मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
२४६ मीमांसादर्शनम् [ सू० व्यपदेशे को दोषस्तत्राह—एवमिति । एवं नावधारयेयुरित्येतद्विवृणोति— सम्यगिति । एतदिति रूपविशेषस्मरणं तादृशं चेदमष्टकादिस्मरणमूलापेक्षपूर्व- पूर्वस्मरणमूलत्वस्य त्वयोक्तत्वादित्याशयः । तेन प्रमाणमूलासंभवेन निर्मूलतया स्मृत्यप्रामाण्यात् तदर्थोऽष्टकादिरपि नादर्तव्यः । ततश्चाननुष्ठेय इत्युपसंहरति— अत इति । पौरुषेयी हि वाक्यरचना यदर्थविषयोपलभ्यते, तदर्थविषयमेव रचयितुर्ज्ञानं कल्पयति, नार्थं निश्चाययतीत्यष्टकादिवाक्यरचनाप्यष्टकादिकर्तव्यता- ज्ञानमात्रमनुमापयेत्, तच्च ज्ञानं मूलप्रमाणाधीनप्रामाण्यमिति तन्मूलापेक्षायां यदि मन्वादिज्ञानमपि स्मृत्यन्तराधीनमेव कल्प्येत ततस्तस्याः स्मृत्यन्तराधीन- त्वादपर्यवसानमेव स्यात् । अथैतद्दोषपरिहाराय मन्वादिज्ञानमूलतया श्रुतिरेव कल्पयितव्येति । तदप्य- भद्रम्, ज्ञानमूलतयापि हि प्रथमं श्रुतिज्ञानमेव कल्प्यते, न श्रुतिः । तेन च श्रुति- सद्भावनिश्चयः; ततश्चार्थज्ञानवच्छ्रुतिज्ञानस्यापि मूलापेक्षायाः स्मृत्यन्तरमेव मूलतया कल्पनीयम्, तत्र च पूर्ववदपर्यवसानमेव इति श्रुतिस्वरूपानिश्चयात् न मन्वादिज्ञानस्य तन्मूलत्वनिर्णय इति न स्मृत्या श्रुत्यनुमानसंभवः, ततश्च कारणाभावात् भ्रान्तिमूलैव स्मृतिरिति अष्टकाद्यनपेक्ष्यत्वेन च तद्विषयस्मृति- प्रामाण्यस्यानपेक्ष्यत्वमनादेयत्वमभिसंहितम् । एतेनाचाराणामप्यनन्तानामेकश्रुतिमूलत्वासंभवात्, आचरितॄणां चानन्त- श्रुतिदर्शनानुपपत्तेः 'आचारश्चैव साधूनाम्' इत्याचारप्रामाण्यश्रुतेश्च संभवन्मूला- न्तरतया श्रुत्यननुमापकत्वान्निर्मूलतया स्मृतिवदप्रामाण्यमुक्तं वेदितव्यम् । सिद्धान्तमाह—अपि चेति । सूत्रावयवं पूर्वपक्षव्यावर्तकतया व्याचष्टे— अपि वेति । सौत्रं प्रमाणपदं सिद्धान्तप्रतिज्ञार्थत्वेन व्याचष्टे—प्रमाणमेवेति । कुत इत्यपेक्षायामूलसूत्रं हेतुमाह—विज्ञानं हीति । अन्यथा अप्रमाणमित्यर्थः । अत्र विज्ञायतेऽनेनेति करणव्युत्पत्त्या ज्ञानोत्पादकत्वं हेतुकृतम्, ततश्च न मन्वादिवचनानामनुत्पादकत्वलक्षणमप्रामाण्यम्, भ्रममूलकत्वलक्षणं तु भविष्य- तीत्याशङ्कते—पूर्वेति । विज्ञानं-विशिष्टं ज्ञानं प्रमाणरूपं कारणमस्या नास्ति । कुत इत्यत आह—कारणेति । अर्थनियतस्य कारणस्याभावादित्यर्थः । अनुमानं स्यादिति सूत्रावयवेन परिहरति—अस्या इति । आप्तप्रमाणीकृतत्वमहाजनपरि- गृहीतत्वादृढत्वम्, यथा स्मृतेः कार्यात् कारणानुमानम्, तथा द्रढिम्नः कारणस्यार्थनियतत्वमपि अनुमातव्यमित्यर्थः, तर्हि स्मृतिदार्ढ्यात् तन्मूलविज्ञान- कारणं प्रत्यक्षमेवानुमीयतामत आह—तत्त्विति । तदपि कारणमनुभूयतेऽनेनेत्यनु- भवनं प्रत्यक्षं नानुमास्यामहे इति संबन्धः । तत्र हेतुरनुपपत्तेरिति । तामेव विवृणोति—नहीति । किमिदं मन्वादीनां स्वर्गाष्टकादिसाध्यसाधनसंबन्धविषयं प्रत्यक्षं साधनावस्थायाम्, फलावस्थायां वा ? नाद्यः अस्मदादीनामिव
१ ] प्रथमाध्याये तृतीयपादः २४७ मन्वादीनामपि अतीन्द्रियार्थदर्शित्वाभावस्य प्रथमपाद एव सिद्धत्वादित्यर्थः, यदि चाष्टकाफलस्य विश्वजिन्यायावगतस्य निरतिशयसुखरूपस्य स्वर्गस्य मर्दनादिफलवदानन्तर्यं स्यात् ततः प्रत्यक्षेणापि साध्यसाधनसंबन्धो गम्येत, न त्वेतदस्ति तथाविधसुखस्य मनुष्यैरनुभवितुमयोग्यत्वादिति दर्शयितुं मनुष्या इत्युक्तम् । न द्वितीयः इत्याह - जन्मान्तरेति । यदि साधनावस्थायामनुभूतं फलावस्थायां स्मर्येत ततोऽस्येदं फलमिति साध्यसाधनसंबन्धः प्रतिसन्धीयेत । न चैतदस्ति निश्शेषसंस्कारोच्छेदिमरणान्तरितत्वेन स्मरणायोग्यत्वादित्यर्थः । किं तर्ह्यनुमीयते इत्यपेक्षायां पारिशेष्याच्चोदनैवेत्याह-ग्रन्थस्त्विति । ननु मन्वादिषु ग्रन्थस्यापि चोदनापरपर्यायस्य कथमुपपत्तिरित्याशङ्क्य कर्तृ- सामान्यादिति सूत्रावयवं व्याचष्टे-कर्तृसामान्यादिति । मन्वादीनां वेदसंयो- गोपपत्तौ हेतुस्त्रैवर्णिकानामिति त्रैवर्णिकत्वमुपपादयितुं स्मृतिवैदिकपदार्थयोः कर्तृसामान्यादिति । ये ह्यग्निहोत्रादिवैदिकपदार्थाननुतिष्ठन्ति, त एव मन्वादयः स्मृतिप्रणेतार इति तेषां त्रैवर्णिकतया वेदसंयोगोपपत्तौ तन्मूलता स्मृतेरनुमीयत इति अभिसन्धिः । अनुपलब्धिविरोधान्न चोदनामूलत्वकल्पना युक्तेति चोदयति- नन्विति । नोपलभन्त आधुनिका इत्यर्थः । न तावदनुपलब्धिमात्रमभावं गमयति; अतिप्रसङ्गात्; विप्रकीर्णानैकशाखाप्रकरणस्थत्वे च योग्यानुपलब्ध्यभावान्ना- नुपलब्धिविरोध इति मन्वानः परिहरति-अनुपलभमाना अपीति । उपलभ्य- मानानामेव वाक्यानामिदमत्रेति विशेषस्मरणाभावमात्रत्वादनुपलब्धिरेवासिद्धे- त्याह-विस्मरणमपीति । एवं कारणसंभवेन पूर्वविज्ञानसंभवमुपपादयितु- मुपसंहरति-तदिति । स्मर्तॄणां त्रैवर्णिकतया वेदसंयोगित्वेन पूर्वविज्ञान- स्योपपन्नत्वाद्भेदानुमानमुपपद्यत इत्यर्थः । एवमविशेषतः स्मृतीनां श्रुतिमूल- कत्वमुक्त्वा, अष्टकास्मृतेः लिङ्गमूलतामप्याह-अष्टकेति । रात्रि धेनु- मिवायती संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गल्यष्टकायै सुराधसे स्वाहेति मन्त्रशेषः । तत्र चाष्टकाये सुराधस इति स्पष्टमष्टकालिङ्गत्वे अस्त्वदृष्टार्थेषु अष्टकादिवाक्येषु अप्रामाण्याशङ्का दृष्टार्थेषु तु गुर्वनुगमनादिवाक्येषु सापि न संभवतीति विशेषमाह-तथेति । ये ह्युपस्थितमुपस्थितं निमित्तमासनोत्थानगमनादिरूपं प्रति नियम्यन्ते ते प्रत्युपस्थितनियमा नीचासनप्रत्युत्थानगमनादयः तथाविधाचारा विद्यन्ते, येषामर्थतया येषां स्मृतिग्रन्थानामिति विग्रहः गुर्वनुगमनादिनियमस्य वैदिक- मूलतया वैदिकत्वे सत्यपि दृष्टार्थत्वरूपमतिशयं वक्तुमेवकारः, दृष्टार्थमुपपादयति- गुरोरिति । अर्थग्रन्थिभेदिनश्चेति निगूढार्थविवरणनिपुणतया न्यायानां नैर्मल्य- मुक्तम्, गुर्वंनुगमनेऽपि लिङ्गदर्शनमाह-तथा चेति । यस्माच्छ्रेयानश्वः पापीयसा गर्दभेनानुगन्तव्यः, तस्मादेव लोके श्रेयांसं श्रेष्ठं पूर्वं यन्तम् अग्रे गच्छति पापीयान्
२४८ मीमांसादर्शनम् [ सू० न्यूनः पश्चात् पृष्ठतोऽन्वेति—गच्छतीत्यर्थः, प्रपादावपि दृष्टार्थत्वमाह—तथा चेति । प्रपेति, न धर्मयेति केवलादृष्टार्थत्वनिषेधः प्रपातटाकयोः परोपकारत्वे लिङ्गमाह—तथा चेति । यथा धन्वन्नि—निरुदके प्रदेशे कृता प्रपा परेषामुपकरोति, तथा त्वमपीत्यग्निसुतिपरोऽयं मन्त्रः । स्थलया-कृत्रिमेण स्थलेन सेतुना कृतेनेत्यर्थः । अकृत्रिमस्थले ङीष्प्रत्ययविधानेऽपि कृत्रिमे टाप्प्रत्ययानपवादस्मृतेः स्थलाशब्दस्य कृत्रिमतीरवाचित्वात् तटाकलिङ्गत्वं व्यक्तमित्याशयः । शिखाकर्मणोऽपि दृष्टार्थत्वं प्रतिपादयति—तथागोत्रेति । गोत्रज्ञानं तावच्च- तुरवत्तपञ्चावत्तविभागद्वारेण कर्माङ्गं गोत्रज्ञानस्य च त्रिशिखत्वपञ्चशिखत्वादिरूपं शिखाकर्म चिह्नमिति शिखाकर्मणोऽपि दृष्टार्थत्वमित्यर्थः, तत्रापि लिङ्गदर्शन- मित्याह—दर्शनं चेति । कुमारा विशिखा इवेति विविधशिखत्वप्रतिपादनात् शिखाकर्मलिङ्गत्वमस्य, अधिकरणार्थमुपसंहरति—तेनेति । दृष्टार्थगुर्व्वनुगमनादि- विषयाश्शब्दाः अदृष्टार्था अष्टका कर्तव्येत्येवमादयः, ततश्च दृष्टादृष्टार्थस्मृतीनां कथंचिद्दृष्टार्थत्वाविशेषाच्चोदनामूलत्वेनैव प्रामाण्यमाश्रयणीयमिति भावः । अत्र यद्यप्याचरयितॄणामाचारमूलानन्तश्रुतिदर्शनासम्भवः तथापि स्मर्तुरेकस्य शाखान्तरविप्रकीर्णानेकश्रुतिदर्शनसंभवात् स्मृतिदार्थ्येन च मूलान्तरकल्पना- नुपपत्तेः आचाराणामपि धर्मबुद्ध्यानुष्ठीयमानानां स्मृतिव्यवधानेन श्रुत्यनुमा- पकतया धर्मप्रामाण्यमित्यपि अदृष्टार्थेषु वैदिकशब्दानुमानमित्यनेन सूचितम् ॥१॥ तन्त्रवार्तिकम् । त० वा०—एवं तावद्विध्यर्थवादमन्त्रनामधेयात्मकस्य वेदस्य धर्मं प्रत्युपयोगः साधितः इदानीं पौरुषेयीषु स्मर्यमाणार्थावधिषु मन्वादिप्रणीतनिबन्धनासु स्मृतिषु अनिबद्धेषु चाऽऽचारेषु चिन्ता । तत्र किंचिदुदाहृत्य विचारः कर्तव्य इत्यष्टकादिस्मरणानि मन्वादिस्थानि तद्ग्रन्थसमर्पितानि प्रमाणाप्रमाणविचार- विषयत्वेनोदाह्रियन्ते । सन्देहहेतुश्चाभिधीयते । पारतन्त्र्यात्स्वतो नैषां प्रमाणत्वावधारणा । अप्रामाण्यविकल्पस्तु द्रढिम्नैव विहन्यते ॥ मन्वादिवचनं स्मृत्यपेक्षम्,१ स्मृतिश्च मूलप्रमाणापेक्षिणीति, नैकस्यापि वेदव- न्निरपेक्षप्रामाण्यनिश्चयः । यतस्तु वेदवादिनामेवाविगानेनाविच्छिन्नपारम्पर्य- परिग्रहदाढ्यंम्, अतो नाप्रामाण्याध्यवसानमिति, युक्तः संदेहः । १. अत्र वार्तिकेऽनपेक्षम्, अनपेक्ष्यमिति पाठद्वयमङ्गीकृत्य श्रौतस्मार्तविज्ञानविरोधे यदन- पेक्षमपेक्षावर्जितं यस्य वापक्षणीयमन्यन्नास्ति, तत्, प्रमाणमिति व्याख्यातमिति बोध्यम् ।
१ ] प्रथमाध्याये तृतीयपादः ३४९ तत्र पूर्वपक्षवादी वदति नैषां प्रामाण्यमेवापेक्षितमिति । कुतः ? पूर्वविज्ञानविषयं विज्ञानं स्मृतिरुच्यते । पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावधार्यते ॥ सर्वस्मरणानि हि प्रत्यक्षाद्यवगतेऽर्थे तदानुरूप्येणोपजायमानान्यर्थं समर्प- यन्ति । तदिहाष्टकादीनां स्वर्गादिसाध्यसाधनभावं प्रत्यक्षादीनि तावन्न गृह्णन्तीति साधितम् । शब्दोऽपि यथाऽग्निहोत्रादिषु प्रत्यक्षेणोपलभ्यते, नैवमनवस्थाः । प्रत्यक्षानुपलब्धे च शब्दे सद्भावकल्पना । धर्मास्तित्वप्रमाणाद्धि विप्रकृष्टतरा भवेत् ॥ शब्दस्य तावदेकमेव प्रत्यक्षं प्रमाणम् । स चेत्तेनानवगम्यमानोऽप्यस्ती- त्युच्यते, ततो वरं धर्मास्तित्वमेव निष्प्रमाणकमभ्युपगतमिति । न वाऽऽनुमानमप्यस्मिन्नष्टकाश्रुतिकल्पने । न हि स्मृतिस्तया व्याप्ता दृष्टाऽन्यद्वाऽनुमापकम् ॥ यथैव धर्मे संबन्धादर्शनान्न किंचिल्लिङ्गं क्रमते, तथाऽष्टकादिश्रुतावपि । न चाऽऽगमेन तद्बोधो नित्येन कृतकेन वा । विस्रम्भः कृतके नास्ति नित्यो नैवोपपद्यते ॥ यद्यप्यैन्द्रियकत्वादष्टकादिस्मृतीनां पौरुषेयागमगम्यत्वं संभवति । तथाऽपि विप्रलम्भभूयिष्ठत्वादश्रद्धेयवचनेषु पुरुषेष्वनध्यवसानम् । दृश्यन्ते ह्यनागमिकान- प्यर्थानागमिकत्वाध्यारोपेण केचिदद्यत्वेऽप्यभिदधानाः । तेन मन्वादिभिरपि किमष्टकाश्रुतीरुपलभ्य वेदमूलत्वं स्वनिबन्धनानां प्रतिज्ञातमुतानुपलभ्यैव श्रद्धेय- वाक्यत्वार्थमिति दुष्टपुरुषाकुलितचेतसां भवति सन्देहः । तावता च प्रामाण्य- विघातः । नित्यस्य वचनस्याऽऽदिमत्स्मरणमूलप्रतिपादने व्यापार एव नास्ति । न च मन्त्रलिङ्गानि स्वयं मूलत्वं प्रतिपद्यन्ते, विधिशून्यत्वात् । न च मूलान्तरं न्यायागतं सूचयन्ति । अन्यपरत्वात् । न च सर्वेषां स्मृतिप्रणयिनामविगानम् । येन पौरुषेयागमबलादुपलब्धपूर्वश्रुतिमूलत्वं स्यात् । न च विज्ञायते वाक्यं कीदृशं तैर्निरूपितम् । अर्थवादादिरूपाद्धि पश्यामो भ्राम्यतो बहून् ॥ यदि ह्येतदेकान्तेन गम्येत, यथाविधि वाक्यान्येव मन्वादिभिरुपलब्धानीति । ततः काऽपि कल्पना स्यादद्यत्वेऽप्यन्यपरार्थवादादिवचनेभ्योऽपि भ्राम्यन्तः पुरुषा दृश्यन्ते । तेन तेष्वप्याशङ्का भवति । मृतसाक्षिकव्यवहारवच्च प्रलीनशाखा- मूलत्वकल्पनायां यस्मै यद्रोचते, स तत्प्रमाणीकुर्यात् । तस्मान्नाऽऽगमेनापि मूलोपलब्धिः ॥
३५० मीमांसादर्शनम् [ सू० उपमानं त्वदृष्टेऽर्थे सदृशे चानिरूपिते । नैवेष्टमिति तेनापि न मूलश्रुतिसाधनम् ॥ अर्थापत्त्याऽपि यत्किञ्चिन्मूलमित्यवगम्यते । तच्चाप्रमाणपक्षेऽपि भ्रान्त्यादि न विरुध्यते ॥ यदि हि श्रुतिकल्पनेन विना स्मृतिर्नोपपद्यते, ततः सम्यङ्मूला स्यात् । संभवति तु स्वप्नमूलत्वेन तेनानैकान्त्यादर्थापत्तेः, सामान्यतो दृष्टस्य वाऽनव- काशः। तस्मादनुपलब्धिगोचरापन्नायां श्रुतौ सत्स्वपि मूलान्तरेष्वभिप्रेतमूला- भावान्निर्मूलत्वाभिधानम् । ननु ये विदुरेवमितिकर्तव्यताक एवम्फलकश्चासौ पदार्थः कर्तव्य इति । अथ वा ये कर्तव्योऽसावितीत्थं विदुस्ते तथा विजानन्त- स्तादृशाः कथमिवास्मान्विप्रलब्धुं न कर्तव्योऽसाविति वदेयुः । नन्वन्य एवं वदन्ति कर्तव्य इत्यन्ये न वा कर्तव्य इत्याहुः । कथमन्यत्वं यदा तेषामप्येवमयं स्मर्यत इति कथिते भवत्येवं प्रतिपत्तिः । अथ वा ये मन्वादयो विदुरकर्तव्योऽयं पदार्थ इति, कथमिव ते विनाऽपराधेन लोकं वञ्चयितुं वदिष्यन्ति कर्तव्य एवायमिति । स्मरणानुपपत्त्येति । ये ताव- न्मन्वादिभ्योऽर्वाञ्चः पुरुषास्तेषां यज्ज्ञानं तत्तावदनवगतपूर्वार्थत्वान्न स्मृतिः । मन्वादीनामपि यदि प्रथमं किञ्चित्प्रमाणं संभाव्यते ततः स्मरणं भवेन्नान्यथा । कस्मात्पुनः पुत्रं दुहितरं वाऽतिक्रम्य बन्ध्यादौहित्रोदाहरणं कृतम् ? स्थानतुल्यत्वात् । पुत्रादिस्थानीयं हि मन्वादेः पूर्वविज्ञानं दौहित्रस्थानीयं स्मरणम्; अतश्च यथा दुहितुरभावं परामृश्य, दौहित्रस्मृतिं भ्रान्तिं मन्यते, तथा मन्वादिभिः प्रत्यक्षाद्यसम्भवपरामर्शादष्टकादिस्मरणं मिथ्येति मन्तव्यम् । तथैव पारम्पर्येणाविच्छेदादयं वेद इति-वाक्यानुमानाभिप्रायेणोक्तम् । इतरस्त्वर्थस्यैवाविच्छेदस्मरणमयमाहेति मत्वा, पुनन्निर्मूलत्वमाह । वेदः पुनः सविशेषः प्रत्यक्षगम्यस्तत्र घटादिवदेव पुरुषान्तरस्थमुपलभ्य स्मरन्ति । तैरपि स्मृतमुपलभ्याऽन्येऽपि स्मरन्तोऽन्येभ्यस्तथैव समर्पयन्तीत्यनादिता । सर्वस्य चाऽऽत्मीयस्मरणात्पूर्वमुपलब्धिः संभवतीति, न निर्मूलता । शब्दसम्बन्धव्युत्पत्ति- मात्रमेव चेह वृद्धव्यवहाराधीनम् । प्रागपि हि वेदशब्दादन्यवस्तु विलक्षणं वेदान्तरविलक्षणं वाऽध्येतृस्थमृग्वेदादिरूपम्, मन्त्रब्राह्मणादिरूपाणि चान्यविल- क्षणान्युपलभ्यन्तें । सर्वेषां चानादयः संज्ञा इति तद्द्वारेणोत्तरकालमपि गम्य- मानानां प्रत्यक्षत्वं साधितम् । नन्वष्टकादिषु पुरुषान्तरस्थेष्वपि कुम्भकारक्रियास्विव किंचिद्विज्ञानमूल- मस्ति । यदि हि कर्मस्वरूपमात्रं स्मर्येत, ततः पाकादि तदिन्द्रियैरन्याननुतिष्ठतो दृष्ट्वा परे स्मरेयुः । यतस्त्विह स्वर्गादिसाध्यसाधनसम्बन्धःस्मर्यते नासौ पुरुषान्त-
१ ] प्रथमाध्याये तृतीयपादः २५१ रेत्पद्यमानः कैश्चिद् दृश्यत इत्यन्धपरम्परान्यायेनाप्रमाणता । सर्वस्यानादि- व्यवहारोपन्यासेन वेदवत्प्रसिद्धयभिमानो भवति, अतोऽन्धपरम्परानिदर्शनम् । वेदे हि प्रामाण्यस्यानादित्वमिहाप्रामाण्यस्य कथम् ? यो यो ग्रहीता जात्यन्धः स स्वयं नोपलब्धवान् । स्वातन्त्र्येणागृहीते च प्रामाण्यं नावतिष्ठते ॥ तादृशं वाऽष्टकादिस्मरणम् । न च चोदना मूलभूतोपलभ्यते । न चाननु- भूतसम्बन्धाऽनुमातुं शक्यते । यदि च वेदादुपलभ्य स्मृतयः प्रवर्तिताः स्युः, ततोऽर्थस्मरणवदित उपलभ्यायं मन्वादिभिः प्रणीत इत्यपि पारम्पर्येण स्मर्येत । स्यादेतद् । अर्थस्मरणेन कृतार्थानां निष्प्रयोजनं मूलस्मरणमनादराद् भ्रष्टमिति । तदयुक्तम् । न हि यत्कृतं प्रामाण्यं तदेव विस्मर्तुं युज्यते । अर्थस्मृतेः स्वतः प्रामाण्याभावात् । सर्वे पुरुषास्तावदेतज्जानन्ति यथा वेदमूलज्ञानादिना प्रामाण्यं न निश्चीयत इति, ते कथमिव तत्रानादरं कुर्युः । अपि च—येन यत्नेन मन्वाद्यैरात्मवाक्यं प्रपाठितम् । कस्मात्तेनैव तन्मूलं चोदना न समर्पिता ॥ यदि हि तैरप्यर्थमात्रमेवान्येभ्योऽधिगतम्, न वेदो दृष्ट इति, ततस्तत्पूर्वकै- ष्वप्ययमेव पर्यनुयोग इति, निर्मूलसम्प्रदायत्वप्रसङ्गान्निर्मूलत्वान्न मुच्यसे यदि तु प्रलीनशाखामूलता कल्प्येत, ततः सर्वासां बुद्धादिस्मृतीनामपि तद्द्वारं प्रामाण्यं प्रसज्येत । यस्यैव च यदभिप्रेतम्, स एव तत्प्रलीनशाखामस्तके निक्षिप्य प्रमाणी- कुर्यात् । अथ विद्यमानशाखागता एवेतेऽर्थास्तथाऽपि मन्वादय एव सर्वे पुरुषास्तत एवोपलप्स्यन्ते । युक्ततरा च स्वाध्यायाध्ययनविधेः साक्षाद्वेदादेव प्रतीतिरिति, स्मृतिप्रणयनवैयर्थ्यं स्यात् । न च तद्विज्ञायते । कीदृशाद्वाक्यादिदं मन्वादिभिः प्रतिपन्नम्, किं विधिपरात्, उतार्थवादरूपादिति । पश्य—महताऽपि प्रयत्नेन तमिस्रायां परामृशम् । कृष्णशुक्लविवेकं हि न कश्चिदधिगच्छति ॥ न च मन्वादिवचनाद्वेदमूलत्वं निश्चितुमः । ते हि निर्मूलमपि विप्रलम्भादि- हेतोरुक्त्या लोकं वञ्चयितुमेवं वदेयुः । तस्मादप्रमाणम् ॥ १ ॥ न्यायसुधायाम् सर्वानवधकारिण्यां प्रथमं स्मृत्यधिकरणम् । न्या० सु०—अत्र भाष्यकारेण सङ्गतिप्रदर्शनाथमेवं तावदिति वृत्तमनुकीर्तितम् । तच्च नामधेयप्रामाण्यस्यानुक्तत्वादयुक्तमाशङ्कय व्याचष्टे—एवं तावदिति । अयमाशयः— नामधेयानां विध्युद्देशान्तर्भावात् त्र्यंश एव वेदः । कृत्स्नश्चासावर्थवादाद्यनुपयोगनिराकरणेन प्रमाणतया साधितः । नामधेयाधिकरणे तु विधिस्तुतिस्मृतिवन्नामधेयत्वमपि प्रामाण्यद्वारं भवति वा, न वेति चिन्तयिष्यते ।
२५२ मीमांसादर्शनम् [ सू० नामधेयस्य धर्मंप्रयोगाभावात्वानर्थक्येन पूर्वपक्षकरणं नामधेयं रूपाभिप्रायम् । गुण- विधित्वेनापि उद्भिदादिपदानां दध्यादिपदवत्प्रामाण्योपपत्तेर्न स्वरूपेण।प्रामाण्यं शङ्कितुं युक्तम् । न चैवमुभयथापि प्रामाण्यसिद्धेः प्रमाणलक्षणासङ्गतिः शङ्कनीया । को धर्मः कथं लक्षणश्चेत्येकेनैव सूत्रेण व्याख्यातं चोदनालक्षणोऽर्थो धर्म इति, अत्र कथमिति प्रकारवचने थाल्प्रत्ययप्रयोगेण प्रामाण्यप्रकारविशेषनिरूपणस्यापि प्रतिज्ञासूत्रार्थत्वेनोक्तत्वात् । अन्यथा हि किँलक्षण एवावक्ष्यत् । अत एव स्मृतिविचारस्यापि सङ्गतिः । अनवगतस्वरूपस्य हि वेदस्य प्रामाण्यायोगात्स्वरूपावगतिः प्रामाण्यप्रकारः । तत्र किं प्रत्यक्षावगतिरेव प्रकारः, अथ वा स्मृत्याचारद्वारेणाप्यवगतिरिति प्रामाण्यप्रकारविशेषनिरूपणरूपत्वात्स्मृतिविचार- स्यापि सङ्गतिः सिद्धा । अतः स्मृत्याचारद्वाराया अपि चावगतेः सत्याः प्रामाण्यप्रकारत्वस्य निराकर्त्तुमशक्यत्वात्सैव सम्भवति, न वेति इह चिन्त्यते । यद्वा स्मृत्याचारावगतानामपि कर्मणां परिग्रहदाढर्यात् धर्मंत्वावगतेश्चोदनैवेत्यवधारणा- क्षेपेण सङ्गतिः । तत्समाधानार्थमेव चेह चोदनामूलत्वमस्ति, न वेति चिन्त्यते । चोदना- शब्दस्य वा प्रत्यक्षाप्रत्यक्षचोदनासाधारण्यादप्रत्यक्षचोदनानां च स्मृत्याचारोपस्थापनं विना प्रामाण्यायोगात् स्मृत्याचारप्रामाण्यमपि प्रतिज्ञातं भवतीति नासङ्गतिः । जिज्ञासासूत्रेण वा सकलधर्मप्रमाणजिज्ञासाकर्त्तव्यत्वाभिधानाच्चोदनासूत्रप्रतिज्ञातवेद- प्रामाण्यप्रतिपादने पर्यंवसिते, प्रसङ्गादार्थप्रसिद्धादीनामपि प्रसिद्धं (प्रामाण्यं ययोः स्मृत्याचारयोः प्रसिद्धप्रामाण्ययोः स्मृत्याचारयोरपि ।) प्रामाण्यमिह चिन्त्यते । सर्वं चैतत्तावच्छब्देन सूचितम् । वेदस्य तावदुपयोगः साधित इत्युक्ते, अन्यस्यापि साधयितव्य इति प्रतीतेः परतः प्रामाण्यादिद्वाराऽप्रामाण्यस्य प्रथमपाद एव निराकृतत्वेऽपि प्रामाण्य- प्रकारासम्भवेनाप्रामाण्यमाशङ्क्य प्रकारविशेषनिरूपणं द्वितीयपादेन कृतमित्युपयोगशब्दे- नोक्तम् । अथेदानिमिति भाष्येण वर्त्तिष्यमाणसङ्कीर्त्तनं कृतम् । तत्र वेदमूलकत्वनिबन्धनत्वात्स्मृतिप्रामाण्यस्य वेदप्रामाण्यविचारानन्तरं स्मृतिप्रामाण्य- विचारसङ्गतिरथशब्देनोक्ता । प्रत्यक्षवेदगामिनामधेयविचारात्पूर्वं स्मृतिविचारानौचित्य- माशङ्क्य, कस्याश्चित्स्मृतेर्नामधेयमूलत्वाभावेन तदनपेक्षत्वात् महोक्षं वा महाजं वा श्रोत्रिया- योपकल्पयेदित्यादिस्मृतेस्तु तद्यथैवादौ मनुष्यराज आगतेऽन्यस्मिन्वाऽर्हत्युक्षाणं वा वेहतं वा छदन्ते इत्याद्यर्थवादमूलत्वात्, न पचेदन्नमात्मन इत्यादिस्मृतेश्च केवलाघो भवति केवलादीत्यादिमन्त्रमूलत्वात्, तत्प्रामाण्ये प्रतिपादिते नामधेयविचारात्पूर्वं स्मृतिप्रामाण्यं वक्तुमुचितमिति सूचयितुमिदानीमित्युक्तम् । तद्विषयप्रदर्शनपरतया तावद्व्याचष्टे—इदानीमिति । पौरुषेयीष्विति वेदप्रामाण्य- हेतुमभावो दर्शितः । स्मर्यमाणोऽर्थोऽवधिर्मर्यादा यासां नार्थमतिक्रम्य तस्य प्रमाणमपि विषयीकुर्वन्तीत्यस्मर्यमाणमूलत्वं स्मर्यमाणार्थविधिष्वित्यनेनोक्तम् । एतच्चाप्रामाण्योप- योगिविशेषणद्वयम् । अस्मर्यमाणार्थविधिष्वितिपाठे त्वितः प्रभृतीयं स्मृतिः प्रवृत्तेत्यस्मर्य-
१ ] प्रथमाध्याये तृतीयपादः २५३ माणोऽर्थस्यावधिर्यासामिति षष्ठीतत्पुरुषगर्भबहुव्रीहिः । सिद्धान्तोपयोगिविशेषणं मन्वादि- प्रणीतो ग्रन्थो निबन्धनं यासामिति शिष्टप्रणीतत्वं मन्वादिप्रणीतनिबन्धनास्वित्यनेन प्रामाण्योपयोगिविशेषणमुक्तम् । आचारग्रहणेनाशब्दत्वपूर्वपक्षहेतुकतृ'सामान्यसिद्धान्तहेतु- साम्यादाचाराणामप्यधिकरणविषयत्वमुक्तम् । ननु यत्रेत्यादिभाष्येणैव विषयावगतिसिद्धेः, तत्स्वरूप तस्य च विशेषस्यात्राविचार्य- त्वादष्टकादिस्वरूपोदाहरणं व्यर्थमित्याशङ्कयाह—तत्रेति । स्वरूपगतविशेषाविचारेऽप्युदा- हरणविशेषं विना नैराकाङ्क्षयमावादष्टकाद्युदाहरणमिति भावः । मन्वादिस्थानां स्मरणानामन्येन ज्ञातुमशक्यत्वात्कथं विचारविषयत्वमित्याशङ्क्य तद्ग्रन्थसमर्पितानीत्युक्तम् । विषयप्रदर्शनार्थतया भाष्यं व्याख्याय सन्देहहेतुश्नानेन भाष्येणा- भिधीयत इत्याह—सन्देहेति । कथमित्यपेक्षिते पूर्वपक्षप्रतिमानार्थत्वेन यत्रेति भाष्यं व्याचष्टे—पारतन्त्र्यादिति । सिद्धान्तप्रतिमानार्थत्वेनाऽद्य वेति भाष्यं व्याचष्टे-अप्रामाण्येति । श्लोकं विवृणोति—मन्वादीति । (शब्दानामर्थपरत्वे स्वतः प्रामाण्ये च सत्यपि वक्तृ- ज्ञानानुमानं विनार्थामावव्युदासरूपपरिच्छेदाख्यविज्ञानानुत्पादकत्वाद्, ज्ञानमात्रस्य च प्रामाण्याभावाद्वक्तृज्ञानानुमानद्वारा विज्ञानोत्पादकत्वावगतेर्मन्वादिवचनस्य स्मृत्यपेक्षतोक्ता भाष्यकृता । आचाराणामप्युदाहरणत्वसिद्धयै वाक्यात्युदाहरणेऽपि पूर्वोत्तरपक्षहेतुसाम्या- तेषामप्युदाहरणत्वोपपत्तिसूचनार्थं वचनोक्तिः ।) तदुच्यत इति पूर्वपक्षभाष्यं व्याचष्टे— तत्रेति । पूर्वविज्ञानमूलप्रमाणम्, तस्य यो विषयः, स एवास्येति पूर्वविज्ञानविषयविषय- मित्येकोऽत्र विषयशब्दो लुप्तो द्रष्टव्यः । श्लोकं विवृणोति—सर्वेति । ननु शब्द एवात्र मूलप्रमाणं भविष्यत्यत आह—शब्दोऽपीति । ननु प्रत्यक्षानुप- लब्धोऽपि कल्पयिष्यत्यत आह—प्रत्यक्षेति । प्रमाणशब्देन भावव्युत्पत्त्या कल्पनमभिप्रेतम् । तदेव तावन्निष्प्रमाणकत्वात्कल्पाद्धर्मास्तित्वाद्विप्रकृष्टं दूरे न तत्स्पृशतीत्यर्थः, योग्या- नुपलब्ध्यभावाद्धर्मास्तित्वकल्पनापेक्षयाऽसन्कृष्टं धर्मास्तित्वं शब्दास्तित्वस्य योग्यप्रत्यक्षानुदयेनामावनिश्चयात्तत्कल्पना विप्रकृष्टतरा । श्लोकं व्याचष्टे - शब्दस्य तावदिति । अभ्युपगतमित्यनेन कल्पनार्थत्वेन प्रमाणशब्दो व्याख्यातः । नन्वतु- मानादिनापि शब्दावगतिसम्भवात्प्रत्यक्षमेव प्रमाणमित्ययुक्तमुक्तमत आह—न चेति । श्लोकं व्याचष्टे—यथैवेति । आगमं निराकरोति—न चेति । कृतके नास्ति विश्रम्भ इत्येतद्व्याचष्टे—यद्यपीति । दुष्टैः प्रतारकैः पुरुषैराकुलितं भ्रमितं चेतो येषाम् = अस्मादीनामित्यर्थः । 'नित्यो नैवोपपद्यते' इत्येतद्व्याचष्टे-नित्यस्य त्विति । नन्वन्विव प्रपेत्यादिमन्त्रलिङ्गानां प्रपादिसमृतिमूलत्वदर्शनाद्वेदमूलत्वाभिधायिनां मन्वादीनां तद्दृष्टान्तेन सत्यवादित्वावगतेः कृतके नास्ति विश्रम्भ इत्ययुक्तमत आह— न चेति । एवं र्तार्ह मूलान्तरसूचकत्वान्नित्यो नैवोपपद्यत इत्युक्तमत आह—न चेति । कर्त्तव्यतानुवादे विधिसूचनं स्यात् स्वरूपमात्रानुवादस्तु यहच्छासिद्धप्रपादिविषयत्वेनोपपन्नो य विध्याक्षेपकमित्याशयः ।
१५४ मीमांसादर्शनम् [ सू० मन्त्रलिङ्गानां च स्मृतिमूलसूचकत्वनिराकरणेन नित्यानुमेयश्रुतिमूलत्वमपि निराकृतं भवति । अन्धपरम्परान्यायापत्त्या स्मरणेन नित्यानुमेयश्रुतिकल्पनस्य निराकरिष्यमाणत्वात्, प्रत्यक्षश्रुतिमूलत्वे त्वैकरूप्यात्तस्यास्तन्मूलानां स्मृतीनामप्यैकरूप्यं स्यात् न त्वेतदस्ति । 'यदुच्यते द्विजातीनां शूद्राहारोपसंग्रहः । न तन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥' या० स्मृ० आ० श्लो० इत्यादिविगानदर्शनादित्याह — न चेति । ननूपलब्धश्रुतिमूलत्वेऽपि विगीतानेकश्रुति- मूलत्वात् स्मृतिविगानमविरुद्धमत आह — न चेति । श्लोकं व्याचष्टे—यदि हीति । विधिरूपं वाक्यं मन्वादिभिर्निरूपितमुपलब्धमिति यदि विज्ञायेत, ततः कापि विगीतानेक- श्रुतिमूलत्वाद्वादिकल्पना स्यात् । अर्थवादपरेष्वपि त्वद्यत्वेऽपि 'स यदि ह वा अपि मृषा वदति सत्यं हैवास्योदितं भवति, य एवमेतत्सत्यस्य सत्यत्वं वेदेत्यादिषु मृषोद्याभ्यनुज्ञाभ्रान्ति- दर्शनेन मन्वादिष्वपि भ्रान्तिशङ्काया निराकर्तुमशक्यत्वात् एकश्रुतिमूलत्वेऽपि भ्रान्त्य- वसितानेकतात्पर्यविगाननिमित्तस्मृतिविगानोपपत्तेरनेकश्रुतिमूलत्वकल्पनोचितेति भावः । प्रलीनशाखामूलत्वं तर्ह्यस्त्वत आह — मृतेति । प्रासङ्गिकं परिसमाप्य प्रकृतमुपसंहरति— तस्मादिति । उपमानं निराकरोति—उपमानं त्विति । अर्थापत्तिं निराकरोति—अर्थापत्त्यापीति । श्लोकं व्याचष्टे—यदि हीति । सामान्यतो दृष्टग्रहणं दृष्टान्तार्थमतो निर्मूलत्वादित्युपसंहार- भाष्यं निर्मूलस्मृत्यसम्भवेन, कस्यचिद् भ्रान्त्यादेरवश्यकल्प्यत्वादयुक्तमाशङ्क्य व्याचष्टे— तस्मादिति । नन्विति भाष्यमर्वाचीनाभिप्रायेण तावद् द्वेधा योजयति—नन्विति । अर्वाचीनानां कर्त्तव्यत्वाज्ञानाद्ये विदुरित्ययुक्तमित्याशङ्कते—नन्विति । वदनानुमेयत्वात्परिज्ञानस्य वदन्तीत्युक्तम् । तेषामपि मन्वादिवाक्यश्रवणाद्भवति कर्त्तव्यत्वज्ञानमिति परिहरति— कथमिति । एवं कर्त्तव्यज्ञानात्कर्त्तव्याभिधानयोर्विप्रतिषेधप्रतिपादनपरत्वेन व्याख्याय नन्व- विदुषामुपदेशो नावकल्पत इत्यनेन न्यायेनोपदेशान्यथानुपपत्त्या मन्वादेः पूर्वज्ञानकल्पनाशङ्का- र्थमेतद्भाष्यमित्यन्यथाचष्टे—अथ वेति । ये कर्त्तव्य इति न विदुः, कथमिव ते वदिष्यन्ती- त्यममी पदार्थाः कर्त्तव्य इति व्यत्ययेनास्मिन् व्याख्याने भाष्यं योज्यम् । निषेधाभावेन त्वकर्त्तव्यत्वस्यानाशङ्क्यत्वात्कर्त्तव्यत्वज्ञानमेवाकर्त्तव्यत्वज्ञानमुखेनाकर्त्तव्यो यस्मिन्नि- त्यनेनोक्तम् । विवक्षितार्थलाभाय च व्यत्ययाङ्गीकरणमदोषः । 'स्मरणानुपपत्तेरिति भाष्य- मर्वाचीनानां स्मरणानुपपत्तेत्येव कैश्चिद्व्याख्यातम् । तत् मन्वादिवाक्यश्रवणजनितस्यार्वा- चीनानामष्टकादिकर्त्तव्यताज्ञानस्याकर्त्तव्यत्वाभिधानविरोधित्वेनोपन्यस्तस्य स्मृतित्वेनाशङ्कि- तत्वादयुक्तमित्यभिप्रायेण दूषयति—स्मरणेति । तदर्वाचीनानामष्टकादिकर्त्तव्यत्वज्ञानमा- शङ्कावादि नैव तावन्न स्मृतित्वेनेष्टम्, अतस्तस्य स्मृतित्वनिराकरणमयुक्तमिति तावच्छब्दस्यार्थः ।
१ ] प्रथमाध्याये तृतीयपादः २५५ ननु मन्वादीनामपि स्मरणं निराकर्त्तुमशक्यम्, तदभावे ग्रन्थरचनानुपपत्तेरित्या- शङ्क्याह - मन्वादीनामपीति । तस्माद्व्याख्यानद्वयेऽपि मन्वाद्यभिप्रायेणैवैतत्परिहारभाष्यं योज्यमिति भावः । तत्रावाचीनाभिप्रायशङ्काव्याख्याने मन्वादिवाक्योत्पन्नकर्त्तव्यत्वज्ञानां अप्यर्वाञ्चो मन्वादीनां स्मरणानुपपत्तिमलोच्याकर्त्तव्यत्वं वदन्तीति योज्यम् । द्वितीय- व्याख्याने तूपदेशकल्प्यस्मरणस्य पूर्वविज्ञानकारणाभावेनानुपपत्त्या नोपदेशस्य तत्कल्पकत्वं सम्भवतीत्यसम्भवेतोऽर्थापत्त्या कल्पयितुमशक्यत्वादिति भावः । विदितपूर्वस्याप्यस्मृतस्यो- पदेष्टुमशक्तेः, स्मरणद्वारेणोपदेशस्य ज्ञानकल्पकत्वात्स्मरणनिराकरणेन ज्ञानमेव निराकृतम् । बन्ध्यादौहित्रोदाहरणस्य प्रश्नपूर्वमभिप्रायमाह-कस्मात्पुनरिति । कारणाभावेन कार्याभावोऽत्र दृष्टान्तो वाच्य इति, दौहित्रस्य कारणभूतदुहितुरभावेनाभावो निदर्शनीयः । दुहितुस्तु बन्ध्याकारणमस्तीति न कारणाभाव इत्याशयः । उपदेशान्यथानुपपत्त्या मन्वादि- स्मरणेऽवश्यकल्पे सम्यक्त्वमात्रमिह निषेध्यमिति सूचयितुं दृष्टान्तभाष्ये सम्यग्ग्रहणम् । एवमपीत्याशङ्काभाष्यं पूर्वं विज्ञानकारणाभावे स्मृतिप्रामाण्यानुपपत्तेर्युक्तमाशङ्कय पूर्वविज्ञानकारणभूतवेदवाक्यानुमानाभिप्रायत्वेन व्याचष्टे - यथैवेति । एवं तर्हि नैतदेवमिति परिहारभाष्यं पूर्वविज्ञानकारणाभावे हेत्वप्रदर्शनादयुक्तं स्यादित्याशङ्क्यऽगृहीताभिप्रायत्वेन व्याचष्टे इतरस्त्विति । एतदेव भाष्यमवयवशो व्याचिख्यासुर्वेदत्वस्मृतिप्रामाण्योपपत्तिप्रतिपादकं तावत् प्रत्यक्षेणेतिभाष्यावयवं व्याचष्टे - वेदः पुनरिति । ननु वर्णस्वरूपस्य प्रत्यक्षत्वेऽपि तस्य वेदावेदसाधारण्याद्वेदत्वस्मृति- र्निर्मूलैव स्यादत आह-शब्देति । वेदशब्दवाच्यत्वमात्रमेव तत्राप्रत्यक्षं तदपि तु वृद्धव्यव- हारावगम्यत्वान्न निष्प्रमाणकम्, ग्रन्थान्तरविलक्षणमेतत्स्वरूपं प्रत्यक्षमेवेति भावः । एतदेवोप- पादयति-प्रागपि हीति । वेदशब्दस्योपलक्षणत्वाद्वेदादिविशेषमन्त्रब्राह्मणोपन्यासः । ननु वेदशब्दात्प्रागपि वेदादिस्वरूपप्रतीतौ वेदादिसंज्ञानां डित्थादिवत्पौरुषेयत्वान्निष्प्रमाण- कत्वं स्यादित्याशङ्कयाह - सर्वेषां चेति । नन्वेवमपि वेदादिशब्दोल्लेखाबगतेर्वृद्धव्यवहारा- धीनशब्दार्थसम्बन्धप्रतीत्युत्तरकालीनत्वात् प्रत्यक्षत्वं न स्यात् अत आह-इतीति । शब्दोल्लेखप्रतीतिनिर्देशार्थं इतिकरणः । संज्ञाद्वारेण तदुल्लेखेनोत्तरकालमपि गम्यमानानां प्रत्यक्षसूत्रे तत्र शब्दार्थसम्बन्धप्रमातुरित्यत्र प्रत्यक्षत्वं साधितमित्यर्थः । दार्ष्टान्तिके वैषम्यप्रतिपादनार्थमष्टकादिषु त्विति भाष्यावयवं व्याचष्टे-नन्विति । कुम्भकारक्रियास्त्रिवेति वैधर्म्यदृष्टान्तः एतदेवोपपादयति - यदो ते । अन्धपरम्परान्यायेनेति व्याख्येयतयोपक्षिप्तस्यान्धपरम्परानिदर्शनस्य प्रयोजनं तावदाह-सर्वस्येति । वेदत्वस्मृति- वदष्टकादिस्मृतावप्यनादित्वात्प्रामाण्यप्रसिद्धयभिमानं निवर्त्तयितुमन्धपरम्परानिदर्शनमित्यर्थः । कथमनेन निदर्शनेन प्रामाण्यप्रसिद्धयभिमाननिवृत्तिरित्यपेक्षितेऽस्मिन्निदर्शनेऽनादित्वस्या- प्रामाण्यापादकत्वदर्शनादित्याह-वेदे हीति । एतदेव प्रश्नपूर्वमुपपादयन्निदर्शनभाष्यं व्याचष्टे- कथमिति । दार्ष्टान्तिके योजयति-तादृशं चेति ।
१५४ मीमांसादर्शनम् [ सू० नन्वयमविधदृष्टान्तोपलब्धो कथमष्टकादिस्मरणस्यान्धपरम्परितुल्यत्वम्, न तु वेदत्व- स्मृतितुल्यतेति निर्णय इति आशङ्क्य पूर्वविज्ञानकारणाभावादिति भाष्योक्तहेतुव्याख्या- नार्थं पूर्वोक्तमेव चोदनामूलत्वनिराकरणं स्मारयति- न चेति । मूलसद्भावे प्रमाणं नास्तीत्युक्त्वा तदभाव एव तु स्मर्त्तव्यास्मरणं प्रमाणमस्तीत्याह-यदि चे.ति । अनेन चाप्तोक्तिनिबन्धनेषु व्यवहारेषु प्रामाण्यहेतुभूतस्य मूलस्य स्मरणेन व्याप्तत्वाद्द्यापकस्मरणा- भावेन व्याप्यमूलाभावानुमानमुपन्यस्तम् अर्थापत्तिर्वा व्यवहारार्थिनां व्यवहारहेतुमूलविस्म- रणानुपपत्तेर्दृश्यादर्शनवद्वा स्मर्त्तव्यास्मरणस्याप्यनवगतपूर्वातीताभावज्ञानकरणतायाः । स्वरूपमात्रं दृष्ट्वा च पश्चात्किञ्चित्स्मरन्नपि । तत्रान्येनास्तितां पृष्टस्तदेव प्रतिपद्यते ॥ [अ. प्र. श्लो. २८] इति वदद्भिराचार्यैरिष्टत्वाद्भावाख्यमेव प्रमाणमनेनोपन्यस्तम् । नन्वविच्छन्नपारम्पर्यदृढस्मरणमात्रेण व्यवहारसिद्धिरवश्यस्मर्त्तव्यत्वविशेषणाभावात्, अस्मरणमात्रस्य च चिरवृत्तेषु सत्स्वपि पदार्थेषूपलब्धेरभावात् असाधकत्वान्नास्मरणेन मूलाभावसिद्धिरित्याशङ्कते-स्यादेतदिति । निर्मूलस्य स्मरणस्याप्रामाण्येन व्यवहारासाध- कत्वान्मूलस्यावश्यस्मर्त्तव्यत्वं साधयति - तदयुक्तमिति । अवश्यसमर्पणीयासमर्पणादपि स्मृतिमूलभूतानां चोदनानामभावोऽवसीयेत इत्याह-अपि चेति । ननु स्वयंदृष्टस्य मूलस्या- वश्यसमर्पणीयत्वं भवेत् मन्वादिभिस्तु स्मृतिमूलभूतानां चोदनानां स्वयमदृष्टत्वादशक्यं समर्पणमित्याशङ्क्याह-यदि हीति । एवमपि मन्वादिभ्यः पूर्वैराचार्यैः स्वयंदृष्टत्वे समर्पणीयत्वापत्तेः, अदृष्टत्वे वा नित्यानुमेयत्वापत्तेस्तस्य च निराकरिष्यमाणत्वान्निर्मूल- त्वमेव वलादापद्यतेति भावः ननु पूर्वाचार्यैः समर्पितमपि स्मृतेर्मूलं प्रलीनत्वेन मन्वादिभिः स्वयमदृष्टत्वान्न समर्प्यतेऽत्र आह--यदि त्विति । ननु मन्वादिभिः स्वयं दृष्टानामपि मूलानामन्यैरपि स्वयं दृष्टत्वादसमर्पणमित्याशङ्क्यास्मिन्पक्षे स्मृतिप्रणयनवैयर्थ्यमाह-अथेति । इतश्च वैयर्थ्यमित्याह-युक्ततरा चेति । किं चान्यैः स्वयंदृष्टानामुपि वेदवाक्यानां तात्पर्याज्ञानेनेद- मस्याः स्मृतेर्मूलमिति निर्णतुमशक्यत्वात्तात्पर्यज्ञापनार्थं मन्वादिभिरवश्यं समर्पणं कर्त्तव्यमित्याह-न चेति । प्रमाणशून्यो मूलविशेषनिर्णयोऽशक्य इति, अन्यथैव दृष्टान्तमाह-पश्येति । ननु- 'यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्त्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥' इति मन्वादिभिः सामान्येन स्वस्मृतीनां वेदमूलत्वाभिधानाद्विशेषामर्पणोऽपि स्मृत्यनुरूपमूलविशेषनिर्णयो भविष्यत्यत आह-न चेति । अतोऽनादर्त्तव्यमित्युपसंहार- भाष्यं व्याचष्टे -तस्मादिति ॥ १ ॥
१ . ] प्रथमाध्याये तृतीयपादः १५७ भावप्रकाश भा० प्र०—प्रथम पाद में वेदविधि का प्रामाण्य निरूपित किया गया है और द्वितीय पाद में अर्थवाद और मन्त्र का प्रामाण्य सिद्ध किया गया है । तृतीय पाद में अन्य शाखाओं में स्थित वेदविधि, मन्त्र या अर्थवादमूलक स्मृति के प्रामाण्य का विचार किया जा रहा है । स्मृति प्रमाण है या अप्रमाण इस प्रकार का संशय होने पर 'धर्मस्य शब्दमूलत्वाद- शब्दमनपेक्षं स्यात्' १।३।१ इस सूत्र की पूर्वपक्ष के रूप में अवतारणा की गई है । पूर्वपक्ष के समर्थन में यहाँ कहा गया है कि 'अष्टकाः कर्तव्याः' अर्थात् अष्टका श्राद्ध करना चाहिये, 'तडागं खनितव्यम्' तालाब खन कर प्रतिष्ठा करनी चाहिये, 'प्रपा प्रवर्त्तयितव्या' जल सत्र को प्रवर्तित करना कर्तव्य है, 'शिखाकर्म कर्तव्यम्' शिखा धारण करना चाहिये इत्यादि शिष्टजनों से परिगृहीत स्मृति वचन हैं, किन्तु वे धर्म में प्रमाण नहीं हैं, अर्थात् ये कर्म धर्म नहीं हैं। क्योंकि धर्म का लक्षण निरूपण करते हुए कहा गया है कि धर्म चोदनालक्षण अर्थात् वेदविधि से बोध्य ही है, किन्तु इन स्मृति वचनों के मूल में कोई वैदिक वचन नहीं है । यदि यह कहा जाय स्मरण अर्थ वेद के अर्थ का स्मरण मात्र है और स्मरण की उत्पत्ति अनुभव के बिना नहीं हो सकती है, अतः, अर्थापत्ति के आधार पर उसका पूर्व में अनुभव अवश्य ही मानना होगा; धर्म यह अलौकिक अदृष्ट तत्त्व है, अतः, इसमें प्रत्यक्ष एवं प्रत्यक्ष को उपजीवक मान कर स्थिर अनुमान एवं उपमान प्रमाण का प्रामाण्य नहीं हो सकता है। अपितु शाब्द ज्ञान रूप अनुभव के फलस्वरूप ही धर्म का स्मरण किया जा सकता है । किन्तु इस प्रसङ्ग में यह कहना है कि वन्ध्या नारी यह कहे कि 'यह मेरे दौहित्र का मकान है, तो यह वचन बाधित मानना पड़ेगा, क्योंकि कन्या की उत्पत्ति के बाद उस कन्या का पुत्र दौहित्र होगा, और दौहित्र होने पर उसके भवन का ज्ञान होगा, कन्या के स्मरण के बिना दौहित्र का स्मरण नहीं हो सकता है। प्रकृत में भी श्रुति के वचनों के अनुभव के बाद ही उसके अर्थ का स्मरण होगा, अर्थात् स्मृति का मूलीभूत शाब्दज्ञान, इस शाब्दज्ञान का कारण स्वरूप शब्द . अर्थात् श्रुतिवचन है, श्रुति वचन के स्मरण के बिना श्रुति वचन सहित अर्थ का स्मरण नहीं हो सकता है। वेद अविच्छिन्न परम्परा के क्रम में आ रहा है, अर्थात् अपौरुषेय रूप में परम्परा से प्राप्त है, अतः, प्रमाण है, इसी तरह स्मृति भी परम्परा क्रम में आ रही है, अतः प्रमाण है। किन्तु, इस प्रसङ्ग में यह कहना है कि वेद मात्र परम्परा क्रम में प्राप्त होने से प्रमाण नहीं है, अपितु, किसी पुरुष विशेष से रचित न होने के कारण ही—यह प्रमाण है, किन्तु स्मृतियाँ तो मनु आदि मनुष्यों के द्वारा रचित हैं, अतः, भ्रम प्रमाद आदि दोष से युक्त मानव की रचना स्वतः प्रमाण नहीं है, धर्म अलौकिक है, अदृष्ट है, उसका साक्षात्कार मनुष्य नहीं कर सकता है, इसलिए साक्षात्कारपूर्वक उस विषय का प्रतिपादन १७
१५८ श्रीमीमांसादर्शनम् [ सू० मनुष्य ने किया है—यह भी नहीं कहा जा सकता है। अतः जिस स्मृति वाक्य का मूलभूत कोई वेदवचन मिलेगा; वही स्मृति वचन प्रमाण होगा । अतः, इस प्रसङ्ग में यही कहा जा सकता है कि स्मृतियाँ अन्ध परम्परा के समान हैं जैसे कोई जन्म से अन्धा व्यक्ति यह कहता है कि वह इस वस्तु के वर्ण का स्मरण कर रहा है । उस व्यक्ति से यह जिज्ञासा की जाय तुमने इस वस्तु का किस प्रकार अनुभव किया ? इसके उत्तर में वह किसी दूसरे जन्मान्ध व्यक्ति का निर्देश कर कहता है कि मैंने उस अन्धे की बात सुनकर अनुभव किया है, उस जन्माध से जिज्ञासा करने पर वह भी किसी जन्मान्ध के द्वारा श्रुत को ही अपने अनुभव का आधार बताता है तो उनका कथन अप्रामाणिक होगा । अतः, प्रकृत में स्मृतियों के धर्मोपदेश की यही स्थिति है । इसलिए स्मृति वाक्य पौरुषेय होने से ये आचारमूलक या अन्य स्मृतिमूलक या भ्रान्तिमूलक है—यह निश्चित नहीं कहा जा सकता है । अतः, इस प्रकार के स्मृति वचन—'अनपेक्षं स्यात्' अपेक्षित अर्थात् आदर- णीय नहीं है, इन स्मृतियों पर आस्था की स्थापना कर धर्म-कर्म करना उचित नहीं है—यही पूर्वपक्ष का आशय है । 'धर्मस्य' धर्म के, शब्दमूलत्वात् = शब्दमूलक होने से, वेद प्रमाणकता साधन होने से, 'अशब्दम्' = जो साक्षात् वेद वचन के द्वारा विहित नहीं हैं, अतः (वे) 'अनपेक्षम्' = अपेक्षारहित अर्थात् अनादरणीय, 'स्यात्' = होंगे। अतः वेद ही धर्म में प्रमाण है, अतः जो कण्ठतः अर्थात् श्रुति वचन से नहीं कहे गये हैं उसको धर्म का प्रमाण मानकर ग्रहण नहीं किया जा सकता है ॥ १ ॥ अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् ॥ १.३.२ ॥ सि० शा० भा०—अपि वेति पक्षो व्यावर्त्यते । प्रमाणं स्मृतिः । विज्ञानं हि तत्कि- मित्यन्यथा भविष्यति पूर्वविज्ञानमस्य नास्ति, कारणाभावादिति चेत् ? अस्या एव स्मृतेर्द्रष्टिम्र्नः कारणमनुमास्यामहे । तत्तु नाननुभवनम्, अनुपपत्त्या । न हि मनुष्या इहैव जन्मन्त्येवंजातीयकमर्थमनुभवितुं शक्नुवन्ति । जन्मान्तरा- नुभूतं च न स्मर्यते । ग्रन्थस्त्वनुमीयेत, कर्तृसामान्यात्स्मृतिवैदिकपदार्थयोः । तेनोपपन्नो वेदसंयोगस्त्रैवर्णिानाम् । ननु नोपलभन्त एवंजातीयकं ग्रन्थम् । अनुपलभमाना अप्यनुमिमीरन्, विस्मरणमप्युपपद्यत इति तदुपपन्नत्वात्पूर्वविज्ञानस्य । त्रैवर्णिकानां स्मरतां विस्मरणस्य चोपपन्नत्वाद् ग्रन्थानुमानमुपपद्यत इति प्रमाणं स्मृतिः । अष्ट- कालिङ्गाश्च मन्त्रा वेदे दृश्यन्ते यां जनाः प्रतिनन्दन्तीत्येवमादयः । तथा प्रत्युपस्थितनियमानाम्, आचाराणां दृष्टार्थत्वादेव प्रामाण्यम् । गुरो- रनुगमनात्प्रीतो गुरुरध्यापयिष्यति ग्रन्थग्रन्थिभेदिनश्च न्यायात्परितुष्टो वक्ष्यतीति । तथा च दर्शयति, तस्माच्छ्रेयांसं पूर्वं यन्तं पापीयान्पश्चादन्वेतीति । प्रपास्त- डागानि च परोपकाराय, न धर्मायेत्येवावगम्यते । तथा च दर्शनम् । 'धन्वन्निव
२ ] प्रथमाध्यायस्य तृतीयपादः -१५९ प्रपा असीदि, ति। तथा, 'स्थल्योदकं परिगृह्णन्तो' ति च गोत्रचिह्नं शिखाकर्म, दर्शनं च यत्र 'बाणाः संपतन्ति कुमारा विशिखा इवे, ति । तेन ये दृष्टार्थाः ते तत एव प्रमाणम् । ये त्वदृष्टार्थाः सिद्धान्ताः तेषु वैदिकशब्दानुमानमिति ॥ २ ॥ स्मृत्याधिकरणम् ॥ १ ॥ भा० वि०—यद्युत्सर्गंतः प्रामाण्यं स्मृतीनामाचाराणां च श्रुतिमूलतया प्रामाण्यम्, अथ प्रत्यक्षवेदविरोधेऽपि स्यादितिशङ्कानिराकरणात् सङ्गतिम्थशब्देन सूचयन् विषयमाह - अथेत्यादिना । यत्रेति सामान्यनिर्देशाद्यावत्स्मृत्याचाररूपं प्रत्यक्षश्रुतिविरुद्धं तत्सर्वमत्रोदाहरणमिति सूचितम् । कथंशब्देन किं तादृगपि धर्मे प्रमाणतयावधार्यते, तद्व्यतिरिक्तमेवेति तुल्यं मूलत्वतदभावाभ्यां संशयस्सूचितः । विचारप्रयोजनं तु विरोधे श्रौतस्मार्तयोरेवानुष्ठानसिद्धिः, यद्यपि प्रत्यक्षवेदविरुद्धा इत्येवोदाहर्तव्यम्, अथ च यदा कासांचित् आप्तत्रैवर्णिकप्रणीत- त्वादिना संभवद्वेदमूलकानामपि प्रत्यक्षवेदविरुद्धार्थत्वन्मूलश्रुत्यनुमानेनानुष्ठाप- कत्वासंभवादप्रामाण्यम् तदा किमु वक्तव्यमसंभवद्वेदमूलानां शाक्यादिस्मृतीना- मिति मत्वा तादृशीरुदाहरति - अथेत्यादिना, यद्यपि सर्ववेष्टनस्मरणमूलस्य तामुर्ध्वदेशेन वाससा परिवेष्टयन्ति इति शाठ्यानि शाखागतस्य क्रीतराजक- भोज्यान्नत्वस्मरणमूलत्वस्य च तस्माद्दीक्षितस्य विज्ञातस्य क्रीतराजकस्य भोज्यं भवतीति आथर्वणगतस्य 'प्रत्यक्षत्वेनाननुमेयत्वात् न तन्मूलस्मृतेः प्रत्यक्षश्रुत्या बाधः, तथापि कदाचित् केषांचित् तदप्रत्यक्षसंभवात्, तदानीं तान् प्रतीदं बाध्योदाहरणमेवेति मत्वोदाजहार । यद्यपि मध्यमोदाहरणमपि— 'वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत्' ॥ अ० ३. श्लो. २ इति मनुवचनानुगृहीतया— “द्वादशवर्षाण्येकवेदे ब्रह्मचर्यं चरेत्” इत्यनया गौतमस्मृत्यैव कृष्णकेशश्रुत्यनुकूल्या द्वादशवर्षब्रह्मचर्यपक्षस्य गार्ह- स्थ्ययोगं प्रति विहितत्वात् अष्टाचत्वारिंशद्वर्षपक्षस्य तदयोग्यं प्रति विधानेन व्यवस्थितविषयत्वान्न कृष्णकेशश्रुतिबाध्यत्वम्, अथापि श्रुतिस्मृत्योरेकविषयत्वं मन्वानं प्रति संभवत्येव बाध्योदाहरणत्वमिति ध्यात्वोदाहृतम्, अत्र चाद्ययो- रुदाहरणयोः स्मृत्यर्थविरोधद्वारा स्मृत्योरेव श्रुतिभ्यां विरोधोऽभिमतः । सम्प्रति पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षमाह - तदित्यादिना । वेदस्मृति- विरुद्धमपि स्मरणमित्यर्थः, औदुम्बरीवेष्टनादिविषयाणां तावत् सूत्रकारादि- वचनानां शिष्टत्रैवर्णिकप्रणीततया, तत्परिगृहीततया च संभवद्वेदमूलत्वाद्युक्तं प्रामाण्यं बौद्धादिस्मृतीनामपि संभवद्वेदसंयोगत्रैवर्णिकप्रणीतत्वेन, महाजनपरि- १. यस्य वापेक्षणीयमन्यन्नास्ति, तत्प्रमाणमिति व्याख्यातमिति बोध्यम् ।
२६० मीमांसादर्शनम् [ सू० गृहीतत्वेन च संभवद्वेदमूलानुमानानामुपपद्यत एव प्रामाण्यम्, आचाराणामपि प्रत्यक्षश्रुतिस्मृतिविहिताग्निहोत्रादिसमानकर्तृकतया संभवद्वेदादिमूलानामुपपद्यत एव प्रामाण्यम्, न च प्रत्यक्षश्रुतिस्मृतिविरोधात्स्मृत्याचारेण वा श्रुत्यनुमानम्, स्मृत्यनुमानं वा न संभवतीति सांप्रतं व्रीहियवश्रुतिवत् विरुद्धश्रुतिस्मृतिद्वय- संभवेन स्मृत्याचारेण वा तदनुमानोपपत्तेरित्यभिसन्धिः । तत्र तावत् सर्ववेष्टनादिस्मृतीनां पूर्वोक्तनीत्या अबोधकत्वादिलक्षणाप्रामाण्या- भावमङ्गीकृत्यैवानुष्ठापकत्वलक्षणमप्रामाण्यं दर्शयन् सिद्धान्तमाह—एवमित्या- दिना । श्रुत्यवगतस्पर्शनविरोधेन सर्ववेष्टनस्यानुष्ठातुमशक्यत्वात् तद्विषय- स्मरणं व्यामोहोऽप्रमाणम् अनुष्ठापकमित्यवगम्यत इत्यर्थः । ननु वस्त्रान्तरितौदुम्बरीस्पर्शेऽपि औदुम्बरी स्पृष्टेति बुद्धिदर्शनात् कथं स्पर्शनसर्ववेष्टनयोः कलह इति शङ्कते—कथमिति । अपि च स्पर्शनं हि त्वगिन्द्रि- येण स्पृश्यसंवेदनम्, न च वस्त्रान्तरितायाः तत्संभवः, तद्बुद्धिस्तु गौण्यपि स्यादि- त्याह—न शक्येति । यद्यदुम्बरीसंबद्धवासःस्पर्शात् सा स्पृष्टेत्यभिधीयेत, तदा भूमिस्पर्शनापि तत्सिद्धेः वृथा स्पर्शविधिः स्यादिति परिहरति—स्पर्शेति१ । ननु सत्यपि विरोधे स्पर्शश्रुतेरेव व्यामोहत्वं किं न स्यादित्याशङ्क्य बल- वद्बाधकाभावादित्याह—तामिति । ननु सर्वशब्दपर्यायपरिशब्दोपेता स्मृतिरेव सर्ववेष्टनं विनानुपपद्यमाना स्पृष्ट- स्पर्शोऽपि कथंचिदुपपद्यमानायाः स्पर्शश्रुतेः बाधिका भविष्यतीति चोदयति— सर्वेति । अपरिदृश्यमानमूलतया दुर्बलत्वान्न स्मृतेः बाधकत्वमित्युत्तरमाह— नन्विति । अनुमीयमानश्रुतिमूलतया बाधकत्वमाशङ्कते—वैदिकमिति । निराह— भवेदिति । अयमर्थः यदि स्पर्शनविधायकं वाक्यं व्यामोहः, तर्हि स्मृतिरनुष्ठापक- तया वैदिकं वचनमनुमापयेत्, यदा तु स्पर्शनश्रुतेरेव प्रत्यक्षायाः प्रथमतरेवा- व्यामोहत्वमनुष्ठापकत्वम्, तदा सर्ववेष्टनानुष्ठानस्याशक्यत्वात् अनुपपन्नं मूलवेदानु- मानमिति । यथानुष्ठेये स्मृत्यर्थे प्रत्यक्षमूलमघटमानत्वान्न कल्प्यते, तथा वैदिक- मपि वाक्यं न कल्प्यमनुष्ठानस्यान्यथासिद्धत्वेनानुपपत्तेरविशेषादित्याह—यथेति । तदनेनैवं सूत्रं व्याख्यातं विरोधे श्रुतिस्मृत्योर्विरोधे यदनपेक्ष्यं अपेक्ष्यमाण- प्रमाणान्तरशून्यं श्रुतिवाक्यम् तदेव प्रमाणमनुष्ठापकं स्यात् । असति हि स्वप्रत्यक्षे स्मृतिमूलवेदविषयपरप्रत्यक्षानुमानं भवेदिति । ननु श्रुतिस्मृतिद्वयदर्शिनोऽनपेक्ष- श्रुतिबलादेवानुष्ठानसिद्धेः स्मृतिमूलवेदानुमानवैयर्थ्येऽपि पौरुषेयवाक्यतया मूलापे- क्षायां तदनुमानमिति शङ्कते—कथं तर्हीति । अगं वा समभिव्याहाराद्वेदमधीत्य स्नायादित्यादाविव दुःश्रुतस्य स्वप्नस्य न्यायाभासस्य वा मूलत्वशङ्कासंभवान्मै- वमिति पराकरोति—व्यामोहादिति । १. स्पर्शनेति व्याख्याने पाठः ।
२ ] प्रथमाध्याये तृतीयपादः २६१ ननूत्सर्गातः स्मृतेः श्रुतिमूलत्वदर्शनात् कथं मूलान्तरकल्पनेति पृच्छति— कथमिति । यथा अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीति कालवाच्यमा- वास्याशब्दविरोधात् पितृयज्ञस्य दर्शाङ्गत्वस्मरणं दुःश्रुतमूलम्, तथेहापि श्रुति- विरोधदर्शनात् मूलान्तरसंभावना अयुक्तेति परिहरति—श्रौतेति । ननु स्मृत्यनुमिततया श्रुत्या सह प्रत्यक्षश्रुतेः विकल्पाङ्गीकरणेऽपि विरोधस्य परिहारान्न युक्ता मूलान्तरकल्पनेति चोदयति—अथेति । तुल्यबलयोः विकल्पोप- पत्तिं दृष्टान्तेनाह—ब्रीहीति । बुद्धिसाम्यदार्थ्याय दृष्टान्तान्तरं यथा व्रीहियवयोः पुरोडाशसाधने, बृहद्रथन्तरयोर्वा पृष्ठसामप्रयोगे विकल्पः, तथा स्पर्शनवेष्टन- योरप्यौदुम्बर्यां विकल्पः किं न स्यादित्यर्थः, विकल्पाङ्गीकरणेऽपि स्पर्शनवेष्ट- नयोः युगपदनुष्ठानासंभवात् न विरोधः परिह्रियेत । सति च विरोधे स्मृतेस्तद- नुमितया वा श्रुतेर्दुर्बलतया प्रत्यक्षश्रुत्या प्रथममनुष्ठापयन्त्या बाधात् स्मृत्तावेव व्यामोहत्वमवतिष्ठेतेति, न विकल्पावकाश इति मन्वानो निरस्यति—नासतीति । व्यामोहविज्ञाने व्यामोहरूपविज्ञान इत्यर्थः, अन्यतरव्यामोहत्वावश्यंभावमेव स्फुटीकरोति—यदि सर्वेति । स्पर्शनम् स्पृष्ट्वोद्गायेदिति वाक्यजनितज्ञानम् । एवं विरोधापादनेन विकल्पपदवीमनारूढाया एव स्मृतेः श्रुत्यबाधमुपपाद्य, विकल्पपदवीं गताया अपि पाक्षिकेणाप्यनननुष्ठापकत्वेन सर्वदैव मूलश्रुत्यदर्शना- वस्थायामप्रामाण्यमुपपादयति—विकल्पं त्विति । ततः किं तत्राह—तस्येति । तथापि किमत आह—सा चेदिति । तदा तावत् स्मृतेः मूलश्रुत्यदर्शनाद् दुः- श्रुतादिमूलतां प्रत्यक्षा श्रुतिः संभावयति, तादृश्या च स्मृत्या सकृदप्यनुमतं प्रामाण्यं न कदाचिदपि श्रौतं विज्ञानं जहाति इत्यपाक्षिकत्वमित्यर्थः । सर्ववेष्ट- नस्मरणस्य चाप्रामाण्यग्रस्तस्य प्रत्यक्षश्रुतिदर्शनं विना पुनरुज्जीवनासंभवाद- पाक्षिकत्वमित्याह—अपाक्षिकं चेति । चकारस्मरणं चेति सम्बन्धनीयः, स्मरणा- प्रामाण्यस्यापाक्षिकत्वमुपपादयति—पक्ष इति । तावच्छब्दो विकल्पवादिसम्मति- प्रदर्शनार्थः बाधितत्वादिति । सर्ववेष्टनविरोधिनः स्पर्शनस्यानुष्ठापितत्वादित्यर्थः । अस्तु तर्हि स्मृतिप्रामाण्यपक्षे मूलानुमानमत आह—अव्यामोहे चेति । तस्मिन् स्पर्शनविज्ञानेऽव्यामोहे सति पक्षान्तरेऽपि न शक्या श्रुतिः कल्पयितुमित्यर्थः । ननु पक्षान्तरे स्पर्शनश्रुतेः व्यामोहत्वात् स्मृतिमूलश्रुत्यनुमानं भविष्यती- त्याशङ्क्याह—न चेति । असौ-स्पर्शनश्रुतिः । तत्र हेतुः—यदिर्ति । निरपेक्षा- नुष्ठापकत्वस्येति तस्य अव्यामोहकत्वस्य । ततः किमत आह—एकस्मिन्निति । श्रुतिप्रामाण्येति । एकदाप्यनुष्ठापकतया लब्धप्रामाण्या श्रुतिः न प्रत्यक्षश्रुत्यन्तर- दर्शनमन्तरेण व्यामोही भविष्यतीति भावः । तुल्यत्वमुपपादयति—न चेति । अपि तर्हि पक्षद्वयेऽपीत्यर्थः, न च स्पर्शन- श्रुतेः प्रमादपाठत्वेनाननुष्ठापकत्वं शङ्कनीयमित्याह—निबद्धेति । एकरूपदृढ-
सम्प्रदायविरोधादित्यर्थः । एवं श्रुतिस्मृतिप्रामाण्याप्रामाण्ययोरपाक्षिकत्वमुक्तं निगमयति—तेनेति । एतत्-स्पर्शनविज्ञानं पक्षे प्रमाणविज्ञानं सद्द्यामोहकल्पनया पक्षान्तरं प्रमाणाभासत्वरूपं न सङ्क्रान्तमिति गम्यत इति एकत्र योजना । इतरत्र तु एतत्स्मार्तविज्ञानं पक्षेऽप्रमाणं सद्भावन्मूलश्रुतिदर्शनं न व्यामोहपक्षा- त्पक्षान्तरं प्रामाण्यरूपं सङ्क्रान्तमिति किं मूलत्वं तर्हि तदानीं सर्ववेष्टनादिस्मृते- रत आह—दुःश्रुतेति । यथावदविचारितं वाक्यं दुःश्रुतम् स्वप्नविज्ञानम्-भ्रान्तिः, आदिशब्दान्न्यायाभासः । तुशब्दात्परं मूलशब्दाध्याहारः । ननूत्सर्गातः स्मृतीनां श्रुतिमूलत्वसाधनात् कथं मूलान्तराशङ्का तत्राह—न हीति । यद्यप्यसति विरोधे स्मृतेः मूलान्तरसंभावना न निराकृतेत्याशयः, अतः श्रुतिविरोधात् श्रुतिप्रामाण्यपक्षवत् स्मृतिप्रामाण्यपक्षेऽपि न स्मार्तश्रुत्यनु- मानमिति निगमयति—तस्मादिति । तुल्यं कारणं श्रुतिविरोधलक्षणं यस्य श्रुतिकल्पनाभावस्य तत्त्वादित्यर्थः । इतश्च न विकल्पो युक्त इत्याह—अपि चेति । विकल्पानभ्युपगम इतरेत- राश्रये सत्यन्यतः परिच्छेदसंभवात्, तदभ्युपगमे च तदसंभवान्न विकल्प इत्य- भिप्रायः । केयमत्रेतरेतराश्रयतेति पृच्छति—केयमिति । उत्तरम्—प्रमाणाया- मिति । प्रमाणभूतां श्रुतिमयत इत्यर्थे प्रमाणशब्दात् परोऽयं “अय गतौ” इति धातुः प्रयुक्तः, तस्य च क्विबन्तत्वाल्लोपोव्योर्वलीति यकारलोपे शिष्यमाणकारात् परंटापि च कृते तेन पूर्वेण चोपपादाकारेण सवर्णदीर्घत्वेऽपि कृते प्रमाणायेति रूपसिद्धिः, स्पर्शनं व्यामोह इत्यत्र स्पर्शने व्यामोहः, स्मृतिः प्रमाणेत्यध्याहार्यम् स्मृतिः व्यामोह इत्यत्र स्मृतौ व्यामोहे स्पर्शनं प्रमाणमिति तत्-तस्मादेतदितरेतरा- श्रयद्वयं विकल्पोपगमे, इतरत्र तु चरममेव मत्वाऽह—तदिति । एवं परस्पराश्रयं प्रदर्श्य, स्वपक्षेऽन्यतः परिच्छेदमाह—तत्रेति । स्पर्शनस्य क्लृप्तं मूलम् न कल्प्यम् । स्वत एव प्रमाणमिति यावत् तेन स्वतःसिद्धश्रुतिप्रामाण्यापेक्षया स्मृत्यप्रमाण्यस्य स्वतःसिद्धस्यापि दृढत्वसिद्धेः नान्योऽन्याश्रयतेत्यर्थः । स्मृतेः प्रामाण्यस्य कल्प्यताधीनतया स्वतोऽप्रामाण्यात् तदपेक्षया श्रुतिप्रामाणस्य स्वतः सिद्धस्यापि निरपवादत्वसिद्धेः अपि नान्योऽन्याश्रयतेत्याह—कल्प्यमिति । निगमयति—सोऽसाविति । विकल्पाभ्युपगमे तु श्रुतिस्मृतिप्रमाण्याप्रामाण्ययोः इतरेतराधीनत्वेनान्यतः परिच्छेदाभावाद् दुष्परिहरमितरेतराश्रयमिति हृदयम् । तत्र स्वपक्षे दर्शितमन्यतः परिच्छेदं प्रपञ्चयन् श्रुतिप्रामाण्येतरतराश्रये तावत् व्युत्पादयति—कल्प्येत्यादिना । अनवक्लृप्तम् स्वतोऽनवधारितम्, ततश्च स्वतोऽ- प्रामाण्यमित्यर्थः । तदप्रमा च न तया बाधश्रुतेरित्याह—तदिति । अबाधितश्रुति- विरोधे च न तया स्मृत्या मूलकल्पनाबाधितविषयतया स्मृतेरगमकत्वादित्याह— तद्व्यामोहादिति । ततश्च कल्पितया श्रुत्या विरोधाभावात् प्रतिष्ठितं प्रत्यक्ष-
२ ] प्रथमाध्याये तृतीयपादः २६३ श्रुतिप्रामाण्यमित्यभिसन्धिः । स्मृत्यप्रामाण्येतरेतराश्रये तु स्वतः प्रमाणभूतप्रत्यक्ष- श्रुतिविरोधे मूलानुमानमित्यप्रमाणमेव स्मृतिरित्यन्तः । परिच्छेद इति भावः, न च स्मृतेः स्वतोऽप्रामाण्याभ्युपगमे स्मृत्यधिकरणविरोधः प्रत्यक्षश्रुतिविरोधे सति यावन्मूलवेददर्शनं मूलान्तरसंभावनामात्रस्यैवाप्रामाण्यशब्देनाभिप्रेतत्वादिति- ध्येयम् । एवं स्मृत्या तदनुमितया वा श्रुत्या सह प्रत्यक्षश्रुतेः न विकल्प इत्युक्तम् तत्र परो दृष्टान्तेऽपि विकल्पानुपपत्तिमाह—नन्विति । स्मृत्यनुमेयश्रुतिवद्यवश्रुतेर- प्रत्यक्षत्वाभावाद्युक्तो विकल्प इति, परिहरति - सत्यमित्यादिना । नन्वप्रत्यक्षाया इव प्रत्यक्षाया अपि प्रत्यक्षश्रुतिविरोधादनुपपत्तिस्तुल्येति तत्राह—नहीति । कुतोऽत आह—द्वयोरिति । स्मृत्यनुमेयत्वे ह्यस्या श्रुतेः इतर- प्रत्यक्षश्रुतिविरोधेन स्मृतेर्मूलान्तरसंभावनया श्रुत्यनुमानानुपपत्तिस्स्यात् द्वयो- र्भवत्वेनानुमेयत्वादत्यन्ताप्रामाण्यस्य च द्वयोरेकस्य वा कल्पयितुमशक्यत्वाद- गत्या विकल्पाभ्युपगमान्नानुपपत्तिरित्यर्थः । नन्विदं श्रुतिद्वयं संभूय मिश्रैः यागं विदधाति, कथमत्र विकल्पावकाशः तत्राह—द्वे इति । अन्यथान्यनिवृत्तिफलत्वाभावेन नियमविधित्वानुपपत्तेरिति भावः । ननु विहायैव नियमविधित्वं मिश्रविषयत्वमेवाभ्युपगम्यतामत आह—एकेने- त्यादिना । यवैः व्रीहिभिरिति च निरपेक्षकरणत्वप्रतिपादकश्रुतिविरोधान्न मिश्रविषयत्वकल्पना युक्तेति भावः । ननु केवलयोस्साधनतावगमेऽपि भवतु वाक्यद्वयप्रामाण्याय मिश्रैरनुष्ठानमत आह—न चेति । एकैकेन वाक्येनावगतोऽर्थः केवलसाधनत्वरूप इत्यर्थः, तत्रापि वाक्यद्वयाप्रामाण्यतादवस्थ्यादिति भावः, गत्यन्तराभावफलमाह—तस्मादिति । स्मृत्यनुमेयायास्तु श्रुतेः दौर्बल्यात् न तया सह प्रत्यक्षश्रुतेः विकल्प इत्याशयः, अतश्च सर्ववेष्टनादिस्मृतेरनुमितश्रुतिमूलाया अपि प्रत्यक्षश्रुत्यपेक्षया दौर्बल्याद् यावद्वेददर्शनमननुष्ठापकत्वलक्षणमप्रामाण्यं सिद्धमिति निगमयति—तस्माद्युक्त- मिति ।¹ एतेन या बौद्धार्हतादिस्मृतयः, तासामपि प्रत्यक्षादिमूलतायाः प्रथमे पादे निरस्तत्वात् श्रुतिमूलतायाश्च स्वयमनभ्युपगमात्, अभ्युपगमेऽपि चैत्यवन्द- नादिश्रुतेरदर्शनात् तदनुमानस्य च वेदविरुद्धानुष्ठातृप्रणीतत्वेन शूद्रादिपरि- गृहीतत्वेन— १. उक्तमिति मूल भाष्य पुस्तके पाठः । सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वापरपरितोषो वा विषयव्याप्तिरेव वेतिवार्तिकमत्रानुसन्धेयम् ।
सूत्रं विवृणोति—लोभादिति, केचिदुद्गातार इति शेषः, तल्लोभमूलकं वेष्टनं
Here is the line-by-line transcription of the provided image into pure Markdown in Unicode Devanagari:
२६४ मीमांसादर्शनम् [ सू० ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः’ ॥ मनु. १२. श्लोक ९५ इति वेदवादिशिष्टगर्हितत्वेन लोभादिकारणान्तरदर्शनेन चासंभवात् भ्रान्त्यादिमूलत्वपरिशेषादप्रामाण्यं दर्शितमिति मन्तव्यम्, तत्र च स्मृतितत्कर्त्तृत्- त्परिग्रहीतॄणां प्रत्यक्षवेदविरोघे सत्यनपेक्ष्यं स्मृतेः श्रुत्यनुमापकतया प्रामाण्यम् । असति हि प्रत्यक्षवेदविरोधे मूलश्रुत्यनुमानमिति सूत्रं योज्यम्, म्लेच्छाचाराणां तु समुद्रयानोच्छिष्टभोजनादिरूपाणां सत्यपि कर्तृसामान्ये प्रत्यक्षस्मृतिबाधित- तया मूलानुमापकत्वासंभवात् अप्रामाण्यमेवेति द्रष्टव्यम् । अप्रामाण्यफलमाह— अतश्चेति । आदिशब्दाद्बौद्धादिस्मृतिरपि गृह्यते अनादरणीयत्वं धर्मानुष्ठान- तत्प्रमित्यङ्गत्वेनानादेयत्वम्, सत्यपि श्रुतिविरोघे कारणाग्रहणे प्रामाण्यस्य कारणग्रहणरूपे हेतुदर्शनं विरोधविशेषणत्वेन दर्शयति “हेतुदर्शनाच्च” इति सूत्रं विवृणोति—लोभादिति, केचिदुद्गातार इति शेषः, तल्लोभमूलकं वेष्टनं सर्ववेष्टनस्मृतेर्मूलमित्यर्थः, क्रीतराजकस्य यजमानस्य यदन्नम्, तस्येत्यर्थः, अपुंस्त्वम् स्वीयं प्रजननासामर्थ्यम् । तत एषेति । बुभुक्षादोषगूहनरूपकारणद्वयात् स्मृति- द्वयमिति, असन्मूलत्वादप्रमाणमवगम्यत इत्यर्थः ॥ २ ॥ त० वा०—सर्वथा तावन्मन्वादिप्रणीताः सन्निबन्धनाः स्मृतयः । शेषाणि च विद्यास्थानानि स्वार्थं प्रतिपादयन्त्युपलभ्यन्ते । मन्वादीनां चाप्रत्यक्षत्वात्तद्विज्ञान- मूलमदृष्टं किंचिदवश्यं कल्पनीयम् । तत्र च—भ्रान्तेरनुभवाद्वाऽपि पुंवाक्याद्विप्रलम्भनात् । दृष्टानुगुण्यसाध्यत्वाच्चोदनैव लघीयसी ॥ सर्वत्रैव चादृष्टकल्पनायां तादृशं कल्पयितव्यम्, यद् दृष्टं न विरुणद्धि न वाऽदृष्टा- न्तरमासञ्जयति । तत्र भ्रान्तौ तावत्सम्यङ्निबद्धशास्त्रदर्शनविरोधापत्तिः, सर्व- लोकाभ्युपगतदृढप्रामाण्यवादश्च । इदानींतनैश्च पुरुषैरपि भ्रान्तिर्मन्वादीनाम- नुवर्तिता । तत्परिहारोपन्यासश्च मन्वादीनामित्येकादृष्टकल्पना । अनुभवेऽपि स एव तावदनुभवः कल्पयितव्यः । पुनश्चेदानींतनसर्वपुरुषजाति- विपरीतसामर्थ्यकल्पना मन्वादेः, तच्चैतत्सर्वज्ञवादे निराकृतम् । पुरुषवाक्य- परम्पराऽप्यन्धपरम्परया निराकृता । न हि निष्प्रतिष्ठप्रमाणात्मलाभो दृश्यते । तथा विप्रलम्भेऽपि तत्कल्पना । विप्रलिप्सा प्रयोजनम्, लोकस्य च तत्र भ्रन्तिः तस्याश्चेयन्तं कालमनुवृत्तिरित्याद्याश्रयणीयम् । उत्पन्नस्य च दृढस्य प्रत्ययस्य प्रामाण्यनिराकरणाद् दृष्टविरोधः ।
२ ] प्रथमाध्याये तृतीयपादः ३६५ तस्मात्सर्वेभ्यश्चोदनाकल्पनैव ज्यायसी । तत्र हि तन्मात्रदृष्टाभ्युपगमः । शेषास्तु महाजनपरिग्रहादयः सर्वेऽनुविधीयन्ते । संभाव्यते च मन्वादीनां चोदना पूर्वविज्ञानकारणत्वेन । तदर्थमेवाऽऽह—तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानामिति । यानि पुनरनुपपन्नवेदसंभावनानां म्लेच्छादीनामतीन्द्रियार्थस्मरणानि, तेषां मूलकल्पनावेलयामेव चोदना संभावनापदं नाऽऽरूढेति, मिथ्यात्वहेतुभूतचतुष्टय- पारिशेष्यादप्रमाणत्वम् । संभावितायां पुनश्चोदनायां कारणान्तरनिषेधे कृते निर्मूलत्वासंभवात्परिशेषसिद्धं चोदनामूलत्वम् । यत्तु किमर्थं चोदना नोपलभ्यन्त इति । तत्र केचिदाहुः । नित्यानुमेयास्ता न कदाचिदुच्चार्यन्ते । यथालिङ्गादिकल्पिताः । कथमनुच्चारितानां मूलत्वोप- पत्तिरिरिति चेत् ? नैष दोषः । पाठविच्छेदवत्पारम्पर्येण स्मरणात्तत्सिद्धेः । यथैव हि ग्रन्थः संप्रदायादविच्छिन्नोऽस्तित्वं भजते, तथैव प्रतिज्ञया नित्यानुमेयश्रुति- संप्रदायाविच्छेदसिद्धिः । तत्तवयुक्तम् । अन्धपरम्परान्यायादेव । या हि चोदना न कदाचिदुच्चार्यते, तस्याः सर्वपुरुषप्रत्यक्षादिप्रसराभावाद् दुर्लभतरमस्तित्वम् । तथा च स्मृतेरपि सैव बन्ध्यादौहित्रतुल्यता । लिङ्गादीनां तु नित्यत्वान्नित्य- मनुच्चरितश्रुत्यनुमानकारणत्वमविरुद्धम् । तेन वरं प्रलीनश्रुत्यनुमानमेव । न च प्रलयो न संभाव्यते । दृश्यते हि प्रमादालस्यादिभिः पुरुषक्षयाच्चाल्पविषयत्वस् न चैवं सति यत्किंचित्प्रमाणमापत्स्यते । शिष्टत्रैवर्णिकदृढस्मरणान्यथानुपपत्ति- लभ्यत्वाच्छ्रुत्यनुमानस्य । यद्वा विद्यमानशाखागतश्रुतिमूलत्वमेवास्तु । कथमनुपलब्धिरिति चेत् ? उच्यते— शाखानां विप्रकीर्णत्वात्पुरुषाणां प्रमादतः । नानाप्रकरणस्थत्वात्स्मृतेर्मूलं न दृश्यते ॥ १६ ॥ यत्तु किमर्थं वेदवाक्यान्येव नोपसंगृहीतानीति, संप्रदायविनाशभीतेः । विशिष्टानुपूर्व्या व्यवस्थितो हि स्वाध्यायोऽध्येतव्यः श्रूयते । स्मार्ताश्चाऽऽचाराः केचित्क्वचित्कस्यांचिच्छाखायाम् । तत्रापि तु केचित्पुरुषमेवाधिकृत्याऽऽस्म्ना- यन्ते । येन क्रतुप्रकरणास्म्नाताः केनचिन्निमित्तेनोत्कृष्यमाणाः पुरुषधर्मतां भजन्ते । यथा ‘मलवद्वाससा सह न संवदेत’ (तै० सं० २।५।१) । ‘तस्मान्न ब्राह्मणाय- वगुर्तेत’ (तै० सं० २।६।१०) । इत्येवमादयः । तत्र यदि तावत्तान्येव वाक्यान्यु- द्धृत्याध्यापयेयुः ततः क्रमान्यत्वात्स्वाध्यायविधिविरोधः स्यात् । अनेन च निर्देशेनान्येऽप्यर्थवादोद्धारेण विधिमात्रमधीयीरन्कर्मौपयिकमात्रं वा । तत्र वेदप्रलयः प्रसज्येत । न चावश्यं मन्वादयः सर्वशाखाध्यायिनः । तं हि प्रयत्नेन शाखान्तराध्या- यिभ्यः श्रुत्वाऽर्थमात्रं स्ववाक्यैरविस्मरणार्थं निबध्नीयुः । न च वाक्यविशेषो