काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
४७४ काशिका ॥ ५ । ४ ॥ ब्रह्महस्तिभ्यां परो यो वर्चःशब्दस्तदन्तात्समासाट्टच्प्रत्ययो भवति । ब्रह्मवर्चसम् । हस्तिवर्चसम् ॥ पल्यराजाभ्यां चेति वक्तव्यम् ॥ * ॥ पल्य- वर्चसम् । राजवर्चसम् ॥ अवसमन्धेभ्यस्तमसः ॥ ७९ ॥ अव सम् अन्ध इत्येतेभ्यो यः परस्तमःशब्दस्तदन्तात्समासाट्टच् प्रत्ययो भवति । अवतमसम् । सन्तमसम् । अन्धतमसम् ॥ श्वसो वसीयःश्रेयसः ॥ ८० ॥ श्वसः परौ यौ वसीयःश्रेयःशब्दौ तदन्तात्समासाट्टच् प्रत्ययो भवति । श्वोवसीयसम् । श्वःश्रेयसम् । मयूरव्यंसकादित्वात्समासः । स्वभावाच्चेह श्वःशब्द उत्तरपदार्थस्य प्रशंसामाशीर्विषयामाचष्टे । श्वःश्रेयसं ते भूयात् । शोभनं श्रेयस्ते भूयादित्यर्थः । श्वोवसीयसमित्यस्यैव पर्यायः ॥ अनुवतप्ताद्रहसः ॥ ८१ ॥ अनु अव तप्त इत्येतेभ्यः परो यो रहःशब्दस्तदन्तात्समासाट्टच् प्रत्ययो भवति । अनूरहसम् । अवरहसम् । तप्तरहसम् ॥ प्रतेरुरसः सप्तमीस्थात् ॥ ८२ ॥ प्रतेः परो य उरःशब्दस्तदन्तात्समासाट्टच् प्रत्ययो भवति स चेदुरः- शब्दः सप्तमीस्थो भवति । सप्तम्यर्थे वर्ततइत्यर्थः । उरसि वर्तते । विभक्त्यर्थे यदव्ययमिति समासः, प्रत्युरसम् । सप्तमीस्थादिति किम् । प्रतिगतमुरः, प्रत्युरः ॥ अनुगवमायामे ॥ ८३ ॥ अनुगवमित्यच्प्रत्ययान्तं निपात्यते आयामे ऽभिधेये । अनुगवं यानम् । गव आयाम इति समासः । आयामति किम् । गवां पश्चादनुगु ॥ द्विस्तावा त्रिस्तावा वेदिः ॥ ८४ ॥ द्विस्तावा त्रिस्तावेति निपात्यते वेदिश्चेदभिधेया भवति । षाच्प्रत्यय- ष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा वा त्रिगुणा वा कस्याञ्चिद्विकृतौ तत्रेदं निपातनम् । द्विस्तावा वेदिः । त्रिस्तावा वेदिः । वेदिरिति किम् । द्विस्तावती त्रिस्तावती रज्जुः ॥ उपसर्गादध्वनः ॥ ८५ ॥ उपसर्गात्परो यो ऽध्वन्शब्दस्तदन्तात्समासाट् टच् प्रत्ययो भवति । प्रगतो ऽध्वानं, प्राध्वो रथः । प्राध्वं शकटम् । निरध्वम् । प्रत्यध्वम् । उपस- र्गादिति किम् । परमाध्वा । उत्तमाध्वा ॥
॥ काशिका ॥ ५ ॥ ४ ॥ ४७५ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ॥ ८६ ॥ अङ्गुलिशब्दान्तस्य तत्पुरुषस्य संख्यादेरव्ययादेश्वाच् प्रत्ययो भवति । द्वे अङ्गुली प्रमाणमस्य, द्व्यङ्गुलम् । त्र्यङ्गुलम् । तद्धितार्थ इति समासः । प्रमाणे लो द्विगोर्नित्यमिति मात्रचो लोपः । अव्ययादेः । निर्गतमङ्गुलिभ्यो, निरङ्गु- लम् । अत्यङ्गुलम् । तत्पुरुषस्येति किम् । पञ्चाङ्गुलिः । अत्यङ्गुलिः पुरुषः । तत्पुरुषाधिकारश्च द्वन्द्वान्चुदषहान्तादिति यावत् ॥ अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ॥ ८७ ॥ अह्रादिभ्यः परो यो रात्रिशब्दस्तदन्तस्य तत्पुरुषस्याच् प्रत्ययो भवति चकारात्संख्यादेरव्ययादेश्च । अहर्ग्रहणं द्वन्द्वार्थम् । अहश्च रात्रिश्च, अहो- रात्रः । सर्वरात्रः । एकदेशे । पूर्वे रात्रे, पूर्वरात्रः । अपररात्रः । पूर्वपराधरेति समासः । संख्याता रात्रिः, संख्यातरात्रः । विशेषणं विशेष्येणेति समासः । एवं पुण्या रात्रिः, पुण्यरात्रः । संख्याव्ययादेः खल्वपि । द्वे रात्री समाहृते, द्विरात्रः । त्रिरात्रः । अतिक्रान्तो रात्रिमतिरात्रः । नीरात्रः ॥ अह्नोऽह्न एतेभ्यः ॥ ८८ ॥ राजाहःसखिभ्यष्टजिति वक्ष्यति । तस्मिन् परभूते अहन्नित्येतस्याह्न इत्ययमादेशो भवति एतेभ्य उत्तरस्य । संख्याव्ययादयः प्रक्रान्ताः सर्वे चाद्या अप्यवमृश्यन्ते । सामर्थ्याच्चाहःशब्दः पूर्वत्वेन नाश्रीयते । परिशिष्टानां ग्रह- णम् । नह्यहः शब्दात्परोह्नः शब्दः संभवति । संख्यायास्तावत् । द्वयोरह्नोर्भवः, द्व्यह्नः त्र्यह्नः । अव्ययात् । अहरतिक्रान्तः, अत्यह्नः । निरह्नः । सर्वाह्नः । पूर्वाह्नः । अपराह्नः । संख्याताह्नः । पुण्यशब्दात्प्रतिषेधं वक्ष्यति ॥ न संख्यादेः समाहारे ॥ ८९ ॥ संख्यादेस्तत्पुरुषस्य समाहारे वर्तमानस्याहःशब्दस्याह्नादेशो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । द्वे अहनी समाहृते, द्व्यहः । त्र्यहः । समाहारइति किम् । द्वयोरह्नोर्भवो, द्व्यह्नः । त्र्यह्नः । तद्धितार्थ इति समासे कृते ऽण आग- तस्य द्विगोरिति लुक् ॥ उत्तमैकाभ्यां च ॥ ९० ॥ उत्तमैकशब्दाभ्यां च परस्याह्न इत्ययमादेशो न भवति । उत्तमशब्दोऽन्त्य- वचनः पुण्यशब्दमाचष्टे, पुण्यग्रहणमेव न कृतं वैचित्र्यार्थम् । पुण्याहः । एका- हः । के चित्तु उपोत्तमस्यापि प्रतिपत्त्यर्थं वर्णयन्ति । तेन संख्यातशब्दादपि परस्य न भवति । संख्याताह इति ॥ राजाहस्सखिभ्यष्टच् ॥ ९१ ॥
४७६ ॥ काशिका ॥ ५ । ४ ॥ राजन् अहन् सखि इत्येवमन्तात्प्रातिपदिकात् टच् प्रत्ययो भवति । महाराजः । मद्रराजः । परमहः । उत्तमहः । राज्ञः सखा, राजसखः । ब्राह्म- णसखः । इह कस्मान्न भवति मद्राणां राज्ञी, मद्रराज्ञी, लिङ्गविशिष्टपरिभाषया प्राप्नोति । लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्व्वन्नेतद् ज्ञापयति यस्याकारेण सवर्णदीर्घत्वं संभवति तस्येदं ग्रहणमिति ॥ गोरतद्धितलुकि ॥ ९२ ॥ गोशब्दान्तात्तत्पुरुषाट्टच् प्रत्ययो भवति स चेत्तत्पुरुषस्तद्धितलुग्विषयो न भवति । परमगवः । उत्तमगवः । पञ्चगवम् । दशगवम् । अतद्धितलुकीति किम् । पञ्चभिर्गोभिः क्रीतः, पञ्चगुः । दशगुः । तेन क्रीतमित्यागतस्यार्हीयस्य ठको ऽध्यर्द्धपूर्वद्विगोरिति लुक् । तद्धितग्रहणं किम् । सुब्लुकि प्रतिषेधो मा भूत । राजगवमिच्छति, राजगवयति । लुग्ग्रहणं किम् । तद्धितेएव मा भूत । पञ्चभ्यो गोभ्य आगतं पञ्चगवरूप्यम् । पञ्चगवमयम् । दशगवरूप्यम् । दशगवमयम् ॥ अङ्गाख्यायामुरसः ॥ ९३ ॥ उरः शब्दान्तात्तत्पुरुषाट्टच् प्रत्ययो भवति स चेदुरःशब्दो ऽङ्गाख्यायां भवति । अग्रं प्रधानमुच्यते । यथा शरीरावयवानामुच्यते उरः प्रधानम् । एव- मन्यो ऽपि प्रधानभूत उरश्शब्देनोच्यते । अश्वानाहुरः, अश्वोरसम् । हस्त्युर- सम् । अङ्गाख्यायामिति किम् । देवदत्तस्योरः, देवदत्तोरः ॥ अनोश्मायस्सरसां जातिसंज्ञयोः ॥ ९४ ॥ अनस् अश्मन् अयस् सरस् इत्येवमन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति जातौ संज्ञायां च विषये । उपानसमिति जातिः । महानसमिति संज्ञा । चामू- ताश्म इति जातिः । पिण्डाश्म इति संज्ञा । कालायसमिति जातिः । लोहि- तायसमिति संज्ञा । मण्डूकसरसमिति जातिः । जलसरसमिति संज्ञा । जाति- संज्ञयोरिति किम् । सदनः । सदश्मा । सत्सरः ॥ ग्रामकौटाभ्यां च तक्ष्णः ॥ ९५ ॥ जातिसंज्ञयोरिति नानुवर्त्तते । ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्त- दन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति । ग्रामस्य तक्षा, ग्रामतक्षः । बहूनां साधारण इत्यर्थः । कुट्यां भवः कौटः, तस्य तक्षा, कौटतक्षः । स्वतन्त्रः कर्मजीवी । न कस्यचिन्प्रतिबद्ध इत्यर्थः । ग्रामकौटाभ्यामिति किम् । राजतक्षा ॥ अतेः शुनः ॥ ९६ ॥ अतिशब्दात्परो यः श्वन्शब्दस्तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति ।
॥ काशिका ॥ ५ ॥ ४ ॥ ४७२ अतिक्रान्तः श्वान,मतिश्वो वराहः । जबवानिव्यर्थः । अतिश्वः सेवकः । सुष्ठु स्वामिभक्त इत्यर्थः । अतिश्वी सेवा । अतिनीचेत्यर्थः ॥ उपमानादप्राणिषु ॥ ९७ ॥ उपमानवाची यः श्वशब्दोऽप्राणिषु वर्तते तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति । आकर्षः श्वेव, आकर्षश्वः । फलकश्वः । उपमितं व्याघ्रादिभिरिति समासः । उपमानादिति किम् । न श्वा, अश्वा लोष्टः । अप्राणिष्विति किम् । वानरः श्वेव, वानरश्वा ॥ उत्तरमृगपूर्वाच्च सक्थः ॥ ९८ ॥ उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दश्चकारादुपमानाच्च, तद- न्तात्तत्पुरुषाट्टच् प्रत्ययो भवति समासान्तः । उत्तरसक्थम् । मृगसक्थम् । पूर्व- सक्थम् । उपमानात्सत्स्वपि । फलकमिव सक्थि, फलकसक्थम् ॥ नावो द्विगोः ॥ ९९ ॥ नौशब्दान्ताद् द्विगोष्टच्प्रत्ययो भवति समासान्तः । द्वे नावौ समा- हृते, द्विनावम् । त्रिनावम् । द्विनावधनः । पञ्चनावप्रियः । द्वाभ्यां नौभ्या- मागतं, द्विनावशूप्यम् । द्विनावमयम् । द्विगोरिति किम् । राजनौः । अतद्धित- लुकीत्येव । पञ्चभिर्नौभिः क्रीतः, पञ्चनौः । दशनौः ॥ अर्द्धाच्च ॥ १०० ॥ अर्द्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति । अर्द्धं नावः, अर्द्धनावम् । अर्द्धं नपुंसकमिति समासः । परवल्लिङ्गं न भवति लोका- श्रयत्वाल्लिङ्गस्य ॥ खार्याः प्राचाम् ॥ १०१ ॥ द्विगोरर्द्धाच्चेति द्वयमप्यनुवर्त्तते । खारीशब्दान्ताद् द्विगोरर्द्धाच्च परो यः खारीशब्दस्तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति प्राचामाचार्याणां मतेन । द्वे 'खार्यौ समाहृते, द्विखारम् । द्विखारि । त्रिखारम् । त्रिखारि । अर्द्धं खार्या, अर्द्धखारम् । अर्द्धखारी ॥ द्वित्रिभ्यामञ्जलेः ॥ १०२ ॥ द्वित्रिभ्यां परो यो ऽञ्जलिशब्दस्तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति । द्वावञ्जली समाहृतौ, द्व्यञ्जलम् । त्र्यञ्जलम् । द्विगोरित्येव । द्वयोरञ्जलिः, द्व्यञ्जलिः । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो, द्व्यञ्जलिः । त्र्यञ्ज- लिः । प्राचामित्येव । द्व्यञ्जलिप्रियः ॥ अनसन्तान्नपुंसकाच्छन्दसि ॥ १०३ ॥
? Wait, what is the sutra / vārtika? In Siddhanta Kaumudi / Kashika: "प्रतिपरसमनुभ्योऽक्ष्णः" Then: "प्रत्यक्षम् । परोक्षम् । समक्षम् । अन्वक्षम् ।" Why would there be a word between ॥andप्रत्यक्षम्? Wait! Look at the glyph: ॥followed by: A character with an 'i' matra?यक्षिन्? अक्षिन्? Wait, अक्षिन्! Let's look at it: अ+क्षि+न्=अक्षिन्! Wait, does it have an 'i' matra? YES! There is a top curve: अक्षिन्! Wait, अक्ष्णःcomes fromअक्षिन्! Wait, let's look at the letter: अorय? It looks like अorप? Wait, look at line 28: दिव्has an 'i' matra onद. Here, the top curve is over the consonant: अक्षिन्? Wait, no, look at line 29: ॥ अक्ष्नः ॥ अक्ष्णः ।`?
Wait, look at the ganasutra text in
॥ काशिका ॥ ५ ॥ ४ ॥ ४०९ अन्नन्तादव्ययीभावाट्टच् प्रत्ययो भवति समासान्तः। उपराजम्। अध्या- त्मम्। प्रत्यात्मम् ॥ नपुंसकादन्यतरस्याम् ॥ १०९ ॥ अन इत्येव। नपुंसकग्रहणमुत्तरपदविशेषणम्। अनन्तं यन्नपुंसकं तद- न्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति समासान्तः। पूर्वेण नित्ये प्राप्ते विकल्प्यते। प्रतिचर्मम्। प्रतिचर्म। उपचर्मम्। उपचर्म ॥ नदीपौर्णमास्याग्रहायणीभ्यः ॥ ११० ॥ नदी पौर्णमासी आग्रहायणी इत्येवमन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति। नद्याः समीपम्, उपनदम्। उपनदि। उपपौर्णमासम्। उप- पौर्णमासि। उपाग्रहायणम्। उपाग्रहायणि ॥ झयः ॥ १११ ॥ झय इति प्रत्याहारग्रहणम्। झयन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति। उपसमिधम्। उपसमिंत्। उपदृषदम्। उपदृषत् ॥ गिरेरश्च सेनकस्य ॥ ११२ ॥ गिरिशब्दान्तादव्ययीभावाट्टच् प्रत्ययो भवति सेनकस्याचार्यस्य मतेन। अन्तर्गिरम्। अन्तर्गिरि। उपगिरम्। उपगिरि। सेनकग्रहणं पूजार्थम्। वि- कल्पो ऽनुवर्ततएव ॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् ॥ ११३ ॥ स्वाङ्गवाची यः सक्थिशब्दो ऽक्षिशब्दश्च तदन्ताद्बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः। अयमर्थोऽभिप्रेतः। सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि। दीर्घा सक्थि यस्य, दीर्घसक्थः। कल्याणाक्षः। लोहिताक्षः। विशालाक्षः। बहुव्रीहाविति किम्। परमसक्थिः। परमाक्षिः। सक्थ्यक्ष्णोरिति किम्। दीर्घ- जानुः। सुबाहुः। स्वाङ्गादिति किम्। दीर्घसक्थि शकटम्। स्थूलाक्षिरिक्षुः। टचि प्रकृते षग्ग्रहणं स्वरार्थम्। चक्रसक्थी स्त्री। दीर्घसक्थी स्त्री। सक्थं चान्तादिति विभाषयोत्तरपदस्यान्तोदात्तता विधीयते तत्र यस्मिन्पक्षे ना- न्तोदात्तत्वं तत्र ङीपि सत्युदात्तन्निवृत्तिस्वरस्याभावादनुदात्तः श्रूयेत। ङीषि तु षन्नेवोदात्तः सिद्धो भवति। बहुव्रीहिग्रहणमापादपरिसमाप्तेरनुवर्तते ॥ अङ्गुलेर्दारुणि ॥ ११४ ॥ अङ्गुलिशब्दान्ताद्बहुव्रीहेः षच्प्रत्ययो भवति समासान्तो दारुणि समा- सार्थे। द्व्यङ्गुलं दारु। त्र्यङ्गुलं दारु। पञ्चाङ्गुलम्। अङ्गुलिसदृशावयवं धान्या- दीनां विक्षेपणकाष्ठमुच्यते। यस्य तु द्वे अङ्गुली प्रमाणं दारुणस्तत्र तद्धितार्थे
')! Panini 5.4.116 vartikas:
- "नेतुर्नक्षत्रेऽडुपसंख्यानम्" (प्रत्ययः 'अड्') -> मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः (नेता + अड् = नेत्रा).
- "छन्दसि च नेतुर्दुपसंख्यानम्" (प्रत्ययः 'द्' or 'अड्'?) -> बृहस्पतिनेत्रा देवाः. So in L15 it is indeed: 'नेतुर्नक्षत्रेऽडुपसंख्यानम्'! And in L17: 'छन्दसि च नेतुदुपसंख्यानम्' or 'नेतुर्दुपसंख्यानम्'? There is a repha? Above 'द' there is no repha, it is 'नेतुदुपसंख्यानम्'.
Line 16: रात्रीणां, मृगनेत्रा रात्रयः । पुष्यनेत्राः । नक्षत्रइति किम् । देवदत्तनेतुकाः ॥
Line 17: छन्दसि च नेतुदुपसंख्यानम् ॥ * ॥ बृहस्पतिनेत्रा देवाः । सोमनेत्राः ॥ मासा-
Line 18: द्वृतिप्रत्ययपूर्वपदाद्वृद्धिविधिः ॥ * ॥ पञ्चको मासो ऽस्य, पञ्चकमासिकः कर्म-
Line 19: करः । दशक
॥ काशिका ॥ ५ ॥ ४ ॥ ४८१ उपसर्गात्परो यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् प्रत्ययो भवति ना- सिकाशब्दश्च नसभावमापद्यते । असंज्ञार्थं वचनम् । उन्नता नासिका ऽस्य, उच्चसः । प्रखसः । उपसर्गाद्बहुलमिति णत्वम् ॥ वेर्णो वक्तव्यः ॥ * ॥ विगता नासिका ऽस्य विग्रः ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाज- पदप्रोष्ठपदाः ॥ १२० ॥ सुप्रातादयो बहुव्रीहिसमासा अचप्रत्ययान्ता निपात्यन्ते । अन्यदपि च टिलोपादिकं निपातनादेव सिद्धम् । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वो ऽस्य, सुश्वः । शोभनं दिवा ऽस्य सुदिवः । शारेरिव कुक्षिरस्य, शारिकुक्षः । चतस्रो ऽश्रयो ऽस्य, चतुरश्रः । एण्याइव पादावस्य, एणीपदः । अजस्येव पादा- वस्य, अजपदः । प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः ॥ नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ॥ १२१ ॥ नञ् दुस् सु इत्येतेभ्यः परौ यौ हलिसक्थिशब्दौ तदन्ताद्बहुव्रीहेरन्य- तरस्यामच् प्रत्ययो भवति समासान्तः । अविद्यमाना हलिरस्य, अहलः । अहलिः । दुर्हलः । दुर्हलिः । सुहलः । सुहलिः । अविद्यमानं सक्थ्यस्य, अस- क्थः । असक्थिः । दुःसक्थः । दुःसक्थिः । सुसक्थः । सुसक्थिः । हलिश- क्त्योरिति के चित्पठन्ति । अविद्यमाना शक्तिरस्य, अशक्तः । अशक्तिः । विरुपा- शक्तिरस्य, दुःशक्तः । दुःशक्तिः । शोभना शक्तिरस्य, सुशक्तः । सुशक्तिः ॥ नित्यमसिच् प्रजामेधयोः ॥ १२२ ॥ नञ्दुस्सुभ्य इत्येव । नञ् दुस् सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्ताद्बहुव्रीहेर्नित्यमसिच् प्रत्ययो भवति समासान्तः । अविद्यमाना प्रजा ऽस्य, अप्रजाः । दुष्प्रजाः । सुप्रजाः । अविद्यमाना मेधा ऽस्य, अमेधाः । दुर्मे- धाः । सुमेधाः । नित्यग्रहणं किम् । यावता पूर्वसूत्रे ऽन्यतरस्यांग्रहणं नैव स्वर्यते । एवं तर्हि नित्यग्रहणादन्यत्रापि भवतीति सूच्यते ॥ श्रोत्रियस्येव ते राजन्मन्दकस्याल्पमेधसः । अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ बहुप्रजाश्छन्दसि ॥ १२३ ॥ बहुप्रजा इति छन्दसि निपात्यते । बहुप्रजा निर्ऋतिमाविवेश । छन्द- सीति किम् । बहुप्रजो ब्राह्मणः ॥ धर्मादनिच् केवलात् ॥ १२४ ॥ ३१
केवलाद् यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच्प्रत्ययो भवति समासान्तः। कल्याणो धर्मोऽस्य, कल्याणधर्मा। प्रियधर्मा। केवलादिति किम्। परमः स्वो धर्मो ऽस्य परमस्वधर्मः। यद्येवं त्रिपदे बहुव्रीहौ प्राप्नोति, परमः स्वो धर्मोऽस्येति । एवं तर्हि केवलादिति पूर्वपदं निर्दिश्यते केवलतत्पदाद्यो धर्मशब्दो न पद- समुदायात्, तदन्ताद्बहुव्रीहेः प्रत्ययः॥ जम्भा सुहरिततृणसोमेभ्यः ॥ १२५ ॥ बहुव्रीहौ समासे स्वादिभ्यः परं जम्भेति कृतसमासान्तमुत्तरपदं निपा- त्यते। जम्भशब्दो ऽभ्यवहार्यवाची दन्तविशेषवाची च। शोभनो जम्भो ऽस्य, सुजम्भा देवदत्तः। शोभनाभ्यवहार्यः शोभनदन्तो वा। एवं हरितजम्भा। तृणजम्भा। सोमजम्भा। दन्तवचने तृणमिव जम्भो ऽस्य, सोमइव जम्भोऽस्येति विग्रहीतव्यम्। सुहरिततृणसोमेभ्य इति किम् । पतितजम्भः॥ दक्षिणेर्मा लुब्धयोगे ॥ १२६ ॥ दक्षिणेर्मेति कृतसमासान्तो निपात्यते बहुव्रीहौ समासे लुब्धयोगे। लुब्धो व्याधः। दक्षिणेर्ममस्य, दक्षिणेर्मा मृगः। ईर्मं व्रणमुच्यते। दक्षिण- महं व्रणितमस्य व्याधेनेत्यर्थः। लुब्धयोगइति किम् । चित्तेर्मे शकटम् ॥ इच् कर्मव्यतिहारे ॥ १२७ ॥ कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् प्रत्ययो भवति। तत्र तेनेदमिति सरूपदन्त्यं बहुव्रीहिर्दृश्यते। केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं, केशाकेशि। कचाकचि। मुसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं, मुसलामुसलि। दण्डा- दण्डि। तिष्ठद्गुप्रभृतिष्वयमिच्प्रत्ययः पठ्यते ॥ द्विदण्डादिभ्यश्च ॥ १२८ ॥ द्विदण्डादयः शब्दा इच्प्रत्ययान्ताः साधवो भवन्ति। द्विदण्डादिभ्य इति तादर्थ्ये एषा चतुर्थी, न पञ्चमी। द्विदण्डार्थमिच् प्रत्ययो भवति। तथा भवति यथा द्विदण्डादयः सिध्यन्तीत्यर्थः। समुदायनिपातनाच्चार्थविशेषे ऽवधार्यन्ते। द्विदण्डि प्रहरति। द्विमुसलि प्रहरति। इह न भवति। द्विदण्डा शालेति। बहुव्रीह्यधिकारेऽपि तत्पुरुषात् क्वचिद्विधानमिच्छन्ति। निकुच्य कर्णौ धावति। निकुच्यकर्णि धावति। प्रोह्य पादौ हस्तिनं वाहयति। प्रोह्यपादि हस्तिनं वाहयति। मयूरव्यंसकादित्वात्समासः। द्विदण्डि। द्विमुसलि। उभाञ्जलि। उभयाञ्जलि। उभाकर्णि। उभयाकर्णि। उभादन्ति। उभया- दन्ति। उभाहस्ति। उभयाहस्ति। उभापाणि। उभयापाणि। उभाबाहु। उभयाबाहु। एकपादि। प्रोह्यपादि। प्रोष्ठपादि। संपादि। निकुच्यकर्णि।
॥ काशिका ५ । ४ ॥ ४८३ संहतपुच्छि। उभाबाहु उभयाबाहूरिति निपातनाद्विचप्रत्ययलोपः। प्रत्ययल- क्षणेनाव्ययीभावसंज्ञा ॥ प्रसंभ्यां जानुनोर्जुः ॥ १२९ ॥ प्र सम् इत्येताभ्यामुत्तरस्य जानुशब्दस्य जुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी यस्य प्रज्ञुः। संज्ञुः ॥ ऊर्ध्वाद्विभाषा ॥ १३० ॥ ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा जुरित्ययमादेशो भवति । ऊर्ध्वे जानुनी यस्य, ऊर्ध्वजानुः। ऊर्ध्वज्ञुः ॥ ऊधसो ऽनङ् ॥ १३१ ॥ ऊधःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति समासान्तः। कुण्डमिव ऊधो ऽस्याः, सा कुण्डोध्नी। घटोध्नी ॥ ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम् ॥ इह मा भूत्। महोधाः पर्जन्यः। घटोधो धैनुकम् ॥ धनुषश्च ॥ १३२ ॥ धनुःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति । शार्ङ्गं धनुरस्य, शार्ङ्ग- धन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा ॥ वा संज्ञायाम् ॥ १३३ ॥ धनुःशब्दान्ताद्बहुव्रीहेरनङादेशो वा भवति संज्ञायां विषये। पूर्वेण नित्यः प्राप्तो विकल्प्यते। शतधनुः। शतधन्वा। दृढधनुः। दृढधन्वा ॥ जायाया निङ् ॥ १३४ ॥ जायाशब्दान्तस्य बहुव्रीहेर्निङादेशो भवति । युवतिर्जाया यस्य, युव- जानिः। वृद्धजानिः ॥ गन्धस्येदुत्पूतिसुसुरभिभ्यः ॥ १३५ ॥ उत् पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समा- सान्तो बहुव्रीहौ समासे । तकार उच्चारणार्थः। उद्गतो गन्धो ऽस्य, उद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। एतेभ्य इति किम्। तीव्रगन्धो वातः ॥ गन्धस्येत्वे तदेकान्तग्रहणम् ॥ * ॥ तेन शोभनो गन्धो ऽस्य सुगन्ध आपणः ॥ अल्पाख्यायाम् ॥ १३६ ॥ अल्पाख्यायां यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे । सूपे ऽल्पो ऽस्मिन्सूपगन्धि भोजनम्। अल्पमस्मिन्भोजने घृतम्, घृत- गन्धि। क्षीरगन्धि। अल्पपर्यायो गन्धशब्दः ॥
४८४ ॥ काशिका ॥ ५ ॥ ४ ॥ उपमानाच्च ॥ १३७ ॥ उपमानात्परो यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहु- व्रीहौ समासे । पद्मस्येव गन्धो ऽस्य, पद्मगन्धिः । उत्पलगन्धिः । करीषगन्धिः ॥ पादस्य लोपो ऽहस्त्यादिभ्यः ॥ १३८ ॥ उपमानादित्येव । उपमानाद्धस्त्यादिवर्जितात्परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे । स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते । व्याघ्रस्येव पादावस्य, व्याघ्रपात् । सिंहपात् । अहस्त्यादिभ्य इति किम् । हस्तिपादः । कटोलपादः । हस्तिन् । कटोल । गण्डोल । गण्डोलक । महिला । दासी । गणिका । कुसूल ॥ कुम्भपदीषु च ॥ १३६ ॥ कुम्भपदीप्रभृतयः कृतपादलोपाः पठ्यन्ते समुदाया एव । तन्नेदं सूत्रं [L1
॥ काशिका ॥ ५ ॥ ४ ॥ ४८५
छन्दसि च दन्तशब्दस्य दत् इत्ययमादेशो भवति समासान्तो बहु- व्रीहौ समासे । पञ्चदन्तमालभेत । उभयदत आलभते ॥ स्त्रियां संज्ञायाम् ॥ १४३ ॥ स्त्रियामन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य दत् इत्ययमादेशो भवति । आयोदती । फालदती । संज्ञायामिति किम् । समदन्ती । स्निग्धदन्ती ॥ विभाषा श्यावारोकाभ्याम् ॥ १४४ ॥ श्याव अरोक इत्येताभ्यां परस्य दन्तशब्दस्य दत् इत्ययमादेशो भवति विभाषा समासान्तो बहुव्रीहौ । श्यावदन् । श्यावदन्तः । अरोकदन् । अरो- कदन्तः । अरोको निर्दीप्तिः । संज्ञायामित्येव । श्यावदन्तः । अरोकदन्तः ॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥ १४५ ॥ विभाषेत्येव । अग्रान्ताच्छब्दात् शुद्ध शुभ्र वृष वराह इत्येतेभ्यश्च परस्य दन्तशब्दस्य विभाषा दत् इत्ययमादेशो भवति समासान्तो बहुव्रीहौ समासे । कुङ्कु- लाग्रदन् । कुङ्कुलाग्रदन्तः । शुद्धदन् । शुद्धदन्तः । शुभ्रदन् । शुभ्रदन्तः । वृषदन् । वृषदन्तः । वराहदन् । वराहदन्तः । अनुक्तसमुच्चयार्थश्चकारः । अहिदन् । अहिद- न्तः । मूषिकदन् । मूषिकदन्तः । गर्दभदन् । गर्दभदन्तः । शिखरदन् । शिखरदन्तः ॥ ककुदस्यावस्थायां लोपः ॥ १४६ ॥ ककुदशब्दान्तस्य बहुव्रीहेर्लोपो भवति समासान्तो ऽवस्थायां गम्यमा- नायाम् । कालादिकृता वस्तुधर्मा वयःप्रभृतयो ऽवस्था इत्युच्यते । असञ्जातं ककुदमस्य, असञ्जातककुत् । बाल इत्यर्थः । पूर्णककुत् । मध्यमवया इत्यर्थः । उत्कटककुत् । वृद्धवया इत्यर्थः । स्थूलककुत् । बलवानित्यर्थः । यष्टिककुत् । नातिस्थूलो नातिकृश इत्यर्थः । अवस्थायामिति किम्, श्वेतककुदः ॥ त्रिककुत्पर्वते ॥ १४७ ॥ त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वते ऽभिधेये । त्रीणि ककुदान्यस्य, त्रिककुत्पर्वतः । ककुदाकारं पर्वतस्य शृङ्गं ककु- दमित्युच्यते । न च सर्वस्त्रिशिखरः पर्वतस्त्रिककुत् । किं तर्हि संज्ञैषा पर्वत- विशेषस्य । पर्वत इति किम् । त्रिककुदो ऽन्यः ॥ उद्विभ्यां काकुदस्य ॥ १४८ ॥ उत् वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे । उद्गतं काकुदमस्य, उत्काकुत् । विकाकुत् । तालु काकुदमुच्यते ॥ पूर्णाद्विभाषा ॥ १४९ ॥
पूर्णोत्परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे । पूर्णे काकुदमस्य, पूर्णकाकुत्। पूर्णकाकुदः ॥ सुहृद्दुर्हृदौ मित्रामित्रयोः ॥ १५० ॥ सुहृत् दुर्हृत् इति निपात्येते यथासंख्यं मित्रामित्रयोरभिधेययोः । सुशब्दात्परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात्प- रस्य। शोभनं हृदयमस्य, सुहृन्मित्रम् । दुष्टं हृदयमस्य दुर्हृदमित्रम् । मित्रा- मित्रयोरिति किम् । सुहृदयः कारुकिकः । दुर्हृदयश्चोरः ॥ उरःप्रभृतिभ्यः कप् ॥ १५१ ॥ उरःप्रभृत्यन्ताद्बहुव्रीहेः कप् प्रत्ययो भवति । व्यूढमुरो ऽस्य व्यूढोरस्कः । प्रियसर्पिष्कः । अवमुक्तोपानत्कः । पुमान् अनड्वान् पयो नौर्लक्ष्मीरिति विभ- क्त्यन्ताः पठ्यन्ते न प्रातिपदिकानि । तत्रेदं प्रयोजनम्, एकवचनान्तानामेव ग्रह्णमिह विज्ञायेत द्विवचनबहुवचनान्तानां मा भूदिति । तत्र शेषाद्विभा- षेति विकल्प एव भवतीति । द्विपुमान् । द्विपुंस्कः । बहुपुमान् । बहुपुंस्कः । उरस् । सर्पिस् । उपानह् । पुमान् । अनड्वान् । नौः । पयः । लक्ष्मीः । दधि । मधु । शालिः ॥ आर्थाश्चः ॥ चानर्थकः ॥ इनः स्त्रियाम् ॥ १५२ ॥ इनन्ताद्बहुव्रीहेः कप् प्रत्ययो भवति स्त्रियां विषये । बहवो दण्डिनो ऽस्यां शालायां बहुदण्डिका शाला । बहुच्छत्रिका । बहुस्वामिका नगरी । बहुवाग्मिका सभा । स्त्रियामिति किम् । बहुदण्डी राजा । बहुदण्डिकः । शेषाद्विभावेत्येतद्भवति । नद्यृतश्च ॥ १५३ ॥ नद्यन्ताद्बहुव्रीहेर्ऋकारान्ताच्च कप् प्रत्ययो भवति । बह्व्यः कुमार्यो ऽस्मि- न्देशे बहुकुमारीको देशः । बहुब्रह्मबन्धूकः । ऋतः खल्वपि । बहुकर्तृकः । तकारः सुखमुखोच्चारणार्थः ॥ शेषाद्विभाषा ॥ १५४ ॥ यस्माद्बहुव्रीहेः समासान्तो न विहितः स शेषस्तस्माद्विभाषा कप्प्रत्ययो भवति । बह्व्यः खट्वा यस्मिन्बहुखट्कः । बहुमालकः । बहुवीणाकः । बहुखट्वाकः । बहुमालाकः । बहुवीणाकः । बहुखट्वः । बहुमालः । बहुवीणाः । कथमन्वृक्कं साम बह्वृक्कं सूक्तमिति, यावता विहिते ऽत्र सामान्येन समासान्त ऋक्पूरिति । नैतदस्ति । विशेषे स इष्यते, ऋग्यथो माणवको ज्ञेयो बह्वृचश्चरणाख्यायामिति । शेषादिति किम् । प्रियपथः । प्रियधुरः ॥
॥ काशिका ॥ ५ ॥ ४ ॥ ४८० न संज्ञायाम् ॥ १५५ ॥ संज्ञायां विषये बहुव्रीहौ समासे कप् प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । विश्वे देवा अस्य, विश्वदेवः । विश्वयशाः ॥ ईयसश्च ॥ १५६ ॥ ईयसन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति । सर्वा प्राप्तिः प्रतिषिध्यते । बहवः श्रेयांसो ऽस्य बहुश्रेयान् । शेषाद्विभाषेत्यस्य प्रतिषेधः । बह्व्यः श्रेयस्यो ऽस्य बहुश्रेयसी । नद्यृतश्चेत्यस्य प्रतिषेधः । ह्रस्वत्वमपि न भवति । ईयसो बहुव्रीहौ पुंवदिति वचनात् । वन्दिते भ्रातुः ॥ १५७ ॥ वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति । वन्दितः स्तुतः पूजित इत्युच्यते । शोभनो भ्राता ऽस्य सुभ्राता । वन्दितइति किम् । मूर्खभ्रातृकः । दुष्टभ्रातृकः ॥ ऋतश्छन्दसि ॥ १५८ ॥ ऋवर्णान्ताद् बहुव्रीहेरश्छन्दसि विषये कप् प्रत्ययो न भवति । हता माता ऽस्य हतमाता । हतपिता । हतस्वसा । सुहोता ॥ नाडीतन्त्र्योः स्वाङ्गे ॥ १५९ ॥ स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति । बह्व्यो नाड्यो ऽस्य बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । धमनीवचनस्तन्त्री- शब्दः । स्वाङ्गइति किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥ निष्प्रवाणिश्च ॥ १६० ॥ निष्प्रवाणिरिति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते । प्रोयते ऽस्या- मिति प्रवाणी । प्रवयन्ति तयेति वा प्रवाणी । करणसाधनो ऽयं ल्युट् । तन्तु- वायशलाका भण्यते । निर्गता प्रवाणी अस्य, निष्प्रवाणिः पटः । निष्प्रवाणिः कम्बलः । अपनीतशलाकः । समाप्तवानः प्रत्यग्रोनवक उच्यते ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थश्चरणः ॥ समाप्तः पञ्चमो ऽध्यायः ॥
४८८ ॥ काशिका ॥ ६ । १ ॥ ॥ अथ षष्ठाध्यायस्य प्रथमः पादः ॥ एकाचो द्वे प्रथमस्य ॥ १ ॥ अधिकारो ऽयम् । एकाच इति च द्वे इति च प्रथमस्येति च त्रितय- मधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः प्राक्संप्रसारविधानात् तत्रैकाचः प्रथमस्य द्वे भवत इत्येवं तद्वेदितव्यम् । वक्ष्यति लिटि धातोरनभ्यासस्येति । तत्र धातोरवयवस्थानभ्यासस्य प्रथमस्यैकाचो द्वे भवतः । जगागार । पपाच । इयाय । आर । एकाच इति बहुव्रीहिनिर्देशः । एको ऽच् यस्य सो ऽयमेकाच् इत्यवयवेन विग्रहः, समुदायः । समासार्थः । आभ्यन्तरश्च समुदाये ऽवयवो भवतीति साच्कस्यैव द्विर्वचनं भवति । पच् इत्यत्र येनैवाचा समुदाय एकाच् तेनैव तदवयवो ऽच्छब्दः पशब्दश्च । तत्र पृथगवयवैकाचो न द्विर
पर्यायेण वा मा... जक्षित्यादयः षट् ॥ ६ ॥ अभ्यस्तमिति वर्तते... ऽभ्यस्तसंज्ञा भवन्ति... हसनयोरित्यतः... दरिद्रति। चकासति... त्येष स्वरः... च्छतुरिति नुमः प्रतिषेधः॥
Total lines: 33 lines including header.
Everything looks completely solid and faithful to the printed image. Ready to write the final transcription.॥ काशिका ॥ ६ । १ ॥ ४८९ रति किम्। ईचिचिषिषते। संयोगादय इति किम्। प्राशिशिषिषति। अनितेरुभौ साभ्यासस्येति षात्वम्। अनादेरित्येव। दिद्भासति। के चिदजादेरित्यपि पञ्च- म्यन्तं कर्मधारयमनुवर्त्तयन्ति। तस्य प्रयोजनम्। इन्द्रीयीषिषतीति। अजादे- रनन्तरत्वाभावाद् दकारो द्विरुच्यतएव नकारो न द्विरुच्यते। इन्द्रमिच्छति। क्यच्। तद
? No, wait! Is it भवादीनां? * Wait, in Kashika: "श्रवादीनां" does not make sense. What about "स्रवादीनां"? * Let's search Kashika 6.1.11 text: * "अपीपचत्, अपीपठत्, आटिटत्, आशिशत्, अचर्कदत् ।" * Wait! In Kashika 6.1.11: "शवादीनां ण्यन्तानां..." wait, no! "अशिशदित्यत्र शावेर्द्विर्वचने कृते..." Wait! शावादीनां! Look at L27: आशिशत्orअशिशत्? आशिशत्is from शाव् / शौ? No,शाव्(णिच् of शो = शावयति -> अशिशवत् or अशिशावत्? No, शाति -> णिच् शावयति). Wait, look at L28 again: ...वादीनां->शवादीनांorस्रवादीनांorभवादीनां? Wait, what if it's भवादीनां? No, let's look at the letter: It has a loop on the left. In Sanskrit grammar, could it be: स
" - wait! Let's check the exact text of Kashika: "ष्यङ इति किम् ? दध्यापुत्रः। तित्तिरीपुत्रः।" - wait, does तित्तिरी have या? Wait, why would "दध्यापुत्रः" have या? Because दधि + अण् -> दाधि, or दधि + ... fem. दध्या? No, दधि शब्दस्य 'दध्या' इति रूपम्? No, दधि + ...? Wait! In traditional Kashika: "ष्यङ इति किम्? दध्यापुत्रः। तित्तिरीपुत्रः।" - wait, if it's तित्तिरीपुत्रः, where is संप्रसारण possibility? Wait, what if it is "तित्तिरीपुत्रः"? But L27 has "यापुत्रः।"! Wait, is L27 "यापुत्रः"? Look at L27: "यापुत्रः। पुत्रपत्योरिति किम्।" Yes, the first word of L27 is definitely "यापुत्रः।"! Then L26 ends with a hyphen! "तत्ति-" or "तित्ति-"! Wait, what word ends in "-यापुत्रः"? Could it be "तित्तिडी" -> "तित्तिड्या"? Wait, look at L26: Is it "तत्ति-"? Wait, could it be "तित्ति-"? The first letter
४९२ ॥ काशिका ॥ ६ ॥ १ ॥ संप्रसारणं, तदादौ तदन्ते च न भवति कारीषगन्ध्यापुत्रकुलं कारीषगन्ध्यापर- मपुत्र इति। ष्यङन्ते यद्यप्यन्ये यणः सन्ति तथापि ष्यङ एव संप्रसारणं निर्द्दि- श्यमानस्यादेशा भवन्तीति। संप्रसारणमिति चाधिक्रियते विभाषा परेरिति यावत् ॥ बन्धुनि बहुव्रीहौ ॥ १४ ॥ ष्यङः संप्रसारणमित्यनुवर्त्तते। बन्धुशब्दउत्तरपदे बहुव्रीहौ समासे ष्यङः संप्रसारणं भवति। कारीषगन्ध्या बन्धुरस्य, कारीषगन्धीबन्धुः। कौमुदगन्धी- बन्धुः। बहुव्रीहाविति किम्। कारीषगन्ध्याया बन्धुः। कारीषगन्ध्याबन्धुः। अत्रापि पूर्ववदेव। परमकारीषगन्धीबन्धुरित्यत्र भवति। अतिकारीषगन्ध्याब- न्धुरिति च न भवति, तथा कारीषगन्ध्याबन्धुधनः कारीषगन्ध्यापरमबन्धुरिति। बन्धुनेति नपुंसकलिङ्गनिर्देशः शब्दरूपापेक्षया पुल्लिङ्गाभिधेयस्त्वयं बन्धु- शब्दः॥ मातच्मातृकमातृषु ॥ * ॥ ष्यङः संप्रसारणं भवति विभाषया बहु- व्रीहावेव। कारीषगन्ध्या माता ऽस्येत्येवं बहुव्रीहौ कृते एतस्मादेवोपसंख्यानात् पक्षे मातृशब्दस्य मातजादेशः। तत्र चित्करणसामर्थ्याद्बहुव्रीहिस्वरमन्तोदात्तत्वं बाधते। मातृमातृकशब्दयोश्च भेदेनोपादनाद् नद्यृतश्चेति कबपि विकल्प्यते। कारीषगन्धीमातः। कारीषगन्ध्यामातः। कारीषगन्धीमातृकः। कारीषगन्ध्या- मातृकः। कारीषगन्धीमाता। कारीषगन्ध्यामाता ॥ वचिस्वपियजादीनां किति ॥ १५ ॥ संप्रसारणमिति वर्त्तते। ष्यङ इति निवृत्तम्। वचि। वच परिभाषणे। ब्रुवो वचिरिति च। स्वपि। णिष्वप् शये। यजादयो, यजदेवपूजासंगतिकर- णादानेष्वित्यतः प्रभृति आ गणान्तात्। तेषां वचिस्वपियजादीनां किति प्रत्यये परतः संप्रसारणं भवति। वचि। उक्तः। उक्तवान्। स्वपि। सुप्तः। सुप्तवान्। यज। इष्टः। इष्टवान्। वप्। उप्तः। उप्तवान्। वह। ऊढः। ऊढवान्। वस। उषितः। उषितवान्। वेञ्। उतः। उतवान्। व्येञ्। संवी- तः। संवीतवान्। ह्वेञ्। हूतः। हूतवान्। वद। उदितः। उदितवान्। टुओश्वि। शूनः। शूनवान्। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्ये विज्ञायते। तेनेह न भवति। वाचयति वाचिक इति ॥ ग्राहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृ- ज्जतीनां ङिति च ॥ १६ ॥ ग्रह उपादाने, ज्या वयोहानौ, वेञो वयिः, व्यध ताडने, वश कान्तौ, व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायां, भ्रस्ज पाके, इत्येतेषां
॥ काशिका ॥ ६ ॥ १ ॥ ४२३ धातूनां ङिति प्रत्यये परतश्चकारात्किति च संप्रसारणं भवति । ग्रह । गृहीतः । गृहीतवान् । ङिति । गृह्णाति । जरीगृह्यते । ज्या । जीनः । जीनवान् । स्वा- दिभ्य इति निष्ठानत्वम् । ङिति । जिनाति । जेजीयते । हल इति संप्रसार- णदीर्घे कृते प्वादीनामिति ह्रस्वः क्रियते । वयि । लिटि परतो वेञो वयिरा- देशस्तस्य ङिद्भावात् किदेवोदाह्रियते । ऊयतुः । ऊयुः । यद्येवं वयिग्रहण- मनर्थकम्, यजादिषु वेञ् पठ्यते । नैवं शक्यम् । लिटि तस्य वेञ इति प्रति- षेधो वक्ष्यते । तत्र यथैव स्थानिवद्भावाद्वयैर्विधिरेवं प्रतिषेधोपि प्राप्नोति । नैष दोषः । लिटि वयो य इति यकारस्य संप्रसारणप्रतिषेधाद् वयैर्विधौ ग्रहणं प्रतिषेधे वा ग्रहणमनुमास्यते । सत्यमेतत् । एष एवार्थः साक्षान्निर्देशेन वयेः स्पष्टीक्रियते । व्यध । विद्धः । विद्धवान् । ङिति । विध्यति । वेविध्यते । वश । उशितः । उशितवान् । ङिति । उष्टः । उशन्ति । व्यच । विचितः । विचितवान् । ङिति । विचति । वेविच्यते । व्यचेः कुटादित्त्वमनसि प्रतिपादितम् । तेन सर्वत्रा- ङित्किति प्रत्यये संप्रसारणं भवति । उद्विचिता । उद्विचितुम् । उद्विचितव्यमिति । व्रश्चेः । वृक्णः । वृक्णवान् । अथ कथमत्र कुत्वे व्रश्चभ्रस्जेति हि षत्वेन भवितव्यम् ॥ निष्ठादेशः षत्वस्वरप्रत्ययविधीद्विधिषु सिद्धो वक्तव्यः ॥ * ॥ तत्र षत्वं प्रतिनत्वस्य सिद्धत्वाद् झलादिनिष्ठा न भवति । कुत्वे तु कर्त्तव्ये तद- सिद्धमेवेति प्रवर्तते कुत्वम् । ङिति । वृश्चति । वरीवृश्च्यते । प्रच्छ । पृष्टः । पृष्टवान् । ङिति । पृच्छति । परीपृच्छ्यते । प्रश्नः । नङि तु प्रश्ने चास्रवका- सरिति निपातनादसंप्रसारणम् । भ्रस्ज । भृष्टः । भृष्टवान् । ङिति । भृज्जति । बरीभृज्यते । सकारस्य झलां जश् झशीति जश्त्वेन दकारः, स्तोः श्चुना श्चुरिति श्चुत्वेन जकारः ॥ लित्यभ्यासस्योभयेषाम् ॥ १७ ॥ उभयेषां वच्यादीनां ग्रहादीनां च लिटि परतो ऽभ्यासस्य संप्रसारणं भवति । वचि । उवाच । उवचिथ । स्वप् । सुष्वाप । सुष्वपिथ । यज । इयाज । इयजिथ । टुवप् । उवाप । उवपिथ । ग्रहादीनां, तत्र ग्रहेरविशेषः । जग्राह । जग्रहिथ । ज्या । जिज्यौ । जिज्यिथ । वयि । उवाय । उवयिथ । व्यध । विव्याध । विव्यधिथ । वश । उवाश । उवशिथ । व्यच । विव्याच । विव्य- चिथ । वृश्चतेः सत्यसति वा योगे नास्ति विशेषः । योगारम्भे तु सति यदि संप्रसारणमकृत्वा हलादिःशेषेण रेफो निवर्त्यते तदा वकारस्य संप्रसारणं प्राप्नोति । अथ रेफस्य संप्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते । तदानीमुरदत्वस्य स्थानि- वद्भावाच्च संप्रसारणे संप्रसारणमिति प्रतिषेधो भवतीत्यस्ति विशेषः । वव्रश्च । वव्रश्चिथ । पृच्छतिभृज्जत्योरविशेषः । ऋकिदर्थं चेदमभ्यासस्य संप्रसारणं विधी-