भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

सप्तम उच्छ्वासः। २१५ 'कन्यामन्यानुरक्तां कथममृतभुजो मानुषीं कामयन्ते तन्वङ्गीः सस्मितास्याः स्मरविवशदृशो नाकनारीर्विहाय। वक्तुं खेदादिवैतद्दिनपतिरधिकं व्रीडयैवावनम्रः कोपेनेवारुणांशुः प्रविशति वरुणस्यालयं पश्चिमाब्धिम् ॥२६॥' राजा तु तदाकर्णयन्, अवतीर्य सौधशिखरतलाल्लीलापदप्रचारेण संध्यावन्दनैविधिरामोपविष्टजैपदद्विजजनसनाथसैकते सरित्संगमे संध्याह्निकमकरोत् ॥ क ॥ ततश्च पश्चिमायां दिशि स्फुरति संध्यारागे, रुधिरासवपिपासया कालवेतालमण्डलीव प्रधावमाना, त्रिभिः स्रोतोभिः प्रवृत्तया गङ्गया सह संघर्षादिवानैकैः स्रोतसां सहस्रैर्गगनतलमिव प्लावयन्ती कालि- न्दीव, व्यजृम्भत तिमिरपटलपङ्क्तिः ॥ ख ॥ अनन्तरं च चन्द्रमसा गर्भिणी पौरंदरी दिक्केतकीपुष्पपत्रपाण्डि- मानमंगमत् ॥ ग ॥ उल्लास चै चण्डतरमारुतान्दोलितोदयाद्रिद्रुमकुसुमकिंजल्करेणु- राजिरिव कपिशा शशाङ्कद्युतिः ॥ घ ॥ अथ क्रमेण पूर्वपयोधिपुलिनाद्राजहंस इव गगनमन्दाकिनी मुच्च- लितः, केसरिकिशोर इवोदयगिरिगुहागह्वरात्तिमिरकरियूथपृष्ठलग्नः, स्फटिकमयः पूर्णकुम्भ इव जगद्विजयप्रस्थानस्थितस्य मङ्गलाय मकर- कतोः केनापि सज्जीकृतः, श्रीखण्डपिण्ड इव मण्डनाय माहेन्द्रदिशा हस्तश्लेषोपलालितः, शङ्खिकापुष्पस्तबक इव गगनश्रिया श्रवणे संयो- जितः, कुम्भ इवैकः प्राचीवनविहारिसुरकरीन्द्रस्य प्रकटतां गतः, वासरविरामवल्लीमुल्लय कन्द इवोद्धतो निशाशवरिकया, पाण्डुपुष्पा- क्षतगुञ्जापुञ्ज इव सिद्धवधूभिरुदयाचलंचतुष्पथे विरचितः, गण्ड- शैल इव कैलासशिखराल्लुठित्वागतः, सीमन्तमौक्तिकमिव पूर्वदि- ङ्मुखस्य, सितातपत्रमिव पूर्वाशाधिपतेः पुरंदरस्य, क्रीडामौक्ति- कन्यामन्येति ॥ 'वक्तुं खेदात्' इत्यस्योपयोगि 'वरुणस्यालयम्' इति । वाचो हि श्रोतारमपेक्षन्ते ॥ २६ ॥ अनन्तरमिति ॥ गर्भिणी हि केतकपत्रवत्पाण्डुतां धत्ते ॥ ग ॥ अथेति ॥ वनगहने हि विचरतः करिणः प्रायेणैक एव कुम्भस्थलविभागो १ 'गाङ्गः'. २ 'विधीति क्वचित्'. ३ 'नृपद्विज'. ४ 'मगात्'. ५ 'प्रचण्ड'. ६ 'यूथशङ्कया'. ७ 'माहेन्द्रदिशा'. ८ 'पुष्प इव'. ९ 'गच्छतः'. १० 'चलचलच्चतुः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

२१६ नलचम्पूः । ककन्दुक इव कालकुमारस्य क्षीरडिण्डीरपिण्डसदृशो दृष्टिपथमवत- तार तारापतिः ॥ क ॥ तदनु च मदनमिति युवानं यौवराज्येऽभिषिञ्च- न्कृतकुमुदविकासा भासयन्दिङ्मुखानि । इमममृततरङ्गैः प्लावयञ्जीवलोकं गगनमवजगाहे मन्दमन्दं मृगाङ्कः ॥ २७ ॥ तदनन्तरम्, आप्लावितमिव मुक्तमर्यादेन दुग्धवार्धिना, सिक्तैर्भू- भागाङ्गणमिवामन्दचन्दनाम्बुच्छटाभिः, विलिप्तदिग्भित्तिकमिव सौ- न्द्रसुधापङ्कपिण्डितैः, पूरितमिवोत्सर्पिकर्पूरपांसुवृष्ट्या, प्रविष्टमिव स्फाटिकमणिमहामन्दिरोदरदरीम्, उत्प्लवमानमिव द्रवीभूततुहिना- चलमहाप्लवेन, भुवनमासीत् ॥ ख ॥ ततश्च । कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्त्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये ॥ २८ ॥ अपिच । सर्वेऽपि पक्षिणो हंसाः सर्वेऽप्यैरावता गजाः । जाताश्चन्द्रांशुभिः सर्वे रौप्यपुञ्जाः शिलोच्चयाः ॥ २९ ॥ अपिच । सुधापङ्कोपलिप्तेव बद्धेव स्फटिकोपलैः । विलीनहिमदिग्धेव मेदिनी ज्योत्स्नया कृता ॥ ३० ॥ अपिच । सौधस्कन्धतलानि दीपपटलैः कम्पेन पाण्डुध्वजा हंसाः पक्षविधूननेन मृदुना निद्रान्तनादेन च । लक्ष्यते । पाण्डुगुञ्जा हि मङ्गलाय स्युः । उदयाचलशब्दश्रुतेः सोमागमनसूचा । क्रीडार्थं मौक्तिककन्दुकः ॥ क ॥ मदनमिती ॥ यौवराज्याभिषेकाद्यनेककार्यव्यग्रतया मन्दमन्दावगाहः ॥ २७॥ १ 'हा'. २ 'संसिक्त'. ३ 'सारं'. ४ 'स्फटिक'. ५ 'दरीपु'. ६ 'सप्तम्यन्तम्'. ७ 'मृत्पिण्डेन'. ८ 'पक्षतिधून'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

लक्ष्यन्ते कुमुदानि पद्धदरुतैरुत्सर्पिगन्धेन च क्षुभ्यत्क्षीरपयोधिपूरसदृशे जाते शशाङ्कोदये ॥ ३१ ॥ तथाविधे च चन्द्रोदयप्रपञ्चे हठादुत्कण्ठयाभिभूयमानो निषधना- थश्चिन्तयांचकार ॥ क ॥ 'इतश्चन्द्रः सान्द्रान्किरति किरणानप्रिपरुषा- नितोऽपि प्रोन्मीलत्कुमुद्वनवायुर्विलसति । इतः कादम्बानां ध्वनितमपि निद्रालसदृशा- मसह्यः सर्वोऽयं मनसिजमहिम्नः परिकरः ॥ ३२ ॥ अपि च । इतो मकरकेतनः किरति दुर्निवारः शरा- नितोऽपि वयमाकुलाः कुलिशपाणिदत्ताज्ञया । तदेतदतिसंकटं यदिह कैश्चिदुक्तं जनै- रितो विषमदुस्तटी भयमतो महान्व्याघ्रतः ॥ ३३ ॥ तदिदानीं किमिह कर्तव्यम्, कथं वा हास्येनाप्यवन्ध्यवचसामल ङ्घनीयः खल्वादेशो लोकपालानाम्' इति चिन्तयन्नेकाकी पन्द्यामेव विनिर्गत्य निजनिकेतनात्समन्तादापतद्भिः शशाङ्ककिरणैर्जालैः परिजनै- रिख परिदर्शितवर्त्मा कैश्चित्काललवैः कैलासकूटायामानाट्टालकाभो- गभव्यं भीमभूपालभवनमवाप्य कन्यान्तःपुरं पुरंदरवरप्रदानाददृश्य- मानरूपः प्रासादपालकैः प्रविवेश ॥ ख ॥ प्रविश्य च दूरादभिमुखागतेनानवरतदह्यमानकृष्णागुरुधूपधूमव- र्तिनर्तकेन बहलयक्षकईमाम्वुसिक्तसौधस्कन्धसंधिसंचारिणा गन्धवा- हेन कृताभ्युत्थान इव, परिक्रम्य स्तोकमन्तरम् 'इत इतो देवी वर्तते' इति गीतगोष्ठीस्थितसखीगीतझंकारेणाहूयमान इव, यत्रास्ते दमयन्ती तत्सौधपृष्ठमारूढवान् ॥ ग ॥ आरुह्य च मनागव्यवहितोऽनुपलक्ष्यमाण इव, वेणुवीणाकणानुसा- रिणा कोमलकाकलीप्रायेण किंनरीप्रमुखसखीनां गीतेन विनोद्यमा-

प्रविश्य चेति ॥ कर्पूरकस्तूरिकादीनां क्षोदो यक्षकर्दमः ॥ ग ॥ आरुह्य चेति ॥ ईषत्कलोऽस्यास्तीति काकली । 'निषादः काकलीसंज्ञो द्विश्रु- त्युत्कर्षणाद्भवेत्' । कज्जलेन कलङ्किता कलङ्क इवाचरितवती नयनोत्पलपक्ष्मपा-

१ 'क्षारपयोधि'. २ 'इतोऽपि विषमा तटी म', 'इतो विषमदुस्तटीतटमि'. ३ 'किरण प्रभाभी'. ४ 'कुत्रचिन्नास्ति'. ५ 'अक्षनप्रमवाव्द'. ९S

नाम्, अलकवल्लरीमध्यनिवेशिततारानुकारिमौक्तिकेने कज्जलकलङ्कि- तनयनोत्पलपक्ष्मपालिना मुखेन सचन्द्रगगनस्पर्धया भूतलमपि पूर्णो- दितेन्दुमण्डलमिवापादयन्तीम्, उच्चकुचमण्डलविलोलया सस्मरसप्त- र्षिग्रहगणपङ्क्त्येव हारलतया कृतकण्ठकन्दलाश्लेषाम्, ईषत्कपोलपालिं परामृशता चाटुकारेण वसन्तसमयप्रहितदूतेनेव कर्णलग्नेन कुसुमम- ञ्जरीद्वितीयेन बालपल्लवेन विराजितवदनाम्, अच्छाच्छैः कस्तूरिका- पङ्कपत्रभङ्गैर्भुजंगैरिव लावण्यामृतरक्षागतैरलंकृतभव्यभुजशिखराम्, आसन्नभुवि विकीर्णैः पाण्डुपुष्पप्रकरैर्गगनादवतीर्य रूपालोकनकुतूह- लिभिर्नक्षत्रैरिव परिवृताम्, ऊरुनितम्बमण्डलस्पर्शसुखलम्पटतया नीवीप्रान्तपुञ्जिततरङ्गं क्षीरोदमिव वस्त्रतां गतमच्छपाण्डु नेत्रपट्टं परिदधानाम्, 'अहमेव त्वया स्वयंवरे वरणीयः' इत्यार्थितया पादल- ग्नेन शेषोरगेणेव रौप्यनूपुरवलयेन विराजितवामचरणपल्लवाम्, वि- विधविलासवर्त्तिकाभिरिवाकारिताम्, अमृतद्रववर्णकैरिव चित्रिताव- यवाम्, आनन्दकन्दलैरिव घटिताम्, मोहनमणिशिलायामिवोत्की- र्णाम्, शृङ्गारदारुणीवोत्कुट्टिताम्, वशीकरणपरमाणुभिरिव विनिर्मि- ताम्, मँदनमृत्पिण्डेनेव निष्पादिताम्, वज्रलेपपुत्रिकामिव दृशोः, आकर्षणमणिशलाकामिव हृदयस्य, जीवनौषधिमिवानुरागस्य, जय- पताकामिव मदन॑स्य, बहलचन्दनाम्बुच्छटार्द्रितभुवि विकीर्णसुरभिप- रिमलमिलन्मधुकररवानुमेयपाण्डुरपुष्पप्रकरे मसृणसितसुधाबन्धपि- च्छले सौधस्कन्धे ज्योत्स्नामृतस्पर्शसुखमनुभवन्तीम्, अच्छांशुस्फटि- कमणिपर्यङ्किकाङ्कभाजं दमयन्तीमलब्धनिद्रामद्राक्षीत् ॥ क ॥ तां चावलोक्य विचिन्तितवान् ॥ ख ॥ 'अहो स्थानेऽभिनिवेशो लोकपालानाम् । अशेषसुखनिधानाय को न स्पृहयतिँ ॥ ग ॥ मन्ये च ।


लियंन्त्र । कलङ्क इवाचरति स्मेत्याचारे क्विन्निष्टे ॥ अच्छेति ॥ अमृतं हि भुजंगै रक्ष्यते । विविधविलासवर्त्तिकाश्चित्रकूर्चिकास्ताभिराकारितामालिखिताम् । आकार- शब्दादाचारक्विबन्तान्निष्ठायां सिद्धम् ॥ क ॥


१ 'मौक्तिकेनवीनकज्ज' . २ 'उरुनितं', 'गुरुनि'. ३ 'वोत्कुट्टिताम्'. ४ 'मदनमदमृ- त्पिण्डेन', 'मदनचन्दनकुंकुमह्ररिद्रामृ'. ५ 'शृङ्गारस्थ'. ६ 'वानयम्'. ७ 'स्पृहयति भट्ट- सोमेश्वरः'

सप्तम उच्छ्वासः । २१९ विस्फारिततारैक्षगणैरिमामेव पश्यन्नयमाकाशः सग्रहोऽभूत् ॥ क ॥ अयं च चन्द्रश्चन्दनपाण्डुभिः करैरिमामेव परामृशन्मदनानल्दा- ह्मयीं व्रणलेखां कलङ्कच्छलेन हृदयेनोद्वहति ॥ ख ॥ अयमपि समीपोद्यानमारुतोऽस्याः समर्पितकुसुमगन्धः शनैरुत्त- रीयांशुकमाक्षिपन्मदनातुरस्तिर्यक् पतति ॥ ग ॥ सर्वथा २ जितं मनुष्यलोकेन, यत्रैवंविधमचिन्त्यम्, अनालोचनगो- चरम्, अप्रतिमरूपम्, अद्भुतम्, अमूल्यमुदपद्यत स्त्रीरत्नम् ॥ घ ॥ आः प्रजापते, परिणतशिल्पोऽसि । संसार, सनाथोऽसि । मदन, महोत्सवानसि । चक्षुः, कृतार्थमसि । हृदय, पूर्णमनोरथमसि । दूरागमनश्रम, सफलोऽसि ॥ ङ ॥ सकलयुवजनमनोमधुकराकृष्टिकुसुमितलतिके निजनयननिर्जित- राजीवे जीव चिरम् ॥ च ॥ तथाहि । लक्ष्मीं बिभ्राणयोः कांचिच्चञ्चद्भ्रूभङ्गभागयोः । बलिं यामो वयं तन्वि तवाब्जसदृशोर्दृशोः ॥ ३४ ॥ अपि च । किंनरवदनविनिर्गतपञ्चमगीतामृते श्रुतिं श्रयति । हरति हरिणीदृशो दृक् सालसवलिता च लुलिता च' ॥ ३५ ॥ विस्फारीति ॥ तारा नक्षत्राणि कनीनिका च । ग्रहाः सूर्यादयो भूताद्यभि- निवेशाश्च ॥ क ॥ अयमपीति ॥ अन्योऽपि स्मरातुरः कुसुमगन्धं कस्तूरिकादि चार्पयन्संव्या- नाकर्षणपरस्तिर्यक्पतति ॥ ग ॥ आः प्रजेति ॥ ‘संसार’ इत्यादीनि प्रत्येकं संबोधनानि ॥ ङ ॥ लक्ष्मीमिति ॥ हे तन्वि, तव नेत्रयोर्वयं बलिं याम उपहारीभवाम इति परम- प्रीतिगर्भा लोकोक्तिः । अब्जानि लक्ष्मीं बिभ्रति । तथा भ्रूरेव भङ्गस्तरङ्गः स भाग एकदेशो ययोः । यदा तु ‘चञ्चद्भ्रूभृङ्गसङ्गयोः’ इति पाठः तदा भ्रुवावेव भृङ्गौ तयोः सङ्गो यत्र ॥ ३४ ॥ किंनरेति ॥ यत एव हरिणीदृक्, अत एव गीतानुरागलक्षणं हरिणी हेवाक- मनुसरति ॥ ३५ ॥ १ 'अयमपि समीरणः समीपोद्यानगतोऽस्याः'. २ 'सर्वथा स्वलोकायितं म'. ३ 'कृतश्रवणासङ्गयोः'.

१२० नलचम्पूः । इत्यनेकविधानि चिन्तयन्मृदुलीलापदैरागत्य गीतगोष्ठीस्थितस्य 'कोऽयम्' इति विस्मयैविस्फारितलोचनस्य संभ्रमवतः सखीकदम्बकस्य मध्यमविशत् ॥ क ॥ प्रविष्टे च तस्मिन्, आकस्मिकविस्मयेन विस्फारितानि, भयेन भ्रमितानि, कौतुकेनोत्तानितानि, व्रीडया वलितानि, मुदा मिलदरा- लपक्ष्मणि, स्मराकूतेन विलुलितानि, दिदृक्षारसेनानिमिषाणि, दृष्टि- संघट्टनेन मुकुलितानि, विलासेन मिलितानि, चिरं चक्षूंषि बिभ्राणाः किमपि चलितासनम्, उत्कम्पितहृदयम्, अपसरद्धैर्यम्, अवगल- त्स्वेदसलिलम्, उत्फुलकिताङ्गम्, अनङ्गभङ्गुरम्, अवलोकितान्योन्य- मुखमवतस्थिरे तदभिमुखाः सख्यः ॥ ख ॥ दमयन्त्यपि 'देवी, वर्धयामो वर्धयामः । कोऽपि कस्याश्चिज्जीविते- श्वरोऽयमैत्रावगतो दृश्यते' इति हर्षोत्कर्षगद्गद्गिरां, गीतमुत्सृज्य स- संभ्रमोत्थितकुब्जवामनकन्यकानां मृदुकरतलतालिकाकलितकलक- लेन मनाग्विलासवलितमुखी तदभिमुखमवलोक्य शय्यातलादुदच- लत् ॥ ग ॥ 'आः कुतोऽस्यानेकप्रकाररक्षक रक्षते पक्षिणामपि दुष्प्रवेशे विशे- षतो राजन्यां कन्यान्तःपुरे प्रवेशः' इत्यद्भुतरसावेशस्तिमितेन किंचि- त्संचारितेन चक्षुषा पुनःपुनर्नलमवलोक्य चिन्तयांचकार ॥ घ ॥ धन्या काप्युपराधितांद्रितनया यस्यास्त्वमाह्लादय- न्मुक्ताहार इव प्रसारितभुजः कण्ठे विलोठिष्यसि । धातस्तात तवापि धन्यममुना सृष्टेन मन्ये श्रमं मातर्मेदिनि वन्द्यसे किमपरं यस्यास्तवायं पतिः' ॥ ३६ ॥ एवं चिन्तयन्त्येव तत्कालमाकूतकौतुकहर्षभयाद्यनेकरसपरम्परा- परावर्तितनयनोत्पला लज्जावनमितमुखी विधेयविवेकवैकल्यमभजत ॥ ङ ॥ धन्याकेति ॥ मातृशब्दं जननीपर्यायमपि स्त्रियः सपत्न्यादिष्वपि प्रणयसं- बोधने प्रयुञ्जते इति नले भूपतावप्यर्थिन्या दमयन्त्या 'मातर्मेदिनि' इति संबो- धनं न दुष्टम् । अन्यथा सपत्नीं प्रति मातरित्यामन्त्रणमनुचितम् ॥ ३६ ॥ १ 'इत्यनेकविधं'. २ 'विस्मयविस्मित'. ३ 'सखीजनकद'. ४ 'तानि चचि'. ५ 'तलाज्जवादुद'. ६ 'अनेकप्रासादरक्षणारक्षि', 'प्रकाररक्ष'. ७ 'राजकन्या'. ८ 'किंचि- त्साञ्चितं'. ९ 'करः'.

सप्तम उच्छ्वासः । २२१ नलोऽपि 'विहंगवागुरिके, भवत्स्वामिन्याः किमेवंविधः समाचारः, यदभ्यागतजनेन सह स्वागतालापमात्रेणापि न क्रियते व्यवहारः' इति तस्याः समीपवर्तिनीं पूर्वपरिचितां किंनरीमभाषत ॥ क ॥ सापि ससंभ्रमप्रणामपूर्वमिदमवादीत् ॥ ख ॥ 'किंचित्कम्पितपाणिकंकणरवैः पृष्टं ननु स्वागतं व्रीडानम्रमुखाव्जया चरणयोर्न्यस्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हृदि स्वामिन्किं न तवातिथेः समुचितं सख्याऽनयाऽनुष्ठितम्॥३७॥ तदितः ससंभ्रमोत्थितयानया समर्पितमिदमुल्लसन्मणिपर्यङ्किका- पृष्ठमधितिष्ठतु देवः ॥ ग ॥ त्वमपि देवि, विद्रुममणिपर्यङ्किकामिमामदूरवर्तिनीमध्यास्व ॥ घ ॥ भवतु च भवतोः परमुखेन श्रुतान्योन्यस्वरूपयोरिदानीमात्मानुभ- वेन नयननिर्वृतिः, फलन्तु मनोरथाः सखीनाम्' इति ॥ ङ ॥ तयाभिहितौ तौ सर्वसत्वरसखीकरपरामृष्टयोः स्फटिकप्रवालपर्य- ङ्किकयोरुत्सङ्गभागं भेजतुः ॥ च ॥ ततश्च तौ हर्षाद्वाष्पचिते, भयाच्चरलिते, विस्फारिते विस्मया,- दौत्सुक्यात्स्तिमिते, स्मराद्विलुलिते, संकोचिते लज्जया । रूपालोकनकौतुकेन रमसादन्योन्यवक्त्राम्बुजे किंचित्साचि च संमुखं च नयने संचारयामासतुः ॥ ३८ ॥ तत्र च व्यतिकरे अन्तः केवलमुल्लसन्ति न पुनर्वाचां तु ये गोचरा येषां नो भरतादयोऽपि कवयः कर्तुं विवेकं क्षमाः । लज्जामन्थरयोः परस्परमिलद्दृष्टिप्रपाते तयो- स्ते सर्वे समकालमेव हृदये केऽप्याविरासंन्नरसाः ॥ ३९ ॥ अपि च । तत्र च व्यतिकरे कर्णान्तकृष्टवलयीकृतचापचक्र- श्वञ्चद्गुणस्खलनजर्जरितप्रकोष्ठः । लक्ष्यद्वयेऽपि युगपद्विशिखान्विमुञ्च- न्संधानसत्वरकरः श्रमवान् स्मरोऽभूत् ॥ ४० ॥ १ विनोदाः २ रासाः

२३२ नलचम्पूः । अनन्तरमाप्तसखीवचनेन स्वयमर्घदानोद्यतां ताम् 'अलमलमुत्प- लाक्षि, प्रयासेन । न खल्वसि पात्रं परिश्रमस्य । न पारिजातमञ्जरी जरठपवनप्रेङ्खोलनायासं सहते' इति दमयन्तीमभिधाय तस्याः स्वादु- दुर्लभसूक्तिसुधासेककोमलालापपण्डिताभिः सखीभिः सह परिमित- परिहासेन, किमपि जल्पन्, किमपि हसन्, किमपि हासयन्, मुहू- र्तमिवासांचक्रे ॥ क ॥ चिन्तितवांश्च । लीलाताण्डवितध्रुवोः स्मरभरभ्रान्तोल्लसत्तारयो- रन्तर्मौक्तिकमालिकाधवलयोर्मुग्धस्मितस्मेरयोः । किंचित्साचिदृशोः कृतानिलचलन्नीलोत्पलस्पर्धयो- रुल्लोलैरिव याति पक्ष्मलदृशः कान्तिर्मदीये मुखे ॥ ४१ ॥ अपि च । दरमुकुलितनेत्रप्रान्तपर्यस्ततारं तव तरुणि सलज्जं सस्मितं सस्मरं च । क्षणमभिमुखवक्त्रे विस्मयस्मेरदृष्टौ मयि वलति वलक्षं वीक्षितं मा निरौत्सीः ॥ ४२ ॥ किंचान्यदपरमिदमाशास्महे । लावण्यामृतदीर्घिका कुलगृहं सौभाग्यसौन्दर्ययो- स्त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्रं समाः । लोकालोकनकौतुकाय बहुना शिल्पश्रमेणादरा- न्मन्ये यां विधिना विधाय विहितं सृष्टेर्ध्वजारोपणम् ॥४३॥ अहो आश्चर्यम् । रङ्गत्यङ्गे कुरङ्गाक्ष्याश्चक्षुर्मे यत्र यत्र तु । दृश्यते तत्र तत्रैव बलोद्वाणकरः स्मरः ॥ ४४ ॥ लीलेति ॥ उल्लोलैर्याति तरङ्गैः स्फुरति ॥ ४१ ॥ दरेति ॥ तवाभिमुखवक्त्रे मयि एवं गुणविशिष्टं वीक्षितं वलक्षं धवलं मा निरौत्सीः ॥ ४२ ॥ लावण्येति ॥ आलोकनाय कौतुकमालोकनकौतुकम् । लोकस्यालोकनकौतु- कम् । तेन पश्यतु लोको, द्रष्टव्यदर्शनादृष्टफलमाप्नोत्वित्यर्थः ॥ ४३ ॥ रङ्गेति ॥ तुः पुनरर्थे । किं पुनः यत्र यत्राङ्गे चक्षू रङ्गति तस्य साधिष्ठान- त्वात् । स्मरवाणबाधा प्राप्यते ॥ ४४ ॥ १ 'निरोधीः', 'विरोधीः'. २ 'सौन्दर्यसौभाग्ययोः'. ३ 'विहाय'. ४ 'हि'. ५ 'ब्लान्- बाण', 'चलद्वाण'.

सप्तम उच्छ्वासः। २२३ तत्कथमियमन्यार्थे$^१$ प्रार्थ्यते। तद्ह्यतामयं परप्रेष्यभावः ॥ क ॥ यतः। तिरयति स्वातन्त्र्यसुखम्, अभिमुखयति$^२$ पारवश्यक्लेशम्, आमन्त्रयति तिरस्कारम्, आदरयति दैन्यम्, आह्वयति लघिमानम्, आवाँहयति हास्यपदम्, समानयत्यौचित्यभङ्गम्$^४$, अङ्गीकारयति कार्प- ण्यम्, अपहस्तयति वस्तुभावम्$^५$, पुरुषस्य ॥ ख ॥ तथाहि। सोच्छ्वासं मरणं निरग्नि दहनं निःशृङ्खलं बन्धनं निष्पङ्कं मलिनं$^६$ विनैव नरकं सैषा महायातना। सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ ४५ ॥ किं चान्यत्। प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः। वीणायां वाद्यमानायां वेदोद्गारो न रोचते ॥ ४६ ॥ तत्किमिदानीमिदमुच्यते। 'लोलाक्षि, लोकपालास्त्वामस्मन्मुखेन वृण्वन्ति इति प्रस्तुतानुरागभङ्गः, तदादेशोऽपह्नूयते$^७$ स्वामिन्यन्यथा कथ्यते$^८$ श्रेयस्खलनम्, यथावृत्तमेवाख्यायते$^९$ स्वार्थहानिः, तद्वरमस्तु स्वार्थविघातो न तु विश्वस्तदेवतावञ्चनापातकम्' इति चिन्तयन्नशेष- ममपि तस्यै पुरंदरादेशं$^{११}$ सप्रपञ्चमाचचक्षे ॥ ग ॥ सोपि$^{१३}$ स्तोकस्मितस्निग्धधम्रमुखी$^{१४}$ 'हं हे प्रियंवदिके, प्रियास्मज्जी- वितयाम्बया तातेन च$^{१५}$ मध्याह्ने समाहूय किमुक्तासि, किं शिक्षिताऽसि। न नाम बालेयम्, अविनीतेयम्, आग्रहग्रहमस्तेयम्$^{१६}$, इति तत्कथमिति ॥ अन्येषामिन्द्रादीनामर्थेऽन्यार्थे ॥ क ॥ यत इति ॥ आङ्पूर्वस्य वहेतेः करोत्यर्थत्वादावाहयति कारयतीत्यर्थः ॥ ख ॥ प्रस्तुतेति ॥ उभयानुरागौचित्यादात्मार्थस्य प्रस्तुतत्वम् ॥ ४६ ॥ सापीति ॥ स्तोकेत्यादिना अर्थिनोऽपि लोकपालानन्त्यवज्ञा, नलं प्रत्यनुरा- १ 'तत्किमय'; 'अथ कथमियमन्यथाप्रा'. २ 'मुखरयति पार'; 'अतिमुखरय'. ३ 'आरो- हयति प्रतिदास्यपदम्'. ४ 'आनयति'. ५ 'पुरुषभावम्'. ६ 'गलनं'; 'नलिनं'. ७ 'अप- धीयते'. ८ 'कथ्याने'. ९ 'श्रेयःसंवलनम्'. १० 'यथावृत्तमाख्या'. ११ 'वचनपात'. १२ 'देशप्रपञ्चमा'. १३ 'ततः सापि'; 'सोऽपि'. १४ 'स्तोकस्मितमुग्धनम्र'; 'स्तोकस्मितस्नि- ग्धमुग्धनेत्रमुखी'; 'स्निग्धमुक्तनम्र'. १५ 'कुप्यता तातेन च'. १६ 'आग्रहग्रस्ते'; 'आग्र- हम्रस्तेयम्'.

१२४ नलचम्पूः । केनापि कर्णेजपेन तातस्य हृदयाद्दूरीकृताहम् । वन्द्याः खलु गुरवो देवाश्च बिभेमि तेभ्योऽहम्' इति । प्रियंवदिकाख्यया सख्या सार्ध- मैन्यालापमकरोत् ॥ क ॥ नलोऽपि 'मदिराक्षि, मदयति मदिरा, तरलयति तारुण्यम्, अन्ध- यति धनम्, उत्पथयति मन्मथः, विरूपयति रूपाभिमानः, खर्वयति गर्वः । सर्वजनप्रसिद्धमेतत् । किंतु त्वमिदमसत्यतां मौनैषीः । व्यभि- चरतु तवाङ्गे सर्वमेतत् । नहि शशिनि वह्निः, अमृते च विषाङ्कुरः संभवति । तदिमं देवादेशं मावज्ञासीः । सर्वथा प्रभवन्ति प्राणिना- ममी लोकपालाः । तत्रापि विशेषतः सकलत्रिदशाधिपतिरशेषसुरकि- रीटमाणमयूखमालाचितचरणारविन्दः पुरंदरो देवः । तद्गृह्णीं कमप्य- मीषाममृतभुजां मध्ये । मानय स्वर्गसुखानि । अभूमिरसि मर्त्यलोक- स्तोकसुखानाम्' इति पुनस्तामभ्यधात् ॥ ख ॥ एवंविधे च व्यतिकरे दमयन्त्या पुनरुक्तमिमं जल्पमरण्यकरि- ण्येवारंतुदमङ्कुशमसहमानया मनाक्तरलिते शिरसि, स्तोकीकृते मनसि, मुक्ते निःसहनिःश्वासमरुति, परावर्तिते चक्षुषि, विवर्णतामा- नीते वदनारविन्दे, प्रस्तावपण्डिता प्रियंवदिका प्राह ॥ ग ॥ 'देव, श्रुतं श्रोतव्यम्, अवधारितो देवादेशः । किं तु न स्वतन्त्रे- यम्, ईश्वरेच्छया प्रवृत्तिनिवृत्तयो यतः प्राणिनाम्, अनालोचनगोच- रश्चायमनुरागोऽङ्गनाजनस्य ॥ घ ॥ तथाहि । तीव्रतपनतापप्रियाम्भोजिनी न सहते स्तोकमप्यमृतमुचो रुचश्च- न्द्रस्य, परिम्लायति मालतीमालिका सलिलसेकेन ॥ ङ ॥ प्रसिद्धं चैतत् । भवति हृदयहारी कापि कस्यापि कश्चि- न्न खलु गुणविशेषः प्रेमबन्धप्र्रयोगे । किसलयति वनान्ते कोकिलालापरम्ये विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ ४७ ॥ गाग्रहं चान्यालापव्याजेन दमयन्ती प्रतिपादितवती । न नामेति वितर्के । 'किं दूरीकृताहम्' इति वितर्कः ॥ क ॥ १ 'अहमिति'; 'अहमपि' २ 'मन्योन्यालापलीलामकरोत्' ३. 'इति' ४ 'मनैषीः' ५ 'व्यसिचरति' ६ 'तमिमं' ७ 'वृणुष्व' ८ 'अयोगिनि' ९ 'प्रासकल्पनप्रयोगे'

एवमनेकविधोपाख्याननिपुणया तत्कालोचितम्, अनुच्छस्मितसुधा- स्निग्धम्, अविरुद्धम्, परिमितपरिहाससुन्दरम्, अनुवृत्तिबृंहितानुरा- गम्, उचितचाटुचटुलम्, अशाठ्यम्, अकठोरम्, अनुज्झितप्रियम्, प्रियंवदिकया सहाल्पालपं जल्पन् 'अयुक्तमिह कन्यान्तःपुरे चिरं स्थातुम्' इति चिन्तयन्नापृच्छथ दमयन्तीं नलः पर्यङ्किकापृष्ठादुदति- ष्ठत् ॥ क ॥ प्रथमोत्थितया च तया लज्जावनम्ववदनारविन्दया सह सखीकद- म्बकेन द्वित्राणि पदान्यनुगम्यमानो विहँसन् 'अलमलमायासेन, स्थीयतां सुखम्' इत्यभिधाय स्वगृहानयासीत् ॥ ख ॥ गत्वा च शिरीषकुसुमदाममृदुनि शय्यातले निषण्णश्चिन्तयांच- कार ॥ ग ॥ हर्षादुत्पुलकं विकासि रभसादुत्तानितं कौतुका- च्छृङ्गारादलसं, भयात्तरलदृङ् नम्रं च लज्जाभरात् । तस्यास्तन्नवसंगमे मृगदृशो दृश्येत भूयोऽपि किं किंचित्काञ्चनगौरगण्डगलितस्वेदाम्बुरम्यं मुखम् ॥ ४८ ॥ अपिच। अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा । प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपायाः ॥ ४९ ॥ इति विविधवितर्कापेशविध्वस्तनिद्रः सजलजडिम मीलत्पक्ष्म चक्षुर्दधानः । हरचरणसरोजद्वन्द्वमाधाय चित्ते नृपतिरैपि विदग्धः स त्रियामामनैषीत् ॥ ५० ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो- जाङ्कायां सप्तम उच्छ्वासः समाप्तः ॥ ग्रन्थोऽपि समाप्तः ॥


इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥


१ 'चितमुवा', 'स्निग्धम्'. २ 'परिमितं'. ३ 'असाध्यकठोरम्'. ४ 'पर्यङ्किकातलादुद'. ५ 'विरहातुरामलमलभ्रया'. ६ 'चक्षुषोः'. ७ 'नृपतिरयम सञ्जीतां त्रि०'.

२२६ नलचम्पूः । श्रीप्राग्वाटकुलान्धिवृद्धिशशभृच्छ्रीमान् यशोराज इ- त्यार्यो यस्य पिता प्रबन्धसुकविः श्रीचण्डसिंहोऽग्रजः । श्रीसारस्वतसिद्धये गुरुरपि श्रीलूलिगः शुद्धधीः सोऽकार्षीद्दमयन्त्युदारविवृतिं श्रीचण्डपालः कृती ॥ इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे सप्तम उच्छ्वासः समाप्तः ॥

नलचम्पूस्थश्लोकानामकारादिक्रमेणानुक्रमणिका । उच्छ्वासः मूलानि श्लोकसंख्या उच्छ्वासः मूलानि श्लोकसंख्या ५ अंससंसिजलार्द्र- ३७ ६ अयि भवत कृतार्थाः ८० १ अक्षमालाप्रवृत्तिज्ञा ७ ६ अरुणमणिकिरण- ३९ २ अखण्डितप्रभावोऽथ ३१ ४ अलंकृतनिशान्तेन १२ १ अगाधान्तःपरिस्पन्दम् ३ ५ अवतरति घृताची- ५१ ७ अगस्त्यामिव चेतसः १५ ५ अविरतमिदमम्भः ६१ ७ अङ्गाः कङ्कलिङ्ग- ६ ४ अवृष्टिनष्टधूलीक- १३ १ अच्छाच्छैः शुकपिच्छ- ४६ ५ असमहरितीरं ९ १ अजनि जनित- ५० १ अस्ति स्वर्गसमः ५४ ६ अजनि रजनिः ३५ १ अस्तु स्वस्ति समस्त- ५५ ४ अतिललिततरं ५ ४ अहीनां मालिकां २९ ३ अत्रान्तरे तरणि- ३ १ आकर्ण्य सरयौवराज्य- ४० १ अत्रिजातस्य या ९ १ आकारः स मनोहरः ५८ १ अथ कथमपि नाथं ५१ ७ आज्यं प्राज्यमभिन्न- ११ ३ अथ नरपतिदत्ते ८ ७ आज्यप्राज्यपरान्न- १२ ३ अथ विमलदुकूल- २१ ६ आनन्ददायिनस्ते ४२ ३ अथ मे सुबहोः १२ ५ आनन्दिसुन्दर- १२ ७ अथास्मत्कुलसंततिः १ ७ आ पूर्वापर- ४ ७ अनुगुणघटनेन ५ ३ आवभ्रत्परिवेष- ३२ ५ अनुभवतु चिराय २८ ७ आ ब्रह्मावधि २ २ अनेकधा यः किल- २० ६ आरुह्यैताः शिखरि- ६७ ७ अन्तः केवल ३९ ६ आवासाः कुसुमा- ६१ ७ अपसरति न चक्षुषो ४९ ५ आविर्भूतविषा- १६ ६ अपसृताम्बुतरङ्गि- ७४ ५ आसीद्विपण्डित- ३१ ५ अपहस्तितान्तराया- ५६ ७ आसेतोः कपिकी- ३ १ अप्रगल्भाः पदन्यासे ६ ४ आस्यश्रीः संनिमे- १६ ३ अपि रेणुकृतक्रीडं २७ ५ आहूतोदीच्यभूपेन २४ १ अब्जश्रीसुभगं ५३ ५ आह्लादयन्ति मृदवो ६८ ५ अभिलषति नाल- ७ २ आह्लादयन्ति सौम्याम्बः २४ ३ आमन्दानन्दनिष्यन्द- २५ ७ इतश्चन्द्रः सान्द्रा- ३२ ६ अयं हि प्रथमो रागः ४६ २ इति जनितमुदिन्दोः ३९

२ नलचम्पूस्थश्लोकानां उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या ६ इति विविधमुदञ्च- ४७ | ४ एताः प्राप्य परोपकार- २१ ७ इति विविधवितर्कां- ५० | ४ एताः सान्द्रद्रुमतल- ४ ७ इतो मकरकेतनः ३३ | ६ एतास्ताः परिपक्व- ७१ १ इत्थं काव्यकथा १५ | २ एषा मे हृदयं जीव २१ ४ इदं गोदावर्या- २५ | ५ एषा सा विन्ध्यमध्य- ३५ ४ इदं मन्दाकिन्या २४ | ४ कंदर्पस्य जगज्जैत्र- ६ ३ इदं राज्यमियं १३ | ५ कः करोति गुणवा- १४ १ इन्दोः सौन्दर्य- ५७ | ६ कदा किल भविष्य- २१ ५ इक्षा क्रतून्युग- ५४ | ७ कन्यामन्याऽनुरक्तां २६ २ इह कवलितकन्दं ११ | ५ कर्णमूलविषये ६२ ५ इह चरति चकोरः ७३ | ७ कर्णान्तकृष्टवलयी- ४० २ इह पुनरनिशं १२ | १ कर्णान्तविभ्रमभ्रान्त- १३ ६ इह भवतु निवासः ७३ | ५ कर्पूराम्बुनिषेक- २१ ७ ईषन्निःसृतकुन्द- २४ | ७ का नाम तत्र चिन्ता ७ ४ उचितमुचित- २२ | ६ कालमिव कलाबहुलं ३७ ६ उच्चैः कुम्भः कपिश- ६० | १ काव्यस्याग्रफलस्येव १७ ७ उच्चैः शाखाप्रसंलग्ना ४७ | २ किं कर्पूरकणाः ३८ ६ उज्ज्वलसुवर्णपदक ४१ | १ किं कवेस्तेन काव्येन ५ ५ उड्डीय वाञ्छितं ४ | ७ किंचित्कम्पितपाणि ३७ ६ उत्कम्पाङ्गलितां- ६९ | ४ किं तेन जातु जातेन १९ १ उत्फुल्लगल्लै- २३ | ७ किंनरवदनविनि- ३५ ६ उदयगिरिगतायां १ | १ किं लक्ष्मीः स्वयमागता- ५६ १ उदात्तनायकोपेता २५ | १ किं स्यादञ्जनपर्वतः ४४ ५ उन्मादिनी मद- १० | ४ किमपि परिजनेन ३३ ५ उन्मादि यौवन- ६५ | १ किमश्वः पार्श्वेषु ४९ ३ उपकर्तुं प्रियं वक्तुं १४ | ५ किमु कुवलयनेत्राः ५० ५ उपनदि पुलिने ६९ | ७ कुन्दे सुन्दरी ९ ६ उपनयति करे ५९ | ५ कुररभरसहं ४० ६ उपरम रमणीया- ५४ | ५ कुरुते नालकव- ६ ४ उपरि परिम्लानैः २३ | ६ कूजत्क्रौञ्चं चटुल- २५ २ एकान्ते सेवते योगं १८ | ५ कृतक्रीडाः क्रोडै- ४८ ५ एतस्याः करिकुम्भ- ५९ | ३ कुलातिथ्यक्रियां १० ६ एतस्याः सलिलाव- १६ | ५ केनापि व्यवहारेण १३

अकाराद्यनुक्रमणिका. ३ उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या ७ कैलासायितमद्रिभिः २८ | ४ तदेत्पुण्यानां २६ ४ कोष्णं किं नु निपिच्यते ९ | ४ तद्वार्तामृतपानार्थि- २ ५ क्वचिच्चटुल- ४४ | ५ तया दत्ता मया नीता १३ ५ क्वचित्प्रवरगैरिका ४३ | ६ तव सुभग रम्यदशया ४० ५ क्वचिदपि कार्यारम्भे ५५ | ६ तव सुहृदपभुक्त- १२ २ क्षुभ्यत्क्षीरसमुद्र- ३४ | १ तस्मिन्स्मितमुखे ५९ ६ गीतेर्ग्रामाः किल द्वित्राः ५२ | १ तस्य विषयस्य मध्ये २९ २ गौरवं गौरवंशस्य १० | २ तस्याः कान्तिनिरुद्ध- ३० ५ ग्रीवालम्बित- ५८ | २ ता एव निर्वृतिस्थान- २६ ६ चक्रधरं विषमाक्षं ३२ | ५ तात तावन्ममा- ३ १ चार्वा सदा सदाचार ३३ | ३ तास्तास्तं ज्ञपयामासु- २० ५ चिरविरचितचाटु- ७२ | ३ तुभ्यं नमो नमलोक- १ १ जननीति मुदित- ३० | १ तेषां वंशे विशद- १९ २ जनयति जलवृद्धिं ९ | १ तैस्तैरात्मगुणै- २० १ जयति गिरिसुतायाः १ | १ त्रिदिवपुरसमृद्धि- ३२ ६ जयति जगदेकचक्षु- ३१ | ६ त्वत्तो भयेन १३ १ जयति मधुसहायः २ | ६ त्वद्देशागतमारुतेन २३ ६ जयत्यखिललोक- ८ | ६ त्वद्देशागतवायसाय २२ ६ जयत्यमरसारथि- ९ | ७ दग्धो विधिविंधत्ते २१ ६ जयत्यमलकौस्तुभ- ५ | ३ दत्त्वार्घमर्हणीयाय ९ ६ जयत्यमलभावना- ११ | ७ दरमुकुलितनेत्र- ४२ ३ जयत्यम्भोजिनीखण्ड- ५ | ४ दिशः प्रसेदुः २८ ६ जयत्यम्भोजिनीबन्धु- ३ | ५ दिशि दिशि किमि- ३३ ६ जयत्यसमसाहसः १० | ५ दिष्ट्या दिवौकसां ५३ ६ जयत्यसुरसुन्दरी- ७ | ३ दूराभोगभरेण ३४ ६ जयत्युदधिनिर्गत- ४ | २ देवो दक्षिणदिक्मुखस्य २९ ६ जयत्युदरनिःसर- ६ | १ देशः पुण्यतमोदेशः २८ १ जाताकस्मिकविस्मयैः ४८ | २ देशानां दक्षिणो देश- २८ ५ जातिर्यत्र न तत्र ५७ | २ देशो भवेत्कस्य न २७ १ जानन्ति हि गुणा- १८ | २ धन्याः शरदि सेवन्ते १ ३ तत्तस्याः कमनी- ३१ | ७ धन्या काप्युपराधिता- ३६ ४ ततातस्य कृतादरस्य ३१ | १ धन्यास्ते दिवसाः ३४ ४ तथा सद्य यथा तात १७ | ५ धीरं रञ्जत- २९ २०

नलचम्पूस्थश्लोकानां·

उच्छ्वासःमूलानिश्लोकसंख्याउच्छ्वासःमूलानिश्लोकसंख्या
धुतकदम्ब-४३प्रभासंयोगिविख्यात-२४
धुतरजनि-५६प्रसन्नाः कान्तिहारिण्यो
नक्षत्रभूः क्षत्र-३७प्रसरति रणरणकरसः४३
न गम्यो मन्त्राणां१७प्रसृतकमलगन्धं
न तत्काव्यं न तद्भाष्यं२८प्रस्तुतस्य विरोधेन४६
नद्यास्तीरे विदर्भाया२७प्रायः सैव भवे-
गमिताः फलभारेणप्रावृषं शरदं
नलोऽपि मां१९प्रियविरहविषा-४५
नास्ति सा नगरी यत्र२६प्रेमप्रपञ्च११
निजप्रियमुखभ्रान्त्या६०वक्रकृतनिनदं४१
नित्यमुद्वहते३३वाणकरवीरदमनक-१७
निपतति किल२०बालोन्मील-३९
निर्मोसं मुखम-४७विभर्ति यो ह्यर्जुन-१८
निर्माय स्वयमेवविभ्रते हरिणीं३२
निश्चितं ससुरः१०ब्रह्मण्योऽपि४९
नीरं नीरजनिर्मुक्तं४२भङ्गश्लेषकथाबन्धं२२
नीरञ्जनपदे२९भजत वलसमूहाः७५
नृप चलसि६८भवति यदि सहस्रं
नोद्याने न तरङ्गिणी१६भवति हृदयहारी४७
नो नेत्राञ्जलिना६२भवन्ति फाल्गुने२७
पटलमलिकुलाना-भानोः सुता१५
पद्मान्यातपवारणानि७२भिन्दन्कन्द-४५
परिम्लानच्छाया२५मुक्तान्ते धृत-१३
परिहरति वयो२९भूपालामन्त्रणे२२
पर्णैः कर्णपुटायितै-४१भूमयो बहिरन्त-३१
पर्वतभेदि पवित्रं२९भोगान्भो गङ्गवीची-२२
पश्यैताः करिकुम्भ-३८भ्रमकरं६३
पाण्डुपङ्कजसंलीन-१४भ्राम्यद्विरेफाणि
पीनोन्नमद्धन-६४भ्राम्यद्भृङ्गभरा-६२
पुनरपि तदभिज्ञा-६४मज्जत्कुञ्जर-३६
पूर्वापरपयोराशि-३०मण्डलीकृतकोदण्डः
पूर्वाधं विहितोदया७४मदनमतियुवानं२७
पौष्पाः पञ्चशराः१८मध्यं त्रिवली५७

अकाराद्यनुक्रमणिका. ५ उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या ५ मन्दं मन्दरमन्दिरेषु ३२ | ६ लब्धार्धचन्द्र ईशः ३८ ५ मन्दायते दिनमिदं ६४ | ३ ललाटपट्टविन्यस्त ११ ६ महावराहाङ्गविनि- ३० | ७ लावण्यपुण्यपरमाणु २२ ५ माद्यद्दन्तिकपोल ३४ | ३ लावण्यातिशयः ३३ ५ माद्यन्मांसलतुङ्ग- २५ | ७ लावण्यामृत- ४३ ६ माल्यं मूर्धनि ७० | ५ लास्यं पांसुकणायते २० १ मित्रं च मन्त्री च ३८ | ५ लिप्तेवामृतपङ्केन १९ २ मुक्तादाममनोरथेन ३७ | ४ लीलया मण्डलीकृत्य ३० ६ मुक्तास्रैः श्रूयमाणं २७ | ७ लीलाताण्डवितभ्रुवोः ४१ ३ मुग्धस्निग्ध- ६ | ३ वररजनीकरकान्ते १९ २ मुग्धा दुग्धधिया ३६ | २ वरसहकारकरञ्जक- १६ ३ मुञ्चन्त्याः शिशुतां ३० | ६ वर्धमानोल्लसद्रागा ४८ ५ मुहुरधिवसतां ४२ | १ वल्लीवल्कपिनद्ध- ५२ ६ मृगेषु मैत्री २८ | २ वहति नवविकाशो- १३ ६ मृदुकरपरिरम्भा- ५८ | १ वाचः काठिन्यमायान्ति १६ ७ यं श्रुत्वैव मनोभवा- १० | ५ वायुस्कन्धमवष्टभ्य ४५ ६ यत्र न फलिता- ६३ | ३ वासरश्रीमहावल्ली- ४ ३ यथा चित्तं तथा १५ | ५ विक्लयति कला- ६६ ५ यथेयमाकृति- २६ | ७ विगलितविलास- २३ ३ यथावदादर्शं १७ | ६ विचित्राः पन्नाली २४ ६ यन्नेतस्याः सकृदपि १७ | ६ विपिनोद्देशं सरसं ३४ ४ याः स्कन्दस्य जगाद २७ | ३ विभो विभूतिसंपन्न २ ६ यात्यस्ताचलमन्ध- २ | ३ वियति विशद- १८ १ ये कुन्दद्युतयः ३५ | ५ विरचितपरिवेषाः ५२ ५ रक्तेनाक्तं विनि- ७६ | ३ विवेकः सह संपत्त्या १६ ७ रङ्गत्वङ्गे कुरङ्गाक्ष्या ४५ | ५ विश्राम्यन्ति न ५ ५ रजनिमवनिनाथः ७७ | ५ विश्लेषाकुलचक्र- ७५ ४ रसे रसायने १४ | ५ वीचीनां निचयाः ४९ २ राजते राजतेनायं ८ | ६ वीरपुरुषं तदेत- ६६ २ राजनराजीवपत्राक्ष २६ | ६ वेदविद्योपमा देवी ५३ २ रूपसंपन्नमग्राम्यं २२ | ६ वेधा वेदनयाश्लिष्टो १४ १ रोहणं सूक्तरत्नानां ८ | १ व्यासः क्ष्माभृतां १२ ७ लक्ष्मीं विश्राणयोः ३४ | ६ शतगुणपरिपाट्या ५५

६ नलचम्पूस्थश्लोकानां. उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या १ शश्वद्भाणद्वितीयेन १४ | ६ सिच्यन्तां राजमार्गाः ७८ ५ शिथिलितसकला १५ | ३ सिन्दूरस्पृहया ७ ६ शुष्काङ्गी घनचावरुज्याः ५१ | ६ सुगमस्तवास्तु ३३ २ शृङ्गाररसभृङ्गार २५ | ७ सुधापङ्केोपलिप्तेव ३० २ श्च्योतच्चन्दनचारु- ३५ | ६ सुरसदननिवासं ७७ ५ श्च्योतच्चन्द्रमणि- १७ | ७ सुस्थिततेजोराशे- १९ ७ षड्रसाः किल वैद्येषु १४ | ६ सैषा चलचन्द्रकि- २६ १ संघता सुरसार्थेन २४ | ७ सोच्छ्वासं मरणं ४५ ६ संगीतका लदौत्सुक्या- ५० | २ सोऽयं क्रीडाचलो ७ ४ संग्रहं नाकुलीनस्य २० | ४ सोऽयं यस्तेन पान्थेन ८ ५ संसाराम्बुनिधौ २ | ४ सोष्णीषमूर्धा १५ ६ स एष निषधेश्वरः ३६ | १ सोऽहं हंसयितुं २१ ६ सकलविषयवृत्ती ४४ | ७ सौधस्कन्धतलानि ३१ ६ सत्काव्यश्चन्दनाई ७९ | ५ स्कन्धशाखान्तरालेषु ४६ १ सदाहंसाकुलं ३६ | १ श्रीमाणिक्यमहाकरः ६१ १ सदूषणापि निर्दोषा ११ | ६ स्थित्वा लदागमन- १८ २ सरलप्रियंगुणाढ्य १५ | ७ स्मरराजराजधानी- २० ५ सरसिजमरुन्दा- ७० | ६ स्मर विहरणवेदीं ७६ ३ सर्गव्यापारखिन्नस्य २६ | ६ खःसौन्दर्यविडम्बि ७२ ७ सर्वेऽपि पक्षिणो हंसाः २९ | ७ हंहो हंसि चकोरि ८ ४ समुद्द्वालाः काले ११ | ३ हरचरणसरोजा- ३५ ४ सांश्रुकोन्नतवंशस्य १० | २ हरिति हरिणयूथं ६ १ सा त्वं मन्मथमञ्जरी ६० | ७ हर्षादुत्पुलकं ४८ ६ सानूनां सानूनां ६५ | ७ हर्षाद्बाष्पचिते ३८ ६ साप्यनेककलोपेता ४९ | १ हृद्योद्यानमरु- ६३ ६ सालानकमनालान- ५७ | ५ हृद्योद्यानसर- १८ ३ सा समीपस्थितज्येष्ठा २३ |

४ मू० डा.व्य. माधवनिदानम्—श्रीमन्माधवकरविरचितम्, श्रीमद्विजयक्षित- श्रीकण्ठदत्ताभ्यां प्रणीतया मधुकोशाख्यव्याख्यया सहितम्. १ ०= मालतीमाधवनाटकम्—भवभूतिकृतम्, त्रिपुरारिकृत टीकया नान्यदेवकृत टीकया जगद्धरकृत टीकयाचसहितम् ... २ ०=॥ मालविकाग्निमित्रं नाटकम्—कालिदासकृतम् ... ... ०॥० ०- मुद्राराक्षसं नाटकम्—विशाखदत्तविरचितं, धुण्डिराजकृत- टीकया सहितम्. ... ... ... ... ... १॥॥= ०।० मुहूर्त्त मार्त्तण्डः—मार्तण्डवल्लभभाष्यया व्याख्यया सहितः ... ०॥= ०- मुहूर्त्तचिन्तामणिः—(पीयूषधाराख्यव्याख्यासहितः ।) ... १॥॥ ०।० मृच्छकटिकम्—शूद्रककविकृतं, पृथ्वीधरकृतव्याख्यासहितम् १ ०= मेघदूतकाव्यम्—कालिदासकृतम्. ... ... ... ... ०।= ०- याज्ञवल्क्यस्मृतिः—(मिताक्षराख्यव्याख्यासहिता.) ... २ ०।० योगरत्नाकरः—अयं नात्यर्वाचीनो ग्रन्थोऽखिलभिषग्गणमा- न्योस्ति । अत्र सर्वेषां रोगाणां निदानपूर्विका सविस्तरा चिकित्सा सप्रमाणा प्रतिपादितास्ति । तथा विविधरसाय- नकषायासवारिष्टावलेहगुटिकापाकादीनां प्रक्रियाप्रमाणानु- पानादिप्रपञ्चोपि यथावत्कृतोस्तीत्ययं ग्रंथः सर्वोपयुक्तः स्यात्. २ ०।० रघुवंशकाव्यम्—कालिदासकृतं, मल्लिनाथकृतया संजीविन्त्या- ख्यया टीकया सहितं, स्थूलाक्षरम्. ... ... ... १॥ ०=॥ रत्नावलीनाटिका—श्रीहर्षदेवकृता. ... ... ... ०॥० ०- राक्षसकाव्यम्—(सटीकम्) श्रीकालिदासकृतम्. ... ... ०- ०॥ लक्ष्मीहृदयं नारायणहृदयं च—(कौशेयबद्धम्.) ... ... ०= ०- लघुयोगवासिष्ठम्—आत्मसुखकृतया वासिष्ठचन्द्रिकाटीकया सहितम्. ... ... ... ... ... ... ५ ०॥- लघुधातुरूपसंग्रहः— ... ... ... ... ... ०= ०॥ लौकिकन्यायाञ्जलिः नाम लौकिकन्यायसंग्रहः ... ०।= ०- लौकिकन्यायाञ्जलिः—द्वितीयो भाग उपरिनिर्दिष्टसदृश एव. ०॥।० ०= लौकिकन्यायाञ्जलिः—तृतीयो भागः ... ... ... १। ०= वाल्मीकिरामायणम्—आदिकविश्रीवाल्मीकिमहामुनिप्रणीतं, रामकृततिलकटीकया सहितम्. ... ... ... ७ ०॥॥= विक्रमोर्वशीयं नाटकम्—कालिदासकृतं, रङ्गनाथकृतया प्रकाशिकाटीकया सहितम्.... ... ... ... ०॥।० ०- विश्वगुणादर्शचम्पूः—श्रीमद्वेङ्कटाध्वरिविरचिता, पदार्थचन्द्रिका- ख्यव्याख्यासहिता. ... ... ... ... ... १ ०= विष्णोर्नामसहस्रम्—प्रथमं मूलश्लोकाः, तदधोभागे एकपार्श्वे मूलश्लोकगतानि नामानि, तत्संमुखद्वितीयपार्श्वे च नामा-

र्थश्लोकाश्च, एवं च १००० नाम्नां सहस्रश्लोकानां निवेशः मू० डा.व्य. कृतः. तेन च मूलनाम्नामर्थज्ञानं सम्यक्तया स्यात्. ... ०|= ४- वृत्त रत्नाकरः—केदारभट्टविरचितः (वृत्तरत्नाकरपञ्चिका) व्याख्यासहित. ... ... ... ... ... १ ४= वेणीसंहारं नाटकम्—भट्टनारायणप्रणीतं जगद्धरकृतया टी- कया सहितम्. ... ... ... ... ... ०|||• ४-||. वैराग्यशतकम्—भर्तृहरिकृतं, महावलोपाह्वकृष्णशास्त्रिकृतया टीकया सहितम्. ... ... ... ... ... ०|.|| ०|| शार्ङ्गधरसंहिता—अंजननिदानसहिता (मूलमात्रा)... ... ०||= ०= शिवगीता—लक्ष्मीनरहरिसूनुकृतवालानन्दिनीव्याख्यासहिता। अस्याः १६ अध्यायाः संति। पद्मपुराणे श्रीरामागस्त्यक- संवादरूपेणास्या अनुवादोऽत्यंत सुललितोऽध्यात्मबुभुत्सूनां मनांस्याह्लादयति। अस्य मूल्यं १ रूप्यकपरिमितमासीत् संप्रति सुव्यवस्थया संमुद्र्यापि केवलं अर्धरूप्यकमेव. ... ०||• ४- शिशुपालवधं काव्यम्—माघकृतं, मल्लिनाथकृतया सर्वंकषा- ख्यटीकया सहितम्... ... ... ... ... २ ०|'- शुक्लयजुर्वेदमाध्यंदिनसंहिता. ... ... ... ... २ ०|'= शृङ्गारशतकम्—भर्तृहरिकृतं, महावलोपाह्वकृष्णशास्त्रिकृतया टीकया सहितम्. ... ... ... ... ... ४=|| ०|| श्रीमद्भागवतमूलमात्रम्—कौशेयवद्धम्. ... ... ... १| ४=|| सचूर्णिंकं श्रीमद्भागवतम्—रफ, मूल्यं रु० ५ ग्लेजपत्राणि. ६ १ सत्यहरिश्चंद्रनाटकम्—प्रवन्धशतकर्तृमहाकविरामचन्द्रप्रणीतम्. ०|= ४- सप्तशती—(चण्डीपाठः), देवीसूक्तं त्रीणि रहस्यानि च इत्येतैः सहिता कौशेयवद्धा, स्थूलाक्षरा.... ... ... ... ०||= ४=|| सप्तशती—कौशेयपट्टवेष्टिता, मध्यमाक्षरा. ... ... ... ०|'= ४- सप्तशती—कौशेयेन वद्धा सूक्ष्माक्षरा. ... ... ... ... ०|'- ४- सप्तशती—बन्धनरहिता, स्थूलाक्षरा. ... ... ... ... ०||• ४= सप्तशती—पत्रमात्रा, मध्यमाक्षरा. ... ... ... ... ०|•|| ४- सप्तशती—इयं कवचार्गलाकीलकरहस्यत्रयसंपुटितास्ति । इयं लघ्वक्षरायामविस्ताराप्यतिमनोहरा कौशेयपट्टवद्धा चिक्रण- पत्रैर्नूलाभिनवाक्षरैश्चाङ्किता. ... ... ... ... ४=|| ०|| समयोचितपद्यमालिका—प्रासङ्गिकश्लोकचरणान्तःपाति- श्लोकानां संग्रहः.... ... ... ... ... ०|= ४- सारस्वतव्याकरणं पूर्वार्धम्—वस्त्रबद्धम्. ... ... ... ०|'- ४- सारस्वतव्याकरणं पूर्वार्धम्—पत्रमात्रबद्धम्. ... ... ०|'- ०||