मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. १ अ. ४१ पान १११
ससैन्यो भोजितस्तेन कामधेनुबलेन सः॥२६॥ भुक्त्वा तं प्रार्थयामास नंदिनीं देहि मे मुने । विश्वामित्रस्ततस्तस्मै न ददौ तां महामुनिः ॥२७॥ ततो राजा बलान्नेतुं दूतानाज्ञापयत् खलः । धेन्वा ते नाशिताः सर्वे ततः स्वयमुपाययौ ॥२८॥ कशाघातैश्च तां धेनुं ताडयामासुराग्रहात् । केचित्ततो महत्सैन्यं निर्ममे तत्र धेनुका ॥२९॥ ततो युद्धमभूद्धोरं सैन्ययोरुभयोर्महत् । नष्टं सैन्यं च संपूर्ण विश्वामित्रस्य तत्क्षणात् ॥३०॥ सोऽपि भग्नो गृहं गत्वा राज्यं न्यस्य ययौ वनम् । प्रधानेषु तपस्तेपे शंकरस्य महात्मनः ॥३१॥ शतवर्षेषु पूर्णेषु प्रसन्नश्च ददौ शिवः । अस्त्रविद्यां सुसंपूर्णां तां प्राप्य स्वगृहं ययौ ॥३२॥ पुनर्वसिष्ठमागम्य शस्त्रास्त्रैर्बलसंयुतः । विश्वामित्रो ममर्दासावग्र्यस्त्रेण तदाश्रमम् ॥३३॥ वसिष्ठस्तं ततस्तत्र योधयामास शौनक । ब्रह्मदंडधरः श्रीमान् सर्वास्त्राणि व्यमर्दयत् ॥३४॥ ब्रह्मदंडेन तस्याऽपि कृतस्तेन पराजयः । विश्वामित्रः पलायिष्ट भयभीतः समंततः ॥३५॥ ततः सुसांत्वितो विप्रो वसिष्ठो ब्राह्मणैस्तदा । स्वाश्रमं प्रविवेशाथ विश्वामित्रो गृहं ययौ ॥३६॥ अहो ब्राह्मं बलं दीप्तं क्षात्रं तुच्छं विशेषतः। ब्रह्मदंडेन सर्वाणि ममास्त्राणि हतानि च ॥३७॥ एवं स निश्चयं कृत्वा राज्यं त्यक्त्वा ययौ वनम् । ब्राह्मणत्वप्रसिद्ध्यर्थं तताप परमं तपः ॥३८॥ गायत्रीमंत्रजाप्येन पुरश्चरणमार्गतः । निराहारेण राजर्षिस्तापयामास विष्टपम् ॥३९॥ एवं दशसहस्राणि वर्षाणि जपतो ययुः । ततो जगाद तं ब्रह्मा वरं ब्रूहि महामते ॥४०॥ स वव्रे ब्राह्मणत्वं मे देहि देव नमोऽस्तु ते। तदा ब्रह्मा पुनः प्राह तपस्वेति च गाधिजम् ॥४१॥ दशवारं विधौ तत्र समागत्य च तं मुनिम् । अन्यं वरं ददाने स न जग्राह स बुद्धिमान् ॥४२॥ तपःप्रभावतस्तस्य व्याप्तमासीद्दिगंतरम् । देवाद्या अभवन्सर्वे तदाज्ञावशवर्तिनः ॥४३॥ स्वप्रतापेन राजर्षिर्ब्राह्मणान् प्राह गाधिजः । अहं ब्रह्मर्षिर्मुख्यो वै जातस्तु तपसो बलात् ॥४४॥ भयभीताश्च ते सर्वे तथेत्यूचुः प्रणम्य तम् । वसिष्ठो मुनिवर्यः स तं राजर्षिं जगाद ह ॥४५॥ विश्वामित्रः संक्षुभितो वसिष्ठहननाय च । नानायतनांश्चकारापि न ममार महामुनिः ॥४६॥ ततोऽतिदुःखितो भूत्वा संस्थितः स्वाश्रमे मुनिः । विश्वामित्रो महाभागस्तपस्तेजोविराजितः ॥४७॥ तमाययौ महातेजा याज्ञवल्क्यः प्रतापवान् । ब्रह्मणोऽगसमुत्पन्नः साक्षाद्योगीश्वरो महान् ॥४८॥ तं ननाम यथान्यायं पूजयामास भक्तितः । विश्वामित्रो महातेजा उवाच प्रकृतांजलिः ॥४९॥ अद्य मे सफलं जन्म तपःस्वाध्याय एव च । येन ते दर्शनं
खं. १ अ. ५० | पान ११२
जातं ब्रह्मभूतस्य मानद ॥५०॥ किमर्थमागतो ब्रह्मंस्तद्वदस्व महामुने । तवाज्ञां कर्तुमिच्छामि दासोऽहं शाधि मां प्रभो ॥५१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते याज्ञवल्क्यविश्वामित्रसमागमोनामैकोनपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । विश्वामित्रस्य भावेन संतुष्टो मुनिपुंगवः । तमुवाच महायोगी याज्ञवल्क्यो महामुनिः ॥१॥ याज्ञवल्क्य उवाच । दुःखितं त्वां विदित्वाहमागतो मुनिपुंगव । न कार्यमपरं किंचिज्जानीहि त्वं महामते ॥२॥ वद किं कारणं ब्रह्मन् दुःखस्य तव तापस । पश्चात्तन्नाशयिष्यामि युक्त्या ज्ञानोपदेशतः ॥३॥ विश्वामित्र उवाच । तपस्तप्तं मया घोरं ब्रह्मा मे न ददौ वरम् । वसिष्ठो मां च राजर्षि जगाद जनसन्निधौ ॥४॥ केनोपायेन योगींद्र ब्राह्मणोऽहं भवामि च । सर्वमान्यो महाभागस्तं करिष्यामि यत्नतः ॥५॥ ततस्तं मुनिशार्दूलो याज्ञवल्क्य उवाच ह । न चिंतां कुरु राजर्षे ब्रह्मर्षिस्त्वं भविष्यसि ॥६॥ अभिमानं महाघोरं त्यज त्वं मे सुवाक्यतः । मत्सरं त्यज दुष्टं च ततः क्षेमं भविष्यति ॥७॥ कथां शृणु महारम्यां काशीविश्वेशसंश्रिताम् । येन त्वं निर्मलो भूत्वा ब्राह्मणोऽपि भविष्यसि ॥८॥ काशीविश्वेश्वरेणैव न त्यक्ता प्रलयेऽपि च । न वियोगः क्षणं तस्याः काश्याः शंभोः कदाचन ॥९॥ तेनाहंकारसंयुक्तौ जातौ काशीमहेश्वरौ । विघ्नः समभवत्तत्र दारुणः प्रवियोगकृत् ॥१०॥ मुद्गल उवाच । याज्ञवल्क्यवचः श्रुत्वा हर्षितः कौशिको मुनिः । उवाच तं महाभागं प्रेमयुक्तेन चेतसा ॥११॥ विश्वामित्र उवाच । कीदृशं विघ्नरूपं चाविमुक्तस्य शिवस्य यत् । समुत्पन्नं महाभाग तद्वद त्वं विशेषतः ॥१२॥ याज्ञवल्क्य उवाच । षष्टिवर्षाणि पर्जन्यो न ववर्ष महीतले । तेन नष्टं जगत्सर्वं भूमिस्थं सचराचरम् ॥१३॥ प्रजाक्षयं ततो दृष्ट्वा ब्रह्मा लोकपितामहः । आययौ राजशार्दूलं दिवोदासं तपःस्थितम् ॥१४॥ राज्यं त्यक्त्वा स राजर्षिस्तताप परमं तपः । मोक्षार्थं भक्तिभावेन सूर्यवंशसमुद्भवः ॥१५॥ तपसा योगभावेन बभौ सूर्य इवापरः । तं ब्रह्मा स्वयमेवेदं वचनं प्रजगाद ह ॥१६॥ ब्रह्मोवाच । दिवोदास महाभाग शृणु मे वचनं हितम् । काशीराज्यं गृहाण त्वं मया दत्तं महामते ॥१७॥ ब्रह्माणं स उवाचाथ न राज्यं परिपालये । मोक्षार्थी वासनाहीनो मोक्षं देहि प्रजापते ॥१८॥ तं पुनः प्रत्युवाचेदं ब्रह्मा लोकहिताय च । कुरु राज्यं महाभाग मया दत्तं महामते ॥१९॥ त्वयि राज्ये स्थिते वृष्टिर्भविष्यति
खं. १ अ. ५० पान ११३ महाद्भुता । अन्यथा लोकनाशः स्यात्तस्मात् कुरु वचो महत् ॥२०॥ लोकसंरक्षणार्थाय दयायुक्तो महामतिः । राज्यं जग्राह काश्याश्च देववर्जितमुत्तमम् ॥२१॥ देवानामखिलं राज्यं सदा स्वर्गेषु वर्तते । मनुष्याणां पृथिव्यां वै पाताले नागरक्षसाम् ॥२२॥ अतो देवतया शंभुं पूजयिष्यामि मानद । सर्वैः स्वधर्मे स्थातव्यं मयि राज्यं प्रशासति ॥२३॥ तथेति तमुवाचाथ ब्रह्मा लोकपितामहः । काशीराज्यं ददौ तस्मै दिवोदासाय धीमते ॥२४॥ ततो ब्रह्मा ययौ काश्यां शंकरं प्रणिपत्य सः । उवाच तं विशेषज्ञो मंदरं गच्छ शंकर ॥२५॥ मरीचिना तपस्तेपे तस्मै देहि वरं शिव । नो चेन्मरिष्यति स वै तस्माद्गच्छ जगद्गुरो ॥२६॥ ब्रह्मणो गिरमाकर्ण्य तेन सार्धं ययौ शिवः । देवर्षिगणसंयुक्तो वरार्थं ब्राह्मणस्य च ॥२७॥ तं दृष्ट्वेति वरं ब्रूहि शिवो वचनमब्रवीत् । स उवाच शिवं तत्र मुक्तिं देहि सदाशिव ॥२८॥ इत्युक्त्वा तपसो दुःखाज्जहौ प्राणान् महामुनिः । प्राप्तः शिवस्य सारूप्यं कैलासं स गतो मुनिः ॥ २९ ॥ एतस्मिन्नंतरे शंभुं ब्रह्मोवाच कृतांजलिः । वस त्वं मंदरे शंभो त्यज काशीं महापुरीम् ॥ ३० ॥ अनावृष्टिभवं दुःखं तन्निवृत्यर्थमादरात् । राज्यं दत्तं मया देव दिवोदासाय शंकर ॥३१॥ तेनापि कथितं देवराज्यं पृथ्व्यां न चेद्भवेत् । तदा राज्यं करिष्यामि नान्यथाऽहं कदाचन ॥ ३२॥ मया लोकस्य रक्षार्थं दत्तं राज्यं च तस्य हि । क्षमस्व चापराधं मे महादेव नमोऽस्तु ते ॥३३॥ तथेति शिव ऊचे तं निःश्वस्य परमं प्रभुः । पार्वत्या गणसंयुक्त उवास स च मंदरे ॥३४॥ अविमुक्तं महाक्षेत्रं दैवेन त्याजितं मम । अधुना मुक्तता केन कर्मणा भविता मम ॥३५॥ न ब्रह्मणो वचो मिथ्या भविष्यति कदाचन । अधुना किं करिष्यामि काशीविरहदुःखितः ॥३६॥ अहं विश्वेश्वरश्चाऽस्मि मदधीनं न किंचन । विश्वनाथेति नामेदं व्यर्थरूपं न संशयः ॥३७॥ अखिलप्राणितुल्योऽहं कृतो येन महात्मना । शरणं विघ्नराजं तं गच्छामि न च संशयः ॥३८॥ ममापि विघ्नरूपं यत् समुत्पन्नं महाद्भुतम् । अहंकार- विहीनोऽहं कृतस्तेन महात्मना ॥३९॥ इत्येवं निश्चयं कृत्वा शिवस्तत्राचले तपः । तताप गणपं ध्यात्वा काशीप्राप्त्यर्थमादरात् ॥४०॥ काशी च दुःखसंयुक्ता श्रुत्वा शंभोर्विनिर्गतम् । तपस्तताप विघ्नेशं ध्यात्वा निश्चलचेतसा ॥४१॥ अहंकारविनिर्मुक्ता काशी दुःखितमानसा । शिवप्राप्त्यर्थमतुलं तताप परमं तपः ॥४२॥ दिवोदासस्तु तद्राज्यमकरोद्धर्मतः स्वयम् । ततो वृष्टिः समुत्पन्ना सर्वेषां सुखदायिका ॥४३॥ सकलं वृष्टियोगेन जगत्स्थावरजंगमम् । मोदयुक्तं तदा जातं तस्मिन् राज्यं प्रशासति ॥४४॥ स्वस्वधर्मरताः सर्वे वर्णाश्रमविभागशः । पापलेशो न तत्रासीत्तस्मिन् राज्यं प्रशासति ॥४५॥
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिशः लिप्यंतरण (Transcription) है:
ख. १ अ. ५० पान ११४
हृष्टपुष्टजनाः सर्वे वृक्षाः पुष्पफलान्विताः। घटदुग्धास्तदा गावस्तस्मिन् राज्यं प्रशासति ॥४६॥ स्वाहास्वधायुता देवाः पितरश्च मुदा युताः । यज्ञादयो बभूवुश्च तस्मिन् राज्यं प्रशासति ॥४७॥ एवं नानाविधैर्भोगैर्युताः सर्वे महामुने। दिवोदासः स्वयं राजा नित्ययात्रां चकार ह ॥४८॥ आदौ ढुंढिं पूजयाऽसौ पश्चाद्विश्वेश्वरं मुने। जगदंबां च काशीं वै मणिकर्णि ततः परम् ॥४९॥ भागीरथीं माधवं च जैगीषव्यगुहां ततः। कालभैरवमेवं च दंडपाणिं महाबलम् ॥५०॥ जनैः स मतिमान् राजा कारयामास सर्वदा। धर्महीनं जनं हंतुं दंडपाणिरिव स्थितः ॥५१॥ अशीतिवर्षसाहस्रं गतं तत्र महामुने। न किंचित्स्वल्पपापस्य प्रवेशोऽपि बभूव ह ॥५२॥ ततो देवा विचारं ते चक्रुः स्वर्गेषु विस्मिताः। पृथिव्यां देवराज्यं तु विनष्टं तेन कारितम् ॥५३॥ अतो वयं किमर्थं च स्थास्यामः पृथिवीतले। स्पर्धते नः स राजर्षिश्छलयामस्ततो वयम् ॥५४॥ तत इंद्रोऽग्निमाहूय जगाद क्रोधसंयुतः। दिवोदासस्य राज्ये ते स्थानं मास्तु बह्निस्त्विति ॥५५॥ इंद्रस्य वचनं श्रुत्वा वह्निरंतर्दधे तदा । पृथिव्यां वह्निहीनास्ते जनाः सर्वे तमन्वयुः ॥५६॥ तान् दृष्ट्वा स दिवोदासो वह्निरूपेण संस्थितः। पृथिव्यां यत्र कुत्रापि तपो बलसमन्वितः ॥५७॥ एवं नानाविधैर्भावैर्देवाः सर्वे क्रमेण च। गतास्तत्र स्वयं राजा तेषां रूपधरो बभौ ॥५८॥ वाय्वादिरूपमास्थाय स राजा देवकृत्यवित्। पृथिव्यां ये जनाः सर्वे न तं जानंति कौशिक ॥५९॥ एवं बहौ गते काले देवाः सर्वे विसिस्मिरे। देवकृत्यं कृतं सर्वं राज्ञाप्याश्चर्यमुत्तमम् ॥६०॥ ततो देवगणाः सर्वे ब्रह्माणं शरणं ययुः । दिवोदासस्य मोहार्थं पृथ्वी त्यक्ता च निर्जरैः ॥६१॥ स तपोबलयुक्तस्तु देवानां कृत्यमादरात् । स्वयं देवस्वरूपैस्तैश्चकार परमाद्भुतम् ॥६२॥ वयं विहारहीनाश्च किं कुर्मो वद भो विभो। तेषां वचनमाकर्ण्य ब्रह्मा प्रोवाच तांस्तदा ॥६३॥ भवद्भिस्तत्र गंतव्यं प्रार्थनीयो नराधिपः। स दास्यति स्वकं स्थानं देवानां नात्र संशयः ॥६४॥ ततो देवा दिवोदासमाययुश्चेंद्रमुख्याः। तान् दृष्ट्वा सहसोत्थाय ननाम विनयान्वितः ॥६५॥ तमुत्थाप्य ततो देवास्तुष्टुवुस्तं नराधिपम्। सोऽपि देवान् प्रतुष्टाव स्वपदानि ददौ ततः ॥६६॥ स्वयं नरस्वरूपेण चैकदेहेन संस्थितः । अग्न्यादयो निजस्थाने देवाः सर्वे सुसंस्थिताः ॥६७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दिवोदासमहिमवर्णनं नाम पंचाशत्तमोऽध्यायः ॥
[शीर्षक: खं. १ अ. ५१ | पान ११५]
॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततः शंभुः परां चिंतामापेदे मनसा मुने । देवा हतोद्यमा जातास्तपसा तस्य धीमतः ॥ १ ॥ स्वधर्मपर एवायं तपसा च समन्वितः । नोच्चालितुं भवेच्छक्यः किं भविष्यति वै ततः ॥ २ ॥ मया काशी कदा लभ्या दग्धोऽहं विरहाग्निना । मरिष्यामि न संदेहो विललाप महेश्वरः ॥ ३ ॥ अस्थिचर्मावशेषोऽपि शुशोच बहुधा शिवः । तं देवा मुनयः सर्वे सांत्वयामासुरादरात् ॥ ४ ॥ देवर्षय ऊचुः । मा कुरुष्व वृथा चिंतां त्वं समर्थो महेश्वर । तव प्रसादयोगेन गच्छामः काशिकां वयम् ॥ ५ ॥ नानासिद्धिभिरालोभ्य लोकांस्तत्र समंततः । तत्पापभागिनं भूपं दिवोदासं च कुर्महे ॥ ६ ॥ ततस्त्वया विशेषेण काशी ग्राह्या सदाशिव । एवमुक्त्वा ययुस्तत्र देवाः सर्वे प्रहर्षिताः ॥ ७ ॥ तत्राभवन् गताः काश्यां नानारूपधराः सुराः । जनान् संमोहयामासुः सिद्धिं कृत्वा विशेषतः ॥ ८ ॥ धर्मशीला जनाः सर्वे तेषां वाक्यं न चक्रिरे । एकवर्षं प्रयत्नं ते कृत्वा शांतिं प्रलेभिरे ॥ ९ ॥ ततः सदाशिवस्तत्र प्रेरयामास भैरवान् । तेपि यत्नैश्च विविधैर्न समर्था बभूविरे ॥ १० ॥ एवं क्रमेण आदित्या वसवश्चर्षयः पराः । योगिन्यश्च गणाः सर्वे हतोद्योगास्तथाऽभवन् ॥ ११ ॥ ततो ब्रह्माणमाबोध्य प्रेषयामास शंकरः । दशाश्वमेधाश्च कृतास्तेन शांतिं जगाम सः ॥ १२ ॥ ततस्तु शंकरस्तत्र ध्याननिष्ठो बभूव ह । चरणे विघ्नराजस्य सर्वाशापूरके परे ॥ १३ ॥ सविघ्नं मां गणाध्यक्ष निर्विघ्नं कुरु सर्वदा । दासोऽहं तेऽविमुक्तस्य संरक्ष विरहात्प्रभो ॥ १४ ॥ एवं निश्चितचित्तस्तु वर्षमेकं गजाननम् । ध्यानेन तोषयामास शंकरः कार्यसिद्धये ॥ १५ ॥ दृष्ट्वाऽहंकारनिर्मुक्तमत्यंतं शंकरं प्रभुः । दर्शयामास रूपं स्वं योगिध्येय- मनुत्तमम् ॥ १६ ॥ सिंहारूढं चतुर्बाहुं पाशांकुशधरं प्रभुम् । वरदाभयहस्तं च सिद्धिबुद्धिसमन्वितम् ॥ १७ ॥ रक्तवर्णं सुशोभाढ्यं गजवक्त्रं महोदरम् । विविधैः शेषनाभिं तं भूषणैः सुविराजितम् ॥ १८ ॥ चिंतामणिधरं पूर्णं तेजोराशिं महाप्रभम् । दृष्ट्वा देवं मुदा युक्तः शंकरः प्रणनाम ह ॥ १९ ॥ ततस्तं पूजयामास तुष्टाव स यथामति । देवदेवं गणाध्यक्षं वक्रतुंडं विधानतः ॥ २० ॥ शिव उवाच । नमस्ते वक्रतुंडाय सर्वसिद्धिप्रदाय च । निराकाराय देवाय साकाराय नमो नमः ॥ २१ ॥ नमः सर्वप्रबोधाय नमः सर्वप्रियंकर । गणानां पतये तुभ्यं गणेशाय नमो नमः ॥ २२ ॥ ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे । संहर्त्रे ते हरायैव गुणेशाय नमो नमः ॥ २३ ॥ ब्रह्माकाराय वै तुभ्यं ब्रह्मभूताय ते नमः । नमः प्रपंचरूपाय प्रपंचानां प्रचालक ॥ २४ ॥ अनंतगुणधाराय ह्यनंतविभवाय ते । अनंतोदररूपाय हेरंबाय नमो
खं. १ अ. ५१ पान ११६
नमः ॥२५॥ कारणानां परायैव कारणाय नमो नमः । अकारणाय वै तुभ्यं सिंहवाहाय ते नमः ॥२६॥ अहं जीवसमानश्च संजातो नात्र संशयः । अविमुक्तं विमुक्तं मे जातं देव दयानिधे ॥२७॥ अतस्त्वां शरणं यातो निर्विघ्नं कुरु मां प्रभो । देहि काशीं गणाध्यक्ष अविमुक्ततया च मे ॥२८॥ त्वया पुरा वरो दत्तः स्मरणेन त्वदग्रतः । स्थास्यामि पुत्रभावेन तं पालय गजानन ॥२९॥ इत्युक्त्वा पादयोस्तस्य प्रणनाम महेश्वरः । तमुत्थाप्य गणाध्यक्ष उवाच प्रहसन्निव ॥३०॥ वक्रतुंड उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठते शृण्वते चैव भुक्तिमुक्तिप्रदं शिव ॥३१॥ अन्यद्यत्प्रार्थितं सर्वं करिष्यामि सदाशिव । अविमुक्तं प्रदास्यामि सार्थकं ते च सांप्रतम् ॥३२॥ इत्युक्त्वा निर्ममे देहाद्ब्राह्मणं सर्वसुंदरम् । सर्वज्ञं च गुणेशस्य तेजोयुक्तं प्रभाविनम् ॥३३॥ आज्ञापयच्च तं देवो गच्छ त्वं शिवसिद्धये । काश्यां तु बुद्धिसंमोहं जनानां कुरु सत्वरम् ॥३४॥ मोहयित्वा दिवोदासं काशीराज्यं शिवाय च । ममाज्ञया देह्यद्य त्वं सर्वपूज्यो भविष्यसि ॥३५॥ ढुंढिं ज्योतिर्विदं त्वां तु वदिष्यंति जना द्विजाः । त्वदीयवंशगाः सर्वे भविष्यंति न संशयः ॥३६॥ इति श्रुत्वा द्विजो ढुंढिं प्रणनाम मुदा युतः । ययौ प्रदक्षिणीकृत्य काशीं स गणपं स्मरन् ॥३७॥ ततो विष्णुं समाहूय तं जगाद गजाननः । बौद्धरूपेण विष्णो त्वं काशीं गच्छ मदाज्ञया ॥३८॥ द्विजेन ढुंढिना सर्वं मोहितं नगरं भवेत् । कुरु त्वमधुना भ्रष्टं मम वाक्याज्जनार्दन ॥३९॥ प्रणम्य तं तदा विष्णुर्गणेशं बौद्धरूपधृक् । ययौ काशीं महाभागो वक्रतुंडं हृदि स्मरन् ॥४०॥ तौ यथा गणराजेन कथितं चक्रतुस्तथा । मोहयुक्तं पुनर्भ्रष्टं नगरं सर्वमंजसा ॥४१॥ अन्यच्छृणु चरित्रं त्वं विश्वामित्र तपोधन । काशीध्यानयुता तत्र संस्थिता गणपस्य तु ॥४२॥ सहस्रं तत्र वर्षाणां गतमेकं महामुने । तस्यास्तपःप्रभावेण संतुष्टोऽभूद्गजाननः ॥४३॥ वरं दातुं समायातः काश्यै मूर्तिधरः प्रभुः । सिंहारूढः प्रसन्नात्मा नानाभूषणभूषितः ॥४४॥ तं दृष्ट्वा सहसोत्थाय काशी परमपावनी । पादयोः प्रणनामाथ कर्षिता विह्वला भृशम् ॥४५॥ पुनरुत्थाय तं देवं पूजयामास भक्तितः । तुष्टाव सुस्थिरा भूत्वा निबद्धकरसंयुटा ॥४६॥ काश्युवाच । नमस्ते गणनाधाय नमस्तेऽनंतरूपिणे । नमस्ते सर्वदात्रे वै मायाधाराय ते नमः ॥४७॥ गजवक्त्रधरायैव शूर्पकर्णाय ते नमः । सर्वभूषाय वै तुभ्यं वक्रतुंड नमोऽस्तु ते ॥४८॥ निराकाराय नित्याय निर्गुणाय गुणात्मने । वेदवेद्याय सततं ब्रह्मणे ते नमो नमः ॥४९॥ ब्रह्मणां ब्रह्मदात्रे च सिंहारूढाय ते नमः । सिद्धिवुद्धिपते तुभ्यं नमः सर्वाभयंकर ॥५०॥ अनाधाय च नाथाय सर्वेषां पालकाय च । भक्तेभ्यः
खं. १ अ. ५२ पान ११७ सर्वदात्रे ते विघ्नहर्त्रे नमोऽस्तु ते ॥५१॥ विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च । योगिनां हृदि संस्थाय योगगम्याय ते नमः ॥५२॥ मनोवाणीविहीनाय शांतिरूपाय ते नमः । शांतेभ्यः शांतिदात्रे च गणेशाय नमो नमः ॥५३॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सशास्त्रकाः । शांतिं प्राप्ता महाभागा अतस्त्वां प्रणमामि वै ॥५४॥ रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् । अविमुक्ता शिवेनैव नाम व्यर्थं बभूव मे ॥५५॥ शिवहीना कृता देव दैवं तु परमाद्भुतम् । अतस्ते शरणं प्राप्ता शंकरं दर्शयस्व माम् ॥५६॥ इत्युक्त्वा पतिता तस्य पादयुग्मे महामुने । तामुत्थाप्य गणाधीशो जगौ मधुरया गिरा ॥५७॥ गणेश उवाच । मा शोकं कुरु कल्याणि शंकरं दर्शयामि ते । अविमुक्तमिदं नाम सार्थकं प्रभविष्यति ॥५८॥ त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेत् । यः पठिष्यति भक्त्या च श्रोष्यते तस्य सुंदरि ॥५९॥ यं यमिच्छति भावेन तं तं दास्यामि सर्वगः । ब्रह्मभूयकरं स्तोत्रं भविष्यति न संशयः ॥६०॥ इत्युक्त्वा गणनांथश्च तत्रैवांतरधीयत । तमेव सापि ध्यायन्ती स्थिता कालप्रतीक्षिका ॥६१॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते काशीशिववरप्रदानं नामैकपंचाशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । एतस्मिन्नंतरे तत्र ययौ ज्योतिर्विदुत्तमः । ढुंढिनामा द्विजो यस्तु पुरा प्रोक्तो मयाऽनघ ॥ १ ॥ सर्वं तन्नगरं तेन मोहितं तत्क्षणात् मुने । पश्चात्समागतो बुद्धो विष्णुर्भ्रष्टं तथाऽकरोत् ॥ २ ॥ ढुंढिना स दिवोदासो बोधितः स च त्यक्तवान् । राज्यं बौद्धेन संतस्थौ प्रतीक्षन् शिवदर्शनम् ॥ ३ ॥ ताभ्यामाकारितः शंभुः प्रययौ गणपं पुरः । कृत्वा संपूज्य तं काश्यामादौ चक्रे हि वासिनम् ॥ ४ ॥ स्वयं देवगणैः पश्चादृषिभिश्च विवेश ह । ननाम चरणे काशी विघ्नपस्य शिवस्य च ॥ ५ ॥ यथास्थानं स्थिताः सर्वे देवा ऋषिगणाः सुखम् । दिवोदासाय मोक्षं स शंकरः प्रददौ ततः ॥ ६ ॥ ततः कदाचिद्देवेशो जगाद गिरिशं वचः । तुभ्यं दत्ता मया काशी कृतं सर्वं यथायथम् ॥ ७ ॥ अधुनाऽहं महादेव यास्ये स्वं धाम शोभनम् । यदा मे स्मरणं कुर्यास्तदा द्रक्ष्यसि मां शिव ॥ ८ ॥ इत्युक्त्वा ढुंढिविप्रेण सहितोऽसौ गजाननः । अंतर्धानं ययौ तत्र देवानां पश्यतां मुने ॥ ९ ॥ ततः स्वयं विश्वनाथस्तस्य मूर्तिं विधाय सः ।
स्थापयामास यत्नेन देवैश्च ब्राह्मणैः सह ॥ १० ॥ विधिवत्पूजयामास चोपचारैर्मनोरमैः । सर्वैः कृत्वा नमस्कारं प्रादक्षिण्यं चकार सः॥ ११॥ सर्वान् जगाद विश्वेशो हितं शृणुत मे वचः । आदौ ढुंढिं समभ्यर्च्य ये मां तोष्यंति तत्त्वतः ॥ १२॥ तेभ्यो भुक्तिं तथा मुक्तिं दास्यामि त्वन्यथा न च । काशीवासफलस्याऽपि दाताऽयं वक्रतुंडकः ॥ १३ ॥ वेदादीनां रहस्यं यदन्विष्टं तु मया बहु । तन्मूलोऽयं हृदि प्राप्तः साक्षाद्ब्रह्मपतिः प्रभुः ॥ १४ ॥ अतोऽयं ढुंढिराजेति नाम्ना ख्यातो मया कृतः । धर्मार्थकाममोक्षाणां दाता क्षेत्रे न संशयः ॥ १५ ॥ एवमुक्त्वा महादे्वो नित्यं पूजापरायणः । ढुंढिराजस्य सेवायां सावधानो बभूव ह ॥१६॥ तथा त्वमपि देवेशं विघ्नराजं भज प्रभो । त्यक्त्वाहंकारभावं तु ब्राह्मणः प्रभविष्यसि ॥१७॥ मुद्गल उवाच । याज्ञवल्क्यवचः श्रुत्वा विश्वामित्रो महातपाः । जगाद तं महाभागं विनयेन समन्वितः ॥ १८ ॥ विश्वामित्र उवाच । याज्ञवल्क्य महाभाग त्वयाऽहं बोधितः खलु । अधुना वद मे ज्ञानं सर्वज्ञोऽसि महामुने ॥ १९ ॥ अहंकारो मया त्याज्यः केन मार्गेण तद्वद । कीदृशो मे शरीरेऽसौ वद तिष्ठति सांप्रतम् ॥ २० ॥ गणेशानमहं केन भजेयं विधिना वद । स्वरूपं च कथं तस्य योगींद्रोऽसि यतः स्वयम् ॥ २१ ॥ याज्ञवल्क्य उवाच । शृणु त्वं कौशिक ब्रह्मन्नहंकारं वदामि ते । तपसा ब्राह्मणत्वं वै प्राप्स्यामि न हि संशयः ॥ २२ ॥ एनमेव विजानीह्यहंकारं तु महामते । तस्य त्यागे विधिं वक्ष्ये तं शृणुष्व यथायथम् ॥ २३ ॥ प्राप्तये ब्राह्मणत्वस्य तपेयं तप उत्तमम् । यदा दास्यति देवोऽसौ तदा ब्राह्मणता भवेत् ॥ २४ ॥ यदा न दत्ता देवेन राजर्षित्वं तदा खलु । अस्तु मे सततं तच्च कोऽहं मे कीदृशं तपः ॥ २५ ॥ अहं सदा पराधीनो देहधारी न संशयः । करोमि यत्नमत्यंतं दैवं चेत्प्रभविष्यति ॥ २६ ॥ अनेन विधिना विप्र तपस्व त्वं महामुने । तदा प्रभविता सर्व गताहंकारभावतः ॥ २७ ॥ अन्यत्त्वं शृणु मे वाक्यं मत्सरं त्यज कौशिक । शरणं गणराजं तं याहि तेन सुखं भवेत् ॥ २८ ॥ न मत्स मं तपः कस्य स्पर्धसे तेन वै द्विजान् । मत्सरेण समाविष्टः कुतस्त्वं ब्राह्मणो भवेः ॥ २९ ॥ त्वया मत्सरभावेन वसिष्ठस्य महात्मनः । पुत्राणां च शतं पूर्णं नाशितं रक्षसा यथा ॥ ३० ॥ अपरा सृष्टिरारब्धा त्रिशंकर्थं पुरा त्वया । वसिष्ठहनने यत्नं नानारूपं करोषि वै ॥३१॥ तं मत्सरं त्यज त्वं वै विधिं च शृणु तत्त्वतः । नीचोऽहं सर्वविप्रेभ्यस्तपस्विभ्यो न संशयः ॥३२॥ मया किंवा तपः कार्यमेभ्यश्चाधिकमादरात् । एषां तपःप्रभावोऽपि मनसा गम्यते न च ॥३३॥ एवं ज्ञात्वा तपस्व त्वं ब्राह्मणः प्रभविष्यसि । अन्यथा युगसाहस्रं तपस्तप्त्वा
मरिष्यासि ॥३४॥ सर्वेभ्यो नमनं विप्र हृदि भावसमन्वितम् । कर्तव्यं च त्वया नित्यं राजर्षित्वन्महामते ॥३५॥ एवमुक्त्वा महायोगी वक्रतुंडप्रभावजाम् । कथां संश्रावयामास पूर्वजातां महायशाः ॥३६॥ कथां श्रुत्वा महाभागो विश्वामित्रः सुविस्मितः । उवाच तं नमस्कृत्य याज्ञवल्क्यं तपोधनम् ॥३७॥ विश्वामित्र उवाच । वक्रतुंडस्य योगींद्र चरित्रं संश्रुतं मया । अधुना वद मे ब्रह्मन् तस्यानुभवरूपकम् ॥३८॥ याज्ञवल्क्य उवाच । शृणु यत्नेन माहात्म्यं पुरावृत्तं कथानकम् । कथयामि च ते प्रीत्या मदीयं ज्ञानदायकम् ॥३९॥ एकदाऽहं गतो ब्रह्मन् वैकुंठं स्वर्गमुत्तमम् । तत्र नारायणं नत्वाऽपृच्छं तं जगदीश्वरम् ॥४०॥ किं सारं सर्वभूतेषु कस्याधारेण संस्थितम् । मह्यं वद महाभाग साक्षात्त्वं जगदीश्वरः ॥४१॥ इदं सर्वं त्वदाधारं भासते हृदि सर्वदा । तथापि प्रष्टुमिच्छामि श्रवणार्थं यथायथम् ॥४२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते याज्ञवल्क्य - नारायणसंप्रश्नवर्णनं नाम द्विपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ नारायण उवाच । गणेशाधारमेतत्त्वं जानीहि ब्राह्मणोत्तम । हृदि बुद्धिप्रदातृत्वाद्वहिः सिद्धिप्रदानतः ॥१॥ अतोऽस्माभिः सदा देव आदौ पूज्यो महामुने । आदौ स एव मध्येऽपि तिष्ठत्यंते न संशयः ॥२॥ गुणरूपा वयं सर्वे ब्रह्माकारो गणेश्वरः । सिद्धिबुद्धिपतिः सो हि सर्वपूज्यश्च भो मुने ॥३॥ स्वानंदो यस्य लोकोऽभूद्भावाभावविवर्जितः । अगम्यो मुनिदेवानां द्वंद्वहीनः परात्परः ॥४॥ एवं गणपतिं ज्ञात्वा मुच्यते सर्वबंधनात् । तदाधारमिदं सर्वं जगद्ब्रह्म महामते ॥५॥ सर्वैरप्येकदा तत्त्वैर्मत्सरेण समन्वितैः । वादः कृतो महाभाग अहं श्रेष्ठ इति ध्रुवम् ॥६॥ मदाधारमिदं सर्वं पालयामि सृजाम्यहम् । हरामि मायया तस्मात् स्वेच्छारूपोऽहमेव च ॥७॥ एवं परस्परं सर्वे तत्त्वात्मानो महाबलाः । विवादं चक्रिरे तत्र सामर्थ्येन विमोहिताः ॥८॥ ततस्तत्र गुणाधीशो ब्राह्मणस्य च वेषभृत् । आययौ वादशांत्यर्थं ज्ञानदानार्थमादरात् ॥९॥ तं दृष्ट्वा विस्मिता देवाः कोऽयमत्र समागतः । आत्माकारा वयं सर्वे तत्रास्य च गतिः कथम् ॥१०॥ ततस्तं सर्वतत्त्वानि पप्रच्छुः को भवानिति । कथं मार्गस्त्वया प्राप्तो ब्रह्माकारेषु वर्त्मसु ॥११॥ ततस्तान् स द्विजो हृष्टो जगौ वै योगमायया । मया मार्गः कृतो ह्यत्र ब्राह्मणेन सुयोगिना ॥१२॥ किमर्थं वै यूयमपि विवादं कुरुथ स्वयम् । तन्मे वदत तत्त्वानि करिष्यामि
[ख. १ अ. ५३] [पान १२०]
हितं महत् ॥१३॥ ततो हृष्टानि तत्त्वानि तमूचुः श्रेष्ठभावतः । कस्तिष्ठति वद प्राज्ञ तत्त्वेष्वस्मत्सु वै प्रभो ॥१४॥ तेषां वचनमाकर्ण्य तानुवाच द्विजोत्तमः । तत्त्वाधारमिदं सर्वं विद्यते नात्र संशयः ॥१५॥ विश्वं त्यक्त्वा यूयमपि पश्यतो मम तिष्ठत । विश्वं विदीर्यते सर्वं येन त्यक्तं स वै प्रभुः ॥१६॥ इति श्रुत्वा वचः सर्वैस्तथेति प्रतिपाद्य तम् । क्रमेण त्यक्तुमारेभे आत्माकारा महाबलाः ॥१७॥ ब्रह्माकारा च या पृथिवी विश्वं त्यक्त्वा स्थिताऽभवत् तथेदमखिलं विश्वं न विनष्टं तु भावतः ॥१८॥ ततो जलेन तत्त्यक्तं तथा वै तादृशं स्थितम् । ततस्तु तेजसा त्यक्तं न विनष्टं तथापि च ॥१९॥ ततो वायुश्च तत्त्यक्त्वा स्थितो दूरं महामुने । तथापि सकलं विश्वं पूर्ववत् संस्थितं बभौ ॥२०॥ आकाशेन च संत्यक्तं तथा वै तादृशं बभौ । तन्मात्राभिस्ततस्त्यक्तं तथा वै पूर्ववद्बभौ ॥२१॥ तन्मात्राभिः सहैतानि भूतानि च महामुने । पंचापि दूरतः स्थित्वा शुशुचुर्विप्रभाणि च ॥२२॥ ततो ज्ञानेंद्रियैस्त्यक्तं पंचभिस्तत्तथा बभौ । ततः कर्ममयैस्त्यक्तं तथापि तादृशं बभौ ॥२३॥ तत इंद्रात्मकं ब्रह्म त्यक्त्वा दूरे स्थितं मुने । तथापि विश्वमेवेदं पूर्ववत्संस्थितं किल ॥२४॥ एवं देवगणाः सर्वे इंद्रियाणां प्रकाशकाः । आत्माकाराः स्थिताः दूरं त्यक्त्वा विश्वं महामुने ॥२५॥ तथापि सकलं विश्वं बभौ तेऽपि सुविह्वलाः । निस्तेजसोऽभवंस्तत्र स्थितास्तत्त्वसमन्विताः ॥२६॥ ततोऽन्नब्रह्मणा त्यक्तं विश्वं तदपि संबभौ । प्राणात्मकेन संत्यक्तं तथा वै तादृशं बभौ ॥२७॥ ततो मनोमयेनैव ब्रह्मणा त्यक्तमादरात् । तथापि संबभौ विश्वं पूरितं केनचिन्मुने ॥२८॥ ततो विज्ञान- रूपेण त्यक्तं तदपि तद्बभौ । तत आनंदरूपेण त्यक्तं विश्वं बभौ तदा ॥२९॥ ततो नादात्मकेनैव ब्रह्मणा त्यक्तमादरात् । ततो बिंदुमयेनैव त्यक्तं विश्वं बभौ मुने ॥३०॥ सोऽहंब्रह्मात्मकेनापि त्यक्तं विश्वं बभौ मुने । ततो बोधात्मना त्यक्तं तथा विश्वं च संबभौ ॥३१॥ ततो विदेहरूपेण त्यक्तं तदपि संबभौ । ततोऽप्यसत्स्वरूपेण त्यक्तं तदपि संबभौ ॥३२॥ ततो- ऽपि सत्स्वरूपेण त्यक्तं विश्वं बभौ मुने । ततः समस्ववेद्येन त्यक्तं विश्वं समाबभौ ॥३३॥ ततो नेतिस्ववेद्येन त्यक्तं वै विश्वमाबभौ । ततः स्वानंदस्वरूपेण त्यक्तं विश्वं लयं ययौ ॥३४॥ ततस्ते विस्मिताः सर्वे स्वानंदं तुष्टुवुर्मुने । प्रहृष्टमनसो भूत्वा प्रार्थयामासुरादरात् ॥३५॥ सकलं यत्त्वदाधारमस्माकं त्वं विशेषतः । नायकः सर्वतत्त्वानांमतो भव विनायकः ॥३६॥ विनायक नमस्तुभ्यं पुनर्विश्वं सृज प्रभो । यथा पूर्वं स्थितं स्वामिंस्तथा कुरु जगत्पते ॥३७॥ एवं तैः प्रार्थितो देवो विशेषेण विनायकः । निर्ममे सकलं विश्वं यथापूर्वं मुनीश्वर ॥३८॥ ततस्ते ब्रह्मरूपत्वात्तद्विश्वं विविशुः पुनः । यथा
खं. १ अ. ५३ पान १२१ स्वस्थानमात्मानमाश्रित्य मुमुदुस्ततः ॥३९॥ जगदीश्वरनामानः सर्वेशास्ते प्रकीर्तिताः । अनेन विधिना ब्रह्मन् ज्ञातव्यं तद्विशेषतः ॥४०॥ स विनायक इत्युक्तो द्विविधो याज्ञवल्क्यक । संयोगेन निजानंदो निरानंदो ह्ययोगतः ॥४१॥ द्विविधे नाशभूते च योगरूपोऽयमुच्यते । विनायको महातेजा ब्रह्मणं नायकः स्मृतः ॥४२॥ तं विदित्वा ततः शांतिं वयं प्राप्ता महामुने । अतः शांत्यर्थमत्यंतं तमाराधय भो द्विज ॥४३॥ माया भ्रांतिकरी जंतोर्वक्रा संकथिता मुने । तुंडेन हंति तां भक्त्या तेनाऽयं वक्रतुंडकः ॥४४॥ वक्रतुंडं च सर्वेशं शरणं याहि भो मुने । तदा योगींद्रसेव्यस्त्वं भविष्यसि न संशयः ॥४५॥ मनोवाणीमयं सर्वं गकाराक्षरमेव च । मनोवाणीविहीनं च णकारं विद्धि मानद ॥४६॥ तयोः स्वामी गणेशोऽयं योगरूपः प्रकीर्तितः । तं प्राप्य ब्रह्मभूताश्च भवंति खलु जंतवः ॥४७॥ इदं वेदांतसंभूतं रहस्यं कथितं मुने । गोपनीयं प्रयत्नेन तेन सिद्धिमवाप्स्यसि ॥४८॥ इत्युक्त्वा विररामाथ तदा नारायणः स्वयम् । गणेशाय नमस्तुभ्यमित्युवाच पुनः पुनः ॥४९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते नारायण - याज्ञवल्क्यसंवादो नाम त्रिपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततोऽहं परमप्रीतस्तं प्रणम्य जनार्दनम् । गतस्तपोवनं तात योगाभ्यासं समारभे ॥१॥ क्रमेण पंचधा वृत्तिं जित्वा चित्तस्य साधनैः । गणपं शांतियोगेन प्राप्तोऽहं तदनुग्रहात् ॥२॥ अतस्त्वं शरणं याहि वक्रतुंडं विशेषतः । तेन ब्राह्मणसंवंध्यो भविष्यसि न संशयः ॥३॥ गायत्रीजपसंभूतं श्रेयो देहि महामुने । गजाननाय तेन त्वं विघ्नहीनो भविष्यसि ॥४॥ विश्वस्मिन् मित्रभावं त्वं प्रकुरुष्व सदाननम् । विश्वामित्रश्च ते नाम तदा सार्थत्वमेष्यति ॥५॥ मुद्गल उवाच । इत्युक्त्वा याज्ञवल्क्यः स ययौ तेन प्रपूजितः । गणेशाय नमश्चेति नाममंत्रं सदा जपन् ॥६॥ तदा प्रभृति गायत्रीं विश्वामित्रः स धर्मवित् । त्यक्त्वाऽहंकारमत्यंतं मत्सरं च तथाऽजपत् ॥७॥ गणेशार्पणभावेन गायत्रीं च जजाप ह । तपस्तताप विप्रोऽसौ ध्यात्वा हृदि गजाननम् ॥८॥ गायत्री वेदमातेयं पिता प्रणव उच्यते । स एव गणनाथोऽयमोंकाराकृतिमस्तकः ॥९॥ सगुणो गणराजोऽयमोंकार इति
कथ्यते। तस्मै समर्प्य योगी स गायत्रीं योगमाप्नुवान् ॥१०॥ ततः स्वल्पेन कालेन ब्रह्मा लोकपितामहः। विश्वामित्रं ययौ दक्ष ब्राह्मणत्वं ददौ परम् ॥११॥ वसिष्ठमुनिना तत्र ब्राह्मणैः सह पूजितः। विश्वामित्रो महातेजा ब्राह्मणोऽयं प्रकीर्तितः ॥१२॥ सप्तर्षीणां महातेजा मध्ये प्रोक्तो महर्षिभिः। तथा गणेशभक्तेषु मुख्योऽभूतस प्रतापवान् ॥१३॥ नित्यं पूजाप्रकारेण पूजयामास तं मुनिः। तुष्टाव सुस्थिरो भूत्वा यथामति गजाननम् ॥१४॥ विश्वामित्र उवाच। नमस्ते गणनाधाय विघ्नेशाय नमो नमः। निर्गुणाय गुणानां च पते वै ते नमो नमः ॥१५॥ नमः सर्वविदां श्रेष्ठ नमः सर्वप्रियंकर। गजाकाराय देवाय गणेशाय नमो नमः ॥१६॥ गजवक्त्र नमस्तुभ्यं ब्रह्मणां च पते नमः। अनादये च सततंमादिपूज्याय ते नमः ॥१७॥ सर्वसिद्धिप्रदात्रे ते नानामायाधराय च। मायिभ्यो मोहदात्रे वै तद्धीनाय नमो नमः ॥१८॥ बुद्धेः पते नमस्तुभ्यं बुद्धिपंचकधारिणे। मनोवाणीमयायैव तद्धीनाय नमो नमः ॥१९॥ सिंहारूढाय देवाय देवानां च पते नमः। देवदेवेशसेव्यायानादिसिद्धाय ते नमः ॥२०॥ नमश्चतुर्भुजायैव मूषकध्वजधारिणे। नमो मूषकवाहाय हेरंबाय नमो नमः ॥२१॥ लंबोदर नमस्तुभ्यं शूर्पकर्णाय ते नमः। योगिनां कुलदेवाय योगिनां च पते नमः ॥२२॥ एवं तस्मिन् संस्तुवति प्रादुर्भूतो गजाननः। अनंतादित्यसंकाशः सिंहारूढो महोदरः ॥२३॥ तं दृष्ट्वा निपपातोर्व्यां साश्रुनेत्रो महामुनिः। पुलकांकितसर्वांगो भक्तिभावेन संप्लुतः ॥२४॥ तं दृष्ट्वा गणराजस्तु जगाद मुनिसत्तमम्। त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ॥२५॥ यः पठेच्छृणुयाद्योऽपि स मे मान्यो भविष्यति। भुक्तिं मुक्तिं च दास्यामीप्सितं तस्मै न संशयः ॥ २६ ॥ त्वं तु मत्तो वरान् ब्रूहि सर्वान् दास्यामि दुर्लभान्। भक्तिभावेन संतुष्टस्तव योगीश्वराधुना ॥ २७ ॥ मुद्गल उवाच। गणेशवचनं श्रुत्वा सावधानोऽभवन्मुनिः। तं प्रणम्य महाभक्त्या जगौ वै हर्षसंयुतः ॥ २८ ॥ विश्वामित्र उवाच। धन्यो वंशो मदीयोऽद्य धन्यं जन्म तपो यशः। धन्यौ मे जनकौ देव त्वदंघ्रियुगदर्शनात् ॥ २९ ॥ किं वाञ्छामि गणाधीश सर्वं मायात्मकं प्रभो। अतो भक्तिं त्वदीयां मे देहि नाथ नमोऽस्तु ते ॥ ३० ॥ गाणपत्येषु मे देहि संवासं च गजानन। अमुमेव वरं ब्रह्मन्मायामोहविनाशनम् ॥ ३१ ॥ एवमस्त्विति तं प्रोच्य सोऽन्तर्धानं ययौ प्रभुः। विश्वामित्रस्तदारभ्य गाणपत्यो बभूव ह ॥ ३२ ॥ एवं नानावताराश्च वक्रतुंडस्य धीमतः। भक्तानां सिद्धिदातारो दानवानां विनाशकाः ॥ ३३ ॥ चरित्रमखिलं तेषां वक्तुं नैव प्रशक्यते। अतः संक्षेपतो विद्धि कथितं सुकथानकम् ॥ ३४ ॥ एतद्वै वक्रतुंडस्य चरितं पापनाशनम्। भुक्तिमुक्तिप्रदं पूर्णं
खं. १ अ. ५४ पान १२३ 卐************************************************************************卐 कथितं ते प्रजापते ॥ ३५ ॥ यः शृणोति नरो भक्त्या संश्रावयति यः पुमान् । पठेद्यः कृतकृत्यः स भविता नात्र संशयः ॥ ३६ ॥ पुत्रपौत्रप्रदं चैव धनधान्यकरं परम् । विद्यायुष्यप्रदं दक्ष चरितं कथितं परम् ॥ ३७ ॥ सहस्रमाघमासान् यः प्रयागे स्नाति मानवः । वक्रतुंडचरित्रस्य श्रवणेन च तत्फलम् ॥ ३८ ॥ आजन्ममरणान्तं यः काशीवासं करोति च । यथाविधि यथाशास्त्रं श्रवणादस्य तत्फलम् ॥३९॥ इष्टापूर्तादिकं यस्तु लक्षवारं करोति च । संपूर्णभावयुक्ताच्च श्रवणादस्य तत्फलम् ॥ ४० ॥ यज्ञानां चैव सांगानां फलं प्राप्नोति मानवः । अस्य श्रवणमात्रेण संपूर्णं तत्प्रजापते ॥ ४१ ॥ बहुनाऽत्र किमुक्तेन ब्रह्मभूयपदप्रदम् । श्रवणेन न संदेहो जानीहि त्वं महामते ॥४२॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । तदेतदखिलं तेऽद्य मयाऽपि कथितं मुने ॥४३॥ वक्रतुंडस्य माहात्म्यं संक्षेपेण च शौनक । कथितं ते मया विप्र भावं ज्ञात्वा विशेषतः ॥४४॥ श्रोतुमिच्छा पुनः किं ते वर्तते मुनिसत्तम । तवाऽहं सुप्रसादेन संतुष्टोऽस्मि न संशयः ॥ ४५ ॥ वक्रतुंडस्य माहात्म्यं गुह्यं वेदरहस्यकम् । गोपनीयं विशेषेण तेन सिद्धिं लभेन्नरः ॥४६॥ न श्रावयेत् दुर्जनेभ्यो गणेशद्विषते तथा । पापकर्मभ्य एवेदं विषयिभ्यः कदाचन ॥४७॥ यदि तेषां पुरश्चेदं श्रावितं च महामुने । तदा कोपः प्रभविता वक्रतुंडस्य निश्चितम् ॥४८॥ स चानादरमात्रेण दशपूर्वान् दशापरान् । नरकं च श्रावयतः प्रापयत्यूेष पूरुषान् ॥४९॥ अतः साधुजनेभ्यश्च गाणपत्येभ्य एव च । प्रयत्नेन श्रावयेद्यः स्वानां कोटिं समुद्धरेत् ॥५०॥ अतो यः पृच्छको वक्ता स्वस्वकोटिकुलोद्भवम् । पुरुषाणां समूहं स उद्धरेन्नात्र संशयः ॥५१॥ कलिकल्मषदाहघ्नं वक्रतुंडचरित्रकम् । कृतादिषु किमाश्चर्यं दहेत्पापगणानिति ॥५२॥ अहो कलौ विकुंठं च सर्वदेवचरित्रकम् । गाणपत्यं विशेषेण गतिदं च सदा भवेत् ॥५३॥ इदं मुने चरित्रं ते वक्रतुंडस्य भावतः । कथितं तेन विप्रर्षे कृतकृत्योऽस्मि सांप्रतम् ॥५४॥ धन्योऽहं भवतां संगाद्येन संस्मरणं कृतम् । गणेशस्य परेशस्य सफलो मे भवोऽभवत् ॥५५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते वक्रतुंडचरित्रसमाप्तिर्नाम चतुःपंचाशत्तमोऽध्यायः ॥ ॥ श्रीगजाननार्पणमस्तु ॥ ❧❦❧
॥ इति श्रीमुद्गलपुराणे प्रथमः खंडः समाप्तः ॥
इस पृष्ठ पर कोई लिखित पाठ (श्लोक, अन्वय, अनुवाद, कथा या शीर्षक) उपलब्ध नहीं है; केवल रेखाचित्र (इलस्ट्रेशन) दिया गया है।
॥ अथ श्रीमुद्गलपुराणे द्वितीयः खंडः प्रारभ्यते ॥
खं. २ अ. १ पान १ ॥ श्रीगणेशाय नमः ॥ शौनकाद्या ऊचुः । सूत त्वया महाभाग कृतकृत्या वयं कृताः । अतुलं वक्रतुंडस्य चरित्रं श्रावितं महत् ॥ १ ॥ धन्योऽसि त्वं महाबुद्धे सर्वज्ञोऽसि विशेषतः । परिपृच्छामहेऽतस्त्वां तद्वदस्व यथार्थतः ॥ २ ॥ श्रुत्वा श्रुत्वा न नस्तृप्तिर्जायतेऽमृतपानवत् । अतस्त्वमेकदंतस्य चरित्रं वद सांप्रतम् ॥ ३ ॥ कस्मिन् ब्रह्मणि संस्थोऽयमेकदंतो गजाननः । कति तस्यावताराश्च किं कर्म वद निश्चितम् ॥ ४ ॥ इति संप्राथितः सूतस्तानुवाच महामुनीन् । प्रश्रयावनतो भूत्वा भक्त्या तेषां प्रणोदितः ॥ ५ ॥ सूत उवाच । एवमेव च दक्षेण परिपृष्टो महामुनिः । मुद्गलस्तमथोवाच तच्छृणुध्वं मुनीश्वराः ॥ ६ ॥ दक्ष उवाच । पुरातनं महत्पुण्यमस्ति मे मुनिसत्तम । तेन ते दर्शनं जातं सर्वज्ञस्य न संशयः ॥ ७ ॥ वक्रतुंडचरित्रं च श्रुतं तव मुखांबुजात् । तेन विश्रांतता प्राप्ता हृदये मे विशेषतः ॥ ८ ॥ यज्ञविध्वंसशोकोऽपि गतो मत्तोऽधुना प्रभो । हर्षयुक्तः कृतो भक्त्या ढुंढेस्तु मुनिसत्तम ॥ ९ ॥ एकदंतचरित्रं मे कथयस्व विशेषतः । किंकर्मा कथमुत्पन्न एकदंतो गजाननः ॥ १० ॥ किं वाहनसमायुक्तः कीदृशं ब्रह्म तस्य वै । इत्यादि सर्वमाख्यानं वद मां करुणानिधे ॥ ११ ॥ सूत उवाच । एवं पृष्टो महातेजास्तमुवाच प्रजापतिम् । भक्तिं ज्ञात्वा विशेषेण गणेशे सर्वसिद्धिदे ॥१२॥ मुद्गल उवाच । शृणु दक्ष त्वया पृष्टं सर्वपापप्रणाशनम् । एकदंतस्य माहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ १३ ॥ धन्योऽसि त्वं महाभाग येन ते श्रवणे रतिः । गजाननस्य देवस्य चरित्रे सर्वभावतः ॥१४॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । गृत्समदस्य संवादं प्रह्लादस्य महात्मनः ॥१५॥ श्रुत्वा मुद्गलवाक्यं तद् दक्षो हृष्टमना मुने । उवाच तं महर्षि स प्रश्रयावनतः स्वयम् ॥१६॥ दक्ष उवाच । ब्रह्मणः सृष्टिमारभ्य सृष्टिमार्गं वद प्रभो । यथा त्रिभुवनं सृष्टं ब्रह्मणा विश्वयोनिना ॥१७॥ तत्र प्रह्लादमाहात्म्यं स्वयमेवागमिष्यति । गृत्समदस्य संवादं यथावद्वर्णय प्रभो ॥१८॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । सृष्टिमार्गं पुरावृत्तं शापमोहितमादरात् ॥१९॥ मुद्गल उवाच । शृणु दक्ष महाबुद्धे ब्रह्मा लोकपितामहः । ससर्ज विविधं विश्वं तथा ते कथयाम्यहम् ॥२०॥ गणेशवरदानेन ब्रह्मा स्रष्टुं मनो दधे । योगमायां समास्थाय विवेशाऽसौ जनार्दनम् ॥२१॥ निलीय तस्मिन्नब्दांते नाभिपद्माद्विनिःसृतः । वरदानेन विष्णोश्च पुत्रत्वमगमद्विधिः ॥२२॥ तत्र पद्मे समासीनो ध्यायन् हेरंबमंतरे । ततस्तस्य विधेर्देहाज्जलं वै निःसृतं बहु ॥२३॥ पश्यतस्तस्य सर्वत्र जलं व्याप्तं दिशो दश । तस्मिन् जले निमग्नोऽभूद् बभ्राम भ्रांतमानसः ॥२४॥ सस्मार गणनांथं तं विभो
खं. २ अ. १ पान २ पाहि भयानकत् । मज्जंतं मां जलात् ढूंढे वक्रतुंड नमोऽस्तु ते ॥२५॥ स्मृतिमात्रेण तत्रासौ ददर्श वटमुत्तमम् । तत्र पत्रे गणेशानं सुप्तं दृष्ट्वा प्रहर्षितः ॥२६॥ त्रिनेत्रं च चतुर्बाहुं शुंडादंडविराजितम् । महोदरं शेषनाभिं भालचंद्रं किरीटिनम् ॥ २७॥ सर्वावयवसंपूर्ण नानाभूषणभूषितम् । वस्त्रैः संच्छादितं बालमंगुष्ठपरिमाणकम् ॥ २८॥ एतादृशं गणेशानं दृष्ट्वा विस्मितमानसः । महाजले वटो योऽयमवशिष्टः कथं जले ॥ २९॥ वटस्य सन्निधाने स ययौ ब्रह्मा प्रजापते। सिषेच गणनायश्च जलं ब्रह्मणि शुंडया ॥ ३० ॥ तेन हृष्टः स्वयं ब्रह्मा तुष्टाव स गजाननम्। बद्धांजलिपुटो भूत्वा भक्तिनम्रात्मकंधरः ॥ ३१॥ ब्रह्मोवाच । नमस्ते गणनाधाय प्रलयांबुविहारिणे । वटपत्रशयायैव हेरंबाय नमो नमः ॥ ३२ ॥ चतुर्भुजधरायैव नाभिशेषाय ते नमः । गजवक्त्राय सर्वेश लंबोदर नमोस्तु ते ॥ ३३॥ एकदंताय वै तुभ्यं नानाशोभासमन्वित । अंगुष्ठपर्वमात्रं च स्वरूपं दधते नमः ॥ ३४ ॥ सिद्धिबुद्धियुतायैव भक्तसंरक्षकाय च । अनंतविभवायैव गणेशाय नमो नमः ॥ ३५ ॥ निर्गुणाय गुणाधार सगुणाय नमो नमः । एकानेकादिभेदैश्च लीलाकार नमोऽस्तु ते ॥ ३६ ॥ अनादिबालरूपाय सृष्टिस्थित्यंतकारिणे । मायाविने महामोहदात्रे तुभ्यं नमो नमः ॥ ३७॥ निवारय महाविघ्नं सृष्टिकर्तुर्गजानन । जलं प्राप्तं महाघोरं तत्राऽहं मज्जितो बलात् ॥ ३८ ॥ शरणं त्वां प्रपन्नोऽस्मि रक्ष मां भक्तवत्सल । तव देवेश दासोऽहं कृपां कुरु दयानिधे ॥ ३९॥ ब्रह्मा स्तुत्वा पुनश्चित्रं तस्य तुंडे ददर्श ह । विश्वं चराचरं पूर्णं संस्थितं सेश्वरं किल ॥ ४० ॥ ततो नानासमीरेण नीतो ब्रह्मा महोदरे । तत्र विश्वं ददर्शाऽसौ नानाश्र्चर्यमयं पुनः ॥ ४१ ॥ एवं नानांडसंयुक्तमुदरं वीक्ष्य च प्रभोः । रोमद्वारेण ब्रह्माऽसौ बहिर्यातॊ यथा पुरा ॥ ४२ ॥ ददर्श तं गणेशानं बालरूपं सुविस्मितः । तमुवाच ततो देवो ब्रह्माणं भक्तमुत्तमम् ॥ ४३ ॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । सर्वार्थसाधकं चैव भुक्तिमुक्तिफलप्रदम् ॥ ४४॥ यः पठेच्छृणुयाद्वाऽपि स मे मान्यो भविष्यति । यं यं चिंतयते भावं तं तं दास्यामि निश्चितम् ॥ ४५ ॥ नाभेः कलमतो विष्णोर्निःसृतो वरदानतः । तत्राऽऽदौ मे स्मृतिं पूजां विस्मृतस्त्वं पितामह ॥ ४६ ॥ तेन त्वं विघ्नसयुक्तः पुनर्जातो न संशयः । अधुना मे स्मृतिं कृत्वा दृष्ट्वा मां विघ्नवर्जितः ॥ ४७॥ अतः परं विधे किंचित्त्वया कार्यं महामते । मत्स्मृतिं नमनं कृत्वा कुरु त्वं सिद्धिमेष्यसि ॥ ४८ ॥ यथा दृष्टं मदीयेऽद्य जगत्स्थावरजंगमम् । उदरे तादृशं विश्वं सृज त्वं मेऽधुनाऽज्ञया ॥४९॥ इत्युक्त्वांतर्दधे सद्यो गणेशो बालरूपधृक् ।
[खं. २ अ. २] [पान ३] [चित्र/बॉर्डर]
ब्रह्मा पद्मे समासीनो यथापूर्वं बभूव ह ॥५०॥ ततो गणेशमंत्रं च जजाप कमलासनः । पूजयित्वा यथान्यायं ध्यानसंस्थो बभूव ह ॥५१॥ तस्य हृद्देशमध्येऽसौ प्रकटोऽभूद्गजाननः । तं ननाम स्वयं ब्रह्मा पूजां चक्रे स मानसीम् ॥५२॥ दक्षिणावसरे तत्र सिद्धिर्बुद्धिरुभे परे । आगते हृदि मध्ये च ते ददौ विघ्नहारिणे ॥५३॥ यथाशास्त्रविधानेन तस्य पूजां प्रगृह्य सः । अंतर्धानं ययौ सद्यो गणेशः सर्वनायकः ॥५४॥ अंतर्हिते गणेशाने हृदिस्थे ब्रह्मरूपिणि । तं प्रणम्य स्वयं ब्रह्मा सृष्टिं कर्तुं मनो दधे ॥५५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते ब्रह्मसृष्टिप्रारंभो नाम प्रथमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । गणेशं मनसा ध्यात्वा सृष्टिं कर्तुं मनो दधे । आदौ तस्य विधेर्देहादविद्या सा विनिःसृता ॥ १ ॥ सा पंचधा ततो भिन्ना स्वयं जाता प्रजापते । तां दृष्ट्वा विस्मितो ब्रह्मा मनसा दुःखितोऽभवत् ॥ २ ॥ अविद्याभ्रांतिरूपाऽत्र ह्यनंतविभवात्मिका । रक्ता कृष्णा तथा श्वेता नानाश्र्चर्यमयी बभौ ॥ ३ ॥ त्रिविधानां प्रसूतिश्च जगत्त्रयविमोहिनी । तया विमोहितं विश्वं भ्रांतियुक्तं बभूव ह ॥ ४ ॥ तमो मोहो महामोहः शृणु दक्ष महाद्भुतम् । तामिस्रश्चांधतामिस्रः पंचधा जगति स्थिता ॥ ५ ॥ तमोऽज्ञानस्वरूपं यत्तेन संछादितं जगत् । देहस्वार्थसमायुक्तं बभूव भ्रांतमानसम् ॥ ६ ॥ मोहः स कामसंयुक्तं कर्म नाना विनिर्ममे । तेन विश्वं शरीरस्थ कुरुते कर्मभोगदम् ॥ ७ ॥ महामोहेन संसृष्टं विकर्म विविधं प्रभो । तेन देहस्य भोगार्थं पापानि कुरुते नरः ॥ ८ ॥ तामिस्रेण फलं सृष्टं रोगदारिद्र्य- कादिकम् । तेनाऽऽधिव्याधिसंयुक्तमभूद्विश्वं प्रपीडितम् ॥ ९ ॥ अंधतामिस्रतो दक्ष नरको यातनात्मकः । तेन स्वकर्म- दोषेण यातनां बुभुजे जगत् ॥ १० ॥ एषाऽविद्यागणेशानं स्मृत्वा स्वार्थपराऽभवत् । ततो ब्रह्मा विनिंद्यैनां पुनः स्रष्टुं मनो दधे ॥ ११ ॥ ततस्तस्य शरीरात्तु चतुःपुत्राः प्रजज्ञिरे । सनकश्च महायोगी तथान्यश्च सनंदनः ॥ १२ ॥ सनातनोऽपि च सनत्कुमारश्च चतुर्थकः । तेषां मातृस्वरूपेण विद्या ज्ञानात्मिका बभौ ॥ १३ ॥ बोधरूपां निराकारां साक्षादात्ममयीं पराम् । तां दृष्ट्वा हर्षयुक्तोऽभूद्ब्रह्मा सर्वपितामहः ॥ १४ ॥ सहजस्य धरस्तत्र सनकः संबभौ सुतः । समयोगधरो दक्ष
पान ४
प्रतापी च स नंदनः ॥ १५ ॥ ज्ञानयोगमयो योगी सनातन इति स्मृतः । कर्मयोगस्वरूपः सनत्कुमारः स आबभौ ॥ १६ ॥ तान् दृष्ट्वा हर्षसंयुक्त उवाच जगदीश्वरः । स्मृत्वाऽसृजत संसृष्टिं गणेशं तैः कृतं तथा ॥ १७ ॥ नानाविधं योगमार्गं ससृजुस्ते महौजसः । तं दृष्ट्वा नाभ्यनंदत्स ब्रह्मा प्रोवाच तान् पुनः ॥ १८ ॥ अलं योगमयीं सृष्टिं मा कुरुध्वं महौजसः । तथेति ते महाभागा ऊचुस्तं संस्थिता बभुः ॥ १९ ॥ ब्रह्मा ज्ञानमयीं सृष्टिं ततो दृष्ट्वा चुकोप ह । कोषात्तस्य ललाटाद्वै शंभुः पुत्रो बभूव ह ॥ २० ॥ तुष्टाव तेजसा दीप्तं पंचवक्त्रधरं प्रभुम् । त्रिनेत्रं दशबाहुं तं चंद्ररेखाविभूषितम् ॥ २१ ॥ अर्धनारीनरं प्राज्ञं त्रिशूलादिसुचिह्नितम् । जटाधरं महाकायं व्याघ्रेभाजिनधारकम् ॥ २२ ॥ सहसा जातमात्रेण रुदितं शंकरेण च । तं ब्रह्मा सांत्वयामास किं रोदिषि वृषध्वज ॥ २३ ॥ ब्रह्माणमवदद्बालः स्थानं देहि पितः प्रभो । मह्यं नामानि सर्वेश कार्यं कथय विस्तरात् ॥ २४ ॥ तं प्रत्युवाच धाता स रोदनाद्रुद्रसंज्ञितः । शिवः सर्वसुखाधारस्त्वं जातोऽसि महेश्वर ॥ २५ ॥ वरदानप्रभावेणाधुना सर्वेश्वरः प्रभो । साक्षाच्छंकरवेषेण पुत्रतां मे समागतः ॥ २६ ॥ पृथ्वी जलं तथा तेजो वायुराकाशमेव च । चंद्राः सूर्यो दीक्षितोऽष्टौ तव स्थानानि शंकर ॥ २७ ॥ अष्टमूर्तिधरः शर्वः सर्वेभ्यः फलदायकः । तव नामानि देवेश एकादश भवंतु वै ॥ २८ ॥ कुरु सृष्टिं महादेव ध्यात्वा देवं गजाननम् । तथेति सृष्टिमारभे ध्यात्वा गणपतिं शिवः ॥ २९ ॥ रुद्रांनानाविधान् शंभुः ससर्ज बहुतेजसः । अनंतानविविधाकारानमृतात्म- प्रधारकान् ॥ ३० ॥ तान् दृष्ट्वा ब्रह्मदेवोऽपि मा कुरुष्व जगतपते । जन्ममृत्युयुतान् शंभो सृजस्व विविधांस्तथा ॥ ३१ ॥ ततः शिवो विधातारमुवाच न सृजाम्यहम् । जन्ममृत्युयुतान् देवेत्युक्त्वा तूष्णीं बभूव ह ॥३२॥ तेन स्थाणुरिति प्रोक्तं नाम तस्य महात्मनः । ऊर्ध्वरेताः स्वयं शंभुः स्थितो गणपतिं भजन ॥३३॥ ततो ब्रह्मा मुखेभ्यो वै वेदान् शास्त्रसमन्वितान् । पुराणानि ससर्जोऽसौ तानुवाच कृतांजलीन् ॥३४॥ सृजध्वं विविधां सृष्टिं तथेति गणपं तदा। तपसा तोषयामासुः ससृजुस्तद्गैरेः प्रजाः ॥३५॥ कर्माणि विविधानीह ससृजुः परमादरात् । तानि दृष्ट्वा विधाताऽसौ हर्षयुक्तो बभूव ह ॥३६॥ ततो यज्ञं समारभे ब्रह्मा विष्णुमचिंतयत् । पुत्रार्थं तं महाभागं सोऽपि तत्पुत्रतां गतः ॥३७॥ यज्ञाच्चतुर्भुजो देवो यज्ञरूपो जनार्दनः । समुद्भूतः स्वयं विष्णुस्तमुवाच कृतांजलिः ॥३८॥ आज्ञां देहि पितर्मां त्वं ततस्तं विधिरब्रवीत् । सृष्टिं कुरु गणेशं त्वं तथा स्मृत्वा चकार सः ॥३९॥ यज्ञान् कर्मसमुद्भूतान् ससर्ज विविधान् हरिः । नानाफलप्रदान् पूर्णान् कल्पवृक्षानिव प्रभुः ॥४०॥ तान् दृष्ट्वा