भारतकोश
संग्रह पर लौटें

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

( १८४ ) HINDI TRANSLATION —चतुष्कोण आंगन अथवा कमरों में (बिखरे) फूलों पर पड़ने वाले तुम्हारे पैरों के लाक्षारस के चिह्नों को बनाने वाले पदचिह्नों के (मुर्दों के) बालों से युक्त श्मशान- भूमि में पड़ने की अनुमति कौन सा शत्रु भी दे सकता है ? ॥ ६८ ॥ ENGLISH TRANSLATION —Who, even an enemy, would consent the foot-prints, leaving marks of red dye, of thy feet treading upon groups of flowers (scattered in quadrangular courtyard, being placed upon cemetery grounds spread over with the hair ? 68 PURPORT IN SANSKRIT —हे गौरि त्वं स्वपितुर्गृहे पुष्पा- स्तृतेषु प्राङ्गणादिषु भागेषु चलसि शिवश्च श्मशानवासी। तस्माद्वि- वाहानन्तरं तस्य वासस्थानं गत्वा लाक्षारसयुक्ताभ्यां पादाभ्यां मृतपुरुषाणां केशादिभिः संकृन्नासु श्मशानभूमिषु ते सञ्चलनं कश्चिच्छत्रुरपि नानुज्ञास्यति मित्रस्य तु का कथा ? न त्वं श्मशान- वासयोग्या, तत्र ते वासः शत्रूणामपि दुःखकारकः ॥ ६८ ॥ अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ ६९ ॥ अयुक्तेति । त्रिनेत्रवक्षः त्र्यम्बकालिङ्गनमित्यर्थः । तव तत्सम्ब- न्धितया सुलभं अपि सुप्रापं च । भवतीति शेषः । तवेति शेषे षष्ठी । ‘न लोकाव्यय०—’ इत्यादिना कृद्योगलक्षणाषष्ठ्या निषेधात् । अतः पर अस्मात्त्रिनेत्रवक्षोलाभादन्यद् अयुक्तरूपं अत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । ‘प्रशंसायां रूपम्’ इति रूपप्प्रत्ययः । कुतः । यत्

( १८५ ) यस्मात्कारणात् हरिचन्दनास्पदे हरिचन्दनस्यास्पदे स्थानभूते अस्मिन् स्तनद्वये चिताभस्मरजः चिताभस्म श्मशानभस्म तदेव रजश्चूर्णम् । कर्तृ । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य भस्माङ्गरागादिति भावः ॥ ६६ ॥ PROSE ORDER :—( त्वमेव ) वद अतः परं अयुक्तरूपं किं यत् त्रिनेत्रवक्षः सुलभं चिताभस्मरजः तव अपि हरिचन्दनास्पदे अस्मिन् स्तनद्वये पदं करिष्यति ? ॥ ६६ ॥ NOTES :—अतः परम् more than this अयुक्तरूपं—अति- शयेन युक्तं युक्तरूपम्, तन्न भवतीति अयुक्तरूपम् ( न+युक्त+ रूपप् ) अत्यन्तमनुचितम् or, न युक्तं अयुक्तं, प्रशस्तं अयुक्तं अयुक्त- रूपम् excessively unfit · unsuitable. रूपम् is added in the sense of प्रशंसा ( praise or excessiveness of something ) by ' प्रशंसायां रूपम् ' पा० ५.३.६६ । Here it expresses excessiveness of unsuitableness त्रिनेत्रवक्षःसुलभम्—त्रीणि नेत्राणि यस्य सः त्रिनेत्र (शिवः) तस्य वक्षः त्रिनेत्रवक्षः, तत्र सुलभं त्रिनेत्रवक्षःसुलभम् which is easily found on the bosom of the three-eyed God ( i e, Shiva ) or, which is easy to be obtained from the bosom of the three-eyed God. It is an Adj. of चिताभस्मरजः । The न of त्रिनेत्र is not changed to ण because it is included in the group known as क्षुम्नादि—'क्षुम्नादिषु च' पा० ८.४ ३९ । Mallinátha has construed it in a different way, viz, त्रिनेत्रवक्षः तव अपि सुलभं अतः परं अयुक्तरूपं किम् ? What can be more unsuitable than that the ( embrace of the ) bosom of the three-eyed God be easily obtainable for you. In this case त्रिनेत्रवक्षः is separated from सुलभं while in

( १८६ ) the former the whole त्रिनेत्रवक्षःसुलभं is one compound चिताभस्मरजः—चितायाः भस्म एव रज the ashes of the funeral pyres (which are applied to his body by Shiva) Cf आलेपो भसितं quoted in notes on verse 65 हरिचन्दनास्पदे—हरे. विष्णोरिन्द्रस्य वा चन्दनं हरिचन्दनं, तस्य आस्पदं तस्मिन् हरिचन्दनास्पदे a place for sandal-wood paste. ‘हरिचन्दनमस्त्री स्यात् त्रिदशानां महीरुहे । नपुंसकं तु गोशीर्षे ज्योत्स्नाकुङ्कुमयोरपि' इति मेदिनी । स्तनद्वये—स्तनयोः (कुचयोः) द्वयं (युगलं) स्तनद्वयं, तस्मिन् on your breasts पद— स्थानं place According to Mallinátha the latter half of the verse is to be construed as—यत् हरिचन्दनास्पदे अस्मिन् स्तनद्वये चिताभस्मरजः पदं करिष्यति i e, because the powder of the ashes of funeral pyres will make its abode in the pair of your breasts which have hitherto been a place for sandal-wood paste Though the construction is different the sense remains the same 69. CHANGE OF VOICE :—(त्वयैव) उच्यतां, अतः परं अयुक्त- रूपं किम् यत् त्रिनेत्रवक्षः सुलभेन चिताभस्मरजसा तव अपि हरिचन्दनास्पदे अस्मिन् स्तनद्वये पदं करिष्यते ॥ ६६ ॥ HINDI TRANSLATION :—(तुम ही) बताओ, इससे बढ़- कर और अनुचित क्या हो सकता है कि तीन नेत्रों वाले (शिव जी) की छाती पर लगी हुई चिता की राख तुम्हारे भी इन दोनों स्तनों पर, जो कि चन्दन के स्थान हैं, जगह बना लेगी ॥ ६६ ॥ ENGLISH TRANSLATION —Say, what can be more improper than that the powder of the ashes of the

( १८७ ) funeral pyres, easy to be obtained from the bosom of the three-eyed God, will make its home on the pair of thy breasts which have been a place for sandal paste 69 PURPORT IN SANSKRIT :—हे पार्वति ! महादेवः स्वशरीरे चितायाः भस्म लिम्पति । तस्मात् समागमकाले यदा स त्वामा- लिङ्गिष्यति तदा चन्दनलेपयोग्यं ते वक्षो भस्मयुक्तं भविष्यति, यद्धि नितरामनुचितं प्रतिभाति ॥ ६९ ॥ इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ ७० ॥ इयमिति । इयं च ते तव पुरतः आदावेव अन्या विडम्बना । परिहास इत्यर्थः । का सेत्यत्राह—ऊढया परिणीतया । वहेः कर्मणि क्तः । वारणराजहार्यया त्वया अधिष्ठितं आरूढं वृद्धं उक्षाणं वृद्धा- क्षम् । ‘अचतुर’—इत्यादिना निपातः । विलोक्य महाजनः साधु- जनः स्मेरमुखः स्मितमुखः भविष्यति उपहसिष्यति यत् । इयमिति पूर्वेण सम्बन्धः । स्मेरेति ‘नमिकम्पिस्म्यज०’—इत्यादिना रप्रत्ययः ॥ ७० ॥ PROSE ORDER :—(किं) च पुरतः इयं अन्या ते विडम्बना यद् ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनः स्मेरमुखः भविष्यति ॥ ७० ॥ NOTES :—पुरतः—सर्वस्मात् पूर्वमेव first of all, i. e., before you go to the house of Shiva and live with him It is an indeclinable formed by adding तस् to

( १८८ )

धुर । विडम्बना—( वि + √डम्ब् to throw + युच् - अन + आ ) हास्यकारणं matter for laughing ; disgrace ऊढया— ( √वह् to carry + क्तः + आ = ऊढा ) कृतविवाहया by her who had been married. Passive past part of √वह् in the sense of ‘to marry.’ Adj of त्वया । वारणराज- हार्यया—वारणानां (हस्तीनां) राजा वारणराज , तेन हर्तुं (नेतुं) योग्या वारणराजहार्या, तया fit to be borne by the lord of elephants. Because she was a princess. In वारण- राज, राजन् is made राज by adding टच् to it by ‘ राजाहः- सखिभ्यष्टच् ’ पा० ५.४.९१. i. e., the words राजन्, अहन् and सखि, when at the end of a Tatpurusha, drop the final vowel together with the following consonant, if there be any, and add अ. The compound then is declined like the words ending in अ. हार्यया—Instru- mental sing. of हार्या—√हृ + ण्यत् fit to be borne. अधि- ष्ठितं—( अधि + √स्था + क्त ) आरूढं ridden by ; occupied by वृद्धोक्षम्—वृद्धं उक्षं वृद्धोक्षं or वृद्धश्चासौ उक्षा ( वृषभः ) च वृद्धोक्षः, तं an old bull. The reference is to the bull of Shiva. The word उक्षन् ( a bull ) is changed to उक्ष at the end of a Karmadháraya compound by adding अ to it by ‘ अचतुर०...जातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ’ पा० ५.४.७७. महाजनः—महांश्चासौ जनः महाजनः ( सभ्य लोकः ) great men. It gives the idea of many as well as of great or respectable. स्मेरमुखः । स्मेर—( √स्मि to smile + र ) स्मयते इति स्मेरः smiling. र is added by ‘ नमिकम्पिस्म्यजसकमहिंसदीपो रः ’ पा० ३.२.१६७. स्मे˙

( १८६ ) ( मन्दहासयुक्तं ) मुखं यस्य स स्मेरमुखः with smiling coun- tenance 70 CHANGE OF VOICE :-(कि) च पुरतः अनया अन्यया ते विडम्बनया (भूयते) यद् ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनेन स्मेरमुखेन भवि- ष्यते ॥ ७० ॥ HINDI TRANSLATION :—सबसे पहिले यह तुम्हारी और दूसरी हँसी होगी कि श्रेष्ठ हाथी पर चढ़ने योग्य, विवाहित तुमको (शिवजी के) बुड्ढे बैल पर बैठे देखकर बड़े आदमी मुस्कराने लग जावेंगे ॥ ७० ॥ ENGLISH TRANSLATION :—Then, first of all, there will be another humiliation for thee when great men will have smiling countenances on seeing thee, fit to be borne by a lordly elephant, riding an old bull, after marriage 70 PURPORT IN SANSKRIT :—हे पार्वति ! शिवस्य वाहनं वृषभोऽस्ति, तस्माद्विवाहानन्तरं यदा हस्तिराजवहनयोग्या त्वं तस्य वृद्धं वृषभमारुह्य तत्स्थानं गमिष्यसि तदा सर्वेऽपि प्रेक्ष- कास्त्वां दृष्ट्वा हसिष्यन्ति ॥ ७० ॥ द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः । कला च सा कान्तिमती कलावत— स्त्वमस्य लोकस्य च नेत्रकौमुदी ॥७१॥ द्वयमिति । पिनाकिन. ईश्वरस्य समागमप्रार्थनया प्राप्तिकाम- कु० सं०-१४

( १६० ) नया क्रियमाणयेति शेषः । सम्प्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह—सा प्रागेव दृग्शिरोगता । अत्र सेति प्रसिद्धा- र्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे—‘प्रक्रान्तप्रसिद्धानु- भूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते ।’ इति । कान्तिमती । नित्ययोगे मतुप् । कलावतः चन्द्रस्य कला षोडशो भागः च । अस्य लोकस्य नेत्रकौमुदी । नेत्रानन्दिनीत्यर्थः । त्वं च । कान्ति- मतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या । संप्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यत्वं च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥ PROSE ORDER :—पिनाकिनः समागमप्रार्थनया सम्प्रति कलावतः सा कान्तिमती कला च अस्य लोकस्य नेत्रकौमुदी त्वं च द्वयं शोचनीयतां गतम् ॥ ७१ ॥ NOTES :—पिनाकिनः—of the holder of the Pináka bow. Some books read instead of it कपालिनः—(कपाल +इनिः=कपालिन्) कपालं (मृतमुण्डं) अस्यास्तीति कपा- लिन्, तस्य of one who bears skulls, i. e. of Shiva. It fits in the context better than पिनाकिनः । समागम- प्रार्थनया—समागमस्य (सहवासस्य) प्रार्थना समागमप्रार्थना, तया by the desire for union (with Shiva) सम्प्रति— अधुना now. कलावतः—(कला+मतुप्=कलावत्) प्रशस्ताः प्रचुराः वा कलाः सन्ति अस्य इति कलावान् (चन्द्रः) तस्य of the moon (possessed of digits). The म of मतु is changed to व when affixed to words ending in म् or अ, short or long, or having either for their penultimate ‘मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ पा० ८ २ ६ सा—प्रसिद्धा which is well-known to be held by Shiva

( १६१ ) on his forehead Here सा is not followed by, या, which should have been according to the general rule 'यत्तदोर्नित्यसम्बन्धः', because 'when the sense can be easily known the relative pronoun may be left - understood Cf 'प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदु- पादानं नापेक्षते ।' कान्तिमती—( कान्ति+मतुप्+ङीप् ) कान्तिः( द्युतिः ) अस्याः अस्तीति कान्तिमती bright ; possessed of lustre Adj of कला as well as of त्वं ( पार्वती ) कला —a digit of the moon, which is borne on his forehead by Shiva नेत्रकौमुदी । कौमुदी—चन्द्रप्रभा the moon-light. 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । It is also used for a thing which is pleasant like the moon-light नेत्र- कौमुदी—नेत्रयोः कौमुदी like moon-light for the eyes of people A handsome woman is often called as such, because she is regarded agreeable to the eyes like the moon-light Cf 'त्वं कौमुदी नयनयोः अमृतं त्वमङ्गे ' उत्तर- रामचरितम् ३ २६ It is an Adj. of त्वं as well as of कला । द्वयं—two things शोचनीयताम् ( √शुच्+अनीय+ ता ) शोकविषयताम् deplorableness गतम्—प्राप्तम् have become. In the Kāvya Prakash this verse has been quoted as an instance of the fault अक्रमत्व i e, the absence of the syntactical order of words, because the particle च has been placed after लोकस्य instead of त्वं, which is its proper position, for it is the word त्वं and not लोक that is meant to be conjoined with कला ।

( १६२ ) Change of Voice :—पिनाकिनः समागमप्रार्थनया सम्प्रति कलावतः तया कान्तिमत्या कलया अस्य लोकस्य नेत्रकौमुद्या त्वया च ( इति ) द्वयेन शोचनीयतां गतेन ( अभावि ) ॥ ७१ ॥ Hindi Translation :—महादेव के साथ रहने की इच्छा से अब चन्द्रमा की वह चमकती हुई कला और इस संसार के नेत्रों की चन्द्रिका तू दोनो ही शोचनीय हो गयीं ॥ ७१ ॥ Purport in Sanskrit :—हे गौरि ! मृतमुण्डधारी महादेवस्तु तादृशोऽमाङ्गलिको यत् शुभमपि वस्तु तत्ससर्गेण शोकविषयतां याति । तथा हि—पूर्वस्मिन् काले तु तस्य मस्तके वासाच्चन्द्रमसः कला शोचनीयाऽभूत्, इदानीञ्च ज्योत्स्नेव सर्व- जगतः नेत्राणामानन्दकारिणी त्वं तत्सहवासेच्छां कुर्वन्ती शोच- नीया भविष्यसि । किमतः परं दुःखकरम् ? ॥ ७१ ॥ वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ७२ ॥

( ११३ )

‘ कन्या मृगयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुल- मिच्छन्ति मिष्टान्नमितरे जनाः ।’ इति लोकानामाभाषणम् । तत्र किञ्चिदपि नास्तीत्याह—वपुरिति । वपु तावदस्य विरूपाक्षि विकृतरूपायत्यक्षीणि नेत्राणि यस्य तद् विरूपाक्षम् । ‘ बहुव्रीहौ सक्थ्यक्षणो स्वाङ्गात्षच् ’ इति षच् प्रत्ययः । वैरुप्यं च त्रिनेत्रत्वा- दिति क्षीरस्वामी । अतो न सौन्दर्यवार्त्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तत्ता । कुलमपि न ज्ञायत इत्यर्थः । ‘ अल- क्षिता जनि ’ इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । ‘ जनि- रुत्पत्तिरुद्भव ’ इत्यमर । वसु वित्तं दिगम्बरत्वेन एव निवेदितम् । नास्तीति ज्ञापितमित्यर्थ । यदि वित्तं भवति तदा कथं दिगम्बरो भवति । अतो ज्ञेयं निर्धनोऽयमिति । कि बहुना । हे बालमृगाक्षि पार्वति वरेषु वोढृषु । ‘ वरौ जामातृवोढारौ ’ इति विश्वः । यत् रूपवित्तादिकं मृग्यते कन्यातद्वन्धुभिरन्विष्यते तत् त्रिलोचने त्र्यम्बके व्यस्तं एकं अपि । समस्तं मा भूदिति भावः । अस्ति किम् नास्त्येवेत्यर्थ ॥ ७२ ॥ PROSE ORDER :—( अस्य ) वपु. विरूपाक्षम्, अलक्ष्य- जन्मता, वसु दिगम्बरत्वेन निवेदितम् । ( हे ) बालमृगाक्षि ! यद् वरेषु मृग्यते तत् त्रिलोचने व्यस्तं अपि अस्ति किम् ? ॥ ७३ ॥ NOTES :—वपु —शरीरं the body. विरूपाक्षम्—( विरूप +अक्षि +षच् ) विरूपं ( विकृतं ) अक्षि ( नेत्रं ) यस्य यस्मिन् वा तद् विरूपाक्षम् having deformed eye. Shiva’s third eye is described as fiery and tawny-coloured. When explained thus the compound refers to the third eye only, but when explained in the following way it will refer to the state of possessing three eyes—विरूपाणि अक्षीणि यस्मिन् having odd number of eyes. अक्षि is

made अक्ष by dropping इ and adding अ ( षच् ) instead of it, when at the end of a Bahuvrīhi compound. ' बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ' पा० ५ ४ ११३ । अलक्ष्य- जन्मता—न लक्ष्यं अलक्ष्यं ( अज्ञातम् ), अलक्ष्यं जन्म यस्य स अलक्ष्यजन्मा, तस्य भाव अलक्ष्यजन्मत्ता ( जन्म+तल् ) whose birth or parentage is unknown Some books read अलक्षिता जनि for अलक्ष्यजन्मत्ता। जनि means उत्पत्ति birth वसु—धनम् wealth 'रत्ने धने वसु' इत्यमरः Decline वसु as वसु, वसुनी, वसूनि । वसु, वसुनी, वसूनि । वसुना, वसुभ्यां, वसुभिः । etc दिगम्बरत्वेन—दिश एव अम्बराणि ( वस्त्राणि ) यस्य स दिगम्बर, तस्य भावः दिगम्बरत्वम्, तेन by his having the quarters for his garments ; by his nudity Shiva is described naked and putting on only the elephant's hide निवेदितं— विज्ञापितम् is indicated , is shown. When he cannot afford to have proper garments he must be an extreme- ly poor man बालमृगाक्षि—( बालमृग+अक्षि+षच्+ङीप् ) बालश्चासौ मृग बालमृग , बालमृगइव अक्षिणी यस्या सा बालमृगाक्षी, तस्या सम्बोधने O thou possessing eyes like those of a young fawn. यद्—whatever qualities. These are mentioned in the verse—" कन्या मृगयते रूपं माता वित्तं पिता श्रुतम्। बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः।" वरेषु—व्रियते इति वर ( √वृ+अप् ) तेषु with regard to bridegrooms. मृग्यते—is sought. Passive present of √मृग् to seek. त्रिलोचने—त्रीणि लोचनानि यस्य सः त्रिलोचनः, तस्मिन् in the three-eyed God ( i e.,

( १६५ ) Shiva ). व्यस्तम्—( वि+√अस् to throw+क्तः ) एकैकम् even one ; separately ; scattered. It is the opposite of समस्तम्. The ascetic means to say that even one of the required qualities of a bridegroom is not found in Shiva, to say nothing of the aggregate of all of them. 72. CHANGE OF VOICE :—( अस्य ) वपुषा विरूपाक्षेण ( भूयते ) अलक्ष्यजन्मतया ( भूयते ) वसु दिगम्बरत्वं निवेदितवत्; ( हे ) बालमृगाक्षि यत् ( जनाः ) वरेषु मृगयन्ते तेन त्रिलोचने व्यस्तेन अपि भूयते ? ॥ ७२ ॥ HINDI TRANSLATION :—( इस महादेव का ) शरीर विकृत आंख वाला है, जन्म अज्ञात है, धन उसकी नग्नता बताती है ; ( हे ) मृगशावक के समान नेत्र वाली, जो बातें वरों में खोजी जाती हैं, क्या उनमें से एक भी इस तीन आंखों वाले में है ? ॥ ७२ ॥ ENGLISH TRANSLATION :—His body possesses de- formed eyes, his birth is unknown, ( and his ) wealth is shown by his having the quarters for a garment ( i.e., nudity ). O thou possessing eyes like those of a young fawn, whatever is sought in a bridegroom, is that even in part found in the three-eyed one ? 72. PURPORT IN SANSKRIT :—हे मृगशावकनयने पार्वति ! सौन्दर्य, धनं, विद्या, कुलञ्चेति चत्वारि वस्तूनि परीक्ष्य कन्यार्थे वराः स्वीक्रियन्ते, परं महादेवे त्वेतेषु एकमपि वस्तु नास्ति चतुर्णां

( १६६ ) तु का कथा ? यतस्तस्य शरीरं पिङ्गलनेत्रयुक्तं नेत्रत्रययुक्तं वाऽस्ति तस्मान्न स सुन्दर, यतस्तस्योत्पत्तिविषये न किमपि ज्ञायते तस्मात् स कुलीन इति कथयितुं न शक्यते, यतश्च स नग्नो विवस्त्रो वाऽस्ति तस्मात्स निर्धन इति विज्ञायते। शिवो न केनापि प्रकारेण ते योग्य इति तात्पर्यम् ॥ ७२ ॥ निवर्त्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ ७३ ॥ निवर्त्तयेति । अस्मात् असदीप्सितात् अनिष्टमनोरथात् मनः निवर्त्तय निवारय । तद्विधः स पूर्वोक्ता विधा प्रकारो यस्य तथोक्तः । अमङ्गलशील इत्यर्थः । क्व । महदन्तरमित्यर्थः । पुण्य- लक्षणा प्रशस्तभाग्यचिह्ना त्वं च क्व । अतो न तवायमर्ह इत्यर्थः । तथा हि । साधुजनेन । ‘साधुर्वाधुषिके चारौ सज्जने चाभिधेयवत् ’ इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य मध्यशङ्कोः वैदिकी वेदोक्ता । यूपो नाम पशुबन्धनसाधनभूतं संस्कृतदारुविशे- षस्तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादिसंस्कार यूपसत्क्रिया न अपेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसत्क्रिया न क्रियते तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः ॥ ७३ ॥ PROSE ORDER :—(हे गौरि) अस्माद् असदीप्सिताद् मनः निवर्तय, तद्विधः क्व ? पुण्यलक्षणा त्वं च क्व ? साधुजनेन श्मशान- शूलस्य वैदिकी यूपसत्क्रिया न अपेक्ष्यते ॥ ७३ ॥ NOTES :—असदीप्सितात् । ईप्सितात्—( √आप् + सन् + क्तः ) मनोरथात् desire. For the formation of ईप्सित see

( १६७ ) notes on ईप्सित in verse 5 न सन् असत् ; असच्च तदीप्सितं च श्रमदीप्सितं, तस्मात् from the evil desire, viz. marrying Shiva. Ablative case is used of that from which one is kept off ‘वारणार्थानामीप्सितः’ पा० १।४।२७। तद्विधः-सा विधा (प्रकारः) यस्य सः तद्विधः of that sort, i e, as described in the foregoing shlokas क्व-क्व- These two particles are used to indicate great disparity between two things Here they show the great difference with regard to beauty etc between Shiva and Parvati See notes on verse 4 पुण्यलक्षणा-पुण्यानि (शुभानि) लक्षणानि (चिह्नानि) यस्याः सा possessed of auspicious marks The statement contained in the first two lines is corroborated by means of an instance (दृष्टान्त) in the last two lines. साधुजनेन-साधुश्चासौ जनस्तेन (पण्डितजनेन) by good persons श्मशानशूलस्य

  • श्मशाने श्मशानस्य वा शूलम् (शङ्कु) श्मशानशूलं, तस्य of the stake used for impaling criminals in a cemetery ground वैदिकी-(वेद + ठञ्-इक + ङीप्) वेदे भवा वैदिकी (वेदोक्ता) as ordained in the Vedas ठञ् is added by the rule ‘अध्यात्मादिभ्यश्च’। यूपसत्क्रिया। यूपः-a sacrificial post to which beasts are tied in sacrifices. सत्क्रिया-संस्कारः a purificatory ceremony, such as washing etc यूपस्य सत्क्रिया यूपसत्क्रिया or यूपोचिता सत्क्रिया यूपसत्क्रिया the ceremonies with regard to a sacrificial post. न अपेक्ष्यते-न इष्यते is not desired. A stake is used for unholy purposes while a sacrificial

( १६८ ) post is used for sacred purposes—how can, then, the rites prescribed for the latter be performed in case of the former ? And just as it is improper to do so, so is your relation with Shiva 73 CHANGE OF VOICE —( हे गौरि ) अस्माद् असदीप्सिताद् ( त्वया ) मनः निवत्र्यताम्, तद्विधेन क ( भूयते ) पुण्यलक्षणया त्वया च क ( भूयते ) ? साधुजनः श्मशानशूलस्य वैदिकीं यूप- सत्क्रियां न अपेक्षते ॥ ७३ ॥ HINDI TRANSLATION :—( हे पार्वति ) इस बुरी इच्छा से मन हटा लो ; इस प्रकार का वह कहां और शुभ चिन्हो वाली तुम कहां ? श्रेष्ठ पुरुष श्मशान की शूली का वेदों में बताया हुआ यज्ञस्तम्भ सम्बन्धी संस्कार नहीं करते ॥ ७३ ॥ ENGLISH TRANSLATION - Turn thy heart from this evil desire, how widely different are the two—he of that sort and thee possessed of auspicious marks ? Good persons do not perform with regard to a stake in the cemetery the purificatory ceremonies proper for a sacrificial post as ordained in the Vedas 73 PURPORT IN SANSKRIT :—हे पार्वति ! चिताभस्मकपाला- द्यशुभवस्तुषु प्रीतिकारिणि शिवे शुभचिह्नान्वितायां त्वयि च मह- दन्तरम्, तस्माच्छिवप्राप्तिरूपानुचिता कामना त्वया त्याज्या । यथा हि पण्डिताः श्मशानस्थितस्य शङ्कोः यूपसम्बन्धिनं वेदोक्तं संस्कारं न कुर्वन्ति तथैव त्वयाप्यमाङ्गलिकः स माङ्गलिक इव न कम- नीयः ॥ ७३ ॥ इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।

( १६६ ) विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥ ७४ ॥ इतीति । इति एवं प्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति । प्रवेपमानाधरलक्ष्यकोपया प्रवेपमानेन चञ्चलेनाधरोष्ठेन लक्ष्यः अनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्या उपान्त- लोहिते प्रान्तरक्ते विलोचने विकुञ्चितभ्रूलतं विकुञ्चिते कुटिलिते भ्रूलते यस्मिंस्तत्तथा । सभ्रूभङ्गमित्यर्थः । तिर्यक् साचि आहिते निहिते । अनादरात्तिर्यगैक्ष्यतेत्यर्थः ॥ ७४ ॥ PROSE ORDER :—द्विजातौ इति प्रतिकूलवादिनि ( सति ) प्रवेपमानाधरलक्ष्यकोपया तया उपान्तलोहिते विलोचने विकुञ्चित- भ्रूलतं तिर्यग् आहिते ॥ ७४ ॥ NOTES :—द्विजातौ—द्वे जाती ( जन्मनी ) यस्य स द्विजा- तिः, तस्मिन् the Brāhmaṇa प्रतिकूलवादिनि—प्रतीपं कुलात् प्रतिकूलं against the current , hence against one's wishes प्रतिकूलं वदतीति प्रतिकूलवादिन् ( वद् + णिनिः ) तस्मिन् talking against her wish Pārvati was least prepared to listen to such an adverse criticism of her beloved, hence प्रवेपमानाधरलक्ष्यकोपया—( प्र + √वेप् + शानच् ) प्रवेपमानेन ( कम्पमानेन ) अधरेण ( अधरोष्ठेन ) लक्ष्यः ( अनुमेयः ) कोपो यस्याः सा प्रवेपमानाधरलक्ष्यकोपा, तया whose anger could be guessed by her quivering the nether lip. It is well-known that the lower-lip begins to tremble if an attempt is made to speak while in anger. उपान्तलोहिते—अन्तस्य समीपं उपान्तं ; उपान्तयोः ( प्रान्तभागयोः ) लोहिते ( रक्ते ) उपान्तलोहिते red at the

( २०० ) corners Adj. of विलोचने the eyes विकुञ्चितभ्रूलतम्। विकुञ्चिता—(वि + √कुञ्च् to contract + क्तः) कुटिलतां नीता contracted; curved (in a frown) भ्रूलता—भ्रूरेव लता भ्रूलता creeper-like eyebrows विकुञ्चिता भ्रूलता यस्मिन् कर्मणि तद् विकुञ्चितभ्रूलतम् in which the creeper-like brows were contracted तिर्यक्—(तिरस् + √अञ्च् + क्विन्) obliquely, sideways तिरस् is changed to तिरि before अञ्च् by 'तिरसस्तिर्यलोपे' पा० ६ ३ ६४। आहिते— (आ + √धा + क्त) कृते; प्रेरिते i. e., were cast It is natural that Párvatí's anger was excited when the ascetic talked ill of her beloved 74 CHANGE OF VOICE:—द्विजातौ इति प्रतिकूलवादिनि (सति) प्रवेपमानाधरलक्ष्यकोपा सा उपान्तलोहिते विलोचने विकुञ्चितभ्रूलतं तिर्यग् आहितवती ॥ ७४ ॥ HINDI TRANSLATION:—उस ब्राह्मण के इस प्रकार (उसकी इच्छा के) विरुद्ध बोलने पर, जिसका क्रोध निचले ओंठ के फड़फड़ाने से प्रकट हो रहा था ऐसी उस (पार्वती) ने कोनों की ओर लाल नेत्रों से भौंहों को टेढ़ा कर के (उस पर) तिरछी निगाह डाली ॥ ७४ ॥ ENGLISH TRANSLATION —When the Bráhmana was talking so adversely, askance eyes, red at the corners (and) with the creeper-like eye-brows contracted (in frown) were cast (at him) by her whose anger was visible from her quivering nether lip 74. PURPORT IN SANSKRIT:—शिवनिन्दारूपं ब्रह्मचारि- णास्तत्कथनं श्रुत्वा पार्वती नितरां कुपिता जाता, क्रोधेन च तस्या

( २०१ ) अधरोष्ठोऽकम्पत नेत्रे च प्रान्तभागयोः रक्ते जाते तथा च सा तन्मुखाद् दृष्टिमाकृष्य भ्रुव कुटिलां कृत्वावज्ञया तिर्यगवालो- कन् ॥ ७४ ॥ उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ ७५ ॥ उवाचेति । अथ एनं ब्रह्मचारिणं उवाच च । किमिति । पर- मार्थतः तत्त्वतः हरं न वेत्सि न जानासि नूनम् । कुतः । यतः मां एव उक्तया रीत्या आत्थ ब्रवीषि । 'ब्रुवः पञ्चानामादितः '—इति रूपसिद्धि । अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह—मन्दा मूढाः । मूढाल्पपटुनिर्भाग्या मन्दाः ' इत्यमरः । लोकसामान्यमितरजन- साधारणं न भवति इति अलोकसामान्यं अचिन्त्यहेतुकं दुर्बोध- कारणकं महात्मनां चरित द्विषन्ति हेत्वपरिज्ञानाद्दूषयन्ति । विद्वां सस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ॥ ७५ ॥ PROSE ORDER :—( गौरी ) एन उवाच च, नून परमार्थतः हरं न वेत्सि, यतः मां एवं आत्थ, मन्दाः अलोकसामान्यं अचिन्त्य- हेतुकं महात्मनां चरितं द्विषन्ति ॥ ७५ ॥ NOTES :—एनं—एतं ब्रह्मचारिणं to this Brahmacharin. एनं is the optional form of इदम् and एतत् in the Accu- sative sing to be used when there is अन्वादेश i e, their proper forms have already been used in a previous clause. ' द्वितीयाटौस्वेनः ' पा० २.४.३४ । नूनं—निश्चयेन certainly. परमार्थतः—परमश्चासौ अर्थश्च परमार्थः ( सत्यं ),

( २०२ ) तस्मात् परमार्थतः ( परमार्थ + तसिल् ) in reality , truly ; correctly परमार्थ means the highest sense or truth. तसिल् is added in the sense of the Ablative by ‘पञ्चम्यास्तसिल्’ पा० ५ ३ ७ । न वेत्सि—न जानासि thou knowest not This is a refutation of the ascetic’s assertion ‘विदितो महेश्वरः’ in verse 65 आत्थ—ब्रवीषि thou sayest Present tense, second pers sing of √ ब्र ‘to speak’ ब्रू is replaced by आह and सिप् the termination by थल् । See notes on आह in verse 56 Now, Parvatı supports this charge by means of a general statement which means that the dull-minded find fault with the life of the great, which has some- thing unusual about it and the purpose of which can not be easily understood मन्दाः—मूढाः idiots , dull-witted ‘मूढाल्पापटुनिर्भाग्या मन्दा’ इत्यमरः । अलोकसामान्यम्—न लोकानां लोकेषु वा सामान्यं ( साधारण ) इति अलोकसामान्यम् or, न विद्यते लोके सामान्यं यस्य तत् which is not in com- mon with that of other people, i e which has some- thing extraordinary about it अचिन्त्यहेतुकम्—( न + √ चिन्त् + यत् = अचिन्त्यं ) चिन्तयितुं योग्यं चिन्त्यं ; न चिन्त्य अचिन्त्यं ( विचारयितुमशक्यम् ) which can not be grasped अचिन्त्यः हेतुः ( कारणं ) यस्य तत् अचिन्त्यहेतुकम् the motive of which can not be understood Parvati means to say that it was not easy for the Brahmacharin to know as to why Shiva lived in nudity and did other similar things कप् is added to हेतु because it is at the end

( २०३ ) of a Bahuvrīhi compound, by ‘ शेषाद् विभाषा ’ पा० ५ ४ १५४ । महात्मनाम्—महान् आत्मा येषां ते महात्मानः, तेषाम् of the magnanimous , of the great-minded चरितं— चरित्रं the life द्विषन्ति—द्वेषेण पश्यन्ति hate , look at it . with jealousy For the idea Cf, ‘ दाह्यमाना सुतीव्रेण नीचाः परशयोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते । The figure of speech used in this verse is अर्थान्त- रन्यास in which a statement is corroborated by means of a general statement 75. CHANGE OF VOICE :—( गौर्या ) अयं ऊचे च—नूनं ( त्वया ) परमार्थतः हरो न विद्यते, यतः (त्वया ) अहं एवं उच्ये । मन्दैः अलोकसामान्यं अचिन्त्यहेतुकं महात्मनां चरितं द्विष्यते ॥ ७५ ॥ HINDI TRANSLATION :—( पार्वती ) उससे बोली—सच- मुच तुम वास्तविक रूप से महादेव को नहीं जानते, क्योंकि मुझ से इस प्रकार कहते हो । मूर्ख लोग अलौकिकतापूर्ण एवं जिसका उद्देश्य आसानी से नहीं समझा जा सकता ऐसे महात्माओं के चरित्र से शत्रुता करते हैं ॥ ७५ ॥ ENGLISH TRANSLATION —And she said to him— ‘ Indeed thou dost not know Shiva correctly, since thou talkest thus to me The dull-witted bear enmity against the course of life of the great, which is not in common with that of other people and the purpose of which is difficult to be understood ’ 75 PURPORT IN SANSKRIT :—स्वकोपमवज्ञाञ्च प्रदर्श्य पार्वती ब्रह्मचारिणमाह—‘ यतस्त्वं शिवस्य याथार्थ्यं न जानासि तस्मादेवं