मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पान १००
राख्याता कामदा सर्वमोहिनी । असिरूपा विशेषज्ञ महामाया मदीयिका ॥२६॥ भ्रामर्या भ्रामिका काऽपि शक्तिर्नात्र प्रदृश्यते । त्वं पदस्थां महामायां तां जानीहि प्रभावतः ॥२७॥ आधाराया महायोगिन्नाधारान्या न विद्यते । शक्तिः कुत्र ततः सापि तत्पदस्थाऽत्र कथ्यते ॥२८॥ कामदायाश्च का शक्तिः कामदान्या न विद्यते । सर्वदा सर्वरूपासि पदमय्यापि सा बभौ ॥२९॥ तस्या मस्तकगं विद्धि लोकं मे स्वस्वरूपकम् । मायया रचितं विप्र मया स्वानुभवात्मकम् ॥३०॥ तत्रागत्य महाभक्तः पिबेदिक्षु समुद्रजम् । जलं तेन स वै सद्यो ज्योतीरूपधरो भवेत् ॥३१॥ भेदाभेदादिहीनश्च भूत्वा पश्यति मां ततः । मदर्शनजययोगेन ब्रह्मभूतो भवेन्नरः ॥३२॥ स्वेच्छया निजलोकस्थो यत्र तत्र स संचरेत् । सगुणो निर्गुणो भूत्वा सदा स्वानंदगः परः ॥३३॥ ततस्तस्य पुनर्नातिर्न भवेन् मुनिसत्तम । कल्पकोटिशतैर्वाऽपि निश्चितं वेदवादिभिः ॥३४॥ महालये चतुर्भेदा मयि चैकत्वमागताः । अज्ञानेन युताः सर्वे पुनस्तान् संसृजाम्यहम् ॥३६॥ एतत्ते कथितं सर्वं मम लोकागमे मुने । संक्षेपेणैव जानीहि मार्गहीनं सुसिद्धिदम् ॥३७॥ कपिल उवाच । त्वदीयोपासनं कृत्वा बहवस्ते गजानन । लोकं गच्छंति विघ्नेश तथा योगिन एव च ॥३८॥ ब्रह्मभूताश्च ते ख्याताः कदाचिन्न पतंति चेत् । तदा जगदिदं स्वामिन् क्षीणरूपं भवेत् क्रमात् ॥३९॥ पुनः पुनः सुस्रष्टा त्वं क्षीणे क्षीणे कथं प्रभो । पूर्णं विश्वमिदं नित्यमंजसा भाति खेलसि ॥४०॥ चिंतामणिरुवाच । यथाऽहं मायया विप्र युद्धकाले विशेषतः । भूत्वा ह्यनन्तरूपेण प्रयुध्ये विश्वपालनात् ॥४१॥ हत्वा दैत्यादिकान् सर्वान् पुनरेकस्वरूपधृक् । भवामि सर्वभावज्ञो लीलार्थमवतारधृक् ॥४२॥ तथा मायाबलेनैव नूतनं संसृजाम्यहम् । न न्यूनाधिकमेवेदं विश्वं भवति सर्वदा ॥४३॥ कपिल उवाच । ब्रह्मभूता नरा नार्यः स्वानंदे संस्थिता बहुः । अनंतास्ते प्रभक्त्या वै पुनः स्वानंदगामिनः ॥४४॥ तेषां वासः सदा तत्र नगरं नियतं प्रभो । संकीर्णता भवेन्नूनं कुत्र तिष्ठंति तद्वद ॥४५॥ चिंतामणिरुवाच । स्वानंदे कल्पपर्यंतमवसन्नित्यमादरात् । महालये समुत्पन्ने मदेहे संगता बभुः ॥४६॥ मया भिन्नं कृतं सर्वं युगादौ मुनिसत्तम । युगांते योगभावेन मद्रूपं भवतीत्यहो ॥४७॥ मदेहे योगभावेनाज्ञानेनैव समागताः । सा योगनिद्रा विप्रेंद्र मदीया कथ्यते बुधैः ॥४८॥ स्वानंदस्था जनाः सर्वे ज्ञानयुक्ता मदीयके । देहे लीना वै भवंति योगींद्रा योगभावतः ॥४९॥ पुनः सृष्टिborderयुगे विप्र निःसृतं विश्वमंजसा । अज्ञानेन युतं लीनं मायया मे न संशयः ॥५०॥ ज्ञानेन ये समायाता मदेहे ते पुनः कदा । भवंति भिन्नरूपा न सृष्ट्यादौ योग-
भाविताः ॥५१॥ एवं वसन्ति ये तत्र स्वानंदे मुनिसत्तम । कल्पे कल्पे मदीये ते देहे सायुज्यमागताः ॥५२॥ कपिल उवाच । भक्तिमिच्छंति विघ्नेश त्वदीयां नित्यमादरात् । न योगे प्रेमभावेन तेषां कुत्र स्थितिं वद ॥५३॥ कल्पे कल्पे महाभागा भक्तास्ते पूर्णभावतः । भवंति ये क्रमेणैवापाराः कुत्र वसन्ति ते ॥५४॥ चिंतामणिरुवाच । दशयोजनसाहस्रं मानं तस्य प्रकीर्तितम् । योगिनां च मुमुक्षूणां न भक्तानां कदाचन ॥५५॥ अपारयोजनाकारो मम लोको न संशयः । स्वानंदस्तत्र मे भक्ता वसंति सेवनोत्सुकाः ॥५६॥ संख्याहीनाश्च मद्भक्ताः सदा प्रेमरसाऽऽप्लुताः । नवधा मां भजंते ते कल्पे कल्पे गतव्यथाः ॥५७॥ भवंति तु भविष्यंति बभूवुर्ये महामुने । मद्भक्ता मे प्रसान्निध्ये वसंति मोहदाः सदा ॥५८॥ महाभागा प्रियं भक्तिसमं मे नैव विद्यते । भक्त्यधीनो महानंदाद् भ्रमेयं भक्तसन्निधौ ॥५९॥ यत्र कुत्र तु तिष्ठंति भक्ता मे तत्र सर्वदा । तिष्ठामि सर्वभावेन तान् रक्षामि सुविह्वलः ॥६०॥ नवधा चित्तभावेन भक्तसामीप्यगो मुदा । भजामि भक्तमाहात्म्यं मोहितश्चेष्टितः सदा ॥६१॥ न स्वानंदप्रियो मे वै सिद्धिर्बुद्धिः सुतौ तथा । मम देहो न विघ्नेश प्रिया भक्ता यथा च मे ॥६२॥ कपिल उवाच । स्वानंदस्था गणास्ते ये भक्तान्नेतुं समागताः । ज्योतीरूपाश्च भक्तैस्ते दृश्यंते कथमप्यहो ॥६३॥ चिंतामणिरुवाच । मायया मे महायोगिन् दुर्लभं किं भवेद्वद । कृपया मेऽत्र पश्यंति भक्तास्तान् चर्म- चक्षुषा ॥६४॥ स्वानंदः सर्वरूपश्च तत्र मार्गं वदामि ते । भेदयुक्तैर्गणा मे वै दृश्यंते भेदसंयुताः ॥६५॥ भेदहीनैः सदात्मस्थैर्निर्गुणा मे गणा मुने । दृश्यंते स्वात्मसंस्थैश्च स्वसंवेद्यात्मकास्तथा ॥६६॥ जलादिषु यथा बिंबं भवते तादृशं किल । तथा मदीयलोकस्था दृश्यंते सर्वमंडले ॥६७॥ एतत्ते कथितं सर्वं ममलोकविचेष्टितम् । अधुनाऽहं गमिष्यामि निजलोकं महामुने ॥६८॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते स्वानंदस्थितिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥
ख. ५ अ. ४२ पान १०२ ॥ श्रीगणेशाय नमः ॥ कपिल उवाच । एतादृशी महाभक्तिस्त्वदीया गणनायक । यदा सर्वे प्रकुर्वंति तदा विश्वं कथं भवेत् ॥१॥ सर्वेभ्यः श्रेष्ठभावेन जानंति त्वां यदा नराः । तदा त्वां सर्वभावेन भजंते ते न संशयः ॥२॥ श्रेष्ठार्थिनो नराः सर्वे भजंते शीघ्रसिद्धये । देवेंद्रास्त्वां परित्यज्यान्यान् ब्रह्मप कथं वद ॥३॥ चिंतामणिरुवाच । मया सृष्टं जगत् सर्वं नानाभावमयं मुने । नानाभावयुताः सर्वे न भजंते तु मां सदा ॥४॥ चतुर्णां देवमुख्यानां कृत्वा भजनमुत्तमम् । तेन शुद्धांतरात्मानो मां भजंते ततः परम् ॥५॥ अन्यच्च शृणु मे वाक्यं मया माया प्रकाशिता । सर्वश्रेष्ठतमं मां ते न जानंति प्रमोहिताः ॥६॥ यदाऽहं मायया विप्र छादयामि न मे वपुः । तदा मोहविहीनाश्चेच्छ्रेष्ठं मां प्रवदंति च ॥७॥ मया नानावताश्च कृतास्त्रैलोक्यगेषु वै । देवादीनां प्रगेहेषु तादृशं मां वदंति ते ॥८॥ अग्रपूज्यत्वमेवं यत् सर्वपूज्यत्व- मंजसा । शिवेन दत्तमस्मै तद्गणेशाय वदंति ते ॥९॥ मायया मोहिता मे मां पार्वतीमलसंभवम् । शिवपुत्रं शिवेनैव स्थापितं प्रवदंति ते ॥१०॥ शिवगणस्वरूपोऽयं मुक्तिं दातुं न च क्षमः । कार्यसिद्धिस्वभावेन कामपूरो गणेश्वरः ॥११॥ इत्यादिभावा बहवो मया विप्र प्रकाशिताः । क्रीडार्थं तेन मां त्यक्त्वा श्रेष्ठं जानंति चापरम् ॥१२॥ नो चेत् स्वानंदगाः सर्वे भवंत्यत्र न संशयः । निर्मोहात् कल्पपर्यंतं जगन्नैव प्रवर्तते ॥१३॥ अन्यच्च कर्मणा सर्वं ब्रह्मांडं जनसंयुतम् । नानाभावात्ममोहस्थं भवतेऽनेकनिश्चयात् ॥१४॥ अंते मदीयभावस्था भवंते शुद्धचेतसः । वेदशास्त्रार्थतत्त्वज्ञाः स्वयमेव महामुने ॥१५॥ अहं साक्षाद् बुद्धिपतिः कृत्वा बुद्धेश्च चालनम् । गोपयामि गणेशस्य स्वरूपं देहिनां हृदि ॥१६॥ तेन मां नैव जानंति जना परमगं कदा । विवेकमार्गं ते तत्र वदामि शृणु यत्नतः ॥१७॥ कृते मां पूर्णभावेन भजंते सर्वमानवाः । अज्ञानावरणैर्हीनाः श्रेष्ठं ते प्रवदंति हि ॥१८॥ त्रेतायां पादहीनेन मां भजंते नरा मुने । पंचायतनभावेन पंच श्रेष्ठान् वदंति ते ॥१९॥ तत्र सर्वेषु साम्येन मां भजंते न संशयः । चतुर्भ्यः श्रेष्ठभावाख्यं ज्ञानं नष्टं मदीयकम् ॥२०॥ द्वापरे द्विपदा हीनं मां भजंते सुरादयः । वदंति न्यूनरूपं तु चतुर्भ्यः शंकरात्मजम् ॥२१॥ वेदशास्त्रे पुराणेषु श्रेष्ठं जानंति मानवाः । मोहेन युगमानेन मां न्यूनं प्रवदंति ते ॥२२॥ सर्वं ब्रह्मेति वेदेषु कथितं तत्र किं भवेत् । सत्ता समानरूपा तु तथाऽयं गणनायकः ॥२३॥ कलौ त्रिपादहीनेन मां ज्ञानेन भजंति ते । वदंति वै नरास्तत्र मलजोऽयं गजाननः ॥२४॥ शिवस्य वरदानेनाग्रपूज्योऽयं गणेश्वरः । सर्वपूज्यो यथा दैत्या जंतवो वरसंयुताः ॥२५॥ सर्वं ब्रह्मेति वेदेषु कथितं तेन विप्रपः ।
वर्णितोऽयं शिववरबलेनैव मुनींद्रकैः ॥२६॥ स्वसत्तासंयुक्तो देवो नाऽयं चिंतामणिः कदा । शिवभक्तिबलेनाद्यो वरयुक्तो बभूव ह ॥२७॥ कलिप्रांते मुने लोका न भजिष्यंति मां कदा । एकपादमयी भक्तिर्नाशं यास्यति निश्चितम् ॥२८॥ मतभेदेन मोहेनादौ मां त्यक्त्वा विशेषतः । शिवविष्ण्वादिकान् सर्वे भजंते त्वग्रपूज्यकान् ॥२९॥ सर्वपूज्याग्रपूज्यत्वं नष्टं भवति मे ततः । अंते विघ्नयुताः सर्वे नरकेषु पचंति वै ॥३०॥ युगमानप्रसिद्ध्यर्थं कृतं मेऽत्र महामुने । कर्माकर्म- विकर्माणि स्थापितानि विभागशः ॥३१॥ न करोमि यदाऽहं चेत्तदा मे वरदानकम् । कर्मभ्यश्च युगेभ्यश्च निष्फलं भवतीत्यहो ॥३२॥ नरकादय आख्याताः स्वर्गाश्चैव महामुने । भवंति निष्फलाः सर्वे तदर्थं खेलयाम्यहम् ॥३३॥ शुभाशुभमयं सर्वं मया स्ववरदानतः । स्थापितं तेन मोहेन मां न जानंति मूलगम् ॥३४॥ एतत्ते सर्वमाख्यातं मदीयं चेष्टितं महत् । मा संशयं मुने त्वं तु कुरु मां भज भावतः ॥३५॥ कपिल उवाच । एवमुक्त्वा गणेशानो मामंतर्धानमाकरोत् । अहं खेदसमायुक्तो हृदये तमलोकयम् ॥३६॥ मयाऽसौ स्थापितश्चिंतामणिर्विप्र परेश्वरः । पूजयामि भजे नित्यं भक्ति- भावसमन्वितः ॥३७॥ एतत्ते कथितं सर्वं रहस्यं तस्य धीमतः । लोकस्य तेन यत् प्रोक्तं भज तं भक्तिसंयुतः ॥३८॥ त्वं साक्षाद्गाणपत्यश्च देहधारी न संशयः । तवदर्शनमात्रेण सर्वे पूता भवंति च ॥३९॥ गार्ग्य उवाच । श्रुत्वैवं मुद्गलो योगी महत् स्वानंदलोकगम् । माहात्म्यं विस्मितो भूत्वा प्रणाम महामुनिम् ॥४०॥ चिंतामणिं समभ्यर्च्य प्रणम्य कपिलं पुनः । मुद्गलः स्वाश्रमं राजन् प्रययौ गणपे रतः ॥४१॥ एवं ते सर्वमाख्यातं भज तं भावसंयुतः । अनेन जडदेहेन स्वानंदं लभसे नृप ॥४२॥ मुद्गल उवाच । एवमुक्त्वा महीपालमैलं गार्ग्यो महामुनिः । अनुज्ञातश्च भूपेन ययौ स्वस्याश्रमं विधे ॥४३॥ ऐलोऽपि गणराजं तं लक्षसंज्ञं निरंतरम् । सेव्यस्वानंदगो भूत्वा भजते तं प्रजापते ॥४४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते चिंतामण्यंतर्धानवर्णनं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ दक्ष उवाच। धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानंदजां कथाम्। विस्मितो योगिराजेंद्र न समं तस्य विद्यते ॥१॥ अधुना ब्रूहि मे सर्वं यश ऐलस्य भक्तिजम्। गार्गेयेण नृपशार्दूल उपदिष्टः किमाचरत् ॥२॥ गणेशलोकगः सोऽपि बभूव वद तत्कथम्। अत्र तत्र गणेशानं भजते कथमप्यहो ॥३॥ मुद्गल उवाच। गार्गेयेण नृपवर्यश्च गाणपत्येन शिक्षितः। गाणपत्येन मार्गेणाभजत्तं गणनायकम् ॥४॥ स्कंदेन स्थापितस्तत्र लक्षो नाम गजाननः। तं नित्यं सेवया- मासानन्यभावेन विघ्नपम् ॥५॥ न गणेशात् परं किंचिज्जानाति नृपसत्तमः। एकनिष्ठः स्वभावेनाभजत्तं लक्षविघ्नपम् ॥६॥ दक्ष उवाच। एकनिष्ठात्मिकां भक्तिं वद मेऽन्यां च मुद्गल। यया विघ्नेश्वरः साक्षात् संतुष्टो जायते नृणाम् ॥७॥ मुद्गल उवाच। पंचायतनपूजां वै तथाग्नेः सेवनं परम्। द्विजानां नित्यमेतत्ते कथितं सर्वसंमतम् ॥८॥ विघ्नरूपं महाघोरं परत्रेह च बंधकम्। ब्रह्ममार्गस्य संरोधकारकं विद्धि सर्वदा ॥९॥ तं जयेद्विघ्नराजस्य पूजनेन नरोत्तमः। विद्यार्थं शंकरं सोऽपि पूजयेन्नित्यमादरात् ॥१०॥ यशोर्थं केशवं चैवारोग्यार्थं रविमंजसा। सौभाग्यार्थं नरस्तद्वत् पूजयेज्जगदंबिकाम् ॥११॥ अग्निं होमादिमार्गेण पूजयेत् कर्मसिद्धये। देवादीनां विभागार्थं सर्वेषां तोषकारकम् ॥१२॥ एवं मत्वा तु यो मर्त्यः करोति सेवनं सदा। स्वधर्मस्य प्रजानाथ ब्रह्मार्पणतया किल ॥१३॥ अथवा कामनायुक्तः स चेत्तदपि तादृशम्। कुर्यात् कर्मांगदेवेभ्यः समर्प्य सकलां क्रियाम् ॥१४॥ सर्वे समानरूपाश्च तस्य प्रोक्ताः प्रजापते। स्वधर्माचरणं श्रेष्ठं जानीते सर्वसौख्यदम् ॥१५॥ तत्र विघ्नेश्वरं साक्षान् मध्ये संस्थाप्य सर्वदा। ईशान्यं विष्णुमेव त्वाग्नेय्यां शंभुं प्रपूजयेत् ॥१६॥ नैर्ऋत्यां जगदंबां च वायव्यां रविमादरात्। पंचायतनभावेन पूजयेत् पंच देवताः ॥१७॥ सर्वेषां पूज्यभावाद्वै सर्वाग्रे पूज्य भावतः। ज्येष्ठराजस्वरूपाच्च मध्ये तिष्ठति विघ्नपः ॥१८॥ अथवा पंचदेवेषु मंत्रं गृह्य स्वभावजम्। एकस्य तस्य मध्ये स स्थापनं कुरुते स्वयम् ॥१९॥ सर्वं कलांशरूपस्थं पंचायतनकस्य वै। पूजितेषु प्रजानाथ पंचसु पूजितं जगत् ॥२०॥ देवेन कार्यसिद्धयर्थं नाना देवाः कृताः पुरा। ते सर्वे तत्स्वरूपाश्च पूजनीया नरेण वै ॥२१॥ इयं सर्वात्मिका भक्तिः कथिता च प्रजापते। स्वेष्टभावेन सर्वत्र परात्तत् ध्यानकारणात् ॥२२॥ अधुना शृणु दक्ष त्वमेकनिष्ठां महाद्भुताम्। स्वल्पकालेन भक्तस्य सिद्धिदां परमप्रियाम् ॥२३॥ स्वस्येष्टदेवतायां तु विश्वं सर्वं प्रतिष्ठितम्। तस्य पूजनमात्रेण सर्वं संपूजितं भवेत् ॥२४॥ अनंतरूपभावेन सर्वत्र कलया स्वयम्। तिष्ठति पूजनं तेषां न भवेद्देहधारिणाम् ॥२५॥ चराचरमयो
खं. ५ अ. ४३ पान १०५ देवः पूजनीयं चराचरम् । केनाऽपि तत्र विपेंद्र भवेच्चासंख्यभावतः ॥२६॥ चराचरं पूजितं चेत्तदपि तस्य रोमगम् । ब्रह्मांडकूटमेवेदं वदंति मुनयोऽपरे ॥२७॥ यस्य रोमांतरंध्रेषु ब्रह्मांडानां हि कोटयः । अतः संपूर्णदेहस्य पूजनं न भवेत् कदा ॥२८॥ भक्तवात्सल्यभावार्थं देहधारी बभूव ह । देवस्तस्य भवेत् सर्वं पूजनेन सुपूजितम् ॥२९॥ अनेन निश्चयेनैव पूजयेत् स्वेष्टदैवतम् । अन्येषां क्षोभतोषौ स सदा नेच्छति चेतसा ॥३०॥ नान्यान्निंदेन्न वै दक्ष स्तुत्यादेकत्वमाश्रितः । स्वेष्टदेवपरो भूत्वा भक्तिं कुर्याद्विशेषतः ॥३१॥ नरो विघ्नेश्वरैणेव सदा युक्तं प्रजापते । स्वेष्टदेवं समापूज्य सिद्धिं स लभते पराम् ॥३२॥ एकनिष्ठा महाभक्तिर्न भवेत्तत्र खंडिता । तत्र मार्गं प्रवक्ष्यामि सर्वसंशयनाशनम् ॥३३॥ यथा स्वशाखया संयुक्तं संध्यादिकमाचरेत् । तथाऽग्रपूज्यभावेन पूजयेद्गणनायकम् ॥३४॥ सर्वेषामादिपूज्योऽयं सर्वादौ वेदवादतः । अन्यथा वेदवैरूध्यात् सकला नश्यति क्रिया ॥३५॥ शिवविष्णुमुखादीनामग्रपूजा न विद्यते । सर्वादौ तेन ते त्याज्या न त्याज्योऽयं गजाननः ॥३६॥ अन्यच्च शृणु मे वाक्यं सर्वेभ्यः फलदायकः । गणेशो नात्र संदेहः सिद्धिबुद्धि- समन्वितः ॥३७॥ धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमंजसा । सिद्ध्यधीनं प्रजानाथ पंचकं वेदवादतः ॥३८॥ कर्ता बुद्ध्या समायुक्तः स्वेष्टदेवस्तया युतः । बुद्धयधीनं जगत् सर्वं ज्ञानं देहादिकं परम् ॥३९॥ तयोः स्वामी गणेशानो ब्रह्मणस्पति- वाचकः । सर्वादौ तमसंपूज्य नारकी स भवेन्नरः ॥४०॥ यदा गणपतिर्दक्ष सर्वादौ पूजितो न चेत् । पतिव्रते सिद्धिबुद्धी तत्र नैवागमिष्यतः ॥४१॥ सर्वसिद्धिविहीनश्च भवेत् दुर्बुद्धिसंयुतः । देहांते नरकेष्वेव स पचेन्नात्र संशयः ॥४२॥ शिव- विष्णुमुखानां स ज्येष्ठश्चैव प्रकीर्तितः । तस्योल्लंघनमात्रेण भ्रंशयिष्यंति देवताः ॥४३॥ यथा गणपतिद्वेषाद्बलिं वैष्णवमु- त्तमम् । नरकेषु निबद्ध्यैवोद्यतो विष्णुर्बभूव ह ॥४४॥ संध्यादि कर्मवच्चार्यं सर्वादौ संमतो बुधैः । तस्य पूजनमात्रैणैकनिष्ठा नैव खंडिता ॥४५॥ गणेश एकनिष्ठश्चेत्तदा गणपतिः सदा । एकः पूज्यो न संदेहोऽन्येषामनावश्यकखंडनात् ॥४६॥ एक- निष्ठासमा भक्तिर्विद्यते नैव निश्चितम् । ब्रह्म नानाविधं तेन विश्वं भक्त्या प्रपूजितम् ॥४७॥ जगद्ब्रह्मयुतो देवः स्वेष्टः संपूर्णभावतः । पूजितस्तेन भवति संतुष्टे सकलं सदा ॥४८॥ एकनिष्ठो यथा भक्तस्तथा देवोऽपि मानद । एक- भक्ताश्रितो भूत्वाऽभवत्तत्रैव संस्थितः ॥४९॥ एतत्ते कथितं दक्ष भजनं त्रिविधं मया । अनेन भक्तिमार्गेण वाञ्छितं लभते नरः ॥ ५० ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते भक्तिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥
खं. ५ अ. ४४ पान १०६ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवमैलः स राजर्षिरेकनिष्ठापरायणः । गणेशमभजन्नित्यं यथा गृत्समदस्तथा ॥१॥ ध्यात्वा गजाननं देवमेकांते तद्गताऽखिलः । मानसे राज्यभोगे स निःस्पृहः संबभूव ह ॥२॥ पुत्रे राज्यं परित्यज्य पूजयित्वा गजाननम् । ध्यानयुक्तः स्वभावेनातिष्ठत्तत्रैव नित्यदा ॥३॥ दक्ष उवाच । गणेशस्य ध्यानमैलकृतं मे वद सांप्रतम् । तथाऽहं ध्यानसंयुक्तो भजिष्यामि निरंतरम् ॥४॥ मुद्गल उवाच । यथैलो नृपवर्यः स गार्ग्याज्ज्ञात्वा गणेश्वरम् । अभजत् ध्यानयुक्तश्च तत् ध्यानं शृणु मानद ॥५॥ ऐल उवाच । नमामि विघ्नेश्वरपादपंकजं सुचिह्नितं चाखिलदं निजात्मनाम् । ध्वजासिपद्माभयवज्रलाञ्छनैः परश्वधेनैव सुकोमलं परम् ॥६॥ सुरक्तपादांगुलकैः सुकोमलैर्नखप्रभाताम्रतया सुराजितम् । सुगुल्फयुक्तं मृदुमांसलं महत् मोहं हरेत् तत्तिमिरं हृदि स्थितम् ॥७॥ जंघे परे रक्तसुभामये ततो ध्यायामि मांसेन युते सुकोमले । तज्जानुनी मांसलके सुरोमभिराकोमलैर्वक्रशिखैः सुसंवृते ॥८॥ ऊरू सुमांसेन समावृतौ परौ रंभासमानौ सुविराजितौ तथा । रक्तौ हृदा चिंतनमात्रभावतो भक्तिप्रदौ विघ्नहरस्य चिंतये ॥९॥ कटिं सदा मांसलरक्तरंजितां सुवर्तुलां मध्यमभागसंश्रिताम् । गणेश्वरस्यैव तु चिंतयाम्यहं सदा सुखानंदकरस्य नित्यदा ॥१०॥ वस्त्रं सुरक्तं हृदि चिंतयाम्यहमनंतमौल्यं कटिभागसंस्थितम् । नाभिं सुवृत्तां परमश्रिया युतां शेषस्य संवासकरीं तु चिंतये ॥११॥ महोदरं मांसलभावसंयुक्तं सुरोमयुक्तं प्रभया विराजितम् । विचिंतयेऽहं सकलप्रकाशकं त्रयीप्रमूलं परमव्ययं परम् ॥१२॥ श्रीवक्रतुंडस्य विशालरूपकं वक्षस्तथा रक्तमयं सुमांसलम् । रक्तं स्तनाभ्यां हृदयं तु चिंतये चिंतामणिं तत्र सुखप्रदं परम् ॥१३॥ कंठं त्रिरेखायुतमेव मांसलं रक्तं गणेशस्य च तेजसा युतम् । स्कंधौ वृषकंधसमौ सुकोमलौ ध्यायामि चित्ते सततं सुरक्तकौ ॥१४॥ बाहू सदा मांसलकौ प्रभासितौ स्वानंदनाथस्य मनोऽतिसौख्यदौ । हस्तौ तथा रक्तसुतेजसा युतौ वामौ हृदा दक्षिणकौ तु चिंतये ॥१५॥ करांगुलीर्विंशतिकाः सुवर्तुला नखैः सुरक्तैश्च सुतेजसा युताः । गणेश्वरस्यैव हृदि प्रचिंतये स्वभक्तरक्षाकरिकाः सुभूषिताः ॥१६॥ मुखं तु शुंडायुतमेव चिंतये त्रिनेत्रयुक्तं परमप्रकाशकम् । सदैक- दंतस्य च तीक्ष्णदंतकं स्वभक्तकान् प्रेमरसेन सौख्यदम् ॥१७॥ कर्णौ विशालौ हृदि चिंतये परौ भक्ताय निष्कामसुकामदौ तथा । शूर्पाकृती चंचलभावधारिणौ विघ्नेश्वरस्यैव च वेदरूपिणौ ॥१८॥ कपोलकौ षट्पदरूपधारिभिर्मुनीश्वरैरंघ्रिमद- द्रवार्थिभिः । सुसंवृतौ नादयुतैर्निरंतरं गणेश्वरस्यैव हृदा विचिंतये ॥१९॥ भालं सुतेजोयुतमेव चिंतये श्रीढुंढिराजस्य
खं. ५ अ. ४४ पान १०७ निशाकरस्थलम् । रक्ताष्टगंधैश्च सुचित्रितं प्रभोर्बिंदुप्रयुक्तं त्वथ तंडुलैर्युतम् ॥२०॥ केशैः समाच्छादितमस्तकं तथा सं चिंतये विघ्नविनाशकारिणः । ब्रह्मांडमूले प्रभुमस्तकाश्रिते कुंभस्थले ब्रह्मवरस्य सौख्यदे ॥२१॥ गणेशदेहं परिचिंतयाम्यहं सुभूषणैर्भूषितकं विचित्रकैः । अनर्घमूल्यैश्च सुवस्त्रकैस्तथा सुशोभितं ब्रह्मवरस्य सर्वदा ॥२२॥ विचित्रगंधैः परिलेपितं तथा सुचित्रितं भक्तवरैः सुयोगिभिः । गणाधिपं साधु हृदि स्थितं सदा विचिंतयेऽहं निजभक्तिलालसम् ॥२३॥ पाशांकुशाद्यैश्च सुसंस्तुतं परं ढुंढिं प्रमोदादिभिरेव नित्यदा । गणेश्वरं देववरैस्तथोंदुरराजेन पूज्यं च सुचिंतये हृदि ॥२४॥ वेदैः पुराणैः स्मृतिभिश्च शास्त्रकैः स्तोत्रैः स्तुतं देहधरैर्विचिंतये । ब्रह्मप्रियाद्यैश्च गणैरसंख्यकैर्भक्त्या तथा मुद्गलमुख्यकैः परम् ॥२५॥ सर्वांगसंशोभनरूपयुक्तया सिद्ध्या गणेशं परिचिंतये हृदि । संसेवितं वामगया सुशक्तिभिः सिद्ध्यादिभिः संवृतया स्वमायया ॥२६॥ बुद्ध्या कलाभिश्च सुसेवितं तथा विद्याभिराराद्गणनायकं हृदि । सर्वांगसंशोभनया स्वमायया संचिंतये दक्षिणभागभूषया ॥२७॥ लक्षेण लाभेन च विघ्ननायकं संसेवितं शोभनशोभनेन तु । संचिंतये पुत्रवरेण सर्वदा ब्रह्मेश्वरं भक्तजनैः स्वधामगैः ॥२८॥ अनंतमंत्रैः कथितं स्वरूपकं विचिंतये वक्तुमशक्यभावतः । हृदि स्थितं ध्यानसुलोलुपं परं गणेश्वरं ब्रह्ममयागधारिणम् ॥२९॥ मुद्गल उवाच । एवमैलः स राजर्षिर्गणेशभजने रतः । ध्यानं कृत्वा सदाऽतिष्ठद्गणेशस्य निवृत्तितः ॥३०॥ प्रातः काले समुत्थाय सस्त्रीकः स महीपतिः । धर्मयुक्तं चकाराऽपि नित्यं कर्म निरंतरम् ॥३१॥ ततो गणेश्वरं भक्त्याऽपूजयद्भक्तिसंयुतः । यथा गार्ग्येण भो दक्ष शिक्षितः स तथाऽकरोत् ॥३२॥ शमीमंदारदूर्वाश्चापूजयद्भक्तिसंयुतः । प्रार्थ्य पत्रांकुरायँ स पुष्पं चैवाऽऽचिनोन्नृपः ॥३३॥ दक्ष उवाच । शमीमंदारदूर्वाणां पूजनं वद मुद्गल । सिद्धेर्बुद्धेश्च विप्रेंद्र सुतयोर्लक्षलाभयोः ॥३४॥ शमीमंदारदूर्वाणां प्रार्थना कीदृशी भवेत् । तां कृत्वा पुष्पपत्रादींश्चिनोम्यहं त्वदाज्ञया ॥३५॥ केन मंत्रेण योगींद्र शमीमंदारकांस्तदा । नरोत्तमो गणेशाय परेशाय समर्पयेत् ॥३६॥ मुद्गल उवाच । शृणु दक्ष महाप्राज्ञ गाणपत्यपरायण । संतुष्टोऽहं विशेषेण प्रश्नेन च वदामि ते ॥३७॥ गणेशस्यैव मंत्रेण पूजनीया इमे मताः । वस्तुभिर्गाणपत्यैश्च अभवंस्तोषसंयुताः ॥३८॥ स्त्रीपुंभावात्मकं दक्ष नास्ति तत्र विचारतः । गकारः सिद्धिरूपश्च णकारो बुद्धिरुच्यते ॥३९॥ तयोः स्वामी गणेशः स त्रेधारूपधरो बभौ । गणास्तस्य तथा पूज्या गाणपत्यैश्च मंत्रकैः ॥४०॥ गकाराद्विंबभावाख्यो लक्षः पुत्रः प्रकथ्यते । तथा गकाररूपाद्वै लाभस्तौ तन्मयौ
मतौ ॥४१॥ शमीमंदारकौ दक्ष वरदानाद्विशेषतः । गणेशाकाररूपौ तौ भावयेन्नात्र संशयः ॥४२॥ दूर्वां देवीं गणेशस्य मंत्रेणापूजयेन्नरः । अथवा वैदिकैर्मन्त्रैः कांडादिभिः प्रपूजयेत् ॥४३॥ नाममंत्रेण शूद्रस्तान् पूजयेत् सर्वभावतः । एतद्देव रहस्यं ते कथितं सर्वमंजसा ॥४४॥ प्रार्थनां ते प्रवक्ष्यामि शृणु दक्ष महामते । स्नानयुक्तो वनं गत्वाऽथवा पुरे स्वमंदिरे ॥४५॥ यत्र दूर्वा च मंदारः शमी तिष्ठति तत्र सः । गत्वा प्रणम्य तानादौ प्रार्थयेद्भक्तिसंयुतः ॥४६॥ दूर्वेऽन्नब्रह्मरूपे चामृतरूपे शतांकुरे । गणेशप्रीणनार्थाय चिनोमि त्वां क्षमस्व भोः ॥४७॥ शमी सर्वप्रदे देवि गणेशरूपधारिणि । चिनोमि त्वां गणेशस्य प्रीणनाय नमाम्यहम् ॥४८॥ मंदारवाञ्छितार्थस्य दातर्विघ्नेशरूपक । क्षमस्व प्रीणनार्थाय गणेशस्य चिनोम्य- ऽहम् ॥४९॥ एवं प्रार्थ्य प्रजानाथ शमीमंदारकौ पुरा । दूर्वापत्राणि पुष्पाणि विस्रं ह्यानाय्य पूजयेत् ॥५०॥ सहस्रनाममंत्रैश्च अष्टोत्तरशतैर्नरः । एकविंशतिकैश्चैव नामभिस्ताः समर्पयेत् ॥५१॥ अथवा मूलमंत्रेण नाममंत्रेण वा तथा । गाणेशैर्विविधै- र्मंत्रैर्दूर्वादीनि समर्पयेत् ॥५२॥ एतत्ते कथितं सर्वं रहस्यं पावनात्मकम् । गाणपत्यप्रदं पूर्णं किं भूयः श्रोतुमिच्छसि ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते ध्यानंदूर्वादिपूजाविधिवर्णनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मंत्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥१॥ मुद्गल उवाच । कीलकेन विहीनाश्च मंत्रा नैव सुखप्रदाः । आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥२॥ तदा वीर्ययुता मंत्रा नानासिद्धिप्रदायकाः । भवंति नात्र संदेहः कथयामि यथाश्रुतम् ॥३॥ समादिष्टं चांगिरसा मह्यं गुह्यतमं परम् । सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥४॥ अस्य श्रीगणेशकीलकस्य । शिव ऋषिः । अनुष्टुप् छंदः । श्रीगणपतिर्देवता । ॐ गं योगाय स्वाहा । ॐ गं बीजम् । विद्याऽविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः । छंदऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् । एकाक्षरस्यैव दक्ष षडंगानाचरेत् सुधीः ॥५॥ ततो ध्यायेद् गणेशानं ज्योतीरूपधरं परम् । मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥६॥ शुंडादंडमुखं पूर्णं द्रष्टुं नैव प्रशक्यते । विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥७॥
शीर्षक (Header): [L0a] खं. ५ अ. ४५ [L0b] पान १०९
एवं ध्यात्वा गणेशानं मानसैः पूजयेत् पृथक् । पंचोपचारकैर्दक्ष ततो जपं समाचरेत् ॥८॥ एकविंशतिवारं तु जपं कुर्यात् प्रजापते । ततः स्तोत्रं समुच्चार्य पश्चात् सर्वं समाचरेत् ॥९॥ रूपं बलं श्रियं देहि यशो वीर्यं गजानन । मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥१०॥ यदा देवादयः सर्वे कुंठिता दैत्यपैः कृताः । तदा त्वं तान् निहत्य स्म कुरुषे वीर्यसंयुतान् ॥११॥ तथा मंत्रा गणेशान कुंठिताश्च दुरात्मभिः । शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥१२॥ शक्तयः कुंठिताः सर्वाः स्मरणेन त्वया प्रभो । ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥१३॥ चराचरं जगत् सर्वं सत्ताहीनं यदा भवेत् । त्वया सत्तायुतं ढुंढे स्मरणेन कृतं च ते ॥१४॥ तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप । स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥१५॥ ब्रह्माणि योगहीनानि जातानि स्मरणेन ते । यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥१६॥ इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो । सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥१७॥ तथा मंत्रा गणेशान वीर्यहीना बभूविरे । स्मरणेन पुनर्दुंढे वीर्ययुक्तान् कुरुष्व ते ॥१८॥ सर्वं सत्तासमायुक्तं मंत्रपूजादिकं प्रभो । मम नाग्ना भवतु ते वक्रतुंडाय ते नमः ॥१९॥ उत्कीलय महामंत्रान् जपेन स्तोत्रपाठतः । सर्वसिद्धिप्रदा मंत्रा भवंतु त्वत्प्रसादतः ॥२०॥ गणेशाय नमस्तुभ्यं हेरंबायैकदंतिने । स्वानंदवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥२१॥ गणेशकीलकमिदं कथितं ते प्रजापते । शिवप्रोक्तं तु मंत्राणामुत्कीलनकरं परम् ॥२२॥ यः पठिष्यति भावेन जप्त्वा ते मंत्रमुत्तमम् । स सर्वसिद्धिमाप्नोति नानामंत्र- समुद्भवाम् ॥२३॥ एनं त्यक्त्वा गणेशस्य मंत्रं जपति नित्यदा । स सर्वफलहीनश्च जायते नाऽत्र संशयः ॥२४॥ सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् । पुराऽनेन स्वयं शंभुर्मंत्रजां सिद्धिमालभत् ॥२५॥ विष्णुब्रह्मादयो देवा मुनयो योगिनः परे । अनेन मंत्रसिद्धिं ते लेभिरे च प्रजापते ॥२६॥ ऐलः कीलकमाद्यं वै कृत्वा मंत्रपरायणः । गतः स्वानंदपुर्यां स भक्तराजो बभूव ह ॥२७॥ सस्त्रीको जडदेहेन ब्रह्मांडमवलोक्य तु । गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥२८॥ दक्ष उवाच । ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् । ब्रह्मांडं स ददर्शौव तन् मे वद कुतूहलम् ॥२९॥ पुण्यराशिः स्वयं साक्षान्न्ररकादीन् महामते । अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यान् ॥३०॥ मुद्गलवाच । विमानस्थः स्वयं राजा कृपया तान् ददर्श ह । गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥३१॥ स्वानंदगे विमाने ये संस्थितास्ते शुभाशुभे । योगरूपतया सर्वे दक्ष पश्यंति चांजसा ॥३२॥ एतत्ते कथितं सर्वमैलस्य चरितं शुभम् । यः शृणोति स वै मर्त्यो मुक्ति
मुक्तिं लभेत् ध्रुवम् ॥३३॥ खंडं लंबोदरस्यैतद्यः शृणोति नरोत्तमः । पठति ब्रह्मभूतः श्रावयते जायते स्वयम् ॥३४॥ नानेन सदृशं किंचिद्भक्तिमुक्तिप्रदं मतम् । योगरूपो महाभाग यत्र लंबोदरः स्तुतः ॥३५॥ नानाश्रुतिस्मृतीनां यच्छ्रवणेन फलं लभेत् । तदस्यैकस्य खंडस्य श्रवणेन भवेदिह ॥३६॥ नानादानानि ये दद्युस्तीर्थेषु स्नानकारकाः । तेभ्यः शताधिकं पुण्यं लभेदस्य तु संश्रयात् ॥३७॥ व्रतानि यज्ञकान् सर्वान् कुरुते मानवः प्रभो । अस्य श्रवणमात्रेण लभेत् तस्माच्छता- धिकम् ॥३८॥ नानातपांसि सर्वाणि यः करोति नरोऽसकृत् । अस्य श्रवणमात्रेण लभेत् पुण्यमपार कम् ॥३९॥ पुत्रपौत्रादि- संयुक्तो धनधान्यादिभाग्यवान् । श्रवणेन नरः सद्यो भवत्यत्र न संशयः ॥४०॥ यद्यदिच्छति तत्तत्तु सफलं जायते क्षणात् । श्रवणेन प्रजानाथ खंडस्यास्य न संशयः ॥४१॥ बहुनात्र किमुक्तेन साक्षाद्योगप्रदः परः । सर्वसिद्धिप्रदः खंडः कथितस्ते प्रजापते ॥४२॥ इदं लंबोदरस्यैव चरितं सर्वसिद्धिदम् । कथितं ते समासेन किं भूयः श्रोतुमिच्छसि ॥४३॥ सूत उवाच । यथा दक्षाय विप्रेश मुद्गलेन प्रकाशितम् । मया तव तथाग्रेऽपि कथितं भार्गवाग्रणीः ॥४४॥ चरितं शौनकाद्याश्च श्रुतं लंबोदरस्य यत् । धन्योऽहं भवतां योगाद्गणेशचरिते रतः ॥४५॥ विस्तरेण शिवाद्याश्च वेदाद्याः शेषमुख्यकाः । नैव वर्णयितुं शक्ता बभूवुस्तत्र कोप्यहम् ॥४६॥ व्यासेन कथितं सर्वं चरितं यादृशं पुरा । तादृशं कथितं विप्र श्रोतुमिच्छसि किं पुनः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पंचचत्वारिंशत्तमोऽध्यायः ॥ ॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे पंचमः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे षष्ठः खंडः प्रारभ्यते ॥
[शीर्षक/Header] खं. ६ अ. ६ | पान १
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाप्राज्ञ कथितं परमाद्भुतम् । लंबोदरस्य माहात्म्यं तेनाऽहं तृप्तिमागतः ॥१॥ अहो गणेशमाहात्म्यं सर्वसंतोषकारकम् । श्रवणेनैव साक्षात्तु ब्रह्मसायुज्यदायकम् ॥२॥ अधुना वद माहात्म्यं विकटस्य विशेषवित् । सर्वसिद्धिप्रदं पूर्णं सूत योगामृतं परम् ॥३॥ अन्यन् मुद्गलविप्रेण दक्षाय कथितं पुरा । पृष्टं दक्षेण किं तात वद तन्मे प्रविस्तरात् ॥४॥ तव संगेन संतुष्टा वयं सर्वे विशेषतः । भवामः कृतकृत्याश्च कथाश्रवणमात्रतः ॥५॥ सूत उवाच । सम्यक् पृष्टं त्वया विप्र भार्गवाणां शिरोमणे । सारग्राही न संदेहः शौनक त्वं विशेषतः ॥६॥ भवतां प्रीतकामार्थं वदिष्यामि विशेषतः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥७॥ न गणेशात् परं किंचिद् विद्यते वेदवादतः । अल्पपुण्य- युतानां तु न प्रीतिस्तत्र वर्धते ॥८॥ पुरा पृष्टो महायोगी योगं दक्षेण वीप्सता । तदेवाऽहं वदिष्यामि शृणुत ब्राह्मणाः परम् ॥९॥ दक्ष उवाच । धन्यं मे जन्मकर्मादि येन ते दर्शनं प्रभो । प्राप्तं पुण्यवशेनैव परं मुद्गलयोगदम् ॥१०॥ अधुना वद माहात्म्यं विकटस्य विचक्षण । श्रुत्वा लंबोदरस्यैव तृष्णा मे वर्धते मुने ॥११॥ कीदृशोऽयं गणाध्यक्षः कीदृशं ब्रह्म तस्य वै । केन योगेन लभ्यश्च कति तस्यावताराकाः ॥१२॥ किं विहारः किमर्थं स भूमौ देवः समागतः । कान् दैत्यान् हतवान् विप्र कथं देवैश्च संस्तुतः ॥१३॥ इत्यादि विविधं तस्य चेष्टितं वद मानद । भवादृशा महाभागाः परोपकृतिकारकाः ॥१४॥ संसाराब्धौ निमग्नानां नौकारूपा मता बुधैः । भवन्तो नात्र संदेहस्तारयस्वाधुना च माम् ॥१५॥ सूत उवाच । दक्षस्य विनयेनैवं भावेन तोषसंयुतः । मुद्गलस्तमथोवाच परं तच्छृणु सौख्यदम् ॥१६॥ मुद्गल उवाच । धन्योऽसि दक्ष येन त्वं गणनाथकथां मुहुः । प्रश्नेन भक्तिसंयुक्तो वर्धयसि सुसारवित् ॥१७॥ साक्षाद्ब्रह्मसुतस्तत्र चित्रं किं भवति त्वयि । भावेन ते प्रसन्नोऽहं वदिष्यामि हितावहम् ॥१८॥ विकटस्य च माहात्म्यं ब्रह्मभूतकरं परम् । सर्वसिद्धिप्रदं तुभ्यं कथयामि समासतः ॥१९॥ अत्रेतिहासं मुख्यं वै विधे शृणु पुरा भवम् । कथयामि विचित्रं ते विकटाख्यानसंयुक्तम् ॥२०॥ आदिमाया महाशक्तिः शक्तिलोके निरामये । संस्थिता सेव्यमाना सा देवीभिः सेश्वरात्मभिः ॥२१॥ एकदा पूजने सक्तां नियमस्थां विशेषतः । गणेशानस्य तां दृष्ट्वा पप्रच्छुः शक्तयः पराः ॥२२॥ महाकाली प्रजानाथ महालक्ष्मीस्तथैव च । महासरस्वती देव्योऽन्याश्च नानाविधा मताः ॥२३॥ महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः । त्वं साक्षात् सर्वरूपाऽसि जगद्ब्रह्मप्रकाशिनी । त्वदीयध्यानयोगेन ब्रह्मभूता भवंति च ॥२४॥ धर्मार्थकाममोक्षाणां दात्री त्वं कथिता बुधैः । वेदेषु सर्वशक्तीनां मूलभूता त्वमंजसा ॥२५॥
खं. ६ अ. १ पान २
ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति । ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे ॥२६॥ कर्मणां फलदात्री त्वं तपसां ज्ञान- धारिणाम् । त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः ॥२७॥ त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परम् । ध्यानयुक्ता पूजयसि तं ध्यायसि किमर्थतः ॥२८॥ सदा नामावलिं तस्य वदसि जगदंबिके । अमार्थं सर्वजंतूनां गुह्यगोपनकारणात् ॥२९॥ सर्व- सत्ताधरी देवी त्वमेवात्र न संशयः । अस्मान् मोहयुतान् शक्ते किमर्थं कुरुषे वद ॥३०॥ लज्जां त्यक्त्वा त्वदीयाश्चाधुना पृच्छामहे वयम् । नित्यं दृष्ट्वा प्रसक्षुब्धा भवामः परमाद्भुते ॥३१॥ दास्यस्त्वदीयपादस्य नान्यत्त्वत्तः परं कदा । वेदमार्गेण सर्वेशि जानीमो वद सांप्रतम् ॥३२॥ मुद्गल उवाच । तिसृभिः शक्तिमुख्याभिः पृष्टा सा शक्तिरुत्तमा । स्नेहेन ता जगादाथ रहस्यं शृणु मुख्यकम् ॥३३॥ आदिशक्तिरुवाच । शृणुध्वं शक्तयः सर्वा रहस्यं मे हृदि स्थितम् । सर्वसिद्धिप्रदं पूर्णं त्रययाद्याः परमाद्भुतम् ॥३४॥ यथावदथ कल्याण्यस्तथाऽहं सर्वगा यतः । गणेशस्यांशरूपत्वादङ्गभावसमाश्रिता ॥३५॥ पुरा वयं समुत्पन्ना- श्चत्वारो देवमुख्यकाः । शंभुर्विष्णुरविर्देवो गणेशानादहं किल ॥३६॥ नामरूपात्मकं सर्वं मत्तो ब्रह्म भवात्मकम् । तत्राऽहं ब्रह्मभूतत्वात् संस्थिता नात्र संशयः ॥३७॥ नामरूपात्मकस्यापि नाशोत्पत्ती प्रकीर्तिते । तत्र स्थितमतो ब्रह्माऽसत्त्वानंदमयं मतम् ॥३८॥ उत्पत्तिनाशभूतेषु तदाधारं सदात्मकम् । सूर्यस्तदेव देव्यस्तु ब्रह्म सत्यात्मकं परम् ॥३९॥ असत्सन्मयरूपश्च विष्णुः साम्ये व्यवस्थितः । नेतिरूपः शिवस्तत्र चतुर्थः कथ्यते परः ॥४०॥ चतुर्णां चैव संयोगे स्वानंदः पंचमः स्मृतः । स्वसंवेद्येन योगेन लभ्यते योगसेवया ॥४१॥ अयोगः पंचभिर्हीनो व्यतिरेकप्रभावतः । संयोगाऽयोगयोर्योगे गाणेशो योग उच्यते ॥४२॥ पंचधा चित्तवृत्तीनां चालकस्तेन कथ्यते । चिंतामणिः सदा देव्यः पश्यध्वं योगमार्गतः ॥४३॥ मायारूपा स्वयं सिद्धिर्भ्रांतिदा विविधा सदा । भ्रांतिधारकरूपा सा बुद्धिः शास्त्रेषु कथ्यते ॥४४॥ तयोः स्वामी गणेशानः स्वानंदनगरे स्थितः । योगशांतिमयः साक्षाल्लक्षलाभपिता हृदि ॥४५॥ संयोगश्च गकाराख्यो ह्ययोगश्च णकारकः । तयोः स्वामी गणाधीशो वयं तस्य कलात्मिकाः ॥४६॥ अतस्तं भक्तिसंयुक्ता भजाम्यत्र न संशयः । न मोहार्थं महादेव्यो गुह्यं गोपयितुं च न ॥४७॥ एतत् सर्वं समाख्यातं मदीयनियमात्मकम् । चित्ते चिंतामणिं देव्यो ध्यायामि भक्तिसंयुता ॥४८॥ काममोहितचित्तानां न प्रत्यक्षो गजाननः । भवते भावहीनानां भजतामपि सर्वदा ॥४९॥ अज्ञानावरणैर्युक्ता मां वदंति परात्पराम् । गणास्तस्य वयं सर्वे शंभुविष्णुमुखाः किल ॥५०॥ गजो निर्गुणरूपाख्यस्तदेवाननमुच्यते । कंठाधः सगुणं
खं. ६ अ. २ पान ३ ब्रह्म तयोर्योगे स देहभृत् ॥५१॥ इत्युक्त्वा विररामाथ शक्तिः स्वानंदवासिनी । असत्पात्री प्रजानाथ विस्मितास्ता बभूविरे ॥५२॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। महाकालीमुखा देव्यः श्रुत्वा योगं पुरातनम् । विस्मितास्ताः पुनः सर्वा वच ऊचुः प्रहर्षिताः ॥१॥ शक्तय ऊचुः। महामाये त्वया प्रोक्तं सर्वसंशयनाशनम् । श्रुत्वा वयं गणेशस्य योगं ज्ञानयुताः कृताः ॥२॥ काममोहितचित्तानां न प्रत्यक्षो भवेत् कदा । गणेशानस्त्वया प्रोक्तो जन्मकोटिशतैरपि ॥३॥ गणेशप्राप्तिहीना ये जंतवश्चेश्वरास्तथा। जन्म तेषां विशेषेण निष्फलं संमतं बुधैः ॥४॥ अहो ज्ञानयुतं देहं प्राप्य सर्वार्थदायकम् । सर्वदं गणनांथं ये न भजंतेऽतिगूढकाः ॥५॥ रासभादिसमा देवि ज्ञातव्या ज्ञानवर्जिताः । कामयुक्तस्वभावेन त्यजंति गणनायकम् ॥६॥ कामस्य चरितं शक्ते वद विस्तरतः परम् । कामनाशकरं चापि येन ढुंढिः प्रलभ्यते ॥७॥ त्वमस्माकं परा काष्ठा गुरुरूपेण संस्थिता। देहि विघ्नेश्वरं मातर्भजिष्यामोऽखिलाः प्रभुम् ॥८॥ आदिशक्तिरुवाच। गणनाथावतारस्य तस्योपासनमात्रतः। विकटस्य स्वयं कामः खलो नश्यति तत्क्षणात् ॥९॥ अत्र वोऽहं पुरा जातमितिहासं वदामि हि । येन कामव्यथाहीना भविष्यंति जनाः सदा ॥१०॥ कैलासे गिरिवर्ये तु शंकरः स्वेच्छयैकदा । पार्वतीमोहनार्थाय भीमरूपधरोऽभवत् ॥११॥ अदृष्ट्वा शंकरं साऽपि शोकयुक्ता बभूव ह । एतस्मिन्नंतरे तत्रेंद्रस्तं द्रष्टुं समाययौ ॥१२॥ मघवोऽग्रस्वरूपास्यं दृष्ट्वा कैलासनायकम्। राक्षसं तं विदित्वा स क्रोधयुक्तो बभूव ह ॥१३॥ वज्रं तत्याज तं हंतुं महेंद्रः सहसा परम् । शिवदेहं समासाद्य निष्फलं तद्वभूव ह ॥१४॥ ततः क्रोधसमायुक्तः शंकरोऽग्निं समासृजत् । तृतीयं नेत्रमुद्घाट्य दग्धुं देवपतिं स्वयम् ॥१५॥ सहसाऽग्निं स दृष्ट्वा तु तं सस्मार बृहस्पतिम् । स ज्ञात्वा तत्क्षणं गत्वा प्रणनाम महेश्वरम् ॥१६॥ प्रसाद्य गिरिजानाथमिंद्रं भयसमाकुलम् । अग्निना त्यक्तमानम्यं तत्पादस्थं चकार ह ॥१७॥ इंद्रस्तं
विविधैः स्तोत्रैः प्रभुं स्तुत्वा क्षमापयत् । अज्ञानजं महेशानोऽपराधं तस्य चाक्षमत् ॥१८॥ ततः शिवं समागत्याग्निस्तदंश- समुद्भवः । प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर ॥१९॥ त्वदाज्ञया महादेव त्यक्त्वा देवपतिं खलम् । समागतं महेशान कार्यमाज्ञापयोत्तमम् ॥२०॥ निःसृतोऽहं त्वदंशाद्वै न भविष्यामि निष्फलः । सर्वं ब्रह्मांडमथ वा ग्रसिष्यामि त्वदाज्ञया ॥२१॥ अग्नेस्तद्वचनं श्रुत्वा शंकरस्तमुवाच ह । पतस्व त्वं समुद्रे वै मत्पुत्रो राक्षसाकृतिः ॥२२॥ सर्वैरवध्यभावेन भविष्यसि महाबलः । त्रैलोक्याधिपतिर्भूत्वा धर्मलोपं करिष्यसि ॥२३॥ वृंदा धर्मध्वजस्यैव पत्नी तव भविष्यति । पुत्री सती गणेशेन शप्ता चापत्यदर्शनात् ॥२४॥ तां पातिव्रत्यहीनां वै करिष्यति जनार्दनः । तदा मच्चक्रपातेन मरिष्यसि न संशयः ॥२५॥ ततो मद्देहगो भूत्वा मद्रूपस्त्वं भविष्यसि । राक्षसाकृतिरूपाद्वै जातस्तस्मात्तथा भव ॥२६॥ एवमुक्त्वा महादेवस्तं प्रचिक्षेप शक्तयः । जलधौ तत्र घोषश्च बभूव भयदायकः ॥२७॥ ततस्तत्र समुद्भूतो बालकस्तेजसा युतः । तद्बीजाद्ब्रह्मणाऽऽगत्य कृतो नाम्ना जलंधरः ॥२८॥ तस्य मौंज्यादिकं कर्म चकार जलधिः स्वयम् । कालनेम्यादयो दैत्या बभूवुस्तस्य पार्श्वगाः ॥२९॥ शिवस्य वरदानेन जिग्ये ब्रह्मांडमंडलम् । जलंधरस्ततो देवा वनवासं प्रचक्रिरे ॥३०॥ वने तपःस्थितां वृंदां दानवोऽपि ददर्श सः । उपयेमे कदा तां च गांधर्वेणैव शक्तयः ॥३१॥ तया रेमे सदा दैत्यो मोहितो मायया भृशम् । न बुबोध गतं कालं साऽपि तद्गतमानसा ॥३२॥ ततः कर्मविहीनं तु चकार स धरातलम् । उपोषणेन संयुक्ता देवादयो बभूविरे ॥३३॥ कदाचिन्नारदस्तत्र जगामासुरनायकम् । तेन संपूजितो योगी तं जगाद जलंधरम् ॥३४॥ नारद उवाच । धन्योऽसि जलधेः पुत्र सर्वरत्नविलासकृत् । तथापि शृणु दैत्येश स्त्रीरत्नं नास्ति ते गृहे ॥३५॥ पार्वत्या न समं कुत्र वर्तते सा विशेषतः । रत्नभूता न संदेहः शंकरेणानुभाविता ॥३६॥ एवमुक्त्वा महायोगी नारदोऽन्तर्दधे स्वयम् । सोऽपि श्रुत्वा विशेषेण कामबाणार्दितोऽभवत् ॥३७॥ दूतः संप्रेषितस्तेन शंकरं स समागतः । जगाद तं निशुंभश्च महादेवं महाखलः ॥३८॥ निशुंभ उवाच । शिवस्त्वं नग्नताचैश्च चिह्नैर्युक्तो न ते प्रभो । पार्वती रत्नभूता सा योग्या भवति सर्वदा ॥३९॥ ब्रह्मांडाधिपतिः साक्षात् सर्वश्रिया युतोऽधुना । जलंधरश्च तस्मै त्वं देहि शैलसुतां प्रभो ॥४०॥ प्रतापवान् क्रोधसमायुक्तो नो चेत् जलंधरः । हत्वा त्वां तां बलात् सोऽपि ग्रहीष्यति न संशयः ॥४१॥ वचस्तस्य समाकर्ण्य क्रोधयुक्तः सदाशिवः । शूलं धृत्वा निशुंभं तं हंतुं देवः प्रचक्रमे ॥४२॥ ततो भयसमायुक्तो माययाऽसुरनायकः । पपालाऽऽगत्य वृत्तांतं
खं. ६ अ. २ पान ५ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ कथयामास संसदि ॥४३॥ निशुंभभाषितं श्रुत्वा ततः क्रोधसमायुतः । जलंधरो ययौ तेन युद्धार्थं सैन्यसंयुतः ॥४४॥ तमागतं समालोक्य महादेवः प्रतापवान् । विष्णुमुख्यैः स युद्धाय ययौ दैत्याधिपेन च ॥४५॥ देवानां दानवानां च युद्धं परमदारुणम् । अभूद्वर्णयितुं देव्यः शक्यते न कदाचन ॥४६॥ वर्षमात्रं महाघोरं ततो दैत्यो महेश्वरम् । मायया मोह्य संगृह्य तं चिक्षेप गुहांतरे ॥४७॥ कालनेमिमुखांस्तत्रास्थाप्य संग्राममंडले । जगाम पार्वतीं दैत्यो मायया शंकराकृतिः ॥४८॥ तमागतं समालोक्य ज्ञानदृष्ट्या महासती । बुबोध विह्वलांगं चांतर्धानमकरोत् स्वयम् ॥४९॥ सा सस्मार महाविष्णुं गत्वा हिमगिरिं तदा । समागतं विलोक्यैव वृत्तांतं सर्वमब्रवीत् ॥५०॥ श्रुत्वा तां सांत्वयामास केशवः परवीरहा । जलंधरस्वरूपेण वृंदां मोहयितुं ययौ ॥५१॥ जलंधराकृतिस्थं तं दृष्ट्वा विष्णुं बुबोध सा । शशाप त्वं महाविष्णो भव शैलाकृतेर्धरः ॥५२॥ ततोऽतिभयसंयुक्तो विष्णुः शापसमन्वितः । सिद्धक्षेत्रे समागम्य पूजयामास विघ्नपम् ॥५३॥ गुहायां शंकरश्चैव सावधानो बभूव ह । ध्यानेनैव महोग्रेण तोषयामास विघ्नपम् ॥५४॥ वरदानप्रसिद्ध्यर्थमाययौ तं गणेश्वरः । तं दृष्ट्वा शंकरश्चादौ प्रणतो भक्तिसंयुतः ॥५५॥ तुष्टाव विविधैः स्तोत्रैर्गणेशं सर्वसिद्धिदम् । कथयामास वृत्तांतं प्रणम्य करसंपुटैः ॥५६॥ ततः स्वहस्तगं ढुंढिर्ददौ तस्मै महात्मने । चक्रं सुदर्शनं नाम्ना तं जगाद सदाशिवम् ॥५७॥ मां स्मृत्वा युद्धकाले तं चक्रेण जहि दानवम् । रक्ष सर्वान् महादेव विजयी प्रभविष्यसि ॥५८॥ एवमुक्त्वा गणेशानोऽंतर्दधे शंकरस्ततः । चक्रं गृह्य गुहायाः स निर्जगाम बहिः स्वयम् ॥५९॥ दंडकारण्यदेशे तु विष्णुर्विघ्नेश्वरं गतः । तस्मै प्रत्यक्ष- भावेन वरं ददौ गणेश्वरः ॥६०॥ श्रीगणेश उवाच । मा चिंतां कुरु विष्णो त्वं मामस्मृत्वा गतः पुरा । तेन शापयुतो जातोऽधुना शरणमागतः ॥६१॥ अत्रैव तपसा तेऽहं वरदश्च पुराऽभवम् । तेन ते वै सहाम्यद्यापराधं माधवाधुना ॥६२॥ कलया त्वं शिलासंस्थो भविष्यसि न संशयः । पूर्णरूपेण देवेशः स्वस्याकृतिधरो भव ॥६३॥ नरास्त्वां पूजयिष्यंति शिलारूपधरं प्रभुम् । तत्र देवस्वरूपेण तिष्ठस्यत्र न संशयः ॥६४॥ पुनर्मां हृदि संध्याय जलंधरस्वरूपधृक् । वृंदां गच्छ महाविष्णो सा तेऽधीना भविष्यति ॥६५॥ एवमुक्त्वा गणेशानोऽंतर्दधे भक्तवत्सलः । विष्णुर्जलंधरो भूत्वा ययौ वृंदां तु शक्तयः ॥६६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः ॥ ❧★☙
पान ६
॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । जलंधरस्वरूपेण आगतं तं जनार्दनम् । नानावीरसमायुक्तं तादृशैः सेवकैर्वृतम् ॥१॥ नागरा मानयामासुरन्ये सर्वे सुहृज्जनाः । जित्वा महेश्वरं देवं तं समागतमब्रुवन् ॥२॥ ततो गणेशमायाभिर्मोहिता तं समीपगा । वृंदा हर्षसमायुक्ता पुपूज परमेश्वरम् ॥३॥ मोहितः केशवो देव्यस्तां दृष्ट्वा गुणसंयुताम् । रूपेणाप्रतिमां पूर्णयौवनेन विराजिताम् ॥४॥ एकांते स तया सार्धं रेमे नारायणः स्वयम् । साऽपि स्नेहसमायुक्ता रेमे तेन सुविह्वला ॥५॥ अधुना शंकरस्यैव वृत्तांतं कथयाम्यहम् । शृणुध्वं शक्तयः सर्वा गणेशमायया युतम् ॥६॥ शंकरः क्रोधसंयुक्तो युयुधे तेन वैरिणा । चक्रेण छेदयामास दैत्यानां बलमुत्कटम् ॥७॥ जलंधरः स्वयं तेन युयुधे मायया युतः । राक्षस्या देवता दैत्या युयुधुश्च परस्परम् ॥८॥ वृंदया सह विष्णुश्च रेमे तत्र मुदा युतः । जलंधरः स चक्रेण तस्मिन् काले हतोऽभवत् ॥९॥ ततस्ते देवविप्रेंद्रास्तुष्टुवुः शंकरं परम् । तैः सार्धमगमत् सोऽपि कैलासं पर्वतेश्वरम् ॥१०॥ ततश्च धर्मसंयुक्ता बभूवु- र्मानवा ध्रुवम् । विश्वमानंदसंयुक्तं बभूव स्वस्वकर्मतः ॥११॥ नित्यं विष्णुस्तया सार्धं क्रीडायुक्तो बभूव ह । समागतास्तत्र दैत्याः शशंसुश्चेष्टितं महत् ॥१२॥ प्रतापवान् शंकरेण हतो दैत्यो जलंधरः । तच्छ्रुत्वा विस्मिताः सर्वे कोऽयं क्रीडति वृंदया ॥१३॥ ततोऽंतर्धाय चात्मानं स्वयं विष्णुः समास्थितः । वृंदा देहं समाज्वाल्य ययौ स्वर्गमनुत्तमम् ॥१४॥ तां दृष्ट्वा मोहसंयुक्तो विष्णुस्तत्र रुरोद ह । स्मृत्वा वृंदाचरित्राणि मोहितो मायया भृशम् ॥१५॥ वृंदाचितां समाश्रित्य विललाप जनार्दनः । दैत्याः पातालगाः सर्वे बभूवुर्भयसंयुताः ॥१६॥ देवैः संबोधितो विष्णुर्मुनिभिर्न बुबोध सः । रुरोद काम- बाणार्तस्तां स्मृत्वा दारुणं महत् ॥१७॥ ततस्तस्य महाविष्णोः कामबाणार्दितस्य च । वीर्यं पपात भूपृष्ठेऽमोघं तेजोयुतं बभौ ॥१८॥ तस्माच्च पुरुषो जज्ञे कामरूपातिगो बभौ । विचचार महीपृष्ठे विष्णुस्तत्र समास्थितः ॥१९॥ ततो देवैश्च सा वृंदा प्रार्थिता मुनिभिर्भृशम् । विष्णोः पत्नी भवाशु त्वं तपसाऽऽराधितस्य ते ॥२०॥ सा तथेति समुच्चार्य वृक्षरूपा बभूव ह । विष्णुः शिलास्वरूपेणोपयेमे तां शुभावहाम् ॥२१॥ कार्तिके शुक्लपक्षे च द्वादश्यां सा जनार्दनम् । उपयेमे महादेव्यस्तेन संहर्षितोऽभवत् ॥२२॥ तां गृह्य केशवो देवो विकुंठमगमत् स्वयम् । सर्वे हर्षसमायुक्ता बभूवुरमरादयः ॥२३॥ एवं कामः समुत्पन्नो महातेजोयुतः स्वयम् । बभ्राम वनसंस्थः स तत्र शुक्रः समाययौ ॥२४॥ शिवपंचाक्षरं मंत्रं ददौ तस्मै महात्मने । स गत्वा तं प्रणम्यैव वनं तपश्चचार ह ॥२५॥ तपसोग्रेण शंभुं स तोषयामास नित्यदा । निराहारेण नित्यं जजाप
यहाँ पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. ६ अ. ३ पान ७ तं मंत्रमुत्तमम् ॥२६॥ एवं तस्योग्रतपसा विश्रांताः सुरमानुषाः । दिव्यवर्षसहस्रेण स्थातुं शक्ता न तेऽभवन् ॥२७॥ ततो देवैर्महेशानः प्रार्थितस्तं ययौ मुदा । बोधयामाय दैत्येशं वरं ब्रूहि समब्रवीत् ॥२८॥ ततः स शंकरं दृष्ट्वा प्रणनाम कृतांजलिः । समुत्थाय पुपूजाऽसौ तुष्टुवे भक्तिसंयुक्तः ॥२९॥ यजुर्वेदभवेनैव रौद्रस्तोत्रेण शंकरम् । कामासुरः प्रसन्नात्मा तोषयामास भावतः ॥३०॥ संतुष्टं शंकरं दृष्ट्वा तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रः स वरदं भक्तवत्सलम् ॥३१॥ कामासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि महेश्वर । तव भक्तिं च मे देहि राज्यं ब्रह्मांडकस्य वै ॥३२॥ उत्पत्तिस्थिति- संहारयुतास्तेभ्यो भयं न मे । संभवेत्तादृशं नाथ कुरुष्व बलसंयुक्तम् ॥३३॥ उत्पत्तिस्थितिसंहारकारका ये महेश्वराः । तेभ्यो मे मरणं नैव भवेद्देव तथा कुरु ॥३४॥ आरोग्यादिसमायुक्तं संग्रामे जयशालिनम् । कुरु मां देवदेवेश सर्वातिगं प्रभावतः ॥३५॥ यद्यदिच्छामि तत्तन् मे सफलं त्वदनुग्रहात् । सर्वकालेषु भवतु नमस्ते परमेश्वर ॥३६॥ शक्तिरुवाच । कामासुरस्य वाक्यं वै श्रुत्वा विस्मितमानसः । शंकरस्तमथोवाच तपसा बद्धभावतः ॥३७॥ शिव उवाच । दुर्लभं यत्त्वया काम प्रार्थितं देवदुःखदम् । दास्यामि तपसा तुष्टो महोग्रेणासुरोत्तम ॥३८॥ त्वया ये ये वराः सर्वे प्रार्थितास्ते महासुर । सफलाः संतु मद्वाक्यात्त्वं श्रेष्ठश्च भविष्यसि ॥३९॥ एवमुक्त्वा महादैत्यमंतर्धानमथाऽकरोत् । शिवः सोऽपि महादेव्यो- ऽभवत्तत्रैव संस्थितः ॥४०॥ हर्षेण महता युक्तो जगाम शरणं स्वयम् । शुक्रं सर्वविचारज्ञं स्वगुरुं प्रणनाम ह ॥४१॥ कथयामास वृत्तांतं सोऽपि संहर्षितोऽभवत् । श्रुत्वा योगींद्रमुख्यश्च दैत्याचार्यो महायशाः ॥४२॥ महिषासुरपुत्रीं स उपयेमे वरोद्धतः । तृष्णां रूपयुतां पूर्णगुणयुक्तां च तादृशीम् ॥४३॥ ततो दैत्यगणान् सर्वान् समागतान् दिगंततः । दैत्येशांस्तान् पुरस्कृत्य शुक्रस्तं ह्यभ्यषेचयत् ॥४४॥ वेदमंत्रैर्महाभागो ब्राह्मणैर्विधिसंयुतः । कामासुरोऽभवद्राजश्रिया हृष्टो विलासवान् ॥४५॥ पंच तस्य प्रधानानि बभूवुश्च महौजसः । रावणः शंबरश्चैव महिषो बलिदुर्मदौ ॥४६॥ नगरं निर्ममे भूमौ सर्वशोभासमन्वितम् । रतिदं नाम तस्यापि चकारोशनसेरितः ॥४७॥ तत्र जग्मुश्च वासार्थं दैत्यदानवराक्षसाः । चातुर्वर्ण्यसमायुक्तं शुशुभे शोभया परम् ॥४८॥ ॥ ओमिति मदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥