कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
श्रीवात्स्यायनमुनिप्रणीतं-
कामसूत्रम् ।
यशोधरकृतया जयमङ्गलाख्यया व्याख्यया समेतम् ।
साधारणनामके प्रथमेऽधिकरणे
प्रथमोऽध्यायः।
नमो धर्मार्थकामेभ्यस्तत्कामेभ्यो नमो नमः।
त्रिवर्गमोक्षकामेभ्योऽकामेभ्यस्त्वमितं नमः॥
वात्स्यायनीयं किल कामसूत्रं व्याख्यायि तत् कैश्चिदिहान्यथैव।
तस्माद्विधास्ये जयमङ्गलाऽऽख्यां टीकामिमां सर्वविदं प्रणम्य॥
इह चत्वारो वर्णा (१)ब्राह्मणादयः, चत्वारश्चाश्रमा ब्रह्मचारी, गृहस्थो, (२)वैखानसो, भिक्षुरिति, तत्र ब्राह्मणादीनां गृहस्थानां मोक्षस्यान(३)भिमतत्वात् (४)त्रिवर्गः पुरुषार्थः, तत्रापि धर्मार्थयोर्हेतुत्वात्काम एव फलभूतः प्रकृष्टः पुरुषार्थ इति कामवादिनः, स चोपायं विना न भवतीति तदुपायमाचिख्यासुराचार्य(५)मल्लनागः पूर्वाचार्यमतानुसारेण शास्त्रमिदं प्रणीतवान् ।
ननु तद्धेतुत्वादङ्ग्धर्मार्थावेवोपादेयौ, तौ च शास्त्रविहितौ ? सत्यम्,
( १ ) आदिशब्दात् क्षत्रियवैश्यशूद्रा ग्राह्याः । तथा चामरः “वर्णाः स्युर्ब्राह्मणादयः, विप्रक्षत्रियविट्शूद्रा” इति ।
( २ ) वानप्रस्थः । “वैखानसो वानप्रस्थ” इति विश्वः ।
( ३ ) यद्यपि निरतिशयसुखादिरूपे मोक्षे कस्यापि नानभिमतत्वं सम्भवति विशेषतो ब्राह्मणानां, “ब्राह्मणस्य च देहोऽयं क्षुद्रकामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय चे” त्यादिश्रीभागवतादिप्रामाण्यात्, तथाऽपि प्रकृतशास्त्राधिकारिताऽवच्छेदककोटौ मोक्षानभिमतत्वाभ्युपगमादित्यमुक्तिः ।
( ४ ) “त्रिवर्गो धर्मकामार्थैर्”त्यमरः ।
२ सटीक कामसूत्रे [ १ अधिकरणे,
तद्धेतुत्वेऽप्युपायान्तरापेक्षत्वात्(१)संप्रयोगपराधीनः कामः, सम्प्रयोगश्चोपायमपेक्षते, उपायपरिज्ञानं च कामशास्त्राद्, न धर्मार्थशास्त्राभ्याम् । वक्ष्यति च प्रयोजनवाक्यम्—"संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते" अधि. १ । अ. २ । प्र. २ । सू. २२ । "सा चोपायप्रतिपत्तिः (२)कामसूत्रादिति" अधि. १ । अ. २ । प्र. २ । सू. २३ । तत्रोपायोऽभिधेयः, तत्प्रकाशनं कामशास्त्रेण क्रियमाणं प्रयोजनम्, अन्यथा कथं प्रतिपत्तिः शास्त्राद् ? अनधीतशास्त्राणां तु तच्छास्त्रोपायपरिज्ञानं स्वतोऽसम्भवात् परोपदेशात्स्यात्, परोपदेशश्चेत्कथं न शास्त्राभ्युपगमः, तथा चेदमुपायपरिज्ञानं तद् घुणाक्षरकल्पं; सम्यक्करणोयवर्जनीयापरिज्ञानात्, ततश्चोपायबाहुल्यात्तैर्नागरिकैरनागरिका नागरिकाः क्रियन्ते, तथा चोक्तम्—
'यदविज्ञातशास्त्रेण कदा चित्साधितं भवेत् ।
न चैतद् बहु मन्तव्यं घुणोत्कीर्णमिवाक्षरम्' ॥ इति ।
यदपि कामशास्त्रविदां केषां चिद् व्यवहाराकौशलम्, तत्तेषामेव दोषो न शास्त्रस्य, प्रतिपत्तिदोषाच्च शास्त्रानर्थक्यं सर्वत्र तुल्यम् , न हि चिकित्साऽऽद्यर्थेषु शास्त्रेषु सर्वे तद्विदः पथ्याहारादिकं सेवन्ते, तस्मात्तदर्थिनो ये भक्तिश्रद्धाऽन्वितास्तेऽपि शास्त्रप्रयोजनहेतवः ।
तत्र देवतानमस्कारपूर्वकं शास्त्रप्रणयनमविघ्नितप्रसरं भवतीत्याह—
धर्मार्थकामेभ्यो नमः ॥ १ ॥
अर्थशब्दस्याजाद्यदन्तत्वेऽपि न पूर्वनिपातः, धर्मस्या(३)भ्यर्हितत्वाद्, वक्ष्यति च—"(४)पूर्वः पूर्वो गरीयान्" अधि. १ । अ. २ । प्र. २ । सू. १४ । इति ॥ १ ॥
( १ ) स्त्रीपुंसयोर्विशेषसामान्यकामहेतुः सम्बन्धविशेषः, स च रताख्याभ्यन्तरसम्भोगसमागमाख्यबाह्यसम्भोगप्रभेदाभ्यां सम्भोगपरपर्यायायतनसम्प्रयोगनामा विशेषकामहेतुः, स्त्रीपुंसान्योन्यसाक्षात्काररूपाङ्गसम्प्रयोगनामा सामान्यकामहेतुश्चेति द्विप्रकारः सम्प्रयोगः ।
( २ ) सूत्रलक्षणं च—"लघूनि सूचिताथानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिण" इत्यभियुक्तोक्तमूह्यम् ।
( ३ ) वासुदेवार्जुनाभ्यां वुन् । ४ । ३ । ९८ । इत्यत्र पूर्वनिपातितवासुदेवपदादभ्यर्हितेतराजाद्यदन्तस्य पूर्वनिपातः, इत्यर्थकत्वा "दजाद्यदन्तम् । २ । २ । ३३ । इतिसूत्रस्येति भावः ।
१ अध्याये ] शास्त्रसङ्ग्रहप्रकरणम् । ३
१ अध्याये ] शास्त्रसङ्ग्रहप्रकरणम् । ३
अन्यदेवतासद्भावेऽपि किमिति तेभ्यो नम इत्याह—
शास्त्रे प्रकृतत्वात् ॥ २ ॥
'अधिकृतानधिकृतयोरधिकृते प्रतिपत्तिर्बलीयसी'ति न्यायात् । यथा च पुरुषार्थत्वेन कामोऽस्मिञ्शास्त्रेऽधिकृतस्तथा तद्द्वारेण धर्मार्थावपि, एतदुपदिष्टोपायपूर्वकं प्रवर्तमानस्य त्रिवर्गसिद्धेः, तथा च वक्ष्यति—"अन्योन्यानुबद्धं त्रिवर्गं सेवेत(१)", अधि. १ । अ. २ । प्र. २ । सू. १ । तथा, "सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनुपस्कृता रतिश्च" अधि. ३ । अ. १ । प्र० १। सू. १ । इति । तेषां चाधिकारात्तदधिष्ठात्र्योऽपि देवता अधिकृताः, उपचारात्तच्छब्दवाच्याः, अन्यथा धर्मादीनां वक्ष्यमाणलक्षणानामदेवताऽऽत्मकत्वान्नमस्कारो नोपपद्येत, अधिष्ठातृदेवताऽस्तित्वं चागमात्, तथा हि—'पुरूरवाः शक्रदर्शनार्थमितः स्वर्गं गतो मूर्तिमतो धर्मादीन्दृष्ट्वोपगम्य धर्ममेवेतरावेवानादृत्य प्रदक्षिणीचकार, ततोऽसौ ताभ्यां तिरस्कारामर्षिताभ्यामभिशप्तः, ततोऽस्य कामाभिशापादूर्वशीविरहोत्पत्तिरभूत्, तस्यां च कथं चिदुपशान्तायामर्थाभिशापादतिवृद्धलोभश्चातुर्वर्ण्यस्यार्थमशेषमाहृतवान्, ततोऽर्थापहाराद्यज्ञादिक्रियाविरहोद्विग्नैर्ब्राह्मणैर्दर्भपाणिभिर्हतो ननाशे' त्यैतिहासिकाः ॥ २ ॥
तत्समयावबोधकेभ्यश्चाचार्येभ्यः ॥ ३ ॥
तेषां धर्मादीनां समयस्तत्त्वम्, अवबोधयन्तीत्यवबोधकाः, तत्समयावबोधका इति षष्ठीसमासप्रतिषेधस्यानित्यत्वं(२), 'तत्प्रयोजको हेतुश्च' पा. १ । ४ । ५५ । इति निदर्शनाद्, ये तत्समयं प्रतिपादयितुं तच्छास्त्रं प्रणीतवन्तस्तेभ्यो नमः, नान्येभ्यइत्यर्थः ॥ ३ ॥
कुत इत्यत आह—
तत्संबन्धात् ॥ ४ ॥
तेषामिह शास्त्रे सम्बन्धादित्यर्थः । तत्प्रणीतशास्त्रसंक्षेपेण हि शास्त्रस्य प्रणयनात् ॥ ४ ॥
'प्रजापतिर्हि इत्यादिनाऽऽगमविशुद्ध्यर्थं गुरुपूर्वकंमलक्षणं स-
(१) सूत्रैकदेशोऽयम् । "शतायुर्वै पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत अधि० १ । अ० २ । प्र० २ । सू० १ इत्यस्य ।
(२) चिन्त्यमेतद्, वस्तुतस्तु शास्त्रानित्यत्वकल्पनाऽपेक्षयेदृशस्थले शेषषष्ठीसमासो-
४ | सटीक कामसूत्र | [ १ अधिकरण,
सम्बन्धमाह—
प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनमध्यायानां शतसहस्रेणाग्रे प्रोवाच ॥ ५ ॥
प्रजापतिर्हीति । हिशब्दो यस्मादित्यर्थे । अविपरीतोऽयमागमो गुरुपरम्परयाऽन्वाख्यायते यतः स्थितिनिबन्धनमिति । प्रजानां तिस्रोऽवस्थाः सर्गस्थितिप्रलयलक्षणाः, तत्र सर्गादूर्ध्वं प्रबन्धेनावस्थानं स्थितिः, सा हि द्विविधा, शुभा, चाशुभा च, त्रिवर्गोऽपि द्विविधः, उपादेयोऽनुपादेयश्च, तत्र पूर्वो धर्मोऽर्थः काम इति, द्वितीयोऽप्यधर्मोऽनर्थो द्वेष इति, तत्र धर्मादमुत्र शुभा गतिः, अधर्मादशुभा, अर्थादिहैव शरीरपरिभोगो धर्मप्रवर्तनं च, अनर्थात्क्लिष्टजीवनम् अधर्मप्रवर्तनं च, कामात्सुखं, प्रजोत्पत्तिश्च, द्वेषान्नोभयं तस्य च निःसुखस्याप्रजस्य तृणस्येव स्थितिः, इत्येवं स्थितेस्त्रिवर्गो निबन्धनम् , तस्योपेयानुपेयस्य प्राप्तिपरिहारौ नोपायं विनेति तदुपायशासनत्वाच्छास्त्रमप्युपचारात्स्थितिनिबन्धनम् । शतसहस्रेणेति । लक्षेण । अग्रे प्रोवाचेति । तदानीं शास्त्रान्तराभावादिदमेवाग्रथमिति । श्रुतिरपि सर्वजनविषयेति तामेव हृदि स्थितामनुसंचिन्त्य साधारणभूतं स्मार्तशास्त्रं प्रकर्षेणोवाच ॥ ५ ॥
तस्यैकदेशं स्वायंभुवो मनुर्धर्माधिकारिकं पृथक्चकार ॥ ६ ॥
तस्येति । प्रजापतिप्रोक्तस्यैकदेशास्त्रयः, तत्र यत्र धर्मोऽधिकृतस्तन्मनुः पृथक्चकार यत्रार्थस्तं बृहस्पतिः, यत्र कामस्तन्नन्दीति, “स्वायंभुव” इति वैवस्वत(१)निवृत्त्यर्थम् । धर्माधिकारिकमिति । धर्मप्रस्तावो यत्रास्ति तद् धर्मशास्त्रमित्यर्थः ॥ ६ ॥
बृहस्पतिरर्थाधिकारिकम् ॥ ७ ॥
अर्थाधिकारिकमिति । अर्थशास्त्रं चकारेत्यर्थः । द्वयोरप्यनयोरप्रस्तुतत्वान्नाध्यायसंख्या दर्शिता ॥ ७ ॥
महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ॥८॥
महादेवेति । महादेवस्य पश्चाच्चरति यः, नान्योऽयं नन्दिनामा कश्चित्, तथा हि श्रूयते—“दिव्यं वर्षसहस्रमुमया सह सुरतसुखमनुभवति महादेवे वासगृहद्वारगतो नन्दी कामसूत्रं प्रोवाचे” ति । अत्राध्यायसंख्यानमुक्तं शास्त्रस्य प्रस्तुतत्वात् ॥ ८ ॥
(१) तथा च वर्तमानवैवस्वतमन्वन्तराव्यवहितपूर्ववर्तिमन्वन्तरे मानवशास्त्रप्रकाशः ...
१ अध्याय ] शास्त्रसङ्ग्रहप्रकरणम् । ५
तदेव तु पञ्चभिरध्यायशतैरौद्दालकिः श्वेतकेतुः संचिक्षेप ॥ ९ ॥
तदेव त्विति । नन्दिप्रोक्तं, तस्यैकदेशम् । तुशब्दो विशेषणार्थः । औद्दालकिरित्युद्दालकस्यापत्यं यः श्वेतकेतुः, तथा हि, परदाराभिगमनं लोके प्रागासीद्, यथोच्यते—
'पकान्नमिव राजेन्द्र ! सर्वसाधारणाः स्त्रियः । तस्मात्तासु न कुप्येत न रज्येत रमेत च' ॥ इति ।
इयमौद्दालकिना व्यवस्था निवर्तिता, तथा चोक्तम्—
'मद्यपानान्निवृत्तिश्च ब्राह्मणानां गुरोः सुतात् । परस्त्रीभ्यश्च लोकानामृषेरौद्दालकेरपि ॥ ततः पितुरनुज्ञानाद्गम्यागम्यव्यवस्थया । श्वेतकेतुस्तपोनिष्ठः सुखं शास्त्रं निबद्धवान्' ॥ इति ॥ ९ ॥
तदेव तु पुनरध्यर्धेनाध्यायशतेन साधारणसांप्रयोगिककन्या- संप्रयुक्तकभार्याऽधिकारिकपारदारिकवैशिकोपनिषदिकैः सप्तभिर- धिकरणैर्बाभ्रव्यः पाञ्चालः संचिक्षेप ॥ १० ॥
तदेव त्विति । यदेवौद्दालकिना संक्षिप्तम् ; पुनरर्थतो ग्रन्थतश्च सं- चिक्षेप, पूर्वत्र परदाराभिगमनं सामान्येन प्रतिषिद्धम् , इह तु विशेषेणे- त्येवं पारदारिकमत्रोक्तम् , अध्यर्धेन पञ्चाशदधिकेनाध्यायशतेन, तत्रो- त्तरेषामधिकरणानामस्य साधारणत्वात्साधारणम् , संप्रयोगः प्रयोजन- मस्येति सांप्रयोगिकम् , कन्यायाः संप्रयुक्तं संप्रयोगो यस्मिन्निति क- न्यासंप्रयुक्तकम् , भार्याऽधिकारिणी यस्मिन्नस्तीति भार्याऽधिकारि- कम् , तथा पारदारिकम् , वेशो वेश्यावृत्तं तत्प्रयोजनमस्येति वैशि- कम् , तथौपनिषदिकम् , उपनिषद्रहस्यं साधारणाद्युपादानं शास्त्रशरी- रख्यापनार्थम् , एतावन्तोऽर्थाः शास्त्र इति । आचार्योऽपि तथैव स्वशा- स्रमतः संचिक्षेप । सप्तभिरिति नियमार्थम् । अधिक्रियन्ते प्रकरणार्था- येष्वित्यधिकरणानि, बाभ्रव्यो बभ्रोरपत्यं यः पाञ्चालः । 'मधुबभ्वोः—, । ४ । १ । १०६ इति यञ् ॥ १० ॥
तस्य षष्ठं वैशिकमधिकरणं पाटलिपुत्रिकाणां गणिकानां नि- योगाद्दत्तकः पृथक्चकार ॥ ११ ॥
तस्येति । बाभ्रव्यसंक्षिप्तस्य । षष्ठमितीयमेवानुपूर्वी नान्येति प्र- दर्शनार्थम् अन्यथा पाठादेव संख्या लब्धा, तां चानुपूर्वी वर्णयिष्या-
(१) मध्वबभ्रोर्ब्राह्मणकौशिकयोः । ४ । १ । १०६ ।
६ सटीक कामसूत्र [ १ अधिकरण,
मः। पाटलिपुत्रिकाणामिति। मगधेषु पाटलिपुत्रं माम नगरं, तत्र भवा इति। 'रोपधेतोः प्राचाम्' । ४ । २ । १०६ । इति वुञ् । नियोगादिति। अन्यतमो माथुरो ब्राह्मणः पाटलिपुत्रे वसतिं चकार, तस्योत्तरे वयसि पुत्रो जातः, तस्य जातमात्रस्य माता मृता, पिताऽपि तत्रान्यस्यै तं पुत्रत्वेन दत्त्वा कालेन लोकान्तरं गतः, ब्राह्मण्यपि ममायं दत्तः पुत्र इत्यनुगतार्थमेव नाम चक्रे स च तया संवर्धितोऽचिरेणैव कालेन सर्वा विद्याः कलाश्चाधीतवान् व्याख्यानशीलत्वादत्तकाचार्य इति प्रतीतिमुपागतः, एकदा च तस्य चेतस्येवमभवत्, लोकयात्रा परा ज्ञेयाऽस्ति, सा प्रायशो वेश्यासु स्थितेति ततो वेश्याजनं परिचयपूर्वकं प्रत्यहमुपागम्य तथा तामधिविवेद यथा स एवोपदेशस्य ग्रहणायास्य प्रार्थनीयोऽभूत्, ततोऽसौ वीरसेनाप्रमुखेण गणिकाजनेनाभिहितः, "अस्माकं पुरुषरञ्जनमुपदिश्यतामिति" तन्नियोगात्पृथक्चकारेत्ययमाम्नायः। अन्यस्तु शास्त्राभिगमयुक्तां युक्तिमाह- यत्र गर्भयात्रायां दत्तकनामा तत्पदावधूतेन प्रतिशयितेन त्र्यक्षेण शप्तः स्त्री बभूव, पुनश्च कालेन लब्धवरः पुरुषोऽभूत्, तेनोभयरसज्ञेन पृथक्कृतमिति, यदि बाभ्रव्योक्तमेव पृथक्कृतं किम पूर्वं स्वसूत्रेषु दर्शितं येनोभयरसज्ञता कल्प्यते, यदि चायमर्थः शास्त्रकृतोऽप्यभिमतः स्यात्तदानीं 'नियोगादुभयरसज्ञो दत्तकः' इत्येवमसिद्ध्यत् ॥ ११ ॥
तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं पृथक्प्रोवाच ॥१२॥ सुवर्णनाभः सांप्रयोगिकम् ॥ १३ ॥ घोटकमुखः कन्यासंप्रयुक्तकम् ॥ १४ ॥ गोनर्दीयो भार्याऽधिकारिकम् ॥ १५ ॥ गोणिकापुत्रः पारदारिकम् ॥ १६ ॥ कुचुमार औपनिषदिकम् ॥ १७ ॥
दत्तकेन वैशिकं पृथक्कृतमित्येतत्प्रसङ्गाच्चारायणादयोऽपि पृथक्प्रकर्षेणोचुः, प्रकर्षश्च यत्तेषु स्वमतप्रकाशनम्, तच्च स्थानस्थानेषु स्वशास्त्रेषु दर्शयिष्यति ॥ १२-१७ ॥
एवमित्यादिना स्वशास्त्रस्य प्रयोजनमाह-
एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतमुत्सन्नकल्पमभूत् ॥१८॥
तच्छास्त्रं बाभ्रव्योक्तम्। खण्डश इति खण्डं खण्डं कृत्वोत्सन्नकल्पमीषदूत्सन्नमिव क्व चिद् दृश्यमानत्वात्। नन्द्यादिप्रणीतमुत्सन्नमेवेत्यर्थोक्तम् ॥ १८ ॥
तस्यायं(१) प्रकरणाधिकरणसमुद्देशः—
१ अध्याय ] शास्त्रसङ्ग्रहप्रकरणम् । ७
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानामेकदेशत्वाद्, महदिति च बाभ्रवीयस्य दुरध्येयत्वात्, संक्षिप्य सर्वमर्थमल्पेन ग्रन्थेन कामसूत्रमिदं प्रणीतम् ॥ १९ ॥
तत्रेति । शास्त्रप्रस्थापने । शास्त्रावयवानामित्यवयवभूतानाम् , एकदेशार्थत्वान्न कामाङ्गीभूताशेषवस्तुपरिज्ञानम् । बाभ्रवीयस्येति । बाभ्रव्यप्रोक्तस्य सम्पूर्णशास्त्रस्याप्रयोजनमाह—तस्य सम्पूर्णस्यापि महदिति कृत्वा दुःखैनाध्ययनम् । तत्सप्तभिरधिकरणैः सप्त सहस्राणि संक्षिप्य; सर्वमल्पेन ग्रन्थेनेति सम्पूर्णतां स्वध्येयतां च दर्शयति । इदमिति बुद्धिस्थमाह । प्रणीतमिति समाप्तिमाशंसते ॥ १८ ॥
तस्येत्यादिना स्वशास्त्रस्यार्थावयवानाचष्टे—
तस्यायं(१) प्रकरणाधिकरणसमुद्देशः—
शास्त्रसङ्ग्रहः ॥ २० ॥ त्रिवर्गप्रतिपत्तिः ॥ २१ ॥ विद्यासमुद्देशः ॥ २२ ॥ नागरिकवृत्तम् ॥ २३ ॥ नायकसहायदूतीकर्मविमर्शः ॥ २४ ॥
इति साधारणं प्रथममधिकरणम् । प्रकरणानि पञ्च ।
प्रमाणकालभावेभ्यो रतावस्थापनम् ॥ २५ ॥ प्रीतिविशेषाः ॥ २६ ॥ आलिङ्गनविचाराः ॥ २७ ॥ चुम्बनविकल्पाः ॥ २८ ॥ नखरदनजातयः ॥ २९ ॥ दशनच्छेद्यविधयः ॥ ३० ॥ देश्याउपचाराः ॥ ३१ ॥ संवेशनप्रकाराः ॥ ३२ ॥ चित्ररतानि ॥ ३३ ॥ प्रहणनयोगाः ॥ ३४ ॥ तद्युक्ताश्च सीत्कृतोपक्रमाः ॥ ३५ ॥ पुरुषायितम् ॥ ३६ ॥ पुरुषोपसृप्तानि ॥ ३७ ॥ औप-
( १ ) इयता प्रबन्धेन प्रकृतशास्त्रस्य समूलकतां संसूच्य, सम्प्रति तत्प्रतिपाद्यार्थनिरूपयितुकामेनोद्देशलक्षणपरीक्षाविधिभिस्त्रैविधीं शास्त्रप्रवृत्तेरालोच्य, मुनिना क्रमायातमुद्देशमादौ विधायोपक्रम्यते शास्त्रमिदं प्रतिपादयितुम् ।
तदुपक्रमवाक्यं चैतत् “तस्यायमि”त्यादि । सूत्रत्वं त्वस्य न भाति, उद्देशलक्षणपरीक्षाऽन्यतमासम्बन्धित्वाद्, अत एव तत्तत्प्रकरणादिसमाप्तिबोधकवाक्यानामपि न तत्वं, स्पष्टावगत्याद्यर्थमेव निबन्धृणामारम्भावसानेषु तज्जातीयलेखोपलम्भाद्, यथा—“बहिरङ्गान्ते”त्यादिवाक्यानां सूत्रात्मकशास्त्रघटकत्वेऽपि न तत्त्वं; किन्तु तथात्वमेवेति ।
८ सटीक कामसूत्रे [ १ अधिकरणे,
रिष्टिकम् ॥ ३८ ॥ रतारम्भावसानिकम् ॥ ३९ ॥ रतविशेषाः ॥ ४० ॥ प्रणयकलहः ॥ ४१ ॥
इति साम्प्रयोगिकं द्वितीयमधिकरणम् । अध्याया-
दश । प्रकरणानि सप्तदश ।
वरणविधानम् ॥ ४२ ॥ सम्बन्धनिर्णयः ॥ ४३ ॥ कन्या-
विस्रम्भणम् ॥ ४४ ॥ बालाया उपक्रमाः ॥ ४५ ॥ इङ्गिताका-
रसूचनम् ॥ ४६ ॥ एकपुरुषाभियोगः ॥ ४७ ॥ प्रयोद्ध्यस्यो-
पावर्तनम् ॥ ४८ ॥ अभियोगतश्च कन्यायाः प्रतिपत्तिः ॥ ४९ ॥
विवाहयोगः ॥ ५० ॥
इति कन्या सम्प्रयुक्तकं तृतीयमधिकरणम् । अध्यायाः
पञ्च । प्रकरणानि नव ।
एकचारिणीवृत्तम् ॥ ५१ ॥ प्रवासचर्या ॥ ५२ ॥ सपत्नी-
षु ज्येष्ठावृत्तम् ॥ ५३ ॥ कनिष्ठावृत्तम् ॥ ५४ ॥ पुनर्भूवृत्तम्
॥ ५५ ॥ दुर्भगावृत्तम् ॥ ५६ ॥ आन्तःपुरिकम् ॥ ५७ ॥ पुरुष-
स्य बह्वीषु प्रतिपत्तिः ॥ ५८ ॥
इति भार्याऽधिकारिकं चतुर्थमधिकरणम् । अध्यायौ
द्वौ । प्रकरणान्यष्टौ ।
स्त्रीपुरुषशीलावस्थापनम् ॥ ५९ ॥ व्यावर्तनकारणानि
॥ ६० ॥ स्त्रीषु सिद्धाः पुरुषाः ॥ ६१ ॥ अयत्नसाध्या योषितः
॥ ६२ ॥ परिचयकारणानि ॥ ६३ ॥ अभियोगाः ॥ ६४ ॥
भावपरीक्षा ॥ ६५ ॥ दूतीकर्माणि ॥ ६६ ॥ ईश्वरकामितम्
॥ ६७ ॥ आन्तःपुरिकं दाररक्षितकम् ॥ ६८ ॥
इति पारदारिकं पञ्चममधिकरणम् । अध्यायाः
षट् । प्रकरणानि दश ।
गम्यचिन्ता ॥ ६९ ॥ गमनकारणानि ॥ ७० ॥ उपावर्त-
नविधिः ॥ ७१ ॥ कान्ताऽनुवर्तनम् ॥ ७२ ॥ अर्थागमोपायाः
> इति वैशिकं षष्ठमधिकरणम् । अध्यायाः षट् । प्रकरणानि द्वादश ।
१ अध्याये ] शास्त्रसङ्ग्रहप्रकरणम् । ९
॥ ७३ ॥ विरक्तलिङ्गानि ॥ ७४ ॥ विरक्तप्रतिपत्तिः ॥ ७५ ॥ निष्कासनप्रकाराः ॥ ७६ ॥ विशीर्णप्रतिसन्धानम् ॥ ७७ ॥ लाभाविशेषः ॥ ७८ ॥ अर्थानर्थानुबन्धसंशयविचारः ॥ ७९ ॥ वेश्याविशेषाश्च ॥ ८० ॥
इति वैशिकं षष्ठमधिकरणम् । अध्यायाः षट् । प्रकरणानि द्वादश ।
सुभगङ्करणम् ॥ ८१ ॥ वशीकरणम् ॥ ८२ ॥ वृष्याश्च योगाः ॥ ८३ ॥ नष्टरागप्रत्यानयनम् ॥ ८४ ॥ वृद्धिविधयः ॥ ८५ ॥ चित्राश्च योगाः ॥ ८६ ॥
इत्यौपनिषदिकं सप्तममधिकरणम् । अध्यायौ द्वौ । प्रकरणानि षट् ।
एवं षट्त्रिंशदध्यायाः । चतुःषष्टिः प्रकरणानि । अधिकरणानि सप्त । सपादं श्लोकसहस्रम् । इति शास्त्रसङ्ग्रहः ।
अयमिति वक्ष्यमाणो ग्रन्थः । प्रक्रियन्ते प्रस्तूयन्ते येष्वर्था इति प्रकरणानि तेषामधिकरणानां च समुद्देशः संक्षेपेणाभिधानम् । शास्त्रस्य संग्रहः, त्रिवर्गप्रतिपत्तिः, इत्यादय उक्तार्थाः तत्साहचर्याद् ग्रन्थभागा अपि तत्समाख्याः, यथा— कंस(१) वधं काव्यमिति, शास्त्रं चेदं तन्त्रमावापञ्चेति द्विधा स्थितम्, तत्र तन्त्र्यते जन्यते रतिर्येन तत्तन्त्रमालिङ्गनादि, तदुपदिश्यते येन तदपि तन्त्रं सांप्रयोगिकमधिकरणम्, समन्तादावाप्यन्ते स्त्रियः पुरुषाश्च येन स आवापः समागमोपाय इत्यर्थः, स येनोपदिश्यते तदप्यावापः कन्यासं प्रयुक्तकाद्यधिकरणचतुष्टयम्, तत्र तन्त्रावापानुष्ठानं न साधारणानुष्ठानं विनेति प्राक्साधारणमुच्यते, औपनिषदिकं तु तन्त्रावापाभ्यामसिद्धे व्यापियत इत्यन्ते वक्ष्यति, तदुभयमपि तन्त्रावापान्तर्गतमेव तदङ्गत्वात्, तत्र साधारणे शास्त्रसंग्रहप्रकरणमादावुक्तम्, तत्र शास्त्रस्य संगृह्यमाणत्वात् ॥ २०—८६ ॥
षट्त्रिंशदित्यादिना स्वशास्त्रस्यावयवसमुदायाभ्यां संख्यानमाह— तत्राध्यायसंख्यानं पूर्वशास्त्रेभ्य इदं स्तोकमिति दर्शनार्थम्, प्रकर-
( १ ) षष्ठीतत्पुरुषतात्पर्येणेदम् ।
२ का० सू०
१० सटीक कामसूत्रे [ १ अधिकरणे,
णाधिकरणसंख्यानमन्यनिरपेक्षार्थम्, श्लोकसंख्यानमहीनाधिकत्वज्ञा- पनार्थम् ।
उत्तरग्रन्थसन्धानायाह—
संक्षेपमिममुक्त्वाऽस्य विस्तरोऽतः प्रवक्ष्यते ।
इष्टं हि विदुषां लोके समासव्यासभाषणम् ॥ ८७ ॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे
शास्त्रसंग्रहः प्रथमोऽध्यायः प्रथमं प्रकरणम् ।
संक्षेपमिति । अस्येति शास्त्रस्य । विस्तरोऽतः प्रवक्ष्यते संक्षेपा- दूर्ध्वम् । किमर्थमेवं शास्त्रविन्यास इत्यत आह—इष्टं हीति । लोके ये शास्त्रेऽधिकृतास्ते विद्वांसः, तेषां संक्षेपविस्तराभ्यां शास्त्रस्य मनसि धारणमिष्टम्, प्रज्ञातप्रकरणार्थक्रमत्वादसंमोहो यथाऽभिलषितप्रकरणा- र्थप्रत्यवमर्शश्च स्याद् ॥ ८७ ॥
इति शास्त्रसंग्रहः प्रथमं प्रकरणम् ॥ १ ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलायां साधारणे प्रथमेऽधिकरणे शास्त्रसङ्ग्रहः प्रथमोऽध्यायः ॥ १ ॥
द्वितीयोऽध्यायः ।
त्रिवर्गप्रतिपत्तिफलं शास्त्रम्, तस्मिन्नप्रतिपत्तौ विप्रतिपत्तौ वा तदुपायपर्य्येषणमपि युक्तम्, तस्माच्छास्त्रसंग्रहादनन्तरं त्रिवर्गप्रतिप- त्तिरुच्यत इति प्रकरणसम्बन्धः । उद्देशापेक्षया च सम्बन्धित्वे कथमु- द्देश इति चिन्त्यम्, प्रतिपत्तिस्त्रिविधा-अनुष्ठान,मवबोधः, संप्रतिप- त्ति,श्चेति । तत्र प्राधान्यादनुष्ठानमधिकृत्याह—
शतायुर्वे पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानु- पघातकं त्रिवर्गं सेवेत ॥ १ ॥
शतायुरिति । शतमायुरस्येति शतायुः, शतशब्दः सामान्यवाच्य- पि वर्षगतसंख्यानमाह, वृत्तौ तथाऽर्थस्य विवक्षितत्वात्, कालवि- भागार्थं वैतदपरिच्छिन्नायुषो विभागसम्भवात् पुरुष इति प्राधा- न्यख्यापनार्थम्, स्त्रीणां तु पुरुषाधीना त्रिवर्गं सेवेत्यस्वातन्त्र्यम् । वि- भज्य वक्ष्यमाणेन न्यायेन । अन्योन्यानुबद्धमिति । धर्मादीनामन्यतमं द्वाभ्यामेकेन वाऽनुबद्धम् । तद्यथा-प्रजार्थिनो धर्मपत्न्याममभिप्रेताया-
२ अध्याये ] त्रिवर्गप्रातपत्तिप्रकरणम् । ११
मृतावभिगमनं धर्मोऽर्थानुबद्धः, अप्रजार्थिनोऽभिप्रेतायां पत्न्यामभिगमनं धर्मः कामानुबद्धः, अपरिणीतस्य सवर्णादनभिप्रेतकन्यालाभोऽर्थो धर्मानुबद्धः, परिणीतस्यासमवर्णादभिप्रेतकन्यालाभोऽर्थः कामानुबद्धः, धर्मपत्न्यामभिप्रेतायामृतौ कामो धर्मानुबद्धः, परिणीतस्य निष्किञ्चनस्याधमवर्णायामर्थवत्यामभिप्रेतायामधिगतायां कामोऽर्थानुबद्धः, इत्येकानुबद्धाः । अपरिणीतस्य सवर्णायामनन्यपूर्वायामभिप्रेतायां यथाविधि संयोगो धर्मोऽर्थकामानुबद्धः, तस्यैवाभिप्रेतसवर्णकन्यालाभोऽर्थो धर्मकामानुबद्धः, तस्यैवार्थरूपवत्यां परस्परोत्कण्ठयोद्वाहितायां कामो धर्मार्थानुबद्धः, इति द्वयनुबद्धाः । परस्परस्यानुपघातकमिति । यत्रानुबन्धो नास्ति तत्रैकमितरयोरनुपघातकम्, एकानुबन्धे चान्यस्यानुपघातकं सेवेत । अत्रोदाहरणं वक्ष्यामः ॥ ४ ॥
वयोद्वारेण कालविभागमाह—
बाल्ये विद्याग्रहणादीनर्थान् ॥ २ ॥
बाल्य इति। वयोविभागस्तन्त्रान्तर उक्तः—
'आ षोडशाद्भवेद् बालो यावत्क्षीरानुवर्त्तकः।
मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते' ॥ इति।
विद्याग्रहणमादिर्येषामर्थानां तान्सेवेतेति ॥ २ ॥
एवम्—
कामं च यौवने ॥ ३ ॥
कामं यौवने तदोचितत्वात् ॥ ३ ॥
स्थाविरे धर्मं मोक्षं च ॥ ४ ॥
स्थाविरे धर्ममोक्षावननुभूतविषयत्वाद्, मोक्षग्रहणं परमतापेक्षम्, ज्ञानवादिनां चतुर्वर्गः पुरुषार्थः, अस्मिन्नेव काले तैरप्याध्यात्मिकं चिन्त्यमिति ।
ननु त्रिवर्गस्य नियतकालत्वादन्योन्यानुबन्धो नास्ति, ततश्चासेवनप्रसङ्ग इति ? नायं नियमः, अनुबद्धत्वाभावे निरनुबद्धत्वमप्युक्तम्, अथवा यथाकालमहन्यहनि सेवा प्रतिषेधपरस्त्वाद्धर्मादिनियमस्य, यथाकालं तु धर्मादिषु सेव्यमानेषु यद्यदाऽनुषङ्गादितरानुबन्धो नास्ति ततश्च भवतु न दोषाय ॥ ४ ॥
अनित्यत्वादायुषो यथोपपादं वा सेवेत ॥ ५ ॥
अनित्यत्वादिति। वर्षशतादर्वाग्विनाशदर्शनात्। यथोपपादमिति। यद्यदोपपद्यते तत् तदा सेवेत बाल्येऽर्थं धर्ममपि, यौवने कामं धर्मा-
१२ सटीक कामसूत्रे [ १ अधिकरणे,
र्थावपि, स्थाविरे धर्मम् अर्थकामानुष्ठानसामर्थ्यं चेत्तावपीति । अन्य- थैकसेवायामसमग्रः पुरुषार्थः स्यात् । सेवेतेति पुनर्वचनं पूर्वस्मात्प- क्षात्पक्षान्तरादरार्थम् ॥ ५ ॥
अस्मिन्पक्षे विद्याग्रहणाद्यर्थस्य सेवायाः कालत्रयेऽपि संभवान्नि- यमयति—
ब्रह्मचर्यमेव त्वाऽविद्याग्रहणात् ॥ ६ ॥
यावद्विद्या न गृह्यते तावत्कामं न सेवेत; अन्यथा ह्यधर्मस्तद्ग्रहण- विघाततः; विद्याऽर्थलाभाभावश्च, भूम्याद्यर्जने तु न नियमः,
अन्ये तु विद्याग्रहणवर्जं प्रायेण भूम्याद्यर्जनं न संभवति; अतस्त्र- यस्त्रिंशदब्दाश्चत्वारश्च मासा इति प्रत्येकं वयो विभज्य योजयन्ति, अस्मिन्विभागे षोडशवर्षादूर्ध्वं कामसम्भवाद्, बाल्येऽपि धर्मार्थकामा- न्सेवेतेत्युक्तमनुष्ठानम् ॥ ६ ॥
अवबोधस्वरूपं; यतश्च परिज्ञातं तदुभयमप्याह—अलौकिकत्वा- दित्यादिना ।
अलौकिकत्वाददृष्टार्थत्वादप्रवृत्तानां यज्ञादीनां शास्त्रात्प्रवर्त- नम्; लौकिकत्वाद् दृष्टार्थत्वाच्च प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः ॥ ७ ॥
तत्र लोके रूपाविवदविदितस्वरूपत्वादलौकिका यज्ञादयः ।
ननु विशिष्टद्रव्यगुणकर्मात्मकत्वाद्विदितस्वरूपाः कथमलौकिकाः ? इत्यत आह—अदृष्टार्थत्वादिति, तेषामनन्तरं फलस्यादर्शनात् । येऽदृ- ष्टफलाः सन्तोऽलौकिका न ते प्रेक्षावद्भिरदृष्टसामर्थ्यौषधिवत्प्रवर्त्यन्त- इत्यप्रवृत्ताः, आदिशब्दात्तपश्चरणादयः, तेषामप्रवृत्तानां शास्त्रात्प्रवर्त्त- नं धर्म इति; अयं प्रवृत्तिरूपो धर्मः । लौकिकत्वाद् दृष्टार्थत्वादि|ति| । ये दृष्ट तृप्त्यादिफलाः सन्तो लौकिकास्ते तदर्थिभिर्मृगादिमांसभक्षणवत्प्रव- र्त्यन्ते; तस्मात्प्रवृत्तेभ्यश्च मांसभक्षणादिभ्य आदिशब्दात्परस्वाभिद्रोहाप- रस्वादानादिभ्यः शास्त्रादेव निवारणं प्रतिषेधनमिति; अयं निवृत्तिरूपः। कथमिव शास्त्रं प्रमाणमिति चेदुत्तरत्र वक्ष्यति ॥ ७ ॥
तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत ॥ ८ ॥
तमिति । उक्तस्वरूपं धर्मम् । श्रुतेरिति । स्मृत्यनुगताङ्ग्रेदाह, योऽधिकृतः शास्त्रे, अनधिकृतो वा धर्मज्ञसमवायात् = स्मृत्यर्थतत्त्वज्ञसं- सर्गादित्यर्थः, प्रतिपद्येत = अवबुध्येत ॥ ८ ॥
२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १३
विद्याभूमिहिरण्यपशुधान्यभाण्डोपस्करमित्रादीनामर्जनमर्जितस्य विवर्धनमर्थः ॥ ९ ॥
विद्याः=आन्वीक्षिक्यादयः। भूमिः=कृष्टा कृष्या वा। हिरण्यं=सुवर्णादि, पशुः=हस्त्यश्वादिः, धान्यं=पूर्वमध्यावरवापः,=भाण्डोपस्करं=गृहोपकरणं लोहकाष्ठमृद्विदलचर्ममयम्, मित्रं=सहपांशुक्रीडितादि, आदिशब्दाद्वस्त्राभरणादयः। अर्जनं द्विविधम्-निष्पन्नानां हस्त्यादीनां स्वीकरणम्; अनिष्पन्नानां च धान्यादीनां निष्पादनम्। अर्जितस्येत्येकवचनमेकैकस्य द्रव्यस्यार्जनवर्धनयोरर्थतत्त्वे द्वाविति दर्शनार्थम्, अन्यथा समुदायस्यैवार्जनं वर्धनं चार्थः स्यात्। वर्धनमुपायः। भूम्यादिरर्जितावर्जितश्चार्था इति वक्तव्ये; अर्जनवर्धनग्रहणं शास्त्रव्यापारदर्शनार्थम्, तयोः शास्त्रेणोपदिश्यमानत्वात् ॥ ९ ॥
तमध्यक्षप्रचाराद्वार्तासमयविद्भ्यो वणिग्भ्यश्चेति ॥ १० ॥
तमिति। अर्जनवर्धनस्वरूपम्। अध्यक्षाः प्रचरन्त्यनेनेत्यध्यक्षप्रचारः=शास्त्रम्; तस्माच्छास्त्रे योऽधिकृतः, इतरश्च वार्तासमयविद्भ्यः कृषिपशुपाल्यवाणिज्यादितत्त्वविद्भ्यः, वणिग्भ्य इत्युपलक्षणार्थम्, कर्षकेभ्यो गवादिपोषकेभ्यश्च प्रतिपद्येतेति ॥ १० ॥
एवम्
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाऽधिष्ठितानां- स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः ॥ ११ ॥
त्वगिति कामेन्द्रियम्, कामो द्विविधः-सामान्यो; विशेषश्च, तत्र सामान्यमाह-आत्मसंयुक्तेन मनसेति। आत्मा समवायिकारणम्ः सुखदुःखेच्छाद्वेषप्रयत्नादिगुणानां तत्र समवायात्, तत्र यदाऽस्य प्रयत्नगुण उत्पद्यते तदाऽयं मनसा संयुज्यते; मन इन्द्रियेण; इत्यनेन क्रमेणाधिष्ठितानाम्। स्वेषु स्वेष्विति । यथाक्रमं शब्दस्पर्शरूपरसगन्धेषु। आनुकूल्यत इति। यदाऽऽत्मनः शब्दादीनां बुद्धीन्द्रियाणा मानुलोम्येन या प्रवृत्तिः, इच्छोपगृहीता श्रोत्रादिबुद्धिरित्यर्थः, सा विषयोपभोगस्वभावात् काम इत्युपचर्यते, आत्मा हि तद्द्वारेण विषयं भुञ्जानः सुखमनुभवति यत्तत्सुखं प्रधानं कामः, तस्य निबन्धनमिच्छोपगृहीता प्रवृत्तिः, साऽपि काम इत्युच्यते, तस्माद्धेतुफलभेदात्सामान्यकामो द्विविधः। प्रातिकूल्यतः प्रवृत्तिस्तु दुःखहेतुत्वाद् द्वेष इत्यर्थोक्तम् ॥ ११ ॥
विशेषकामो द्विविधः-प्रधानम्; अप्रधानं च, तदुभयमपि दर्शयन्नाह-
१४ सटीक कामसूत्रे [ १ अधिकरणे,
स्पर्शविशेषविषये स्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात्कामः ॥ १२ ॥
स्पर्शविशेषविषये त्विति । वाक्पाणिपादपायूपस्थानि=कर्मेन्द्रियाणि; तेषां वचनादानविहरणोत्सर्गानन्दकर्मनिष्पादनात् , तत्र स्त्रीपुंसयोर्यदधो व्यञ्जनं संबाधकादि तन्मात्रस्वभावं तत्त्वगिन्द्रियमेव; तस्य कश्चिदेव प्रदेशविशेष उपस्थेन्द्रियमुच्यते, यो विसृष्ट्यवस्थायामानन्दजं कर्म जनयति, तस्य व्यञ्जनस्य योऽन्तर्गतः स्पर्शः स स्पर्शविशेषः, तस्मिन्विषये प्रतीतिरसावर्थप्रतीतिस्त्वगिन्द्रियबुद्धिः, अस्याः संप्रयोगेच्छा लक्षणः कामिताऽऽख्यो भावः कारणम् । अस्येति । स्त्र्यात्मनः; पुरुषात्मनश्च, तत्र स्त्र्यात्मनः पुरुषव्यञ्जनस्पर्शविशेषविषये स्त्रीव्यञ्जनत्वगिन्द्रियप्रतीतिः; पुरुषात्मनश्च स्त्रीव्यञ्जनस्पर्शविशेषविषये पुरुषव्यञ्जनत्वगिन्द्रियप्रतीतिरित्यर्थः । विशेषदेशोपग्रहणात्पुरुषयोरुकक्षादिस्पर्शनविषये; स्त्रियाश्चापद्रव्यस्पर्शविषये प्रतीतिर्निरस्ता, तस्या अप्रधानत्वात्, एवंविधा प्रतीतिः सामान्यकाम एव, कथं विशेषत्वमिति चेद् ? आह-फलवतीति । तस्यां प्रतीतौ प्रबन्धेनोत्पद्यमानायां शुक्रक्षरणेन तत्तुल्यकालमेव चानन्दाख्यं फलं सुखमित्युक्तम्, तेन युक्ता शुक्रस्पर्शविशेषविषये विषयप्रीतिरपरा भवति, तस्याश्च पूर्विकैव प्रतीतिरफला कारणम्, अतो विषयभेदात्स्वरूपभेदाच्च द्विधा प्रतीतिः । अर्थप्रतीतिरिति । अर्थग्रहणात्त्वक्प्रत्यञ्जनस्पर्शार्थस्यालीकत्वात्फलवत्यपि न कामः, तस्या अप्रधानत्वात्। यद्येवं वियोनावयोनौ वाऽनभिप्रेतेऽर्थप्रतीतिरेवंविधाऽप्यस्तीत्यत आह—अभिमानिकसुखानुविद्धेति । आभिमानिकं चुम्बनादिसुखं वक्ष्यति । चुम्बननखदशनच्छेद्यादिषु हि तत्र तत्र स्थानेषु प्रयुज्यमानेषु स्त्रीपुंसयो रागः संकल्पवशात्सुखमित्यभिमन्यते, तेन सुखेनानुविद्धेत्याक्षिप्तसंस्कारेऽर्थप्रतीतिः प्राधान्यात्कामः, तेन वियोनावयोनौ वाऽनभिप्रेतस्त्रीपुंसयोः फलवत्यर्थप्रतीतिर्न कामः, आभिमानिकसुखाभावात्, तस्मात्स्पृष्टव्यविशेषविषयो विशेषः कामः ॥ १२ ॥
तं कामसूत्रान्नागरिकजनसमवायाच्च प्रतिपद्येत ॥ १३ ॥
तमिति । उक्तस्वरूपं सामान्यं विशेषं च, प्रधानमप्रधानं च , कामसूत्रादस्मादेव, शास्त्रेऽधिकृतो यः, इतरश्च नागरिकसमवायात्कामव्यवहारज्ञसंसर्कात्प्रतिपद्येतेति ॥ १३ ॥
एवं धर्मादीनि युगपत्सेवितुमधिगन्तुं वा न संभवन्तीति गौरवलाघवमपि बुध्येतेत्याह—
तेषां समवाये पूर्वः पूर्वो गरीयान् ॥ १४ ॥
२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १५
तेषामपि समवाये संनिपाते, तदुपायसंनिधानात् पूर्वः पूर्व इति कामादर्थो गरीयान्, कामस्यार्थसाध्यत्वात्, ततोऽपि धर्मः अर्थस्य धर्मसाध्यत्वात् ॥ १४ ॥
नायं सर्वविधिविषयक्रम इत्यत आह—
अर्थश्च राज्ञः ॥ १५ ॥
अर्थस्तु राज्ञो गरीयान् इति ॥ १५ ॥
तन्मूलकत्वाल्लोकयात्रायाः ॥ १६ ॥
तन्मूलकत्वादिति । वर्णाश्रमाचारलक्षणा लोकयात्रा, सा मा भूदन्यथेति तस्याः पालनं राज्ञो धर्मः, तच्च प्रभुशक्तौ सत्याम्, प्रभुशक्तिश्च कोषडण्डबलम्, ते चार्थत इति तन्मूला लोकयात्रा ॥ १६ ॥
वेश्यायाश्च ॥ १७ ॥
इति त्रिवर्गप्रतिपत्तिः ।
वेश्यायाश्चार्थो गरीयान्, अर्थनिबन्धनत्वात्तज्जीविकायाः । वेश्या हि कामातुरब्राह्मणाभिप्रेतनागरिकविषयौ धर्मकामावुपगतौ त्यक्त्वा पश्चाद्बविष्यत इत्यनिष्टेऽप्ययमर्थद इति प्रवर्त्तत इति ॥ १७ ॥
त्रिवर्गप्रतिपत्तिरनुष्ठानावबोधलक्षणोक्त्यर्थः ।
इदानीं विप्रतिपत्तिपूर्विकां संप्रतिपत्तिं दर्शयन्नाह—
धर्मस्यालौकिकत्वात्तदभिधायकं शास्त्रं युक्तम् ॥ १८ ॥
धर्मस्येत्यादि । कामसूत्र एव तद्विप्रतिपत्तिं दर्शयति—अलौकिकत्वादिति, यथोक्तं प्राक्, अभिधायकं ज्ञापकं शास्त्रम् ॥ १८ ॥
उपायपूर्वकत्वादर्थसिद्धेः ॥ १९॥
अर्थसिद्धेरिति । अर्जनबर्धनाख्या चार्थसिद्धिः ॥ १९ ॥
उपायप्रतिपत्तिः शास्त्रात् ॥ २० ॥
अन्यथोपायं विना प्रवर्त्तमानस्यार्थोऽपि न स्यात्, तत्संशयश्च ॥२०॥
तत्र धर्मार्थमर्थार्थं च शास्त्रं युक्तम्, कामार्थं त्वयुक्तमित्याह—
तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यमस्तीत्याचार्याः ॥ २१ ॥
तिर्यग्योनिष्ष्वपीति । गवादिष्वपि तमोबहुलेषु शास्त्रोपदेशं विना कामः प्रवर्त्तमानो दृश्यते, किं पुनर्मनुष्येषु रजोबहुलेषु न प्रवर्त्तेतेति, तथा चोक्तम्—
‘विनोपदेशं सिद्धो हि कामोऽनाख्यातशिक्षितः ।
१६ सटीक कामसूत्रे [ १ अधिकरणे,
स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणामिति ॥
नित्यत्वाच्चेति । आत्मनि द्रव्यपदार्थे सदैवेच्छाद्वेषादयो गुणाः स्थिताः, ततश्च नित्यः कामः। तथा चोक्तम्—
'मुमुक्षवोऽपि सिद्ध्यन्ति विरागाद्रागपूर्वकात् ।
विषयेच्छाऽनुवर्त्तिन्यो निसर्गात्प्राणिनां धियः' ॥
तस्मात्प्रवर्त्तमानेन शास्त्रेण न कार्यं तन्निवर्त्तनं तु युक्तम् । आचार्याः=धर्मार्थमोक्षवादिनः ॥ २१ ॥
अत्र संप्रतिपत्तिमाह—
सम्प्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायमपेक्षते ॥ २२ ॥
सम्प्रयोगपराधीनत्वादिति । विशेषः सामान्यो वा कामः सम्प्रयोगपराधीनः, सम्प्रयोगश्च द्विविधः—आयतनसम्प्रयोगोऽङ्गसम्प्रयोगश्च । तत्रायतनं कामस्य स्त्र्यधिष्ठानम् , अङ्गानि च माल्यादीनि । तथा चोक्तम्—
'सुखं कामस्तदङ्गानि भूषणालेपनस्रजः ।
तथोपवनहर्म्यञ्च वल्लकीमदिराऽऽदयः ॥
अस्यायतनमुद्दामरूपयौवनविभ्रमाः ।
ललनाश्चाटुदाक्षिण्याश्चाकृष्टजनमानसाः' ॥ इति ।
तत्रायतते यः सम्प्रयोगः स आयतनसम्प्रयोगः, स च द्विविधः बाह्य आभ्यन्तरश्च, तत्र यो रहसि स आभ्यन्तरो रताख्यः, स विशेषकामस्य निमित्तम्, बाह्यः समागमलक्षणो रतस्य, यश्च बुद्धीन्द्रियाणां यथास्वमङ्गैः सम्प्रयोगः सोऽङ्गसम्प्रयोग इति इन्द्रियार्थसंनिकर्षलक्षणः स च सामान्यकामस्य निमित्तम् ; अनयोश्च कामयोर्यथास्वं पूर्वोक्तमेवेच्छा कारणम् तत्पूर्वकत्वात्, तदभावेऽभावात् । तत्राद्यः सम्प्रयोगः समागमलक्षणः, स स्त्रीपुंसयोरन्यतरानिच्छया रक्षणाल्लज्जया भयाद्वा परतन्त्रायां न घटत इत्यत्रायमुपायमपेक्षते; रताख्यश्च पाञ्चात्यश्चतुःषष्टिप्रयोगानभिज्ञयोः कथं स्यादिति तमुपायम् ; द्वितीयोऽपि सम्प्रयोगो नित्यनैमित्तिकनागरिकवृत्तं विना न भवतीत्युपायापेक्षा २२॥
सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः ॥ २३ ॥
उपायपरिज्ञानं च कामसूत्रात्, तेनोपदिश्यमानत्वात् । वात्स्यायन इति स्वगोत्रनिमित्ता समाख्या, मल्लनाग इति च सांस्कारिकी ॥ २३ ॥
गवादिषु कथमिति चेत्तदाह —
तिर्यग्योनिषु पुनरनावृतत्वात्स्त्रीजातेश्च ऋतौ यावदर्थं प्रवृत्तेर्बुद्धिपूर्वकत्वाच्च प्रवृत्तीनामनुपायः प्रत्यक्षः ॥ २४ ॥
२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १७
पुनःशब्दो विशेषणार्थः। अनावृतत्वादिति। रक्षणाद्यावरणाभावात् स्त्रीजातिः स्वतन्त्रा; किं तत्रोपायेनेत्यनुपायः प्रत्यय इति सम्बन्धः। प्रत्ययशब्देनोभयरूपोऽपि सम्प्रयोग उक्तः, तस्य कामोत्पत्तौ निमित्तत्वात्, तत्रावरणाभावादाचार्योक्तोपायशून्यः समागम इत्यर्थः। ऋतौ यावदर्थमिति। ऋतुकाल एव ते तिर्यञ्चः सम्प्रयुज्यन्ते, मनुष्यास्तु प्रजाऽर्थमृत्तौ, स्त्रीरमणार्थं चानृतावपीत्यसमानम्, तथा चोक्तम्—'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इति, तत्रापि यावदर्थं-यावदेव तृप्तिलक्षणोऽर्थो निष्पद्यते तावदेव सम्प्रयुज्यन्ते; न तु द्वितीयंसम्प्रयोगमपेक्षन्ते-किमस्य तृप्तिर्भून्न वा? इति, तस्मादसमानार्थत्वादनुपायप्रत्यय आभ्यन्तरसम्प्रयोगः, तत्र समानार्थतालक्षणं प्रेम स्त्रीरक्षणोपायो नास्तीति, मनुष्येष्वेवमिति चेद् ? अत एवास्योपदेशः, अन्यथा तथा समानार्थत्त्वादनुपायः, तत्पत्न्याः पुरुषान्तरगमने न कश्चित्पुरुषार्थोऽस्य स्यात्, तथा चोक्तम्—
'भजते संभृतप्रेमा परं चेदस्य कामिनी।
नष्टे धर्मे हते वृत्ते सुखं दूरे हतं कुलम्' ॥
तस्मात्समानार्थताजन्यमेव प्रेम स्त्रीरक्षणोपायः, यच्च स्त्रीरक्षणार्थंमनुप्रोक्तमसुकुमारत्वसाधनार्थं कुट्टनादि गृहकर्म तदुपायोद्वेगजननादनुपाय एव, तथा चोक्तम्—
'कर्माण्यसुकुमाराणि रक्षणार्थेऽवदन्मनुः।
तासां स्रज इवोद्दामगजानानोपसंहिताः ॥
असति प्रेम्णि तत्सर्वमित्याचार्या व्यवस्थिताः।
समानार्थतया तच्च न शास्त्रेणोपदिश्यते ॥ इति,
अबुद्धिपूर्वकत्वादिति। धर्मोऽर्थः पुत्राः सम्बन्धः पक्षवृद्धिः स्यादित्येवं बुद्धिपूर्वं न प्रवर्तन्ते; केवलं पशुधर्ममात्रेणेत्यनुपायप्रत्यय आभ्यन्तरसंप्रयोगः, अनुबन्धोपायरहितत्वात्, तस्माद् दैवरक्ताः किंशुका इति किंतिर्यग्योनिषु शास्त्रप्रणयनेन, अनुकूलेषु वा पुरुषेषु, इतरत्र तु विपर्ययेण स उपायप्रत्यय इति युक्तं शास्त्रप्रणयनम् ॥ २४ ॥
धर्मे विप्रतिपत्तिमाह—
न धर्मांश्चरेत् ॥ २५ ॥
॥ २५ ॥
एष्यत्फलत्वात् ॥ २६ ॥
एष्यत्फलत्वादिति। यज्ञादयो नैहलौकिका; जन्मान्तरफला उक्ताः,
३ का० सू०
१८ | सटीक कामसूत्रे | [ १ अधिकरणे,
हस्तगतद्रव्यत्यागे न प्रेक्षावात्समीहते किं स्विदैव कृष्यादिफलं निष्पा-
द्योपभुङ्क्ते न परम्परामपेक्षते ॥ २६ ॥
सांशयिकत्वाच्च ॥ २७ ॥
सांशयिकत्वाच्च भविष्यतः फलस्येति। उपस्कारतस्तपश्चार्थाक्ले-
शादर्थक्षयाच्च निष्पादितेऽपि यज्ञादौ ततः किं स्वर्गादिफलं स्यान्न
वेति ? सन्दिग्धम्, कारणानां कार्योत्पादननियमादर्शनात्(१) सन्दिग्धे
च कोऽसंशयितार्थत्यागेन प्रवर्तेत इति हेतुद्वयम् ॥ २७ ॥
तत्र प्रथमस्य लोकप्रसिद्धिमाह--
को ह्यबालिशो हस्तगतं परगतं कुर्यात् ॥ २८ ॥
**को हीति। अबालिशः=**प्रेक्षावान् यथा कश्चित्स्वहस्तगतं द्रव्यं परह-
स्तीकृतं कार्यकाले स्वयं गत्वा साध्यं हारितं भक्षितं वोऽनेन स्यादिति
न विप्रकृष्टं करोति, तथा जन्मान्तरे भोक्ष्येऽहमिति यज्ञादिषु नियोज्य;
विप्रकृष्टं कः कुर्याद् नैतत्स्याद् ॥ २८ ॥
इह द्रव्यं साध्यफलं तावन्मात्रकं तावत्कालं वाऽमुत्र विपरीत-
मित्याह--
वरमद्य कपोतः श्वो मयूरात् ॥ २९ ॥
वरमद्येति। यथा पक्षिमांसार्थिनो महतः श्वो मयूरलाभादद्य कपो-
तलाभोऽपि गरीयांस्तद्वदिहापीति ॥ २९ ॥
द्वितीयस्य लोकप्रसिद्धिमाह--
वरं सांशयिकान्निष्कादसांशयिकः कार्षापणइति
लौकायतिकः ॥ ३० ॥
वरमिति। गृहाण कार्षापणं, नो चेद्देष्यति मेऽद्य हेमशतं ततो निष्कं
दास्यामीति, तत्र प्रत्युपस्थितकार्यस्यासंदिग्धं स्वल्पोऽपि कार्षापणो ग-
रीयान् संदिग्धनिष्कात्। लौकायतिक इति लोकायतमधीयते ये (२)
उक्थादिपाठाट्ठक्प्रत्ययः ॥ ३० ॥
तत्र संप्रतिपत्तिमाह--
शास्त्रस्यानभिशङ्क्यत्वादभिचारानुव्याहारयोश्च किञ्चित्फलद-
र्शनाद्, नक्षत्रचन्द्रसूर्य्यताराग्रहचक्रस्य लोक़ार्थं बुद्धिपूर्वकमिव प्रवृ-
( १ ) अज्ञातहेतुताकसामग्रीघटककिञ्चिद्देवभावदशायामस्ति योग्यतेदृशव्यभिचारप्रतिपत्तेः।
( २ ) क्रतूक्थादिसूत्रान्ताट्ठक् । ४ । २ । ६० । इतिसूत्रेण।
२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १९
तेर्दर्शनाद्, वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्रायाः, हस्त- गतस्य च बीजस्य भविष्यतः सस्यस्यार्थे त्यागदर्शनात्, चरेद्धर्मा- निति वात्स्यायनः ॥ ३१ ॥
शास्त्रस्येति। धर्मस्यालौकिकत्वात्तदभिधायकं शास्त्रं युक्तम्, तच्छा- स्त्रं पौरुषेयमपौरुषेयं च, तत्र पूर्वमभिशङ्कनीयं-“किमिदं सत्यं मिथ्या वे”ति पुरुषा हि रागादिभिरविद्यया चोपप्लुता वितथमपि ब्रुवन्ति, अपौ- रुषेयं च वेदाख्यं पुरुषसम्बन्धाभावाददुष्टमनभिशङ्कनीयम्, यथोक्तम्-
'दोषाः सन्ति न सन्तीति पौरुषेयस्य युज्यते । वेदे कर्तुरभावात्तु दोषशङ्कैव नास्ति नः ॥' इति,
अपौरुषेयत्वसाधनमन्य(१)त्रोक्तमिति नेहोपन्यस्तं ग्रन्थगौरवभया- त्, तस्मादनभिशङ्क्यत्वात् तच्चोदितेऽर्थे न संशयीतेति चरेद् धर्मानिति सम्बन्धः, तेन संशयितत्वादित्येतदसिद्धम् अभिचारः=हिंसाऽऽत्मकं कर्म, अनुव्याहारः=शान्तिकपौष्टिकं, तयोश्चोदितयोः, अभिचरञ्श्येनेन यजेते- त्यादिना यत्र प्रयुज्यते तत्र हिंसाशान्तिपुष्टिफलदर्शनाच्छेषस्याप्यग्निहो- त्रादेः स्वर्गादि फलं भविष्यतीति चरेद्धर्मान्, न ह्यपौरुषेयत्वेनाभिन्नयोर्वि- तथावितथत्वभेदो युज्यते वितथत्वे चेतरस्यापि वितथत्वप्रसङ्गात्, अदृष्टसाधनमाह-नक्षत्रेति। नक्षत्राण्यश्विन्यादीनि चन्द्रसूर्यौ प्रसिद्धौ ताराग्रहा अङ्गारकादयः पञ्च तेषां चक्रमिव चक्रं संनिवेशविशेषो द्वादशराशिविभक्तं तस्य; लोकार्थं नात्मार्थम्, बुद्धिपूर्वकमिवेति । बुद्धिपूर्व- कस्येव, यथा कश्चित्पुरुषो बुद्धिपूर्वं प्रवर्तते तद्वदेवैते सूर्यादयो नक्ष- त्रेण युज्यमाना अन्यथाऽन्यथा प्रवर्तमाना दृश्यन्ते न च तथैवेतीवार्थः, तथा ह्येषां न 'लोकस्येदं करिष्यामः'इति प्रवृत्तिः, सा च शास्त्रान्तरे ब- हुप्रकारोक्ता, दर्शनादितिवचनात्प्रत्यक्षप्रमाणसिद्धेति दर्शयति, तस्यां च प्रवृत्तौ लोकस्य शुभाशुभात्मकं फलं द्विविधम्-साधारणमसाधा- रणं च, तत्र साधारणं सुभिक्षदुर्भिक्षादि तच्च ग्रहवारे द्रष्टव्यम्, असा- धारणं तु प्रतिसत्त्वं प्रतिनियतं लाभालाभसुखदुःखादि, तच्च जातके द्रष्टव्यम्, सैव द्विधा प्रवृत्तिः कारणान्तरमदृष्टं गमयति, तच्च लोकस्य शुभाशुभात्मकर्मणः; अन्यथैषामेकरूपाणां कारणान्तरनिरपेक्षाणां सदा- प्रवृत्तिरप्रवृत्तिर्वा स्यात्, कालानियम इति चेत् ? सोऽपि कारणनिरपेक्षः
( १ ) वाचा विरूपनित्ययेति श्रुतिः । अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवेति स्मृतिश्च ।
| २७ | सटीक कामसूत्रे | [ १ अधिकरणे, |
|---|
सर्वदा स्यात्, तस्मादस्ति तत्प्रवर्तकमदृष्टमिति चरेद् धर्मान्, उक्तं च--
'नक्षत्रग्रहपंजरमहर्निशं लोककर्मविक्षिप्तम् ।
भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम् ॥ इति,
वर्णाश्रमेति । वर्णाः=ब्राह्मणादयः, आश्रमाः=ब्रह्मचर्यगार्हस्थ्यादयः, तेषामाचारः स्वधर्मः तस्य स्थितिर्व्यवस्था सैव लक्षणं यस्या लोक-यात्रायाः, सा लौकायतिकैर्मा भूद्व्यवस्थायां मात्स्यो न्याय इतिदृष्टार्थं वर्णिता, 'संवरणमात्रं हि त्रयी लोकयात्राविद'इति; तां च लोकविश्वास-नार्थमाचरद्भिः कथं नाचरातो धर्मः, दृष्टार्थश्च यद्यदृष्टार्थोऽपि स्यात्को-विरोधः, एतेन 'न धर्मांश्चरेद्' इति प्रतिज्ञाया अभ्युपगमबाधां दर्शयति, यच्चोक्तम्-"एष्यत्फलत्वा"दिति तद् दृष्टेऽप्यस्तीति दर्शयन्नाह-हस्तगत-स्येति । तुल्ये भविष्यत्फलत्वे सति; नैकत्र प्रवृत्तिरन्यत्र निषेध इति यु-क्तियुक्तम्, न कदा चित्तत्र दृष्टमिति चेत् ? कथं तर्हि लोकवैचित्र्यम्, न हि सर्वत्र समानाद् दृष्टात्करणादैश्वर्यादिफललाभः, नापि स्वाभाविकं कर्म; सदा सिद्धयसिद्धिप्रसङ्गात् ॥ ३१ ॥
अर्थविप्रतिपत्तिमाह—
नार्थांश्चरेत् ॥ ३२ ॥
नार्थानिति । उपायात्किलार्थसिद्धिः, उपायानुष्ठानं च यत्नस्तन्ना-नुतिष्ठेदित्यर्थः ॥ ३२ ॥
प्रयत्नतोऽपि ह्येतेऽनुष्ठीयमाना नैव कदा चित्स्युः ॥ ३३ ॥
न चान्वयव्यतिरेकानुविधानादर्थसिद्धेः, यदाह- प्रयत्नत इति । प्रय-त्नेनावर्त्यमाना नैव कदा चित्स्युरित्यर्थोक्तम्, यदा स्युस्तदा कालसंनि-धानादिति मन्यन्ते; अनुष्ठीयमानाः प्रयत्नेनेत्यर्थः ॥ ३३ ॥
अननुष्ठीयमाना अपि यदृच्छया भवेयुः ॥ ३४ ॥
यदृच्छयेति । एवमेव स्युः, अकस्मान्निधानादिदर्शनात् ; तस्मादु-पायपरिज्ञानार्थकम् ॥ ३४ ॥
किंकृतं तर्हितद् ? इत्याह—
तत्सर्वं कालकारितमिति ॥ ३५ ॥
तत्सर्वमिति । अर्थस्य भवनमभवनं, लोकस्येष्टमनिष्टं कालकारित-मिति; कालो नाम द्रव्यपदार्थो नित्यः तेन कारितमिति-प्रयोजकव्यापा-रेण पुरुषस्य परायत्ततामाह ॥ ३५ ॥
तदेव दर्शयन्नाह—
काल एव हि पुरुषानर्थानर्थयोर्जयपराजययोः सुखदुःखयोश्च स्थापयति ॥ ३६ ॥