काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
॥ काशिका ॥ ४ ॥ ३ ॥ ३५१ कौपिञ्जलहास्तिपदादण् ॥ १३२ ॥ कौपिञ्जलहास्तिपदशब्दाभ्यामण् प्रत्ययो भवति तस्येदमित्येतस्मिन्वि- षये । गोत्रवुञोऽपवादः । गोत्राधिकारात् । कौपिञ्जलः । हास्तिपदः ॥ आथर्वणिकस्येकलोपश्च ॥ १३३ ॥ अणित्येव । आथर्वणिकशब्दादण् प्रत्ययो भवति तत्संनियोगेन चेक- लोपः, तस्येदमित्येतस्मिन्विषये । चरणवुञोऽपवादः । आथर्वणिकस्याय,माथ- र्वणो धर्म आम्नायो वा । चरणाद्धर्माम्नाययोः ॥ तस्य विकारः ॥ १३४ ॥ तस्येति षष्ठीसमर्थाद्विकार इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भव- ति । प्रकृतेरवस्थान्तरं विकारः । किमिहोदाहरणम्, अप्राप्याद्युदात्तमवृद्धं यस्य च नान्यत्र प्रतिपदं ग्रहणम् । अश्मनो विकारः, आश्मनः । आश्मः । अश्मनो
- विकार इति टिलोपः पाक्षिकः । भास्मनः । मार्त्तिकः । नित्स्वरेणाद्युदात्ता एते । तस्यप्रकरणे तस्येति पुनर्वचनं शैषिकनिवृत्त्यर्थम् । विकारावयवयोर्घादयो न भवेन्सि । हालः । सौरः । अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ १३५ ॥ प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यो ऽवयवे यथाविहितं प्रत्ययो भवति, चकाराद्विकारे च । तत्र प्राणिभ्यो ऽञं वक्ष्यति । कपोतस्य विकारो ऽवयवो वा, कापोतः । मायूरः । तैत्तिरः । ओषधिभ्यः । मौर्वं काण्डं, मौर्वं भस्म । वृक्षेभ्यः । कारीरं काण्डं, कारीरं भस्म । इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यो विकारावयवयोर्भवन्ति * । अन्येभ्यस्तु विकारमात्रे । कथं द्वयमप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्योषधिवृक्षेभ्य, इति । विक्ा- रावयवोर्युगपदधिकारो ऽपवादविधानार्थः । कृतनिर्देशौ हि तौ ॥ बिल्वादिभ्यो ऽण् ॥ १३६ ॥ बिल्व इत्येवमादिभ्यो ऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः । यथायोगमञ्मयटोरपवादः । बिल्वस्यावयवो विकारो वा, बैल्वः । गवेधुका- शब्दोऽत्र पठ्यते, ततः कोपधादेव सिद्धे मयड्बाधनार्थं ग्रहणम् । बिल्व । व्रीहि । काण्ड । मुद्ग । मसूर । गोधूम । इक्षु । वेणु । गवेधुका । कर्पासी । पाटली । कर्कन्धू । कुटीर । बिल्वादिः ॥
- भवन्तीत्यस्याग्रे 'वृक्षशब्देन वनस्पतयो ऽपि गृह्यन्ते । न्यग्रोधस्य विकारो ऽवयवो वा, न्यैग्रोधः । पैप्पलः । मौदुम्बरः । ओषधिशब्दाल्लतातृणादयो ऽपि गृह्यन्ते । ताम्बूलस्य विकारो ऽवयवो वा, ताम्बूलः । गान्दूषः । इभ्यो विकारावयवोर्भवन्ति' इत्याधिकमेकस्मि- न्पुस्तके ।
३५२ ॥ काशिका ॥ ४ । ३ ॥ कोपधाच्च ॥ १३७ ॥ ककारोपधात्प्रातिपदिकादण् प्रत्ययो भवति यथायोगं विकारावयवयो- र्ग्रन्थयोः। अञोऽपवादः। तर्कुं। तार्क्वम्। तित्तिडीक। तैत्तिडीकम्। माण्डू- कम्। दार्दुरुकम्। माधूकम् ॥ त्रपुजतुनोः षुक् ॥ १३८ ॥ त्रपुजतुशब्दाभ्यामण् प्रत्ययो भवति विकारे, तत्सन्नियोगेन तयोः षुगा- गमो भवति। ओरञोऽपवादः। त्रपुणो विकारः, त्रापुषम्। जातुषम्। अश्रा- श्यादित्वाद्वावयवे ॥ ओरञ् ॥ १३९ ॥ उवर्णान्तात्प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरर्थयो, रञो- पवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवम्। भाद्रदारवम् ॥ अनुदात्तादेश्च ॥ १४० ॥
॥ काशिका ॥ ४ ॥ ३ ॥ ३५३ नित्यं वृद्धशरादिभ्यः ॥ १४४ ॥ भाषायामभक्ष्याच्छादनयोरित्येव । वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्य- श्चामक्ष्याच्छादनयोर्विकारावयवयोर्भाषायां विषये नित्यं मयट् प्रत्ययो भवति । वृद्धेभ्यस्तावत् । आम्रमयम् । शालमयम् । शाकमयम् । शरादिभ्यः । शरम- यम् । दर्भमयम् । मृन्मयम् । नित्यग्रहणं किम् । यावता ऽऽरम्भसामर्थ्यादेव नित्यं भविष्यति । एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते । त्वङ्मयम् । स्रङ्मयम् । वाङ्मयमिति । शर । दर्भ । मृत् । कुटी । तृण । सोम । बल्वज ॥ गोश्च पुरीषे ॥ १४५ ॥ गोशब्दात्पुरीषे ऽभिधेये मयट् प्रत्ययो भवति । गोमयम् । पुरीषइति किम् । गव्यं पयः । पुरीषं न विकारो न चावयवस्तस्येदंविषये विधानम् । विकारावयवयोस्तु गोपयसोर्यत् वक्ष्यति ॥ पिष्टाच्च ॥ १४६ ॥ पिष्टशब्दाच्चित्यं मयट् प्रत्ययो भवति तस्य विकार इत्येतस्मिन्विषये, ऽणोऽपवादः । पिष्टमयं भस्म ॥ संज्ञायां कन् ॥ १४७ ॥ पिष्टशब्दात्कन् प्रत्ययो भवति विकारे संज्ञायां विषये । मयटोपवादः । पिष्टकः ॥ व्रीहेः पुरोडाशे ॥ १४८ ॥ व्रीहिशब्दान्मयट् प्रत्ययो भवति पुरोडाशे विकारे । बिल्वाद्यणोप- वादः । व्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥ असंज्ञायां तिलयवाभ्याम् ॥ १४९ ॥ तिलयवशब्दाभ्यामसंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोर- र्थयोः । तिलमयम् । यवमयम् । असंज्ञायामिति किम् । तैलम् । यावकः । यावादिभ्यः कन् ॥ द्व्यचश्छन्दसि ॥ १५० ॥ द्व्यचः प्रातिपदिकाच्छन्दसि विषये मयट् प्रत्ययो भवति विकाराव- यवयोरेतयोः । भाषायां मयडुक्तः छन्दस्यप्राप्तो विधीयते । यस्य पर्णमयी जुहूर्भवति । दर्भमयं वासो भवति । शरमयं बर्हिर्भवति ॥ नोत्त्वद्दूर्वाबिल्वात् ॥ १५१ ॥ उत्त्वतः प्रातिपदिकाद्दूर्वाबिल्वशब्दाभ्यां च मयट् प्रत्ययो न भवति । २३
३५४ ॥ काशिका ॥ ४ । ३ ॥ ष्ठञ्छन्दसीति प्राप्तः प्रतिषिध्यते । मौञ्जं शिक्यम् । गार्मुतं चक्रम् । वार्क्षी बालप्रग्रथिता भवति । बैल्वो ब्रह्मवर्चसकामेन कार्यः । तपरकरणं तत्कालार्थम् । धूममयान्यभ्राणि । मतुब्निर्देशस्तदन्तविधिनिरासार्थः । इहैव स्यात् । बेल्वो यष्टिरिति ॥ तालादिभ्योऽण् ॥ १५२ ॥ तालादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति विकारावयवयोर- र्थयोः । मयडादीनामपवादः । तालं धनुः । बार्हिषम् । ऐन्द्रालिषम् ॥ ताल * धनुषि * ॥ बार्हिष । इन्द्रलिष । इन्द्रादृश । इन्द्रायुध । चाप † श्यामाक । प्रागुक्ता । तालादिः ॥ जातरूपेभ्यः परिमाणे ॥ १५३ ॥ जातरूपं सुवर्णम् । बहुवचननिर्देशात्तद्वाचिनः सर्वे गृह्यन्ते । जातरूप- वाचिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति परिमाणे विकारे । मयडादीना- मपवादः । हाटको निष्कः । हाटकं कार्षापणम् । जातरूपम् । तापनीयम् ।
- परिमाण इति किम् । यष्टिरियं हाटकमयी ॥ प्राणिरजतादिभ्यो ऽञ् ॥ १५४ ॥ प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतादिभ्यश्चाञ् प्रत्ययो भवति विका- रावयवयोरर्थयोः । अणादीनामपवादः । अनुदात्तादेरञ् विहित एव, परिशि- ष्टमिहोदाहरणम् । प्राणिभ्यस्तावत् । कापोतम् । मायूरम् । तैत्तिरम् । रज- तादिभ्यः । राजतम् । सैसम् । लौहम् । रजतादिषु ये ऽनुदात्तादयः पठ्यन्ते रजतकण्टकारप्रभृतयस्तेभ्योऽञि सिद्धे पुनर्वचनं मयड्बाधनार्थम् । रजत । सीस । लोह । उदुम्बर । नीच ‡ । दाह । रोहितक । बिभीतक । कपीत । दाढ । तीव्रदाह । त्रिकण्टक । कण्टकार ॥ ञितश्च तत्प्रत्ययात् ॥ १५५ ॥ अञित्येव । तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः । ञित्तो विका- रावयवप्रत्ययस्तदन्तात्प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरथ § । मयटोपवादः । ओरञ् । शम्याष्ट्लञ् । प्राणिरजतादिभ्योऽञ् । उष्ट्रादुञ् । शङ्खा ठञ् । कंसीयपरशव्ययोर्यञञौ । इत्येते प्रत्यया गृह्यन्ते । दैवदारवस्य
- तालान्धनुषीत्यारभ्य तालमयमन्वत् । नित्यं वृद्धेति मयट् । इत्याधिकमेक- स्मिन्पुस्तके । † चर्मेति पा० २ । ‡ नीचेति पा० २ । § विकारावयवयोरित्येवेति पा० २ ।
विकारो ऽवयवो वा, दैवदारवम्। दाधित्थस्य, दाधित्थम्। पालाशस्य, पा- लाशम्। शामीलस्य, शामीलम्। कापोतम्। औष्ट्रकस्य, औष्ट्रकम्। ऐणेयस्य, ऐणेयम्। कांस्यस्य, कांस्यम्। पारशवस्य, पारशवम्। ञित इति किम्। बैल्व- मयम्। तत्प्रत्ययादिति किम्। बैदमयम्॥ क्रीतवत्परिमाणात् ॥ १५६ ॥ प्राग्वतेष्ठजित्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद्विहितास्ते वि- कारे ऽतिदिश्यन्ते। परिमाणात् क्रीतवत् प्रत्यया भवन्ति तस्य विकार इत्येत- स्मिन्विषये। अणादीनामपवादः। संख्या परिमाणग्रहणेन गृह्यते, न रूढिप- रिमाणमेव। निष्केण क्रीतं, नैष्किकम्। एवं निष्कस्य विकारो, नैष्किकः। शतेन क्रीतं, शत्यं, शतिकम्। शतस्य विकारः, शत्यः, शतिकः। साहस्रः। व
first word after *:
It starts with क... wait, does it have an र on top?
Wait, it looks like कर्कन्धु or कर्कन्धू!
Line 29:
† काथ । कुटज । इत्याधिकं कुत्र चित् ।
Wait, is it काथ or क्वाथ?
Look at † क्वाथ: क ् व ा थ = क्वाथ! Yes, क्वाथ । कुटज । इत्याधिकं कुत्र चित् ।
Line 30:
‡ नवमालिका पा० २ ।
Line 31:
§ नखरञ्जनी । पा० २ ।
Line 32:
‖ शाल्लकट्टी । पा० २ ।
(In L27 it's शल्लकक्षी, footnote has शाल्लकट्टी)
Let's re-read footnote 1 (Line 28):
* कर्कन्धु । पा० २ द्वितीयपुस्तके कर्कन्धू । पा० २ ।
Wait, the second occurrence has long ू or the first?
Let's look at the first: कर्कन्धु or कर्कन्धू?
Actually, let's transcribe it accurately.
It says: `* कर्कन्धु । पा० २ द्वितीयपुस्तके कर्कन्धू । पा०
॥ काशिका ॥ ४ ॥ ३ ॥ ३५७ अर्जुनपाकी । काला । द्राक्षा । ध्वाङ्क्षा । गर्गरिका । कण्टकारिका । शेफालिका *॥ कंसीयपरशव्योर्यञञौ लुक्च ॥ १६८ ॥ प्राक्क्रीताच्छेन् कंसीयः । उगवादिभ्यो यत् । परशव्यः । कंसीयपरश- व्यशब्दाभ्यां यथासंख्यं यञञौ प्रत्ययौ भवतस्तस्यविकार इत्येतस्मिन्विषये, तत्सं- नियोगेन च कंसीयपरशव्ययोर्लुग्भवति । कंसीयस्य विकारः, कांस्यः । परशव्यस्य विकारः, पारशवः । प्रातिपदिकाधिकाराद्धातोःप्रत्ययस्य न लुग्भवति । परशव्य- शब्दादनुदात्तादित्वादेवाञि सिद्धे लुगर्थं वचनम् । ननु च यस्येति लोपे कृते हलस्तद्धितस्येति यलोपो भविष्यति । नैतदस्ति । ईतीति तत्र वर्तते ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादः ॥ ॥ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ प्राग्वहतेष्ठक् ॥ १ ॥ तद्वहति रथयुगप्रासङ्गमिति वक्ष्यति । प्रागेतस्माद्वहतिसंशब्दनाद्यानर्था- ननुक्रमिष्यामः, ठक् प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति । दीव्यति खनति जयति जितमिति । अक्षैर्दीव्यति आक्षिकः ॥ ठक्प्रकरणे तदाहेति माशब्दा- दिभ्य उपसंख्यानम् ॥ * ॥ माशब्द इत्याह माशब्दिकः । नैत्यशब्दिकः । कार्यश- ब्दिकः । वाक्यादेतत्प्रत्ययविधानम् ॥ आहोप्रभूतादिभ्यः ॥ * ॥ प्रभूतमाह, प्राभू- तिकः । पार्याप्तिकः । क्रियाविशेषणात्प्रत्ययः ॥ पृच्छतौ सुखातादिभ्यः ॥ * ॥ सुखतं पृच्छति सौखातिकः । सौशायनिकः ॥ गच्छतौ परदारादिभ्यः ॥ * ॥ परदारान् गच्छति पारदारिकः । गोष्ठप्तिकः ॥ तेन दीव्यति खनति जयति जितम् ॥ २ ॥ तेनेति तृतीयासमर्थाद् दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठक् प्रत्ययो भवति । अक्षैर्दीव्यति,आक्षिकः । शालाकिकः । खनित्रा खनति, खान्त्रि- कः । कौद्दालिकः । अक्षैर्जयति, आक्षिकः । अक्षैर्जितमाक्षिकम् । शालाकिकम् । सर्वत्र करणे तृतीया समर्थविभक्तिः । देवदत्तेन जितमिति प्रत्ययो न भवति, अनभिधानात् । अङ्गुल्या खनतीति च । प्रत्ययार्थे संख्याकालयोरेव विवक्षा । क्रियाप्रधानत्वेऽपि धात्वर्थस्य तद्धितः स्वभावात्साधनप्रधानः ॥
- शेफालिकेत्यस्याग्रे 'शेषां च कप्रत्ययान्निमित्तः शेषः ॥ पुष्पमूलेषु बहुलम्' इत्यधिकं बहु षु पुस्तकेषु ।
३५८ ॥ काशिका ॥ ४ ॥ ४ ॥ संस्कृतम् ॥ ३ ॥ तेनेति तृतीयासमर्थात्संस्कृतमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं, दाधिकम्। शार्ङ्गावेरिकम्। मारिचिकम्। योगविभाग उत्तरार्थः॥ कुलत्थकोपधादण् ॥ ४ ॥ कुलत्थशब्दात्ककारोपधाच्छब्दाच्च प्रातिपदिकादण् प्रत्ययो भवति संस्कृतमित्येतस्मिन्विषये। ठकोपवादः। कुलत्थैः संस्कृतं, कौलत्थम्। कका- रोपधात्। तैत्तिडिकम्*। दार्दभकम्॥ तरति ॥ ५ ॥ तेनेति तृतीयासमर्थात्तरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। तरति प्लवते इत्यर्थः। काण्डप्लवेन तरति, काण्डप्लविकः। औडुपिकः॥ गोपुच्छाट्ठञ् ॥ ६ ॥ गोपुच्छशब्दाट् ठञ्प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोपवादः। स्वरे विशेषः। गौपुच्छिकः॥ नौद्व्यचष्ठन् ॥ ७ ॥ नौशब्दाद् द्व्यचश्च प्रातिपदिकाट् ठन् प्रत्ययो भवति तरतीत्येतस्मि- न्नर्थे। ठकोपवादः। नावा तरति, नाविकः। द्व्यचः खल्वपि। घटिकः। प्लवि- कः। बाहुकः। षकारः सांहितिको नानुबन्धः। बाहुका स्त्री॥ आकर्षात्पर्यदेर्भैस्त्रादिभ्यः कुसीदसूत्राच्च। आवसथात्किशरादेः षितः षडेते ठगाधिकारे॥ विधिवाक्यापेतं च षट्त्वं प्रत्ययास्तु सप्त॥ चरति ॥ ८ ॥ तेनेति तृतीयासमर्थाच्चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरति- र्भक्षणे गतौ च वर्तते। दध्ना चरति, दाधिकः। हास्तिकः। शाकटिकः॥ आकर्षात्ष्ठल् ॥ ९ ॥ आकर्षशब्दात् ष्ठल् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोपवादः। लकारः स्वरार्थः। षकारो ङीबर्थः। आकर्षेण चरति, आकर्षिकः। आकर्- षिकी। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल उच्यते॥
- तैत्तिरीकम्। पा० २।
॥ काशिका ॥ ४ ॥ ४ ॥ ३५६ पर्पादिभ्यः ष्ठन् ॥ १० ॥ पर्प इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे । ठकोऽप- वादः । नकारः स्वरार्थः । षकारो ङीषर्थः । पर्पिकः । पर्पिकी । आश्विकः । आश्विकी । पर्प । आश्व । आश्वत्थ । रथ । जाल । न्यास । व्यास ॥ पादः पत्त्व ॥ पर्दिकः ॥ श्वगणाट्ठञ् ॥ ११ ॥ श्वगणशब्दाट्ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरतीत्येतस्मिन्नर्थे । ठकोऽपवादः । श्वगणेन चरति, श्वागणिकः । श्वागणिकी । ठन् । श्वगणिकः । श्वगणिका । स्वादेरित्योत्त्वं वक्ष्यति, इकारादिग्रहणं च कर्त्तव्यं श्वागणिका- द्यर्थमिति । तेन ठञि द्वारादिकार्यं न भवति ॥ वेतनादिभ्यो जीवति ॥ १२ ॥ तेनेति तृतीयासमर्थेभ्यो वेतनादिभ्यः शब्देभ्यो जीवतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । वेतनेन जीवति वैतनिकः कर्मकरः । धनुर्दण्डग्रहणमत्र संघातविगृहीतार्थम् । धानुर्दण्डिकः । धानुष्कः । दाण्डिकः । वेतन । वाह । आर्धुवाह । धनुर्दण्ड । जाल । वेस । उपवेस । प्रेषण । उपस्ति । सुख । शय्या । शक्ति । उपनिषत् । उपवेष । स्रक् । पाद । उपस्थान ॥ वस्त्रक्रयविक्रयाट्ठन् ॥ १३ ॥ वस्त्रक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति जीवती- त्येतस्मिन्विषये । ठकोऽपवादः । वस्त्रेण जीवति, वस्त्रिकः । क्रयविक्रयग्रहणं संघा- तविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ आयुधाच्छ च ॥ १४ ॥ आयुधशब्दाच्छप्रत्ययो भवति, चकाराट्ठंश्च जीवतीत्येतस्मिन्विषये । आयुधेन जीवति, आयुधीयः । आयुधिकः ॥ हरत्युत्सङ्गादिभ्यः ॥ १५ ॥ तेनेत्येव । उत्सङ्गादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति । हरतिर्देशान्तरप्रापणे वर्त्तते । उत्सङ्गेन हरति, औत्सङ्गिकः । औडुपिकः । उत्सङ्ग । उडुप । उत्पत । पिटक । उत्सङ्गादिः * ॥ भस्त्रादिभ्यः ष्ठन् ॥ १६ ॥ भस्त्रेत्येवमादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ष्ठन्प्रत्ययो भव-
- उडुप । पिटक । इति शब्दद्वयं पुस्तकान्तरे प्रोक्तौ ।
३६२ ॥ काशिका ॥ ४ ॥ ४ ॥ षिकः । प्रकृत्यन्तरं वा वृद्धिपर्यायो वृद्धिषिशब्दः । मह्यंमिति किम् । द्विगुणं प्रयच्छत्यधमर्णः ॥ कुसीददशैकादशात् ष्ठन्ष्ठचौ ॥ ३१ ॥ प्रयच्छति गर्ह्यमित्येव । कुसीदं वृद्धि,स्तदर्थं द्रव्यं कुसीदम् । एकाद- शार्थो दश दशैकादशशब्देनोच्यन्ते । कुसीददशैकादशशब्दाभ्यां यथासंख्यं ष्ठन् ष्ठञ् इत्येतौ प्रत्ययो भवतः प्रयच्छति गर्ह्यमित्यस्मिन्विषये । ठकोऽपवादौ । कुसीदं प्रयच्छति, कुसीदिकः । कुसीदिकी । दशैकादशिकः । दशैकादशिकी ॥ उञ्छति ॥ ३२ ॥ तदिति द्वितीयासमर्थादुञ्छतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । बद- राण्युञ्छति, बादरिकः । श्यामाकिकः । भूमौ पतितस्यैकैकस्य कणस्योपादान मुञ्छः । कषानुञ्छति, काषिकः * ॥ रक्षति ॥ ३३ ॥ तदिति द्वितीयासमर्थाद्रक्षतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । समाजं रक्षति, सामाजिकः । सांनिवेशिकः ॥ शब्ददर्दुरं करोति ॥ ३४ ॥ तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । शब्दं करोति, शाब्दिको वैयाकरणः । दार्दुरिकः कुम्भकारः ॥ पक्षिमत्स्यमृगान् हन्ति ॥ ३५ ॥ तदित्येव । पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्तीत्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति ॥ स्वरूपस्य पर्यायाणां तद्विशेषाणां च ग्रहणमिहेष्यते ॥ पक्षिणो हन्ति, पाक्षिकः । शाकुनिकः । मायूरिकः । तैत्तिरिकः । मत्स्य । मात्स्यिकः । मैनिकः । शार्फरिकः । शाकुलिकः । मृग । मार्गिकः । हारिणिकः । सौकरिकः । सारङ्गिकः ॥ परिपन्थं च तिष्ठति ॥ ३६ ॥ परिपन्थशब्दात्तदिति द्वितीयासमर्थात्तिष्ठतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । परिपन्थं तिष्ठति, पारिपन्थिकश्चोरः । चकारो भिन्नक्रमः प्रत्ययार्थे समुच्चिनोति । परिपन्थं हन्ति, पारिपन्थिकः । समर्थेविभक्तिप्रकरणे पुनर्द्विती- योच्चारणं लौकिकवाक्यप्रदर्शनार्थम् । परिपथशब्दपर्यायः परिपन्थशब्दोऽस्तीति ज्ञापयति,स विषयान्तरेपि प्रयोक्तव्यः ॥
- भूमावित्यारभ्य काषिक इत्यन्तं बहुषु पुस्तकेषु नास्ति ।
॥ काशिका ॥ ४ । ४ ॥ ३६३ माथोत्सरपदपदव्यनुपदं धावति ॥ ३७ ॥ माथशब्दोत्तरपदात्प्रातिपदिकात्पदवी अनुपद् इत्येताभ्यां च धावती- त्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । दण्डमाथं धावति, दाण्डमाथिकः । शौल्क- माथिकः । पादविकः । आनुपदिकः । माथशब्दः पथिपर्यायः ॥ आक्रन्दाट्ठञ् ॥ ३८ ॥ आक्रन्द्यतेऽस्मिन्नित्याक्रन्दो देशः । अथ वा ऽऽक्रन्द्यातइत्याक्रन्द, चार्तो- यनमुच्यते । विशेषाभावाद् द्वयोरपि ग्रहणम् । आक्रन्दशब्दात्तदिति द्वितीया- समर्थाद्धावतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति, चकाराट्ठक् च । स्वरे विशेषः । आक्रन्दं धावति आक्रन्दिकः । आक्रन्दिकी ॥ पदोत्तरपदं गृह्णाति ॥ ३६ ॥ पदशब्द उत्तरपदं यस्य तस्मात्पदोत्तरपदशब्दात्तदिति द्वितीयासम- र्थाद्गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । पूर्वपदं गृह्णाति, पौर्वपदिकः । औत्तरपदिकः । पदान्तादिति नोक्तं, बहुच्पूर्वान्मा भूदिति ॥ प्रतिकण्ठार्थललामं च ॥ ४० ॥ प्रतिकण्ठार्थललामशब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो गृह्णातीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । प्रतिकण्ठं गृह्णाति, प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ धर्मं चरति ॥ ४१ ॥ धर्मशब्दात्तदिति द्वितीयासमर्थाच्चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । चरतिरासेवायाम् नानुष्ठानमात्रे । धर्मं चरति, धार्मिकः ॥ अधर्माच्चेति वक्त- व्यम् ॥ * ॥ आधार्मिकः ॥ प्रतिपथमिति ठंश्च ॥ ४२ ॥ प्रतिपथशब्दाद्द्वितीयासमर्थाद् एतीत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकाराट्ठक् च । प्रतिपथमिति, प्रतिपथिकः । प्रातिपथिकः ॥ समवायान् समवैति ॥ ४३ ॥ समवायवाचिभ्यः शब्देभ्यस्तदिति द्वितीयासमर्थेभ्यः समवैतीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । समवायः समूह उच्यते न संप्रधारणा । समवाया- निति बहुवचनं स्वरूपविधिनिरासार्थम् । समवैति आगत्य तदेकदेशी भव- तीत्यर्थः । समवायान्समवैति, सामवायिकः । सामाजिकः । सामूहिकः । साधिवेशनिकः ॥
३६४ ॥ काशिका ॥ ४ ॥ ४ ॥ परिषदो ण्यः ॥ ४४ ॥
- परिषदो ण्यः प्रत्ययो भवति सम वायान्समवैतीत्येतस्मिन्विषये । ठकोऽपवादः । परिषदं समवैति, पारिषद्यः ॥ सेनाया वा ॥ ४५ ॥ सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान्समवैतीत्येतस्मिन्नर्थे । ठकोऽपवादः । पक्षे सोऽपि भवति । सेनां समवैति, सैन्यः । सैनिकः ॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४६ ॥ ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये । संज्ञाग्रहणमभिधेयनियमार्थं, न तु सञ्ज्ञा- र्थम् । ललाटं पश्यति, लालाटिकः सेवकः । कौक्कुटिको भिक्षुः । सर्वावय- वेभ्यो ललाटं दूरे दृश्यते, तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुप- श्लेषः कार्येष्वनुपस्थायित्वं लक्ष्यते । लालाटिकः सेवकः । स्वामिनः कार्येषु नोपतिष्ठतइत्यर्थः । कुक्कुटीशब्देनापि कुक्कुटीपातो लक्ष्यते । देशस्याल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिक इति † ॥ तस्य धर्म्यम् ॥ ४७ ॥ तस्येति षष्ठीसमर्थाद् धर्म्यमित्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति । धर्म्ये न्याय्यम् । आचारयुक्तमित्यर्थः । शुल्कशालाया धर्म्म्यं शौल्कशालिकम् । आक- रिकम् । आपाणिकम् । गौल्मिकम् ॥ अण् महिष्यादिभ्यः ॥ ४८ ॥ महिषीत्येवमादिभ्यो ऽण् प्रत्ययो भवति तस्य धर्म्ममित्येतस्मिन् विषये । ठञोऽपवादः । महिष्या धर्म्म्यं, माहिषम् । प्राजावतम् । महिषी । प्रजावती । प्रलेपिका । विलेपिका । अनुलेपिका । पुरोहित । महिपाली । अनुचारक । होतृ । यजमान ॥ ऋतो ऽञ् ४६ ॥ ऋकारान्तात्प्रातिपदिकादञ् प्रत्ययो भवति तस्य धर्म्ममित्येतस्मिन्वि- षये । ठञोऽपवादः । पोतुर्धर्म्म्यं पौत्रम् । औद्गात्रम् ॥ नराच्चेति वक्तव्यम् ॥ * ॥
- परिषदो ण्य इत्यस्याग्रे परिषदीतव्यस्मिश्चित्यधिकररो विषप् । इत्याधिकमेकस्मिन्पु- स्तके । † कौक्कुटिक इतीत्यस्याग्रे तदयमभिधेयनियमः संज्ञाग्रहणेन क्रियते, कुक्कुटी दाम्भि- कश्चेटा ।
॥ काशिका ॥ ४ ॥ ४ ॥ ४६५ नरस्य धर्मो, नारी । विशसितुर्इड्लोपश्च ॥ * ॥ विशसितुर्धर्म्यं वैशससम् ॥ विभाजयितुर्ऋतोपश्च ॥ * ॥ विभाजयितुर्धर्म्यं वैभाजितम् ॥ अवक्रयः ॥ ५० ॥ तस्येत्येव । षष्ठीसमर्थादवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । अवक्रीयते ऽनेनेत्यवक्रयः पिण्डक उच्यते । शुल्कशालाया अवक्रयः, शौल्कशा- लिकः । आकरिकः * । आपाकिकः । गौल्मिकः । नन्ववक्रयोऽपि धर्म्यमेव । नैत- दस्ति । लोकपीडया धर्मोऽतिक्रमेणाप्यवक्रयो भवति ॥ तदस्य पण्यम् ॥ ५१ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमास- मर्थं पण्यं चेत्तद्भवति । अपूपाः पण्यमस्य, आपूपिकः । शाष्कुलिकः । मौद- किकः । पण्यमिति विशेषणं तद्धितवृत्तावन्तर्भूतमतः पण्यशब्दो न प्रयुज्यते ॥ लवणाट्ठञ् ॥ ५२ ॥ लवणशब्दाट्ठञ् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन्विषये । ठञो- ऽपवादः । स्वरे विशेषः । लवणं पण्यमस्य, लावणिकः ॥ किशरादिभ्य ष्ठन् ॥ ५३ ॥ किशरा इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन्वि- षये । ठञोऽपवादः । किशरादयो गन्धविशेषवचनाः । किशराः पण्यमस्य, किश- रिकः । किशरिकी । नरदिकः । नरदिकी । किशर । नरद । नलद । सुगण्डल । तगर । गुग्गुलु । उशीर । हरिद्रा । हरिद्रायणी ॥ शलालुनो ऽन्यतरस्याम् ॥ ५४ ॥ शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतद्विषये । ठञोऽपवादः । पक्षे सोऽपि भवति । शलालुशब्दो गन्धविशेषवचनः । शलालु पण्यमस्य, शलालुकः । शलालुकी । शालालुकः । शालालुकी ॥ शिल्पम् ॥ ५५ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमास- मर्थे शिल्पं चेत्तद्भवति । शिल्पं कौशल्यम् । मृदङ्गवादनं शिल्पमस्य, मार्दङ्गिकः । पाशविकः । वैणिकः । मृदङ्गवादने वर्त्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति । शिल्पं तद्धितवृत्तावन्तर्भवति ॥ मड्डुकझर्झरादणन्यतरस्याम् ॥ ५६ ॥
- आकारिक इति पाठः ॥
३६६ ॥ काशिका ॥ ४ ॥ ४ ॥ मड्डुकझर्झराभ्यामन्यतरस्यामण् प्रत्ययो भवति तदस्य शिल्पमि- त्येतस्मिन्विषये । ठकोपवादः । पक्षे सोऽपि भवति । मड्डुकवादनं शिल्पमस्य, माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥ प्रहरणम् ॥ ५७ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं प्रहरणं चेत्तद्भवति । असिः प्रहरणमस्य, आसिकः । प्रासिकः । धान्ुष्कः । चाक्रिकः ॥ परश्वधाट्ठञ् च ॥ ५८ ॥ परश्वधशब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक् । स्वरे विशेषः । परश्वधः प्रहरणमस्य, पारश्वधिकः ॥ शक्तियष्ट्योरीकक् ॥ ५९ ॥ शक्तियष्टिशब्दाभ्यामीकक् प्रत्ययो भवति तदस्य प्रहरणमित्येतस्मिन्वि- षये । ठकोपवादः । शक्तिः प्रहरणमस्य, शाक्तीकः । याष्टीकः ॥ अस्तिनास्तिदिष्टं मतिः ॥ ६० ॥ तदस्येत्येव । तदिति प्रथमासमर्थेभ्यो ऽस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्यो ऽस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं मतिश्चेत्तद्भवति । अस्ति मतिरस्य, आस्तिकः । नास्ति मतिरस्य, नास्तिकः । दैष्टिकः । न च मतिमात्रे प्रत्यय इष्यते, किं तर्हि परलोकोऽस्तीति यस्य मतिरस्ति स आ- स्तिकः । तद्विपरीतो नास्तिकः । प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः । तदेतदभिधानशक्तिस्वभावाल्लभ्यते । अस्तिनास्तिशब्दौ निपातौ, वचनसाम- र्थ्याद्वा आख्याताद्वाक्याच्च प्रत्ययः ॥ शीलम् ॥ ६१ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं शीलं चेद्भवति । शीलं स्वभावः । आपूपभक्षणं शीलमस्य, आपूपिकः । शाष्कुलिकः । मौदकिकः । भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति ॥ छत्रादिभ्यो णः ॥ ६२ ॥ छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शील- मित्येतस्मिन्विषये । ठकोपवादः । छत्रं शीलमस्य, छात्रः । छादनादावरणा- च्छत्रम् । गुरुकार्येष्ववहितस्तच्छिद्रावरणप्रवृत्तश्छत्रशीलः शिष्यश्छात्रः । स्था- शब्दो ऽत्र पठ्यते स उपसर्गपूर्वाच्च गृह्यते । आस्था संस्था चकास् इति । छत्र ।
? No, सis not there. Wait, is thatस? It's: चे त् त त् स म? No, look at त्क: Wait, look at ठकोऽपवादःin line 13:ठ को ऽ प वा दः Look atत्कinऐकान्यिकः: ऐ का न्यि कः In line 6: चे-त्त-त्स? Wait, is it चेत्तत्समध्ययनविषयं? Look at character 3: त् character 4:स? character 5: म? Wait! Could it be चेत्तत् समाध्ययनविषयं? No, no aa matra. Wait, look at चेत्तत्समध्ययनविषयं- yes, it looks remarkably likeचेत्तत्समध्ययनविषयं! Wait, could it be चेत्तदध्ययनविषयं? If it were चेत्तदध्ययनविषयं, there would be चे त्त द ध्य... but there are two extra letters between त्तandध्य! Those letters are clearly सandम, or
३८८ ॥ काशिका ॥ ४ । ४ ॥ ठञेव कस्मान्नोच्यते नह्यत्र ठञष्ठञो वा विशेषोऽस्ति । मांसौदनग्रहणं संघात- विगृहीतार्थं केचिदिच्छन्ति । तत्र वृद्धाभावो विशेषः । श्रौदनिकः । श्रौदनिकी ॥ भक्तादणन्यतरस्याम् ॥ ६८ ॥ भक्तशब्दादण् प्रत्ययो भवत्यन्यतरस्यां तदस्मै दीयते नियुक्तमित्येत- स्मिन्विषये । ठञोऽपवादः । पक्षे सोऽपि भवति । भक्तमस्मै दीयते नियुक्तं, भाक्तः । भाक्तिकः ॥ तत्र नियुक्तः ॥ ६९ ॥ तत्रेति सप्तमीसमर्थाद्युक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । नि- युक्तो ऽधिकृतो व्यापारित इत्यर्थः । शुल्कशालायां नियुक्तः, शौल्कशालिकः । आकरिकः *। आपणिकः । गौल्मिकः । दौवारिकः ॥ अगारान्ताट्ठन् ॥ ७० ॥ अगारशब्दान्तात्प्रातिपदिकाट्ठन् प्रत्ययो भवति तत्र नियुक्त इत्येतस्मि- न्विषये । ठकोऽपवादः । देवागारे नियुक्तो, देवागारिकः । कोष्ठागारिकः । भाण्डागारिकः ॥ अध्यायिन्यदेशकालात् ॥ ७१ ॥ तत्रेत्येव । सप्तमीसमर्थाददेशवाचिनः प्रातिपदिकादकालवाचिनश्चा- ध्यायिन्यभिधेये ठञ् प्रत्ययो भवति । यदध्ययनस्य यो देशकालौ । शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते तत इदं प्रत्ययविधानम् । श्मशाने ऽधीते, श्मशानिकः । चातुष्पथिकः । अकालात् । चतुर्दश्यामधीते, चातुर्दशिकः । आमावास्यिकः अदेशकालादिति किम् । सुप्ते ऽधीते । पूर्वाह्णे ऽधीते ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७२ ॥ तत्रेत्येव । कठिनशब्दान्तात्सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठञ् प्रत्ययो भवति व्यवहरतीत्येतस्मिन्नर्थे । व्यवहारः क्रियातन्त्रम् । यद्वा लौकिकव्यवहार इति । वंशकठिने व्यवहरति, वांशकठिनिकः । वार्त्रकठिनिकः, प्रास्तारिकः । सांस्थानिकः ॥ निकटे वसति ॥ ७३ ॥ निकटशब्दात्सप्तमीसमर्थाद्वसतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । यस्य शास्त्रतो निकटवासस्तन्नायं विधिः । चारण्यकेन भिक्षुणा नामात्रक्रोशे वस्त- व्यमिति शास्त्रम् । निकटे वसति, नैकटिको भिक्षुः ॥
- आकरिक इति पा० २ ।
॥ काशिका ॥ ४ ॥ ४ ॥ ३६९ आवसथात् ष्ठल् ॥ ७४ ॥ तत्रेत्येव । आवसथशब्दात्सप्तमीसमर्थाद् वसतीत्येतस्मिन्नर्थे ष्ठल् प्रत्ययो भवति । लकारः स्वरार्थः । षकारो ङीबर्थः । आवसथे वसति, आव- सथिकः । आवसथिकी । ठञः पूर्वो ऽवधिरतः परमन्यः प्रत्ययो विधीयते ॥ प्राग्घिताद्यत् ॥ ७५ ॥ तस्मै हितमिति वक्ष्यति । प्रागेतस्माद्धितसंबन्धवाक्यादित ऊर्ध्वमनुक्र- मिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति । तद्वहति रथयुगप्रास- ङ्गम् । रथ्यः । युग्यः । प्रासङ्ग्यः ॥ तद्वहति रथयुगप्रासङ्गम् ॥ ७६ ॥ तदिति द्वितीया समर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहतीत्येतस्मिन्नर्थे यत्प्र- त्ययो भवति । रथं वहति, रथ्यः । युग्यः । प्रासङ्ग्यः । रथसीताहलेभ्यो यद्वि- धाविति तदन्तविध्युपसंख्यानात् परमरथ्य इत्यपि भवति ॥ धुरो यड्ढकौ ॥ ७७ ॥ तद्वहतीत्येव । धुर् इत्येतस्माद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे यत् ढक् इत्येतौ प्रत्ययौ भवतः । धुरं वहति, धुर्यः । धौरेयः ॥ खः सर्वधुरात् ॥ ७८ ॥ तद्वहतीत्येव । सर्वधुराशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति । सर्वधुरां वहति, सर्वधुरीणः । स्त्रीलिङ्गे न्याय्ये सर्वधुरादिति प्रातिपदिकमात्रापेक्षो निर्देशः । ख इति योगविभागः कर्त्तव्य इष्टसंग्रहार्थः । उत्ताधुरीणः । दक्षिणाधुरीणः ॥ एकधुराल्लुक् च ॥ ७९ ॥ तद्वहतीत्येव । एकधुराशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति तस्य लुग्भवति । वचनसामर्थ्यात्पक्षे लुग्विधीयते । एकधुरां वहति, एकधुरीणः । एकधुरः ॥ शकटादण् ॥ ८० ॥ तद्वहतीत्येव । शकटशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे ऽण् प्रत्ययो भवति । शकटं वहति, शाकटो गौः । हलसीराट्ठक् ॥ ८१ ॥ तद्वहतीत्येव । हलसीरशब्दाभ्यां द्वितीयासमर्थाभ्यां वहतीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । हलं वहति, हालिकः । सैरिकः ॥ २४
३३० ॥ काशिका ॥ ४ ॥ ४ ॥ संज्ञायां जन्याः ॥ ८२ ॥ तद्वहतीत्येव । जनीशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे यत् प्रत्य- यो भवति समुदायेन चेत्संज्ञा गम्यते । जनीं वहति, जन्या जामातुर्वयस्या । सा हि विहारादिषु जामातृसमीपं प्रापयति । जनी वधूरुच्यते । विध्यत्यधनुषा ॥ ८३ ॥ तदिति द्वितीयासमर्थाद् विध्यतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति न चेद्धनुष्करणं भवति । पादौ विध्यन्ति, पद्याः शर्कराः । उरव्याः कण्टकाः । अधनुषेति किम् । पादौ विध्यति धनुषा । नन्वसमर्थत्वादनाभिधानाच्च प्रत्ययो न भवति । नहि धनुषा पद्या इत्युक्ते विवक्षितोर्थः प्रतीयते । एवं तर्हि धनु- ष्प्रतिषेधेन व्यधनक्रिया विशेष्यते यस्यां धनुष्करणं न संभाव्यते इति । तेनेह न भवति चौरं विध्यति शत्रुं विध्यति देवदत्त इति ॥ धनगणां लब्धा ॥ ८४ ॥ तदित्येव । धनगणशब्दाभ्यां द्वितीयासमर्थाभ्यां लब्धेत्येतस्मिन्नर्थे यत् प्रत्ययो भवति । धन्यः । गण्यः । लब्धेति तृचंतं, तेन द्वितीया समर्था विभ- क्तिर्युज्यते ॥ अन्नान्नः ॥ ८५ ॥ अन्नशब्दात्तदिति द्वितीयासमर्थाल्लब्धेत्येतस्मिन्नर्थे णः प्रत्ययो भवति । अन्नं लब्धा, आन्नः ॥ वशं गतः ॥ ८६ ॥ वशशब्दात्तदिति द्वितीयासमर्थाद्गत इत्येतस्मिन्नर्थे यत्प्रत्ययो भव- ति । वशं गतः, वश्यः । कामप्राप्तो विधेय इत्यर्थः ॥ पदमस्मिन् दृश्यम् ॥ ८७ ॥ निर्देशादेव प्रथमा समर्थविभक्तिः । पदशब्दात्प्रथमासमर्थाद् दृश्यार्थो- पाधिकादस्मिन्निति सप्तम्यर्थे यत्प्रत्ययो भवति । पदं दृश्यमस्मिन्, पद्यः कर्दमः । पद्याः पांसवः । शक्यार्थे कृत्यः । शक्यते यस्मिन् पदं द्रष्टुं प्रतिमु- द्रोत्पादनेन स पद्यः कर्दमः । कर्दमस्यावस्थोच्यते नातिद्रवो नातिशुष्क इति ॥ मूलमस्याबर्हि ॥ ८८ ॥ मूलशब्दात्प्रथमासमर्थादाबर्हीत्येवमुपाधिकादस्येति षष्ठ्यर्थे यत्प्रत्ययो भवति । मूलमेषामाबर्हि मूल्यो माषः । मूल्या मुद्गाः । बर्ह उद्दामे, येषां मूल- माबर्ह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पक्वाः । मूलोत्पाटनेन विना ग्रहीतुं न शक्यन्ते इत्यर्थः ॥
॥ काशिका ॥ ४ ॥ ४ ॥ ३७१ संज्ञायां धेनुष्या ॥ ८९ ॥ धेनुष्येति निपात्यते संज्ञायां विषये । संज्ञायहणमभिधेयनियमार्थम् । धेनोः ष्ठुगागमो यश्च प्रत्ययः । अन्तोदात्तोऽपि ह्ययमिष्यते । या धेनुरुत्तमर्णाय वत्सप्रदानाद्दोहनार्थं दीयते सा धेनुष्या । पीतदुग्धेति यस्याः प्रसिद्धिः । धेनुष्यां भवते ददामि ॥ गृहपतिना संयुक्ते ञ्यः ॥ ९० ॥ निर्देशायदेव तृतीया समर्थविभक्तिः । गृहपतिशब्दात्तृतीयासमर्थात्संयु- क्तइत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति । गृहपतिना संयुक्तः, गार्हपत्योऽग्निः । अन्यस्यापि गृहपतिना संयोगो ऽस्ति तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः ॥ नौवयोधर्मविषमूलमूलसीतातुल़ाभ्यस्तार्यतुल्यप्रा- प्यवध्यानाम्यसमसमितसम्मितेषु ॥ ९१ ॥ नावादिभ्यो ऽष्टभ्यः शब्देभ्यो ऽष्टस्वेव तार्यादिष्वर्थेषु यथासंख्यं यत्प्र- त्ययो भवति । प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर्लभ्यते । नावा तार्यं, नाव्यमुदकम् । नाव्या नदी । शख्यार्थे रूत्यः । वयसा तुल्यो, वयस्यः सखा । संज्ञाधिकारो ऽभिधेयनियमार्थः । तेन वयसा तुल्ये शत्रौ न भवति । धर्मेण प्राप्यं, धर्म्यम् । ननु च धर्मादनपेतइति वक्ष्यमाणेनैव सिद्धम् । नैतदस्ति । धर्मे यदनुवर्तते तद्धर्मादनपेतमित्युच्यते । फलं तु धर्मादपेत्येव कार्यविरोधि- त्वादधर्मस्य । विषेण वद्यो, विष्यः । विषेण वधमर्हतीत्यर्थः । मूलेनानाम्यं, मूल्यम् । अनाम्यमभिभवनीयम् । पटादीनामुत्पत्तिकारणं मूलं तेन तदभि- भूयते शेषी क्रियते । मूल्यं हि सगुणं मूलं करोति । पोरदुपधादिति यति प्राप्ते चानाम्यामिति निपातनाद् ण्यत् । मूलेन । समो, मूल्यः पटः । उपा- दानेन समानफल इत्यर्थः । सीतया समितं, सीत्यं क्षेत्रम् । समितं संगतमि- त्यर्थः ॥ रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरपीष्यते ॥ परमसीत्यम् । उत्तमसीत्यम् । द्विसीत्यम् । त्रिसीत्यम् । तुलया संमितं, तुल्यम् । संमितं समानं सदृशमित्यर्थः । यथा तुला परिच्छिनत्ति परमेवं तदपीति ॥ धर्मपथ्यर्थन्यायादनपेते ॥ ९२ ॥ निर्देशायदेव पञ्चमी समर्थविभक्तिः । धर्मादिभ्यः पञ्चमीसमर्थेभ्यो ऽनपेतइत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । धर्मादनपेतं, धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । संज्ञाधिकारादभिधेयनियमः ॥ छन्दसो निर्मिते ॥ ९३ ॥ प्रत्ययार्थसामर्थ्याल्लभ्या समर्थविभक्तिः । छन्दःशब्दात्तृतीयासमर्थाद्भि-
४७२ ॥ काशिका ॥ ४ ॥ ४ ॥ र्निर्मितइत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । निर्मित उत्पादितः । छन्दसा निर्मित,- श्छन्दस्यः । छन्दसा कृत इत्यर्थः । इच्छापर्यायश्छन्दःशब्द इह गृह्यते ॥ उरसो ऽण् च ॥ ९४ ॥ उरःशब्दात्तृतीयासमर्थान्निर्मित इत्येतस्मिन्नर्थे ऽण् प्रत्ययो भवति चका- राद्यच्च । उरसा निर्मित, औरसः पुत्रः । उरस्यः पुत्रः । संज्ञाधिकारादभि- धेयनियमः ॥ हृदयस्य प्रियः ॥ ९५ ॥ निर्देशादेव समर्थविभक्तिः । हृदयशब्दात्षष्ठीसमर्थात् प्रिय इत्येतस्मि- न्नर्थे यत्प्रत्ययो भवति । हृदयस्य प्रियो, हृद्यो देशः । हृद्यं वनम् । संज्ञा- धिकारादभिधेयनियमः । इह न भवति हृदयस्य प्रियः पुत्र इति ॥ बन्धने चर्षौ ॥ ९६ ॥ हृदयस्येत्येव । बन्धनइति प्रत्यया