मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
३२ मुद्राराक्षसम्
मौर्यलक्ष्मी स्थिरपदा कृता, कोपप्रीत्यो द्वयो सारम् द्वितयम् फलम् अभियुक्तेन
मनसा द्विषति च सुहृदि च तुल्य विभक्तम् ॥१३॥
व्याख्या—भुव—पृथिव्या, हृदयरोगा इव—हृदयस्य रोगा व्याधय इव, नव—एतत्संख्यका, नन्दा—सर्वार्थसिद्धे नवपुत्रा अथवा अष्टपुत्रसमेतो नन्द, समुत्खाता—समूलमुन्मूलिता, सरसि—सरोवरे, नलिनी इव—कमलिनी इव, मौर्ये—चन्द्रगुप्ते, लक्ष्मी—राज्यश्री, स्थिरपदा—निश्चलस्थिति, कृता—विहिता, कोपप्रीत्यो—कोप अवज्ञाजनित क्रोध प्रीति सेवाजनित प्रसाद तयो, द्वयो—उभयो, सारम्—न्याय्यम्, द्वितय—द्विविध, फलम्—परिणामम्, अभियुक्तेन—निविष्टेन, मनसा—चेतसा, द्विषति च—शत्रौ च, सुहृदि च मित्रे च, तुल्य—समान, विभक्तम्—विभज्य स्थापितम् ॥१३॥
हिन्दी अनुवाद—सो मैं इस समय प्रतिज्ञा के बोझ को उतार चुकने पर भी चन्द्रगुप्त के लिए शस्त्र धारण कर रहा हूँ। जिस मैंने—
पृथ्वी के हृदय-रोग के समान नौ नन्दों को उखाड़ फेंका है, सरोवर में कमलिनी की भांति चन्द्रगुप्त में राज्यलक्ष्मी को अचल कर डाला है और (इस प्रकार) क्रोध और प्रसन्नता दोनों के दो प्रकार के न्यायोचित फल (निग्रह और अनुग्रह) को पूरे मनोयोग से शत्रु (नन्द) और मित्र (चन्द्रगुप्त) में बांट दिया है ॥१३॥
टिप्पणी—अवसितप्रतिज्ञाभर—प्रतिज्ञा के कष्ट से निवृत्त हो चुकने वाला। अव √सो + क्त कर्मणि = अवसित। वृषलापेक्षया—चन्द्रगुप्त के अनुरोध से। अत्र हेतौ तृतीया। शस्त्र धारयामि—शस्त्र (वेत्रयष्टि या तलवार) धारण करता हूँ। यह इसलिए कहा गया है कि चाणक्य उस समय चन्द्रगुप्त के प्रधान मन्त्री थे और युद्ध के अवसर पर प्रधान मन्त्री को सेनापतित्व का भार भी संभालना पड़ता था। हृदयरोगा—हृदय के रोग या शूल। हृदयस्य रोगा हृदयरोगा। 'वा शोकष्यञ्रोगेषु' इस सूत्र से विकल्प से हृदय को हृद् आदेश होने के कारण 'हृद्रोगा' और 'हृदयरोगा', दोनों रूप साधु हैं। द्वितयम्—दो प्रकार का। द्वौ अवयवौ अस्य इति द्वि + तयप्। इस पद्य में उत्प्रेक्षा अलङ्कार, उपमा अलङ्कार और यथासंख्य अलङ्कार की संसृष्टि है और शिखरिणी छन्द है। इसका लक्षण यह है—'रसै रुद्रैश्छिन्ना यमनसभलागः शिखरिणी' ॥१३॥
प्रथमोऽङ्कः । ३३
अथवा, अगृहीते राक्षसे किमुत्खातं नन्दवंशस्य, किं वा स्थैर्यमुत्पादितं चन्द्रगुप्तलक्ष्म्याः [ विचिन्त्य ] अहो ! राक्षसस्य नन्दवंशे निरतिशयो भक्तिगुणः । स खलु कस्मिंश्चिदपि जीवति नन्दान्वयावयवे वृषलस्य साचिव्यं ग्राहयितुं न शक्यते । तदभियोगं प्रति निरुद्योगः शक्यः अवस्थापयितुमस्माभिः इति अनयैव बुद्ध्या तपोवनं गतोऽपि घातितस्तपस्वी नन्दवंशीयः सर्वार्थसिद्धिः । यावदसौ मलयकेतुमङ्गीकृत्य अस्मदुच्छेदाय विपुलतरं प्रयत्नम् उपदर्शयत्येव । [प्रत्यक्षवदाकाशे लक्ष्यं बद्ध्वा] साधु, अमात्य राक्षस ! साधु । साधु, श्रोत्रिय ! साधु । साधु, मन्त्रिवृहस्पते ! साधु ! कुतः—
व्याख्या—अथवा—पक्षान्तरे, अगृहीते—अवशीकृते, राक्षसे—नन्दामात्ये, नन्दवंशस्य—नन्दकुलस्य, किम्, उत्खातम्—उन्मूलितम् न किञ्चिदपीत्यर्थः, वा—अथवा, चन्द्रगुप्तलक्ष्म्याः—वृषलराज्यश्रियः, किम्, स्थैर्यं—स्थिरता, उत्पादितं—जनितं न किमपीत्यर्थः । विचिन्त्य—विचार्य, अहो—आश्चर्य, राक्षसस्य, नन्दवंशे, निरतिशयः—अत्यधिकः, भक्तिगुणः—भक्तिरूपो गुणः (अस्ति) । सः—राक्षसः, खलु—निश्चितं, कस्मिंश्चिदपि—नगण्येऽपि, नन्दान्वयावयवे नन्दान्वयस्य नन्दवंशस्य अवयवे अंशे, जीवति—प्राणधारणं कुर्वति (सति), वृषलस्य, साचिव्यम्—अमात्यत्वम्, ग्राहयितु, कारयितु, न शक्यते—न क्षम्यते । तदभियोगं प्रति—तस्य नन्दान्वयावयवम्य अभियोगं प्रति प्रतिष्ठापनाभिमानं प्रति, निरुद्योगः—उद्यमहीनः, अवस्थापयितुम्—आसयितुम्, अस्माभिः शक्यः, इति अनयैव बुद्ध्या—एवमेव मत्वा, नन्दवंशीयः—नन्दकुलोत्पन्नः, तपस्वी—वराकः, सर्वार्थसिद्धिः, तपोवनं गतोऽपि—तपस्यार्थमरण्यं यातोऽपि, घातितः—नाशितः । यावत्—पक्षान्तरे, असौ—राक्षसः, मलयकेतुम्, अङ्गीकृत्य—स्वीकृत्य, अस्मदुच्छेदाय—अस्माकमुन्मूलनाय, विपुलतरम्—अत्यन्तम्, प्रयत्नम्—उद्योगम्, उपदर्शयत्येव—प्रकटयत्येव । प्रत्यक्षवत्—दृष्टिगोचरे वस्तुनि इव, आकाशे—गगने, लक्ष्यं बद्ध्वा—दृष्टिं विधाय, साधु अमात्य राक्षस, साधु—श्लाघनीयमेतत् कार्यं ते, साधु, श्रोत्रिय—सुब्राह्मण, साधु—सुन्दरमेतत्ते । साधु, मन्त्रिवृहस्पते—बृहस्पतितुल्य-मन्त्रिन्, साधु—शोभनमेतत्ते कुतः—यतो हि—
हिन्दी अनुवाद—अथवा राक्षस को वश में किये बिना मैंने नन्दवंश का
मु० रा०—३
| ३४ | मुद्राराक्षसम् |
|---|
क्या उच्छेद किया ? और क्या चन्द्रगुप्त की राजलक्ष्मी को स्थिर कर लिया ? [सोचकर] ओह ! नन्दवंश के प्रति राक्षस का भक्तिरूप गुण महान् है। वह नन्दवंश के किसी भी अंश (व्यक्ति) के जीवित रहते चन्द्रगुप्त का मन्त्री नहीं बनाया जा सकता और (इसलिए) नन्दवंश के अंश को राज्य पर प्रतिष्ठित करने के प्रति उसे उद्यमहीन बनाने के विचार से ही हमने बेचारे नन्दवंशी सर्वार्थसिद्धि को तपोवन में चले जाने पर भी मरवा डाला। किन्तु तब भी यह मलयकेतु का सहारा लेकर हमारी जड़ खोदने के लिए अधिक से अधिक प्रयत्न दिखा ही रहा है। [ प्रत्यक्ष के समान आकाश में दृष्टि बांधकर अर्थात् मानो शून्य में राक्षस को ही एकटक देखते हुए ] धन्य हो अमात्य राक्षस, (तुम) धन्य हो। धन्य हो द्विजवर ! धन्य हो। बृहस्पति-तुल्य मन्त्री ! धन्य हो। क्योंकि—
टिप्पणी—अगृहीते—वशीभूत किये गये बिना। यह 'राक्षस' का विशेषण है, जिसमें 'यस्य च भावेन भावलक्षणम्' से सप्तमी हुई है। राक्षस को वश में करना ही चाणक्य का लक्ष्य है और यही इस नाटक का मुख्य उद्देश्य है।
उत्खातम्—उन्मूलन किया। उत् √खन् + क्त कर्मणि। स ग्राहयितु शक्यते—यह कर्मवाच्य का प्रयोग है। कर्तृवाच्य में होगा—'तं ग्राहयितु शक्नोमि'।
तपस्वी—बेचारा। यावत्—पक्षान्तर। 'यावत् साकल्यऽवधारणे' इत्युपक्रम्य 'पक्षान्तरे च' इति मेदिनी। यहाँ एक पक्ष तो है सर्वार्थसिद्धि के मरवा डालने पर राक्षस को चन्द्रगुप्त के विरोध करने से विरत किया जा सकता है और दूसरा पक्ष है सर्वार्थसिद्धि के मरवा डालने पर भी राक्षस विरोध कर ही रहा है।
अस्मदुच्छेदाय—हमारे विनाश के लिए। अस्माकम् उच्छेद अस्मदुच्छेद , तस्मै। तादर्थ्ये चतुर्थी। अमात्य—मन्त्री। अमा = सह वसति इत्यर्थे अमा + त्यप् = अमात्य । सम्बोधने अमात्य इति। श्रोत्रिय—वेदविद्यासम्पन्नब्राह्मण। इसका लक्षण यह है—'जन्मना ब्राह्मणो ज्ञेयः संस्कारै द्विज उच्यते। विद्यया याति विप्रत्वं त्रिभि श्रोत्रिय उच्यते।' छन्द अधीते इति छन्दस् + घ, छन्दस इत्यस्य श्रोत्रा-देशश्च 'श्रोत्रियश्छन्दोऽधीते' इत्यनेन = श्रोत्रिय। मन्त्रिवृहस्पते—बृहस्पति के समान मन्त्री। बृहता वाचा पति. बृहस्पति. 'तद्बृहतो करपत्यो.'—इत्यनेन सुट् तलोपश्च। मन्त्री वृहस्पतिरिव इति मन्त्रिवृहस्पति- उपमितसमास। सम्बोधने मन्त्रिवृहस्पते इति।
प्रथमोऽङ्कः ३५
ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते
तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया ।
भर्तुर्ये प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया
भक्त्या कार्यधुरां वहन्ति न हि ते दुर्लभास्त्वादृशाः ॥१४॥
**अन्वयः—**अयं लोकः ऐश्वर्यात् अनपेतम् ईश्वरम् अर्थतः सेवते । ये पुनः विपत्तिषु तमनुगच्छन्ति ते तत्प्रतिष्ठाशया । त्वादृशाः कृतिनः ये भर्तुः प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरां वहन्ति ते दुर्लभाः ॥१४॥
व्याख्या—अयम्—एषः, लोकः—संसारः, ऐश्वर्यात्—वैभवात्, अनपेतम्—युक्तम्, ईश्वरम्—स्वामिनम्, अर्थतः—प्रयोजनवशात्, सेवते—भजते । ये पुनः—पक्षान्तरे ये जनाः, विपत्तिषु—आपत्तिकालेषु, तम्—स्वामिनम्, अनुगच्छन्ति—अनुसरन्ति, ते जनाः, तत्प्रतिष्ठाशया—तस्य स्वामिनः या प्रतिष्ठा, पुनः राज्य-प्राप्तिः तत्र या आशा अपेक्षा तयैव (तथा कुर्वन्ति) । त्वादृशाः—भवादृशाः, कृतिनः—कृतराजकृत्याः, कृतज्ञा वा, ये, भर्तुः—स्वामिनः, प्रलयेऽपि—नाशेऽपि, पूर्वसुकृतासङ्गेन—पूर्वसुकृतस्य पूर्वकृतोपकारस्य, आसङ्गेन सम्बन्धेन अविस्मर-णेनेत्यर्थः, निःसङ्गया—फलासक्तिरहितया, भक्त्या—अनुरागेण, कार्यधुरां—कर्तव्यभारं, वहन्ति—धारयन्ति, ते, दुर्लभाः—दुष्प्रापाः ( भवन्ति ) ॥१४॥
**हिन्दी अनुवाद—**यह संसार स्वार्थ-साधन के लिए सम्पत्तिशाली स्वामी की सेवा करता है और जो विपत्ति के समय स्वामी का अनुगमन करते हैं, वे स्वामी की पुनः राज्य-प्राप्ति की आशा से ( ऐसा करते हैं ) । किन्तु तुम्हारे जैसे कर्मवीर, जो स्वामी के मर जाने पर भी पहले से किये हुए उपकार के अविस्मरण से निःस्वार्थ भक्ति के द्वारा कार्य के भार को वहन करते हैं (अर्थात् उसी का कार्य करते चलते हैं), वे दुर्लभ होते हैं ॥१४॥
टिप्पणी—अर्थतः—स्वार्थवश । हेतौ तृतीया । ततः तस् । तम्—अत्र अनु इति कर्मप्रवचनीययोगे द्वितीया । तत्प्रतिष्ठाशया—उसकी प्रतिष्ठा या अभ्युदय की आशा से । प्रति √स्था + अङ् भावे = प्रतिष्ठा । तस्य प्रतिष्ठा तत्प्रतिष्ठा षष्ठीतत्० । तस्याम् आशा तत्प्रतिष्ठाशा सुप्सुपा स०, तया । हेतौ तृतीया । कृतिनः—कृतकार्य, जिन्होंने अच्छे कार्य किये हों । कृतम् अस्ति एषाम् इति कृत + इनि । पूर्वसुकृतासङ्गेन—पूर्व किये गये उपकार की स्मृति अथवा
३६ मुद्राराक्षसम्।
अतीत पुण्यस्मृति मे। आ √मज्ज् + घञ् भावे = आमङ्ग पूर्वं मग्न पूर्वमग्नम् सुप्सुपा स०। तस्य जामह पूर्वमग्नतामङ्ग, तेन। हेतौ तृतीया। नि मङ्गया— आसक्ति हित, नि स्वार्थे। यहाँ 'निर् या निस् √मज्ज् + घञ् अधिकरणे स्त्रियाम्, ऐमी व्युत्पत्ति करने मे 'नि षङ्गा' रूप बनेगा, क्योकि 'उपसर्गात् सुनोति'—सूत्र से षत्व हो जाएगा। अतएव इस तरह व्युत्पत्ति करनी चाहिए—विगत मग्न अस्या इति नि मङ्गा प्रादिबहुव्रीहि स०, तया। यह 'भक्त्या' का विशेषण है, जहाँ करण मे तृतीया हुई है। कार्यधुराम्—कार्य के धुर या भार को। कार्यस्य धू कार्यधुरा 'ऋक्पूरब्धू '—इति समासान्त अप्रत्यय, 'परवल्लिङ्ग द्वन्द्वतत्पु- षयो ' इति सूत्रनियमात् स्त्रीलिङ्गत्वम्, ततष्टाप् = कार्यधुरा, ताम्। दुर्लभा — दु खेन लभ्यन्त इति दुर्लभा दुर् √लभ् + खल् कर्मणि। इस पद्य मे व्यतिरेक अलङ्कार है, शार्दूलविक्रीडित छन्द है। लक्षण श्लोक १० की टिप्पणी मे देखिए ॥१४॥
अतएवास्माक त्वत्सङ्ग्रहे प्रयत्न , कथमसौ वृपलस्य साचिव्यग्रहणेन सानुग्रह स्यादिति। कुत —
अप्राज्ञेन च कातरेण च गुण स्याद्भक्तियुक्तेन क प्रज्ञाविक्रमशालिनोऽपि हि भवेत् किं भक्तिहीनात् फलम्। प्रज्ञाविक्रमभक्तय समुदिता येषा गुणा भूतये ते भृत्या नृपते कलत्रमितरे मम्पत्सु चापत्सु च ॥१५॥
व्याख्या—अतएव—अस्मात् कारणात्, कथ—केन प्रकारेण, असौ— राक्षस , वृषलस्य—चन्द्रगुप्तस्य, साचिव्यग्रहणेन—मन्त्रित्वस्वीकारेण, सानुग्रह स्यात्—अस्मान् अनुगृह्णीयात्, इति चिन्त्यमानानाम्, अस्माक—मम, त्वत्सङ्ग्रहे— तव वशीकरणे, प्रयत्न —आयास ।
अन्वय —भक्तियुक्तेन अप्राज्ञेन च कातरेण च क गुण स्यात्, प्रज्ञाविक्र- मशालिन अपि भक्तिहीनात् किं हि फल भवेत्, समुदिता प्रज्ञाविक्रमभक्तय येषा गुणा ते भृत्या नृपते सम्पत्सु च आपत्सु च भूतय, इतरे कलत्रम् ॥१५॥
व्याख्या—भक्तियुक्तेन—सानुरागेण, (किन्तु) अप्राज्ञेन च—अबुद्धिमता, कातरेण च—निविक्रमेण, (भृत्येन) क गुण स्यात्—किं भवेत् ? न किमपी- त्यर्थ । प्रज्ञाविक्रमशालिन अपि—बुद्धिशौर्यसम्पन्नादपि, भक्तिहीनात्—अनुराग- रहितात्, (भृत्यात् ) किं हि फलं भवेत्—को लाभ स्यात् ? न किमपीत्यर्थ ।
प्रथमोऽङ्कः ३७
समुदिताः—मिलिताः, प्रज्ञाविक्रमभक्तयः—बुद्धिशौर्याऽनुरागाः, येषां—भृत्यानां, गुणाः, (सन्ति) ते, भृत्याः—सेवकाः, नृपतेः—राज्ञः, सम्पत्सु च—सम्पत्तिकालेषु च, आपत्सु च—विपत्तिकालेषु च, भूतये—ऐश्वर्याय, ( भवन्ति ) । इतरे—ये केवलं भक्तिमन्तः ये वा केवलं प्रज्ञाविक्रमशालिनः ते सर्वे, कलत्रम्—भार्या (, इव सर्वासु समविषमदशासु राज्ञा पोष्यमात्रम् ) ॥१५॥
हिन्दी अनुवाद—इसीलिए तुम्हे वश में करने के लिए हमारा प्रयत्न हो रहा है कि कैसे तुम चन्द्रगुप्त का मन्त्रित्व स्वीकार कर हमे अनुगृहीत करोगे । क्योकि—
भक्ति से युक्त किन्तु बुद्धि और बल से रहित (सेवक) से क्या लाभ ? और बुद्धि तथा पराक्रम से सम्पन्न किन्तु भक्ति से हीन ( सेवक ) से भी क्या लाभ ? जिन सेवकों में बुद्धि, पराक्रम तथा भक्ति—इन ( तीनों ) गुणो का समुदाय हो, वे राजा के अच्छे और बुरे दिनो मे भी कल्याण के लिए होते है और दूसरे (जो या तो केवल बुद्धिविक्रमशाली हो या केवल भक्तिमान् हो वे ) स्त्री ( के समान अच्छे-बुरे सभी दिनो मे केवल पोष्य हुआ करते ) है ॥१५॥
टिप्पणी—त्वत्संग्रहे—तुमको वश मे करने का । सम्√ग्रह् + अप् भावे = संग्रहः । तव संग्रहः त्वत्संग्रहः षष्ठीतत्०; तस्मिन् । विषयाधिकरणे सप्तमी । प्रज्ञाविक्रमशालिनः—बुद्धि और पराक्रम से युक्त । प्रज्ञा च विक्रमश्च इति प्रज्ञाविक्रमौ द्वन्द्व स० । ताभ्यां साधु शालते श्लाघते इति प्रज्ञाविक्रम√शाल् + णिनि साधुकारिणि, तस्मात् । भृत्याः—सेवक । भृत्य का लक्षण यह है—'यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवकः स स्यात् कलत्रमिव चापरम् ।' भ्रियन्ते इति√भृ + क्यप् । भूतये—ऐश्वर्य के लिए । तादर्थ्ये चतुर्थी । इस पद्य मे व्यतिरेक अलंकार है और शार्दूलविक्रीडित छन्द है । लक्षण श्लोक १२ में दे० ॥१५॥
तन्मयाप्यस्मिन् वस्तुनि न शयानेन स्थीयते, यथाशक्ति क्रियते तद्ग्रहण प्रति यत्नः। कथमिव ? अत्र तावद् वृषलपर्वतकयोरन्यतरविनाशेनापि चाणक्यस्यापकृतं भवतीति विषकन्यया राक्षसेनास्माकमत्यन्तोपकारि मित्रं घातितस्तपस्वी पर्वतक इति सञ्चारितो जगति जनापवादः। लोकप्रत्ययार्थमस्यैवार्थस्याभिव्यक्तये 'पिता ते चाणक्येन घातित' इति
३८ मुद्राराक्षसम्
रहसि त्रासयित्वा भागुरायणेनापवाहित पर्वतकपुत्रो मलयकेतु । शक्य खलु एष राक्षसमतिपरिगृहीतोऽपि व्युत्तिष्ठमान प्रज्ञया निग्रहीतुम् । न पुनरस्य निग्रहात् पर्वतकवधोत्पन्न राक्षसमस्यायश प्रकाशीभवत् प्रमाष्टुं-मिच्छामि ।
व्याख्या—तत्—तस्मात्, मयापि—चाणक्येनापि, अस्मिन् वस्तुनि—राक्षस-संग्रहकार्ये, शयानेन—स्वपता अलसेनेति यावत्, न स्थीयते—न समयक्षेप क्रियते, (प्रत्युत) तद्ग्रहणं प्रति—राक्षसवशीकरणं प्रति, यथाशक्ति—शक्त्यनुसारं, यत्न—उद्योग , क्रियते—विधीयते । कथमिव—केन प्रकारेण, अत्र तावत्—अस्मिन् कर्मणि खलु, वृषलपर्वतकयो —चन्द्रगुप्तपर्वतकयो , अन्यतरविनाशनापि—अन्यत-रस्यापि एकस्यापि विनाशन वनेन, चाणक्यस्य, अपकृतम्—अपकार , भवति—जायते, इति कृत्वा, राक्षसेन, विषकन्यया—स्पर्शघातिन्या कन्यया कयाचित्, अस्माकम्, अत्यन्तोपकारि—परमोपकारक, मित्र—सुहृत्, तपस्वी—वराक , पर्व-तक , घातित —मारित , इति—एवम्विध , जनापवाद —जनश्रुति , जगति—संसारे, सञ्चारित —प्रचारित । लोकप्रत्ययार्थम्—लोकाना जनाना प्रत्ययार्थं-विश्वासार्थम्, अस्यव अर्थस्य—राक्षसकर्तृकपर्वतकवधरूपस्य, अभिव्यक्तये—प्रकटीभवनाय, ते—तव, पिता—जनक , चाणक्येन, घातित , इति—एवम्, रहसि—एकान्ते, भागुरायणेन—एतन्नामकेनास्मत्सन्धिना, पर्वतकपुत्र , मलय-केतु , त्रासयित्वा—भीषयित्वा, अपवाहित —अपसारित । व्युत्तिष्ठमान —युद्धार्थं प्रयतमान , एष —मलयकेतु , राक्षसमतिपरिगृहीतोऽपि—राक्षसस्य मत्या बुद्ध्या परिगृहीतोऽपि अवलम्बितोऽपि, प्रज्ञया—बुद्ध्या, निग्रहीतुं—वशीकर्तुं, शक्य खलु—सुसाध्य एव । पुन —पक्षान्तरे, प्रकाशीभवत्—प्रचारं गच्छत्, पर्वतक-वधोत्पन्न—पर्वतकहत्याजनित, राक्षसस्य, अयश —कुख्यातिम्, अस्य—मलय-केतो , निग्रहात्—पर्वतकवधकाले एव दण्डनात्, प्रमाष्टुं—प्रक्षालयितुं, न इच्छामि—( तदानी ) न अवाञ्छम् ।
हिन्दी अनुवाद—इसलिए म भी इस विषय में सोया-पड़ा नहीं हूँ, बल्कि उसे वश में करने के लिए यथासाध्य प्रयत्न कर रहा-हूँ । कैसे ? ( तो सुनो, ) इस विषय में ( पहला प्रयत्न तो यह है कि ) 'चन्द्रगुप्त या पर्वतक इन दोनों में से एक का भी नाश हो जाने पर चाणक्य की क्षति होगी' ऐसा सोचकर राक्षस ने विषकन्या के द्वारा हमारे परमोपकारी मित्र बेचारे पर्वतक को मरवा दिया है—
प्रथमोऽङ्कः ३६
ऐसी जनश्रुति लोक में फैला दी गई है। (दूसरा यह है कि) लोगों के विश्वास के लिए इसी बात को स्पष्ट करने के लिए (हमारे गुप्तचर) भागुरायण ने 'तुम्हारे पिता को चाणक्य ने मरवाया है' ऐसा एकान्त में भय दिलाकर पर्वतक के पुत्र मलयकेतु को भगा दिया है। यह (मलयकेतु) राक्षस की बुद्धि के अनुसार चलकर युद्ध के लिए प्रयत्नशील होता हुआ भी (मेरी) बुद्धि के द्वारा वश में किया जा सकता है। फिर मैं इस (मलयकेतु) को कैद कर पर्वतक की हत्या से उत्पन्न होकर फैलते हुए राक्षस के कलंक को धोना नही चाहता हूँ।
टिप्पणी—'मयापि न शयानेन स्थीयते'—यहाँ से लेकर 'तेनेदानीं महत्प्रयोजनमनुष्ठेयं भविष्यति' तक समाधान नामक मुखसन्ध्यङ्ग है। विषकन्यया—विषाक्त कन्या के द्वारा। प्राचीन काल में शत्रु को मरवाने के लिए विषकन्या का उपयोग किया जाता था—'लावण्यभूषणा कान्ता योषितं क्रमशो विषैः। युवती योजयेत् कामिरिपुभूपाप्तघातने।' किसी सुन्दरी लडकी के शरीर को बचपन से ही औषधि के प्रयोग द्वारा शनैः शनैः इतना विषयुक्त कर दिया जाता था कि कालान्तर में उससे संभोग करने वाले की मृत्यु हो जाती थी। विषतुल्या वा विषदिग्धा वा विषसिद्धा कन्या विषकन्या मध्यमपदलोपी स०, तया। करणे तृतीया। अत्यन्तोपकारि—बहुत उपकार करनेवाला। अत्यन्तम् उपकारि सुप्मुपा स०। पर्वतक ने कुसुमपुर के चारो ओर घेरा डालने में चन्द्रगुप्त की सैनिक सहायता की थी। इसी से वह उपकारी था। अभिव्यक्तये—स्पष्टता के लिए। अभि√वि-अञ्ज्+क्तिन् भावे=अभिव्यक्तिः, तस्यै। तादर्थ्ये चतुर्थी। राक्षसमतिपरिगृहीतः—राक्षस की बुद्धि पर अवलम्बित अर्थात् बिलकुल राक्षस के कथनानुसार काम करने वाला। परि समन्तात् गृहीतः इति परि√ग्रह्+क्त कर्मणि=परिगृहीतः। व्युत्तिष्ठमानः—युद्ध के लिए उठता हुआ या यत्न करता हुआ। वि-उद्√स्था+शानच् कर्तरि। अत्र 'उदोऽनूर्ध्वकर्मणि' इति सूत्रेण आत्मनेपदत्वम्। प्रमाष्टुम्—पोंछने के लिए। प्र√मृज्+तुमुन्, 'मृजेर्वृद्धिः' इति सूत्रेण वृद्धिः=प्रमाष्टुम् वा प्रमार्जितुम्।
प्रयुक्ताश्च स्वपक्षपरपक्षयोरनुरक्तापरक्तजनजिज्ञासया बहुविधदेशवेषभाषाचारसञ्चारवेदिनो नानाव्यञ्जनाः प्रणिधयः। अन्विष्यते च कुसुमपुरवासिनां नन्दामात्यसुहृदां निपुण प्रचारगतम्। तत्तत्कारणमुत्पाद्य कृतकृत्यतामापादिताश्चन्द्रगुप्तसहोत्थायिनो भद्रभटप्रभृतयः प्रधानपुरुषाः। शत्रुप्रयुक्तानां च तीक्ष्णरसदायिनां प्रतिविधानं प्रत्यप्रमा-
४२ मुद्राराक्षसम्
वृत्त्या। तेषां भाव इति भृतकृत्य + तल् + टाप्, भृतकृत्यता, ताम्। चन्द्रगुप्त-सहोत्थायिन —चन्द्रगुप्त के साथ उठने-बैठने वाले। ये लोग पहले नन्द के पार्श्व-चर थे, पर अब चन्द्रगुप्त के अन्तरङ्ग बन गए हैं। सह उत्थातुं शीलमेषाम् इति सहोत्थायिन सह—उद् √स्था + णिनि कर्तरि ताच्छील्ये। चन्द्रगुप्तस्य सहोत्थायिन षष्ठी तत्०। परीक्षितभक्तय —परीक्षित भक्ति वाले, जिनकी राजभक्ति की परीक्षा हो गई है। परीक्षिता भक्ति एषाम् इति परीक्षितभक्तयः बहुव्रीहि स०। अत्र 'परीक्षितम्' इति सामान्ये नपुंसकम् यथा 'विदितभक्ति' इत्यत्र। सहाध्यायि—साथ-साथ पढ़ने वाला। सह अधीते इति सह्—अधि √इङ्+ णिनि साधुकारिणि कर्तरि सहाध्यायी। यह 'मित्रम्' का विशेषण होने के कारण नपुंसकलिंग है। औशनस्याम्—शुक्राचार्यप्रणीत। उशनस इदम् इति उशनस् + अण् स्त्रियाम् औशनसी, तस्याम्। दण्डनीत्याम्—नीतिशास्त्र में। दण्ड = राज-दण्ड। दण्डस्य नीतिः दण्डनीतिः, तस्याम्। अधिकरणे सप्तमी। प्रावीण्यम्—प्रवीणता, दक्षता को। प्रकृष्टो वीणा अस्य इति प्रवीणः। जो वीणा बजाने में दक्ष है, अतः सामान्य रूप में दक्ष के भाव में इस शब्द का प्रयोग होने लगा। तस्य भाव इति प्रवीण + ष्यञ् = प्रावीण्यम्। क्षपणकलिङ्गधारी—बौद्ध या जैन संन्यासी का चिह्न धारण करने वाला। क्षपणकस्य लिङ्गम् षष्ठी तत्०। तत् धरतोति क्षपणकलिङ्ग √धृ + णिनि साधुकारिणि कर्तरि = क्षपणकलिङ्गधारी। सख्य ग्राहित —मित्र बनवाया हुआ। यहां ग्रह् धातु बुद्ध्यर्थक होने से द्विकर्मक है। अतएव वाक्यप्रयोग इस तरह होगा—'स सख्य गृहीतवान् = चाणक्य तं सख्यं ग्राहितवान् = चाणक्येन स सख्यं ग्राहितः'। महत् प्रयोजनम्—यह प्रयोजन पांचवें अंक में विस्तार से बताया गया है।
तदेवमस्मत्तो न किञ्चित् परिहास्यते। वृषल एव केवलं प्रधानप्रकृतिरस्मास्वारोपितराज्यतन्त्रभारः सततमुदास्ते। अथवा यत्स्वयमभियोगदुःखरमाधारणैरपास्तं तदेव राज्य मुच्यते। कुतः —
स्वयमाहृत्य भुञ्जाना बलिनोऽपि स्वभावतः ।
गजेन्द्राश्च नरेन्द्राश्च प्रायः सीदन्ति दुःखिताः ॥ १६ ॥
व्याख्या—तत्—तस्मात् कारणात्, एवम्—अनेन प्रकारेण, अस्मत्त —मत्तः, न किञ्चित् परिहास्यते—न्यूनं भविष्यति। केवलं, प्रधानप्रकृतिः—मुख्य-प्रकृतिः, वृषल एव—चन्द्रगुप्त एव, अस्मासु—मयि, आरोपितराज्यतन्त्रभार —
| ४४ | मुद्राराक्षसम् |
|---|
शक्तिषु चानश्' इत्यनेन चानश् । यह 'नरेन्द्र' और 'गजेन्द्र' दोनों का विधेयात्मक विशेषण है । स्वभावात — स्वभावेन इति स्वभाव + तसि तृतीयायाम् । 'प्रकृत्या-दिभ्य उपसंख्यानम्' इति वार्तिकेन तृतीया । इस पद्य में दीपक अलङ्कार और अनुष्टुप् छन्द है ॥ १६ ॥
[ तत प्रविशति यमपटेन चर । ]
चर —
पणमह जमस्स चलणे किं कज्ज देवएहि अणेहिं ।
एसो खु अण्णभत्ताण हरइ जीअ चडपडन्तम् ॥ १७ ॥
( प्रणमत यमस्य चरणौ किं कार्यं देवतैरन्यै ।
एष खल्वन्यभक्ताना हरति जीव परिस्फुरन्तम् ॥ )
तत — तदनन्तर, यमपटेन — यममूर्त्या चित्रितेन पटेन सह, चर — चाणक्यस्य गुप्तचर श्चित्रिन्, प्रविशति — समायाति — रङ्गभूमिम् इति शेष ।
अन्वय — यमस्य चरणौ प्रणमत, अन्यै देवतै किं कार्यम् । एष खलु अन्यभक्ताना परिस्फुरन्त जीव हरति ॥ १७ ॥
व्याख्या — यमस्य — धर्मराजस्य, चरणौ — पादौ, (यूय) प्रणमत — भजत, अन्यै — इतरे, देवतै — देवै, किं कार्यम् — किं प्रयोजनम् न किमपीत्यर्थ, एष खलु — यम, अन्यभक्तानाम् — तद्दान्तरोपासकाना, परिस्फुरन्त — स्यन्दमान, जीव — जीवन, हरति — नाशयति ॥ १७ ॥
हिन्दी अनुवाद — [ उसके बाद यमपट के साथ गुप्तचर आता है । ]
गुप्तचर — यमराज के चरणों को प्रणाम करो, दूसरे देवताओ से क्या प्रयोजन ? य ( यमराज ) दूसर (देवताओ ) के भक्तो के छटपटाते हुए प्राणो को हर लेते हैं ॥ १७ ॥
टिप्पणी — यमपटेन — यमराज के चित्रो से अकित वस्त्र से । पहले इस प्रकार के वस्त्र रखने वाले भिक्षुक लोगो को शुभाशुभ फल बताया करते थे । चाणक्य का यह गुप्तचर भी ऐसे ही भिक्षुक के वेश में जासूसी करता था । प्रणमत — इस पद्य का गूढ अर्थ यह है कि यमराज की तरह चाणक्य अपने भक्तो को समृद्ध बनाता है और राक्षस के भक्तो को मारता है । इसलिए चाणक्य
| ४६ | मुद्राराक्षसम् |
|---|
चाणक्य को लोग क्रूर समझते हैं, किन्तु वस्तुत वह क्रूर नही है। जो उनकी भक्ति करते हैं, उन्ह वह बहुत देना है। इसमे भी अप्रस्तुत प्रशसा अलकार तथा आर्या छन्द है । ॥ १८ ॥
शिष्य —[ विलोक्य ] भद्र ! न प्रवेष्टव्यम् ।
चर —[ विहस्य ] हहो वह्मण, कस्स एद गेहम् ? ( अहो ब्राह्मण, कस्येद गृहम् ? )
शिष्य —अस्माकमुपाध्यायस्य सुगृहीतनाम्न आर्यचाणक्यस्य ।
चर —[ विहस्य ] हहो वह्मण, अत्तकेरकस जेव्व मह धम्मभादुणो घर होदि । ता देहि मे पवेस जाव दे उवज्झाअस्स जमपड पसारिअ धम्म उवदिसामि । ( अहो ब्राह्मण, आत्मीयस्यैव मम धर्मभ्रातुर्गृह भवति । तस्माद्देहि मे प्रवेश यावत्तवोपाध्यायस्य यमपट प्रसार्य धर्ममुपदिशामि । )
शिष्य —[ सक्रोधम् ] धिक् मूर्ख, किं भवानस्मदुपाध्यायादपि धर्मवित्तर ?
चर —हहो वह्मण, मा कुप्प । णहि सव्वो सव्व जाणादि । ता किवि ते उवज्झाओ जाणादि, किवि अम्हारिसा जाणादि । (अहो ब्राह्मण, मा कुप्य । नहि सर्व सर्व जानाति । तत् किमपि ते उपाध्यायो जानाति, किमप्यस्मादृशा जानन्ति ।)
शिष्य —मूर्ख, सर्वज्ञतामुपाध्यायस्य चोरयितुमिच्छसि ?
चर —हहो वह्मण, जइ तव उवज्झाओ सव्व जाणादि ता जाणादु दाव कस्स चन्दो अणिब्भिप्पेदो त्ति । (अहो ब्राह्मण, यदि तवोपाध्याय सर्व जानाति तर्हिजानातु तावत्कस्य चन्द्रोऽनभिप्रेत इति ।
शिष्य—[ देखकर ] महाशय ! ( भीतर ) प्रवेश न करना ।
गुप्तचर—अहा ब्राह्मण ! यह किसका घर है ?
शिष्य—हमारे आचार्य प्रात स्मरणीय आर्य चाणक्य का ।
गुप्तचर—[ हंसकर ] ब्राह्मण देवता ! ( तब तो ) मेरे अपने ही धर्म-
| ४८ | मुद्राराक्षसम् |
|---|
शिष्य—मूर्ख, किमनेन ज्ञातेनाज्ञातेन वा ?
चर—तव उवज्झाओ एव्व जाणिस्सदि जं इमिणा जाणिदेण होदि। तुमं दाव एत्तिअं जाणासि कमलाणं चन्दो अणभिप्पेदो त्ति । णं पेक्ख—
कमलाणं मणहराणं वि रूआहित्तो विमवदइ शीलम् ।
संपुण्णमण्डलम्मि वि जाइँ चन्दे विरूद्धाइँ ॥१६॥( तवोपाध्याय एव ज्ञास्यति यदेनेन ज्ञानेन भवति । त्वं तावदेतावद् जानासि कमलानां चन्द्रोऽनभिप्रेत इति । ननु पश्य—
कमलानां मनोहराणामपि रूपाद्विमवदति शीलम् ।
सम्पूर्णमण्डलेऽपि यानि चन्द्रे विरुद्धानि ॥ )
हिन्दी अनुवाद—शिष्य—मूर्ख ! इसके जानने या न जानने से क्या ( होता है ) ?
गुप्तचर—तुम्हारे आचार्य ही समझेंगे, जो इसके जानने से होता है । तुम तो इतना ही जानते हो कि कमलों को चन्द्रमा पसन्द नहीं है । अच्छा देखो—
अन्वय—मनोहराणामपि कमलानां शीलं रूपात् विमवदति । यानि सम्पूर्णमण्डलेऽपि चन्द्रे विरुद्धानि ॥१६॥
व्याख्या—मनोहराणामपि—सुन्दराणामपि, कमलानां—पद्मानां, शीलं—स्वभावं आचरितं वा, रूपात्—आकृतेः, विसंवदति—रूपमनुहरति । यानि—कमलानि, सम्पूर्णमण्डलेऽपि—षोडशकलासमन्वितेऽपि, चन्द्रे—चन्द्रमसि, विरुद्धानि—विपरीतानि नानुरक्तानीत्यर्थः ॥१६॥
हिन्दी अनुवाद—मनोहर ( होते हुए ) भी कमलों का स्वभाव ( उनकी ) आकृति से उलटा हुआ करता है । ( यथानि ) जो ( अर्थात् वे कमल ) पूर्ण बिम्ब से युक्त होने पर भी चन्द्रमा के विरुद्ध ( आचरण करते ) हैं ॥१६॥
टिप्पणी—रूपात्—अत्र 'ल्यब्लोपे कर्मण्यधिकरणे च' इति वार्त्तिकेन पञ्चमी । रूपमपेक्ष्येत्यर्थः । विमवदति—विपरीत आचरण करता है । सम्पूर्णमण्डलेऽपि—पूर्णमण्डल अर्थात् सोलह कलाओं से युक्त होने पर भी ।
प्रथमोऽङ्कः ४६
अपूर्ण मंडल में तो कहना ही क्या—यह 'अपि' शब्द का अर्थ है। चन्द्रे—यहाँ चन्द्रमा और चन्द्रगुप्त दोनो अर्थ विवक्षित है। श्लोक का गूढार्थ यह है कि राक्षस के भक्त बहुत-मे सुन्दराकृति जन नगर मे विचरण करते है, वे असम्पूर्ण मण्डल वाले चन्द्रगुप्त के विरुद्ध तो है ही पूर्ण मण्डल होने पर भी विरुद्ध जाएँगे। यहाँ चन्द्रपक्ष मे मंडल का अर्थ है विम्ब और राजपक्ष मे उसका अर्थ होता है—निकट और दूर के पडोसी शत्रु, मित्र आदि राज्यो का समूह। इस पद्य मे अप्रस्तुत-प्रशंसा अलंकार है और आर्या छन्द है ॥१६॥
चाणक्यः— [ आकर्ण्यात्मगतम् ] अये, चन्द्रगुप्तादपरक्तान् पुरुषान् जानामीत्युपक्षिप्तमनेन ।
शिष्यः— मूर्ख, किमिदमसम्बद्धमभिधीयते ?
चरः— हंहो बह्मण, सुसंबद्धं जेव्व एवं भवे । ( अहो ब्राह्मण, सुसम्बद्धमेवैतद्भवेत् । )
शिष्यः— यदि किं स्यात् ।
चरः— यदि सुणिदुं जाणन्तं लहे । (यदि श्रोतुं जानन्तं लभे । )
चाणक्यः— भद्र, विश्रब्धं प्रविश । लप्स्यसे श्रोतारं ज्ञातारं च ।
चरः— एसो पविशामि । ( एष प्रविशामि । ) [ प्रविश्योपसृत्य च ] जेदु अज्जो । ( जयत्वार्यः । )
चाणक्यः— [विलोक्यात्मगतम्] कथमयं प्रकृतिचित्तपरिज्ञाने नियुक्तो निपुणकः । [ प्रकाशम् ] भद्र ! स्वागतम् । उपविश ।
चरः— ज अज्जो आणवेदि । [ भूमावुपविष्टः । ] (यदार्य आज्ञापयति । )
हिन्दी अनुवाद—चाणक्य— [ सुनकर मन में ] अरे ! चन्द्रगुप्त के विरोधी जनो को जानता हूँ, ऐसा इसने संकेत किया है ।
शिष्य— मूर्ख ! यह क्या अटपटी बात बक रहे हो ?
गुप्तचर— बाह्मण महाराज ! यह सुसंगत ही होती ।
शिष्य— यदि क्या होता ?
मु० रा०—४
५० मुद्राराक्षसम्
गुप्तचर—यदि सुनने के लिये जानकार (व्यक्ति) मिलता।
चाणक्य—भद्र ! विश्वास के साथ भीतर आओ। सुनने और समझने वाले को पा जाओगे।
गुप्तचर—यह आया। [प्रवेश करके और समीप जाकर] आर्य की जय हो।
चाणक्य—[देखकर मन में] क्यो, यह तो प्रजा की मनोवृत्ति जानने के लिए नियुक्त किया गया निपुणक है। [प्रकट] भद्र ! (तुम्हारा) स्वागत है। बैठो।
गुप्तचर—आर्य की जैसी आज्ञा। [भूमि पर बैठ जाता है।]
टिप्पणी—चन्द्रगुप्तात्—अत्र अपादाने पञ्चमी। उपक्षिप्तम्—इङ्गित क्रिया। उप√क्षिप्+क्त कर्मणि। इसका अनुक्त कर्त्ता 'अनेन' है। असम्बद्धम्—असंगत, ऊटपटांग। सम्√बन्ध्+क्त कर्मणि = सम्बद्धम्। न सम्बद्धम् असम्बद्धम् नञ्तत्०। यह 'अभिधीयते' का उक्तकर्म है। उक्ते कर्मणि प्रथमा। अभिधीयते = कथ्यते। अभि√धा+लट्—ते कर्मणि। भवेत्, स्यात्—अत्र 'हेतुहेतुमतोर्लिङ्' इत्यनेन लिङ्। कथम्—यह आश्चर्यसूचक अव्यय है। यहाँ किसी पुस्तक में यह अधिक पाठ है—'क्व प्रभूतत्वात् कार्याणा कस्य परिज्ञाने नियुक्तो निपुणक इति न ज्ञायते। आ ज्ञातम्, अये।' इसका अर्थ है—'कार्य की अधिकता के कारण यह ध्यान में नहीं आ रहा है कि निपुणक को किस बात की जानकारी के लिए नियुक्त किया था। हाँ, समझ गया। अरे!'
चाणक्य—भद्र, वर्णयेदानीं स्वनियोगवृत्तान्तम्। अपि वृषलमनुरक्ताः प्रकृतयः ?
चर—अह इं ? अज्जेण क्खु तेसु तेसु विराअकारणेसु परिहरिज्जंतेसु सुगहीदणामहेए देवे चन्दउत्ते दिढं अनुरत्ताओ पकिदिओ। किंदु उण संति एत्थ णअरे अमच्चरक्खसेण सह पढमं समुप्पण्णसिणेहबहुमाणा तिण्णि पुरिसा, जे देवस्स चन्दसिरिणो सिरिं ण सहन्दि। (अथ किम् ? आर्येण खलु तेषु तेषु विरागकारणेषु परिह्रियमाणेषु सुगृहीतनामधेये देवे चन्द्रगुप्ते दृढमनुरक्ताः प्रकृतयः। किन्तु पुनः सन्त्यत्र नगरे अमात्यराक्षसेन सह प्रथमं समुत्पन्नस्नेहबहुमानास्त्रयः पुरुषाः, ये देवस्य चन्द्रश्रियः श्रियं न सहन्ते।)
प्रथमोऽङ्कः (५१)
चाणक्यः— [ सक्रोधम् ] ननु वक्तव्यं स्वजीवितं न सहन्ते इति । भद्र, अपि ज्ञायन्ते नामधेयतः ?
चरः— कहं अजाणिअणामहेआ अज्जस्स णिवेदिअन्ति ? ( कथमज्ञातनामधेया आर्यस्य निवेद्यन्ते ? )
चाणक्यः— तेन हि श्रोतुमिच्छामि ।
हिन्दी अनुवाद—चाणक्य— भद्र ? अब बताओ अपने कार्य का समाचार । क्या प्रजाएँ चन्द्रगुप्त में अनुरक्त हैं ?
गुप्तचर— और क्या ? आपके द्वारा विरक्ति के उन-उन कारणों के दूर कर दिये जाने पर प्रातःस्मरणीय महाराज चन्द्रगुप्त मे प्रजाएँ अत्यन्त अनुरक्त हैं। किन्तु फिर भी इस नगर में पहले से ही अमात्य राक्षस के साथ स्नेह तथा सम्मान का व्यवहार करने वाले ऐसे तीन व्यक्ति हैं, जो चन्द्र तुल्य शोभा वाले महाराज की राज्य-श्री का सहन नहीं करते हैं ।
चाणक्य— [ क्रोध के साथ ] तब तो यह कहो कि वे अपने जीवन का सहन नहीं करते हैं । भद्र ! क्या उन्हें नामतः जानते हो ?
गुप्तचर— बिना नाम जाने कैसे आप से निवेदन करता ?
चाणक्य— तो सुनना चाहता हूँ ।
टिप्पणी—स्वनियोगवृत्तान्तम्— अपने कार्य का समाचार । स्वस्य नियोगः । तस्य वृत्तान्तः षष्ठीतत्०, तम् । यह 'वर्णय' का कर्म है । वृषलम्— अत्र कर्मप्रवचनीययोगे द्वितीया । अथ किम्— यह स्वीकारार्थक अव्यय है । तेषु विरागकारणेषु परिह्रियमाणेषु— अत्र 'यस्य च भावेन भावलक्षणम्' इति सूत्रेण सप्तमी । चन्द्रश्रियः— चन्द्रमा की-सी कान्ति वाले । चन्द्रस्य श्रीः इव श्रीः अस्य बहुव्रीहि स०, तस्य । इसका सम्बन्ध 'श्रियम्' से है । अपि— यहाँ प्रश्नवाचक अव्यय है । 'गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि' इत्यमरः । नामधेयतः— नाम से । अत्र 'प्रकृत्यादिभ्य उपसंख्यानम्' इति वर्तिकेन तृतीया । ततः तृतीयान्तात् नामधेयशब्दात् तसिः स्वार्थे । आर्यस्य— यहाँ सम्बन्ध सामान्य में षष्ठी हुई; अन्यथा 'निवेद्यन्ते' के योग मे चतुर्थी होनी चाहिए थी । निवेद्यन्ते— नि√विद् + णिच् + लट् — अन्ते कर्मणि ।