इति महेशः, महत्त्वं च देशकालाकारैरनव- च्छिन्नस्वरूपत्वात्, ईशत्वं सर्वनियन्तृत्वात् इति ॥ १ ॥ पराभट्टारिकायामपि सर्वाकारत्वमाह सा जयति शक्तिराद्या निजसुखमयनित्यनिरुपमाकारा । भाविचराचरबीजं शिवरूपविमर्शनिर्मलादर्शः ॥ २ ॥ सा आद्या शक्तिः अनवच्छिन्ना पराभट्टारिका महात्रिपु- रसुन्दरी, जयति सर्वोत्कर्षेण वर्तते, सा इति शिवादि-क्षित्य- न्तषट्त्रिंशत्तत्त्वमयी सर्वप्रपञ्चात्मिका तदुत्तीर्णा च, इति- सर्वोपनिषत्प्रसिद्धा त्रिपुरा अभिधीयते, त्रिभ्यस्तेजोभ्यः पुरा भूता त्रिपुरा इति निगद्यते, तस्याश्च सर्वोत्कृष्टत्वं सर्वत्र आगमेषु उद्घोष्यते। एतदेव विवृणोति – निजेत्यादिना, निजः स्वाभाविकः सुखमयः दुःखसंभिन्नो नित्यः सार्वकालिकः निरुपमो निरवधिक आकारः स्वरूपं यस्याः। भाविचरा-
४ कामकलाविलासः चरबीजं - भाविनोः संपत्स्यमानयोः चराचरयोः स्थावर- जङ्गमयोर्बीजं योनिः कारणमित्यर्थः । ननु शिवस्य यथा जगन्निर्मातृत्वं शक्त्या विना न संगच्छते, एवं पराशक्तेरपि परमशिवेन विना कारणत्वं न भवेत् इति, तत्कथमुच्यते भाविचराचरबीजम् इति ? अत आह - शिवरूपविमर्शनिर्म- लादर्श इति, शिवस्य स्वरूपम् अहमित्येवमाकारं तस्य विमर्शः परामर्शनम् अहमित्येवं-रूपं ज्ञानं तस्य प्रकाशने निर्मलादर्शः सम्यक्प्रकाशनचतुर इत्यर्थः । यथा कश्चित् राजा अतिसु- न्दरः स्वात्माभिमुखस्थितस्वच्छादर्शतले स्वात्मप्रतिबिम्बं सम्यक् प्रसमीक्ष्य तत्प्रतिबिम्बम् अहमिति जानाति, एवं परमेश्वरोऽपि स्वाधीनभूतां स्वात्मशक्तिं सम्यक् अवलोक्य स्वस्वरूपम् अवगच्छति ॥ २ ॥ परिपूर्णोऽहम् इति विमर्शमेव ब्रह्म वदन्ति केचन तत्कथ- मुच्यते - सविमर्शकं ब्रह्म ? इत्यत आह स्फुटशिवशक्तिसमागम- बीजाङ्कुररूपिणी पराशक्तिः । अणुतररूपानुत्तर- विमर्शलिपिलक्ष्यविग्रहा भाति ॥ ३ ॥
श्रीमत्पुण्यानन्दाचार्यविरचितः ५ अत्र पराशब्देन प्रकृता ख्याता महात्रिपुरसुन्दरी अभि- धीयते — चिदानन्देच्छाज्ञानक्रियारूपा, इति श्रुतिप्रसिद्धितया एवमुच्यते - स्फुटशिवशक्तिसमागमबीजाङ्कुररूपिणीति, शिवश्च शक्तिश्च शिवशक्ती तयोः समागमः संयोगः स्फुटः व्यक्तः शिवशक्तिसमागमोऽयं, तेन बीजाङ्कुररूपिणीति, बीजादङ्कुरं अङ्कुराद्बीजम् इतिवत् शिवतत्त्वादि-क्षितितत्त्वपर्यन्तं तत्त्व- जालम् उत्तरोत्तरम् उद्भावयेत् इत्यर्थः, अत्र शिवशब्देन ज्ञान- शक्तिरभिधीयते ज्ञानशक्त्यधिष्ठानत्वात् शिवतत्त्वस्य, शक्ति- शब्देनापि क्रियाशक्तिरभिधीयते क्रियाशक्त्यधिष्ठानत्वात् शक्तितत्त्वस्य — चिदानन्दस्वरूपिण्याः सर्वत्र ज्ञानक्रियाभ्या- मेव निर्माणौचित्यदर्शनात् । पुनस्तामेव विशिनष्टि — ‘अणुतर- रूपानुत्तरविमर्शलिपिलक्ष्यविग्रहा भाति’ — अणुतरम् अत्य- न्तसूक्ष्मरूपम् अस्या इति — अनुत्तरलिपिः अकारः विमर्श- लिपिः हकारः ताभ्यां लक्ष्यं विग्रहं स्वरूपं यस्याः तथोक्ता । अत्र अनुत्तरविमर्शलिपिलक्ष्यविग्रहा इत्यनेन अहमात्मिका- न्तर्गर्भितसमस्तवर्णकदम्बका पराशक्तिः अकारादि-हकारान्तं पञ्चाशदक्षररूपिणी वर्ण-पद-मन्त्र-कला-तत्त्व-भुवनात्मकसम- स्तप्रपञ्चजनयित्री पराभट्टारिका समस्तभूतान्तरात्मा सर्वत्र वेदान्ते ‘अहमहम्’ इत्येवमाकारेण प्रतीयमाना दृश्यते इत्युक्तं भवति ॥ ३ ॥
६ कामकलाविलासः इतः परं प्रबन्धेन प्रधानप्रतिपाद्यां कामकलाक्षररूपिणी- मेव कामः शिवः तदक्षररूपां वक्तुमुपक्रमते, - 'परशिवरविकर इत्यादि, कला च दहनेन्दुविग्रहौ बिन्दू' इत्यन्तम् परशिवरविकरनिकरे प्रतिफलति विमर्शदर्पणे विशदे । प्रतिरुचिरुचिरे कुड्ये चित्तमये निविशते महाबिन्दुः ॥ ४ ॥ परशिवः प्रकाशैकस्वभावः परमशिवभट्टारक एव रवि- र्दिनकरः तस्य कराः किरणाः तेषां निकरः पुञ्जः, तस्मिन् विशदे निर्मले विमर्शदर्पणे, विमर्शो नाम अनवधिरेका विस्फुरणशक्तिः, तथा प्रत्यभिज्ञायाम् 'सा स्फुरत्ता......................................।' इत्यादिनेव दर्पणत्वेन निरूप्यते - स्वस्वरूपप्रकाशत्वात् । तत्र प्रतिफलनं नाम स्वरूपावलोकनं, तादृशप्रतिफलनरूपाव- लोकने सति, चित्तमये - ज्ञानैकस्वरूपे, प्रतिरुचिरुचिरे-प्रति- प्रकाशमनोहरे, कुड्ये, महाविन्दुः निविशते प्रतिष्ठितो भवति । चित्तस्य कुड्यत्वनिरूपणं महाबिन्द्राविर्भावकारणत्वात्,
१. प्रथम भाग: कामकला स्वरूप, बिन्दु-त्रय एवं शक्ति-विमर्श (श्लोक १-१८)
श्रीमत्पुण्यानन्दाचार्यविरचितः ७ लोकऽपि सूर्याभिमुखस्थितदर्पणतले सूर्यकिरणप्रतिफलना- नन्तरं निकटगतकुड्ये सूर्यकिरणप्रतिहततेजोबिन्दुः प्रत्यक्षं प्रपद्यते, तद्वत् प्रकाशरूपपरमेश्वरस्य दर्पणवत् स्वरूपविमर्श- संबन्धे जाते तदानीं तत्र महाबिन्दुः 'पूर्णोऽहम्' इत्येवं- रूपः परमेश्वरोऽवभासते इत्यर्थः । आगमश्च 'स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य संभवः।' इति । प्रत्यभिज्ञायामपि 'सा स्फुरत्ता महासत्ता.....................।' इत्यादि । परमानन्दयोगिनोऽपि 'ईदृगियत्तादिवचो दूरतरं स्वानुभूतिसंवेद्यम् । तत्तादृशस्फुरत्ताशेषा संवित्कथं नु सा वाच्या ॥' इत्यादि ॥ ४ ॥ तादृगुज्वलात्मशक्त्यवलोकनोद्भूताहम्भावमेव विशिनष्टि चित्तमयोऽहंकारः सुव्यक्ताहार्णसमरसाकारः । शिवशक्तिमिथुनपिण्डः कवलीकृतभुवनमण्डलो जयति ॥५॥
८ कामकलाविलासः 'अहंकार इति' उद्भूतान्यस्मरणानुभवव्यञ्जको योऽयम् अहमहमित्येव विमर्शः तस्य कारः कारणम्, एवं-भूतोऽहंकारो जयति सर्वोत्कर्षेण वर्तते । यतः 'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।' चित्तमयः ज्ञानैकस्वभावः सुव्यक्ताहार्णसमरसाकारः, अश्च हश्च इत्यहौ सुतरां व्यक्तौ स्पष्टौ परस्परोद्भूतरूपौ सुव्यक्ताहौ एव लोलीभवतो यत्र सः शिवशक्तिमिथुनपिण्डः, अत एव कव- लीकृतभुवनमण्डलः, अन्तःस्थापितं भुवनमण्डलं षट्त्रिंशत्त- त्त्वसंघातमयं येन सः । अयमर्थः- प्रत्याहारन्यायेन अन्तर्ग- र्भितसमस्तवर्णकदम्बकाहंकाररूपप्रकाशविमर्शसंपुटादेव श- ब्दार्थात्मकसर्वप्रपञ्चविकासो भवति । तथा च श्रुतिः 'एको वर्णो बहुधा शक्तियोगाद्- वर्णाननेकान्निहितार्थो दधाति ।' इति ॥ ५ ॥ इतः परं 'चित्तमये निविशते महाबिन्दुः' इति यदुक्तम् तत्र बिन्दुस्वरूपनिरूपणद्वारा कामकलाम् उपदिशति सितशोणबिन्दुयुगलं विविक्तशिवशक्तिसंकुचत्प्रसरम् ।
श्रीमत्पुण्यानन्दाचार्यविरचितः ९ वागर्थसृष्टिहेतुः परस्परानुप्रविष्टविस्पष्टम् ॥ ६ ॥ बिन्दुरहंकारात्मा रविरेतन्मिथुनसमरसाकारः । कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू ॥ ७ ॥ सितः शुभ्रः, शोणो रक्तः, तद्रूपौ बिन्दू, तयोर्युगलम्, अत एव विविक्तशिवशक्ति - अन्योन्यविहरणपरे शिवशक्ती यस्मिन् कर्मणि तत्, अत एव संकुचत्प्रसरं - संकुचन् मुकुलीभवन् प्रसरः जगत्सृष्टिरूपो यस्मिन् तत्, वाचः - परा-पश्यन्त्या- दिरूपसमस्तशब्दाः, अर्थाः - शिवादि-क्षित्यन्तषट्त्रिंशत्तत्त्व- रूपाः, तेषां सृष्टिः षडध्वात्मकजगन्निर्मितिः, तत्र हेतुः कार- णम्। परस्परानुप्रविष्टविस्पष्टम् - परस्परम् अन्योन्यम् अनुप्र- विष्टम् अन्तर्गतं विस्पष्टं पृथग्भूतं च तत्, एवं-भूतं सितशोण- बिन्दुयुगलं - कामकामेश्वरीरूपं दिव्यमिथुनं, विभावयेत् इति पूर्वेण संबन्धः । अत्र इदमतिरहस्यम् । 'यः परः स महेश्वरः ।' इति श्रुत्युक्तरीत्या निखिलवेदादिशब्दोत्पादकानुत्तराभिधेयः 2
१० कामकलाविलासः परमेश्वरः स्वाङ्गभूताखिलप्रपञ्चविलयात्मकविमर्शशक्तिम् अनुप्रविश्य विन्दुभावं मन्यते, ततः सा विमर्शशक्तिरपि स्वान्तर्गतप्रकाशमयबिन्दुम् अनुप्रविशति, ततश्च बिन्दुरुत्पन्नो भवति, तस्माद्विन्दोः नादात्मिका समस्ततत्त्वगर्भिणी तेजो- मयी जीवरूपा बालाग्रवत् सूक्ष्मरूपिणी इति गत्या शृङ्गाट- करूपताम् उद्गृह्णाति । एवं च बिन्दुनादस्वरूपयोस्तयोः प्रका- शविमर्शयोरहमिति शरीरं भवति, एवं द्विरूपयोस्तयोर्मध्ये एको विमर्शो रक्तविन्दुरूपतां भजते, अपरः प्रकाशः शुक्रबिन्दु- भावम् एति, उभयोर्मेलने मिश्ररूपं सर्वतेजोमयं परमात्म- स्वरूपं भवति । श्रुतिरपि ‘ एको वर्णो बहुधा शक्तियोगात् वर्णाननेकान् निहितार्थो दधाति । ’ इति । एतदेव बिन्दुत्रयनिरूपणं विवृणोति, – बिन्दुरहंकारात्मा इति, विन्दुः सितरक्तस्वरूपः अहंकारात्मा अन्तर्गर्भितसम- स्तवर्णराशिः अनुत्तरस्फाररूपाहंकारः आत्मा तादात्म्य- स्वरूपं यस्य सः । ‘ वर्णात्कारः ’ इति सूत्रेण अहं-शब्दात् कारशब्दप्रत्ययः ऐकार इतिवत्, अत एव एतन्मिथुनसमर- साकारः – एतयोरकार-हकारवाच्ययोः प्रकाशविमर्शयोर्मि- थुनं द्वन्द्वं, तस्य दिव्यदम्पतिरूपस्य मिथुनस्य समरसः पर- स्परानुप्रवेशरूपम् आनुकूल्यं तदेव आकारः स्वरूपं यस्य
श्रीमत्पुण्यानन्दाचार्यविरचितः ११ सः, एवंभूतो रविः सितशोणबिन्दुसमरसीभूतो मिश्रबिन्दु- रित्यर्थः । लोके हि सूर्य्यस्य मिश्रस्वरूपत्वम् अग्नीषोमयोः, अत एव तस्य उपास्यत्वमाह, — काम इति, काम्यते अभि- लष्यते स्वात्मत्वेन परमार्थमहद्भिर्योगिभिरिति कामः, तत्र हेतुः — कमनीयतया इति, कमनीयत्वं स्पृहणीयत्वम् तेन । कला विमर्शशक्तिः दहनो वह्निः, इन्दुश्चन्द्रः तावेव आकारौ ययोर्बिन्द्वोर्दहनेन्दुविग्रहौ विन्दू । अत्रायमर्थः — अग्नीषोमरू- पिणी विमर्शशक्तिः तदुभयभूतकामेश्वराविनाभूता महात्रिपु- रसन्दरी बिन्दुसमष्टिरूपा कामकला इति उच्यते, सैव उपा- स्यतया सर्वागमेषु उद्घोष्यते । उक्तं च ‘ मिहिरबिन्दुमुखीं तदधो लस- च्छशिहुताशनबिन्दुयुगस्तनीम् । ह-सपरार्धकलारचनास्पदां भजत नित्यमिमां परदेवताम् ॥’ ‘ एकारोर्ध्वगतो बिन्दुर्मुखं भानुरधोगतौ । स्तनौ दहनशीतांशू योनिर्हार्धकला भवेत् ॥’ इत्यादि रहस्यम् । अयमत्र निष्कर्षः — स्वान्तर्गतानन्ताक्षर- राशिमहामन्त्रवीर्य्यपूर्णाहन्तारूपिणी प्रकाशानन्दसारा बिन्दु- त्रयसमष्टिरूपलिप्यक्षररूपिणी कामकला नाम महात्रिपुरसु- न्दरी मातृका परमयोगिभिः महामाहेश्वरैरनिशम् अनुस्म- र्त्तव्या इति । विज्ञानभट्टारकेऽपि
१२ कामकलाविलासः ‘ विन्दुरूपस्य चक्रस्य स्थूलवर्णक्रमेण तु । अर्धेन्दुबिन्दुनादान्तशून्योच्चाराद्भवेच्छिवः ॥ ’ इति ॥ ७ ॥ एवं विन्दुस्वरूपम् उद्दिश्य ज्ञानोपासनायाः फलं परं- ब्रह्मभाव एव इत्याह इति कामकलाविद्या देवीचक्रक्रमात्मिका सेयम् । विदिता येन स मुक्तो भवति महात्रिपुरसुन्दरीरूपः ॥ ८ ॥ पूर्वोक्तमहाप्रबन्धेन व्याख्याता कामकला - महात्रिपुरसु- न्दरी, तस्या विद्या ज्ञानं, कीदृशी,? इत्याकाङ्क्षायामाह - देवी- चक्रक्रमात्मिका - देव्याः त्रिपुरसुन्दर्याश्चक्रं श्रीचक्रं तस्य क्रमः चक्रमन्त्रदेवतात्मनाभिहितः सर्वानन्दमयादिसमस्तप्रकटपर्य- न्तरूपः तदात्मिका तद्विषयिणी, येन - शक्तिपातात् ब्रह्मजि- ज्ञासुना भावयता पुरुषेण, विदिता अवगता, स पुरुषो मुक्तो भवति, ‘ विद्याभिज्ञापितैश्वर्यश्चिद्धनो मुक्त एव सः । ’ इति प्रत्यभिज्ञास्थित्या संसारवासनानिरसनपटीयोऽनवरत-
श्रीमत्पुण्यानन्दाचार्यविरचितः १३ परिपूर्णांहंभावभावनाकवलीकृतसर्वप्रपञ्चः परमयोगी विह- रते, अन्तेऽपि महात्रिपुरसुन्दरीरूपः - पराभट्टारिकात्मसा- रूप्यो भवति ॥ ८ ॥ परमार्थभूतप्रकृतबिन्दोरेव सकाशात् जगदुत्पत्त्यादिकं वक्तुम् आरभते स्फुरितादरुणाद्विन्दो- र्नादब्रह्माङ्कुरारवो व्यक्तः । तस्माद्गगन-समीरण- दहनोदक-भूमि-वर्णसंभूतिः ॥ ९ ॥ स्फुरितात् उच्छूनात् , बिन्दोः पूर्वोक्तलक्षणात् , नादब्र- ह्माङ्कुरः - नादः सर्वशब्दोत्पत्तिहेतुर्वर्णः स एव ब्रह्म, तत् ब्रह्म अङ्कुर उत्पादकं यस्य सः । तथा च उक्तम् 'एको नादात्मको वर्णः सर्वनादाविभागवान् । सोऽनस्तमितरूपत्वादनाहत इति श्रुतः ॥' इति । एवं-भूतनादब्रह्मात्मक आरवः शब्दः पश्यन्त्यादिरूपो, व्यक्त आविर्भूतः, तस्मात् शब्दात्, गगन-समीरण-दहनोद-
१४ कामकलाविलासः कभूमीनां पञ्चभूतानां, वर्णानाम् आदि-क्षान्ताक्षराणां च संभूतिरुत्पत्तिराम्नाता ॥ ९ ॥ एवं शोणविन्दोः सर्वात्मत्वं सर्वस्रष्टृत्वम् चोक्त्वा, तदिह शुभ्रविन्दोरपि तत्स्वरूपम् अतिदिशति अथ विशदादपि बिन्दो- र्गगनानिल-वह्नि-वारि-भूमिजनिः । एतत्पञ्चकविकृति र्जगदिदमण्वाद्यजाण्डपर्यन्तम् ॥ १०॥ विशदात् सर्वप्रकाशात्, बिन्दोः पूर्वव्याख्यातात्, गगना- दिपञ्चभूतात्मकानन्तब्रह्माण्डानि आविर्भावतिरोभावौ भजन्त इत्यर्थः । तथा च आगमः ‘स्वेच्छाविलसितानन्तजगद्रश्मिविलासवत् । नौमि संविन्महापीठं शिवशक्तिपराश्रयम् ॥’ इति ॥ १० ॥ एवं बिन्दुद्वयाभेदम् उक्त्वा, तद्दृष्टान्ततया मन्त्रदेवतयोरपि ऐक्यमाह
श्रीमत्पुण्यानन्दाचार्यविरचितः १५ बिन्दुद्वितयं यद्वद् भेदविहीनं परस्परं तद्वत् । विद्यादेवतयोरपि न भेदलेशोऽस्ति वेद्यवेदकयोः ॥११॥ बिन्दुद्वितयं – पूर्वोक्तप्रकाशविमर्शात्मकं, यद्वत् – येन प्रकारेण, भेदविहीनं ‘शिवशक्तिरिति ह्येतत्तत्त्वमाहुर्मनीषिणः।’ इत्युक्तनीत्या परस्पराश्लिष्टं, तद्वत् तेनैव प्रकारेण, विद्यादेव- तयोः – विद्या पञ्चदशाक्षरी देवता महात्रिपुरसुन्दरी तयो- र्वेद्यवेदकयोः वाच्यवाचकयोः, भेदलेशोऽपि – ईषद्वैलक्षण्य- मपि नास्ति, एवम् अभिन्ननादादिमिथुनात् अखिलं जगत् आविर्भवति इति ॥ ११ ॥ तदेव मिथुनम् आत्मेच्छयैव स्वभेदमस्वभेदमकरोत् इत्याह वागर्थौ नित्ययुक्तौ परस्परं शक्तिशिवमयावेतौ । सृष्टिस्थितिलयभेदौ त्रिधा विभक्तौ त्रिबीजरूपेण ॥ १२ ॥
१६ कामकलाविलासः वाक् वर्ण-पद-मन्त्ररूपा, अर्थः कला-तत्त्व-भुवनात्मा, एत- द्रूपत्वं कुतः? - प्रकाशविमर्शात्मकशब्दार्थाभ्यामेव षडध्वा- त्मकसर्वप्रपञ्चोत्पत्तिश्रवणात्, अत एव नित्ययुक्तौ निरन्तरसं- सक्तौ, नहि घटपटयोरिव कादाचित्कः संबन्धः, तथा सति सर्वोत्पत्तिप्रसंगः। सृष्टिस्थितिलयभेदौ - सृष्टिः शिवादिक्षिति- पर्यन्ततत्त्वजालाविर्भावः, स्थितिः तत्परिपालनं, लयस्तेषां स्वात्मसात्कारः एवं-भूतो भेदो ययोस्तौ। स्वात्मत्वं तु एतेषां त्रयाणां, तथा च अभिनवगुप्तपादाः 'स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ।' इति। परस्परं शक्तिशिवमयो प्रकाशविमर्शस्वरूपौ, उभ- योरेकत्वात् वह्निदाहकत्ववत् तत्त्वान्तरं न भवति इत्यर्थः। अभियुक्तोक्तिश्च 'तादात्म्यमनयोर्नित्यं वह्निदाहकयोरिव ।' इति। एतौ पूर्वोक्तौ प्रकाशविमर्शौ त्रिधा त्रिप्रकारेण संस्थितौ, विभक्तौ पृथग्भूतौ। केन? इत्याह - त्रिबीजरूपे- णेति, वाग्भव-कामराज-शक्तिबीजात्मकत्वेन इत्यर्थः। अय- मर्थः - बिन्दुत्रयसमष्टिभूतकामकलाक्षररूपिणी महात्रिपुर- सुन्दरी सर्वोपास्या इति ॥ १२ ॥ इतः परं वाग्भवादिखण्डत्रयान्तर्गतवस्तुविशेषवर्णनद्वारा श्रीपञ्चदशाक्षरीविद्याम् उद्धर्तुम् उपक्रमते
श्रीमत्पुण्यानन्दाचार्यविरचितः १७ माता मानं मेयं बिन्दुत्रयं भिन्नबीजरूपाणि । धामत्रय-पीठत्रय- शक्तित्रयभेदभावितान्यपि च ॥१३॥ तेषु क्रमेण लिङ्ग- त्रयं तद्वच्च मातृकात्रितयम् । इत्थं त्रितयपुरीया तुरीयपीठा च भेदिनी विद्या ॥१४॥ माता अवकाशगत ईश्वरः, मानं तदवगतिसाधनभूता विद्या, मेयं ज्ञायमाना महात्रिपुरसुन्दरी, एवं मातृमानमेय- भावम् अनुभूय विहरति । धामत्रयं वाग्भवादिकम्, पीठत्रयं कामगिर्यादि, शक्तित्रयम् इच्छादि, एवमादिभेदेन भावि- तानि, बिन्दुमत्वात् एतेषां, तेषु धामादिषु विभिन्नेषु, क्रमेण आनुपूर्व्या, लिङ्गत्रयं स्वायंभुवादि, मातृकात्रितयमकारवि- भेदभिन्नम्, एवंविधसमस्तवस्तुपूरणात् तत्समष्टिरूपा त्रिपुरा नाम पराशक्तिराविर्भूता, इत्याह - इत्थं त्रितयपुरीया इति, ३
१८ कामकलाविलासः इत्थं पूर्वोक्तप्रकारेण त्रितयानि अवयवानि पुराणि शरी- राणि यस्याः सा, अत एव तुरीयस्य पीठा - त्रिविधात्मक- सर्वप्रपञ्चाविर्भावतिरोभावभूरित्यर्थः ॥ १३-१४ ॥ इतः परं, तस्मात् गगनसमीरणदहनोदकभूमिवर्णसंभूति- रिति प्रथमसृष्टप्रपञ्चभूतनिष्ठगुणवर्णनद्वारा अक्षरसंख्यावि- शिष्टमहामन्त्रात्मकदेवतास्वरूपं वक्तुमारभते शब्द-स्पर्शौ रूपं रस-गन्धौ चेति भूतसूक्ष्माणि । व्यापकमाद्यं व्याप्यं तूत्तरमेव क्रमेण पञ्चदश ॥ १५ ॥ पञ्चदशाक्षररूपा नित्या चैषा हि भौतिकाभिमता । नित्याः शब्दादिगुण- प्रभेदभिन्नास्तथानया व्याप्ताः ॥ १६ ॥ नित्यास्तिथ्याकारा- स्तिथयश्च शिवशक्तिसमरसाकाराः ।