काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
९८ काव्यमीमांसायाम् मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥” द्वितीयः— “तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् । शब्दविद्येव विद्यानां मध्ये जज्वल रुक्मिणी ॥” एवमन्यदपि यथासम्भवमभ्यूह्यम् । निगदितनयविपरीतं देशविरुद्धं वदन्ति विद्वांसः । तत्परिहार्यं यत्नात्तदुदाहृतयस्तु दोषेषु ॥ इत्थं देशविभागो मुद्रामात्रेण सूत्रितः सुधियाम् । यस्तु जिगीषत्यधिकं पश्यतु मद्भुवनकोशमसौ ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे देशविभागः सप्तदशोऽध्यायः ॥
अष्टादशोऽध्यायः कालविभागः । कालः काष्ठादिभेदभिन्नः । तथा चै¹— काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठाः कथिताः केलेति² । त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्तैस्त्रिंशता राज्यहनी समेते ॥ ते च चैत्राश्वयुजमासयोर्भवतः । चैत्रात्परं प्रतिमासं मौहूर्त्तिकी दिवसवृद्धिः निशाहानिश्च त्रिमास्याः; ततः परं मौहूर्त्तिकी निशा- वृद्धिः दिवसहानिश्च । आश्वयुजात्परतः पुनरेतदेव विपरीतम् । राशितो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं शिशिराद्युत्तरायणं द्व्ययनः संवत्सर इति सौरं मानम् । पञ्चद- शाहोरात्रः पक्षः । वर्द्धमान³सोमः शुक्लो, वर्द्धमानकृष्णिमा कृष्ण इति पित्र्यं मासमानम् । अमुना च वेदोदितः कृत्स्नोऽपि क्रिया- कल्पः । पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् । इदमार्यावर्त्तवासि- नः कवयश्च मानमाश्रिताः । एवं च द्वौ पक्षौ मासः । द्वौ मासा- वृत्तुः । षण्णामृतूनां परिवर्त्तः संवत्सरः । स च चैत्रादिरिति
१ V adds this line. २ V कला तु. ३ V सोमशुक्लिमा, वर्धमानसोमकृष्णिमा.
कविरहस्ये अष्टादशोऽध्यायः । ९९ दैवज्ञाः, श्रवणादिरिति लोकयात्राविदः । तत्र नभा नभस्यश्च वर्षाः, इष ऊर्जश्च शरत्, संहः सहस्यश्च हेमन्तः, तपस्तपस्यश्च शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः । तत्र “वर्षासु पूर्वो वायुः” इति कवयः। “पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता” इत्याचार्याः । ५ तदाहुः- “पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्” इति । तदाहुः- “प्रावृष्यम्भोभृताम्भोदभरनिर्भरमम्बरम् । कादम्बकुसुमामोदा वायवो वान्ति वारुणाः ॥” “वस्तुवृत्तितरतन्त्रं, कविसमयः प्रमाणम्” इति यायावरीयः । तदाहुः- “पौरस्त्यस्तोयदत्तोः पवन इव पतन्पावकस्येव धूमो १० विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः । सन्ध्यावृत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥” शरद्यनियतदिक्को वायुर्यथा- “उषःसु ववुराकृष्टजडावश्यायशीकराः । १५ शेफालीकलिकाकोशकषायामोदिनोऽनिलाः ॥” “हेमन्ते पाश्चात्यो वायुः” इत्येके । “उदीच्य” इत्यपरे । “उभयमपि” इति यायावरीयः । तयोः पाश्चात्यः- “भञ्जन्भूर्जद्रुमालीस्तुहिनगिरितटेपूद्गतास्त्वक्करालाः रेवाम्भःस्थूलवीचीचयचकितचलच्चातकान् व्याधुनानः । २० पाश्चात्यो वाति वेगाद्रुततुहिनशिलाशीकरासारवर्षी मातङ्गक्षुण्णसान्द्रस्रुतरसरलतरत्सारसारी समीरः ॥” उदीच्यः- “लम्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः चुम्बन्तश्चन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डाः । २५ एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाल्हवीनां कौतूतीकेलिकाराः परिचितहिमं वायवो वान्त्युदीच्याः ॥” १ V सहाः. २ V कदम्ब. ३ V B & V C विश्वस्येवादिमार्गः. ४ V A & V B सरत्सारसारी. ५ V B & V C चन्द्रभागां विवितसुमनसः कुङ्कुमान् कम्पयन्तः.
शिशिरेऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा। वसन्ते दक्षिणः। तदुक्तम्— “¹धुन्वँल्लङ्कावनालीर्मुहुरलकलता लासयन्केरलीना- मन्ध्रीधम्मिल्लबन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः। उद्दामं दाक्षिणात्यो म(मि)लितमलयजः सारथिर्मीनकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः॥” “अनियतदिक्को वायुर्ग्रीष्मे” इत्येके। नैर्ऋतः” इत्यपरे। “उभय- मपि” इति यायावरीयः। तत्र प्रथमः— “वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संगृह्णन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः। किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्॥” द्वितीयः— “सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तरभरेव धरा समग्रा। वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति॥” किञ्च— “³गर्भान्वलाकासु निवेशयन्तो वंशाङ्कुरान्स्वनिनदैः ²सृजन्तः। रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति॥ स सल्हकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलिकः। दग्धोर्वरासुन्दरगन्धबन्धुरर्धत्ययं वारिमुचामनेहा॥ वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति। पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि॥ चकोरहर्षी यतिषारचौरो वियोगिनीवीक्षितनाथवर्त्मा। गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाध्मातनभाः पयोदैः॥ या केलियात्रा ⁴कैँरिकामिनीभिर्या तुङ्गहर्म्याग्रविलासशय्या। चतुःसमं यन्मृगनाभिगर्भं सा वारिदत्तौः प्रथमातिथेयी॥ १ V चुम्बँल्लङ्का० २ V सूच. ३ V गर्भ. ४ V B & V C किल कामिनीभिः.
कविरहस्ये अष्टादशोऽध्यायः। १०१ चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः। शिखण्डिकुलताण्डवामुदितमण्डूकङ्काहयो वियोगिषु घनागमः सरविषं विषं मुञ्चति॥ दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो ५ धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः। कदम्बकलुषाम्बरः कलितकेतकीकोरक- श्चलन्निचुलसञ्चयो हरति हन्त घर्मात्ययः॥” वर्षाः॥ “द्राग्ग(क्त)र्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान्। १० शरत्स्रसमभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि॥ सा भाति पुष्पाणि निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु। शेफालिकासपलाशकाशभाण्डीरसौगन्धिकमालतीषु॥ सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति। कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता॥ १५ उपानयन्ती कलहंसयूथमगस्त्यदृष्ट्या पुनती पयांसि। मुक्तासु शुभ्रं दधती च गर्भं शरद्विचित्रैश्चरितैश्चकास्ति॥ क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः। शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान्॥ अभ्रावदातद्युति चन्द्रिकाम्बु नीलातभासं च नभः समन्तात्। २० ३सुरेभवथी दिवसावतारो ४जीर्णाभ्रखण्डानि च पाण्डुराणि॥ महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम्। दीपालिकायां विविधा बिलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः॥ व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही। भास्करः शरदि दीप्तदीधितिर्बुध्यते च सह माधवः सुरैः॥ २५ केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्हति पाकनीलम्। १ V B प्रोन्मादयन्ती. V C प्रोन्मोदयन्ती. २ V B & V C विशेषयन्ती. ३ V सुरे- भवीथी दिवि सावत्तारा. ४ V B & V C जीर्णाब्जखण्डानि.
१०० काव्यमीमांसायाम्
शिशिरेऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा। वसन्ते दक्षिणः। तदुक्तम्— "धुन्वंल्लङ्कावनालीर्मुहुरलकलता लास्यन्केरलीना- मन्ध्रीधम्मिल्लवन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः। उद्दामं दाक्षिणात्यो म(मि)लितमलयजः सारथिर्मोनकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः॥" "अनियतदिक्को वायुग्रीष्मे" इत्येके। नैर्ऋतः" इत्यपरे। "उभय- मपि" इति यायावरीयः। तत्र प्रथमः— "वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संशृण्वन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः। किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्॥" द्वितीयः—"सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तरभरेव धरा समग्रा। वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति॥"
"गर्भान्वलाकासु निवेशयन्तो वंशाङ्कुरान्स्वैर्निनादैः सृजन्तः। रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति॥ स सल्लकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः। दग्धोर्वरासुन्दरगन्धबन्धुर्धुर्यं वारिमुचामनेहा॥ वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति। पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि॥ चकोरहर्षी यतिषारचौरो वियोगिनीवीक्षितनाथवर्त्मा। गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाध्मातनभाः पयोदैः॥ या केलियात्रा कैरिकामिनीभिर्या तुङ्गहर्म्याग्रविलासशय्या। चतुःसमं यन्मृगनाभिगर्भ सा वारिदत्तौः प्रथमातिथेयी॥"
१ V चुम्बँल्लङ्का० २ V सूच. ३ V गर्भ. ४ V B & V C किल कामिनीभिः.
कविरहस्ये अष्टादशोऽध्यायः । १०१ चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः । शिखण्डिकुलताण्डवामुदितमद्गुकङ्काहयो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ॥ दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो ५ धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः । कदम्बकलुषाम्बरः कलितकेतकीकोरक- श्चलन्निचुलसञ्चयो हरति हन्त घर्मात्ययः ॥” वर्षाः ॥ “१द्राग्ग(क्त)र्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् । १० शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ॥ सा भाति पुष्पाणि २निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु । शेफालिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीषु ॥ सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति । कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ॥ १५ उपानयन्ती कलहंसयूथमगस्त्यदृष्ट्या पुनती पयांसि । मुक्तासु शुभ्रं दधती च गर्भं शरद्विचित्रैश्चरितैश्चकास्ति ॥ क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः । शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ॥ अभ्रावदातद्युति चन्द्रिकाम्बु नीलावभासं च नभः समन्तात् । २० ३सुरेभवथी दिवसावतारो ४जीर्णाभ्रखण्डानि च पाण्डुराणि ॥ महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम् । दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ॥ व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही । भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ॥ २५ केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्हति पाकनीलम् । १ V B प्रोन्मादयन्ती. V C प्रोन्मोदयन्ती. २ V B & V C विशेषयन्ती. ३ V सुरे- भवीथी दिवि सावदारा. ४ V B & V C जीर्णाब्जखण्डानि.
१०२ काव्यमीमांसायाम्
एर्वारुकं स्फुटननिर्गतगर्भ गन्ध- मम्लीभवन्ति च जरत्रपुसीफलानि ॥ गेहाजिरेषु नवशालिकणावपात- गन्धानुभावसुभगेषु कृषीवलानाम् । 5 आनन्दयन्ति मुसलोल्लसनावधूत- पाणिस्खलद्वलयपद्धतयो वधूट्यः ॥ तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव धर्मचिन्तां 10 कामी दरिद्र इव शोषमुपैति पङ्कम् ॥ नद्यो वहन्ति कुटिलक्रमयुक्तशुक्ति- रेखाङ्कबालपुलिनोदरसुप्तकूर्माः । अस्यां तरङ्गितनुतोयपलायमान- मीनानुसारिबकदत्तकरालफालाः ॥ 15 अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः । लुठत्कमठसैकतश्वलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥” शरत् ॥ 20 “द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु । पञ्चषफलिनीकुसुमो जयति हिमर्तुर्नवावतरः ॥ पुन्नागरोध्रप्रसवावतंसा वामभ्रुवः कञ्चुककुञ्चिताङ्ग्यः । वक्त्रोल्लसत्कुङ्कुमसिक्र्थकाङ्काः सुगन्धतैलाः कबरीर्वहन्ति ॥ यथा यथा पुष्यति शीतकालस्तुषारचूर्णोत्करकीर्णवातः । 25 तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥ वराहवघ्राणि नवौदनानि दधीनि सन्नद्धशराणि चात्र । सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥
पाद-टिप्पणी (Footnotes): १ V चित्तं. २ V मेघः. ३ V दन्त. ४ V सिक्तकाङ्काः. ५ B वर्ष्मा. A घ्राणि. ६ V ०रसानि.
रहस्ये अष्टादशोऽध्यायः । १०३ अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र खदतेऽन्नपानम् । सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तुहिनर्त्तवेऽस्मै ॥ विमुक्तबर्हा विमदा मयूराः प्ररूढगोधूमयवा च सीमा । व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥ सशमीधान्यपाकानि क्षेत्राण्यत्र जयन्ति च । त्रिशङ्कुतिलका रात्र्यः पच्यन्ते लवणानि च ॥ उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु । मन्दोद्योगा पत्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ॥ कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोप्याविरस्ति । कृष्णेक्षूणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीर्जायते चाप्यपूर्वा ॥ येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः । लीलावह्निर्निहुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेषं विदन्ति ॥” इति हेमन्तः । हेमन्तधर्मः(र्मा) शिशिरः । विशेषस्तु—“रात्रिर्विचित्रसुरतोचितयामदैर्घ्या चण्डो मरुद्वहति कुङ्कुमपङ्कसाध्यः । तल्पस्थितिर्द्विगुणतूलपटा किमन्य- दर्घन्ति चात्र विततागुरुधूपधूमाः ॥ आश्लेषिणः पृथुरतक्लमपीतशीत- मायामिनीं घनमुदो रजनीं युवानः । ऊर्वोर्मुहुर्वलनबन्धनसंधिलोल- पादान्तसंवलिततूलपटाः क्षपन्ति ॥ पानेऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र । नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः ॥ १ V हरन्ति च. २ B षाह. ३ V दीर्घा.
१०४ काव्यमीमांसायाम् पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि । सौभाग्यमेणतिलकाद्ब्रजतेऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥ ५ सिद्धार्थयष्टिषु यथोत्तरहीयमान- सन्तानभिन्नघनसूचिपरम्परासु । द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥ उदीच्यचण्डानिलताडितासु १० १सुलीनमीनासु जलस्य मूले । नालावशेषाब्जलतास्विदानीं विलासवापीषु न याति दृष्टिः ॥ माद्यन्मतङ्गः पृषतैकतोषी २पुष्यद्द्वराहो धृतिमल्लुलायः । १५ दरिद्रनिन्द्यः ३सधनैकवन्द्यः स एष कालः शिशिरः करालः ॥ अभिनववधूरोषस्वादुः करीषतनूनपा- दसरलजनाश्लेषक्रूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रखे- २० र्विरहिवनितावक्त्रौपम्यं बिभर्त्ति निशाकरः ॥ स्त्रियः प्रकृतिपित्तलाः क्वथितकुङ्कुमालेपनै- र्नितम्बफलकस्तनस्थलभुजोरुमूलादिभिः । इहाभिनवयौवनाः सकलरात्रिसंश्लेषितै- र्हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि ॥” २५ शिशिरः ॥ “चैत्रे मदद्धिः शुकसारिकाणां हारीतदात्यूहमधुव्रतानाम् । १ V निलीनमीनासु. २ V B & V C पुष्यद्दराहा. ३ V C सधनैकमन्यः.
कवि रहस्ये अष्टादशोऽध्यायः । १०५ पुंस्कोकिलानां सहकारबन्धुः मदस्य कालः पुनरेष एव ॥ मनोऽधिकं चात्र विलासलासैः प्रेङ्खासु दोलासु च सुन्दरीणाम् । गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ॥ पुंस्कोकिलः कूजति पञ्चमेन बलाद्विलासा युवतौ स्फुरन्ति । स्मरो वसन्तेऽत्र नवैः प्रसूनैः स्वचापयष्टेर्घटनां करोति ॥ पिनद्धमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते । स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ॥ अयं प्रसूनेाद्धुरकर्णिकारः पुष्पप्रपञ्चार्चितकाञ्चनारः । विजृम्भणाकोविदकोविदारः कालो विकाशोद्यतसिन्दुवारः ॥ रोहीतकास्रातककिङ्किराता मधूकमोचाः सह माधवीभिः । जयन्ति शोभाञ्जनकश्च शाखी सकेसरैः पुष्पभरैर्वसन्ते ॥ यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकिलाकलारुते कथने च लाभः । पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ॥ १. V रजतां. २ V शेखरः. ३ V रुतेः. १४
१०६ काव्यमीमांसायाम् नालिङ्गितः कुरबकस्तिलको न दृष्टो नो ताडितश्च चरणैः सुदृशामशोकः । सिक्तो न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥ चैत्रे चित्रौ रक्तनीलावशोकौ स्वर्णाशोकस्तत्तृतीयश्च पीतः । जैत्रं तन्त्रं तत्प्रसूनैर्नरेभ्यः चेतोयोनेः भूर्भुवःस्वस्त्रयेऽपि ॥ गूवाकानां नालिकेरद्रुमाणां हिन्तालानां पाटलीकिंशुकानाम् । खर्जूराणां ताडताडीतरूणां पुष्पापीडन्यासहेतुर्वसन्तः ॥ वसन्तः ॥ विकाशकारी नवमल्लिकानां दलच्छिरीषप्रसवाभिरामः । पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मोऽयमुल्लासितधातकीकः ॥ खर्जूरजम्बूपनसाग्रमोच- प्रियालपूगीफलनालिकेरैः । द्वन्द्वानि खेदालसताँमु(म)पास्य रतानुसन्धानमिहाद्रियन्ते ॥ स्रोतांस्यनम्भांसि सकूपकानि प्रपाः कठोरेऽहनि पान्थपूर्णाः । शुचौ सँमभ्यर्थि(र्धि)तसक्तुपाने प्रगे च सायं च वहन्ति मार्गाः ॥ यत्कायमानेषु दिनार्द्धनिद्रा यत्स्नानकेलिर्दिवसावसाने । १ V द्रुमाणां. २ V मालिकानां. ३ V ०मपास्य. ४ V समभ्यर्चितसक्तुधाने०.
कविरहस्ये अष्टादशोऽध्यायः । १०७
यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी ॥ या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला । या तालवृन्तैरुदबिन्दुवृष्टि- र्जलाञ्जलिं सा शुचये ददाति ॥ कर्पूरचूर्णं सहकारभङ्ग- स्ताम्बूलमार्द्रक्रमूकोपक्लृप्तम् । हाराश्च तारास्तनुवस्त्रमेत- न्महारहस्यं शिशिरक्रियायाः ॥ मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः । स्रजश्च मौलौ स्सि(सि)तचम्पकानां ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥” अत्र हि—“पच्यन्त इव भूतानि ताप्यन्त इव पांसवः । कथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ॥ ऐणाः स्थलीषु मृगतृष्णिकया हियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः । ताम्यत्तिमीनि च सरांसि जलस्य शोषा- दुद्धारघट्टघटिकावलयाश्च कूपाः ॥ करभाः शरभाः सरासभा मदमायान्ति भजन्ति विक्रियाम् । करवीरकरीरपुष्पिणीः स्थलभूमिरधिरुह्य चासते ॥ सहकाररसार्चिता रसाला जलभक्तं फलपानकानि मन्थाः ।
१ V चूर्णः. २ V एण्यः. ३ A ०दुद्धारघट०.
१०८ काव्यमीमांसायाम्
मृगलावरसाः शृतं च दुग्धं सरसञ्जीवनमौषधं निदाघे ॥ जडचन्दनचारुवस्तरुण्यः सजलार्द्राः सहतारहारमालाः । कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे ॥ ग्रीष्मे चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सैरिभाः सेभकोलाः । लोलजिह्वाः सर्पसारङ्गवर्गा मूलस्रस्तैः पत्रिणश्चांसदेशैः ॥ हर्म्यं रम्यं चन्द्रिकाधौतपृष्ठं कान्तोच्छिष्टा वारुणी वारिमिश्रा । मालाः कण्ठे पाटलामल्लिकानां सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ॥ ग्रीष्मः ॥ चतुरवस्थश्च ऋतुरुपनिबन्धनीयः। तद्यथा—सन्धिः, शैशवं, प्रौ- ढिः, अनुवृत्तिश्च। ऋतुद्वयमध्यं सन्धिः। शिशिरवसन्तसन्धिर्यथा— “च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं गृह्णन्तीमे गिरन्ति न कोकिलाः। अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥” वसन्तशैशवम्— “गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥”
१ V सर्वसारङ्ग०. २ V किरन्ति.
कविरहस्ये अष्टादशोऽध्यायः । १०९ वसन्तप्रौढिः— “साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माञ्जिष्ठधौतातपात् । हूनीनां कुरुते मधूकमुकुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम् ॥” अतिक्रान्तर्तुलिङ्गं यत्कुसुमाद्यनुवर्त्तते । लिङ्गानुवृत्तिं तामाहुः सा ज्ञेया काव्यलोकतः ॥ वर्षासु ग्रीष्मलिङ्गाब्जविकासानुवृत्तिः । यथा—“खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चां पारयतीव दर्दुरकुलं कोलाहलैरून्मदम् । गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥” एवमन्येऽपि । किञ्च—ग्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके । जलधरसमयप्राप्तौ स एव धाराकदम्बः स्यात् ॥ यथा— “धूलीकदम्बपरिधूसरदिङ्मुखस्य रक्तच्छटासुरशरासनमण्डनस्य । दीप्तायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समरवारिधरागमस्य ॥” जलसमयजायमानां जातिं यां काईमीति निगदन्ति । सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवति ॥ यथा—“स्थूलावश्यायबिन्दुद्यु(द्रु)तिदलितबृहत्कोरकग्रन्थिभाजो जात्या जालं लतानां जरठपरिमलप्लावितानां जजृम्भे । नानाहंसोपधानं सपदि जलनिधेश्चोत्ससर्पापरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्कमूर्तेः ॥ स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति । १ V कर्दमेन जनयन्ति. २ CB ॰मुक्तोपधानं.
११२ अष्टादशोऽध्यायः। लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि । आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ॥ पनसादि बहुव्याजं नीलकपित्थादि भवति निर्व्याजम् । सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ॥ एकद्वित्र्यादिभेदेन सामस्त्येनाथवा ऋतून् । प्रबन्धेषु निबध्नीयात्क्रमेण व्युत्क्रमेण वा ॥ न च व्युत्क्रमदोषोऽस्ति कवेरर्थपथस्पृशः । तथा कथा कापि भवेद् व्युत्क्रमो भूषणं यथा ॥ अनुसन्धानशून्यस्य भूषणं दूषणायते । सावधानस्य च कवेर्दूषणं भूषणायते ॥ इति कालविभागस्य दर्शिता वृत्तिरीदृशी । कवेरिह महान्मोह इह सिद्धो महाकविः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे कालविभागो नाम अष्टादशोऽध्यायः ॥ समाप्तमिदं प्रथममधिकरणं कविरहस्यं काव्यमीमांसायाम् ॥ १ V कपिच्छादि.
EXPLANATORY NOTES. Notes enclosed within square brackets [ ] belong to preveious Editions. Page 1
- [ l. 1. अथातः काव्यं मीमांसिष्यामहे. Hemacandra has named his work on Nyāya as प्रमाणमीमांसा. The first sūtra of his work is “अथ प्रमाणमीमांसा”. For the propriety of the words अथ and मीमांसा cf. Hemacandra’s vṛtti on the same. “अथेत्यस्याधिकारार्थत्वाच्छास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य प्रमाणस्याभिधानात्सकल- शास्त्रतात्पर्यव्याख्यानेन प्रेक्षावन्तो बोधिताः प्रवर्तिताश्च भवन्ति । आनन्तर्यार्थो वाऽथशब्दः । शब्द- काव्यच्छन्दोनुशासनेभ्योऽनन्तरं प्रमाणं मीमांस्यत इत्यर्थः । अनेन शब्दानुशासनादिभिरस्यैककर्तृ- कत्वमाह । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानकुसुमदामजलकुम्भादेर्दर्शनमिव श्रवणं मङ्गलायापि कल्पत इति । मङ्गले च सति परिपन्थिविघ्नविघातादक्षेपेण शास्त्रसिद्धिरायुष्मच्छ्रोतृकता च भवति । परमेष्ठिनमस्कारादिकं तु मङ्गलं कृतमपि न निवेशितं लाघवार्थिना शास्त्रकारेणेति । प्रकर्षेण संशयादिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्प्रमाणम् । प्रमायां साधक- तमम् । तस्य मीमांसोद्देशादिरूपेण पर्यालोचनम् । त्रयी हि शास्त्रस्य प्रवृत्तिरुद्देशो लक्षणं परीक्षा च । तत्र नामधेयमात्रकीर्तनमुद्देशः यथेदमेव सूत्रम् । उद्दिष्टस्यासाधारणधर्मवचनं लक्षणम् । तद्द्वेधा सामान्यलक्षणं विशेषलक्षणं च । सामान्यलक्षणमनन्तरमेव सूत्रम् । विशेषलक्षणं विशदः प्रत्यक्षमिति । विभागस्तु विशेषलक्षणस्यैवाङ्गमिति न पृथगुच्यते । लक्षितस्येदमित्थं भवति नेत्थमिति न्यायतः परीक्षणं परीक्षा यथा तृतीयसूत्रम् । पूजितविचारवचनश्च मीमांसाशब्दस्तेन न प्रमाणमात्रस्यैव विचारोऽत्राधिकृतः । किन्तु तदेकदेशभूतानां दुर्नयनिराकरणद्वारेण परिशोधितमार्गाणां नयानामपि । “प्रमाणनयैरधिगमः” इति हि वाचकमुख्यः । सकलपुरुषार्थेषु मूर्धाभिषिक्तस्य सोपायस्य सप्रतिपक्षस्य मोक्षस्य च । एवं हि पूजितो विचारो भवति । प्रमाणमात्रविचारस्तु प्रतिपक्षनिराकरणपर्यवसायी वाक्छलमात्रं स्यात् । तद्विवक्षायां तु अथ प्रमाणपरीक्षेत्येव क्रियेत । तत् स्थितमेतत् प्रमाणनयपरिशोधितप्रमेयमार्गं सोपायं सप्रतिपक्षमोक्षं विवक्षितुं मीमांसाग्रहणमकार्याचार्येणेति ॥ १ ॥” For अथातः cf. also “अथातो ब्रह्मजिज्ञासा” ब्र. सू. 1-1-1 and the Bhāṣya. ] l. 1. अथातः । Generally original writers in the sūtra style begin their treatises with the words either अथातः or अथ. Āpastamba, Kaṇāda, Jaimini and Bādarāyaṇa in their respective sūtra works use the words अथातः in the beginning, while Patañjali begins with अथ in his works on Yoga and Grammar. Eminent Bhāṣyakāras such as S'abarasvāmin, S'aṅkarācārya and Patañjali interpret the word अथ generally in two senses, i. e. आनन्तर्य and अधिकार. आनन्तर्य is meant when अथ is followed by the word अतः and in all other cases अधिकार. Others believe that the words अथातः joined together in the beginning of a work, mean nothing but आनन्तर्य. This view, held १५
114 EXPLANATORY NOTES by Bhavadāsa and other Vṛttikāras on Jaimini earlier than S'abara (cir. 500 A. D.), has been cited and refuted in the S'lokavārttika by Kumārila (see Kārikās 1. 33, 34, 63). Prabhākarabhaṭṭa also, while commenting on S'abarasvāmin introduces this view of Bhavadāsa and refutes it in his work entitled the Bṛhatī, saying: 'लोके' इत्यादिभाष्यस्याथातः शब्दस्यालौकिकार्थाशङ्का- निवृत्तिः प्रयोजनम् । (1. 1. 1.) Some Vṛttikāras, such as Rudradatta and others while commenting on the first sūtra अथातो दर्शपूर्णमासौ व्याख्यास्यामः of the Āpastambaśrauta, take the two words अथातः to mean only आनन्तर्य following Bhavadāsa. S'abarasvāmin, however, refutes this view of Bhavadāsa with care and establishes the meanings of आनन्तर्य for अथ and हेतुभाव for the word अतः in the sūtra अथातो धर्मजिज्ञासा of Jaimini. Other commentators such as Dhūrtasvāmin, S'aṅkara- miśra and others, in their works on Āpastamba and Kaṇāda, take the word अथ to indicate 'Maṅgala'. But S'aṅkarācārya in his Bhāṣya on Bādarāyaṇa sūtra disapproves of this and takes अथ to mean only आनन्तर्य, saying: अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति । For other meanings of the word अथ reference may be made to the verses:— मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ । (Amarakośa 3. 246.) and ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ Rājaśekhara also begins his work with the words अथातः and this shows that he intends to write his Kāvyamīmāṁsā in the sūtra style. Here अथ cannot mean अधिकार because of the finite verb मीमांसिष्यामहे, as also because it is followed by the word अतः. आनन्तर्य alone, therefore, is better fitted here than अधिकार and हेतुभाव for the word अतः। आनन्तर्य obviously connects two events and, therefore, requires a previous event after which the Kāvya- mīmāṁsā may be composed by him. What then is that event after which Rājaśekhara composed the Kāvyamīmāṁsā? The previous event or circumstance in this case can only be suggested as the author himself did not mention it. Many circumstances such as शिष्यप्रश्न, देवताराधन, रसायनादिक्रिया, गुरुपर्वक्रम, etc. are suggested by the commentators of the sūtras of Kaṇāda, Āpastamba and others after which, they thought the work was composed by their respective authors.
FIRST ADHYĀYA 115 It may be suggested here that गुरुपर्वक्रम is to be taken as the previous event required by the word अथ, as Rājaśekhara himself enumerates the teachers of the Kāvyamīmāṁsā in the sentence beginning with यथोपदिदेश श्रीकण्ठः, etc. In this case, therefore, the word अथ suggests that Rājaśekhara composed the Kāvyamīmāṁsā after having been taught by his own Guru who was the last in the list of teachers beginning with Śrīkaṇṭha. This is what is called गुरुपर्वक्रम. A suggestion of this kind is also made by Kumārilabhaṭṭa while explaining the word अथ in the sūtra अथातो धर्मजिज्ञासा of Jaimini, and subsequently, the same is rejected by him on the ground that the knowledge of this गुरुपर्वक्रम does not help the reader in any way, and that the list of teachers also cannot be taken as entirely accurate. In this connection Pārthasārathi's commentary on Kumārila is noteworthy :— “पर्वे अवच्छेदः । गुरुपर्वेणां क्रमः गुरुपर्वक्रमः । तद्यथा ‘ब्रह्मा प्रजापतये मीमांसां प्रोवाच । सोऽपीन्द्राय । सोऽप्यादित्याय । स च वसिष्ठाय । सोऽपि पराशराय । पराशरः कृष्णद्वैपायनाय । सोऽपि जैमिनये । स च स्वोपदेशानन्तरमिमं न्यायं ग्रन्थे निबद्धवान्’ इति । सोऽयमेवंविधः संबन्धो निष्फलो निर्हेतुकश्च । नह्यस्मिन् संबन्धे किंचित्प्रमाणमस्ति’ । इति । (Nyāyaratnākara, p. 8). It is necessary, therefore, to find out a reasonable circum- stance which may have preceded the composition of the Kāvya- mīmāṁsā. That circumstance seems to be the composition of other earlier Kāvyas. Here the word अथ seems to indicate that after composing the Kāvyas and Nāṭakas, the author begins composing the Kāvyamīmāṁsā. It is easy now to understand the meaning of the word अतः. This word indicates वृत्तस्य हेतुभाव. Here वृत्त is काव्यनाटककरण. This is the exact event that precedes the composition of the Kāvyamīmāṁsā. To explain the necessities of a poet and the method of composition which are treated of in the Kāvyamīmāṁsā, a writer should first gain experience as a poet and compose several works on different subjects. The words अथ and अतः, therefore, indicate as follows :— अथ=बालरामायणहरविलासादिदृश्यश्रव्यकाव्यकरणानन्तरम् । अतः=काव्यविचारात्मकमीमांसाशास्त्रस्य काव्यकरणानन्तरमेव सुकरत्वाद्धेतोः । The word अतः can, however, be explained from a different stand- point. This word being derived from a सर्वनाम, is used here to mean the desired object (बुद्धिस्थपरामर्शी). In that case अतः means श्रीकण्ठमारभ्य प्रवृत्तस्य काव्यमीमांसाशास्त्रस्योच्छिन्नत्वाद्धेतोः । Therefore, the construc-
116 EXPLANATORY NOTES tion of the further text from यथोपदिदेश to the end of the sentence इत्थङ्कारं च प्रकीर्णत्वात् (P. 1. l. 14.) with this प्रतिज्ञावाक्य appears quite logical and coherent. l. 1. काव्यम्। This word denotes the purpose of this Mīmāṁsā- śāstra. It is necessary that in the beginning of every work or śāstra the result obtained from such work or śāstra should be stated in order that those who read may readily be interested in it. This practice is observed by all Sūtrakāras. Kumārilabhaṭṭa explains this in the following Kārikā :- सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्। यावत्प्रयोजनं नोक्तं तावत्तत् केन गृह्यते ॥ (S'lokavārttika I. 12.) l. 1. मीमांसिष्यामहे। This verb also indicates that Rājaśekhara wrote his work in the sūtra style in the same way as other S'rauta, Gṛhya and Dharmasūtras were written. Basing on one of the two roots माङ् or मान, सन् प्रत्यय takes place according to the rule of Pāṇini 3-1-6. and the meaning of the word मीमांसा is to be taken as पूजितविचार. The result obtained from this Mīmāṁsā is काव्यविद्यासिद्धि, just as धर्मज्ञान and ब्रह्मज्ञान are obtained from the पूर्वोत्तरमीमांसा। l. 1. श्रीकण्ठः etc. Here Rājaśekhara intends to record the गुरुपरम्परा of this Mīmāṁsāśāstra in order to impress that he is not the sole originator of this S'āstra, as also to show the reason why he had to compose this work while the Science had already been well-established by his predecessors. S'rīkaṇṭha and Brahman are considered by the author as the originators of this Mīmāṁsāśāstra in the same way as Pāṇini and Kaṇāda are said to have obtained the knowledge of their śāstras from Mahādeva, or as Dharma- mīmāṁsā and Bharata's Nāṭyaśāstra are said to have originated from Brahman. l. 1. परमेष्ठि. S'rīkaṇṭha delivered lectures on Kāvyamīmāṁsā or criticisms on Kāvyas to his 64 students headed by Brahman and he, the self-born, also taught the same to his disciples who were born from his mind. These disciples are the sages Bhṛgu and others according to the Vāyupurāṇa (Adh. 65.) and the same statement is made by Rājaśekhara following the same Purāṇa on p. 28. l. 14 of the Kāvyamīmāṁsā.
- [ l. 2. चतुःषष्टये शिष्येभ्यः। Cf. ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुः- षष्टाबुद्धिदं वचः पारमेश्वरम्। (Kāvyamīmāṁsā p. 29 ) ]
FIRST ADHYĀYA 117 l. 2. चतुःषष्टये। Here the number 64 is exceedingly interesting. The Pāñcālas used the number 64 in their classifications. Ṛgveda has been divided into 64 Adhyāyas comprising 8 Aṣṭakas of 8 Adhyāyas each. Vātsyāyana in his Kāmasūtra mentions 64 Upavidyās of his own and 64 Kalās of the Pāñcālas and divides the whole s'āstra into 64 Prakaraṇas (V. S. 1. 3. 14-17 and 2. 2. 3-4) Bharata in his Nāṭyaśāstra enumerates 64 Nāṭyāṅgās and S'āradā- tanaya divides countries in the Bhāratavarṣa into 64 in his Bhāvaprakāśana. It seems to be a remnant of an old custom to divide a subject into eight just as Pāṇini did in his Aṣṭādhyāyī. In giving the number 64 to the disciples of S'rīkaṇṭha, it appears that Rājaśekhara also followed the same tradition. His eight kinds of poets and 32 kinds of Kāvyārthaharaṇas or plagiarisms (p. 65) also show his leaning towards the same tradition. l. 3. सारस्वतेयः etc. The story of Sārasvateya—Kāvyapuruṣa, as one of the originators of the Kāvyamīmāṁsā, seems to have been borrowed by Rājaśekhara from the Harṣacarita of Bāṇa. Bāṇa, in his auto-biography found a Sārasvateya the son of Sarasvatī and Dadhīca Bhārgava, through whom Vatsa, the first male representative of his family, got the knowledge of all sciences and the Vedas. The origin of this story of Sārasvateya is traceable in many Purāṇas. But they differ from one another in many respects. Bāṇa and Rājaśekhara seem to have mainly followed the Vāyu- purāṇa for this idea of Sārasvateya as the version preserved in this Purāṇa agrees mainly with that given in their works. The special leaning of Rājaśekhara towards the Vāyupurāṇa is also demonstrated by his references to that Purāṇa later on on page 28 l. 12. According to the Vāyupurāṇa Bhṛgu or Kavi, the first son of Brahman, had Cyavana as his son through Paulomī, and this Cyavana also had two sons Dadhīca and Ātmavāna through Sukanyā. Dadhīca married Sarasvatī and got a Sārasvateya as his son who was learned in all S'āstras through the blessings of his mother, but was childless. Ātmavāna, the brother of Dadhīca, on the other hand, got the sons Aurva and others and through them the family of Bhṛgu expanded. In this family was born Vatsa the Mūlapuruṣa of the Vātsyāyana Gotra to which Bāṇa also belonged (vide, Vāyu. Adh. 65). Bāṇa followed the same succession list as found in the Vāyupurāṇa in the 1st chap-