भारतकोश
संग्रह पर लौटें

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

देवयाज्ञिकभाष्यसमेतम् । ७७ शनस्तुत्यर्थः । “पुराकेशश्मश्रुवर्वपनात् यत्कामयेत तदश्नीयात् ” इतीष्टाशनं हि प्रकृत्यैतच्छ्रूयते “व्रतᳪहे वास्यातोऽशनं भवति” इति । अतस्तत्संस्तव एवा- यम्-अतो न स्वार्थे प्रमाणमिति न प्रतिनिधिनिवारणाय प्रभवति, तस्माद् व्रते- ऽपि प्रतिनिधिर्भवत्येव । अथ चैवं सूत्रयोजना नियमशब्दव्रते प्रतिनिधेरप्रसङ्ग इति युक्तं तन्नेति ॥ ८ ॥ एवमप्रसङ्ग इत्याकार प्रश्लेषः कार्यः अथेदं चिन्त्यते, विहितस्य द्रव्यस्याभावे द्रव्यान्तरे प्रतिनिधित्वेनोपात्ते छागाभावे मेषरूपे अनुवाचनप्रैषादौ किमूहं कृत्वा प्रतिनिहितद्रव्यशब्दस्य प्रयोगः कार्यः, अग्नीषोमाभ्यां मेषस्य वपाया इत्येवम्, उत विहितद्रव्यशब्दस्यैव अग्नीषोमाभ्यां छागस्येत्येवमेवेति (३-८-२-२६) । तत्र मन्त्रेण द्रव्यमभिधेयम्, न चानूहितः प्रतिनिहितं द्रव्यं शक्नोत्यभिधातुम्, तस्मादूहित्वा प्रतिनिहितद्रव्य- वाचिशब्दस्य प्रयोगे प्राप्त आह, (प्रतिनिहितद्रव्यस्य श्रुतद्रव्याभिधायकशब्देनैवाभिधानम् ) शब्देऽविप्रतिपत्तिः ॥ १ । ४ । ९ ॥ प्रतिनिधावुपात्तेऽपि विहितद्रव्यवाचिनि शब्दे अविप्रतिपत्तिरविपरिणामः अनूहो भवति, अग्नीषोमाभ्यां छागस्य वपाया इत्यनूहितमेव मेषेपि प्रयोज्यम्, न तु मेषस्येत्येवं विपरिणतरूपमित्यर्थः। कुतः? प्रतिनिधिः श्रुतद्रव्यबुद्ध्या गृह्यते न तु द्रव्यान्तरबुद्ध्या, अतश्छाग एवायमिति बुद्ध्या गृहीतत्वाच्छब्देनैवाभिधानम् । यद्यत्र मेषच्छागवत्साधनं भवेत्ततस्तत्प्रकाशकं मेषपदं प्रक्षिप्येत, न त्वेवम्; किं- तर्हि, मेषगता ये छागांशास्त एवात्र साधनं ते च छागगता इव मेषगता अपि छा- गशब्देनैव प्रकाशयितुं शक्यन्त इत्यनूहेनैव प्रयोगः । यत्र तु द्रव्यान्तरं वचनेन विधीयते यथा “सरस्वतीं मेषीम्”ति (१३-२२-४) “ऐन्द्रं मेषम्”ति “ऐन्द्र ऋषभः सारस्वतीं मेषीम्”ति तत्र द्रव्यान्तरबुद्धिर्भवति । तत्रोहोऽपि भवति । न चात्रैवंविधं किमपि वचनमस्ति, तस्माद्बहूनामवयवानां सामान्याच्छ्रुतद्रव्यमेवेद- मिति बुद्ध्या मेषादिद्रव्यस्य छागादिप्रतिनिधित्वेनोपादानम्, तेन श्रुतद्रव्यशब्दे- नैवाभिधानं युक्तमिति साधूक्तम्, शब्देऽविप्रतिपत्तिरिति ॥ ९ ॥ यत्र तु वचनेन द्रव्यान्तरं विधीयते तत्र ऊहो भवतीत्युक्तम् “तेन सोमा- भावे पूतिकानभिषुणुयात् ” इति पूतिकानां वाचनिकत्वादूहो भविष्यतीत्या- शङ्क्याह—

७८ | कात्यायनश्रौतसूत्रम् ।

[ पूतीकानां सोमशब्देनैवाभिधानम् ]

सोमेन जात्याभावात् ॥ १ । ४ । १० ॥

सोमेनेति तृतीयैकवचनम्, सोमाभावे पूतीकेषूपात्तेषु सोमेनेति सोमश- ब्देनैव पूतीकानामभिधानं कर्तव्यम् अंशुंरंशुष्टे देवसोमप्यायतामित्येवम् ( ३, ४, ३, १८,) न तु पूतीकाशब्देन । अथवा सोमे इति सप्तम्येकवचनम् नेति निषेधः, सोमप्रतिनिधित्वेनोपात्तेषु अर्जुनश्येनहृतपूतीकादिषु सोमे सोमशब्दे ऊहो न भवति । कुतः ? जात्याभावात् जात्यन्तरबुद्ध्यभावात् , न ह्यत्र वचनेन द्रव्यान्तरं विधीयते, किं तर्हि, सोमाभावे यागस्यावश्यकर्तव्यत्वादनेकेषु सुसदृ- शेष्वीषत्सदृशेषु च प्राप्तेषु पूतीकादेर्नियमः क्रियते, तेनैन्द्रो मेष इतिवद्वाचनि- कजात्यन्तरविधानाभावादत्राप्यूहो न भवतीति ॥ १० ॥ अथेदं विचार्यते—वरुणप्रघासेषु पशौ च श्रूयते “पृषदाज्यं गृह्णाति” (३,८,४,७,) तेनानुयाजेषु चरतीति च, प्रकृतौ चाज्यपदसंयुक्तनियमाः “सन्ति दे- वानाज्यपानावह स्वाहा देवानाज्यपान् (१,४,२,१७,) देवानामाज्यपानां प्रिया धामानि” (१,७,३,११,) “देवा आज्यपा आज्यमजुषन्ते”ति च, (१,३,१,१०) आज्यपशब्देनात्र प्रयाजानुयाजदेवता उच्यन्ते “प्रयाजानुयाजा वै देवा आज्य- पा” ( १,४,२,१७,) इति वाक्यशेषात् , अत्र च पृषदाज्येनानुयाजा इज्यन्ते, तदिह संशयः आज्यपशब्दस्थानेऽज्यदधिपानित्येवमूहः अथवा दधिपानिति उत पृषदाज्यपानिति आहोस्विदविकारेणैवाज्यपानिति प्रयोगः, यद्युभयं हविस्ततः प्रथमः पक्षः, यदि दध्येव ततो द्वितीयः, यदि पृषदाज्यनामकं द्रव्यान्तरं हवि- स्ततस्तृतीयः, अथ त्वाज्यमेव हविः तस्य तु पृषत्त्वं चित्रता संस्कारमात्रम् तज्जन- नार्थं च दधि ततः सिद्धान्तः । तत्र “अथ पृषदाज्यं गृह्णाति द्वयं वा इदꣳ सर्पि- श्चैव दधि चेति” ( ३,८,४,७,) तुल्यवत्सङ्कीर्तनादुभयं हविः उभयमप्यनुष्ठा- नाङ्गत्वेन स्मर्तव्यम् तस्मादुभयोः प्रकाशनम् , अथवा शाखान्तरे द्विरुपस्तृणाति द्विरवद्यति सकृदभिघारयती”त्युपस्तरणाभिघारणवादाद्दधिसंस्कारार्थमाज्यम् द- ध्येव हविः, ततो दधिपानित्येवं वक्तव्यम् , नैतदुभयम् , ग्रहणे हि दध्याज्ययो- स्तुल्यत्वं दध्नो वा प्राधान्यं गम्यते, यागेत्वाज्यमेव पृषत्तागुणकं करणत्वेन श्रुत्या विधीयते, नोभयम् , नापि दधि, यच्च यागद्रव्यम् तदर्थो ग्रहणसंस्कारः, तस्मा-

[Header] देवयाज्ञिकभाष्यसमेतम्। ७९

द्रूहणेऽप्याज्यमेव प्रधानम्, तस्य तु पृषतासम्पादनार्थं दधि गृह्यते, न स्वार्थेना- नुपयोगित्वात्, तथाविधे तु दध्नि तुल्यनिर्देश उपस्तरणादिवादेन च प्राधान्य- निर्देशोऽर्थवादमात्रम्, तस्मादविकारः। अन्यस्त्वाह, दध्ना आज्येन च द्रव्यान्तरं निष्पद्यते, तस्य वाचकः पृषदाज्यशब्दः, तच्च हविः पृषदाज्येनानुयाजान्यज- तीति, तस्मात्पृपदाज्यपानित्येवं वक्तव्यमिति प्राप्त आह— (पृषदाज्यस्यापि आज्यशब्देनैवाभिधानम्) आज्येचादर्शनात् ॥ १।४।११॥ अविप्रतिपत्तिरित्यनुवर्तते। पृषदाज्येनानुयाजान्यजतीति वाचनिके पृष- दाज्ये सत्यपि आवाहनादि निगमेषु आज्ये आज्यशब्दे अविप्रतिपत्तिरविकारः, देवानाज्यपानित्येव वक्तव्यमित्यर्थः। कुतः? अदर्शनात्, आज्यव्यतिरिक्तस्य द्रव्यान्तरस्यादर्शनात्, तथाहि स्याद्विकारो यदि पृषदाज्यशब्दः समुदायशक्त्या द्रव्यान्तरमभिधत्ते, न त्वेवमस्ति, पृषच्छब्दो लोके चित्रवचनः, पृषद्रज्जुः पृष- न्ममणिरिति तेन पृषदाज्येनेति चित्रेणाज्येनेत्यर्थः, तेन प्राकृतस्यैवाज्यस्य चित्र- तागुणमात्रविधानम्, गुणश्च सम्पादयितुं दधि गृह्यते प्राधान्यनिर्देशोऽर्थवाद- मात्रम्, हविरेव च प्रकृतावुपलक्षितम्, न हविर्गुणः तस्मादधिकारेणाज्यपानित्येव वक्तव्यमिति सिद्धान्तः ॥११॥ किं च, पशौ मन्त्रवर्णात् ॥ १।४।१२॥ पशावेवोत्तमप्रयाजमैषे पठ्यते, “स्वाहा देवा आज्यपा” इति [२१, ४०,], वनस्पतिप्रैषेऽपि “देवानामाज्यपानां प्रियाधामानि” [२१,४६] इति स्विष्टकृत्प्रैषेऽपि “अयाड् देवाञ्आज्यपानाम्” [२१,४७,], इति तत्र नियमतः पृषदाज्येनैवानुयाजा इज्यन्ते, अत एव पशुसम्बन्धिनो मन्त्रवर्णाद्देवानाज्यपा- नित्यावाहनादि भवतीति गम्यते ॥१२॥ किं च, श्रुतेश्च ॥ १।४।१३॥ एकवचनश्रुतेरप्यत्रैकस्यैव प्रधानं गम्यते नोभयोः, अथ, “पृषदाज्यं गृ- ह्णाति” इति (३, ८, ४, ७) यदि चात्र दध्नोऽपि प्राधान्यं स्यात्तदा द्विव- चनं श्रूयेत, न च श्रूयते, अत एकवचनश्रुतेरप्ययमेवार्थोऽवसीयते यदेकस्यै- वात्र प्राधान्यमिति तत्त्वाज्यस्यैवेति प्राक्साधितम् ॥१३॥ अथेदं विचार्यते “व्रीहिभिर्यजेत” “यवैर्यजेत” इतिविकल्पेन विहितेषूभयेषु मध्ये एकेन व्रीहिद्रव्येण प्रारब्धे कर्मणि तस्य नाशदोषापहारादिके जाते पश्चाद्य-

or प्रतिनिधेयम्? LOOK AT LINE 18: विकल्पे प्रवृत्तं यवादिकन्न प्रतिनिधिषेयम् ??? Wait! Look at line 18: विकल्पे प्रवृत्तं यवादिकन्न प्रतिनिधिषेयम् or प्रतिनिधेयम्? Let's read character by character: प्र ति नि धि षे म्! Wait! Is that षे or धे? It has a loop with a diagonal slash inside? No, it's धे! Wait, compare धे in प्रतिनिधेयम् with षे: In Devanagari, has a curl at the top left. प्रतिनिधेयम्: प्र ति नि धे म्! Ah, it's प्रतिनिधेयम्! There are only 5 syllables: प्र-ति-नि-धे-यम्. Not प्रतिनिधिषेयम्! Wait, why did I think 6 syllables earlier? Let's look at line 18: यवादिकन्न (य-वा-दि-क-न्न) प्रतिनिधेयम् (प्र-ति-नि-धे-यम्) -> wait, is that प्रतिनिधेयम्? Yes

Here is the line-by-line transcription of the Sanskrit text from the image:

देवयाज्ञिकभाष्यसमेतम् । ८१ ( प्रतिनिधिनाशे श्रुतसदृशस्योपादानम्, न प्रतिनिधिसदृशस्य ) प्रतिनिधाै तत्कालात् ॥ १।४। १५ ॥ प्रतिनिधिद्रव्ये नीवारादौ विनष्टे न प्रतिनिधिभूतनीवारादिसाम्येन प्रति- निध्युपादानं किन्तु मुख्यद्रव्यमेव व्रीहिरूपमुपादेयम् सम्भवे, तदसम्भवे तु मुख्य- सादृश्येन नीवारादिः प्रतिनिधिरुपादेयः, न तु प्रतिनिहितनीवारसादृश्येन । कुतः ? तत्कालात् । स कालो यस्यासौ तत्कालः, भावप्रधानो निर्देशः, प्रतिनिधे- स्तत्कालत्वादित्यर्थः । यतः प्रतिनिधेः स एव कालो यो मुख्यद्रव्यस्याभावः, तेन प्रतिनिधाै नीवारे विनष्टे मुख्यस्य लाभे मुख्यमेव ग्राह्यम्, तदलाभे नीवारादिकं व्रीहिसदृशमेवेति, न तु कदाचिन्नीवारसदृशमित्यर्थः । न हि नीवाराणामङ्गत्व- मस्ति, श्रुतिलिङ्गादिप्रमाणा

८२ कात्यायनश्रौतसूत्रम् । नत्वम्, तेन मुख्यद्रव्ये सति भ्रान्त्या प्रतिनिधिद्रव्येण यागे कृते पुनर्मुख्य- द्रव्येण यागावृत्तिः ॥ १५ ॥ अथ यत्रार्थद्रव्ययोर्विरोधस्तत्र कथम् । तद्यथा मुख्यं द्रव्यं खादिरादिकं नियोजनादिकार्यासमर्थं विद्यते, प्रतिनिधिद्रव्यं च कार्यसमर्थम्, तत्र यदि मुख्यं द्रव्यं गृह्यते, तदा तेन कार्यं नियुक्तपश्वनपक्रमणरूपं न सिध्यति, यदि च कार्यसिद्धिसमर्थं प्रतिनिधिद्रव्यं गृह्यते तदा मुख्यद्रव्यं गृहीतं न स्यात्, तत्रैवं सन्देहः, किं कार्यसाधनासमर्थमपि मुख्यं ग्राह्यम्, उत मुख्यमनादृत्य कार्यसमर्थं प्रतिनिधिद्रव्यमिति, तत्र मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति न्यायेन मुख्यस्यैव परिग्रहे प्राप्ते सिद्धान्तसूत्रम्— ( कार्यासमर्थश्रुतद्रव्यसत्त्वेऽपि तत्समर्थप्रतिनिधेरेवोपादानम् ) अर्थद्रव्यविरोधेऽर्थसामान्यं तत्परत्वात् ॥ १ । ४ । १६ ॥ अर्थः प्रयोजनं कार्यमिति यावत्, द्रव्यं मुख्यद्रव्यम्, अर्थद्रव्यविरोधे कार्यमुख्यद्रव्ययोर्विरोधे सति अर्थसामान्यम्, अर्थेन प्रयोजनेन कार्येण सामा- न्यम् संयुक्तं कार्थसिद्धिसमर्थं यत् तदश्रुतमपि प्रतिनिधिद्रव्यमुपादेयम् । कुतः ? तत्परत्वात्, द्रव्यस्यार्थपरत्वात्, कार्यार्थत्वात्, कार्यार्थं हि द्रव्यं न त्वदृष्टार्थम्, येन च कार्येन सिध्यति तच्छुतमपि सहश्रुतसममेव, अतो द्रव्यस्य प्रयोजनार्थ- त्वात्तद्विरोधे तु श्रुतमप्यनादृत्य प्रयोजनक्षममेवाश्रुतमपि प्रतिनिधिद्रव्यमेवो- पादेयम्, नतु मुख्यं कार्यासमर्थमिति सिद्धान्तः । तदुक्तं जैमिनिना “ अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तिर्द्र

श्रीहिशास्त्रस्य नात्यन्तबाधोऽपि, व्रीह्युपादाने तु शेषकार्याणामत्यन्तलोपः स्यात्, [अतः] प्रधानाङ्गभूतपुरोडाशजात्यभिव्यक्तिमात्रसमर्थेषु सत्स्वपि व्रीहिषु शेष- कार्यविध्यबाधाय नीवारा एवोपादेया इति पूर्वः पक्षः। सिद्धान्तस्तु, श्रुत्या तावद्यागाङ्गत्वमेव व्रीहीणामवगम्यते, वस्तुतोऽपि तथा, यद्यपि पुरोडाशप्रकृतित्वं व्रीहीणामवगम्यते, तथापि तदवयवा एव पुरोडाशतामापन्ना यागद्रव्यं भवन्ति, ते च नीवारेषूपादीयमानेषु विगुणा भवन्ति, ततश्च प्रधानमेव विगुणं स्यात्, तच्चान्याय्यम्, तस्मात्प्रधानाङ्गभूतपुरो- डाशजात्यभिव्यक्तिसमर्थेषु सत्सु शेषकार्याण्यनादृत्य व्रीहिभिरेव पुरोडाशः कार्यो न शेषकार्यानुरोधेन नीवारोपादानमिति सिद्धम् । तदुक्तं मण्डनेन “अवत्तमात्रप- र्याप्तव्रीहिद्रव्यस्य सम्भवे पुरोडाशमहत्वार्थं न नीवारपरिग्रहः” इति ॥ एवं सान्नाय्येऽपि प्रधानयागसाधनसमर्थे स्रुवद्वयत्रयपरिमाणमपि यावत् दुग्धं लभ्यते कथंचित् तावत् चरुसान्नाय्यालाभ” इति-चरू न भवतः, अव- दानमात्रसमर्थमुख्यद्रव्याभावे त्वर्थद्रव्यविरोधेऽर्थसामान्यम् ” (२५,५,६) इति न्यायेन प्रतिनिधिमुपादानमेव युक्तम् ॥१६॥ अथ यत्र गुणद्रव्ययोर्विरोधस्तत्र कथम् । तद्यथा “नैर्ऋतः परिवृत्यै कृष्णव्री- हीणां नखनिर्भिन्नानाम्” (१५,३,१४,) इति

८४ कात्यायनश्रौतसूत्रम् । न समत्वात् ॥ १ । ४ । १८ ॥ द्रव्यमेव प्रधानयोगीति यदुक्तम् तन्न, कुतः ? समत्वात्, उभयोर्गुणद्रव्ययोः सहश्रुत्वात् । द्रव्यमपि प्रधानयोगि श्रुतत्वाच्च गुणोऽपीति ॥ १८ ॥ एवं प्राप्त उक्तमेव सिद्धान्तं दृढयति— गुणानुग्रहात् ॥ १ । ४ । १९ ॥ गुणेनानुगृहीतं विशेषितं द्रव्यमेव प्रधानयोगि, गुणस्तु तत्र विशेषणमात्रम्, विशेष्यं तु द्रव्यमेव, अतो विशेषणविशेष्ययोर्विशेष्ये सम्प्रत्यय इति न्यायाद्द्रव्य- मेव गुणानुगृहीतं प्रधानयोगीति नैतदुभयं समम् । अत एवाग्निहोत्रे “पुंवत्साया अग्निहोत्र्याः” (४,१४,१) पयसोऽभावे पुंवत्सत्वलक्षणं गुणं हित्वा स्त्रीवत्साया अप्यग्निहोत्र्याः पयसा होतव्यम् । एवं पालाशानां परिधीनामाद्रीणामभावे (२,८,२०) आर्द्रत्वरूपं गुणं त्यक्त्वा शुष्का अपि पालाशा ग्राह्याः । बाहुमात्रा णामसम्भवे (२,८,१,) अबाहुमात्रा अपि । एवं सर्वत्रोह्यम् ॥ यदा पुनः खदिरस्तनुत्वात्तक्षणादिसंस्काराणामयोग्यः नियोजनमात्रे योग्यः कदरश्च महान्संस्कारयोग्यस्तदा कस्योपादानमिति सन्देहः, तत्र संस्कार- क्षमकदरोपादाने खदिरविधेर्वैकल्पिकमात्रत्वेनात्यन्तपीडाभावात्, अक्षमखदिरो- पादाने तु संस्कारविधीनामत्यन्तपीडाप्रसङ्गात् प्रातनिधिरेवोपादेयः, मैवम्, नहि गुणानुरोधेन प्रधानमुपरोद्धव्यं भवति, तेन भवतु संस्काराणामत्यन्तपीडा न तु प्रधानं तदनुरोधेन कथञ्चिदपि पीडयितव्यम्, तस्मात्तक्षणाद्यसंस्कृतेव खदिरे पशुं नियुञ्जीत । तदुक्तं जैमिनिना “द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्” (६,३,३५,) इति । यदा पुनर्मुख्यमलभ्यं मत्वा प्रतिनिधिमुपादातुं प्रस्थितेना- न्तरामुख्यं लब्धम्, तदा प्रतिनिधेः सङ्कल्पितत्वात् मिथ्यासङ्कल्पदोषपरिहाराय मुख्यमनादृत्य प्रतिनिधिरेवापादेय इति प्राप्तेऽभिधीयते-यथाशक्तिशास्त्रार्थ-सम्पा- दयामीत्येवं शास्त्रार्थविषय एव सङ्कल्पः कर्तव्यः न प्रतिनिधिस्वरूपं सङ्कल्पाय- तव्यम् । न च मुख्ये विद्यमाने प्रतिनिधिः शास्त्रार्थो भवति, समग्रानुष्ठानशक्त्याम- सत्यां हि विकल्पाङ्गानुष्ठानमपि शास्त्रीयं भवति न सत्यामिति, तस्मान्मुख्यप्राप्तौ मुख्यमेवोपादेयम्, तदुक्तं जैमिनिना “मुख्याधिगमे मुख्यमागमो हि तद्भा- वात्” (६,३,३२,) इति ॥

यदा पुनर्मुख्यं खदिरमलब्ध्वा प्रतिनिधिं कदरमुपादाय तक्षणादिषु कतिचित्संस्कारेषु कृतेषु प्राक्पशुनियोजनात्खदिरं लभते, तदा किमुपात्तेन प्रतिनिधिना कार्यं कुर्यात् , उत तच्चागेन मुख्यमेवोपादाय संस्कारांश्च पुनः कृत्वा तत्रैव पशुं नियुञ्जीतेति संशयः । तत्रोपात्ते प्रतिनिधौ निवृत्तव्यापारं शास्त्रं नान्यदुपादापयति तस्मान्न मुख्योपादानमिति प्राप्ते ब्रूमः । नोपादानपरं शास्त्रम् , येन तस्मिन्कृते निवृत्तव्यापारं स्यात् , प्रधानानुष्ठा- नार्थं शास्त्रम्, तच्च प्रधानं सति मुख्ये प्रतिनिधिना क्रियमाणं विगुणं स्यात् , अतः संस्कृतमपि कदरं हित्वा खदिरं संस्कृत्य तस्मिन्पशुर्नियोक्तव्यः, ये च कदरे कृताः संस्कारास्तेषां खदिर आवृत्तिः स्यात् , प्रधानवशेन गुणावृत्तेर्न्या- य्यत्वात् । एवं पशुव्रीह्यादिष्वपि द्रष्टव्यम् । तत्रापि प्राक्त्यागान्मुख्यद्रव्यलाभे संस्कृतमपि पुरोडाशादिकं प्रतिनिधिद्रव्यं निष्पादितं त्यक्त्वा, मुख्यद्रव्येण पुरोडाशान्तरं संस्कृत्य, तेन यागः साधनीय इति । तदुक्तम् "प्रवृत्तेऽपीति चेत्" (जैमिनि. ६,३,३६) इति ॥ अथ यथा प्रतिनिधिना नियोजने कृते यदा मुख्यमुपलब्धम्, तदा कृतमपि नियोजनं साद्गुण्याय पुनः खदिरे कर्तव्यमिति मन्वानस्योत्तरम्, कृते नियो- जने लब्धोऽपि खदिरोऽनर्थक एव, नियोजनार्थं हि तदुपादानम्, तच्च कृतम्, न गुणानुरोधादावर्तयितव्यम्, अतो नादर्तव्यः खदिरः । तदुक्तम् "नानर्थ- कत्वात्" (जैमिनि. ६,३,३७,) इति अथवा सूत्रद्वयमिदेकाधिकरणम्, प्रवृत्तेऽपि, कृतेऽपि प्रधाने मुख्यो- पादानं स्यादिति चेत्, नानर्थकत्वादिति ॥ १९ ॥ ॥ इति चतुर्थी कण्डिका ॥ ४ ॥ अथेढं विचार्यते-यान्येकप्रधानसम्बन्धीन्यङ्गकर्माणि किं तेषामनुष्ठाने कश्चित् क्रमनियमो नास्ति, उतास्तीति, तत्र सूत्रेणैव पूर्वपक्षमाह- ( श्रुत्यर्थपाठैः क्रमनियमः ) कर्मणामानुपूर्व्यं न तु युगपद्भावात् ॥ १ । ५ । १ ॥ आनुपूर्व्यं पौर्वापर्यं क्रम इत्यनर्थान्तरम्, कर्मणामिति अग्न्यन्वाधानादी- नामङ्गकर्मणामनुष्ठाने आनुपूर्व्यं न भवति क्रमनियमो न भवति । कुतः ? .युगप-

८६ कात्यायनश्रौतसूत्रम् । द्भावात्, अतस्तान्यङ्गानि यदा प्रधानेनापेक्ष्यन्ते, तदा युगपद्भावेनैव सहैव सम्बन्धं प्राप्नुवन्ति न क्रमेण, ततश्चैषां नियमेन क्रमेणानुष्ठाने कारणाभावात् कर्तुरेक- त्वादवश्यम्भाविनी क्रमे येन केनचिदनियतेन क्रमेणानुष्ठानम् ॥ १ ॥ अर्थनिर्वृत्तेश्च ॥ १ । ५ । २ ॥ येन केनचित्क्रमेणाङ्गानुष्ठाने क्रियमाणे अर्थनिर्वृत्तिरङ्गकलापनिष्पत्तिः सुखेनैव भवति, नियतक्रमेण क्रियमाणे तु नियतक्रमस्यानागतस्य वस्तुतः प्रती- क्षणेन विलम्बाद्वहुना कालेन स्यात्, तथा सति :प्रयोगे प्राशुभावो न स्यात्, प्रधानप्रत्यासत्त्या कालो ह्यङ्गानां विहितः, अङ्गानां नियतक्रमेणानुष्ठाने च सोऽपि अतिक्रान्तः स्यादिति, तस्मादङ्गानुष्ठाने क्रमनियमो नेति पूर्वः पक्षः ॥ २ ॥ सिद्धान्तमाह— स्याद्वाऽऽनुपूर्व्यनियमः श्रुत्यर्थक्रमेभ्यः ॥ १ । ५ । ३ ॥ वाशब्दः पूर्वपक्षनिरासार्थः । अग्न्यन्वाधानादीनामङ्गकर्मणामा‌नुपूर्व्यनियमः स्यात्, अनुष्ठाने क्रमनियमो भवेत् नानियमः । केभ्यः प्रमाणेभ्यः, श्रुत्यर्थक्र- मेभ्यः, श्रुतेः, अर्थात्क्रमाच्च। श्रुतेस्तावत्, यथा द्वादशाहे “तेषां गृहपतिः प्रथमो दीक्षते” (१२,१,१,१) “अथ ब्रह्माणं दीक्षयति, अथोद्गातारम्, अथ होतार- म्”इत्यादिनात्र ब्रह्मादीनां दीक्षा विधीयते, यजमानत्वादेव तस्याः प्राप्तेः, क्रमस्य त्वन्यतः प्राप्त्यभावात् स एवात्र विधीयते, तथा “तस्मादेष दशमो ग्रहो गृह्यते तृतीय एव वषट्क्रियते” (४,१,५,१६) इति । अयमपि श्रुतिक्रम एव । अर्थादपि क्रमोऽवगम्यते, तद्यथा, पेषणसंयवनयोरवघातपेषणयोश्च “अग्निहोत्रं जुहोति” “यवागूं पचति” इति क्रमेण श्रुतेऽपि अर्थात् पूर्वं पाकस्ततो होम इति, होमद्रव्यं हि यवागूः तदुत्पत्यर्थः, श्रुत्या लिङ्गेन च पाकः, स च पश्चात्क्रियमाणोऽ- नर्थकः स्यात्, होमोऽप्यसति द्रव्ये न निर्वर्तेतातः पक्त्वा होमः कार्यः । क्रमः पाठक्रमः, स च द्विविधः, श्रुतिपाठक्रमो, मन्त्रपाठक्रमश्च, उभयविधोऽपि क्रम- नियमे कारणं भवति, नियतेन हि क्रमेण पदार्थविधिपाठा मन्त्रपाठश्च वर्तते, तत्रैवमवगम्यते येन क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च तेनैव क्रमेणानुष्ठानमिति, क्रमान्तरेणानुष्ठाने त्ववगतस्य क्रमस्य त्यागः, अनवगतस्य क्रमस्योपादानमिति, असङ्गतं स्यात्, तस्मात् पाठक्रमादपि क्रमनियमोऽङ्गकर्मणां भवतीति ॥ ३ ॥

देवयाज्ञिकभाष्यसमेतम् । ८७ प्राकृतं च विकृतौ ॥ १ । ५ । ४ ॥ अतोऽपि कारणात्पाठक्रमेणाङ्गकर्मणामनुष्ठानं भवति, यतो विकृतौ प्राकृ- तमेव क्रमं श्रुतिरनुवदति, यथा महापितृयज्ञे "स तत एव प्राक्स्तम्बयजुर्हरती" त्या- दिना "स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णाती"त्येवमन्तेन (२,६,१,१२,) अत्राज्यग्रहणे यज्ञोपवीतित्वविधिपरे वाक्ये प्राकृतं क्रमं दर्शयति यदि पाठक्रमेणा- नुष्ठानं न स्यात् तदानेनैव क्रमेणानुवादो न स्यात् ॥ अपरे त्वन्यथा व्याचक्षते, प्राकृतं च विकृतौ प्राकृतवैकृतयोः कर्मणोः सन्निपाते प्राकृतं पूर्वं कर्तव्यम्, पश्चाद्वैकृतमिति । तद्यथा "प्रकृतौ प्रास्य तृणं चक्षुष्पा इत्यात्मानमालभते ” (३,६,१५,) इति । “मस्तरतृणा- नुमहरणानन्तरमात्मालम्भ उक्तः विकृतौ च प्रहृत्य तृणं तेन चरति” (४,४,११,) इति । तृणानुमहरणानन्तरं वाजिनयाग उक्तः, तत्र पूर्वं प्राकृतमात्मा- लम्भोदकस्पर्शरूपं कृत्वा पश्चाद्वाजिनयागः कर्तव्यः । तथा प्रकृतौ हविरासाद- नोत्तरकालं हविरालम्भात्मालम्भोदकालम्भा विहिताः, विकृतौ च “असाद्य हवीग्ँ- ष्यग्निं मन्थति” (३,४,१,१९) इत्यग्निमन्थनं हविरासादनोत्तरकालं विहितम्, तत्र पूर्वं प्राकृता हविरालम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतमग्निमन्थनम् । एवं "अथासाद्य स्रुचोऽपं उपस्पृश्य राजानं प्रपादयति” (२,६,३,१७) इत्येत- दप्युदाहार्यम् । अत्रापि पूर्वं प्राकृता हविरालम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतं सोमप्रपानादि । तथा पितृयज्ञे परिषेकात्प्रागिडामक्षणमार्जनपवित्रप्रतिपत्ति- दक्षिणादानान्त्यत एव सिद्धानि । सुत्यायां च सवनीयपुरोडाशानां निर्वपनादू- र्ध्वभाविनः प्रागलङ्करणाद्ये पदार्थाः, तेषां प्राक्प्रचरणीहोमादत एवानुष्ठानं सिद्धम् । अत एव पशौ प्राकृतं पूर्वमित्यस्य बाधनाय यत्नं करोति, “उत्तराया- रमाघार्य पशुं पूर्वं समनक्ति” (६,४,२) इत । अत्र पूर्वमित्यनेन प्राकृतध्रुवास- मञ्जनात्पूर्वं पशुसमञ्जनं विदधाति । तस्मात्समीचीनमेतद्व्याख्यानम् ॥ ४ ॥ अथ क्रमप्रमाणानां विरोधे बलाबलं निर्णीयते । यत्र पाठक्रमार्थक्रमयो- र्विरोधो भवति, तद्यथा "स वै पर्णशाखया वत्सानपाकरोति तामाच्छिनत्ति” (१,७,१,१,२) इति पाठक्रमः, अर्थस्त्वनेन क्रमेण न सिध्यति, न ह्यच्छिन्नया वृक्षस्थया शाखया वत्सापाकरणं कर्तुं शक्यते, वत्सापाकरणायैव च छेदनमिति, तत्र किं पाठक्रमाध्यवसानमुतार्थक्रमादिति संशय आह—

८८ कात्यायनश्रौतसूत्रम् । ( पाठक्रमार्थक्रमस्य बलीयस्त्वम् ) विरोधेऽर्थस्तत्परत्वात् ॥ १ । ५ । ५ ॥ पाठक्रमार्थक्रमयोर्विरोधे अर्थक्रम एव बलीयान्, न पाठक्रमः । कुतः ? तत्परत्वात्, पाठस्यार्थपरत्वात् अर्थार्थत्वात्, कार्यसिद्धयर्थत्वादित्यर्थः । तेन पूर्वं छेदनं पश्चात्त्या छिन्नया शाखया वत्सापाकरणमिति ॥ ५ ॥ अथ यत्र श्रुतेः श्रुतिपाठक्रमस्य च विरोधो भवति, तद्यथा “संस्थिते यज्ञे ब्राह्मणं तर्पयित वै ब्रूयात् ” (१,७,३,२८) इति श्रुतेः । “कर्मणि समाप्ते प्रैषं विदधाति” पाठक्रमात्तु स्विष्टकृतः पश्चात्प्राशीत्रावदानाच्च पूर्वमिति तत्र केन क्रमेणानुष्ठानमिति संशये सत्याह— ( श्रौतक्रमस्य सर्वापेक्षया बलवत्त्वम् ) श्रुतिः क्रमादानुमानिकत्वात् ॥ १ । ५ । ६ ॥ क्रमादिति श्रुतिपाठक्रमाच्छुतिर्बलीयसी, तेन श्रुतिमतीत्क्रमेणैव संस्थिते कर्मणि प्रैषोच्चारणम्, न पाठक्रमेण । कुतः ? आनुमानिकत्वात् । पाठक्रमस्य अर्थाच्छ्रुतेः प्रत्यक्षत्वादिति ज्ञेयम्, प्रत्यक्षा हि श्रुतिः “संस्थिते यज्ञे” इति पा- ठक्रमेत्वनुमानम्, अतोऽनेन क्रमेण पदार्था अनुष्ठेयाः यतोऽनेनैव क्रमेण पाठ इति, दुर्बलं च प्रत्यक्षादनुमानम्, अतः श्रुतिक्रमेणानुष्ठानमिति सिद्धम् । एवम् “तस्मादेष दशमो ग्रहो गृह्यते” “तृतीय एव वषट्क्रियते” (४, १, ५, १६) इत्येतदप्यत्रोदाहरणम्, किं श्रुतिमन्त्रपाठात्तृतीयस्थाने गृह्यते, उत श्रुतिबलाद्दशम इति, तत्र श्रुतिबलात्तु दशम इति सिध्यति ॥ ६ ॥ अथ यत्र चोदना पाठक्रमस्य मन्त्रपाठक्रमस्य च परस्परं विरोधो भवति । यथाज्याधिश्रयणे “सोऽसावाज्यमधिश्रयतीषेत्वेत्यधिश्रयणं विधाय तदनन्तरमेव “तत्पुनरुद्वासयत्यूर्जेत्वे”ति (१,२,२,६) चोदनपाठक्रमः मन्त्रपाठे आज्याधि- श्रयणमन्त्रानन्तरं “घर्मोऽसि विश्वायुरि”त्यादि [१,२२,] पत्नीसन्नहनमन्त्रान्तं मन्त्रगणं पठित्वा आज्योद्वासनमन्त्र ऊर्जेत्वेति [ १, ३०,] पठितः । पूर्वा- धिकरणे क्रमाच्छ्रुतेः प्रत्यक्षत्वाद्वलीयस्त्वमुक्तम्, अत्रोभयोः प्रत्यक्षत्वात्किं चोद- नापाठक्रमेणाज्योद्वासनं कर्तव्यमुत मन्त्रपाठक्रमेणेति संशये सत्याह—

देवयाज्ञिकभाष्यसमेतम् । ८९ ( चोदनापाठान्मन्त्रपाठो बलवान् ) मन्त्रचोदनयोर्मन्त्रबलं प्रयोगित्वात् ॥ १ । ५ । ७ ॥ मन्त्रचोदनयोरिति मन्त्र [पाठचोदना ] पाठयोर्विरोधे मन्त्रबलम्, मन्त्र- पाठ एव बलवानित्यर्थः । कुतः ? प्रयोगित्वात् मन्त्राणाम्, मन्त्रा हि कर्मकाले प्रयुज्यन्ते पठ्यन्ते, न चोदनावाक्यानि, अतो मन्त्रपाठः पदार्थानां सन्निकृष्टः, चोदनापाठस्तु विप्रकृष्टः । तथाहि, “समिधो यजति” ( १, ५, ३, ९ ) इत्येनेन पदार्थो विहितः, सोऽनुष्ठानवेलायां येन वाक्येन विहितस्तद्वाक्यं स्मारयति, तेन वाक्येन स्मृतेनानुष्ठानवेलायां स्वपदार्थः स्मारितः सन्ननुष्ठीयते, इतीतरे- तराश्रयं स्यात्, अर्थेन वाक्यं स्मार्यते, वाक्येन चार्थ इति । नैष दोषः सामान्य- विशेषभेदात्, सामान्येन हि दार्शिकमङ्गं कर्तव्यमित्यवगम्यते, विशेषस्मरणार्थ- विधायकं वाक्यमालोचयति, तेन चालोचितेन पश्चात्तदर्थविशेषः स्मारितोऽ- नुष्ठीयते, अनुष्ठितश्चासौ झटित्येवं द्वितीयं पदार्थं न स्मारयति, अर्थानां ग्रन्थान- पेक्षेण रूपेण पौर्वापर्यस्यानक्लृप्तत्वात्, किं तर्ह्यनुष्ठानोत्तरकालं योऽसौकृतस्तमा- लोचयति, समिद्यागोऽयं कृत इति, स चालोच्यमानो येन “समिधो यजति” इत्यनेन ( १, ५, ३, ९ ) ब्राह्मणवाक्येन विहितस्तत्स्मारयति, तच्च स्मृतं स्वादुत्तरं “तनूनपातं यजती” त्येतत् स्मारयति, कुतः ? पाठात्, ततः परं हि तत्पठितमिति, तद्ब्राह्मणं पुनः पदार्थं विदधाति, विधिरेव तस्य कार्यम्, न स्मृतिः। अनुष्ठान- वेलायां तदेव ब्राह्मणं विधिव्यापारं कृत्वा चिरनिवृत्तव्यापारं प्रयोगकालाद्बहि र्भूतं स्मारकमपेक्षितम्। अयं मन्त्रपाठाद्ब्राह्मणपाठे विप्रकर्षः। मन्त्रः पुनरन्तः- क्रतुप्रयुज्यमानः परिसमाप्यमान उत्तरं मन्त्रं पर्युपस्थापयति, स चोत्तरो मन्त्रः पर्युपस्थाप्य उत्तरं पदार्थं पर्युपस्थापयन्नेव पर्युपतिष्ठते, तस्मात्तत्रालोचनान्तरा- पेक्षाभावान्नास्ति विप्रकर्षः। एतदुक्तं भवति स्मारकक्रमेण तावदनुष्ठानक्रमः। नच मन्त्रे अनन्यार्थे सति ब्राह्मणस्य स्मारकत्वम् अप्रयुज्यमानतया सामर्थ्याभावात् । नहि निर्वापामीतिवन्निर्वपेदिति पदमुच्चरितमनुष्ठानौपयिकमनुष्ठेयप्रकाशनं करोति, किन्तु सम्बन्धमात्रतया प्रयोगबहिर्भूतं सत्, अनेन वाक्येनेदं विहितमत एतत्करोमीत्येवमालोचनेन स्मारकं भवति, मन्त्रस्तु प्रयुज्यमान एवाभिधानत एवस्मारक इति सन्निकृष्टः । विप्रकृष्टाच्च संनिकृष्टं बलवदित्येवं प्राप्ताऽह--- न समत्वात् १ । ५ । ८ ॥ मन्त्रपाठ एव बलवानिति यदुक्तं तन्न, कुतः, समत्वान्मन्त्रपाठचोदना- पाठयोः कथमुभयोः समता ?

४. अध्याय १७-२४: अश्वमेध, पुरुषमेध, सर्वमेध, शुल्ब-परिभाषा एवं उपसंहार

९० कात्यायनश्रौतसूत्रम् । उच्यते, मन्त्रः कर्मणि करिष्यमाणस्य कर्मणः स्मरणार्थं प्रयुज्यते । चोदना तु कर्मणो विधायिका अत एव चोदनायाः प्रवृत्तिः पूर्वम् । यतः पदार्थे विहिते सति पश्चात्स्मरणार्थो मन्त्रः प्रयुज्यते ॥८॥ अतः सममेवैतदिति प्राप्त आह— गुणानां तु भूयस्त्वात् ॥ १ । ५ । ९ ॥ तुशब्दः पूर्वपक्षनिरासार्थः । नैतदुभयं समम् । किन्तु मन्त्रपाठ एव बलीयान् । कुतः, मन्त्रेषु गुणानां भूयस्त्वात्, गुणानां बाहुल्यात्, यतः चोदनापाठापेक्षया मन्त्रेषु बह्वो गुणा विद्यन्ते । तद्यथा, कर्मकाले उच्चारणे पदार्थस्मारके यतो मन्त्राऽर्थवादादि कृतव्यवधानरहिताः क्रमेण पठ्यन्ते, तेनो- त्तरमुत्तरं पदार्थं झटिति स्मारयितुं शक्नुवन्ति, नैवं चोदनपाठः, विधेयार्थस्तावक- वाक्य

त्योपकारकाण्यङ्गानि सामान्यपूर्वं कर्तव्यानि। पूर्वः पूर्वः पदार्थः सर्वेषां समानः सदृशः कर्तव्यः । तद्यथा बहुषु हविःषु प्रथमं सर्वेषां विभस्मीकरणम्,ततः सर्वेषां पात्रीस्थापनम् ततः सर्वेषां तत्र व्यभिघारः,ततः सर्वेषां पात्रीषूपस्तारः, ततः सर्वे- षामुद्वासनम्, ततः ततः सर्वेषां कपालाञ्जनम् , ततः सर्वेषां कपालोद्वासनम् , सर्वेषां वेद्यामासादनम्, ततः सर्वेषामालम्भः, इत्येवं पदार्थांनु- समयः कर्तव्यः । यद्येकैकस्मिन्गुणकाण्डमप्रवृज्येत, तथा सति क्रमेण प्रयोगात् प्रयोगवाक्यावगतस्य साहित्यस्य साहित्यबाधः स्यात् । नहि वचनेनाविशेषतः साहित्यमवगम्यमानं काल्पिकेन प्रधानासत्तिमात्रेणारादुपकारविषयमात्रं कल्पयितुं शक्यते,तस्मात्पदार्थानुसमयः। कुतः? आनुपूर्व्ययोगाच्च,पदार्थानां तन्मन्त्राणां च,एवं क्रियमाणे पदार्था आनुपूर्व्येण अनुक्रमेण युज्यन्ते, तन्मन्त्राश्च, अन्यथोत्तरपदार्थ- करणानन्तरं पूर्वेषु क्रियमाणेषु आनुपूर्व्ययोगो न स्यात्।"पौर्णमास्यां पौर्णमास्या- यजेत" इत्यनेन वाक्येन पौर्णमासीशब्दबोध्यानां तत्सम्बन्धानां त्रयाणां यागानां साङ्गानामेककालप्रयोगोऽवगम्यते, अतो यस्मिन्नेव क्षणे एकस्याधिश्रयणं क- र्तव्यमापतति तस्मिन्नेवापरस्याधिश्रयणं कर्तव्यं सहशक्यतया केवलं न क्रियते द्वितीये तु क्षणे न कश्चिद्धेतुर्येन पुरोडाशान्तरं नाधिश्रियेत । अतः प्रथमं पदार्थं सर्वेषां कृत्वा ततो द्वितीयादिः पदार्थः सर्वेषां कर्तव्यः । एवं बहुषु प्रधानेषु सर्वत्र पदार्थानुसमय एवन्यायो न काण्डानुसमय इति स्थितम्, यत्र तु प्रधान- विरोधो भवति पदार्थानुसमये क्रियमाणे तत्र काण्डानुसमय एवेति । वाचनि- केन साहित्येन पदार्थानुसमयः प्राप्तोऽपि प्रधानविरोधात्त्यक्तव्यः । पुरोडाशाङ्गं ह्यधिश्रयणादयः, तदङ्गं च क्रमः पदार्थानुसमयरूपः, तदाश्रयणे च सुतप्तकपा- लसंयोगात्पुरोडाशशोषप्रसङ्गः, न चाङ्गानुरोधेन प्रधानबाधो युक्तः, तेनाति बहुषु हविःष्वेकैकस्य पुरोडाशस्याधिश्रयणं प्रथनमद्भिरभिमर्शनं चेत्यन्तं काण्डानु- समयः कार्यः । यत्र तु नास्ति प्रधानबाधः द्वित्रिचतुरादिहविःषु, तत्र भवतु प- दार्थानुसमयः। दाहसम्भवशङ्कायां तु उद्वासनमपि व्युत्क्रमेण कार्यम् । यदुक्तं पूर्वस्य पदार्थे कृते तस्मिन्नेव द्वितीयस्य क्रियमाणे पूर्वस्य व्यवधानमिति तत्स- हत्वविधिबलात् परिह्रियते । एवं च सति वाजपेये आग्नेयैन्द्राग्नसारस्वतीवशा- पृश्निसप्तसप्तदशप्राजापत्येषु द्वात्रिंशत्संख्येषु पशुष्वेकविंशत्या पदार्थैः समाना- समानजातीयैर्व्यवधानमिष्यते, न न्यूनाधिकैः, अन्ये त्वसमानजातीयैरेव ॥१०॥ अनेनैव मुख्यक्रममदृष्टिक्रमावुक्तौ भवतः । तथा हि यत्र बहूनि प्रधा-

नानि भवन्ति, तत्र यो मुख्यानां प्रधानानां क्रमस्तेनैव क्रमेण तदङ्गानां क्रमो भवति, यथा पौर्णमासेष्ट्यां प्रथमाग्नेयः यागः, ततोऽग्नीषोमीययागः। अत आ- ग्नेयस्य प्रथमं ग्रहणं ततोऽग्नीषोमीयस्य एवं प्रोक्षणादावपि, अयं मुख्यक्रमः, अनेन क्रमेण यद्यङ्गान्यनुष्ठीयन्ते, तदाङ्गानां नियता प्रधानप्रत्यासत्तिरनुगृहीता भवति, एवं ह्यङ्गप्रधानयोर्यावदनुज्ञातमेव व्यवधानं भवति। इतरथा तु पश्चाद्भा- विनः प्रधानस्य प्रथमाङ्गं क्रियमाणं प्रधानेनात्यन्तं व्यवहितं स्यात् ॥ अथ प्रवृत्तिक्रम उच्यते । यत्र बहूनि हवींषि भवन्ति समानदेवतानि । यथा वाजपेये पशवः। तत्र चोपाकरणप्रोक्षणादयः सन्निपातिनः प्रतिपश्वावर्तनीयाः, तेषां चावृत्तित्वेनैकस्य पशोः कात्स्न्येन कृत्वापरस्यापि तथैव क्रियन्त इत्येवम्। किं तर्हि सर्वेषामुपाकरणम् । यतः कुतश्चित्पशोरारभ्य कृत्वा ततः सर्वेषां नियोजनमित्यु- क्तम्। तत्र प्रथमे पदार्थे उपाकरणे अनियम एव। यतः कुतश्चित्पशोरारभ्य कर्तव्यः, द्वितीयश्च पदार्थो नियोजनरूपः। किं प्रथमो यत आरब्धः तत्रैवारम्भणीयः, उत तत्राप्यनियमः एवेति । तत्र क्रमनियमकारणानां श्रुत्यर्थपाठानामभावादनियमे प्राप्ते, उच्यते, प्रवृत्त्यैव नियमः, प्रथमः पदार्थो येन क्रमेण कृतः स एव क्रम उत्तरेष्वपि नियोजनादिषु नियम्यते । कुतः? पदार्थैः सह प्रधानं कर्तव्यमिति वचनात् । सर्वे पदार्थाः प्रधानकालान्न विप्रक्रष्टव्याः। कथं पदार्थैः सह प्रधानस्य वचनं यावता दर्शपूर्णमासाभ्यां यजेत प्रजापत्यैश्चरन्तीत्यादिषु प्रधानमात्रं श्रूयते। उच्यते, समीहितं भावयेद्यागेनेत्यमिति हि यजेतेत्यस्यार्थः । तत्र यस्यामेव- वेलायां स्वर्गो भवने कर्तृत्वं प्रतिपद्यते तस्मिन्क्षणे करणेतिकर्तव्यतेऽपि व्या- प्रियेते । अयमर्थः, नात्र प्रधानं कर्तव्यं श्रूयते, किन्तु प्रधानेन स्वर्गः कार्य इति करणविभक्तिनिर्देशाद्यागेनेष्टं कार्यमस्मिन्काले कुर्यादिति, तेन स्वकार्यं सेति- कर्तव्यताकेन कर्तुं शक्यते नान्यथा, तस्मात्त्रितयस्य फलकरणेतिकर्तव्यत्वस्य युगपद्यजेतेत्यनेन कर्तव्यतोच्यते, ततोऽन्यथाकरणेतिकर्तव्यतात्वमेव न स्यात् । न हि पश्चाद्भाविकरणं भवति, तथा भविष्यति, भाव्ये भूते च करणे असावेव- दोषः। न हि विनष्टं करणं भवतीति। तथा करणेतिकर्तव्यतयोरपि मिथो विप्रकर्षे अयमेव दोषः न हि विनष्टमनागतं वानुग्राहकं भवति तेन शब्दवस्तुभ्यामेक- कालस्तेषां त्रयाणाम् । ततः प्रधाने सेतिकर्तव्यताके एकस्मिन्क्षणे सह कर्तव्ये प्राप्ते सति एकः कर्ता बहूनि प्रधानानि इतिकर्तव्यतां वा असमर्थः कर्तुं यौग- पद्येनेत्यवश्यम्भावी कियानपि विप्रकर्षः, ईदृशेनापि विप्रकर्षेण सहैव पदार्थाः

देवयाज्ञिकभाष्यसमेतम् । ९३

कृता भवन्ति। प्रयोगवचनो हि यावतः पदार्थांननुष्ठापयति,तावद्भिरवर्जनीयतया- यावान्कालो व्याप्यते तावानेकः कालः, तावति च काले सर्वेषां कालो विधीयते न त्वेकस्मिन्क्षणे अशक्यार्थविधिप्रसङ्गात्, तेन प्रत्यासत्तिरेतेषां साहित्यं नैकक्षणवर्तित्वम्, यद्येवम्, प्रयोगवचनेनैव क्रमस्य सिद्धत्वात् श्रुत्यादिभिः किं क्रियते। अनियतक्रमानुष्ठानं प्राप्नोति, इति क्रमनियमे तेषां व्यापारः। यस्मा- त्प्रयोगविधिर्नैकक्षणवर्तित्वं विधत्ते प्रत्यासत्तिमात्रम्, तस्मात्प्रधानं चिकीर्षितम- नागतं कृतं वा तेषां प्रधानार्थानामनुष्ठापकम् , करिष्यमाणेन कृतेन वा प्रधानेन प्रत्यासत्तिमात्रमङ्गानां तत्साहित्यम् नैकक्षणवर्तित्वम् । तत्राग्न्यन्वाधानादीनां क- रिष्यमाणं प्रधानं निमित्तम्, स्विष्टकृदादीनां तु कृतम्, तेनैवमवश्यम्भाविनि वि- प्रकर्षे केचित्पदार्थाः क्षणव्यवहिताः प्रधानेनापेक्ष्यन्ते, केचिद्द्वाभ्यां क्षणाभ्यां व्यवहिताः केचिद्बहुभिरिति । एवं वाजपेयपशुष्वपि अग्न्यन्वाधानादिप्रागु- पाकरणात्साधारण्यं सर्वपशूनां सहानुभूतम्, उपाकरणादयोऽपि सन्निपत्योप- कारकास्तन्त्रेणाविभवादावर्तयितव्या अपि साहित्येनैव पशुभिरनुभवितव्याः । यद्येकस्योपाकरणम् तदैवेतरेषामपि । कुतः, सहचोदित्वात्पशूनां साङ्गानाम्, तत्रैवं सहानुभवितव्ये सति यस्य पशोः प्रथममुपाकरणं क्रियते तस्य प्राकृतेन पाठेन यद्यपि द्वितीयः पदार्थो नियोजनरूपः स्थाप्यते,तथापि सहवचनादेव एकविंशति- क्षणव्यवहितं द्वितीयं पदार्थमाकाङ्क्षति, द्वितीयस्तु पशुर्विंशत्योपाकरणक्षणैर्व्य- वहितमेकेन प्रथमस्य पशोर्नियोजनक्षणेन च व्यवहितं स्वीयं द्वितीयं पदार्थमाका- ङ्क्षति, एवं तृतीयादयोऽपि पशवः सजातीयविजातीयव्यवहितानात्मीयान्पदार्था- नपेक्षन्ते, अन्त्यस्तु विजातीयैः पूर्वोपाकृतानामेकविंशतेः पशूनां नियोजनक्षणै- र्व्यवहितमेव द्वितीयं पदार्थमपेक्षते, तदेवं सन्निपत्योपकारकानालोच्य ईदृशी एकविंशतिक्षणव्यवधानापेक्षा प्रधानानां भवति, ततश्च यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुं, तावद्भिर्व्यवधानमागत्यावश्यं कर्तव्यम्। अतोऽभ्यधिकैस्तु न व्यवधातव्यम् । यद्येकं पदार्थमेकस्य कृत्वा द्वितीयोऽपि पदार्थस्तस्यैव क्रियेत, ततः सहवचनं नोपपद्येत, एवं सर्वत्र तृतीयादिष्वपि पदार्थेषु योज्यम्। प्रथमपदार्थ- क्रम एव द्वितीयादिष्वपि समाश्रयितव्यः इतरथा केषां वचनं बहूनाप्यधिकैरपि- क्षणैर्व्यवहितानि स्युः।न च तद्युक्तम्। नन्वेवं केषांचिदल्पैर्व्यवधानं गुणो भवि- ष्यतीतिवाच्यम्, यथाधिकैर्व्यवधानेऽश्रुतकरणम्। एवं न्यूनैरपि व्यवधानेऽश्रुतक- रणमेव। तस्माद्द्वाविंशतेः पशूनां साहित्यसम्पत्तये प्रयोगविधिनायं क्रमः पदा- र्थानां मिथ एकविंशतिक्षणव्यवधानात्मकॊऽपेक्षितः । स न्यूनैरधिकैश्च व्यवधाने

९४ कात्यायनश्रौतसूत्रम् । बाध्येत । अतः सर्वेषां तुल्यप्रत्यासत्तिसिद्धये प्रथमपदार्थक्रम एव द्वितीयादिष्वा- श्रवणीय इति सिद्धम् । अत्राङ्गानां मिथः प्रत्यासत्तिर्नियामककारणम्। मुख्यक्रमे तु अङ्गानां प्रधानप्रत्यासत्तिरिति विशेषः ॥ मुख्यक्रमप्रवृत्तिक्रमयोर्विरोधे च मुख्यक्रमो बलीयान् । तद्यथा दर्शपूर्ण- मासयोः सान्नाय्यधर्माः शाखाच्छेदनादयः पूर्वं प्रवर्तन्ते पश्चादाग्नेयधर्माः, प्रदानं त्वाग्नेयस्य प्रथमम्, पश्चात्सान्नाय्यस्य, ततः स्विष्टकृदवदानं प्रयाजशेषाभिघारणं प्रागवदानं वेद्यामासादनादिकं च किं प्रवृत्तिक्रमात्सान्नाय्यस्य पूर्वं भवति, उत मुख्यक्रमादाग्नेयस्येति सन्देहादनियमे प्राप्ते, मुख्यक्रमो बलीया नित्युच्यते। अस्मिन्हि आश्रीयमाणे अल्पीयांसः प्रथमपदार्थाः प्रधानाद्विप्रकृष्यन्ते, अन्ये सर्वे सन्निकृष्टा भवन्ति। प्रवृत्तिक्रमे तु बहूनां विप्रकर्षः। पूर्वं तु मुख्यप्रवृत्तिभ्यां बली- यसा पाठक्रमेण मुख्यक्रमो बाध्यते, प्रागदानादिषु पाठक्रमाभावात्प्रवृत्तिक्रमो मुख्यक्रमेण बाध्यते ॥ अथ स्थानप्रमाणमुच्यते, साद्यस्के सह पशूनालभत इति [२२, ३, २८,] श्रूयते। साहित्यं च सवनीयस्य स्थाने, तत्र किमुपाकरणादौ अनियमः, अथवाग्नी- षोमीयस्य प्रथममुपाकरणम् अथवा सवनीयस्येति । तत्र नियमकारणाभावाद- नियमे प्राप्ते, प्रकृतिवद्वाग्नीषोमीयस्य प्राथम्ये प्राप्त उच्यते। सवनीयस्यैव प्रथममु- पाकरणम्, अग्नीषोमप्रणयनानन्तरं ह्यग्नीषोमीयस्य स्थापनम्, स तेनोपस्थितोऽपि सहालम्भवचनेन तस्मात्स्थानाच्चलितत्वादननुष्ठितोऽत्र तु न तस्य किञ्चिदुपस्था- पकमस्ति, सवनीयस्तु स्वस्थानादप्रचलितः सन्नाश्विनग्रहणादुपस्थितत्वात्तद- नन्तरमुपाक्रियते, ततः साहित्यवचनादितरोपाकरणम्, अतः सवनीयस्यैव प्राथ- म्यम्, इतरयोस्तु कथं क्रमः। अनियम एव तयोरुपस्थाने विशेषाभावात् । अथवा प्रकृतिदृष्टं पौर्वापर्यमस्ति। बाधेऽनुग्रहीतव्यमित्यग्नीषोमीयमुपाकृत्यान्वन्ध्योपा- करणमिति॥ तदेवं श्रुत्यर्थपठनस्थानमुख्यप्रवृत्तिसंज्ञानि षट् प्रमाणानि क्रमनियम- कारीण्युक्तानि । तेषां परस्परविरोधे च पूर्वं पूर्वं बलवदुत्तरमुत्तरं च दुर्बलमिति। तदुक्तम् श्रुत्यर्थपठनस्थानमुख्यासत्तिप्रवृत्तिभिः एकारख्यातगृहीतानां नियतः कर्मणां क्रमः, विरोधे परदौर्बल्यमेतेषामपि पूर्ववदिति ॥ अथेदं विचार्यते, दर्शपूर्णमासयोराग्नेयाग्नीषोमीयनिर्वापयोः पदार्थानु- समये स्थिते किमेकैकमुष्टिनुसमयः, उत चतुर्भिर्मुष्टिभिरिति। तत्र यद्येकैको

देवयाज्ञिकभाष्यसमेतम् । ९५

मुष्टिः पृथक्पृथक्पदार्थस्तत एकैकेनानुसमयः। अथ चतुर्मुष्टिनिर्वाप एकः पदार्थस्त- तश्चतुर्भिर्मुष्टिभिरिति। एवं कपालोपधाने किमेकैकेन कपालेनानुसमयः, उताष्टाभि- रेकादशभिश्चेति, तथा द्विरवद्यति [१,९,२,] द्विर्दक्षिणमनक्ति त्रिरुत्तरम् [७,२,३४,] इति वपने च दक्षिणोत्तरगोदाने [७,२,९,] पावने च त्रिः पावय- तीति किं प्राप्तम्, एकैकमुष्टिनेति । कुतः, एकमुष्टिनिर्वापो ह्येकः पदार्थः। न चतुर्मुष्टिनिर्वापः । कथम्, एकस्मिन्मुष्टौ निरुप्ते प्रयत्नः पर्यवसितो भवतीति न शक्यं वदितुं किंचिन्न निरुप्तमिति । न च निरुप्ते निर्वापो न कृतः स्यात् । न च मुष्टिमात्रेण निरुप्तेन न प्रयोजनम्। न ह्येकस्मिन्निरुप्ते चत्वारः सम्भवन्ति । मुष्टि- समानाधिकरणो हि चतुःशब्दः तस्मान्मुष्टिनानुसमयः कार्यः । एवं कपालान्यु- पदधातीति। तत्राप्येकैककपालेनानुसमयः कार्यः, एकैकेनावदानेन सांनाय्यसव- नीयादौ अक्ष्यञ्जने एकैकवाराञ्जनेन च वपने अनेकयजमानके एकैकगोदान- संस्कारणेन पावने वानेकयजमानक एव एकैकवारपावनेनेति । तदुक्तं जैमि- निना मुष्टिकपालावदानाभ्यञ्जनवपनपावनेषु चैकैकनेति ( ७, २, १, ) । एवं प्राप्त आह— ( चतुर्मुष्टिनिर्वापस्यैकपदार्थत्वं न मुष्टेः ) नैककर्मणि सम्बन्धात् ॥ १ । ५ । ११ ॥ एककर्मणि एकस्मिन्निर्वापकपालोपधानादिरूपे कर्मणि पदार्थे तदवयवेन एकैकमुष्टिना एकैककपालोपधानरूपेणानुसमयो न भवति, किन्तु चतुर्मुष्टिभिः अष्टाभिरेकादशभिश्च कपालैः, न ह्येकैको मुष्टिः पृथक् पदार्थः। किं तर्हि चतुर्मुष्टिनि- र्वाप एकः पदार्थः । कुतः ? सम्बन्धात् । चतुःशब्दस्य मुष्टीनां च निर्वापसम्ब- न्धात् । एवं च सह कर्मणानेकगुणविधानं न्याय्यम् । इतरथा चतुःसंख्याया मुष्टिसम्बन्धे मुष्टीनां च निर्वापसम्बन्धे सति वैरूप्यलक्षणो वाक्यभेदः प्रसज्येत। अनिर्वापाङ्गं च सङ्ख्या स्यात् । वैरूप्यं चैवम्, चतुरो मुष्टीन्निर्वपतीत्यत्र निर्वापं प्रतिमुष्टीनामुपादेयत्वं विधेयत्वमङ्गत्वं चेति त्रिकं सङ्ख्या प्रति च तेषामुद्देश्यत्वमनु- वाद्यत्वं चेति एतत्परस्परविरुद्धं त्रिकद्वयं मुष्टीनामापद्यते, तस्मात् सङ्ख्याया मुष्टीनां चोभयोर्निर्वपतिनैव सम्बन्धः, ये चत्वारस्ते मुष्टयः, ये मुष्टयः ते च- त्वार इति परस्परव्यवच्छेद्यव्यवच्छेदकभावोऽरुणैकहायनीन्यायेन द्रव्यस्य गुणा- वच्छेदकत्वेन गुणस्य च द्रव्यावच्छेदकत्वेनार्थाद्भवति न तु वाक्यात् । तेन वा- क्यभेदो न भवति। तस्माच्चतुर्मुष्टिनिर्वाप एकः पदार्थः, अङ्गपर्यायो हि पदार्थ-

९६ कात्यायनश्रौतसूत्रम् । शब्दः। तेनोभयोः प्रधानयोः सहानुष्ठानं तयोर्यदङ्गं तदेकस्य कृत्वापरस्य कर्तव्यम्। चतुरो मुष्टीन्निर्वपतीति शास्त्रान्नचतुर्मुष्टिनिर्वापोऽङ्गम्। स च पदार्थः। तदवयवैश्चैको मुष्टिः, न पदार्थः । न चावयवेनानुसमयः, किन्तु पदार्थेन । एवं कपालोपधा- नादिष्वपि। अष्टाकपालमेकादशकपालं निर्वपतीति निर्देशात्तावतामुपधानमेकैकः पदार्थः। द्विरवद्यति त्रिरभ्यनक्ति दक्षिणोत्तरगोदानवपने त्रिःपावयतीति च। एवं च संख्यादीनां क्रियाङ्गत्वं च भवति । तस्मात्समुदायेनानुसमय इति सिद्धम् ॥११॥ एवं सर्वत्र पदार्थानुसमये प्राप्ते क्वचित्तदपवादं काण्डानुसमयमाह— ( ग्रहणावदानयोः क्रमेण सादनप्रदानान्तत्वम् ) ग्रहणसादनावदानप्रदानेषु तु वचनात् ॥ १ । ५ । १२ ॥ सोमे ग्रहाणां ग्रहणे एक