भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

३५० ॥ काशिका ॥ ४ ॥ ३ ॥ ग्लौचुकायनकम् औपगवकम् ॥ चरणाद्धर्माम्नाययोरिष्यते ॥ काठकं, कालाप- कम् । मौदकम् । पैप्पलादकम् ॥ संघाङ्कलक्षणेष्वञ्यञिञामण् ॥ १२७ ॥ संघादिषु प्रत्ययार्थविशेषेष्वञन्ताद् यञन्ताद् इञन्ताच्च प्रातिपदि- कादण् प्रत्ययो भवति तस्येदमित्येतस्मिन्विषये । पूर्वस्य वुञो ऽपवादः ॥ घोष- ग्रहणमत्र कर्तव्यम् ॥ * ॥ तेन वैषम्याद्यथासंख्यं न भवति । अञन्तात् । बैदः संघः । बैदोऽङ्कः । बैदं लक्षणं, बैदो घोषः । यञन्तात् । गार्गः संघः । गार्गोऽङ्कः । गार्गं लक्षणम् । गार्गो घोषः । इञन्तात् । दात्तः संघः । दात्तोऽङ्कः । दात्तं लक्ष- णम् । दात्तो घोषः । अङ्कलक्षणयोः को विशेषः । लक्षणं लक्ष्यभूतस्यैव

॥ काशिका ॥ ४ ॥ ३ ॥ ३५१ कौपिञ्जलहास्तिपदादण् ॥ १३२ ॥ कौपिञ्जलहास्तिपदशब्दाभ्यामण् प्रत्ययो भवति तस्येदमित्येतस्मिन्वि- षये । गोत्रवुञोऽपवादः । गोत्राधिकारात् । कौपिञ्जलः । हास्तिपदः ॥ आथर्वणिकस्येकलोपश्च ॥ १३३ ॥ अणित्येव । आथर्वणिकशब्दादण् प्रत्ययो भवति तत्संनियोगेन चेक- लोपः, तस्येदमित्येतस्मिन्विषये । चरणवुञोऽपवादः । आथर्वणिकस्याय,माथ- र्वणो धर्म आम्नायो वा । चरणाद्धर्माम्नाययोः ॥ तस्य विकारः ॥ १३४ ॥ तस्येति षष्ठीसमर्थाद्विकार इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भव- ति । प्रकृतेरवस्थान्तरं विकारः । किमिहोदाहरणम्, अप्राप्याद्युदात्तमवृद्धं यस्य च नान्यत्र प्रतिपदं ग्रहणम् । अश्मनो विकारः, आश्मनः । आश्मः । अश्मनो

  • विकार इति टिलोपः पाक्षिकः । भास्मनः । मार्त्तिकः । नित्स्वरेणाद्युदात्ता एते । तस्यप्रकरणे तस्येति पुनर्वचनं शैषिकनिवृत्त्यर्थम् । विकारावयवयोर्घादयो न भवेन्सि । हालः । सौरः । अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ १३५ ॥ प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यो ऽवयवे यथाविहितं प्रत्ययो भवति, चकाराद्विकारे च । तत्र प्राणिभ्यो ऽञं वक्ष्यति । कपोतस्य विकारो ऽवयवो वा, कापोतः । मायूरः । तैत्तिरः । ओषधिभ्यः । मौर्वं काण्डं, मौर्वं भस्म । वृक्षेभ्यः । कारीरं काण्डं, कारीरं भस्म । इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यो विकारावयवयोर्भवन्ति * । अन्येभ्यस्तु विकारमात्रे । कथं द्वयमप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्योषधिवृक्षेभ्य, इति । विक्ा- रावयवोर्युगपदधिकारो ऽपवादविधानार्थः । कृतनिर्देशौ हि तौ ॥ बिल्वादिभ्यो ऽण् ॥ १३६ ॥ बिल्व इत्येवमादिभ्यो ऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः । यथायोगमञ्मयटोरपवादः । बिल्वस्यावयवो विकारो वा, बैल्वः । गवेधुका- शब्दोऽत्र पठ्यते, ततः कोपधादेव सिद्धे मयड्बाधनार्थं ग्रहणम् । बिल्व । व्रीहि । काण्ड । मुद्ग । मसूर । गोधूम । इक्षु । वेणु । गवेधुका । कर्पासी । पाटली । कर्कन्धू । कुटीर । बिल्वादिः ॥
  • भवन्तीत्यस्याग्रे 'वृक्षशब्देन वनस्पतयो ऽपि गृह्यन्ते । न्यग्रोधस्य विकारो ऽवयवो वा, न्यैग्रोधः । पैप्पलः । मौदुम्बरः । ओषधिशब्दाल्लतातृणादयो ऽपि गृह्यन्ते । ताम्बूलस्य विकारो ऽवयवो वा, ताम्बूलः । गान्दूषः । इभ्यो विकारावयवोर्भवन्ति' इत्याधिकमेकस्मि- न्पुस्तके ।

३५२ ॥ काशिका ॥ ४ । ३ ॥ कोपधाच्च ॥ १३७ ॥ ककारोपधात्प्रातिपदिकादण् प्रत्ययो भवति यथायोगं विकारावयवयो- र्ग्रन्थयोः। अञोऽपवादः। तर्कुं। तार्क्वम्। तित्तिडीक। तैत्तिडीकम्। माण्डू- कम्। दार्दुरुकम्। माधूकम् ॥ त्रपुजतुनोः षुक् ॥ १३८ ॥ त्रपुजतुशब्दाभ्यामण् प्रत्ययो भवति विकारे, तत्सन्नियोगेन तयोः षुगा- गमो भवति। ओरञोऽपवादः। त्रपुणो विकारः, त्रापुषम्। जातुषम्। अश्रा- श्यादित्वाद्वावयवे ॥ ओरञ् ॥ १३९ ॥ उवर्णान्तात्प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयो, रञो- पवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवम्। भाद्रदारवम् ॥ अनुदात्तादेश्च ॥ १४० ॥

॥ काशिका ॥ ४ ॥ ३ ॥ ३५३ नित्यं वृद्धशरादिभ्यः ॥ १४४ ॥ भाषायामभक्ष्याच्छादनयोरित्येव । वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्य- श्चामक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट् प्रत्ययो भवति । वृद्धेभ्यस्तावत् । आम्रमयम् । शालमयम् । शाकमयम् । शरादिभ्यः । शरम- यम् । दर्भमयम् । मृन्मयम् । नित्यग्रहणं किम् । यावता ऽऽरम्भसामर्थ्यादेव नित्यं भविष्यति । एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते । त्वङ्मयम् । स्रङ्मयम् । वाङ्मयमिति । शर । दर्भ । मृत् । कुटी । तृण । सोम । बल्वज ॥ गोश्च पुरीषे ॥ १४५ ॥ गोशब्दात्पुरीषे ऽभिधेये मयट् प्रत्ययो भवति । गोमयम् । पुरीषइति किम् । गव्यं पयः । पुरीषं न विकारो न चावयवस्तस्येदंविषये विधानम् । विकारावयवयोस्तु गोपयसोर्यत् वक्ष्यति ॥ पिष्टाच्च ॥ १४६ ॥ पिष्टशब्दाच्चित्यं मयट् प्रत्ययो भवति तस्य विकार इत्येतस्मिन्विषये, ऽणोऽपवादः । पिष्टमयं भस्म ॥ संज्ञायां कन् ॥ १४७ ॥ पिष्टशब्दात्कन् प्रत्ययो भवति विकारे संज्ञायां विषये । मयटोपवादः । पिष्टकः ॥ व्रीहेः पुरोडाशे ॥ १४८ ॥ व्रीहिशब्दान्मयट् प्रत्ययो भवति पुरोडाशे विकारे । बिल्वाद्यणोप- वादः । व्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥ असंज्ञायां तिलयवाभ्याम् ॥ १४९ ॥ तिलयवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोर- र्थयोः । तिलमयम् । यवमयम् । असंज्ञायामिति किम् । तैलम् । यावकः । यावादिभ्यः कन् ॥ द्व्यचश्छन्दसि ॥ १५० ॥ द्व्यचः प्रातिपदिकाच्छन्दसि विषये मयट् प्रत्ययो भवति विकाराव- यवयोरेतयोः । भाषायां मयडुक्तः छन्दस्यप्राप्तो विधीयते । यस्य पर्णमयी जुहूर्भवति । दर्भमयं वासो भवति । शरमयं बर्हिर्भवति ॥ नोत्त्वद्दूर्वाबिल्वात् ॥ १५१ ॥ उत्त्वतः प्रातिपदिकाद्दूर्वाबिल्वशब्दाभ्यां च मयट् प्रत्ययो न भवति । २३

३५४ ॥ काशिका ॥ ४ । ३ ॥ ष्ठञ्छन्दसीति प्राप्तः प्रतिषिध्यते । मौञ्जं शिक्यम् । गार्मुतं चक्रम् । वार्क्षी बालप्रग्रथिता भवति । बैल्वो ब्रह्मवर्चसकामेन कार्यः । तपरकरणं तत्कालार्थम् । धूममयान्यभ्राणि । मतुब्निर्देशस्तदन्तविधिनिरासार्थः । इहैव स्यात् । बेल्वो यष्टिरिति ॥ तालादिभ्योऽण् ॥ १५२ ॥ तालादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति विकारावयवयोर- र्थयोः । मयडादीनामपवादः । तालं धनुः । बार्हिषम् । ऐन्द्रालिषम् ॥ ताल * धनुषि * ॥ बार्हिष । इन्द्रलिष । इन्द्रादृश । इन्द्रायुध । चाप † श्यामाक । प्रागुक्ता । तालादिः ॥ जातरूपेभ्यः परिमाणे ॥ १५३ ॥ जातरूपं सुवर्णम् । बहुवचननिर्देशात्तद्वाचिनः सर्वे गृह्यन्ते । जातरूप- वाचिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति परिमाणे विकारे । मयडादीना- मपवादः । हाटको निष्कः । हाटकं कार्षापणम् । जातरूपम् । तापनीयम् ।

  • परिमाण इति किम् । यष्टिरियं हाटकमयी ॥ प्राणिरजतादिभ्यो ऽञ् ॥ १५४ ॥ प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतादिभ्यश्चाञ् प्रत्ययो भवति विका- रावयवयोरर्थयोः । अणादीनामपवादः । अनुदात्तादेरञ् विहित एव, परिशि- ष्टमिहोदाहरणम् । प्राणिभ्यस्तावत् । कापोतम् । मायूरम् । तैत्तिरम् । रज- तादिभ्यः । राजतम् । सैसम् । लौहम् । रजतादिषु ये ऽनुदात्तादयः पठ्यन्ते रजतकण्टकारप्रभृतयस्तेभ्योऽञि सिद्धे पुनर्वचनं मयड्बाधनार्थम् । रजत । सीस । लोह । उदुम्बर । नीच ‡ । दाह । रोहितक । बिभीतक । कपीत । दाढ । तीव्रदाह । त्रिकण्टक । कण्टकार ॥ ञितश्च तत्प्रत्ययात् ॥ १५५ ॥ अञित्येव । तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः । ञित्तो विका- रावयवप्रत्ययस्तदन्तात्प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरथ § । मयटोपवादः । ओरञ् । शम्याष्ट्लञ् । प्राणिरजतादिभ्योऽञ् । उष्ट्रादुञ् । शङ्खा ठञ् । कंसीयपरशव्ययोर्यञञौ । इत्येते प्रत्यया गृह्यन्ते । दैवदारवस्य
  • तालान्धनुषीत्यारभ्य तालमयमन्वत् । नित्यं वृद्धेति मयट् । इत्याधिकमेक- स्मिन्पुस्तके । † चर्मेति पा० २ । ‡ नीचेति पा० २ । § विकारावयवयोरित्येवेति पा० २ ।

विकारो ऽवयवो वा, दैवदारवम्। दाधित्थस्य, दाधित्थम्। पालाशस्य, पा- लाशम्। शामीलस्य, शामीलम्। कापोतम्। औष्ट्रकस्य, औष्ट्रकम्। ऐणेयस्य, ऐणेयम्। कांस्यस्य, कांस्यम्। पारशवस्य, पारशवम्। ञित इति किम्। बैल्व- मयम्। तत्प्रत्ययादिति किम्। बैदमयम्॥ क्रीतवत्परिमाणात् ॥ १५६ ॥ प्राग्वतेष्ठजित्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद्विहितास्ते वि- कारे ऽतिदिश्यन्ते। परिमाणात् क्रीतवत् प्रत्यया भवन्ति तस्य विकार इत्येत- स्मिन्विषये। अणादीनामपवादः। संख्या परिमाणग्रहणेन गृह्यते, न रूढिप- रिमाणमेव। निष्केण क्रीतं, नैष्किकम्। एवं निष्कस्य विकारो, नैष्किकः। शतेन क्रीतं, शत्यं, शतिकम्। शतस्य विकारः, शत्यः, शतिकः। साहस्रः। व

first word after *: It starts with ... wait, does it have an on top? Wait, it looks like कर्कन्धु or कर्कन्धू!

Line 29: † काथ । कुटज । इत्याधिकं कुत्र चित् । Wait, is it काथ or क्वाथ? Look at † क्वाथ: = क्वाथ! Yes, क्वाथ । कुटज । इत्याधिकं कुत्र चित् ।

Line 30: ‡ नवमालिका पा० २ ।

Line 31: § नखरञ्जनी । पा० २ ।

Line 32: ‖ शाल्लकट्टी । पा० २ । (In L27 it's शल्लकक्षी, footnote has शाल्लकट्टी)

Let's re-read footnote 1 (Line 28): * कर्कन्धु । पा० २ द्वितीयपुस्तके कर्कन्धू । पा० २ । Wait, the second occurrence has long or the first? Let's look at the first: कर्कन्धु or कर्कन्धू? Actually, let's transcribe it accurately. It says: `* कर्कन्धु । पा० २ द्वितीयपुस्तके कर्कन्धू । पा०

॥ काशिका ॥ ४ ॥ ३ ॥ ३५७ अर्जुनपाकी । काला । द्राक्षा । ध्वाङ्क्षा । गर्गरिका । कण्टकारिका । शेफालिका *॥ कंसीयपरशव्योर्यञञौ लुक्च ॥ १६८ ॥ प्राक्क्रीताच्छेन् कंसीयः । उगवादिभ्यो यत् । परशव्यः । कंसीयपरश- व्यशब्दाभ्यां यथासंख्यं यञञौ प्रत्ययौ भवतस्तस्यविकार इत्येतस्मिन्विषये, तत्सं- नियोगेन च कंसीयपरशव्ययोर्लुग्भवति । कंसीयस्य विकारः, कांस्यः । परशव्यस्य विकारः, पारशवः । प्रातिपदिकाधिकाराद्धातोःप्रत्ययस्य न लुग्भवति । परशव्य- शब्दादनुदात्तादित्वादेवाञि सिद्धे लुगर्थं वचनम् । ननु च यस्येति लोपे कृते हलस्तद्धितस्येति यलोपो भविष्यति । नैतदस्ति । ईतीति तत्र वर्तते ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादः ॥ ॥ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ प्राग्वहतेष्ठक् ॥ १ ॥ तद्वहति रथयुगप्रासङ्गमिति वक्ष्यति । प्रागेतस्माद्वहतिसंशब्दनाद्यानर्था- ननुक्रमिष्यामः, ठक् प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति । दीव्यति खनति जयति जितमिति । अक्षैर्दीव्यति आक्षिकः ॥ ठक्प्रकरणे तदाहेति माशब्दा- दिभ्य उपसंख्यानम् ॥ * ॥ माशब्द इत्याह माशब्दिकः । नैत्यशब्दिकः । कार्यश- ब्दिकः । वाक्यादेतत्प्रत्ययविधानम् ॥ आहोप्रभूतादिभ्यः ॥ * ॥ प्रभूतमाह, प्राभू- तिकः । पार्याप्तिकः । क्रियाविशेषणात्प्रत्ययः ॥ पृच्छतौ सुखातादिभ्यः ॥ * ॥ सुखतं पृच्छति सौखातिकः । सौशायनिकः ॥ गच्छतौ परदारादिभ्यः ॥ * ॥ परदारान् गच्छति पारदारिकः । गोष्ठप्तिकः ॥ तेन दीव्यति खनति जयति जितम् ॥ २ ॥ तेनेति तृतीयासमर्थाद् दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठक् प्रत्ययो भवति । अक्षैर्दीव्यति,आक्षिकः । शालाकिकः । खनित्रा खनति, खान्त्रि- कः । कौद्दालिकः । अक्षैर्जयति, आक्षिकः । अक्षैर्जितमाक्षिकम् । शालाकिकम् । सर्वत्र करणे तृतीया समर्थविभक्तिः । देवदत्तेन जितमिति प्रत्ययो न भवति, अनभिधानात् । अङ्गुल्या खनतीति च । प्रत्ययार्थे संख्याकालयोरेव विवक्षा । क्रियाप्रधानत्वेऽपि धात्वर्थस्य तद्धितः स्वभावात्साधनप्रधानः ॥

  • शेफालिकेत्यस्याग्रे 'शेषां च कप्रत्ययान्निमित्तः शेषः ॥ पुष्पमूलेषु बहुलम्' इत्यधिकं बहु षु पुस्तकेषु ।

३५८ ॥ काशिका ॥ ४ ॥ ४ ॥ संस्कृतम् ॥ ३ ॥ तेनेति तृतीयासमर्थात्संस्कृतमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं, दाधिकम्। शार्ङ्गावेरिकम्। मारिचिकम्। योगविभाग उत्तरार्थः॥ कुलत्थकोपधादण् ॥ ४ ॥ कुलत्थशब्दात्ककारोपधाच्छब्दाच्च प्रातिपदिकादण् प्रत्ययो भवति संस्कृतमित्येतस्मिन्विषये। ठकोपवादः। कुलत्थैः संस्कृतं, कौलत्थम्। कका- रोपधात्। तैत्तिडिकम्*। दार्दभकम्॥ तरति ॥ ५ ॥ तेनेति तृतीयासमर्थात्तरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। तरति प्लवते इत्यर्थः। काण्डप्लवेन तरति, काण्डप्लविकः। औडुपिकः॥ गोपुच्छाट्ठञ् ॥ ६ ॥ गोपुच्छशब्दाट् ठञ्प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोपवादः। स्वरे विशेषः। गौपुच्छिकः॥ नौद्व्यचष्ठन् ॥ ७ ॥ नौशब्दाद् द्व्यचश्च प्रातिपदिकाट् ठन् प्रत्ययो भवति तरतीत्येतस्मि- न्नर्थे। ठकोपवादः। नावा तरति, नाविकः। द्व्यचः खल्वपि। घटिकः। प्लवि- कः। बाहुकः। षकारः सांहितिको नानुबन्धः। बाहुका स्त्री॥ आकर्षात्पर्यदेर्भैस्त्रादिभ्यः कुसीदसूत्राच्च। आवसथात्किशरादेः षितः षडेते ठगाधिकारे॥ विधिवाक्यापेतं च षट्त्वं प्रत्ययास्तु सप्त॥ चरति ॥ ८ ॥ तेनेति तृतीयासमर्थाच्चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरति- र्भक्षणे गतौ च वर्तते। दध्ना चरति, दाधिकः। हास्तिकः। शाकटिकः॥ आकर्षात्ष्ठल् ॥ ९ ॥ आकर्षशब्दात् ष्ठल् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोपवादः। लकारः स्वरार्थः। षकारो ङीबर्थः। आकर्षेण चरति, आकर्षिकः। आकर्- षिकी। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल उच्यते॥

  • तैत्तिरीकम्। पा० २।

॥ काशिका ॥ ४ ॥ ४ ॥ ३५६ पर्पादिभ्यः ष्ठन् ॥ १० ॥ पर्प इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे । ठकोऽप- वादः । नकारः स्वरार्थः । षकारो ङीषर्थः । पर्पिकः । पर्पिकी । आश्विकः । आश्विकी । पर्प । आश्व । आश्वत्थ । रथ । जाल । न्यास । व्यास ॥ पादः पत्त्व ॥ पर्दिकः ॥ श्वगणाट्ठञ् ॥ ११ ॥ श्वगणशब्दाट्ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरतीत्येतस्मिन्नर्थे । ठकोऽपवादः । श्वगणेन चरति, श्वागणिकः । श्वागणिकी । ठन् । श्वगणिकः । श्वगणिका । स्वादेरित्योत्त्वं वक्ष्यति, इकारादिग्रहणं च कर्त्तव्यं श्वागणिका- द्यर्थमिति । तेन ठञि द्वारादिकार्यं न भवति ॥ वेतनादिभ्यो जीवति ॥ १२ ॥ तेनेति तृतीयासमर्थेभ्यो वेतनादिभ्यः शब्देभ्यो जीवतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । वेतनेन जीवति वैतनिकः कर्मकरः । धनुर्दण्डग्रहणमत्र संघातविगृहीतार्थम् । धानुर्दण्डिकः । धानुष्कः । दाण्डिकः । वेतन । वाह । आर्धुवाह । धनुर्दण्ड । जाल । वेस । उपवेस । प्रेषण । उपस्ति । सुख । शय्या । शक्ति । उपनिषत् । उपवेष । स्रक् । पाद । उपस्थान ॥ वस्त्रक्रयविक्रयाट्ठन् ॥ १३ ॥ वस्त्रक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति जीवती- त्येतस्मिन्विषये । ठकोऽपवादः । वस्त्रेण जीवति, वस्त्रिकः । क्रयविक्रयग्रहणं संघा- तविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ आयुधाच्छ च ॥ १४ ॥ आयुधशब्दाच्छप्रत्ययो भवति, चकाराट्ठंश्च जीवतीत्येतस्मिन्विषये । आयुधेन जीवति, आयुधीयः । आयुधिकः ॥ हरत्युत्सङ्गादिभ्यः ॥ १५ ॥ तेनेत्येव । उत्सङ्गादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति । हरतिर्देशान्तरप्रापणे वर्त्तते । उत्सङ्गेन हरति, औत्सङ्गिकः । औडुपिकः । उत्सङ्ग । उडुप । उत्पत । पिटक । उत्सङ्गादिः * ॥ भस्त्रादिभ्यः ष्ठन् ॥ १६ ॥ भस्त्रेत्येवमादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ष्ठन्प्रत्ययो भव-

  • उडुप । पिटक । इति शब्दद्वयं पुस्तकान्तरे प्रोक्तौ ।

३६२ ॥ काशिका ॥ ४ ॥ ४ ॥ षिकः । प्रकृत्यन्तरं वा वृद्धिपर्यायो वृद्धिषिशब्दः । मह्यंमिति किम् । द्विगुणं प्रयच्छत्यधमर्णः ॥ कुसीददशैकादशात् ष्ठन्ष्ठचौ ॥ ३१ ॥ प्रयच्छति गर्ह्यमित्येव । कुसीदं वृद्धि,स्तदर्थं द्रव्यं कुसीदम् । एकाद- शार्थो दश दशैकादशशब्देनोच्यन्ते । कुसीददशैकादशशब्दाभ्यां यथासंख्यं ष्ठन् ष्ठञ् इत्येतौ प्रत्ययो भवतः प्रयच्छति गर्ह्यमित्यस्मिन्विषये । ठकोऽपवादौ । कुसीदं प्रयच्छति, कुसीदिकः । कुसीदिकी । दशैकादशिकः । दशैकादशिकी ॥ उञ्छति ॥ ३२ ॥ तदिति द्वितीयासमर्थादुञ्छतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । बद- राण्युञ्छति, बादरिकः । श्यामाकिकः । भूमौ पतितस्यैकैकस्य कणस्योपादान मुञ्छः । कषानुञ्छति, काषिकः * ॥ रक्षति ॥ ३३ ॥ तदिति द्वितीयासमर्थाद्रक्षतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । समाजं रक्षति, सामाजिकः । सांनिवेशिकः ॥ शब्ददर्दुरं करोति ॥ ३४ ॥ तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । शब्दं करोति, शाब्दिको वैयाकरणः । दार्दुरिकः कुम्भकारः ॥ पक्षिमत्स्यमृगान् हन्ति ॥ ३५ ॥ तदित्येव । पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्तीत्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति ॥ स्वरूपस्य पर्यायाणां तद्विशेषाणां च ग्रहणमिहेष्यते ॥ पक्षिणो हन्ति, पाक्षिकः । शाकुनिकः । मायूरिकः । तैत्तिरिकः । मत्स्य । मात्स्यिकः । मैनिकः । शार्फरिकः । शाकुलिकः । मृग । मार्गिकः । हारिणिकः । सौकरिकः । सारङ्गिकः ॥ परिपन्थं च तिष्ठति ॥ ३६ ॥ परिपन्थशब्दात्तदिति द्वितीयासमर्थात्तिष्ठतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । परिपन्थं तिष्ठति, पारिपन्थिकश्चोरः । चकारो भिन्नक्रमः प्रत्ययार्थे समुच्चिनोति । परिपन्थं हन्ति, पारिपन्थिकः । समर्थेविभक्तिप्रकरणे पुनर्द्विती- योच्चारणं लौकिकवाक्यप्रदर्शनार्थम् । परिपथशब्दपर्यायः परिपन्थशब्दोऽस्तीति ज्ञापयति,स विषयान्तरेपि प्रयोक्तव्यः ॥

  • भूमावित्यारभ्य काषिक इत्यन्तं बहुषु पुस्तकेषु नास्ति ।

॥ काशिका ॥ ४ । ४ ॥ ३६३ माथोत्सरपदपदव्यनुपदं धावति ॥ ३७ ॥ माथशब्दोत्तरपदात्प्रातिपदिकात्पदवी अनुपद् इत्येताभ्यां च धावती- त्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । दण्डमाथं धावति, दाण्डमाथिकः । शौल्क- माथिकः । पादविकः । आनुपदिकः । माथशब्दः पथिपर्यायः ॥ आक्रन्दाट्ठञ् ॥ ३८ ॥ आक्रन्द्यतेऽस्मिन्नित्याक्रन्दो देशः । अथ वा ऽऽक्रन्द्यातइत्याक्रन्द, चार्तो- यनमुच्यते । विशेषाभावाद् द्वयोरपि ग्रहणम् । आक्रन्दशब्दात्तदिति द्वितीया- समर्थाद्धावतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति, चकाराट्ठक् च । स्वरे विशेषः । आक्रन्दं धावति आक्रन्दिकः । आक्रन्दिकी ॥ पदोत्तरपदं गृह्णाति ॥ ३६ ॥ पदशब्द उत्तरपदं यस्य तस्मात्पदोत्तरपदशब्दात्तदिति द्वितीयासम- र्थाद्गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । पूर्वपदं गृह्णाति, पौर्वपदिकः । औत्तरपदिकः । पदान्तादिति नोक्तं, बहुच्पूर्वान्मा भूदिति ॥ प्रतिकण्ठार्थललामं च ॥ ४० ॥ प्रतिकण्ठार्थललामशब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो गृह्णातीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । प्रतिकण्ठं गृह्णाति, प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ धर्मं चरति ॥ ४१ ॥ धर्मशब्दात्तदिति द्वितीयासमर्थाच्चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । चरतिरासेवायाम् नानुष्ठानमात्रे । धर्मं चरति, धार्मिकः ॥ अधर्माच्चेति वक्त- व्यम् ॥ * ॥ आधार्मिकः ॥ प्रतिपथमिति ठंश्च ॥ ४२ ॥ प्रतिपथशब्दाद्द्वितीयासमर्थाद् एतीत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकाराट्ठक् च । प्रतिपथमिति, प्रतिपथिकः । प्रातिपथिकः ॥ समवायान् समवैति ॥ ४३ ॥ समवायवाचिभ्यः शब्देभ्यस्तदिति द्वितीयासमर्थेभ्यः समवैतीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । समवायः समूह उच्यते न संप्रधारणा । समवाया- निति बहुवचनं स्वरूपविधिनिरासार्थम् । समवैति आगत्य तदेकदेशी भव- तीत्यर्थः । समवायान्समवैति, सामवायिकः । सामाजिकः । सामूहिकः । साधिवेशनिकः ॥

३६४ ॥ काशिका ॥ ४ ॥ ४ ॥ परिषदो ण्यः ॥ ४४ ॥

  • परिषदो ण्यः प्रत्ययो भवति सम वायान्समवैतीत्येतस्मिन्विषये । ठकोऽपवादः । परिषदं समवैति, पारिषद्यः ॥ सेनाया वा ॥ ४५ ॥ सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान्समवैतीत्येतस्मिन्नर्थे । ठकोऽपवादः । पक्षे सोऽपि भवति । सेनां समवैति, सैन्यः । सैनिकः ॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४६ ॥ ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये । संज्ञाग्रहणमभिधेयनियमार्थं, न तु सञ्ज्ञा- र्थम् । ललाटं पश्यति, लालाटिकः सेवकः । कौक्कुटिको भिक्षुः । सर्वावय- वेभ्यो ललाटं दूरे दृश्यते, तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुप- श्लेषः कार्येष्वनुपस्थायित्वं लक्ष्यते । लालाटिकः सेवकः । स्वामिनः कार्येषु नोपतिष्ठतइत्यर्थः । कुक्कुटीशब्देनापि कुक्कुटीपातो लक्ष्यते । देशस्याल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिक इति † ॥ तस्य धर्म्यम् ॥ ४७ ॥ तस्येति षष्ठीसमर्थाद् धर्म्यमित्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति । धर्म्ये न्याय्यम् । आचारयुक्तमित्यर्थः । शुल्कशालाया धर्म्म्यं शौल्कशालिकम् । आक- रिकम् । आपाणिकम् । गौल्मिकम् ॥ अण् महिष्यादिभ्यः ॥ ४८ ॥ महिषीत्येवमादिभ्यो ऽण् प्रत्ययो भवति तस्य धर्म्ममित्येतस्मिन् विषये । ठञोऽपवादः । महिष्या धर्म्म्यं, माहिषम् । प्राजावतम् । महिषी । प्रजावती । प्रलेपिका । विलेपिका । अनुलेपिका । पुरोहित । महिपाली । अनुचारक । होतृ । यजमान ॥ ऋतो ऽञ् ४६ ॥ ऋकारान्तात्प्रातिपदिकादञ् प्रत्ययो भवति तस्य धर्म्ममित्येतस्मिन्वि- षये । ठञोऽपवादः । पोतुर्धर्म्म्यं पौत्रम् । औद्गात्रम् ॥ नराच्चेति वक्तव्यम् ॥ * ॥
  • परिषदो ण्य इत्यस्याग्रे परिषदीतव्यस्मिश्चित्यधिकररो विषप् । इत्याधिकमेकस्मिन्पु- स्तके । † कौक्कुटिक इतीत्यस्याग्रे तदयमभिधेयनियमः संज्ञाग्रहणेन क्रियते, कुक्कुटी दाम्भि- कश्चेटा ।

॥ काशिका ॥ ४ ॥ ४ ॥ ४६५ नरस्य धर्मो, नारी । विशसितुर्इड्लोपश्च ॥ * ॥ विशसितुर्धर्म्यं वैशससम् ॥ विभाजयितुर्ऋतोपश्च ॥ * ॥ विभाजयितुर्धर्म्यं वैभाजितम् ॥ अवक्रयः ॥ ५० ॥ तस्येत्येव । षष्ठीसमर्थादवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । अवक्रीयते ऽनेनेत्यवक्रयः पिण्डक उच्यते । शुल्कशालाया अवक्रयः, शौल्कशा- लिकः । आकरिकः * । आपाकिकः । गौल्मिकः । नन्ववक्रयोऽपि धर्म्यमेव । नैत- दस्ति । लोकपीडया धर्मोऽतिक्रमेणाप्यवक्रयो भवति ॥ तदस्य पण्यम् ॥ ५१ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमास- मर्थं पण्यं चेत्तद्भवति । अपूपाः पण्यमस्य, आपूपिकः । शाष्कुलिकः । मौद- किकः । पण्यमिति विशेषणं तद्धितवृत्तावन्तर्भूतमतः पण्यशब्दो न प्रयुज्यते ॥ लवणाट्ठञ् ॥ ५२ ॥ लवणशब्दाट्ठञ् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन्विषये । ठञो- ऽपवादः । स्वरे विशेषः । लवणं पण्यमस्य, लावणिकः ॥ किशरादिभ्य ष्ठन् ॥ ५३ ॥ किशरा इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन्वि- षये । ठञोऽपवादः । किशरादयो गन्धविशेषवचनाः । किशराः पण्यमस्य, किश- रिकः । किशरिकी । नरदिकः । नरदिकी । किशर । नरद । नलद । सुगण्डल । तगर । गुग्गुलु । उशीर । हरिद्रा । हरिद्रायणी ॥ शलालुनो ऽन्यतरस्याम् ॥ ५४ ॥ शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतद्विषये । ठञोऽपवादः । पक्षे सोऽपि भवति । शलालुशब्दो गन्धविशेषवचनः । शलालु पण्यमस्य, शलालुकः । शलालुकी । शालालुकः । शालालुकी ॥ शिल्पम् ॥ ५५ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमास- मर्थे शिल्पं चेत्तद्भवति । शिल्पं कौशल्यम् । मृदङ्गवादनं शिल्पमस्य, मार्दङ्गिकः । पाशविकः । वैणिकः । मृदङ्गवादने वर्त्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति । शिल्पं तद्धितवृत्तावन्तर्भवति ॥ मड्डुकझर्झरादणन्यतरस्याम् ॥ ५६ ॥

  • आकारिक इति पाठः ॥

३६६ ॥ काशिका ॥ ४ ॥ ४ ॥ मड्डुकझर्झराभ्यामन्यतरस्यामण् प्रत्ययो भवति तदस्य शिल्पमि- त्येतस्मिन्विषये । ठकोपवादः । पक्षे सोऽपि भवति । मड्डुकवादनं शिल्पमस्य, माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥ प्रहरणम् ॥ ५७ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं प्रहरणं चेत्तद्भवति । असिः प्रहरणमस्य, आसिकः । प्रासिकः । धान्ुष्कः । चाक्रिकः ॥ परश्वधाट्ठञ् च ॥ ५८ ॥ परश्वधशब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक् । स्वरे विशेषः । परश्वधः प्रहरणमस्य, पारश्वधिकः ॥ शक्तियष्ट्योरीकक् ॥ ५९ ॥ शक्तियष्टिशब्दाभ्यामीकक् प्रत्ययो भवति तदस्य प्रहरणमित्येतस्मिन्वि- षये । ठकोपवादः । शक्तिः प्रहरणमस्य, शाक्तीकः । याष्टीकः ॥ अस्तिनास्तिदिष्टं मतिः ॥ ६० ॥ तदस्येत्येव । तदिति प्रथमासमर्थेभ्यो ऽस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्यो ऽस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं मतिश्चेत्तद्भवति । अस्ति मतिरस्य, आस्तिकः । नास्ति मतिरस्य, नास्तिकः । दैष्टिकः । न च मतिमात्रे प्रत्यय इष्यते, किं तर्हि परलोकोऽस्तीति यस्य मतिरस्ति स आ- स्तिकः । तद्विपरीतो नास्तिकः । प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः । तदेतदभिधानशक्तिस्वभावाल्लभ्यते । अस्तिनास्तिशब्दौ निपातौ, वचनसाम- र्थ्याद्वा आख्याताद्वाक्याच्च प्रत्ययः ॥ शीलम् ॥ ६१ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं शीलं चेद्भवति । शीलं स्वभावः । आपूपभक्षणं शीलमस्य, आपूपिकः । शाष्कुलिकः । मौदकिकः । भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति ॥ छत्रादिभ्यो णः ॥ ६२ ॥ छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शील- मित्येतस्मिन्विषये । ठकोपवादः । छत्रं शीलमस्य, छात्रः । छादनादावरणा- च्छत्रम् । गुरुकार्येष्ववहितस्तच्छिद्रावरणप्रवृत्तश्छत्रशीलः शिष्यश्छात्रः । स्था- शब्दो ऽत्र पठ्यते स उपसर्गपूर्वाच्च गृह्यते । आस्था संस्था चकास् इति । छत्र ।

? No, is not there. Wait, is that? It's: चे त् त् ? No, look at त्क: Wait, look at ठकोऽपवादःin line 13: को वा दः Look atत्कinऐकान्यिकः: का न्यि कः In line 6: चे-त्त-त्स? Wait, is it चेत्तत्समध्ययनविषयं? Look at character 3: त् character 4:? character 5: ? Wait! Could it be चेत्तत् समाध्ययनविषयं? No, no aa matra. Wait, look at चेत्तत्समध्ययनविषयं- yes, it looks remarkably likeचेत्तत्समध्ययनविषयं! Wait, could it be चेत्तदध्ययनविषयं? If it were चेत्तदध्ययनविषयं, there would be चे त्त ध्य... but there are two extra letters between त्तandध्य! Those letters are clearly and, or

३८८ ॥ काशिका ॥ ४ । ४ ॥ ठञेव कस्मान्नोच्यते नह्यत्र ठञष्ठञो वा विशेषोऽस्ति । मांसौदनग्रहणं संघात- विगृहीतार्थं केचिदिच्छन्ति । तत्र वृद्धाभावो विशेषः । श्रौदनिकः । श्रौदनिकी ॥ भक्तादणन्यतरस्याम् ॥ ६८ ॥ भक्तशब्दादण् प्रत्ययो भवत्यन्यतरस्यां तदस्मै दीयते नियुक्तमित्येत- स्मिन्विषये । ठञोऽपवादः । पक्षे सोऽपि भवति । भक्तमस्मै दीयते नियुक्तं, भाक्तः । भाक्तिकः ॥ तत्र नियुक्तः ॥ ६९ ॥ तत्रेति सप्तमीसमर्थाद्युक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । नि- युक्तो ऽधिकृतो व्यापारित इत्यर्थः । शुल्कशालायां नियुक्तः, शौल्कशालिकः । आकरिकः *। आपणिकः । गौल्मिकः । दौवारिकः ॥ अगारान्ताट्ठन् ॥ ७० ॥ अगारशब्दान्तात्प्रातिपदिकाट्ठन् प्रत्ययो भवति तत्र नियुक्त इत्येतस्मि- न्विषये । ठकोऽपवादः । देवागारे नियुक्तो, देवागारिकः । कोष्ठागारिकः । भाण्डागारिकः ॥ अध्यायिन्यदेशकालात् ॥ ७१ ॥ तत्रेत्येव । सप्तमीसमर्थाददेशवाचिनः प्रातिपदिकादकालवाचिनश्चा- ध्यायिन्यभिधेये ठञ् प्रत्ययो भवति । यदध्ययनस्य यो देशकालौ । शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते तत इदं प्रत्ययविधानम् । श्मशाने ऽधीते, श्मशानिकः । चातुष्पथिकः । अकालात् । चतुर्दश्यामधीते, चातुर्दशिकः । आमावास्यिकः अदेशकालादिति किम् । सुप्ते ऽधीते । पूर्वाह्णे ऽधीते ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७२ ॥ तत्रेत्येव । कठिनशब्दान्तात्सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठञ् प्रत्ययो भवति व्यवहरतीत्येतस्मिन्नर्थे । व्यवहारः क्रियातन्त्रम् । यद्वा लौकिकव्यवहार इति । वंशकठिने व्यवहरति, वांशकठिनिकः । वार्त्रकठिनिकः, प्रास्तारिकः । सांस्थानिकः ॥ निकटे वसति ॥ ७३ ॥ निकटशब्दात्सप्तमीसमर्थाद्वसतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । यस्य शास्त्रतो निकटवासस्तन्नायं विधिः । चारण्यकेन भिक्षुणा नामात्रक्रोशे वस्त- व्यमिति शास्त्रम् । निकटे वसति, नैकटिको भिक्षुः ॥

  • आकरिक इति पा० २ ।

॥ काशिका ॥ ४ ॥ ४ ॥ ३६९ आवसथात् ष्ठल् ॥ ७४ ॥ तत्रेत्येव । आवसथशब्दात्सप्तमीसमर्थाद् वसतीत्येतस्मिन्नर्थे ष्ठल् प्रत्ययो भवति । लकारः स्वरार्थः । षकारो ङीबर्थः । आवसथे वसति, आव- सथिकः । आवसथिकी । ठञः पूर्वो ऽवधिरतः परमन्यः प्रत्ययो विधीयते ॥ प्राग्घिताद्यत् ॥ ७५ ॥ तस्मै हितमिति वक्ष्यति । प्रागेतस्माद्धितसंबन्धवाक्यादित ऊर्ध्वमनुक्र- मिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति । तद्वहति रथयुगप्रास- ङ्गम् । रथ्यः । युग्यः । प्रासङ्ग्यः ॥ तद्वहति रथयुगप्रासङ्गम् ॥ ७६ ॥ तदिति द्वितीया समर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहतीत्येतस्मिन्नर्थे यत्प्र- त्ययो भवति । रथं वहति, रथ्यः । युग्यः । प्रासङ्ग्यः । रथसीताहलेभ्यो यद्वि- धाविति तदन्तविध्युपसंख्यानात् परमरथ्य इत्यपि भवति ॥ धुरो यड्ढकौ ॥ ७७ ॥ तद्वहतीत्येव । धुर् इत्येतस्माद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे यत् ढक् इत्येतौ प्रत्ययौ भवतः । धुरं वहति, धुर्यः । धौरेयः ॥ खः सर्वधुरात् ॥ ७८ ॥ तद्वहतीत्येव । सर्वधुराशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति । सर्वधुरां वहति, सर्वधुरीणः । स्त्रीलिङ्गे न्याय्ये सर्वधुरादिति प्रातिपदिकमात्रापेक्षो निर्देशः । ख इति योगविभागः कर्त्तव्य इष्टसंग्रहार्थः । उत्ताधुरीणः । दक्षिणाधुरीणः ॥ एकधुराल्लुक् च ॥ ७९ ॥ तद्वहतीत्येव । एकधुराशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति तस्य लुग्भवति । वचनसामर्थ्यात्पक्षे लुग्विधीयते । एकधुरां वहति, एकधुरीणः । एकधुरः ॥ शकटादण् ॥ ८० ॥ तद्वहतीत्येव । शकटशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे ऽण् प्रत्ययो भवति । शकटं वहति, शाकटो गौः । हलसीराट्ठक् ॥ ८१ ॥ तद्वहतीत्येव । हलसीरशब्दाभ्यां द्वितीयासमर्थाभ्यां वहतीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । हलं वहति, हालिकः । सैरिकः ॥ २४

३३० ॥ काशिका ॥ ४ ॥ ४ ॥ संज्ञायां जन्याः ॥ ८२ ॥ तद्वहतीत्येव । जनीशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे यत् प्रत्य- यो भवति समुदायेन चेत्संज्ञा गम्यते । जनीं वहति, जन्या जामातुर्वयस्या । सा हि विहारादिषु जामातृसमीपं प्रापयति । जनी वधूरुच्यते । विध्यत्यधनुषा ॥ ८३ ॥ तदिति द्वितीयासमर्थाद् विध्यतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति न चेद्धनुष्करणं भवति । पादौ विध्यन्ति, पद्याः शर्कराः । उरव्याः कण्टकाः । अधनुषेति किम् । पादौ विध्यति धनुषा । नन्वसमर्थत्वादनाभिधानाच्च प्रत्ययो न भवति । नहि धनुषा पद्या इत्युक्ते विवक्षितोर्थः प्रतीयते । एवं तर्हि धनु- ष्प्रतिषेधेन व्यधनक्रिया विशेष्यते यस्यां धनुष्करणं न संभाव्यते इति । तेनेह न भवति चौरं विध्यति शत्रुं विध्यति देवदत्त इति ॥ धनगणां लब्धा ॥ ८४ ॥ तदित्येव । धनगणशब्दाभ्यां द्वितीयासमर्थाभ्यां लब्धेत्येतस्मिन्नर्थे यत् प्रत्ययो भवति । धन्यः । गण्यः । लब्धेति तृचंतं, तेन द्वितीया समर्था विभ- क्तिर्युज्यते ॥ अन्नान्नः ॥ ८५ ॥ अन्नशब्दात्तदिति द्वितीयासमर्थाल्लब्धेत्येतस्मिन्नर्थे णः प्रत्ययो भवति । अन्नं लब्धा, आन्नः ॥ वशं गतः ॥ ८६ ॥ वशशब्दात्तदिति द्वितीयासमर्थाद्गत इत्येतस्मिन्नर्थे यत्प्रत्ययो भव- ति । वशं गतः, वश्यः । कामप्राप्तो विधेय इत्यर्थः ॥ पदमस्मिन् दृश्यम् ॥ ८७ ॥ निर्देशादेव प्रथमा समर्थविभक्तिः । पदशब्दात्प्रथमासमर्थाद् दृश्यार्थो- पाधिकादस्मिन्निति सप्तम्यर्थे यत्प्रत्ययो भवति । पदं दृश्यमस्मिन्, पद्यः कर्दमः । पद्याः पांसवः । शक्यार्थे कृत्यः । शक्यते यस्मिन् पदं द्रष्टुं प्रतिमु- द्रोत्पादनेन स पद्यः कर्दमः । कर्दमस्यावस्थोच्यते नातिद्रवो नातिशुष्क इति ॥ मूलमस्याबर्हि ॥ ८८ ॥ मूलशब्दात्प्रथमासमर्थादाबर्हीत्येवमुपाधिकादस्येति षष्ठ्यर्थे यत्प्रत्ययो भवति । मूलमेषामाबर्हि मूल्यो माषः । मूल्या मुद्गाः । बर्ह उद्दामे, येषां मूल- माबर्ह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पक्वाः । मूलोत्पाटनेन विना ग्रहीतुं न शक्यन्ते इत्यर्थः ॥

॥ काशिका ॥ ४ ॥ ४ ॥ ३७१ संज्ञायां धेनुष्या ॥ ८९ ॥ धेनुष्येति निपात्यते संज्ञायां विषये । संज्ञायहणमभिधेयनियमार्थम् । धेनोः ष्ठुगागमो यश्च प्रत्ययः । अन्तोदात्तोऽपि ह्ययमिष्यते । या धेनुरुत्तमर्णाय वत्सप्रदानाद्दोहनार्थं दीयते सा धेनुष्या । पीतदुग्धेति यस्याः प्रसिद्धिः । धेनुष्यां भवते ददामि ॥ गृहपतिना संयुक्ते ञ्यः ॥ ९० ॥ निर्देशायदेव तृतीया समर्थविभक्तिः । गृहपतिशब्दात्तृतीयासमर्थात्संयु- क्तइत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति । गृहपतिना संयुक्तः, गार्हपत्योऽग्निः । अन्यस्यापि गृहपतिना संयोगो ऽस्ति तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः ॥ नौवयोधर्मविषमूलमूलसीतातुल़ाभ्यस्तार्यतुल्यप्रा- प्यवध्यानाम्यसमसमितसम्मितेषु ॥ ९१ ॥ नावादिभ्यो ऽष्टभ्यः शब्देभ्यो ऽष्टस्वेव तार्यादिष्वर्थेषु यथासंख्यं यत्प्र- त्ययो भवति । प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर्लभ्यते । नावा तार्यं, नाव्यमुदकम् । नाव्‍या नदी । शख्यार्थे रूत्यः । वयसा तुल्यो, वयस्यः सखा । संज्ञाधिकारो ऽभिधेयनियमार्थः । तेन वयसा तुल्ये शत्रौ न भवति । धर्मेण प्राप्यं, धर्म्यम् । ननु च धर्मादनपेतइति वक्ष्यमाणेनैव सिद्धम् । नैतदस्ति । धर्मे यदनुवर्तते तद्धर्मादनपेतमित्युच्यते । फलं तु धर्मादपेत्येव कार्यविरोधि- त्वादधर्मस्य । विषेण वद्यो, विष्यः । विषेण वधमर्हतीत्यर्थः । मूलेनानाम्यं, मूल्यम् । अनाम्यमभिभवनीयम् । पटादीनामुत्पत्तिकारणं मूलं तेन तदभि- भूयते शेषी क्रियते । मूल्यं हि सगुणं मूलं करोति । पोरदुपधादिति यति प्राप्ते चानाम्यामिति निपातनाद् ण्यत् । मूलेन । समो, मूल्यः पटः । उपा- दानेन समानफल इत्यर्थः । सीतया समितं, सीत्यं क्षेत्रम् । समितं संगतमि- त्यर्थः ॥ रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरपीष्यते ॥ परमसीत्यम् । उत्तमसीत्यम् । द्विसीत्यम् । त्रिसीत्यम् । तुलया संमितं, तुल्यम् । संमितं समानं सदृशमित्यर्थः । यथा तुला परिच्छिनत्ति परमेवं तदपीति ॥ धर्मपथ्यर्थन्यायादनपेते ॥ ९२ ॥ निर्देशायदेव पञ्चमी समर्थविभक्तिः । धर्मादिभ्यः पञ्चमीसमर्थेभ्यो ऽनपेतइत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । धर्मादनपेतं, धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । संज्ञाधिकारादभिधेयनियमः ॥ छन्दसो निर्मिते ॥ ९३ ॥ प्रत्ययार्थसामर्थ्याल्लभ्या समर्थविभक्तिः । छन्दःशब्दात्तृतीयासमर्थाद्भि-