मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. १ अ. ३ पान ५
ब्रुवन्तमप्यन्तं स्वयंभूस्तं निराकरोत् । न गृहीतं पितुर्वाक्यं क्रोधावेशेन तेन तत् ॥३३॥ नानानिंदायुतं वीक्ष्य भगवान्नन्दिकेश्वरः। उवाच सर्वसान्निध्ये क्रोधेनारक्तलोचनः ॥३४॥ नंदिकेश्वर उवाच। धिक्त्वां व्यर्थं प्रजापाल शिवनिन्दापरायण। शिवतत्त्वं न जानासि मदेनांसिक्त दुर्मते ॥३५॥ मायाखेलनवानेष तथा तद्दोषवर्जितः। तेनायं शिवतां प्राप्तः कथं निन्दां करोषि रे ॥३६॥ शिवनिन्दाकराः शास्त्रे नारका ज्ञानवर्जिताः । अतस्त्वं ज्ञानहीनस्तु भवितास्य- पवाक्यतः ॥३७॥ निंदा येनैव वक्त्रेण कृता शंभोर्महात्मनः । अजास्यो भवितासि त्वं भ्रष्टराज्यो भविष्यसि ॥३८॥ इति श्रुत्वा वचः सोऽपि तं पुनः प्रत्युवाच ह । न त्वं जानासि दुर्बुद्धे शंकरं कर्मदूषितम् ॥३९॥ वर्णाश्रमविहीनश्च यस्तिष्ठेत्पुरुषः कदा। पदे पदे महापापो नारकी मरणे भवेत् ॥४०॥ तस्माद्ययं महापापाः शैवाः स्पृश्या न कुत्रचित् । भुवि ये शांकरा नित्यं ज्ञानहीना भवन्तु ते ॥४१॥ कलौ प्राप्ते च पाखण्डा भविष्यन्ति जटाधराः । शूद्रा वेदं पठिष्यन्ति नग्ना भस्माङ्गलेपनाः ॥४२॥ स्त्रीमांसमदिरासक्ता नानाभोगकरास्तथा । नरके वै पतिष्यन्ति शंभुमार्गपरायणाः ॥४३॥ प्रजापतिं प्रभुः साक्षाद् ब्रह्मा तं निरभर्त्सयत् । ततो जगाम स्वगृहं दक्षः क्रोधपरिप्लुतः ॥४४॥ सर्वे ते स्वस्थलं जग्मुर्दुःखितास्तेन वै कृताः । शिवोऽपि दुःखसंयुक्तो म्लानतां परमां गतः ॥४५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते दखनंदिविवादे नाम द्वितीयोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । शृणुध्वं मुनयः सर्वे स्थिरीकृत्य मनश्चलम् । विघ्नेशभक्तिहीना ये विघ्नाक्रान्ता भवन्ति ते ॥१॥ दक्षोऽभूत् स्वगृहं गत्वा क्रोधामर्षसमन्वितः । न किंचित् सुखवान् विप्राः शूलयुक्तो यथा नरः ॥२॥ शिक्षां शिवस्य कर्तुं स हृदि व्यवसितोऽभवत् । न किंचित्प्राप्तवांस्तत्र विचारं भृशदुःखितः ॥३॥ एतस्मिन्नंतरे तत्र नारदो दिव्यदर्शनः । आजगाम महातेजा दक्षेणैव सुसत्कृतः ॥४॥ आसनं पाद्यमर्घ्यं च दत्वा सम्यक् प्रपूजितः । पृष्टः स कुशलं प्रश्नैः प्रसन्नो नारदोऽब्रवीत् ॥५॥ नारद उवाच । दक्ष किं दुःखितस्त्वं ते मुखं म्लानतया युतम् । कथयस्व महातेजाः प्रजापतिपतिर्भवान् ॥६॥ दक्ष उवाच । शृणु
[शीर्षक:] खं. १ अ. ३ | पान ६
नारद येनाहं दुःखितो म्लानतां गतः । शिवेनासत्कृतस्तत्र सभायां सर्वसन्निधौ ॥७॥ दर्पेणैवावृतः शंभुस्तस्य दर्पहृतिः कथम् । तादृशं ब्रूहि मे शीघ्रं सर्वार्थज्ञ विचक्षण ॥८॥ नारद उवाच । बृहस्पतिसवं दक्ष कुरु त्वं सर्वभावनः । यज्ञभागविहीनं तं तत्र शंभुं कुरुष्व भोः ॥९॥ यज्ञभागेन हीनोऽयं देवपंक्तिबहिष्कृतः । पिशाचेशो भवेच्छंभुर्देवत्वं तत्र संहृतम् ॥१०॥ प्रजापतिपतिः साक्षाद्भवान्सर्वत्र संमतः । करिष्यसि यथा पूर्वं पश्चाद्वै तादृशं भवेत् ॥११॥ एवं परम्पराप्राप्तं तस्यैश्वर्यं प्रकाशितम् । इति मे मनसि प्राप्तं यथेच्छसि तथा कुरु ॥१२॥ इत्युक्त्वा नारदस्तस्माद् गतो ब्रह्माण्डमण्डले । वीणागानरतो भूत्वा योगी ब्रह्मणि तत्परः ॥१३॥ दक्षोऽपि हर्षितो जातः सत्यं मानितवानभूत् । बृहस्पतिसवं कर्तुं समारेभे स तत्क्षणात् ॥१४॥ तत्राजगाम भगवान् विष्णुर्देववरः प्रभुः । आजग्मुर्देवगन्धर्वा नानावाहनशोभिताः ॥१५॥ तत्राजग्मु- र्द्विजाः सर्वे नानातत्त्वार्थकोविदाः । जामातरः सपत्नीकाः कश्यपप्रमुखास्तथा ॥१६॥ यथोद्दिष्टं चकारासौ दक्षः परमहर्षितः । गणनाथविहीनं तं यज्ञं शंकरवर्जितम् ॥१७॥ गणेशस्यास्मृतिर्जाता सर्वेषां भाविगौरवात् । दधीचिप्रमुखास्तत्र शैवाः क्रोधेन पूरिताः ॥१८॥ दधीचिस्तत्र तूवाच क्रोधावेशसमन्वितः । शृणु दक्ष महाप्राज्ञ हितं वचनमुत्तमम् ॥१९॥ शंकरेण विहीनोऽयं यज्ञो नैव प्रशोभते । प्राणहीनो यथा देहस्तथैवासौ न राजते ॥२०॥ इति श्रुत्वा वचस्तस्य दक्षो रोषसमन्वितः । उवाच गर्वमोहेन शापेनैव विमोहितः ॥२१॥ शिवोऽशिवरूपश्च पिशाचानामधीश्वरः । वर्णाश्रमविहीनत्वान्न योग्यो यज्ञ- कर्मणि ॥२२॥ यत्र लक्ष्मीपतिः साक्षाद् भगवान्मंगलालयः । तत्र किं न्यूनतां याति मिथ्यावाचं तु मा वद ॥२३॥ श्रुत्वा तस्य वचः क्रूरं दधीचिः पुनरब्रवीत् । शिवनिन्दां करोषि त्वमज्ञानेन विमोहितः ॥२४॥ यज्ञनाशो भवेद् दक्ष शंकर- द्वेषतस्तव । न सिद्धिं लभसे त्वं तु नष्टभाग्यो न संशयः ॥२५॥ अत्र ये ब्राह्मणाद्या वै वर्णा नाना समागताः । सर्वे कलि- युगे पापाः पाखण्डाश्च भवंतु ते ॥२६॥ स्वधर्महीनतां प्राप्य नरकेऽन्ते पचन्तु वै । विष्णुः प्रमोद्युक्तोऽत्र स वै पाखंड- कारकः ॥२७॥ कलौ देवो भवेन्नित्यं पाखंडानां सहायवान् । पाखंडप्रियवजन्तुः कलौ मलकरः सदा ॥२८॥ शिवहीने तथा यज्ञे मुख्यो जातो हि केशवः । वेदबाह्यं स्वयं कर्म कुरुते तेन शापितः ॥२९॥ सर्वे देवाश्च शीघ्रं हि भवितारः पराजिताः । मुनयो दुःखसंयुक्ता एवं शप्त्वा गतो मुनिः ॥३०॥ तमनुप्रययुः सर्वे शैवाः परमधार्मिकाः । गौतमो गालवश्चैव वामदेवो द्वितस्त्रितः ॥३१॥ मार्कण्डेयो ह्यगस्त्याद्याः क्रोधयुक्ता महर्षयः । यज्ञोऽयं नावलोक्यो वै वेदबाह्यक्रियात्मकः ॥३२॥
खं. १ अ. ३ पान ७ विष्णुनान्ये ततः सर्वे सान्त्विताः संस्थिताः पदे। देवता मुनयो वर्णा द्रष्टुं यज्ञं प्रहर्षिताः ॥३३॥ भृग्वादिमुनिभिस्तत्र यज्ञारम्भः कृतोऽभवत् । यथाविधि यथाभागं देवास्तत्राश्रिता मखे ॥३४॥ दक्षो हृष्टोऽभवत् तत्र यजमानः सुमंदधीः । वेद- कल्पानुसारेण मुनयस्तन्विरे मखम् ॥३५॥ एतस्मिन्नन्तरे तत्र कैलासे नारदो गतः । शिवया सह शंभुं च प्रणतोऽभूत्स भाविकः ॥३६॥ सतीं प्रति प्रहस्याह नारदः कलहप्रियः । देवि दक्षाध्वरे कस्माद् गमनं न कृतं त्वया ॥३७॥ हृष्टपुष्टजनाः सर्वे महोत्सवसुमोदिताः । भगिन्यस्तत्र ते रेजुः पतिभिः सह मोदिताः ॥३८॥ पितृभर्तृगृहे स्त्रीणां मानामानं न विद्यते । इत्युक्त्वा नारदस्तस्मात्प्रययौ कौतुकी मुनिः ॥३९॥ गते मुनौ सती तत्र मानसे दुःखिता भृशम् । शंकरं प्रणिपत्याह हृदयेन विदूयता ॥४०॥ नीलकण्ठ नमस्तुभ्यं शंकराय शिवाय च । सगुणाय मृडायैव निर्गुणाय नमो नमः ॥४१॥ गन्तु- मिच्छा त्वया सार्धमस्ति मे दक्षमंदिरे । तत्र यज्ञोत्सवो नाथ प्रसीद प्रार्थये विभो ॥४२॥ एवं श्रुत्वा भारतीं तां सतीं शंभुः सुबोधयन् । स्मयमानश्च तामूचे किमिदं भाषसे प्रिये ॥४३॥ मद्द्वेषी जनको दक्षस्तव तेन निमन्त्रितः । नाहं तस्मान्न गन्तव्यं विपरीतं भविष्यति ॥४४॥ भवती च महामाया मायिकाऽहं न संशयः । सृज त्वं मुनिदेवांदीनश्च यज्ञं करोम्यहम् ॥४५॥ श्रुत्वा शंभुवचो रम्यं हृदयेन विदूयता । उवाच दुःखिता देवी ममाज्ञां देहि शंकर ॥४६॥ न किंचिदुक्तवान् शंभुस्तदा देवी पितुर्गृहे । न प्रयोजनमाज्ञाया विचार्यैवं जगाम च ॥४७॥ एतज्ज्ञात्वा महाऽऽश्चर्यं विस्मितेन शिवेन च । भावि यद्भवित्ता तद्वै विमानं प्रेषितं वरम् ॥४८॥ विमानमास्थाय शक्तिराजगाम विहायसा । पितुर्गृहं महाभागा मानिता सर्वबन्धुभिः ॥४९॥ मात्रा पित्रा स्वसृभिस्तु सत्कृता हर्षितात्मभिः । दक्षस्तत्र प्रमोदेन जगाद तनयां प्रति ॥५०॥ आगता त्वं महाभागे यज्ञोऽयं शोभितस्त्वया । श्रुत्वा पितृवचो रम्यं तं सा प्रोवाच दुःखिता ॥५१॥ सत्युवाच । शोभयामि कथं यज्ञं नाहूता भवतात्र भोः । अनाहूताऽगता चाहं त्वदीये यजनालये ॥५२॥ ततः स कुपितो दक्ष उवाच शृणु पुत्रिके । मदीयो बहुलो दोषस्तेन त्वां दत्तवान्भ्रमात् ॥५३॥ पिशाचभूतराजाय पित्रा मे कथितं कृतम् । वर्णाश्रमविहीनाय वृथेश्वर- पदाय च ॥५४॥ तस्य दोषेण देवि त्वं नाहूता यज्ञकर्मणि । स्वागतं ते तथाप्यद्य तिष्ठ त्वं मत्समीपगा ॥५५॥ सूत उवाच । पितुर्वचनमाकर्ण्य शिवनिंदायुतं महत् । क्रोधसंतप्तगात्रा सा पश्यन्ती यज्ञमन्दिरम् ॥५६॥ अरुद्रभागसंयुक्तं यज्ञं दृष्ट्वा चुकोप ह । उवाच किं कृतं तात वेदबाह्यक्रियात्मकः ॥५७॥ रुद्रभागविहीनोऽयं यज्ञो नैव फलप्रदः । शिवनिंदां करोषि त्वं
खं. १ अ. ४ | पान ८ ह्यशिवोऽसि न संशयः ॥५८॥ शिवेति द्व्यक्षरं ब्रह्म निर्गुणं गुणधारणम् । न जानासि यतस्त्वं भोस्तेनाहं दुःखिता भृशम् ॥५९॥ तव देहात् समुद्भूतो मम देहस्त्वयं पितः। न योग्यः शिवनिंदायाः कारणात् तं त्यजाम्यहम् ॥६०॥ इत्युक्त्वा सा हृदि ध्याने नीत्वा तं शंकरं प्रभुम् । योगाग्निना समुज्ज्वल्य देहं धाम्नि गताऽभवत् ॥६१॥ पुनः स्वमायया देवी हिमा- चलसुताऽभवत् । शिवध्यानपरा साक्षात्तं लेभे सा पुनः पतिम् ॥६२॥ तपस्तप्तं सुतीव्रं यत्नेन चात्मवशेन सा । लेभे मुदं शिवेनापि पार्वती प्रेमविह्वला ॥६३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सत उवाच । कैलासशिखरे रम्ये शिवश्चिन्तापरोऽभवत् । अनाहूता गता देवी द्विद्गृहे किं भविष्यति ॥१॥ वटमूले समासीनो नंदिकेशादिभिर्वृतः । योगिभिः सेवितस्तत्र कथा नाना प्रवर्तयन् ॥२॥ नानाऽपशकुनं तत्र बभूवाति- भयानकम् । स्तुतिभिस्तेन सर्वे ते उत्पाताशंकया भृशम् ॥३॥ एतस्मिन्नन्तरे तत्र नारदो मुनिराययौ । तं प्रणम्य स्थितो योगी शिवं कल्याणदं परम् ॥४॥ कथावसरमासाद्य प्रोवाच कठिनं वचः । धन्या सती त्रिभुवने न समा कामिनी तया ॥५॥ सतीत्येव च यन्नाम कृतं तत्सार्थकं परम् । शिवनिन्दां समाकर्ण्य तृणवज्ज्वलितं वपुः ॥६॥ नारदस्य वचः श्रुत्वा वज्रसारमयोपमम् । उवाच तमृषिं शंभुः किं नु देवी मृता मुने ॥७॥ न किंचिदुक्तवांस्तत्र शंभुक्रोधभयाकुलः । शोकाग्निर्मां दहेत्किं वा ततो देवोऽन्वबुध्यत ॥८॥ शोकसागरमग्नोऽभूत्किं मां त्यक्त्वा गता शिवा। शक्तिहीनः कृतोऽहं वै ह्यशक्त सर्वकर्मणि ॥९॥ निःश्वासपरमोप्यासीदर्धमङ्गं गतं त्विति । जीवितेन च किं कार्यं देहत्यागं करोम्यहम् ॥१०॥ योगिभि सांत्वितो देवो न किंचित्सुखवानभूत् । शिवश्चिंतापरो भूत्वा विचारं कृतवान् हृदि ॥११॥ अहो विघ्नाकुलोऽहं वै कृतो विघ्नकरेण च। गर्वितः परमैश्वर्यात्कृतं गर्वस्य खण्डनम् ॥१२॥ अतुला शक्तिरर्धाङ्गे जगन्माताऽस्ति मे सदा । अर्धनारी श्वरोऽहं च न वियोगो मम क्वचित् ॥१३॥ शक्तियुक्ततया नित्यं शक्तोऽहं प्रचुरीश्वरः । अखण्डैश्वर्यमोहेन विघ्नराजं च
खं. १ अ. ४ पान ९ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ नामस्मरम् ॥१४॥ इति गत्वा स्वयं शंभुर्मनसा गणपं भजन् । भक्त्यैकचेतसा चैव ध्यात्वा रूपमनुत्तमम् ॥१५॥ चतुर्भुजं महाकायं गजवक्त्रं महोदरम्। मुकुटेन विराजन्तं कर्णकुण्डलधारिणम् ॥१६॥ रत्नमालाधरं पूर्णं नाभिशेषविभूषितम्। किंकिणीकायुक्तपादं कणच्चरणनूपुरम् ॥१७॥ सिद्धिबुद्धियुतं चिन्तामणिभूषितवक्षसम्। एकचित्तेन च ध्यात्वाऽसाधयत्तं समाधिना ॥१८॥ तुष्टाव विविधैर्वाक्यैर्गणेशं ब्रह्मरूपिणम्। निराकारं च साकारं विघ्नराजं हृदि स्थितम् ॥१९॥ शिव उवाच। नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥२०॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे। त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥२१॥ नैर्गुण्येन च वै साक्षाद् ब्रह्मरूपधराय च। नमो नमो बंधहंत्रे भक्तानां पालकाय ते ॥२२॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च। हेरंबाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥२३॥ अनंताननरूपायोनंतबाह्रंघ्रिकाय ते। अनंतकरकर्णायीनंतोदरधराय ते ॥२४॥ नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे । अखंडलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥२५॥ आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव। सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखंडविक्रम ॥२६॥ अन्ते तमोरूपिणमेव सृष्ट्वा शंभुं स्वशक्त्या हरसि त्वमाद्य। एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥२७॥ मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ। स्वानंदसंज्ञे नगरे विभासि सिद्ध्या च बुद्ध्या सहितः परेश ॥२८॥ तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै। वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥२९॥ अर्ध- नारीश्वरत्वं यत्तद्धृतं मेऽधुना प्रभो। शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥३०॥ नानैश्वर्ययुता देवी सा गता गणप प्रभो। अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥३१॥ निर्गुणोऽहं सदा शंभुः सगुणः सर्वभाववित् । शक्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥३२॥ शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर। अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥३३॥ ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः। उवाच शंकरं तत्र हर्षयन् श्लक्ष्णया गिरा ॥३४॥ अहो पश्य च मां शंभो किं शोचसि महेश्वर। भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥३५॥ अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमंडले। तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥३६॥ अधुना ते गतो मोहो मदीया स्मृतिरागता। ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥३७॥ हिमाचलसुता देवी भविष्यति न संशयः । वृणोषि त्वं सतीं तां वै पार्वतीं च पुनः
खं. १ अ. ४ पान १० ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ शिव ॥३८॥ रमसे च तया सार्धं मद्भक्त्या भावितो दृढम् । ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥३९॥ स्मृत- मात्रस्तव्याग्रेऽहं प्रत्यक्षः स्यां सदाशिव । इति दत्त्वा वरं देवस्तत्रैवांतरधीयत ॥४०॥ ततश्च शंकरः क्षुब्धः शक्तो जातः स्वकर्मणि । जटामास्फालयामास गणेशं मनसा स्मरन् ॥४१॥ तस्माज्जातो महाबाहुर्वीरभद्रस्त्रिमस्तकः । त्रिपदः शूलवान् साक्षान्मृत्युरूपो महाद्युतिः ॥४२॥ शंकरं प्रणनामाथ प्रांजलिः सन्पुरः स्थितः । आज्ञां कुरु महादेव दासोऽहं ते वशे स्थितः ॥४३॥ वचनं तस्य संश्रुत्य प्रहृष्टः शंकरोऽब्रवीत् । सयज्ञस्य च दक्षस्य हरणं कुरु सांप्रतम् ॥४४॥ तदाज्ञां शिरसा धृत्वा अट्टहासमथाकरोत् । तेन त्रिभुवनं सर्वं कंपितं भयविह्वलम् ॥४५॥ ततो निर्गम्य वेगेन शरीराग्निर्नमे महान् । नानारुद्रानपारांश्च तैर्वृतः स गतो मखम् ॥४६॥ तमन्वयुर्गणाः शंभोर्नन्दिकेशादयोऽपरे । क्षुभिताः क्रोधसंयुक्ता ब्रह्मांडाशनसन्निभाः ॥४७॥ दुर्निमित्तानि सर्वाणि दक्षगेहेऽभवंस्तदा । शंकिता मुनयो देवाः किं भवेदिति विह्वलाः ॥४८॥ एतस्मिन्नंतरे तत्र दक्षयज्ञे महाबलः । आजगामावृतो रुद्रैर्वीरभद्रो भयानकः ॥४९॥ नंदी शृंगिरिटिर्भृंगी पुष्पदंतमुखास्तथा । आगताः क्रोधदीप्तास्या भक्षयन्तो यथान्तकाः ॥५०॥ सहसा वेगतः सर्वे मारयन्त इतस्ततः । पलायंत च दिक्प्रान्ते दक्षस्यानुचरास्तदा ॥५१॥ यज्ञमंडपमासाद्य बभंजुस्तत्क्षणेन च । देवान् सर्वान् मुनींश्चैव पीडयन्तः सुदारुणाः ॥५२॥ ऋषिपत्नीर्दधुस्तत्र देवपत्नीः सहस्रशः । अताडयन्महावीर्या हाहाकाराः प्रवर्तिताः ॥५३॥ कथं त्वसाधुपतयो भवती- भिर्वृताः खलु । शिवद्वेषकरा दुष्टास्तस्य प्राप्तं महत्फलम् ॥५४॥ एवमूचुर्हविर्द्रव्यं बभक्षुस्ते प्रहर्षिताः । वेदिकायां प्रचक्रुस्ते विट्सर्गं मूत्रणं तथा ॥५५॥ जगाम भगवांस्तत्र शंकरः क्रोधसंयुतः । धनुर्बाणधरः साक्षात्प्रलयाग्निरिवोत्थितः ॥५६॥ तत्र युद्धमभूद् घोरं देवानां रुद्रचारिणाम् । स्वयं च युयुधे शंभुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥५७॥ पूष्णो दंतांश्च नाराचैर्भेदयामास शंकरः । भगस्य नेत्रमुन्मूल्य पाटयामास संयुगे ॥५८॥ धर्मं धृत्वा महावीरो नंदिकेशोऽब्रवीत्तदा । को धर्मो वद रे दुष्ट शिवहीने मखे खलु ॥५९॥ कश्यपं धृतवांस्तत्र भृंगी तेजस्विनां वरः । वरुणं ताडयामास पुष्पदन्तश्च वीर्यवान् ॥६०॥ भैरवेण धृतस्तत्र देवेन्द्रो मूर्च्छितः कृतः । वीरभद्रो बलाद्दक्षं पातयामास भूतले ॥६१॥ एवं प्रमथिते यज्ञे शंखचक्रगदाधरः । युयुधे विष्णुरुद्यग्रो महाबलसमन्वितः ॥६२॥ शस्त्रास्त्रैर्बहुभिस्तेन मर्दिता बलवत्तराः । रुद्रा भूतपिशाचाद्या हाहाकारं प्रचक्रिरे ॥६३॥ तं दृष्ट्वा सहसा शंभुर्हृदि ध्यात्वा गणाधिपम् । बाणैस्तं हृदि संविध्य पातयामास भूतले ॥६४॥ पुनः
संज्ञां समासाद्य स्वास्त्रं नारायणात्मकम्। मोचयामास गोविंदो जगत्संहारकारकम् ॥६५॥ ततः शंभुर्मुमोचापि स्वास्त्रं पाशुपतं महत्। ते उभे व्योम्नि चात्यन्तं युयुधाते परस्परम् ॥६६॥ तस्माज्जातो महानग्निर्र्ददाह पृथिवीमिमाम्। भयक्रान्तं त्रिभुवनं जातं तत्र मृतोपमम् ॥६७॥ एतस्मिन्समये तत्र वीरभद्रेण कल्पितम्। पशुरूपं शिरश्छित्वा दक्षस्याग्नौ हुतं ततः ॥६८॥ रुद्रैर्नानाविधैः कोलाहलस्तत्र प्रवर्तितः। छिन्नभिन्नाः सुरा जातास्त्रातारं लेभिरे न ते ॥६९॥ मुनयोऽपि भयोद्विग्ना व्यद्रवंस्तु दिशो दश। पिशाचादिभिराकृष्टाश्चक्रुश्चातिदारुणम् ॥७०॥ विष्णुना तत्र चक्रं वै भ्रामितं क्रोध- धारिणा। कृतान्तसदृशं मुक्तं शंभोः सन्निधिमागतम् ॥७१॥ चक्रं तच्छंकरं दृष्ट्वा तं नत्वा तत्र संस्थितम्। तेन क्रोध- परीतांगः शिवः शूलं समाददे ॥७२॥ शूलमुद्यम्य तं विष्णुं हन्तुं यावत्प्रवर्तते। तत्राकाशोद्भवा वाणी वारयामास शंकरम् ॥७३॥ न हन्तव्यो हरिः शंभो त्वया पाल्योऽयमच्युतः। जहि कोपं महादेव शिवाय सततं नमः ॥७४॥ तत्राजगाम सहसा स्वयंभूस्तं न्यषेधयत्। मा कुरुष्व वधं शंभो विष्णोः संहारकारक ॥७५॥ नमः शिवाय शांताय शूलिने शंभवे नमः। महादेवाय रुद्राय पशूनां पतये नमः ॥७६॥ संहाररूपी त्वं साक्षादकाले किं प्रवर्तसे। जहि कोपं महाबाहो नमस्ते परमेश्वर ॥७७॥ ब्रह्मणा संस्तुतो देवः प्रशांतोऽभून्महामुने। तस्मिन्काले स्वयं विष्णुर्ब्रह्मणा ज्ञापितः प्रभुः ॥७८॥ शिवाय नमनं कृत्वा स्थितः संलज्जितो भृशम्। प्रोवाच मधुरं ब्रह्मा शंकरं वृषभध्वजम् ॥७९॥ शांत उर्वरितं यज्ञे हविर्द्रव्यं च यत्प्रभो। रुद्रभागः स विज्ञेयो गृहाण त्वं सदाशिव ॥८०॥ विघ्नेशमायया भ्रान्ता दक्षाद्याः सततं शिव। मोहितानां विशेषेण द्रष्टव्यं न प्रचेष्टितम् ॥८१॥ अतस्त्वं कृपया देव प्रसन्नो भव शंकर। सर्वेभ्यः सुखदाता वै यज्ञं तं पुनरारभ ॥८२॥ देवानां च मुनीनां च स्त्रीणां दासादिजीविनाम्। यथापूर्वं स्थितं रूपं तादृशं कुरु शंकर ॥८३॥ भगः स नेत्रसंयुक्तः पूषा वै पिष्टभुक् कृतः। देवाश्च मुनयः सर्वे स्त्रियो दासादयस्तथा ॥८४॥ यथापूर्वं कृतास्तेन युक्ता रूपेण तेजसा। गतदुःखाश्च सर्वे ते ववंदुः शंकरं पुनः ॥८५॥ दक्षस्य मस्तकं तत्र दग्धं वै जातवेदसि। तज्ज्ञात्वा शंकरो देवो भृंगिणं प्रत्युवाच ह ॥८६॥ गच्छ चानय तं हत्वा य आदौ दृश्यते त्वया। तस्य मस्तकमेतत्तु भवेद् दक्षस्य मस्तकम् ॥८७॥ तदा तेन पुरो दृष्टो ह्यजः परमशोभितः। तं हत्वा तच्छिरस्तत्र समानीतं च भृंगिणा ॥८८॥ तदेव योजयित्वा तमजीवयत शंकरः। स सद्य उत्थितस्तत्र दक्षोऽजमुखतां गतः ॥८९॥ ब्रह्मणा प्रेरितो दक्षः पुनस्तुष्टाव शंकरम्। गतमानो महाबाहुः
भक्त्या सर्वेश्वरं ततः ॥९०॥ दक्ष उवाच। नमामि शंकरं साक्षाद्यदाधारमिदं जगत्। कालरूपं यथाकालं बोधयामास तं शिवम् ॥९१॥ कालेन फलमूलानि जायंतेऽन्नादिकानि च। शीतोष्णसमभावश्च सदा कालेन जायते ॥९२॥ सूर्यस्तपति कालेन ज्योतिषां गण एव च। कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥९३॥ कालेन सृज्यते सृष्टिर्ब्रह्मणा वै पुनः पुनः। कालेन पालनं तत्र कुरुते विष्णुरव्ययः ॥९४॥ कालेन स्वेच्छया शंभुः संहारं प्रकरोति च। यत्किंचिदिह तत्सर्वं कालाधीनं न संशयः ॥९५॥ स एव कालो भगवानीश्वरो ब्रह्मसंज्ञितः। शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥९६॥ क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च। यत्कृतं तद्दयासिंधो नमस्ते परमेश्वर ॥९७॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः। सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥९८॥ अनंतगुणराशिस्त्वं वर्णनीयं किमप्यहो। नान्तं ब्रह्मादयो जग्मु- र्महिशानां च का कथा ॥९९॥ नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते। अनादिमध्यान्तविहीनभूम्ने नमो नमो भक्तभयापहन्त्रे ॥१००॥ इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा। अजवत्तस्य संजातं भाषणं लललल्ललम् ॥१०१॥ तेन तुष्टो महादेवस्तं पुनर्नरमस्तकम्। भगवान् कारयामास यथापूर्वं मुनीश्वराः ॥१०२॥ प्रोवाच मधुरं वाक्यं शिवस्तं सर्वसन्निधौ। प्रजापतिपतिर्दक्ष सर्वमान्यो भविष्यसि ॥१०३॥ त्वया यद्रचितं स्तोत्रं मदीयं मत्प्रियं भवेत्। यस्तोष्यति प्रदास्यामि तस्मै काममनेन माम् ॥१०४॥ इह भुक्त्वाऽखिलान्भोगानंते मल्लोकमाप्नुयात्। मम प्रीतिकरश्चासौ भविष्यति न संशयः ॥१०५॥ त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ। तद्भूयो मत्समीपे वै करिष्यति नरः सकृत् ॥१०६॥ तेन हृष्टो भविष्यामि वांछितं पूरयामि च। एवं दत्त्वा वरं शंभुस्तत्रैवांतरधीयत ॥१०७॥ सर्वे स्वस्वस्थलं जग्मुर्हर्षिता धर्षितास्तथा। दक्षश्च स्वगृहे विप्रा दुःखितः स्थितवान् स्वयम् ॥१०८॥ तदादि शिवभक्ता ये ते कुर्वन्ति शिवालये। अजवन्निनादं तेन हृष्टो भवति शंकरः ॥१०९॥ इति सर्वं समाख्यातं दक्षशापादिकं च यत्। यज्ञभंगस्य हेतुं च पुनः किं श्रोतुमिच्छथ ॥११०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते दक्षचरितं नाम चतुर्थोऽध्यायः ॥
खं. १ अ. ५ पान १३ ॥ श्रीगणेशाय नमः। शौनक उवाच। श्रुतं दक्षस्य चरितं यज्ञध्वंसादिकं महत्। मुद्गलस्य च दक्षस्य संवादं कथयस्व भोः ॥१॥ सूत उवाच। शृणु शौनक संवादं दक्षमुद्गलसंभवम् । ब्रह्मभूयकरं पूर्णं भावेन च श्रुतं हृदि ॥२॥ दक्षप्रश्नं परं धृत्वा मुद्गलो गणपप्रियः। तं प्रत्युवाच भावेन महर्षियोंगिनां वरः ॥३॥ मुद्गल उवाच। सर्वेषां गणपो माता पिता चैव न संशयः। तेन सर्वादिपूज्योऽयं सर्वपूज्यः स देवराट् ॥४॥ ज्येष्ठराजेति यद्वाक्यं वेदेन प्रतिपादितम्। ज्येष्ठं भावाच्च तस्यापि ज्ञातव्यं सर्वसंमतम् ॥५॥ तस्य सर्वे कलांशा वै कलांशांशाश्च केचन। न कला तस्य संपूर्णा जगत्यां कुत्र दृश्यते ॥६॥ विनायको नाम तेन जातोऽसौ भगवान् खलु। विशेषेण च सर्वेषां नायकोऽयं गणाधिपः ॥७॥ विगतो नायको यस्य स्वेच्छाचारी विनायकः। स्वानंदलोकवासी च स्वसुखेन प्रभावतः ॥८॥ ब्रह्मविष्णुशिवाद्यैश्च वेदैर्योगिभिरेव च। सर्वैः संपूजितो देवो धर्मकामार्थमुक्तये ॥९॥ अहं ब्रह्मेति माहात्म्याद् गर्वी भवति शाश्वतः। शिवादीनां यदाधारादिदं सर्वं प्रवर्तते ॥१०॥ तदा मदहरोऽयं वै तेषां ज्ञानार्थसिद्धये। विघ्नकर्ता महाराजः स्वयं भवति विघ्नपः ॥११॥ पदभ्रष्टाः कृतास्तेन सर्वे देवादयो द्विजाः। किमाधारमिदं सर्वं विचिन्वंति समाधिना ॥१२॥ तेन पश्यन्ति योगेन चेतः पंचवृत्तिभिः। तासां प्रकाशकोऽयं वै चिंतामणिरिति स्मृतः ॥१३॥ वेदैः संपादितं ज्ञात्वा शरणं तं व्रजंति ते। ततो विघ्नहरो जातस्तेषां सर्वार्थदः स्मृतः ॥१४॥ सर्वसत्तात्मकोऽयं वै विघ्नराजः प्रकीर्तितः। अत एव गणेशाद्धि परं किंचिन्न विद्यते ॥१५॥ स- विघ्नस्त्वं प्रजातोऽसि तमेव शरणं व्रज। चिन्तामणिं विघ्नहरं गणेशं च विनायकम् ॥१६॥ सूत उवाच। प्रजापतिरिति श्रुत्वा दक्षो हृष्टमनाः पुनः। पप्रच्छ विनयेनैव कथां पापप्रणाशिनीम् ॥१७॥ दक्ष उवाच। कोऽयं स्वानंदवासी वै कथं ज्ञेयो भवेन्मया। वद तत्र विभो मार्गं तेन तं सततं भजे ॥१८॥ मुद्गल उवाच। अत्र ते कथयिष्यामि इतिहासं पुरातनम्। पार्वतीशिवसंवादं यथा जातं शृणुष्व भोः ॥१९॥ कैलासे गिरिवर्ये तु सुखासीनं महेश्वरम्। पार्वती प्रणता भूत्वा पृच्छति स्म मुदायुता ॥२०॥ पार्वत्युवाच। शिव त्वं सर्वदेवानां नागानां रक्षसां तथा। मानवानां च सर्वेषां पूज्यः स्वामी न संशयः ॥२१॥ तेभ्यः पदप्रदाता त्वं सर्वाधीशः पुरातनः। मायाविकारहीनश्च शिवस्तेन प्रकीर्तितः ॥२२॥ त्वं किं समाधिना देव ध्यायसे मां वद प्रभो। त्वत्तः परतरं किंचिन्न दृष्टं नैव संश्रुतम् ॥२३॥ इति पृष्टो महादेवस्तां प्रत्यूचे च सादरम्। सारं वेदादिमान्यं च ब्रह्मभूयकरं परम् ॥२४॥ श्रीमहादेव उवाच। शृणु प्रिये प्रवक्ष्यामि यं ध्यायामि दिवानिशम्।
खं. १ अ. ५ पान १४ गणेशं हृदि संस्थं मे स्वानंदवासिनं परम् ॥२५॥ साकारं च निराकारं तस्मिन्देवि न विद्यते । मनोवाणीविहीनं न मनोवाणीमयं न वै ॥२६॥ शिवस्य वचनं श्रुत्वा पार्वती प्रेमसंयुता । उवाच मधुरं वाक्यं वाक्यज्ञा भावपूर्वकम् ॥२७॥ पार्वत्युवाच । कोऽसौ गणेशनामा वै कथं स हृदि तिष्ठति । स्वानंदवसतिः का च यत्र तिष्ठति स प्रभुः ॥२८॥ साकारो न निराकारो कथं स ज्ञायते जनैः । मनोवाणीमयो नैव हीनस्ताभ्यां न च क्वचित् ॥२९॥ तस्य ध्यानं महेशापि कर्तुं नैव प्रशक्यते । ध्यायसे केन मार्गेण भव मे कथय प्रभो ॥३०॥ अहं दासी त्वदीया वै शिष्यभावेन संस्थिता । कथयस्व महादेव ध्यानं गाणेशकं मम ॥३१॥ तमहं साधयिष्यामि साक्षात्कारेण वै यथा । कृतकृत्या भविष्यामि प्रसादात्ते न संशयः ॥३२॥ मुद्गल उवाच । इति पृष्टो महादेवो देव्या भक्त्यादरेण च । पात्रं गणेशमार्गस्य दृष्ट्वा प्रेमयुतोऽब्रवीत् ॥३३॥ तत्तेऽहं शृणु वक्ष्यामि गुह्याद् गुह्यतमं महत् । रहस्यं वेदशास्त्राणां यस्मात्परतरं न च ॥३४॥ दक्ष उवाच । तव वाक्यामृतेनाऽहं प्रीतो मुद्गल सांप्रतम् । उमा- महेशसंवादं योगीन्द्र कथयस्व मे ॥३५॥ सूत उवाच । दक्षस्य भावयुक्तं तद्वचनं मुद्गलेन वै । श्रुतं तेन सुसंतुष्टो वक्तुं समुपचक्रमे ॥३६॥ मुद्गल उवाच । शम्भुः स्मृत्वा गणेशानं हृदि ध्यात्वा महायशाः । प्रत्युवाच महादेवीं गाणपत्यः प्रतापवान् ॥३७॥ श्रीशिव उवाच । सर्वं मायामयं विद्धि जायते यच्च चेतसा । चित्तप्रवेशहीनं च मायातीतं निगद्यते ॥३८॥ रचितं द्विविधं येन स एव गणनायकः । स्वसंवेदं महः प्रोक्तं वेदयेत्तद्विशेषतः ॥३९॥ तत्रैव दृश्यते देवो योगिभिर्योग- पारगैः । तेन स्वानंदवासी स कथ्यते वेदवादिभिः ॥४०॥ चित्तस्य पंचभूमीनां प्रकाशनकरः स्मृतः । चिंतामणिरिति ख्यातो हृदि संतिष्ठति प्रभुः ॥४१॥ समूहे गणधातुश्च तेषां स्वामी गणेश्वरः । अभेदयोगमार्गेण सदा ध्यातुं स शक्यते ॥४२॥ मुद्गल उवाच । श्रुत्वा शिववचो रम्यं पार्वती विनयान्विता । चकिता प्रत्युवाचेदं वचनं हितकारकम् ॥४३॥ पार्वत्युवाच । भगवन्कथितं कूटवचनं योगभावितम् । न बुद्धं तन्मया स्वामिंस्तस्माच्च सुलभं वद ॥४४॥ ब्रह्म मायामयं प्रोक्तं कीदृशं कथय प्रभो । मायाहीनं कथं ज्ञेयं विस्तरेण वदस्व मे ॥४५॥ मुद्गल उवाच । शक्तिप्रश्नं च संश्रुत्य हृष्टः शंभुः सुयोगवित् । साश्रुनेत्रः सरोमांचो भक्त्या जातो महायशाः ॥४६॥ आदिमायां प्रशंसन् सन् वक्तुं तामुपचक्रमे । योगमार्गस्य सिद्ध्यर्थं विस्तरेण महेश्वरः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पार्वतीप्रश्नविचारो नाम पंचमोऽध्यायः ॥
खं. १ अ. ६ पान १५ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पार्वतीशिवसंवादं कथयस्व महामते । पाराशर्यस्य सर्वज्ञ शिष्य सर्वार्थतत्त्ववित् ॥१॥ सूत उवाच । मुद्गलेन यथा प्रोक्तं दक्षे वै शांतिकारकम् । शिवयोस्तं च संजातं संवादं कथयामि भोः ॥२॥ श्रीशिव उवाच । धन्या देवि महाभागे त्वत्समान्या न विद्यते । महापुण्येन ते बुद्धिर्गणेशज्ञानलालसा ॥३॥ कारितोऽहं त्वया शक्ते सत् क्रिया नात्र संशयः । ममैवेदं महद्भाग्यं गाणपत्यप्रिया गृहे ॥४॥ गणेशाय नमः कृत्वा कथयामि कथानकम् । आदौ मायामयं विद्धि मायातीतं ततः परम् ॥५॥ स्वस्वरूपमयं सर्वं ज्ञातव्यं योगिना सदा । द्विविधं योगमार्गेण साधनेन विशेषतः ॥६॥ आदौ ब्रह्म स्थितं देवि एकानेकादिवर्जितम् । स्वतः परत उत्थानात्तदेव द्विविधं बभौ ॥७॥ स्वत उत्थानके नैव विकल्पः सहशः कृतः । अहमस्मीति भावेन बिम्बं भिन्नं विनिःसृतम् ॥८॥ सकलाभेदरूपं यन्निराकारं स्वभावतः । अहमस्मि सदा प्रोक्तं ब्रह्मरूपं च शाश्वतम् ॥९॥ तेनापि स्वस्वरूपं तद् दृष्टमात्मात्मकं परम् । कीदृशोऽहं विकल्पश्च कृतो मोहेन तत्क्षणात् ॥१०॥ चतुश्चतुः पदार्था ये योगरूपेण संस्थिताः । तेषामभेदरूपं च दृष्टं सर्वात्मकं परम् ॥११॥ मायया बिम्बरूपोऽयं जातः सद्यश्च नामतः । माया बिम्बं द्वितीयं तत्तत्र मोहप्रधारणात् ॥१२॥ मोहधारणमात्रेण विस्मृतं स्वस्वरूपकम् । मायासुखेप्सुना जाता तस्य देवस्य तत्क्षणात् ॥१३॥ सर्वाकारा निराकारा माया जाता द्विधापरा । बुद्धिरूपा महाभागा तया सर्वं प्रबुध्यते ॥१४॥ निराकारं च साकारं बुद्ध्या संबुध्यते जनैः । बुद्ध्या यद्बुध्यते क्षेत्रे बुद्धिरूपं तदेव च ॥१५॥ तत्र मोहो च साकारो निराकारः स्वयं प्रभुः । मोहहीन इति भ्रांतिर्द्विधा गुणसमुत्थिता ॥१६॥ सा सिद्धिर्मोहकर्त्री वै नानाभ्रांति- प्रकाशिका । एका बुद्धिश्च सर्वत्र तथा द्वैधे प्रवर्तिता ॥१७॥ सिद्ध्या संमोहिता बुद्धिर्भ्रान्ता जाता च पार्वती । साकार- मोहसंयुक्ता निराकारविमोहिता ॥१८॥ मोहधारकबुद्धिश्च सिद्धिर्मोहप्रदायिनी । तयोः प्रकाशदाता स गणेशानो- ऽभवत् स्वयम् ॥१९॥ स एव नामतस्तत्र न गतो निजरूपधृक् । बिम्बबिम्बिप्रभावत्वाद्भासते तादृशो वृथा ॥२०॥ सर्वात्मकं च बिम्बं यत्परं तत्रैव बिम्बितम् । आत्मरूपं निराकारं तयोः संयोगितां गतः ॥२१॥ स एव गणराजोऽयं मायाखेलकरः प्रभुः । तस्येच्छया तद् द्विविधं चलति प्रतिसूत्रवत् ॥२२॥ त्रिविधं चैकभावं च जातं मोहेन पार्वती । विकल्पः प्रकृतस्तेन एकोऽहं स्यां बहुस्त्विति ॥२३॥ विकल्पेन द्विधा भूतं देहदेहिस্বরূপकम् । सोऽहं ब्रह्मेति यत्प्रोक्तं वेद वै वेदवादिभिः ॥२४॥ तदेव देहि रूपं च देहमोहप्रधारणात् । देहरूपं तथा तत्र बिन्दुमात्रं प्रकीर्तितम् ॥२५॥ चतुर्विधानां देहानां ब्रह्मरूपं
खं. १ अ. ६ पान १६ पुरातनम् । बहुरूपं च तद्विद्धि देहकैवल्यसंज्ञितम् ॥२६॥ सोऽहं ब्रह्मैकरूपं यद्वहुरूपं च बिंदुमत् । स्वस्वकार्येषु नो शक्तं सत्ताहीनतया शिवे ॥२७॥ ताभ्यां तपः कृतं घोरं स्वस्वरूपस्य सुंदरि । दिव्यवर्षसहस्रान्ते प्रसन्नोऽभूद् गजाननः ॥२८॥ प्रत्यक्षतां ययौ तत्र शुंडादंडविराजितः। लंबोदरो महाकर्णश्चतुर्बाहुस्त्रिनेत्रभृत् ॥२९॥ तस्य दर्शनमात्रेण स्फूर्तिर्जाता तयोस्तदा । तया तं तौ समाबुध्य नतौ स्तोत्रं प्रचक्रतुः ॥३०॥ प्रकृतिपुरुषावूचतुः । नमस्ते गणनाधाय स्वसंवेद्यमयाय ते । निराकारस्वरूपा वै शुंडा यस्य विराजते ॥३१॥ यस्य देहश्च साकारः कंठाधः परिकथ्यते । अभेद एतयोर्जातस्तेन त्वं वै गजानन ॥३२॥ चतुर्विधं निजानंदाद्देहेषु कथितं भवेत् । एकमेव्यक्तत्पं च द्वितीयं समरूपकम् ॥३३॥ तृतीयं सत्स्वरूपं च चतुर्थं यत्सदा ह्यसत् । चतुर्हस्तस्वरूपं ते तेन त्वं वै चतुर्भुजः ॥३४॥ तवोदरे स्थितं सर्वं तेन लंबोदरः स्मृतः । माया- मायिकरूपं च द्वौ पादौ द्विविधं च ते ॥३५॥ एते सर्वे गणा ढुंढे त्वदीया नात्र संशयः । गणनाथोऽसि तेन त्वं नाम्ना ख्यातश्च सर्वदा ॥३६॥ एतादृशो निजात्मासावावयोर्ध्यान आबभौ । स्वसंवेद्यतया ध्यातो भक्तानुग्रहकारकः ॥३७॥ भक्ताभिमानभावेन देहधारी स्वयं ह्यभूत् । एतैश्च लक्षणैर्युक्तो गणेशो नामधारकः ॥३८॥ धन्यं सर्वं कृतं स्वामिन् येन त्वं देहवानभूः । स्वानंदवासभृत् साक्षाद् हृदि नित्यं स्थिरो भव ॥३९॥ नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । भक्तानां वै ह्यभक्तानां विघ्नकर्त्रे नमोऽस्तु ते ॥४०॥ कर्मणां फलदात्रे च ज्ञानानां सिद्धिदायिने । अमेयशक्तये तुभ्यं सर्वाधाराय ते नमः ॥४१॥ किं कर्तव्यं दयासिंधो तदेवाज्ञापय प्रभो । तव भक्तिं महातीव्रां देहि नौ गणनायक ॥४२॥ एवं स्तुतिं समाकर्ण्य परितुष्टो गणाधिपः । मेघगंभीरया वाचा हर्षयन्नब्रवीत्तदा ॥४३॥ श्रीगणेश उवाच । साधु साधु महाभागौ यदुक्तं स्तोत्रमुत्तमम् । मम प्रीतिकरं सर्वकामदं प्रभविष्यति ॥४४॥ धर्मार्थकाममोक्षाणां दायकं पुष्टिवर्धनम् । कारागृहस्थितानां च मोचकं लक्षपाठतः ॥४५॥ मारणोच्चाटनादीनां नाशकं तत्तथैव च । एकविंशतिवारं यः एकविंशदिनावधि ॥४६॥ पठेत्तु यदि वै भक्त्या स ईप्सितफलं लभेत् । ब्रह्मभूयकरं चैतन्निष्कामपठनाद्भवेत् ॥४७॥ भवतोस्तपसा तुष्टः स्तोत्रेणानेन भावतः । प्रीतो दास्यामि संपूर्णं भवद्भयामीप्सितं च यत् ॥४८॥ बिंदुमात्रस्वरूपेण यत्स्थितं ब्रह्म शाश्वतम् । तस्माच्चतु- र्विधं विश्वं प्रकटं संभविष्यति ॥४९॥ प्रकर्षेण च सर्वेषां कृतिस्तस्माद्विनिःसृता । प्रकृतिस्तेन ते नाम भविष्यति जने- ष्विदम् ॥५०॥ सृष्ट्वा चतुर्विधं विश्वं बंधहीना भविष्यसि । मदीयां भक्तिमचलां प्रकृते प्राप्स्यसि ध्रुवम् ॥५१॥ जनास्त्व-
खं. १ अ. ७ पान १७ दीयभक्तिं ये करिष्यंति सकामतः। निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने ॥५२॥ चतुर्विधेप्ययं शेते पुरे तेनैव पूरुषः। सोऽहंमात्रात्मको भावी नाम्ना सर्वत्र तिष्ठतु ॥५३॥ सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति। बिंबबिंबित- भावेन प्रकृतौ मोहितः सदा ॥५४॥ स्वयं मोहविहीनः स सोऽहंमात्रात्मकः सदा। मत्प्रसादाद्भवेन्नित्यं ब्रह्म सोऽहं सुखात्मकः ॥५५॥ मदीया भक्तिरचला भविष्यति तवापि च। तया बंधविहीनस्त्वं तथा मान्यो भविष्यसि ॥५६॥ तव भक्तिं करिष्यन्ति जना भावेन संयुताः। तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ॥५७॥ ब्रह्मभूयपदं चैव दास्यसे योगसेवया। साक्षात्पुरुषरूपस्त्वं सर्वसत्तात्मको भव ॥५८॥ प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो। तेनेयं सर्व- सूर्विश्वं सृजिष्यति न संशयः ॥५९॥ सृष्ट्वा चतुर्विधं सर्वं पालनं हरणं तथा। कर्तव्यं कालयोगेन करणीयमिदं स्मृतम् ॥६०॥ सर्वेषां प्रकृतिर्माता पिता पुरुष उच्यते। नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः ॥६१॥ इत्युक्त्वा गणराजस्तु तत्रैवांतरधीयत। प्रकृतिः पुरुषश्चैव यथाज्ञप्तौ प्रचक्रतुः ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच। श्रुत्वेदं त्वन्मुखांभोजाद्धर्षश्चेतस्यजायत। पुनर्वदस्व मे स्वामिन् गणराजकथामृतम् ॥१॥ कथानां च रहस्यं यत्तद्देवैतन्न संशयः। पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितः श्रुतम् ॥२॥ प्रकृतिः पुरुषश्चोभौ कथं सृष्टिं प्रचक्रतुः। अंतर्हिते निजानंदे गणेशे स्वेच्छया विभौ ॥३॥ मुद्गल उवाच। पार्वतीवचनं श्रुत्वा प्रहृष्टः शंकरोऽब्रवीत्। कथां रसयुतां रम्यां पावनानां च पावनीम् ॥४॥ शंकर उवाच। शृणु देवि प्रवक्ष्यामि गणनाथकथां शुभाम्। धन्यासि सादरा जाता सप्रेमा विघ्ननाशिनी ॥५॥ अन्तर्हिते गणेशे च प्रकृतिः पुरुषस्तथा। सामर्थ्येन युतौ जातौ परस्परमनोनुगौ ॥६॥ तपसा वरदानेन मोहयामास तत्क्षणात्। पुरुषं प्रकृतिः सा वै नानाभावार्थदर्शिनी ॥७॥ नानाविभवयुक्तां तां दृष्ट्वा
[header] खं. १ अ. ७ पान १८ [/header]
पुरुषसत्तमः । मोहितः पूर्णभावेन तदधीनोऽभवत्सदा ॥८॥ संवीक्षिता महामाया पुरुषेण महात्मना । हावभावयुता तत्र संस्थिता भक्तिभावतः ॥९॥ तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकम् । निक्षिप्तं सहसा देवि तेन सा गर्भवतीभूत् ॥१०॥ स गर्भो ववृधे तत्र तेजसा स्वेन संवृतः । महता कालयोंगेन पूर्णो जातः प्रतापवान् ॥११॥ समये सुषुवे सा तं पुत्रं तेजो- मयं परम् । तस्य नामाऽभवल्लोके महानित्यभिविश्रुतम् ॥१२॥ अंतस्तु यत्स्थितं देवि सर्वांतर्यामि तत्परम् । लोकेषु च महत्तत्वं ज्ञातव्यं तत्समाविना ॥१३॥ सर्वेषामादिभूतोऽयं महानात्माऽभवत्प्रभुः । ज्येष्ठोऽयं तत्त्वजातीनां हृदि तेषां समास्थितः ॥१४॥ महता च ततः सृष्टं यदहंकाररूपकम् । स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् ॥१५॥ अहं सर्वत्र तिष्ठामि सदाधारमिदं स्मृतम् । तेनाहंकारनामा स सदाहंकरणात् शिवे ॥१६॥ स एव बाह्यभावेन स्थितः सर्वत्र सर्वराट् । इच्छितं महता यद्वै तत् कर्तुं सुसमाहितः ॥१७॥ त्रिविधोऽसौ गुणैस्तत्र तन्निबोध जगन्मयि । सात्त्विको राजसश्चैव तामसः कथ्यते बुधैः ॥१८॥ तेनाहंकरणस्यापि त्रिशक्तित्वं समागतम् । सात्त्विकी ज्ञानशक्तिश्च तया भावः प्रबुध्यते ॥१९॥ राजसी या क्रियाशक्तिस्तया कार्यं प्रवर्तते । तामसी द्रव्यशक्तिर्या देहरूपा प्रकथ्यते ॥२०॥ तत्रादौ तामसी शक्तिः प्रेरिता विश्वयोनिना । निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् ॥२१॥ आकाशेन स्पर्श एवं निर्मितः सर्वसिद्धये । स्पर्शेन निर्मितो वायुर्महाबलयुतः प्रभुः ॥२२॥ वायुना निर्मितं रूपं तेजोरूपेण निर्मितम् । तेजसश्च रसोत्पत्ती रसादापो विनिःसृताः ॥२३॥ अद्भिश्च निर्मितो गंधो गंधाद्भूभिरजायत । तमोगुणमयी सृष्टिरेषा जाता महाद्भुता ॥२४॥ तन्मात्रा भूतसर्गश्च पंचपंचात्मकः स्वराट् । पंचभूतात्मको देहः सर्वत्रैव प्रदृश्यते ॥२५॥ ततो राजसशक्त्या च पंचभूतमयानि वै । इंद्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै ॥२६॥ पंच ज्ञानेंद्रियाण्याहुर्ज्ञानरूपधराणि च । जिह्वा चक्षुस्त्वचा नासा कर्णश्चैवाऽत्र पंचमः ॥२७॥ कर्मेंद्रियाणि पंचैव हस्तौ पादौ गुदं च वाक् । लिंगं पंचममत्रैव एभिः संजायते क्रिया ॥२८॥ पंच प्राणास्तथा ज्ञेयाः प्राणो व्यानस्त्वपानकः । उदानश्च समानो वै राजसाः पंच वायवः ॥२९॥ सप्तधातुविभागार्थं क्रिया- रूपा उदाहृताः । एषां क्रियात्मिका सृष्टी राजसी कथिता प्रिये ॥३०॥ सात्त्विक्या मायया देवा इंद्रियाणां विनिर्मिताः । दिशो वायुश्च वरुणोऽश्विनौ सूर्यः प्रकीर्तितः ॥३१॥ एता ज्ञानेंद्रियाणां च देवताः परिकीर्तिताः । अग्निविष्णुः प्रजापाल इंद्रो मित्रश्च पंचमः ॥३२॥ एताः कर्मेंद्रियाणां वै देवताः परिकीर्तिताः । सात्त्विकी सृष्टिरित्युक्ता दशदेवस्वरूपिणी ॥३३॥
खं. १ अ. ७ पान १९
एते तत्त्वस्वरूपाख्या आदिदेवाः प्रकीर्तिताः। यथाविधि तथा जाता ज्ञानहीना बभूविरे ॥३४॥ ज्ञानहीनत्वदोषेण सृष्टिं कर्तुं न च क्षमाः। तेभ्यो ज्ञानप्रदानार्थमुपदेशं प्रचक्रतुः ॥३५॥ प्रकृतिः पुरुषश्चोभौ मंत्रमेकाक्षरं परम्। अनुष्ठानविधायुक्तं ददतुर्गणपस्य तौ ॥३६॥ ते तत्रैव स्थिताः सर्वे तपश्चक्रुर्महद् भृशम्। तेन संतुष्टतां यातो गणेशो गणवल्लभः ॥३७॥ प्रत्य- क्षतां ययौ तेषां समीपे संस्थितो महान्। तं दृष्ट्वा हर्षिताः सर्वे देवाः स्तोत्रं प्रचक्रिरे ॥३८॥ तत्त्वान्यूचुः। नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च। सर्वाधीशाय सर्वाय गणानां पतये नमः ॥३९॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः। समाय विषमायैव विघ्नेशाय नमो नमः ॥४०॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने। नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥४१॥ अनंतोदरसंस्थाय नानाभोगकराय च। भोगहीनाय सर्वत्र स्वानंदपतये नमः ॥४२॥ मायाधाराय वै तुभ्यं मायाहीनाय ते नमः। मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥४३॥ सर्वसिद्धिधरायैव सिद्धीनां पतये नमः। सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥४४॥ जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः। कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥४५॥ कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः। ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाथ ते नमः ॥४६॥ चतुर्विधधरायैव चतुर्विधमयाय च। चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥४७॥ पाशाङ्कुशधरायैव दंताभयधराय च। चतुर्भुजाय वै शूर्पश्रुतये तुंदिलाय च ॥४८॥ महते चैकदंताय महतां च महीयसे। लघवे लघुरूपाय लघूनां लाघवे नमः ॥४९॥ गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे। ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥५०॥ किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये। नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥५१॥ कृतांजलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः। तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥५२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥
[शीर्षक: खं. १ अ. ८ | पान २०]
॥ श्रीगणेशाय नमः॥ श्रीशिव उवाच। शृणु देवि गणेशस्य चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं चैव स्मरणेन सुसिद्धिदम् ॥१॥ गजाननः प्रसन्नात्मा परमात्मा परात्परः । भक्तानंदकरः साक्षादूचिवान् भक्तिभावितः ॥२॥ श्रीगजानन उवाच। भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् । तपसाऽहं प्रसंतुष्टो भक्त्या स्तोत्रेण भावतः ॥३॥ भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम । सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥४॥ विद्याकामो लभेद्विद्यां धनकामो धनं लभेत् । स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥५॥ मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् । अस्य स्तोत्रस्य पठनात् वांछितं लभते परम् ॥६॥ श्रीशिव उवाच। गणेशवचनं श्रुत्वा भक्तिनम्रात्मकन्धराः । ऋषयस्तं प्रणम्यादावूचुस्ते हृष्ट- मानसाः ॥७॥ आदिऋषय ऊचुः। प्रसन्नो भगवंश्चद्य यदि देयो वरो महान् । त्वदीयामचलां भक्तिं देहि नो गणनायक ॥८॥ सृष्टिसामर्थ्यमत्यंतमस्माकं त्वत्प्रसादतः । अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा ॥९॥ यद्यत् हृदीप्सितं देव तत्तत् सिध्यतु सर्वदा । बंधहीनत्वमनिशं देहि त्वं विघ्ननाशन ॥१०॥ तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिः स्वयम् । ददौ तेषामभीष्टं स महादेवि महप्रदः ॥११॥ श्रीगजानन उवाच । दत्ता वरा मया देवा ये भवद्भिर्वृताः पराः । इत्युक्त्वान्तर्दधे ढुंढिः ऋषीणां पश्यतां खलु ॥१२॥ स्वानंदॆ च गते देवे गणेशे परमात्मनि । खिन्ना इवाऽभवन् देवाः परस्परमुखेक्षणाः ॥१३॥ गणेशवरदानेन ज्ञानं प्राप्य महाद्भुतम् । बुद्धियुक्ता महादेवाः सृष्टिं चक्रुः प्रभावतः ॥१४॥ परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा । तेनैक- भावतां प्राप्तास्तस्मादण्डं बभूव वै ॥१५॥ तस्मिन्नंडे पुमानादिरेकः सर्वात्मशक्तिमान् । जातो वै भगवान् साक्षाद् गुणेशो गुणवल्लभः ॥१६॥ महता कालयोगेन देहात्तस्य विनिःसृताः । आपस्तत्र स्थितं ह्यण्डं तत्र वृद्धिं ययौ च सः ॥१७॥ कालेनावयवी जातस्ततः संपूर्णदेहवान् । तस्य तेजःप्रभावेण तदण्डं स्फुटितं महत् ॥१८॥ स एव निःसृतः साक्षादसंख्यातार्कसन्निभः । अपारमहिमा यस्य सर्वादिः सर्वभावनः ॥१९॥ सर्वतो हस्तपादो वै सर्वतो नासिकोदरः । सर्वतोऽक्षिमुखोऽनंतः सर्वतः श्रुतिमान् बभौ ॥२०॥ असंख्यावयवो देवो ह्यसंख्योदारविक्रमः । असंख्यलीलया युक्तः परमात्मस्वभाववान् ॥२१॥ आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः । महतां च महीयान् यो यस्य पारो न दृश्यते ॥२२॥ अणुभ्योऽणुतरो देवो रोमरन्ध्रेषु यस्य वै । ब्रह्माण्डानि भ्रमन्ति स्म परागा इव चांबरे ॥२३॥ महाकारणनामा वै तुरीयो देहधारकः । आत्मप्रतीतिरूपं यत्कथ्यतेऽसौ महाद्युतिः ॥२४॥ गुणानामधिपोऽयं वै गुणेशस्तेन कथ्यते । सर्वात्मा सर्वरूपश्च नाददेहधरः
खं. १ अ. ८ पान २१ प्रभुः ॥२५॥ गुणेशेन कृतं कर्म नानाचेष्टात्मकं ततः । तेन नामानि जातानि पश्चात्तस्य महात्मनः ॥२६॥ आपः शरीरसंस्पृष्टास्तत्र सुप्तोऽयमीश्वरः । नारायण इति प्राप्तं नाम तस्य महात्मनः ॥२७॥ आपो नरप्रसूताश्च तेन नाराः प्रकीर्तिताः । ता एवायतनं तस्य कर्मणा तेन स प्रभुः ॥२८॥ भिन्नं भिन्नं सृजति च त्रिविधं त्रिविधं पृथक् । ब्रह्मेति तेन संप्राप्तं नाम तस्य प्रभावतः ॥२९॥ वेदोपनिषदि प्रोक्तो ब्रह्मलोकः सनातनः । सर्वेभ्यो यः परः श्रेष्ठमेनं विद्धि सुनिश्चितम् ॥३०॥ सर्वेषां यत्नदाता स कालरूपेण वर्तते । चालकस्तेन नामाभून् महादेव इति प्रभोः ॥३१॥ कर्मणामयमाधारो जातः सूर्य इति स्मृतः । मोहको वस्तुजातानामादिशक्तिश्च तेन सः ॥३२॥ इत्यादिनामतां प्राप्तो नानाभावेन कर्मणा । गुणेशस्तु तुरीयात्मा सर्वत्राऽसौ महान् प्रभुः ॥३३॥ कारणानां च सर्वेषां कारणं च न संशयः । महाकारणमेतच्च पुराणेषु प्रपठ्यते ॥३४॥ कर्तुः कर्ता स्वयं साक्षाद्धर्तुर्हर्ता न संशयः । पातुः पाता प्रकाशस्य प्रकाशोऽयं गुणेश्वरः ॥३५॥ त्रिदेहो गुणतश्चायं वामे राजसतां गतः । सात्त्विको मध्यभागे स दक्षिणे तामसो बभौ ॥३६॥ एतादृशो महात्मसावादिदेवो गुणेश्वरः । अज्ञानेनावृतो यस्मात्तेन वै तपसि स्थितः ॥३७॥ सोऽतपत्तप उग्रं तु हृदि ध्यात्वा गजाननम् । बहुकाले व्यतिक्रान्ते प्रसन्नोऽभूद्गजाननः ॥३८॥ आगतो देवदेवेशो धेनुर्वत्समिवाऽदरात् । बोधयामास तं शीघ्रं गुणेशं भक्तवत्सलः ॥३९॥ श्रीगणेश उवाच । एकाक्षरस्य मंत्रस्य जपेन तपसाऽपि ते । प्रसन्नोऽहं महाबाहो गुणेश वृणु वांछितम् ॥४०॥ इत्येवं बोधितो देवि गणेशेन कृपावता । गुणेश्वरः प्रतुष्टाव भक्तिभावसमन्वितः ॥४१॥ गुणेश उवाच । नमामि देवं गणनाथमीशं सदा सुशान्तं हृदि योगिनां वै । अपारयोगं दृढयोगनाथं सुशांतयोगेश्वरमानतोऽस्मि ॥४२॥ अयोगरूपं कथितुं त्वशक्यं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अभेदभेदात्मकमूलहीनं सुशांतयोगेश्वरमानतोऽस्मि ॥४३॥ सदा समाधिस्थमनंतपारं प्रभुं स्वसंवेद्यमयं विभान्तम् । निजात्मयोगेन च लभ्यमेवं सुशांतयोगेश्वरमानतोऽस्मि ॥४४॥ विदेहयोगेन च सांख्यरूपं जनेन लभ्यं गणराजमीड्यम् । सदा ह्युपाधौ न हितं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥४५॥ सुसंस्थितं सर्वविलासयुक्तं हृद्विज्ञबोधात्मक्रमादिदेवम् । अभेदमात्रं परमार्थरूपं सुशांतयोगेश्वरमानतोऽस्मि ॥४६॥ अनादिमध्यान्तमनेनपारं सुसंवृतं संततमात्मरूपम् । गणेशमाद्यं पुरुषं पुराणं सुशांतयोगेश्वरमानतोऽस्मि ॥४७॥ अनादिरूपं प्रकृतिप्रभेदं सदा सुबिंद्रात्मकमप्रमेयम् । अमायिकं मोहकरं प्रसिद्धं सुशांतयोगेश्वरमानतोऽस्मि ॥४८॥ गुणेषु रूपेण विराजमानमपारम-
खं. १ अ. ८ पान २२ व्यक्तमयं गणेशम् । गुणैर्विहीनं गुणचालकं च सुशांतयोगेश्वरमानतोऽस्मि ॥४९॥ समस्वरूपं जगदीश- मेकं सुषुप्तिरूपं सकलावभासम् । अनादिमायामयमोहधारं सुशांतयोगेश्वरमानतोऽस्मि ॥५०॥ जगन्मयं सूक्ष्मविभूति- धारं हिरण्मयं स्वप्नगतं गणेशम् । जनस्य विज्ञानकरं पुराणं सुशांतयोगेश्वरमानतोऽस्मि ॥५१॥ स्तुतं सदा देवमुनीन्द्र- सिद्धैः स्थितं जगन्मोहमयं प्रसिद्धम् । सदा परं स्थूलविहारयुक्तं सुशांतयोगेश्वरमानतोऽस्मि ॥५२॥ असत्स्वरूपं विविधे- ष्वभेदं गणेशमायामयशक्तिरूपम् । मनोवचोहीनमहानुभावं सुशांतयोगेश्वरमानतोऽस्मि ॥५३॥ रविस্বরূপं ह्यमृतं पुराणंमभेदमेकात्मकमात्मरूपम् । अखंडमानंदघनं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥५४॥ समं सदा विष्णुमचिन्त्य- भावमभेदभेदादिविवर्जितं च । सदा सुखानंदमयं गणेशं सुशांतयोगेश्वरमानतोऽस्मि ॥५५॥ अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् । अपारवेशं स्वसुखावभासं सुशांतयोगेश्वरमानतोऽस्मि ॥५६॥ पदार्थरूपं विविधप्रभेदं विकारयुक्तं परमप्रमेयम् । बोधात्मकं त्वंपदरूपमेव सुशांतयोगेश्वरमानतोऽस्मि ॥५७॥ अखंडमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयम् । गणेशमेकं हृदि तत्पदस्थं सुशांतयोगेश्वरमानतोऽस्मि ॥५८॥ गणेश चैते विविधस्वरूपाः कलावतारा भवतो हि भव्याः । सुशांतमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यम् ॥५९॥ यदा च सर्वात्ममयं वदामि तदा तु सोऽहं प्रकृतिस्वरूपम् । गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपद्ये ॥६०॥ मनोवचोहीनमथो वदामि ह्ययोगसंयोगमयं णकारम् । निवृत्तिरूपं शरणं सदा वै नमामि तं सर्ववरिष्ठमाद्यम् ॥६१॥ न शक्यसे वक्तुमवक्तुमेवमतो भवन्तं प्रणमामि ढुंढे । गणेश विघ्नेश महानुभाव प्रसीद भो ब्रह्मपते महात्मन् ॥६२॥ जन्म धन्यं धन्यमक्षि विद्या ज्ञानं तपः फलम् । येन दृष्टो गणाधीशः कृतकृत्योऽस्मि सांप्रतम् ॥६३॥ मह्यं यदि वरो देयस्तदा भक्तिं दृढां त्वयि । देहि मे परमेशान यया मोहो विनश्यति ॥६४॥ सृष्टिसर्जनसामर्थ्यं भजतां कामपूरणम् । निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन ॥६५॥ गुणेशवचनं श्रुत्वा सुप्रसन्नो गजाननः । मेघगांभीर्यसादृश्यं वचनं त्विदमब्रवीत् ॥६६॥ श्रीगणेश उवाच । भविता मे महाभक्तिः सृष्टीनां रचनास्तथा । नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवेत् ॥६७॥ भवद्भ्यः सर्वदातृत्वं भविष्यति तथाऽनघ । महाकार्ये समुत्पन्ने दास्येऽहं दर्शनं च ते ॥६८॥ स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यति । पठतां शृण्वतां चैव ब्रह्मभूतकरं
खं. १ अ. ९ पान २३
महत् ॥६९॥ स्तोत्रं ब्रह्मणपतेः साक्षान्नाम्ना वै स्तुतिसारकम् । भविष्यति महाभाग सर्वसिद्धिकरं परम् ॥७०॥ सकामेभ्यो जनेभ्योऽपि कामदं चिंतितप्रदम् । निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति ॥७१॥ मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितम् । त्रिकालपठनादस्य साध्योऽहं नात्र संशयः ॥७२॥ श्रीशिव उवाच । इत्युक्त्वान्तर्हितः साक्षाद्गणेशो भक्तवत्सलः । देवस्यापि वियोगेन गुणेशो विमना ह्यभूत् ॥७३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथम खण्डे वक्रतुण्डचरिते गुणेशवरप्रदानं नामाष्टमोऽध्यायः ॥८॥
॥ श्रीगणेशाय नमः । श्रीशिव उवाच । वरदानप्रभावेण गुणेशो ज्ञानवान्भूत् । समर्थो भगवान् साक्षात् स्रष्टुं तत्र मनो दधे ॥१॥ तस्य निःश्वासतो वेदा निःसृता रूपधारिणः । सर्वज्ञानकराः साक्षाद्भास्वंतो गुरवः सताम् ॥२॥ पश्चात्तेन गुणेशेन सम- भूतात्मकं जगत् । सृष्टं सुषुप्तिसंज्ञं च महत्तत्त्वादिभिः समैः ॥३॥ आनंदव्यवहारत्वात् प्रधानमिति कथ्यते । कारण द्वंद्व- भावानां तेन कारणकं स्मृतम् ॥४॥ माया तमःकरी यस्मात्तेन तामसतां गतम् । समानव्यवहारं च प्रधानं मोहदं बभौ ॥५॥ स्वस्यापि जडभावश्च तेन न ज्ञायते सदा । किं कर्तव्यमकर्तव्यमिति तेन ततो महत् ॥६॥ तपः कृतं महोग्रं च दिव्यं वर्ष- सहस्रकम् । तेन प्रत्यक्षतां यातो गणेशो भक्तवत्सलः ॥७॥ स्तुतः प्रपूजितस्तेन कारणेन महायशाः । सामर्थ्यं योगरूपं च ददौ परमभावितः ॥८॥ वेदैश्चापि कृतं घोरं तपः परमदारुणम् । तेषां प्रत्यक्षतां यातो विघ्नेशो विघ्नवारणः ॥९॥ वेदैश्च संस्तुतो देवः स्तोत्रैः स्वस्वसमुद्भवैः । ब्राह्मणस्पत्यसूक्तेन बह्वृचः स्तुतवान् प्रभुम् ॥१०॥ गणेशशांतिकेनैव यजुस्तं स्तुत- वत्तथा । नामाष्टकार्थकृत्स्तोत्रं तेन साम्ना च संस्तुतः ॥११॥ अथर्वशीर्षकं नाम तेनैवाथर्वणास्तुतः । इत्यादि गाणपत्यैश्च स्तोत्रैर्नानाविधैः स्तुतः ॥१२॥ पूजितो मूलमंत्रेण संतुष्टस्तेन विघ्नहा । सर्वेषां गुरुरूपा वै भविष्यथ वरं ददौ ॥१३॥ सर्व- मान्या जगत्पूज्या वेदास्तेन कृतास्तदा । सांगोपांगसमाचारा गुरवस्ते मताः खलु ॥१४॥ पार्वत्युवाच । तमोगुणमयं स्वामिन्
खं. १ अ. ९ पान २४
प्रधानं समरूपकम् । वरं प्राप्य गणेशात्तु किं कृतं तेन तद्वद ॥१५॥ मुद्गल उवाच। प्रियोक्तं वचनं श्रुत्वा हृष्टरोमा महेश्वरः । तां प्रत्युवाच भगवान् स्मयन्निव सुशांतधीः ॥१६॥ श्रीशिव उवाच। शृणु प्रिये प्रवक्ष्यामि गणेशप्रीतिवर्धने । विभूतिं तस्य देवस्य त्वं वै भाग्यवती शिवे ॥१७॥ गणेशवरदानेन सृष्टं तेनापि सूक्ष्मकम् । हिरण्यगर्भमांतर्यं सात्त्विकं स्वस्वरूप- कम् ॥१८॥ महदादिमहातत्त्वैः सूक्ष्मभूतैश्च संवृतम्। द्वंद्वविज्ञानमूलं तदंतरिक्षस्थितं बभौ ॥१९॥ बोधहीनेन तेनैव तपस्तप्तं सुदुष्करम्। तेन तुष्टो गणेशानो वांछितं प्रददौ वरम् ॥२०॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । हिरण्य- गर्भो भगवान् स्वप्रमायाधरः प्रभुः ॥२१॥ तेन स्थूलस्वरूपं यत्सृष्टं राजससंज्ञकम् । जाग्रद्भोगकरं पूर्णं तत्त्वैश्च स्थूल- रूपिभिः ॥२२॥ ज्ञानहीनेन तेनाथ तपस्तप्तं सुदारुणम्। तपसा चैव संतुष्टो गणेशः करुणानिधिः ॥२३॥ प्रत्यक्षतां ययौ तस्य जाग्रदन्नमयस्य च । तेनापि पूजितो देवः स्तुतस्तस्मै वरं ददौ ॥२४॥ वरदानप्रभावेण नानासामर्थ्यवानभूत् । ईश्वरोन्नमयश्चासावेकोनेकमकल्पयत् ॥२५॥ जाग्रत्स्वप्नसुषुप्त्याख्यव्यवस्थाप्रचुराणि च । भिन्नभिन्नानि जातानि कोटिशः कोटिशः खलु ॥२६॥ गुणेशरोमकूपेभ्यो निःसृतानि महन्ति च । अंडानि भिन्नभिन्नानि सर्वतः संस्थितानि वै ॥२७॥ व्याप्यरूपाणि चांडानि व्यापकश्च गुणेश्वरः । तयोर्भेदभावे सा प्रकृतिर्ब्रह्मबिंदुकम् ॥२८॥ जाग्रता सृष्टमाकाशं ब्रह्म सर्वप्रकाशम् । शब्दमात्रमयं भूतमादिरूपं सनातनम् ॥२९॥ आकाशेन च संसृष्टो वायुः स्पर्शगुणात्मकवान् । वायुना रूप- तन्मात्रं तेजः सृष्टं प्रकाशवत् ॥३०॥ तेजसा रससंयुक्ता आपः सृष्टाः प्रसारिणः। अद्भिर्गन्धगुणा पृथिवी सृष्टा धारण- धर्मिका ॥३१॥ तत्रैकैकप्रवेशेन पंचीकरणभागतः । पृथिवी पंचगुणा जाता चतुर्भूतप्रवेशनात् ॥३२॥ आपश्चतुर्गुणा जाता- स्त्रयाणां संप्रवेशनात् । तेजस्त्रिगुणतां प्राप्तं भूतयोश्च प्रवेशनात् ॥३३॥ वायुर्द्विगुणवान् जात आकाशस्य प्रवेशनात् । आकाशमेकगुणभृद्भूतानां ब्रह्मसंज्ञितम् ॥३४॥ पंच भूतानि जातानि व्यवस्थासंयुतानि च । अष्टधा प्रकृतिः प्रोक्ता कोश- रूपा सुशोभना ॥३५॥ तत्र कोशीस्वरूपेण गुणेशो बिंबितो यतः । तेन सामर्थ्यमाप्राप्ता प्रकृतिश्चाष्टरूपिणी ॥३६॥ अष्टा- वरणसंयुक्तमण्डं सृष्टं स्वभावतः। तत्रैव पुरुषो जज्ञे विराट् स भगवान् शिवे ॥३७॥ पंचाशत्कोटिविस्तारः पृथ्व्याः प्रोक्तो मया च ते। आपो दशाधिकास्तस्यास्तेजस्ताभ्यो दशाधिकम् ॥३८॥ तस्माद्दशाधिको वायुस्तस्मात्खं वै दशाधिकम् । तस्माद्दशाधिकं जाग्रदभिमानं प्रकथ्यते ॥३९॥ तस्माद्दशाधिकं स्वाप्नं महत्तत्वमिति स्मृतम् । द्वितीयं नाम तस्यापि