भारतकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

१६८ मालतीमाधवे 'कुसुमधर्माणो हि योषितः सुकुमारोपक्रमाः । तास्त्वनधिगतविश्वा- सैः प्रसभमुपक्रम्यमाणाः संप्रयोगविद्वेषिण्यो भवन्ति ।' एवं किल कामसुत्तचारा मन्तेन्ति । लवङ्गिका—घैरे घरे पुरिसा कुलकण्णकाओ उव्वहन्दि । ण अ को वि लज्जापसाहणं अणवरद्धमुद्धसहावं कुलकुमारीजणं पहवामि त्ति वाआणलेण पज्जालेदि । एदे क्खु दे आमलणसंभरिज्जतदुस्सह- परघरणिवासवेरगकारिणो हिअअसलणिक्खेवा महापरिहवा । जाणं किदे इत्थिआजम्मलाहं जुउच्छन्ति बान्धवा । मदयन्तिका—बुद्धरक्खिदे, अदिदूमिया पिअसही लवङ्गि- आ । अतिमहान्तो को वि मे भादुणा वाअवराहो किदो । कृतापराधा उपालम्भनीया वयमिति । एवं किल कामसूत्रकारा मन्यन्ते । १. गृहे गृहे पुरुषाः कुलकन्यका उद्वहन्ति । न च कोऽपि लज्जाप्रसाधन- मनपराधमुग्धस्वभावं कुलकुमारीजनं प्रभवामीति वागनलेन प्रज्वलयति । एते खलु न आमरणसंश्रियमाणदुःसहपरगृहनिवासवैराग्यकारिणो हृदयशल्य- निक्षेपा महापरिभवाः । येषां कृते स्त्रीजन्मलाभं जुगुप्सन्ते बान्धवाः । २. बुद्धरक्षिते, अतिम्लाना प्रियसखी लवङ्गिका । अतिमहान्कोऽपि मे भ्रात्रा वागपराधः कृतः । यैस्ते तथा। यद्वानधिगतो नवोढया परिचयाभावादप्राप्तो विश्वासो विश्रम्भो येषु ते तथोक्ताः। तैरप्येतन्मनोऽवेदिभिरपरिचितैश्च प्रसभं बलादेवात्युद्वेगकारिभिर्व्यापारै- रुपक्रम्यमाणाः प्रयोगस्य संप्रयोगस्यैव विद्वेषिण्यो भवन्ति । न केवलं तादृशपुरुषे- णानुरज्यन्ते । अपि तु रिपुसमागमवद्विषीदन्तीत्यर्थः । एवं किल कामसूत्रकारा म- न्यन्ते । यदाहुः—'रभसेन ह्युपक्रान्ता कन्याभावमविन्दता । भयं चिन्तासमु- द्वेगं सद्यो द्वेषं च गच्छति ॥' इति ॥ लवङ्गिका । गृहे गृहे पुरुषाः कुलकन्यका उद्वहन्ति । न च कोऽपि लज्जाप्रसाधनमनपराधमुग्धस्वभावं कुलकुमारीजनं प्रभ- वामीति समर्थोऽहमित्येतावता वागनलेनावाच्यवचनरूपेणानलेन प्रज्वलयति । एते खलु ते हृदयशल्यनिक्षेपा आमरणं संश्रियमाणा विस्मर्तुमशक्यत्वेन मनसि सततं धार्यमाणा अत एव दुःसहाः परगृहनिवासवैराग्यकारिणो महापरिभवाः । येषां कृते स्त्रीजन्मलाभं जुगुप्सन्ते बान्धवाः ॥ मदयन्तिका । बुद्धरक्षिते, अति- म्लाना प्रियसखी लवङ्गिका । अतिमहान्कोऽपि मे भ्रात्रा वागपराधः कृतः ॥

सप्तमोऽङ्कः । १६९ बुद्धरक्षिता—अंह इं । सुदं एव्व अह्मेहिं ण मे संपदं इमाए कोमारवड्ढईए पओअणं ति ससपहं पइण्णं काऊण वासभवणादो णिग्गदो । मदयन्तिका—(कर्णौ पिधाय।) अंहहे अदिकमो । अहो पमादो । सहि लवङ्गिए, असमत्थह्मि दे मुहं संपदं दट्ठुं । तह वि पहवामि त्ति किं वि मन्तइस्सं । लवङ्गिका—साँहीणो दे अअं जणो । मदयन्तिका—चिट्ठदु दाव मह भादुणो दुःसीलदा अप्प- दिट्ठाणं अ । तुह्मेहिं वि ईदिसो वि एसो संपदं जहचित्तं अणुव- ट्ठणीओ जेण भत्ता एसो त्ति । तुह्मे इमस्स अणहिआअअक्खराहि- क्खेवोवालम्भस्स जं मूलं तं ण जाणह । १. अथ किम् । श्रुतमेवास्माभिर्न मे सांप्रतमनया कौमारवर्धक्या प्रयो- जनमिति सशपथं प्रतिज्ञां कृत्वा वासभवनान्निर्गतः । २. अहो अतिक्रमः । अहो प्रमादः । सखि लवङ्गिके, असमर्थास्मि ते मुखं सांप्रतं द्रष्टुम् । तथापि प्रभवामीति किंचिन्मन्त्रयिष्ये । ३. स्वाधीनस्तेऽयं जनः । ४. तिष्ठतु तावन्मम भ्रातुर्दुःशीलताप्रतिष्ठानं च । युष्माभिरपीदृशोऽप्येष सांप्रतं यथाचित्तमनुवर्तनीयो येन भर्तैष इति । यूयमस्या नभिजाताक्षराधि- क्षेपोपालम्भस्य यन्मूलं तन्न जानीथ । बुद्धरक्षिता । अथ किम् । कृत एवेत्यर्थः । तदेवाह—श्रुतमेवास्माभिर्यथा न मे सांप्रतमनया कौमारवर्धक्या प्रयोजनमिति सशपथं प्रतिज्ञां कृत्वा वासभवना- न्निर्गतः ॥ मदयन्तिका । अहो अतिक्रमो मर्यादोल्लङ्घनम् । अहो प्रमादोऽनव- धानता । सखि लवङ्गिके, असमर्थास्मि ते मुखं सांप्रतं द्रष्टुम् । तथापि प्रभवामीति मय्यतिस्निग्धायां त्वयि प्रभुत्वमस्तीति किमपि सखित्वमेवावलम्ब्य तदनुरूपं किं- चिन्मन्त्रयिष्ये ॥ लवङ्गिका । स्वाधीनस्तेऽयं जनः । तद्विस्रब्धं मन्त्रयस्वेति भावः ॥ मदयन्तिका । तिष्ठतु तावन्मम भ्रातुर्दुःशीलताप्रतिष्ठानं च युष्मा- भिर्मोल्याप्तकोटिभिरपीदृशोऽप्येष सांप्रतं यथाचित्तमनुवर्तनीयः । चित्तशब्देनात्र तत्साधारणो व्यापारः संकल्पारूढ्यो लक्ष्यते । तेन तदिच्छाप्रतिकूलं नाचवरणीयमि- त्याशयः । येन भर्तैष इति । निर्गुणो दोषवानपि भर्ता भर्तृत्वेन स्त्रीभिरनुवर्तनीयः । न तु तस्य प्रातिकूल्यं कुलवधूनामुचितमिति भावः । न च यूयमस्या भिजाताक्ष- राधिक्षेपोपालम्भस्यानभिजातानि कितवजनयोग्यान्यक्षराणि यत्र स तादृशो-

लवङ्गिका—कहं अम्हे असन्तं जाणामो । मदयन्तिका—$^२$जं दाणिं तस्सिं महाणुभावे माहवे किं वि किल मालदीए वाआमेत्तं आसी सो एसो सव्वलोअस्स अदि- भूमिं गओ पवादो । तं क्खु एदं विअम्भइ । ता पिअसहि, जह एसो भत्तुणो उवेक्खाहिणिवेसो णिरवसेसो हिअआदो उद्धरिअदि तह करेहि । अण्णहा महान्तो पमादो त्ति जाणीदं होदु । णिकम्पदा- रुणासु कुलकण्णआसु दूमावेति हिअअं माणुसाणं ईरिसादो दुरहि- संगादो त्ति जाणह । मा भण मदअन्तिआए कहिदं ति । लवङ्गिका—$^३$अइ असंबद्धलोअपवादमोहिदे, अवेहि । णतुए सह मन्तइस्सं । १. कथं वयमसन्तं जानीमः । २. यदिदानीं तस्मिन्महानुभावे माध

सप्तमोऽङ्कः । १७१ मदयन्तिका—सहि, पसीद । अथवा ण तुम्हे फुडं भणिदावो चिट्ठह । किंअ अम्हे सच्चं एव्व माहवेकमअजीविदं मालदिं जा- णामो । केण वा कठोरकेअईगब्भविब्भमावअवदोव्वलणिव्वट्टिद- सुन्दरत्तणविसेसं माहवसहत्यणिम्माविदबउलावलीविरइअकण्ठावल- म्बणमेत्तसंजीवर्ण मालदीए माहवस्स अ पहादचन्दमण्डलापाण्डुर- परिक्खामरमणिज्जदंसणं ण विभावितं सरीरं । किंअ तस्सिं दिअ- से कुसुमाउरुज्जाणपेरन्तरच्छासुहसमागमे सविब्भमुल्लसिअकोऊह- लुप्फुल्लपरिसरुब्वेल्लमाणसविलासमसिणसिणिद्धसंचरणचारुतारआवि- अब्भमाणअङ्गासङ्गाराआरिसव्वआमोपदेसणिम्माविदविअद्धमुद्ध- मणहारा मए ण णिरूविदा इमाणं दिट्ठिसंभेदा । किंअ मह भा- दुणो दाणउत्तन्दं सुणिअ तक्खणुव्वत्तगम्भीरुब्बेअवइअरन्धआरिअ-


१. सखि, प्रसीद । अथवा न यूयं स्फुटं भणितास्तिष्ठथ । किंच वयं सत्यमेव माधवैक मयजीवितां मालतीं जानीमः। केन वा कठोरकेतकीग- र्भविभ्रमावयवदौर्बल्यनिर्वर्तितसुन्दरत्वविशेषं माधवस्वहस्तनिर्मितबकुलाव- लीविरचितकण्ठावलम्बनमात्रसंजीवनं मालत्या माधवस्य च प्रभातचन्द्रम- ण्डलापाण्डुरपरिक्षामरमणीयदर्शनं न विभावितं शरीरम् । किंच तस्मिन्दि- वसे कुसुमाकरोद्यानपर्यन्तरथ्यामुखसमागमे सविभ्रमोल्लसितकौतूहलोत्फुल्ल- परिसरोग्वेल्लमानस विलासमसृणस्निग्धसंचरण चारुतारकाविजृम्भमाणानङ्गशृङ्गा- राचार्यसर्वागमोपदेशनिर्मित वैदग्ध्यमुग्धमनोहरा मया न निरूपिता एतयोर्दृष्टि- संभेदाः । किंच मम भ्रातुर्दानवृत्तान्तं श्रुत्वा तत्क्षणोद्वृत्तगम्भीरोद्वेगव्यतिक- रान्धकारितम्लायमानदेहशोभयोरुद्धर्तमानमूलबन्धनमिव न लक्षितं हृदयम् । किंच मयैतदपरं विस्मृतम् ।


मन्त्रयिष्ये ॥ मदयन्तिका । सखि, प्रसीद । अथवा न यूयं स्फुटं भणितास्ति- ष्ठथ । किंच वयं सत्यमेव माधवैक मयजीवितां मालतीं जानीमः । केन वा कठो- रकेतकीगर्भविभ्रमावयवदौर्बल्यनिर्वर्तितसुन्दरत्वविशेषं माधवस्वहस्तनिर्मितबकु- लावलीविरचितकण्ठावलम्बनमात्रसंजीवनं मालत्या माधवस्य च प्रभातचन्द्रमण्ड- लापाण्डुरपरिक्षामरमणीयदर्शनं न विभावितं शरीरम् । किंच तस्मिन्दिवसे कुसुमा- करोद्यानपर्यन्तरथ्यामुखसमागमे सविभ्रमोल्लसितकौतूहलोत्फुल्लपरिसरोद्वेल्लमानस- विलासमसृणस्निग्धसंचरणचारुतारकाविजृम्भमाणानङ्गशृङ्गाराचार्यसर्वागमोपदेश- निर्मितवैदग्ध्यमुग्धमनोहरा मया न निरूपिता एतयोर्दृष्टिसंभेदाः । किंच मम भ्रातुर्दानवृत्तान्तं श्रुत्वा तत्क्षणोद्वृत्तगम्भीरोद्वेगव्यतिकरान्धकारितम्लायमानदेह- शोभयोरुद्धर्तमानमूलबन्धनमिव न लक्षितं हृदयम् । किंच मयैतदपरं विस्मृतम् ॥ १६ मालतीमा०

१७२ मालतीमाधवे मिलाअन्तदेहसोहाणं उक्खण्डिअमाणमूलबन्धणं विअ ण लक्खिअं हिअअं । किं अ मए एदं अवरं विसुमरिदं । लवङ्गिका—१किं दाणिं अवरं । मदयन्तिका—२जं खु मह जीविदप्पदाइणो महाणुहावस्स चेदणापडिलम्भपिअणिवेदिए मालदीए भववदीविअद्धवअणोव- ण्णासचोदिदेण हिअअं जीविदं अ माहवेण पारिदोसिअत्तणेण स- अंगाहे णिउत्तं । अह लवङ्गिए, तुए खु एवं भणिदं पडिच्छिदो क्खु णो पिअसहीए अअं पसादो त्ति । लवङ्गिका—३सहि, कदमो उण सो महाणुहावो त्ति विसुमरिदं विअ मए । मदयन्तिका—४सँहि, सुमर । जेण तस्सिं दिअहे विअडदुट्ठ- सावदविणिवादगोअरं गदा असरणा सुलग्गसंणिहिदेण पीअरभु- १. किमिदानीमपरम् । २. यत्खलु मम जीवितप्रदायिनो महानुभावस्य चेतनाप्रतिलम्भप्रियनिवे- दिकाया मालत्या भगवतीविदग्धवचनोपन्यासचोदितेन हृदयं जीवितं च माधवेन पारितोषिकत्वेन स्वयंग्राहे नियुक्तम् । अथ लवङ्गिके, त्वया खल्वेवं भणितं ‘प्रतीष्टः खलु नः प्रियसख्या अयं प्रसाद’ इति । ३. सखि, कतमः पुनः स महानुभाव इति विस्मृतमिव मया । ४. सखि, स्मर । येन तस्मिन्दिवसे विकटदुष्टश्वापदविनिपातगोचरं गता- ऽशरणा सुलभसंनिहितेन पीवरभुजस्तम्भेन संभाविता निष्कारणबान्धवेन सक- लवङ्गिका । किमिदानीमपरम् ॥ मदयन्तिका । यत्खलु मम जीवितप्रदायिनो म- हानुभावस्य चेतनाप्रतिलम्भप्रियनिवेदिकाया मालत्या भगवतीविदग्धवचनोपन्या- सचोदितेन हृदयं जीवितं च माधवेन पारितोषिकत्वेन स्वयंग्राहे नियुक्तम् । अथ लवङ्गिके, त्वया खल्वेवं भणितं प्रतीष्टः खलु नः प्रियसख्या अयं प्रसाद इति । अत्र महानुभावस्येति मकरन्दस्याभिधानं तस्य भर्तृत्वेन मदयन्तिकया स्वमनसैव निश्चितत्वादद्भर्तुर्नामग्रहणस्य कुलस्त्रीणामनुचितत्वादिति ग्राह्यम् । अथ लवङ्गिका प्रच्छन्नो मकरन्दः स्वस्यानुरागस्य व्यञ्जकानि स्वप्रियतमावचनानि स्वयमेव शृणो- त्विति जानानाप्यजानानेव पृच्छति । लवङ्गिका । सखि, कतमः पुनः स महा- नुभाव इति विस्मृतमिव मया ॥ मदयन्तिका । सखि, स्मर । येन तस्मिन्दिवसे विकटदुष्टश्वापदविनिपातगोचरं गताऽशरणा सुलभसंनिहितेन पीवरभुजस्तम्भेन संभाविता निष्कारणबान्धवेन सकलभुवनैकसारनिजदेहोपहारसाहसं कृत्वा परि-

सप्तमोऽङ्कः । १७३ अत्थम्भेण संभाविदा णिकारणबन्धवेण सअलभुवणेकसारणिअदेहो- बहारसाहसं कदुअ पडिरक्खिदह्मि । जेण अ दिढविभडमंसुलुत्ता- णपरिणाहिवच्छत्थललञ्छणजज्झरिदजवापीडधारिणा करुणाधणेण मम किदे वि णिमज्जन्तसअलणहणिआमवज्जपञ्जरप्पहारो मारिदो अ सो दुट्ठसावदमहारक्खसो त्ति । लवङ्गिका—१हुं, मअरन्दो । मदयन्तिका—(सानन्दम् ।) सेहि, किं भणासि । लवङ्गिका—३णं भणामि मअरन्दो त्ति । (सस्मितं शरीरमस्याः स्पृशन्ती संस्कृतमाश्रित्य ।) वयं तथा नाम यदात्थ किं वदा- म्ययं तु कस्माद्विकलः कथान्तरे । लभुवनैकसारनिजदेहोपहारसाहसं कृत्वा परिरक्षितास्मि । येन च दृढ- विकटमांसलोत्तानपरिणाहिवक्षःस्थललाञ्छनजर्जरितजवापीडधारिणा करुणाध- नेन मत्कृतेऽपि निमज्जत्सकलनखनिकायवज्रपञ्जरप्रहारो मारितश्च स दुष्टश्वा- पदमहाराक्षस इति । १. हुं, मकरन्दः । २. सखि, किं भणसि । ३. ननु भणामि मकरन्द इति । रक्षितास्मि । येन च दृढविकटमांसलोत्तानपरिणाहिवक्षःस्थललाञ्छनजर्जरित- जपापीडधारिणा । रुधिरार्द्रतया वक्षःस्थलनिहितहारलतैव जपाकुसुमवर्णलाञ्छ- पापीडत्वेनोक्ता । तद्धारिणा करुणाधनेन मत्कृतेऽपि निमज्जत्सकलनखनिका- यवज्रपञ्जरहारो मारितश्च स दुष्टश्वापदमहाराक्षस इति ॥ लवङ्गिका । हुं, मकरन्दः । हुमित्यङ्गीकारद्योतकमव्ययं मालतीमदयन्तिकयोः समानाधिकार- विषयानुरागं व्यनक्ति । यथा किल त्वं श्वापदापस्कन्दिता विनिहतशार्दूले प्राण- दायिनि तस्मिन्गाढमनुरक्ता, एवं मालत्यपि खलाभनिमित्तमेव जीवितस्पृहानिर- पेक्षं निर्व्यूढमहामांसविक्रयसाहसे कापालिकमारितकल्पात्मप्राणरक्षके माधवे निरुपाधिकशब्दगाढानुरागेति कथं तां लघूपालभस इति भावः॥ मदयन्तिका । सानन्दं सखि, किं भणसि । प्रियतमनामधेयशुश्रूषातिशयादादरेण प्रश्नः लवङ्गिका । ननु भणामि मकरन्द इति । एवं मकरन्दनामग्रहणादेवाविर्भूतरो- माञ्चस्वेदादिसात्विकभावां मदयन्तिकां दृष्ट्वा सस्मितमस्याः शरीरं स्पृशन्ती संस्कृतमाश्रित्य । वदतीति शेषः । वयमिति । कुमार्यैव सती मालती माधवे-

१७४ मालतीमाधवे कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः ॥ १ ॥ मदयन्तिका—(सलज्जम् १) सहि, किं मं उवहससि । णं भ- णामि । णिव्वावेदि तारिसस्स अप्पणिरवेक्खव्यवसाइणो किअन्तकव- लिज्जन्तजीविअबलामोडअपच्चाणअणगुरुओवआरिणो जणस्स संक- हामेत्तस्स णामगहणं सुमरणं अ । तह अ तुए वि गाढगुरुणहप्पहा- रवेअणारम्भविह्वलाविअसरीरसंगलिअसेअसलिलुग्गमो मोहमउलाअ- न्तेणेत्रकन्दोट्टजुअलो भूमिविगलिदासिअट्टिविट्ठम्भधीरपडिधारिअस- रीरभारो पच्चक्खीकिदो एष मदअन्तिआमेत्तविच्छद्दिअमहग्घजीविदो महाणुहावो त्ति । (खेदादीन्विकारान्नाटयति ।) १. सखि, किं मामुपहससि । ननु भणामि । निर्वापयति तादृशस्यात्मनि- रपेक्षव्यवसायिनः कृतान्तकवलीक्रियमाणजीवितबलात्कारप्रत्यानयनगुरूपका- रिणो जनस्य संकथामात्रस्य नामग्रहणं स्मरणं च । तथा च त्वयापि गाढगुरुन- खप्रहारवेदनारम्भविह्वलितशरीरसंगलितस्वेदसलिलोद्गमो मोहमुकुलीक्रियमाण- नेत्रनीलोत्पलयुगलो भूमिविगलितासियष्टिविष्टम्भधैर्यप्रतिधारितशरीरभारः प्रत्य- क्षीकृत एव मदयन्तिकामात्रविच्छर्दितमहार्घजीवितो महानुभाव इति । ऽनुरक्तेति यत्त्वमात्थ तत्तथा नाम तादृश्य एव वयं भवामः । वयमिति कुलशी- लादिसूचनया मालत्या सममात्मनोऽभिन्नाया बहुवचननिर्देशः । अत्र किं भणामि लामात्मपरदोषानभिज्ञां त्वाम् । एकाकिनीमिति शेषः । अयं त्विति मदयन्तिकां स्पृशन्ती तामेव निर्दिशति । विशुद्धः परपुरुषानुरागकलङ्करहितो मुग्धो मदन- व्यापारवार्तानभिज्ञः कुलकन्यकाजनः । साभिप्रायैर्वचनैर्वैपरीत्यं द्योत्यते । कथा- न्तरे गोष्ठीमध्य एव, न तु तद्दर्शनादौ । विकलः स्वव्यापाराक्षमः सन्कदम्बगोलकस्य नीपतरुसंस्थानस्याकृतिमुद्यन्मुकुलालंकृतमाकारं कथमाश्रितः । रोमाञ्चकञ्चुकं कथं जातमित्यर्थः । त्वमेव तन्नामग्रहणमात्राविर्भूत मन्मथविकारा प्रसिद्धकौमारवर्धकी भूत्वा कथमितरोपरालम्भे प्रवर्तस इति भावः ॥ १ ॥ मदयन्तिका । सलज्जम् । सखि, किं मामुपहससि । ननु भणामि । निर्वापयति । 'सुखयति' इति पाठः । तादृशस्यात्मनिरपेक्षव्यवसायिनः कृतान्तकवलीक्रियमाणजीवितबलात्कारप्रत्यान- यनगुरूपकारिणो जनस्य संकथामात्रस्य नामग्रहणं स्मरणं च । तथा च त्वयापि गाढगुरुनखप्रहारवेदनारम्भविह्वलितशरीरसंगलितस्वेदसलिलोद्गमो मोहमुकुलीकि- यमाणनेत्रनीलोत्पलयुगलो भूमिविगलितासियष्टिविष्टम्भधैर्यप्रतिधारितशरीरभारः प्रत्यक्षीकृत एव मदयन्तिकामात्रविच्छर्दितमहार्घजीवितो महानुभाव इति ॥

? In northern Devanagari printing, it was printed as standard plus(crescent) on top:धेॅor simplyधेwith a crescent, or U+0946. Wait, let's look at how people usually transcribe NSP's short e and candrabindu: Often people just writeसँहिorसहि, and विधेअह्मिorविधेॅअह्मि. Wait, let's look at both: If it's सँहि: Line 4: मदयन्तिका—(सलज्जम् ।) सँहि, अवेहि अवेहि । उब्भिण्णह्मिLine 6:लवङ्गिका—सँहि मदअन्ति, अह्मे वि जाणीदव्वं जाणामो ।Line 9:बुद्धरक्षिता—सँहि सोहणं लवङ्गिआए भणिदं ।Line 10:मदयन्तिका—विधेॅअह्मि संपदं सहीणं ।(orविधेअह्मि`)

Wait, let's re-examine lines 4, 6, 9: Could it be सॅहि? Wait, if you look at Unicode, सँहि is + (U+0901 candrabindu) + हि. Wait, look at the shape

१७६ मालतीमाधवे लवङ्गिका—जइ एवं ता कहेहि कहं णु दे कालो ग- च्छदि त्ति। मदयन्तिका—णिसामेहि पिअसहि, मम बुद्धरक्खिदापक्खवा- दप्पच्चएण पुढमं एव तस्सिं जणे अविरलकओहलुकण्ठामणहरं हिअअं आसी। तदो विहिणिओइअचिरणिउत्तदंसणा भविअ दुबारदारुणा- आसदुक्खसंदावडज्झन्तचित्तविहडन्तजीविदासा दूरविजम्भिआपूव्व- सव्वङ्गप्पज्वलनमणहुदवहद्दुद्दामदाहदूहसआआसदुम्मणाअन्तपरिअणा पच्चासाविमुक्खमेत्तसुलहमित्तुणिबाणपडिऊलबुद्धरक्खिदावअणविव- ड्ढिआवेअवइअरविसंठुला इमं जीवलोअपरिवत्तं अणुहोमि। संकप्प- चिन्ताए सिविणन्तरेसु अ मणोरहुम्मादमोहिदा पेक्खामि तं जणं। तह १. यद्येवं तत्कथय कथं नु ते कालो गच्छतीति। २. निशामय प्रियसखि, मम बुद्धरक्षितापक्षपातप्रत्ययेन प्रथममेव तस्मिञ्ज- नेऽविरलकौतूहलोत्कण्ठामनोहरं हृदयमासीत्। ततो विधिनियोजितचिरनिर्वृ- त्तदर्शना भूत्वा दुर्वारदारुणायासदुःखसंतापद्ह्यमानचित्तविघटमानजीविताशा दूरविजृम्भितापूर्वसर्वाङ्गप्रज्वलनमदनहुतवहोद्दामदाहदुःसहायासदुर्मनायमान- परिजना प्रत्याशाविमोक्षमात्रसुलभमृत्युनिर्वाणप्रतिकूलबुद्धरक्षितावचनविवर्धि- तावेगव्यतिकरविसंस्थुलेमं जीवलोकपरिवर्तमनुभवामि। संकल्पचिन्तायां स्वप्नान्तरेषु च मनोरथोन्मादमोहिता पश्यामि तं जनम्। तथा च प्रियसखि, मुहूर्तमुद्गूढविस्मयविसंस्थुलोद्वेलविस्तारिप्रान्तनालरक्तनेत्रपुण्डरीकखण्डचोद्भट- सखीनाम् ॥ लवङ्गिका । यद्येवमसद्विधेयासि तत्कथय कथं नु ते कालो गच्छ- तीति। तादृशकाङ्क्षाप्राप्तानुरागविषयं दयितमलभमाना कथं दिवसानतिवाहयसीति भावः ॥ मदयन्तिका । निशामय शृणु प्रियसखि, मम बुद्धरक्षितापक्षपातप्र- त्ययेन प्रथममेव तस्मिञ्जनेऽविरलकौतूहलोत्कण्ठामनोहरं हृदयमासीत्। नास्थाने बुद्धरक्षितापक्षपातं करोतीति तत्स्नेहादेव संभावितसकलनायकगणगरीयानिति प्र- लयो विश्वासोऽस्त्वेवेति भावः। ततो विधिनियोजितचिरनिर्वृत्तदर्शना भूत्वा दुर्वा- रदारुणायासदुःखसंतापद्ह्यमानचित्तविघटमानजीविताशा दूरविजृम्भितापूर्वसर्वा- ङ्गप्रज्वलनमदनहुतवहोद्दामदाहदुःसहायासदुर्मनायमानपरिजना प्रत्याशाविमो- क्षमात्रसुलभमृत्युनिर्वाणप्रतिकूलबुद्धरक्षितावचनविवर्धितावेगव्यतिकरविसंस्थुलेमं जीवलोकपरिवर्तमनुभवामि। मकरन्दप्रत्याशानिवृत्तमात्रेण सुलभो मृत्युरेव निर्वा- णं निर्वृतिस्तत्प्रतिकूलं बुद्धरक्षितावचनं संनिहितमकरन्दप्राप्तिप्रतिपादकं तेन संव- र्धितो य आवेग उद्वेगस्तेन विह्वलेत्यर्थः। संकल्पचिन्तायां स्वप्नान्तरेषु च मनोर-

सप्तमोऽङ्कः । १७७ अ पिअसहि, मुहुत्तं उद्दूढविस्सअविसंठुलुब्बेल्लवित्थारिपेरन्तणालरत्त- णेत्तपुण्डरीअताण्डवड्ढभटपरूढमैरेअमदघुम्मन्तसीलं णिच्चणेदि । किंअ कवलिआरविन्दकेसरकसाअकण्ठकलहंसघोसघग्घरक्खलिअ- गम्भीरभारईभरिअकण्णविवरं पिए मदअन्तिए त्ति मं वाहरइ । अह- पहावन्तो विअ उत्तरीअञ्चलवलम्बणपराहवेण ससंमुत्तरङ्गधमधमा- अन्तहिअअं समुत्तासेइ । सहसा विसज्जिअओसरिअतत्क्खणकठोरक- मलदण्डाअन्तबाहुबन्धणाववारिअपओहरुग्गमं विघटन्तविह्वलमेह- लावलअसंधाणिज्जन्तपीवरोरुप्पडिसिद्धविप्पडीवगमणं पडिकूलवादि- प्ररूढमैरेयमदघूर्णनशीलं निर्वर्णयति । किंच कवलितारविन्दकेसरकषायक- [L

१७८ मालतीमाधवे णीं वि सब्बादरपअत्तणिवत्तिदमुहुत्तकोवोवराअदुक्खपरुसीकिद- हिअअं सिणिद्धपुणरुत्तपल्हत्थलोअणविभाविदासेसचित्तसारं उव- हसिअ दुउणबाहुदण्डावेढणणिच्चेट्ठणिअमिअं पिअसहि, प्परूढस- डूलकठोरकररुहप्पहारविअडपत्तावलीपसाहणुत्तानवच्छत्थलणिठ्ठुरणि- वेसणणीसहं कदुअ सावेअविहूअमत्थअवविद्धकबरीणिहिदकरपरि- ग्गहपुञ्जीकिदुण्णमिअणिच्चलमुहावअवसच्छन्दविलसिदविअद्धवअ- णकमलो वामगण्डमूलचिरविणिहिदप्पप्फुरन्तपुञ्जिआहरसमुग्गममण- हरसहअसारस्सदमणहरुक्कस्सिदसरीरसोहं उल्हसिदसद्धसाणन्दविस- मसंभममणहरसंवळणमन्धरभमन्तचेअणं किं वि किं वि दुविणअसा- चनविभाविताशेषचित्तसारामुपहस्य द्विगुणबाहुदण्डावेष्टननिश्चेष्टनियमितां प्रि- यसखि, प्ररूढशार्दूलकठोरकररुहप्रहारविकटपत्रावलीप्रसाधनोत्तानवक्षःस्थल- निष्ठुरनिवेशननिःसहां कृत्वा सावेगविधूतमस्तकापविद्धकबरीनिहितकरपरिग्रह- पुञ्जीकृतोन्नमितनिश्चलमुखावयवस्वच्छन्दविलसितविदग्धवदनकमलो वामगण्ड- मूलचिरविनिहितप्रस्फुरत्पुञ्जिताधरसमुद्गममनोहरसहजसारस्वतमनोरोत्कर्षि- तशरीरशोभामुल्लसितसाध्वसानन्दविषमसंभ्रममनोहरसंवलनमन्थरभ्रमच्चेतनां रोरुप्रतिषिध्यमानविप्रतीगमनाम् । गाढालिङ्गनसौख्यातिशयतत्क्षणप्रवृद्धानित- म्बाद्विघटमानं विश्लिष्यद्विहलं विस्रस्तं च यन्मेखलावलयं तेन संधार्यमाणाभ्यां पीव- रोरुभ्यामेव प्रतिषिध्यमानप्रतिकूलगमना मित्यर्थः । तथा प्रतिकूलवादिनीमपि सर्वांद- रप्रयत्ननिर्वर्तितमुहूर्तकोपोपरागदुःखपरुषीकृतहृदयाम् । मामित्यर्थः । तथा स्निग्ध- पुनरुक्तपर्यस्तलोचनविभाविताशेषचित्तसारां प्रेमार्द्रविलोचनेनैव मिथ्यैव कुपितेयं न तु वस्तुतोऽस्याः कोपः । प्रत्युत सर्वमेतन्मच्चेष्टितमनुमतमेवेति निर्णीताकूतसर्वस्वा- र्थामुपहस्य त्वदीयं कोपमहं जानाम्येव, त्वयि प्रतिकूलगमनायामपि मेखलैव मत्स- खी त्वामन्यत्र

हसाणुरूवववसाओ मं अन्भट्ठेइ । एवं णाम पिअसहि, समक्खं सब्वं अणुभविअ तदो झत्ति पडिबुद्धा सुण्णारण्णसंणिभं पुणो वि मन्दभाइणी विभावेमि जीवलोअं ति । लवङ्गिका—१सहि मदअन्तिए, फुडं आचक्खेहि । अवि तस्सिं अवसरे सिणेहविब्भमुज्जिअहासविससन्तबुद्धरक्खिदालोअणणिरूवि- दं आसणमऊरं परिअणादो गोवणिज्जं होइ वा किं ण वेत्ति । मदयन्तिका—२अह असंबद्धपरिहाससीले, अवेहि । बुद्धरक्षिता—३सहि मदअन्तिए, मालदीपिअसहि एव्व इमं ईरिसाई जाणाई । किमपि किमपि दुर्वििनयसाहसानुरूपव्यवसायो मामभ्यर्थयते । एवं नाम प्रियसखि, समक्षं सर्वमनुभूय ततो झटिति प्रतिबुद्धा शून्यारण्यसंनिभं पुनरपि मन्दभागिनी विभावयामि जीवलोकमिति । १. सखि मदयन्तिके, स्फुटमाख्याहि । अपि तस्मिन्नवसरे स्नेहविभ्रमो- र्जितहासविकसद्बुद्धरक्षितालोचननिरूपितमासनमयूरकं परिजनाद्गोपनीयं भ- वति वा किं न वेति । २. अयि असंबद्धपरिहासशीले, अपेहि । ३. सखि मदयन्तिके, मालतीप्रियसख्येवेयमीदृशानि जानाति । रीरशोभामुल्लसितसाध्वसानन्दविषमसंभ्रममनोहरसंवलनमन्थरभ्रमचेतनां किमपि किमपि दुर्वििनयसाहसानुरूपव्यवसायो मामभ्यर्थयते एवं नाम प्रियसखि, समक्षं प्रत्यक्षं सर्वमनुभूय ततो झटिति प्रतिबुद्धा शून्यारण्यसंनिभं पुनरपि मन्दभाग्या विभावयामि जीवलोकमिति ॥ लवङ्गिका । सखि मदयन्तिके, स्फुटमाख्याहि । अपि तस्मिन्नवसरे स्नेहविभ्रमोर्जितहासविकसद्बुद्धरक्षितालोचननिरूपितमासनमयू- रक परिजनाद्गोपनीयं भवति वा किं न वेति । आसनार्थं निर्मितं वस्तु तूलपूरितमिति तन्मयूराकारमासनं मयूरकम् । लघीयमासनं मयूरकं स्वप्नसमागमनिमित्तचरमधा- तुक्षरणार्दीकृतं सद्विदिग्धबुद्धरक्षितया सस्नेहं सपरिहासं च स्वाप्निकोऽपि ते प्रियसंग- भोगः पारमार्थिक एव ते जात इति दृष्ट्यैव सूच्यमानं परिजनात्परिहासशङ्कया गोपनीयं च भवति वा न वेत्यर्थः । मालत्यपेक्षया मदयन्तिकाया निकृष्टत्वद्योतनाय चेटीजनोचितजुगुप्सितनर्मवचनप्रवृत्तिरिति ग्राह्यम् । मदयन्तिका । अयि असं- बद्धपरिहासशीले, अपेहि ॥ बुद्धरक्षिता । सखि मदयन्तिके, मालत्याः प्रियस- ख्येवेयमीदृशानि जानाति । ईदृशानि मन्त्रयितुं न खलु मादृशी त्वत्सखीति भावः। मालत्यामेवं दृष्टवतीति कृत्वा तत्सखीत्वेनैवमेषा वदतीति मदयन्तिकायां स्नेहाति-

१८० मालतीमाधवे मदयन्तिका—मा¹ क्खु एवं मालदिं उवहंस । बुद्धरक्षिता—²सहि मदअन्तिए, पुच्छिस्सं दाणिं किं वि । जइ ण मे विस्सासभङ्गं करेसि । मदयन्तिका—किं³ पुणो वि पणअभङ्गेण कीआवराहो अअं जणो जेण एवं मन्तेसि । पिअसहि, तुवं लवङ्गिआ अ संपदं मे हिअअं । बुद्धरक्षिता—⁴जइ दे कहं वि मअरन्दो पुणो वि दंसणपहं ओदरइ तदो किं तुए कादव्वं । मदयन्तिका—⁵एक्केकावयवनिसगलग्गणिच्चले चिरं लोअणे णिवावइस्सं । बुद्धरक्षिता—⁶अह सो मम्महबलक्कारिओ जइ कंदप्पज- णणिं तुमं रुक्किणिं विअ पुरुसोत्तमो सअंगाहसाहसेण सहधम्मआ- रिणिं करेइ तदो कीरिसी पडिवत्ती । १. मा खल्वेवं मालतीमुपहस । २. सखि मदयन्तिके, पृच्छामीदानीं किमपि । यदि न मे विश्वासभङ्गं करोषि । ३. किं पुनरपि प्रणयभङ्गेन कृतापराधोऽयं जनो येनैवं मन्त्रयसे । प्रिय- सखि, त्वं लवङ्गिका च सांप्रतं मे हृदयम् । ४. यदि ते कथमपि मकरन्दः पुनरपि दर्शनपथमवतरति तदा किं त्वया कर्तव्यम् । ५. एकैकावयवनिसर्गलग्ननिश्चले चिरं लोचने निर्वापयिष्ये । ६. अथ स मन्मथबलात्कारितो यदि कंदर्पजननीं त्वां रुक्मिणीमिव पुरु- षोत्तमः स्वयंग्राहसाहसेन सहधर्मचारिणीं करोति तदा कीदृशी प्रतिपत्तिः । शयो बुद्धरक्षिताया दर्शितः॥मदयन्तिका। मा खल्वेवं मालतीमुपहस॥बुद्धर- क्षिता। सखि मदयन्तिके,पृच्छामीदानीं किमपि। यदि मे विश्वासभङ्गं न करोषि॥ मदयन्तिका । किं पुनरपि प्रणयभङ्गेन कृतापराधोऽयं जनो येनैवं मन्त्रयसे । प्रियसखि, त्वं लवङ्गिका च सांप्रतं मे हृदयम् ॥ बुद्धरक्षिता । यदि ते कथमपि मकरन्दः पुनरपि दर्शनपथमवतरति तदा किं त्वया कर्तव्यम् ॥ मदयन्तिका । एकैकावयवनिसर्गलग्ननिश्चले चिरं लोचने निर्वापयिष्ये ॥ बुद्धरक्षिता । अथ स मन्मथबलात्कारितो यदि कंदर्पजननीं त्वां रुक्मिणीमिव पुरुषोत्तमः स्वयंग्रा-

सप्तमोऽङ्कः । १८१

मदयन्तिका—(निःश्वस्य ।) ¹किं एत्तिअं आसासिव्हि । बुद्धरक्षिता—²सहि, कहेहि । लवङ्गिका—³सहि, कहिदं एव हिअआवेअसूअएहिं दीह- णीसासेहिं । मदयन्तिका—⁴सहि, काहं इमस्स देण एव अत्ताणं पणीक- दुअ मिच्चुकवलणादो आकड्ढिअस्स तस्स एव्व परईअस्स किच्चकिं- करस्स अप्पणो सरीरस्स । लवङ्गिका—⁵सरिसं खु महाणुभावदाए । बुद्धरक्षिता—⁶सुमरेसि एदं वअणं । मदयन्तिका—⁷कहं दुदिअआमविच्छेदपडहो ताडिअदि । ता जाव णन्दणं णिब्भच्छिअ सपादपडणं वा अब्भत्थिअ मालदीए उ- वरि अणुऊलइस्सं । (इत्युत्थातुमिच्छति ।)


१. कस्मादेतावदाश्वासितास्मि । २. सखि, कथय । ३. सखि, कथितमेव हृदयावेगसूचकैर्दीर्घनिःश्वासैः । ४. सखि, काहमेतस्य तेनैवात्मानं पणीकृत्य मृत्युकवलनादाकृष्टस्य तस्यैव परकीयस्य कृत्यकिंकरस्यात्मनः शरीरस्य । ५. सदृशं खलु महानुभावतायाः । ६. स्मरिष्यसेतद्वचनम् । ७. कथं द्वितीययामविच्छेदपटहस्ताड्यते । तद्यावन्नन्दनं निर्भर्त्स्य सपाद- पतनं वाभ्यर्थ्य मालत्या उपर्यनुकूलयिष्यामि ।


दृसाहसेन सहधर्मचारिणीं करोति तदा कीदृशी प्रतिपत्तिः किं प्रतिपत्तव्यम् । मन्म- थबलात्कारः संजातो यस्मिंस्तादृशः । कंदर्पजननीं प्रद्युम्नमातरं मन्मथविकारहेतुं च । पुरुषोत्तमो हरिः पुरुषश्रेष्ठश्च ॥ मदयन्तिका । कस्मादेतावदाश्वासितास्मि । मनोरथमात्रमिदं न संभाव्यत इति भावः ॥ बुद्धरक्षिता । सखि, कथय । व्यक्ती- कृतेति शेषः ॥ लवङ्गिका । सखि, कथितमेव हृदयावेगसूचकैर्दीर्घनिःश्वासैः । इष्टमेवैतद्यदि सिध्येदिति कथितमेवेत्यर्थः । तस्मान्मकरन्दानयनोपायश्चिन्त्यता- मिति भावः ॥ मदयन्तिका । सखि, काहमेतस्य तेनैवात्मनः पणीकृत्य मृत्यु- कवलनादाकृष्टस्य तस्यैव परकीयस्य कृत्यकिंकरस्यात्मनः शरीरस्य ॥ लवङ्गिका । सदृशं खलु महानुभावतायाः । तद्युक्तमिति शेषः ॥ बुद्धरक्षिता । स्मरिष्यस्येत- द्वचनम् ॥ मदयन्तिका । कथं द्वितीययामविच्छेदपटहस्ताड्यते । तद्यावन्नन्दनं

१८२ मालतीमाधवे (मकरन्दो मुखमुद्भाव्य तां हस्ते गृह्णाति ।) मदयन्तिका—सहि मालदि, पडिबुद्धासि । (विलोक्य सहर्षं ससाध्वसं च ।) अह्महे, एदं अण्णं एव्व वट्टइ । मकरन्दः— रम्भोरु संहर भयं क्षमते विकार- मुत्कम्पिनः स्तनतटस्य न मध्यभागः । इत्थं त्वयैव कथितप्रणयप्रसादः संकल्पनिर्वृतिषु संस्तुत एष दासः ॥ २ ॥ बुद्धरक्षिता—(मदयन्तिकामुखमुन्नमय्य संस्कृतमाश्रित्य ।) प्रेयान्मनोरथसहस्रवृतः स एष सुप्तप्रमत्तजनमेतदमात्यवेश्म । प्रौढं तमः कुरु कृतज्ञतयैव भद्र- मुत्क्षिप्तमूकमणिनूपुरमेहि यामः ॥ ३ ॥ १. सखि मालति, प्रतिबुद्धासि । अहो, इदमन्यदेव वर्तते । [

सप्तमोऽङ्कः । १८३ मदयन्तिका—सहि बुद्धरक्खिदे, कहिं पुणो दाणिं अह्मेहिं गन्दव्वं । बुद्धरक्षिता—जेहिं एव्व मालदी गदा । मदयन्तिका—किं³ णिव्वुत्तसाहसा मालदी । बुद्धरक्षिता—अह इं । अण्णं अ तुमं भणासि । (‘का हं इमस्स’ इत्यादि पठति ।) (मदयन्तिकाश्रूणि पातयति ।) बुद्धरक्षिता—महाभाअ, दिण्णो खु सअं अप्पा पिअसहीए । मकरन्दः— अद्योर्जितं विजितमेव मया किमन्य- दद्योत्सवः फलवतो मम यौवनस्य । यन्मे प्रसादसुमुखेन समुद्यतेयं देवेन बान्धवधुरा मकरध्वजेन ॥ ४ ॥

१. सखि, बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् । २. यत्रैव मालती गता । ३. किं निर्वृत्तसाहसा मालती । ४. अथ किम् । अन्यच्च त्वं भणसि । ५. महाभाग, दत्तः खलु स्वयमात्मा प्रियसख्या ।

स्यादेवं यामः । एहि । नूपुरध्वनिरन्यैर्यथा न श्रूयते, तथोर्ध्वमुत्क्षिप्य कैश्चित्पद्बल- क्षिता यत्र मालतीमाधवौ तत्रैव यामस्त्वरितं मा लज्जस्वेत्यर्थः ॥ ३ ॥ मदय- न्तिका । सखि बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् ॥ बुद्धरक्षिता । यत्रैव मालती गता ॥ मदयन्तिका । किं निर्वृत्तसाहसा मालती । साहसं स्व- यमेवात्मप्रदानम् ॥ बुद्धरक्षिता । अथ किम् । निर्वृत्तसाहसैवेत्यर्थः । अन्यच्च त्वं भणसि । ‘काहमितस्य’ इत्यादि पठति । त्वया यदुक्तं तदनुरूपं विधेहीत्यर्थः ॥ मदयन्तिका गुरुजनविधीयमानसप्रदान इव स्वयमश्रूणि पातयति ॥ बुद्धरक्षिता आनन्दाश्रुविमोचनेनैव तस्याः स्वात्मप्रदानमधिगम्याह—महाभाग, दत्तः खलु स्वयमात्मा प्रियसख्या । आनन्दाश्रुपूर्वकमिति भावः ॥ मकरन्दः—अद्येति । अद्य प्रियतमालाभान्मयोर्जितं बलं यथा स्यादेवं विजितमेव सर्वोत्तरत्वं संपादित- मेव । किमन्यदितः परमाश्रास्यमवशिष्टम् । न किंचिदित्यर्थः । तथा फलवतो द- यिताप्राप्त्यैव सफलस्य मे नवयौवनस्याद्योत्सवो मङ्गलदिनम् । यन्मे प्रसादमुखेन मकरध्वजेन माधवाभिलषितं संपाद्य मदभिलषितमपि संपादयता बान्धवधुरा १७ माल०

१८४ मालतीमाधवे तदनेन पक्षद्वारेण साधयामः । (निभृतं परिक्रामन्ति ।) मकरन्दः—अहो निशीथनिःसंचाररमणीयता राजमार्गस्य । संप्रति हि । प्रासादानामुपरि वलभीतुङ्गवातायनेषु प्राप्तामोदः परिणतसुरागन्धसंस्कारगर्भः । माल्यामोदी मुहुरुपचितस्फीतकर्पूरवासो वातो यूनामभिमतवधूसंनिधानं व्यनक्ति ॥ ५ ॥ (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे सप्तमोऽङ्कः । बन्धुकृत्यमुद्यतोचितपदं प्रापिता ॥ ४ ॥ पक्षद्वारेण पार्श्वद्वारेण । साधयामो ग- च्छामः॥ समीहितं निशीथे निःसंचारेण राजमार्गस्य रमणीयतास्मत्प्रयाणानुगुण्यं वर्तते ॥ प्रासादानामिति । सौधानामुपरिभागेषु वलभीजालगवाक्षमार्गेषु प्रविश्य प्राप्तामोदः । 'भ्रान्त्यावृत्तः' इति पाठे गवाक्षमार्गेण हर्म्यतलेषु परिभ्रम्य पुनरावृत्तः । अत एव परिणतमद्यगन्धजनितवासनानुविद्धः । माल्यामोदी पुनः पुनरनुषक्तस्फुरद्धनसारगन्धी वातो यूनामभिलषितं युवतीसंनिधानं व्यनक्तीति मद्यपानमाल्यादिभिः सुरतादिभोगो व्यज्यते ॥ ५ ॥ मद्व्याख्यामन्थमथिताद्भवभूतिवचोम्बुधेः । रसामृतमभिव्यक्तं स्वादयन्तु सुधाधियः ॥ इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि- पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां सप्तमाङ्कविवरणम् ॥

अष्टमोऽङ्कः । (ततः प्रविशत्यवलोकिता ।) अवलोकिता—वन्दिदा मए णन्दणावसथपडिणिउत्ता भ- अवदी । ता जाव मालदीमाहवसआसं गच्छामि । (परिक्रम्य ।) एदे दे परिणिउत्तिदगिम्हदिअहावसाणमज्जणा दीहिआतीरसिलातलं अ- लंकरेदि । ता उपसप्पमि । (इति निष्क्रान्ता ।) प्रवेशकः । (ततः प्रविशतो मालतीमाधवौ उपविष्टावलोकिता च ।) माधवः—(सानन्दम् ।) वर्धते हि मन्मथप्रौढसुहृदो निशीथस्य यौवनश्रीः । तथा हि । दलयति परिशुष्यत्प्रौढतालीविपाण्डु- स्तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः । वियति पवनवेगादुन्मुखः केतकीनां प्रचलित इव सान्द्रः स्फारस्फारं परागः ॥ १ ॥ १. वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भगवती । तद्यावन्मालती- माधवसकाशं गच्छामि । एतौ तौ परिनिवर्तितग्रीष्मदिवसावसानमज्जनौ दीर्घिकातीरशिलातलमलंकुरुतः । तदुपसर्पामि । विबुधरत्नावली । अथ मालतीमाधवयोः कामन्दक्यावसथस्थितयोः कृत्यवेशसंपादनानुगुणव्यापारा- र्थमवलोकिताप्रवेशः । अवलोकिता । वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भग- वती।तद्यावन्मालतीमाधवयोःसकाशं गच्छामि।परिक्रम्यापश्यतीति शेषः। एतौ तौ परिनिवर्तितग्रीष्मदिवसावसानमज्जनौ दीर्घिकातीरबिलातलमलंकुरुतः । तदुपसर्पा- मि॥ माधवः। निशीथस्य वक्ष्यमाणचन्द्रोदयत्वेन मन्मथप्रौढसुहृदः। मन्मथसुहृत्ता च मन्मथसाध्यानुकूलकरणात् । तत्र समये । ‘सानन्दसाध्वसाः सुरतव्यवसायिन्यो भवन्ति’ इति वात्स्यायनः । तथा हीति कृत्वा तस्या एव निशीथयौवनश्रिय उत्क- र्षनिमित्तं व्यनक्ति—दलयतीति । उद्यन्नैन्दवः प्रकाशस्तद्वच्छुष्यत्ताली

१८६ मालतीमाधवे (स्वगतम् ।) तत्कथं वामशीलां मालतीमुपावर्तये । भवत्वेवं तावत् । (प्रकाशम् ।) प्रिये मालति,प्रत्यग्रस्नपनावशेषशीतलां भवतीं निदा- घसंतापशान्तये किंचिद्विज्ञापयामि। तत्किमित्यन्यथैव मां संभावयसि । निष्योतन्ते सुतनु कबरीबिन्दवो यावदेते यावन्मध्यः स्तनमुकुलयोराद्रंभावं जहाति । यावत्सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टि- स्तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥ २ ॥ अयि मालति निरनुक्रोशे, रित्रत्वेन च तदभिप्रायस्यानुकूलं गम्यमित्याचरन्तीं वामशीलामिव वामशीलामुपाव- र्तये स्वाभिमतसिद्धिप्रगुणचित्तां करोमि । भवत्वित्युपायस्मरणे । एवं तावत्कामसू- त्रोक्तेन कन्याविस्रम्भणोपायैनोपावर्तनार्थं यतिष्य इत्यभिप्रायेण मतिं व्यवस्थाप्य प्रकाशमाह—प्रिय इति । अत्र निदाघसंतापशान्तय इत्युक्त्या संतापप्रतीकारधिया न रागितयैव त्वदङ्गसङ्गप्रार्थनार्थं विज्ञापयामीति प्रेमगर्भं विनयप्रदर्शनम् । निष्यो- तन्त इति । सुतन्विति संबोधनेनालिङ्गनात्यन्तोपयुक्तस्य नायिकाशरीरस्याभिराम- णीयकप्रदर्शनं किमितीदृश्यां दशायां दर्शनार्हं मां न संभावयसि । मया त्वं य- स्मिन्नवसरे श्मशानभुवि संभावितासि तत्सदृश एवायं समय इत्याशयः । निष्यो- तन्त इत्यात्मनेपदं चिन्त्यम् । अथ स्नानविमुक्तबन्धकबरीसङ्गिनो जलबिन्दवो यावदेव पतन्ति, यावद्वा स्तनद्वन्द्वान्तर्भागः स्नानजलाद्रों वर्तते, यावच्च स्नानशैत्या- त्सान्द्रपुलकत्वं गता तावदेवाश्लेषं देहि, प्रसन्ना भव । एतेन मालत्येवं जानातु य- त्किल मदङ्गवर्ती मज्जनजनितशैत्यमेवास्य स्पर्शसंतापशान्तये सत्यमभीष्टम्, न पुनः कामन्दकीलवङ्गिकाद्यभिप्रयानपेक्षमेव परिणयविधानमनादृत्य किंचिच्चिकीर्षुरिति विमृश्य मालती मह्यं कापालिकवधोपकारबुद्ध्या वितरत्विति माधवस्याशयः । वस्तु- तस्तु जलमज्जनजन्यां तात्कालिकीं कान्तिं शोभामिति स तत्र कान्तिगतालंका- रत्वेन भरतमुनिसंमतामवलोक्यातिरागादेवाश्लेषप्रार्थनायां प्रवृत्तः । 'रूपयौवनला- वण्यादुपभोगोपबृंहितैः । अलंकरणमङ्गानां शोभेति परिकीर्तिता । कान्तिरित्यु- च्यते सापि शोभैवापूर्णमन्मथा ॥' तथा । 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणि- नैकेन कृत्वा धृत्वा चान्येन वासो विलुलितकबरीभारमंसे वहन्त्याः । भूयस्तत्काल- कान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरतिविचलद्बाहु लक्ष्म्याः पुनातु ॥' इति ॥२॥ अथ कामसूत्रविन्माधवस्तदूह्यस्यापि 'अनुत्तरां चोप- लक्ष्यात्'(?) इत्यादिकां द्वितीयभूमिकामधिरोपयन्नाह—अयीति । निरनुक्रोशे इति रोषोद्भावनेन मालत्या विभीषिका दर्शिता । यथाह वात्स्यायनः—'एवं चित्तानुगो बालामुपायेन प्रसादयेत् । तथा चेत्सानुरागा च विस्रब्धा चापि जायते ॥ नात्यन्त- मानुलोम्येन न चातिप्रातिकूल्यतः । सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साध-

अष्टमोऽङ्कः । १८७ जीवयन्निव समूढसाध्वस- स्वेदबिन्दुरधिकण्ठमर्प्यताम् । बाहुरैन्दवमयूखचुम्बित- स्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३ ॥ अथवा दूरे तावदेतत् । कथमालापसंविभोगस्याप्यभाजनमयं जनो भवत्याः । दग्धं चिराय मलयनिलचन्द्रपादै- र्निर्वापितं तु परिरभ्य वपुर्न नाम । आमत्तकोकिलरुतव्यथिता तु हृद्या- मद्य श्रुतिः पिबतु किंनरकण्ठि वाच्यम् ॥ ४ ॥ अवलोकिता—अई अणिबहणसीले, जं दाणिं मुहुत्तमेत्तन्तरि- अमाहवा दुम्मणाअन्ती मह पुरदो भणासि । चिराअदि अज्जउत्तो । अवि णाम किअच्छिरेण पेक्खिस्सं, जेण पुणो विवड्ढिआसेससज्जसा १. अयि अनिर्वहणशीले