न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
द्वितीयैस्तबके ] प्रलयोपपादनम् । २८५ यमेऽपि सर्वमण्डलोपरागः स्यात् । त्रिदोषसन्निपातवद्वा । यथा हि वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमानियमेऽपि एकदा सन्निपातः स्यात्तदा देहसंहारः, तथा काला- नलसंहारपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहि- ताश्चेतनाः स्युरिति को विरोधः ? । तथापि, विदेहाः कर्मिण इति दुर्घटमिति चेत् । किमत्र दुर्घटम् ? । भोगनिरोधवच्छरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः । वृश्चिकतण्डुलीयकादिवद् वर्णादिव्यवस्थाप्युपपद्यते । यथा हि, वृश्चिकपूर्व- कत्वेऽपि वृश्चिकस्य गोमयादाद्यः, तण्डुलीयकपूर्वकत्वेऽपि तण्डुलीयकस्य तण्डुल- कणादाद्यो, वह्निपूर्वकत्वेऽपि वह्नेररणेराद्यः, एवं क्षीरदधिघृततैलकदलीकाण्डादयः । तथा मानुषपशुगोब्राह्मणपूर्वकत्वेऽपि तेषां प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेद- हेतुका एव, स एव हेतुः सर्वत्रानुगत इति सर्वषां तत्सान्तानिकानां समानजा- बोधनी । न्तान्तरमाह-त्रिदोष इति । तदेव विभजते-यथा हि इति । वातादिदोषाणां चयप्रकोपप्रशमा न नियताः कदाचिद्धि कश्चिच्चीयते कुप्यति शाम्यति वेति, न तु युगपत्सर्वेऽपि । यथाह-चाहटः । चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु । वर्षादिषु च पित्तस्य श्लेष्मणः शरदादिषु । इति तत्रैकैकमात्रकोपे रोगः स्यात् । कदाचित् त्रयाणां सन्निपातो युगपत्कोपः स्यात् । तदा देह एव प्रलीयते । तदप्याह । "रोगस्तु दोषवैषम्याद्दोषसाम्यमरोगता । वातः पित्तं कफश्चेति त्रयो दोषाः समासतः । विकृता विकृता देहं घ्नन्ति ते वर्तयन्ति च" । इति पक्षेऽप्याह-तथा इति । ब्रह्माण्डात् मनो देहस्य, कालानलः पित्तं, संहारपवनो वातः, महार्णवः श्लेष्मेति, तेषां कोपे तदपि प्रलीयते । तदां च भोग्यभोगसाधनयोरसंभवे भोगरहिताः कर्मिणस्ति- ष्ठन्तीत्यांविरुद्धमिति । तथापि इति । न सन्ति देहाः, सन्ति च तेषां निमित्तानि कर्माणीति व्याहतमिति । किमत्र इति । यथा हि तदानीं सत्स्वेव कर्मसु तन्निरोधात् भोगो निरुध्यते, तथाऽत एव भोगसाधनदेहादिनिरोधोऽपि घटिष्यत इति । तृतीयं पादं व्याचष्टे-वृश्चिक इति । दग्धाद्वेत्रबीजात् कदलीकाण्डोत्पत्तिरित्यादयः । पक्षेऽप्याह-तथा इति । तेषां मानुषादीनाम् । तत्तत्कर्म इति । तत्तन्मानुषत्वादिजातिभेदनि- मित्तादृष्टवदात्मसंयुक्कारम्भकपरमाणुभेदहेतुका इति । तर्हि वैजात्यात्कारणस्य कार्यसाजात्यं न स्यादित्यत्राह-स एव इति । अद्यतनानामप्यदृष्टोपनिबद्धभूतभेदहेतुकैव जातिव्यवस्था, ततश्च न कारणवैजात्यमिति । यदि सर्वत्र कर्मोपनिबद्धभूतभेदहेतुर्जातिनियमः, तर्ह्यत्पादकजातिपूर्वकत्व- प्रकाशः । "सुविनिर्दुर्भ्यः सुपिसूतिसमा" इत्यनेन कृतसंप्रसारणस्यैव सुपेः षत्वविधानात् । तथाऽपीति । कर्मभिर्भोगजनने देहस्यावश्योत्पाद्यत्वादित्यर्थः । भोगेति । तदानीं कर्मभिर्भोगजननात् तदर्थं देहोत्पादनमित्यर्थः । तण्डुलीयकमृद्भिद् दृष्टान्तः। एवमिति । क्षीरादक्षीराच्च परमाणोः क्षीरम् , एवं दध्याद्यपीत्यर्थः । नन्विदानीं ब्राह्मणत्वादिव्यवस्थापकं विशुद्धमातापितृजत्वादिकं, सर्गादौ तु कर्मैत्यननुगम इत्यत आह । स एवेति । इदानीमप्यदृष्टविशेषोपगृहीतभूतजनितत्वेनैव तद्वय- प्रकाशिका । वृत्तित्वकत्वाद् व्याचष्टे । प्रतिबद्ध्येति । तण्डुलीयकमिति । "उद्भिद्वृश्चिकच- मकरन्दः । त्वात् । श्वासजनककर्मणां वृत्तिलाभादसिद्धिरिति विवृणोति प्रतिबद्ध्येति । तण्डुलीयेकेति ।
२८६ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ २ कारिकान्याख्याने तीयत्वमिति किमसङ्गतम् ? । गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना । न गतम्, योनिजेष्वेव व्यवस्थापनात्, मानसास्त्वन्यथाऽपीति । गोमयवृश्चिकादिवद् इदानी- मपि किं न स्यादिति चेन्न । कालविशेषनियतत्वात् कार्यविशेषाणाम्, न हि वर्षासु गोमयाच्छालुक इति हेमन्ते किं न स्यात् ॥ समयोऽप्येकेनैव मायाविनेव व्युत्पाद्यव्युत्पादकभावावस्थितनानाकायाधिष्ठा- नाद् व्यवहारात एव सुकरः । यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकमिद- मानयेति प्रयुङ्क्ते, स च दारुपुत्रकस्तथा करोति तदा चेतनव्यवहारादिवत् तद्दर्शी बालो व्युत्पद्यते, तथेहापि स्यात् । क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दा- दीनाम् । सर्गादावेव किं प्रमाणमिति चेत् । विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवा- बोधनी। मुत्पाद्यजातीनामिति नियमो निरस्तः स्यात् इत्याह-गतं तर्हि इति । न गतम् इति । न च सोऽपि नियमः सर्वथा निरस्यत इति । कथमित्याह-योनिजेषु इति । योनिजेष्वेवायं नियमो नायोनिजेष्विति केवलं व्यवस्थाप्यते, तेन मानसानामन्यथात्वमपि संभवतीति । नन्वन्यत्वेऽपि यथा गोमयाद् वृश्चिका जायन्ते तथा मनसाऽपि केचिज्ञ्जायन्ताम् इत्याह-गोमय इति । न इति । कालविशेषलक्षणसहकारिविरहादित्यर्थः । तत्रैव दृष्टान्तमाह-न हि इति । तथा सर्गादावेवादृष्टोप- निबद्धभूतहेतुको जातिनियमः, नेदानीमपीति सिद्ध एव । संग्रहस्य तुरीयं पादं व्याचष्टे-समयोऽपि इति । मायाविनेत्येतद्विभजते-यथा हि इति । शब्दव्युत्पत्तिवद् घटादिनिर्माणव्युत्पत्तिरपि कुलालादिभावव्यवस्थितकायानाधिष्ठाय पटादिकं निर्मिमाऐनैवेश्वरेण सुकरेत्याह-क्रियाव्युत्पत्तिरपि इति । ननु सर्गप्रलययोः सिद्धौ सर्वमेतदेवं स्यात्, तयोरेव सिद्धिः कुतस्त्येत्याह-सर्गादौ इति । सर्गसिद्धौ तावदनुमानमाह-विश्वसंतानो ऽयम् इति । अवयवावयविप्रवाहः संतानः, सिद्धसा- ध्यतान्निवृत्यर्थमुक्तं-विश्व इति । दृश्यसंतानशून्यैः इति । यथा ह्यद्यत्वे घटादिकार्याणि तदारम्भकैः परमाणुभिः तदारम्भात् पूर्वदृश्यमानमृत्पिण्डादिकार्यसंतानवद्भिरारभ्यन्ते, नैवं सर्व- दापीति । कदाचिद्दृश्यसंतानशून्यैरनारब्धसर्वकार्यैः स्वरूपेणावस्थितैरिति यावत् । परमाणुभिर्विश्वं कार्यमारभ्यते यथा हारणिजनितोऽग्निः संतानान्तरशून्यैरवारणिवर्तिभिरान्नेयपरमाणुभिरारभ्यत प्रकाशः। इत्येतार्थः । गतमिति । सर्गायगोव्यक्तौ व्यभिचारादित्यर्थः । योनिजेष्विति । योनिजमात्रवृत्ति- गोत्वव्याप्यजातेस्तत्र हेतुत्वादित्यर्थः। तन्निश्चयश्च कालविशेषवृत्त्येति भावः । समयोऽपीति । नन्वीश्वरव्यवहाराच्छक्तिग्रहे स भ्रमः स्यात् । व्यवहारहेतुतज्ज्ञानस्य नित्यतया शब्दजन्यत्वबाधात् । तथा च तन्मूलकः सर्वशाब्दव्यवहारो भ्रमः स्यात् । न । घट- पदं घटज्ञानमित्यस्य भ्रगत्वेऽपि घटपदं घटशक्तमित्यस्य ज्ञानस्य सत्यज्ञानत्वाद् विषयाबाधावात्। न च भ्रममूलकत्वेन भ्रगत्वम् । विशेष्यावृत्तिप्रकारकत्वस्योपाधित्वात् । अत एवानुरूपं दृष्टान्तमाह । यथा हीति । विश्वसन्तान इति । ननु विश्वशब्देन ब्रह्माण्डपक्षत्वे तदसिद्ध्या आश्रयासिद्धि, कार्यमात्र- पक्षत्वे क्रमारब्धदहनपवनादिन्यायेनारम्भेऽपि प्रलयासिद्धौ सिद्धसाधनम्। एकदेति विशेषणे टिप्पणी। प्रलयेऽहोरात्रत्वानभ्युपगमेऽपि ब्रह्माण्डस्यानित्यत्वे सर्गायहोरात्रव्यक्तित्वे साधनाव्यापक-
द्वितीयस्तबके ] प्रलयोपपादनम् । २९७ प्रकाशः । तेनैव व्यभिचारात् । एकदाऽऽरम्भहेतुसाकल्ये सतीति विशेषणासिद्धेः । साध्यमपि कार्यद्रव्य- शून्यसमवाय्यारभ्यत्वं कार्यमात्रशून्यसमवाय्यारभ्यत्वं वा ? । आद्ये सिद्धसाधनमन्त्ये बाधः, आरम्भकसंयोगादेः सत्त्वात् । अथैककालीनाः सर्वे परमाणवः कदाचित् समप्रोपादेय- प्रबन्धशून्याः, आरम्भकत्वान्नष्टपवनारम्भकपरमाणुवत् । सर्वत्र पक्षतावच्छेदकावच्छिन्न- साध्यं प्रतीयते इत्येककाले शून्यता लभ्यते । न च पवनपरमाणूनामपि पक्षत्वेनांशतः सिद्धसाधनम् । पक्षधर्मतावल्लभ्यसाध्याप्रतीतेः । अमेदानुमानवज पक्षस्यापि दृष्टान्तत्वाविरोधः । न । कार्यद्रव्याधिकरणकालमात्रवृत्तित्वस्योपाधित्वात् । प्रकाशिका । दिति" कारिकायामुन्द्रिच्छब्देन तण्डुलीयकशाकविशेषो दृष्टान्त इत्यर्थः । तेनैवेति । धूमारब्धद हनादिनेवेत्यर्थः । .. समप्रोपादेयप्रबन्धशून्यत्वं सामान्याभावः स च बाधितः । इदानीं प्रतिबन्धसत्त्वादिति कदा चिदिति विशेषणम् । उपादेयपदं = स्वोपादेयद्रव्यपरमतः खण्डप्रल- येऽपि कर्म्मादिसत्त्वान्न बाधः । आरम्भकत्वादिति । द्रव्यसमवायिकारणत्वादित्यर्थः । तेन ना काशादौ व्यभिचारः । नष्टेति । न च तेजोट्वयोरपि संसर्गिद्रव्यतया तेनापि द्रव्यान्तरजनने दृष्टान्तस्य साध्यवैकल्यमिति वाच्यम् । पूर्वद्रव्यनाशकालीनस्य परमाणोः साध्यवत्त्वानिश्चयात् । कार्यद्रव्येति । ननूपाधिदातुर्रमते मात्रपदव्यवच्छेद्याऽप्रसिद्धिः । न च न्यायमतेनैवाय- मुपाधिः स्यादिति ग्रन्थयोजना दृष्टान्तीकृतपरमाणोरेव साध्याव्यापकत्वात् । न च प्रलयासिद्धौ साध्यव्यापकतासन्देहोऽस्त्येवेति वाच्यम् । प्रलयस्य सिद्धावसिद्धौ चोपाधिताप्रयोजकान्यतररूपन्य- मकरन्दः । उन्द्रित्पदेन शाकविशेष एव दृष्टान्ततयोक्त इति भावः । तेनैवेति । कमारब्धदहनपवनादिने- त्यर्थः । तस्यैकदाऽऽरब्धत्वाभावादिति भावः । संप्रति तद्बाधितमित्यत आह कदा चिदिति । उपादेयपदं स्वोपादेयद्रव्यपरं, तेन खण्डप्रलयसाधने न बाधः । कार्यद्रव्येति । ननु मात्र- पदोपादाने दृष्टान्तितपवनपरमाणावेव साध्याव्याप्तिः, तस्य प्रलयेऽपि वृत्त्या तादृशकालमा- त्रवृत्तित्वाभावात् । तदनुपादाने साधनव्यापकत्वम् । उपादिदातृर्मते मात्रपदव्यवच्छेद्यकार्यद्रव्या- नधिकरणकालाप्रसिद्धिश्च । अत एवेदमेवानुमानं सिद्धान्तितं शब्दखण्डे, अन्यथा सोपाधित्वे तद- नुपपत्तेः, तस्मादयमनुपाधिरेव । प्रलयसन्देहदशायामुपाधित्वेनास्य सन्देहो दूषक इत्याशयेनास्यो- पाधित्वेनोद्भावनम् । न च मात्रपदव्यवच्छेद्यासिद्धेरस्यैवाप्रसिद्धतया कथं तथात्वमपीति वाच्यम् । न्यायमतेन तथात्वसम्भवादिति वदन्ति । वयन्तु ब्रूमः । न्यायमतेनैवास्योपाधित्वम् । एवञ्चोपा- धित्वादित्यस्य पूर्वे त्वन्मत इति पूरणीयम् । तथा च नाप्रसिद्धिर्न वा साधनव्यापकत्वम् । साध्या- व्यापकत्वन्तववशिष्यते, तदपि न, सावयवत्वाणुभिन्नत्वाद्यवच्छिन्नसाध्यव्य पकतया पर्यवसित- साध्यव्यापकत्वात् । न चैवं स्वीकृतत्रिविधोपाधिवहिर्भावेऽपसिद्धान्तः, तस्योपलक्षणपरत्वात् । अत एव वायुः प्रत्यक्षः प्रमेयत्वादित्यादौ रूपवत्त्वावच्छिन्नसाध्यव्यापकमुद्भूतत्वमुपाधिः सर्वसिद्धः । न च न्यायमतेन सिद्धान्तितत्वादव्यभिचरिते प्रकृतहेतौ नोपाधिरिति वाच्यं, शून्यपदस्य ध्वंस- परतया कादाचित्काभावपरतया वा यथाश्रुते हेतोर्मनःप्रभृतौ व्यभिचारेणास्य सङ्गतत्वात् । अत एवारम्भकत्वादिति हेतुरुक्तः, अन्यथा मेयत्वादिकमेव समर्थं स्यात् । द्रव्यसमवायिकारण- त्वविवक्षया च सिद्धान्तत्वमिति न विरोधगन्धोऽपीति तत्त्वम् । कालमात्रपदयोरन्यतरान्तर्भावेण तन्मतेऽपि सन्दिग्धोपाधिपरत्वमित्याहुः । न चेति । व्योमादिसमानकालीनतया तदति- रिक्तत्वमसम्भवतीत्यत आह कार्येति । बाधवारणाय द्रव्येति । दृष्टान्तसिद्ध्यर्थमाह टिप्पणी । त्वात् नित्यत्वे च तत्राप्यस्त्येवोपाधिरिति नासङ्गतिः । कार्यद्रव्याधिकरणकालमात्रेति ।
३८८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां प्रकाशः। न च परमाणवः कार्यद्रव्यसमानकालिकपरमाणुक्रियाऽतिरिक्तक्रियावन्तो मूर्तत्वात् पटवदि- त्यावान्तरप्रलये, महाप्रलये च कार्यद्रव्यसमानकालिकैतद्वृत्तिध्वंसान्यध्वंसवन्तः तत एव तद्वदिति प्रकाशिका। तिरेकनिश्चयात् सामान्यतोऽनुपाधितानिश्चयात्, प्रलयस्वीकारे साधनव्यापकत्वनिश्चयेऽपि साध्या- व्यापकत्वनिश्चयादस्वीकारे च साध्यव्यापकत्वनिश्चयेऽपि साधनव्यापकतानिश्चयात् । न च प्रलय- स्वीकारेऽपि सावयवत्वावच्छिन्नसाध्यव्यापकोऽयमुपाधिरुपाधित्रैविध्याभिधानस्योपलक्षणपरत्वादिति ति वाच्यम् । सावयवत्वावच्छिन्नसाधनव्यापकत्वात् । यद्धर्मावच्छिन्नसाध्यव्यापकस्तद्धर्मावच्छिन्न- साधनव्यापकस्यैवोपाधित्वात् । अन्यथा प्रसिद्धानुमाने व्यञ्जनवत्त्वादेरुपाधितापत्तेः । किञ्चात्रानुमाने व्याप्तिदोषो नास्त्येवेति कथमुपाधिः सङ्गच्छताम् । अत एव चिन्तामणिविदमेव सिद्धान्तानुमान- मुक्तमिति । अत्राहूः। आरम्भकत्वमात्रं हेतुर्न च द्रव्यविशेषितमेवञ्च यथा निरुक्तस्य साध्यस्याका- शादावसत्त्वेन हेतोर्व्यभिचार इति एवं द्रव्यविशेषितहेत्वभिप्रायेण च चिन्तामणौ सिद्धान्तानुमान- मिदम् । अणुभिन्नत्वावच्छिन्नसाध्यव्यापकश्चायमुपाधिः । कपालादौ निरुक्तसाध्यव्यापकत्वादाका- शादौ तदवच्छिन्नसाधनाव्यापकत्वाच्च न्यायमतेनैवायमुपाधिरतो न मात्रपदव्यवच्छेद्याप्रसिद्धिः। का- लपदमुपाधौ त्याज्यमेव तथा सति आकाशादेरेव मात्रपदव्यवच्छेद्यत्वमित्यप्याहुः । वस्तुतं उपा- धिपदं प्रकृतेऽवच्छेदकपरं तेनायमर्थः, एककालीना इत्यत्र प्रलयरूपकालोपाधेरेवावच्छेदकत्वेऽ- प्रसिद्धिरिति संसाररूपकालोपाधिरेव पक्षतावच्छेदको वाच्यः । तथा सति बाधापत्तिरिति । अनयैव रीत्या कार्यद्रव्यानधिकरणेत्यपि क्वाचित्कः पाठो योजनीयः, संसारकालस्यावच्छेदकत्वे बाध इति तदन्यः कालोपाधिरवच्छेदको वाच्यः । तत्र चाप्रसिद्धिरित्येवं कृत्वा, मात्रपदं च उभयपाठप क्षेऽपि व्युत्क्रमेण योजनीयम् । कार्यद्रव्याधिकरणकालवृत्तित्वमात्रमिति क्रमेणेति दिक् । न च परमाणव इति । व्योमादेः प्रलयेऽपि सत्त्वाद्वाध इति कार्येति । क्रियाकाले कार्यावश्य- म्भावेन बाध इति द्रव्येति । दृष्टान्तसिद्ध्यर्थं परमाण्विति । पक्षधर्मतावलात् कार्यद्रव्यसमान- कालीनक्रियासिद्धौ, प्रलयसिद्धिरिति भावः । योग्यतैवात्र साध्येति न निष्क्रिये विनष्टे व्यभिचारः । क्रियावत्त्वमेव वा हेतुत्वेन विवक्षितमिति स्मर्त्तव्यम् । तत एवेति । ध्वंसवत्त्वादेवेत्यर्थः । न च यस्मिन् परमाणौ प्रथमत एव संयोगादिसमस्तकार्यध्वंसः, पश्चाच्च परमाण्वन्तरकर्मनांशेन महाप्रल- यस्तस्मिन्नंशतो बाधव्यभिचाराविति वाच्यम् । संयोगनाशाय क्रियायास्तन्नाशाय वा संयोगस्य स्वीकारेणादृष्टनाशादेव चरमनाशे सर्वत्र साध्यसत्त्वात्। योग्यतैवात्रापि साध्येति क्रियावत्वमेवात्रापि मकरन्दः। परमाण्विति । मूर्त्तत्वादिति । क्रियावत्त्वादित्यर्थः । तेन निष्क्रिये विनष्टे न व्यभिचारः । योग्यता साध्येत्यन्ये । तत एवेति । मूर्त्तत्वादेवेत्यर्थः । अत्रापि योग्यतायाः साध्यत्वान्नोत्पन्नविनष्टे व्यभिचारः । वस्तुतो मूर्त्तपदं ध्वंसवत्परमन्यथाऽवच्छिन्नपरिमाणवत्परत्वे व्यर्थविशेषणत्वापत्तेरिति ध्येयम् । टिप्पणी। न्यायमतेनैवेदमुपाद्युद्भावनम्, तव मते इति च शेषः । यद्यपि दृष्टान्ते साध्याव्या- पकत्वम् । तथापि अणुभिन्नत्वावच्छिन्नसाध्यव्यापकत्वादाकाशे तादृशसाधनाव्यापकत्वाच्च भवत्युपाधिः, न चाकाशे साध्यसत्त्वनिश्चयः, एतदनुमानपूर्व प्रलयस्य सन्दिग्धत्वात्, साध्यवत्तया निश्चिते यावत्युपाधिनिश्चयस्यैव दूषकत्वात् साध्याव्यापकत्वस्य सन्दिग्धस्यापि दूष- कत्वात् । मात्रपद्व्यावर्त्यस्य न्यायमते प्रलयस्य सत्त्वान्न तद्वैयर्थ्यशङ्का । वस्तुतस्तूपधिपदमव- च्छेदकपरम्, तथा चैककालीनता इत्यत्र पक्षतावच्छेदककालवृत्तित्वं कार्यद्रव्याधिकरणकाल-
द्वितीयस्तबके १] प्रलयोपपादनम् । २८६ प्रकाशः । वाच्यम् । एतदन्यगुणवत्त्वस्योपाधित्वात् । नाप्यारम्भककालान्यवृत्तिध्वंसप्रतियोगिवृत्तिकार्यद्रव्यत्वं, स्वाधिकरणानधिकरणवृत्तिध्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्मत्वात्, एतत्प्रदीपत्ववदिति, वाच्यम् । स्वपदेन पक्षभिन्नाभिधानेऽनन्वयात् । पक्षाभिधाने त्वप्रसिद्धिः । अत्राहुः। विश्वसन्तानपदेन कार्यमात्रवृत्त्यनेकवृत्तिधर्मः कार्यद्रव्यत्वं पक्षः। तथा हि, समयसम- • प्रकाशिका । तत इत्यनेन परामृश्यते मूर्त्तत्वस्यावच्छिन्नपरिमाणवत्त्वार्थकत्वे अवच्छिन्नपदवैयर्थ्यादिति कश्चित् । एतदन्येति । पक्षेतरत्वनिरासाय तदन्यत्वं विहाय एतद्वृत्तिगुणान्यगुणवत्त्वपर्यन्तानुधावनम् । यद्यप्ययमपि पर्वतेतरद्रव्यत्ववन्नोपाधिः साध्यव्यापकताग्राहक सत्त्वे तु वह्नीतरत्ववदेतदन्यत्वमुपाधिः सम्भवत्येव, तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् । नाप्यारम्भकेति । आकाशवृत्तिध्वंस- प्रतियोगिवृत्तित्वमादायार्थान्तरमिति वृत्तयन्तः पक्षविशेषणम् । तस्यापि तादृशध्वंसप्रतियोग्यवृत्ती- त्यर्थोऽन्यथो कार्यान्तरतादवस्थ्यात् । इयञ्च कालाघटितसाध्यपक्षे व्याख्या । यदा तु कालघटितं, साध्यंतदोक्तार्थान्तरशङ्का विरहादुपरञ्जकमेव तद्विशेषणम् । स्वपदेनेति । पक्षभिन्नस्य दृष्टान्ती- कृतैतत्प्रदीपत्वादेरभिधाने अनन्वयः, उद्देश्यप्रलयासाधकत्वात् । पक्षाभिधाने तु तादृशकालाप्रसि- द्धेरित्यर्थः । इदञ्च कालघटितसाध्यपक्षे व्याख्यानम् । तदघटितसाध्यपक्षे तु पक्षभिन्नायावद- भिधाने तदधिकरणानधिकरणधर्मिणोऽभावात् साध्यस्य क्वचिदप्यसत्त्वादनन्वयः । पक्षाभिधाने त्वप्रसिद्धिः, दृष्टान्ते साध्यासिद्धिरिति व्याख्याता उक्तदोषनिरासाय स्वपदकालपदाघटितं साध्य- मादाय सिद्धान्तयति-तथा हीति । आकाशादिवृत्तिध्वंसप्रतियोगिवृत्तित्वमादायार्थान्तरशङ्का मा भूदिति बाघस्फोरणाय समयेत्यादि अवृत्तीत्यन्तं पक्षविशेषणम् । समयपदं साधारणाधिक- रणपरमतो न पक्षविशेषणासिद्धिः, तादृशशब्दवृत्तित्वेनार्थान्तरमिति पक्षे, द्रव्यपदं स्वरूपासिद्धि- वारणाय, पक्षे कार्यपदं महाप्रलयेनार्थान्तरवारणाय, साध्ये समानकालीनान्तमधिकरणान्त- विशेषणं न तु ध्वंसविशेषणमिदानीन्तनध्वंसस्यापि महाप्रलये सत्त्वादुक्तार्थान्तरतादवस्थ्यात् । ध्वंस- मकरन्दः । एतदन्येति । यद्यपि पक्षेतरत्वनिरासाय गुणवत्पदमयुक्तं, साध्यव्यापकताग्राहक सत्त्वे वह्नीतरत्व- वत्त्वस्याप्युपाधित्वात्, तदसत्त्वे पर्वतेतरद्रव्यत्वादिवदस्यापि पक्षेतरतुल्यत्वेनानुपाधित्वात्, तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् । अनन्वयादिति । प्रकृतानन्वयात् कार्य्यद्रव्याधिकरणकालासिद्धे- रित्यर्थः । पक्षेति । कार्य्यद्रव्याधिकरणद्रव्यादेः प्रसिद्धत्वेऽपि तादृशंकालस्याप्रसिद्धेः साध्ये काल- पदान्तर्भावादप्रसिद्धिरिति भावः । एतदनन्तर्भावेण सिद्धान्तमाह तथा हीति । समयेत्युपलक्षणं तदुपाधि-दिक्-तदुपाध्यादिकमपि बोध्यम् । एतच्च तादृशाकाशवृत्तिध्वंसप्रतियोगिवृत्तित्वेनार्थो- न्तरं मा भूदिति बाधस्फोरणाय समवायिपदं द्रव्यसमवायिपरम् । तादृशशब्दवृत्तित्वेनार्थान्तर- वारणाय पक्षे द्रव्यपदम् । महाप्रलयेनार्थान्तरवारणाय कालीनान्तं ध्वंसविशेषणम् । कार्य्यप्राग- भावपदयोरन्यतरान्तर्भावेण साध्यद्वयं बोध्यम्, अतो न व्यर्थविशेषणत्वम् । कार्यपदं भावकार्य्य- परम् । कार्य्यद्रव्यानधिकरणत्वं कार्य्यद्रव्याभाववत्त्वं, तच्च कपालादावपीति तद्वृत्तिध्वंसमादायार्था- टिप्पणी । वृत्तित्वं न तु प्रलयवृत्तित्वन्तस्यासिद्धेस्तथा च बाध इति भावः । एतदन्यगुणवत्त्वस्योपाधित्वा- दिति । यद्यप्येतस्य पक्षेतरत्वतुल्यत्वम् । तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् । आरम्भकका- लान्येति । आरम्भको द्रव्यसमवायिकारणं तस्मात् कालाच्च यदन्यत् तद्वृत्तिध्वंसप्रतियोगिवृत्ति- त्वाभावादित्यर्थः । उक्तविशेषणोपादानादाकाशवृत्तिध्वंसप्रतियोगित्वमादाय नार्थान्तरम् । कालघ- ३७ न्या० कु०
यिभिरारब्धः। सन्तानत्वाद्वारोयसन्तानवत्। वर्त्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पा इति। प्रलयेऽपि प्रमाणमाह-वर्त्तमान इति। यदि संतानानारम्भकत्वादित्येवोच्येत द्व्यणुकादिभि र्व्यभिचारः स्यात्, न हि ते पूर्वमुत्पादितसंतानान्तराः अथ चारम्भकाः, अतस्तद्व्यवच्छेदायोक्तं- वायिभिन्नवृत्तित्वंसप्रतियोग्यवृत्तिकार्यद्रव्यत्वं, कार्यद्रव्यप्रागभावसमानकालीनारम्भकातिरिक्तकार्यद्र- व्यानधिकरणवृत्तित्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्म्मत्वात्, शब्दत्ववत्। न चात्र विभुवृत्तित्वं वृत्तित्व मुपाधिः। अन्त्यावयविकर्मत्वे साध्याव्यापकत्वात्। वर्त्तमानेति। ब्रह्माण्डस्यागमसिद्धत्वानाश्रया- प्रागभावात्मककर्मादिसमानकालीनो द्रव्यध्वंसो महाप्रलयाव्यवहितक्षणे भवत्येवेति तमादायार्था- न्तरवारणाय द्रव्यपदम् कार्यद्रव्यपदयोस्तु विकल्पेनान्वयः कार्यपदञ्च भावकार्यपरं कार्यद्रव्यान- धिकरणत्वं कार्यद्रव्याभाववत्त्वमेवोक्तं तच्च कपालादावस्त्येवेति कपालादिकमादायार्थान्तरवारणाया- रम्भकातिरिक्तेत्यनधिकरणान्तविशेषणम्। आरम्भकपदं द्रव्यसमवायिकारणपरमतो न दृष्टान्ते- साध्यवैकल्यम्। कार्येति। अनन्तत्वे व्यभिचारवारणाय इति। मात्रेति। न चैवमपि ध्वंसत्वे व्यभिचारः, भाववृत्तित्वे सतीति विशेषात्। नन्वेवमपि चरमक्रियात्वे व्यभिचारः, न च प्राग्भा- वसमानकालीनकार्यमात्रवृत्तित्वादिति हेतुरिति वाच्यम्। तथापि चरमस्वर्गीयघटत्वे व्यभिचा- रात्। न च तादृशध्वंसप्रतियोगिजातीयवृत्तित्वं साध्यमिति वाच्यम्। तथा सत्यनन्तत्वे तज्जातीय- व्योमादिवृत्तितया साध्यसत्त्वेन मात्रपदवैयर्थ्यापत्तेः। न च ध्वंसप्रतियोगित्वमपि जातीयविशेषण मिति वाच्यम्। तस्याप्रयोजकत्वेन व्यापकतानवच्छेदकत्वादिति। अत्र मिश्राः। मात्रपदं हेतौ कात्स्न्र्यार्थकमिति विभाजकोपाध्यवच्छिन्नयावत्कार्यवृत्तित्वा- दिति हेतुः। कार्यपदं च भावकार्यपरमिति वदन्ति। तदपि चिन्त्यम्। तथा सति पक्षे कार्यपद- स्याप्रयोजकत्वापत्तेरिति। अत्र ब्रूमः। अनादितावच्छेदकधर्म्मत्वादिति हेत्वर्थः, अनादित्वं च सजातीयध्वंसव्याप्यप्रागभावप्रतियोगित्वम्। व्याप्तिश्च कालिकीति न काप्यनुपपत्तिरिति दिक्। अन्त्येति। अन्त्यावयविनिष्ठकर्म्मवृत्तितयैव कर्म्मत्वे साध्यमित्याविष्कर्त्तुमन्त्यावयविप- न्तरवारणायारम्भकेति। द्रव्यसमवायिकारणातिरिक्त इत्यर्थः। कार्यमात्रेति। ननु ध्वंसत्वे व्य- भिचारः। न च कार्यपदं भावकार्यपरं, मात्रपदवैयर्थ्यापत्तेः। न च भाववृत्तित्वे सति कार्यमा- त्रवृत्तित्वमर्थः, तथा चानन्तत्वे व्यभिचारवारणाय मात्रपदमिति वाच्यं, तथापि चरमज्ञानत्वादौ व्यभिचारापत्तेरिति चेन्न, तादृशध्वंसप्रतियोगिजातीयवृत्तित्वस्य साध्यार्थस्य तत्रापि सत्त्वात्। न चैवमपि मात्रपदवैयर्थ्यमनन्तत्वे तज्जातीयव्योमादिवृत्तितयाऽपि साध्यसत्त्वादिति वाच्यम्। ध्वंस- प्रतियोगित्वेनापि जातीयस्य विशेषणात्। अधिकं शब्दप्रकाशे द्रष्टव्यम्। अन्त्यावयविपदोपादानं टितस्य साध्यत्वे तूपरञ्जकमेवेदम्। कार्यद्रव्यप्रागभावसमानकालीनेति। महाप्रलयेनार्थान्तरवा- रणाय कालीनान्तम्। कार्यमात्रवृत्तिधर्म्मत्वादिति। ध्वंसवृत्तितया कार्यमात्रवृत्तावनन्तत्वे व्यभिचारवारणाय मात्रपदम्, तस्याकाशादिवृत्तित्वात्। न च ध्वंसत्वे व्यभिचारस्तस्य कार्यमा- त्रवृत्तित्वादिति वाच्यम्। तद्वारणाय भाववृत्तित्वे सतीत्यस्य विशेषणीयत्वात्। मात्रपदोपादानव- लाद् वा भावकार्यवृत्तित्वे तात्पर्ष्यलाभात्। उक्तध्वंसप्रतियोगिजातीयध्वंसप्रतियोगिवृत्तित्वं साध्यं नातः सर्वमुक्तत्मकंमहाप्रलयाव्यवहितपूर्ववर्त्तित्वज्ञानत्वे व्यभिचारः, विवक्षितसाध्यस्य
[द्वितीयस्तबके] प्रलयोपपादनम् । २६१ दितसजातीयसन्तानान्तराः, नित्यत्त्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्या- दि । अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्यातां, सन्तानाऽविच्छेदश्चेति को विरोध इति चेन्न । एवं तर्हि घटादिसन्तानाविच्छेदोऽपि स्यात्, विपर्ययस्तु दृश्य- ते । कर्त्रादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेन्न । द्व्यणुकेषु तदभावात् । तथा च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः । तस्माद् यत्कार्यं बोधनी । नित्यत्वे सति इति । पूर्वत्राप्यर्थतः प्रलयः सिध्यति, अत्रापि सर्ग इति द्रष्टव्यम् । अनुमानयो- र्विपक्षे बाधकं पृच्छति-अवयवानाम् इति । यथा ह्ययतवे तन्त्ववयवानां संयोगविभागाभ्यामेव पटादेरुत्पत्तिविनाशौ संतानानुच्छेदेन दृश्येते तथैव सर्वदापि तौ स्यातां, किमत्र बाधकमिति । एवं तर्हि इति । यदि संतानानुच्छेदः स्यात् तर्ह्यवयवावापोद्धारलक्षणो विनाशोऽपि न स्यात्, दृश्यते चासाविति । कन्थादि इति । न संतानत्वप्रयुक्तः पटादेर्विनाशः, किन्तु विनष्टपटावयवार- ब्धकन्थादिद्वारभोगविशेषप्रयुक्त इति । कर्त्रादिभोगविशेषेति पाठे त्वयमर्थः-पटादेः कर्तॄणां कुविन्दादीनां पटाद्युत्पादनद्वारेण ये भोगास्तेषां तद्विनाशमन्तरेणानुपपत्तेस्तत्प्रयुक्तो विनाश इति । द्व्यणुकेषु इति । द्व्यणुकेषु तस्य भोगविशेषस्य विनष्टद्व्यणुकावयवद्वारस्य द्व्यणुकोत्पादनद्वारस्य वा न संभव इति । ततः किमित्यत्राह-तथा च इति । तस्माद्द्भोगविशेषस्याप्रयोजकत्वात्कार्यस्योत्प- त्तिविनाशयोः समवायिकारणसंयोगविभागावेव निवन्धनमङ्गीकर्तव्यमित्याह-तस्मात् इति । प्रकाशः । सिद्धिः । तदारम्भकत्वं तन्तुभिः पूर्वमनुत्पादितपटैरनैकान्तिकमित्यत उक्तम् । नित्यत्वे सतीति । नित्यत्वमात्रन्तु व्योमादिभिरनैकान्तिकमिति तदारम्भकत्वादित्युक्तम् । प्रदीपपरमाणूनां तैजसद्रव्य- त्वेन संसर्गिद्रव्यतयाऽऽरब्धतेजोजातीयत्वसिद्धौ दृष्टान्तत्वम् । न चाप्रयोजकत्वम् । निरुपाधिमङ्ग- प्रसङ्गस्य विपक्षबाधकत्वात् । न त्वागमो विपक्षबाधकः । तस्य कार्यद्रव्यानाधारकालावोधकत्वात् । सन्तानाविच्छेदेऽपि उत्पत्तिविनाशयोरन्ययोपपत्तिरित्याह । अवयवानामिति । आवापोद्वापौ उपगमापगमौ । यदि नैवं कार्यद्रव्यस्यात्यन्तमुच्छेदस्तदाऽभिमतघटायुच्छेदोऽपि न स्यादित्याह । एवं हीति । विपर्ययस्त्विति । अत्यन्तोच्छेद इत्यर्थः । ननु न सन्तानप्रयुक्तोऽस्यन्तोच्छेदः, किन्त्वन्योपाधिप्रयुक्त इत्याह । कर्त्रादीति । उपाधेः साध्याव्यापकत्वमाह । द्व्यणुकेष्विति । तदभावाद्भोगविशेषसम्पादकत्वस्योपाधेरभावादित्यर्थः । न च तत्राप्यत्यन्तानुच्छेदेऽपि अवयवा- नामावापोद्वापाभ्यामेवोत्पादविनाशसम्भवः । तयोरप्राभावादित्याह । तथा चेति । नाशस्य भोग- विशेषसम्पादनप्रयोजकत्वे द्व्यणुकनाशो न स्यात् । तेन भोगाजननात् । तथा च विनाशिभाव स्यादनुत्पन्नत्वेन नित्यतया द्व्यणुकत्वव्याघात इति सन्तानत्वस्यात्यन्तोच्छेदेन स्वाभाविकः सम्ब- न्धो मन्तव्य इत्यर्थः । सन्तानस्यावस्थानमहेतुकं नित्यहेतुकं वा यदि स्यात्तदा सन्तानाविच्छेदः स्यादित्याह । तस्मादिति । यद्धेतुकमिति दृष्टान्तार्थम् । एतत्=कार्यं यन्निबन्धनस्थितीत्यादिकम् । प्रकाशिका । दोपादानम् । तस्येति । कार्यद्रव्यानधिकरणत्वेन तत्कालाबोधकत्वादित्यर्थः । किञ्चिद्भुवनाव- च्छिन्ननाशस्यैव पुराणादौ प्रतिपादनादिति भावः । अभिमतति । घटाद्यत्यन्तोच्छेदोऽपीत्यर्थः । मकरन्दः । तमादाय साध्याव्याप्तिरिति कृत्वा, वस्तुतः कर्मत्व एव साध्याव्यापकत्वम् । तस्येति । यद्यपि प्रलयवोधकागमसत्त्वादिदमयुक्तं, तथापि तदनाधारत्वेन तत्कालाबोधकत्वादित्यर्थादित्याहुः । अभिमतति । घटात्यन्तोच्छेदोऽपीत्यर्थः ॥ २ ॥ टिप्पणी । तत्र सत्त्वाद् । संसर्गिद्रव्यतयेति । भूयः संसृज्यमानस्वभावतया । तस्य कार्यद्रव्याना-
२६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः, यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः । न च कार्यस्य स्थितिनिबन्धनं नित्यमेव । नित्यस्थितिप्रसङ्गात् । न च नित्य एव हेतुः, अकादाचित्कत्वप्रसङ्गात् । तदतिनिस्तरङ्गमेतत् । ईदृश्याञ्च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पा- दनीय इति द्व्यणुकवत् पिपीलिकाण्डादेर्ब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गति- रिति प्रतिबन्धसिद्धिः । तथा च ब्रह्माण्डे परमाणुसाङ्ख्वितरि परमाणुषु च स्वत- न्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्त्तन्ताम् ? कुपितकपिकपोलान्त- र्गतोदुम्बरमशकसमूहवद्, दवदहनदह्यमानदारूदरविधूर्ण्णमानघुणसङ्घातवत्, प्रलय- पवनोल्लासन्तौर्वावानलनिपातिपोतसांयात्रिकसार्थवद्वेति ॥ २ ॥ अपि च— जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्म्मणोः ॥ ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥ ३ ॥ बोधनी । अस्त्वेवं, तथापि कार्यस्थितिनिबन्धनमुत्पत्तिहेतुश्च किमिति सर्वदा न स्यातामित्यत्राह—न च इति । निरस्तः प्रवाहोऽनादिमानित्यत्रेति । यदि कार्योत्पत्तिविनाशयोर्भोगविशेषोऽप्रयोजकः तर्हि भोगार्थः कर्मभिः सर्व्वषामुत्पाद इति सिद्धान्तो व्याकुप्येतेत्यत्राह—ईदृश्याम् इति । इयं तावदर्थस्यितिनं च तत्र सिद्धान्तहानिः । कर्माण्येव वस्तुस्थितिमनतिक्रामन्ति तद्भोगसमर्थवस्तुत्पादनद्वारेण भोगविशेषं सम्पादयन्ति, तेन येषां वस्तूनामुच्छेदस्वभावो न तेषामनुच्छिन्नानां भोगसाधनत्वम् , अन्यथा नानापुरुषाहृष्टोत्पादि- तस्य कस्यैव पटस्य परःसहस्रं वत्सरानवस्थितस्य क्रमेण भोगसाधनत्वप्रसङ्ग इति भावः । तस्मा- द्यथा द्व्यणुकेषु भोगाभावेऽपि स्थितिनिबन्धनहेत्वोरपगमोपगमाभ्यामेव विना शोत्पत्ती तथैव विश्व- स्यापि कार्यस्य ते भविष्यत इत्याह-इति द्व्यणुकवत् इति । एवं विपक्षे बाधक सद्भावात्सृष्टिप्र- लयानुमानयोः सिद्धः प्रतिबन्ध इत्याह-इति इति । तदेवमापरमाणोर्ब्रह्माण्डस्य विनाशसिद्धौ कैव कथा तदन्तर्वर्त्तिनः कार्यस्येत्याह—तथा च इति । तदन्तर्वर्त्तिभिः सह विनश्यतीत्यत्र निदर्श- नान्याह-कपिकपोल इति ॥ २ ॥ न केवलमनुमानं दर्शनं च प्रलयसद्भावानुगुणमित्याह—अपि च इति । जन्मादेर्ह्रासदर्श- नात्स्वाध्यायाध्ययने कर्मणोऽनुष्ठाने पुरुषाणां शक्तेश्च ह्रासदर्शनात् संप्रदायस्य ह्रासोऽवगम्यत इति । प्रकाशः । ईदृश्यामिति । अनित्यहेतुनिबन्धनायां कार्यस्थितौ कर्मभिः संपादनीयो भोग एवमेव वस्तुस्वभावानतिक्रमणेति योजना । नन्वेवमपि ब्रह्माण्डनाशसिद्धौ गिरिसागरादीनां कुतः प्रलय इत्यत आह । तथा चेति । क्व वर्त्तन्तामिति । विनश्यन्तीत्यर्थः । महाद्रव्यान्तरेण निहन्यमा- नाधारत्वाद्, महादहनदह्यमानाश्रयत्वाद्, महापवनक्षुभितसमुद्रविलीयमानाश्रयत्वादित्यत्र हेतु- त्रये क्रमेण दृष्टान्तत्रयमाह कुपितेति । एतेनाधाराभावात् पतन्त एव सन्तीत्यपास्तम् ॥२॥ एवं सर्वस्य नाशे अर्थाद् वेदोऽपि नश्यतीत्युपपाद्य वेदह्रासदर्शनेनापि तन्नाशोऽनुमेय इत्याह । अपि चेति । प्रकाशिका । भोगस्य कर्मसंपादनीयत्वं मीमांसकोऽपि स्वीकरोत्येवेति तदभिधानमनर्थकमित आह— कर्मभिरित्यादि ॥ २ ॥ टिप्पणी । षात्कालाबोधकत्वादिति । तत्तात्पर्यवत्त्वानिश्चयेत्यादि ॥२॥
द्वितीयस्तवके ] प्रलयोपपादनम् । २६३ पूर्वं हि मानस्यः प्रजाः सम्भवन्, ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः कामाऽवर्जनीयसन्निधिजन्मानः, इदानीं देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः । पूर्वं चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः इदानीन्तु जातेषु लौकिकव्यवहारमाश्रित्य । पूर्वं सहस्रशाखः समस्तो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः, इदानीन्तु क्वचिदेका शाखेति । पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्रायोऽतिष्ठन्, ततोऽमृतवृत्तयः, संप्रति मृतप्रमृत- सत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः । पूर्वं दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि । पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव । पूर्वं चतुष्पाद् धर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति ज्ञाने द्विपात्, संप्रति जीर्यति यज्ञे दानैकपात्, सोऽपि पादो दुरागतादिविपादिकाशत- दुःस्थोऽश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यत- या इतस्ततः स्खलन्निवोपलभ्यते । इदानीमिव सर्वत्र दृष्टानाधिकमिष्यते इति चेन्न । बोधनी । जन्मनो ह्रासं व्याचष्टे-पूर्वं हिः इति । पूर्वं श्रुतयः स्मृत्तिदर्शनात्तत्स्मृतयश्च पूर्वतमविशिष्टाचारद- प्रकाशः । वेदह्रासे दृष्टान्तार्थं जन्मादिह्रास उक्तः । प्रतियुगं क्रमेण ह्रासमाह । पूर्वे हीति । समाधायिषत सम्यगाहिता इत्यर्थः । श्रूयमाणा अपि वेदा उच्छेत्स्यन्ति, वाक्यत्वात् , उच्छि- न्नशाखावदिति भावः । ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्ष्यं प्रमृतं कर्षणं स्मृतम् ॥ सत्यानृतं तु वाणिज्यं कुसीदञ्च फलान्तरम् ॥ पाशुपाल्यं = गोरक्षादि । श्ववृत्तिः = सेवा । वैश्यावेशिनो = वैश्याऽतिथयः । अमृत- भुजो = यज्ञशेषभुजः । विघशभुजो = अतिथिशेषभुजः । अन्नभुजो = भृत्यशेषभुजः । अघ- भुजः = स्वार्थसाधितभुजः । चतुष्पादिति । तपोज्ञानयज्ञदानानि चत्वारः पादाः । दुरागतं= दुष्टादुपायद् द्यूतादेरागतम् , तदेव विपादिका = पादरोगः । ननु न शाखोच्छेदः, किन्तु यावान् वेद इदानीमधीयते तावानेव सदाऽध्ययनविषय इति वेदह्रासोऽसिद्ध इत्याह । इदानीमिति । विवादपदं स्मृतिः, स्मृत्यर्थानुभावकवेदमूला प्रकाशिका । मूले पूर्वं सहस्रशाखा इत्यादिना विद्याह्रासे कथ्यमाने शक्तिस्वाध्याययोरपि ह्रास उक्त एवेतिन तयोरदाहरणान्तरं पूर्वमृतवृत्तय इत्यादि किन्तु कारिकास्थाऽऽदिपदसंग्राह्यकथनम्, पूर्वं चतुष्पादित्यादिना कर्म्मह्रास उक्त इति बोध्यम् । विवादपदमिति । प्रत्यक्षवेदाऽमूलाऽदृष्टा- चेत्यर्थः । लोभमूलकस्मृतेस्तु स्मृतिपदेनैव वारणम् , स्मृतिपदस्य ऋषिप्राणीतवाक्यपरत्वात् । वेद- मूलत्वं वेदजन्यानुभवजन्यत्वमदृष्टद्वारा वेदजन्यानुभवजन्यत्वासिद्धिशङ्कानिरासाय स्मृत्यर्थानु- भावकेति साध्यविशेषणम् । मकरन्दः । विवादपदमिति । एतच्च प्रत्यक्षवेदमूलस्मृत्यंशे लोभादिमूलकस्मृत्यंशे च सिद्धसाधनत्राघादि- टिप्पणी । ऋतमुञ्छशिलमिति । "उञ्छः कणश आदानं कणिशायर्जनं शिलम्” कपिशं= शस्यमञ्जरी । इति धर्मदत्तोपाध्याय ( प्रसिद्ध बच्चाझा ) कृतकुसुमाञ्जलिप्रकाशद्वितीयस्तवकटिप्पणी समाप्ता ॥
२६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ३ कारिकां व्याख्यायां स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् । स्वातन्त्र्येण स्मृतीनामा- चारस्य च प्रामाण्यानभ्युपगमात् । मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभा- वात् । आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्र- सङ्गात् । आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् । बोधनी । र्शनादिति, बीजाङ्कुरन्यायेनानादित्वेन स्मृत्याचारयोः प्रामाण्यसिद्धेः किं शब्दानुमानेनेत्याश- ङ्कयाह-आचारात् इति । अन्धानां मुग्धरूपस्मरणतुल्यताप्रसङ्गात् । यथा हि तद् रूपनिर्णयसा- पेक्षं तथा धर्मनिर्णये स्मृत्याचारः स्मृतेरनुभवापेक्षत्वादाचारस्य प्रमेयत्वेन प्रमाणापेक्षत्वात्, अत- स्तयोरेवान्योन्यमूलत्वाभ्युपगमेऽन्धवाक्यपरम्परापङ्क्तितुल्यता प्रसज्यत इति । तर्हि तयोर्वेदमेव मूल- मनुमास्यामः स तु वेदो मन्वादीनां प्रत्यक्षः इदानीमुच्छिन्न इति नाभ्युपगच्छामः, किन्तु तैरपि पूर्वस्मृत्यादिना तैरपि पूर्वतमस्मृत्यादिना, ततश्च सर्वेषां नित्यानुमेयस्यैव वेदस्य मूलत्वान्न शाखो- च्छेदः, नाप्यन्धपरंपराप्रसक्तिरिति प्राभाकरस्तन्नाह — आसंसारम् इति । यदि सर्वैरप्यनाम्नातः प्रकाशः । अक्लृप्तमूलान्तरत्वे सति महाजनपरिगृहीतस्मृतित्वात् , प्रत्यक्षवेदमूलस्मृतिवत् । अतो न न्याया- दिमूलकस्मृतौ व्यभिचारः । तथा, मङ्गलाचारो वेदबोधितः, अलौकिकविषयाविगीतशिष्टाचार- त्वात् यागवदिति स्मृत्याचारमूलस्य वेदस्याप्रत्यक्षत्वात् तदुच्छेदे तदध्यीयमानवेदस्याप्युच्छेदो भावीत्याह । स्मृतीति । ननु, वेदवत् स्मृत्याचारयोरदृष्टे स्वतः प्रामाण्यमेवेति न तन्मूलकवे- दानुमानमित्यत आह । स्वातन्त्र्येणेति । वेदनिरपेक्ष्येण स्मृत्यादेस्त्वयाऽपि प्रामाण्यानभ्युपगमा- दित्यर्थः । ननु स्मृतिकर्त्तारः स्वयमेवापूर्वं साक्षात्कृत्य तत्साधनमुपदेक्ष्यन्तीति न तेषां तदर्थं वेदापेक्षेत्यत आह । मन्वादीनामिति । अतीन्द्रियार्थदर्शित्वे तेषामनाश्वासादिति भावः । ननु भूयः शिष्टाचारदर्शनात् स्मृतिप्रणयनम् , ततः पुनःरिदानीं शिष्टाचारपरम्परा स्यादिति किं तन्मू- लवेदानुमानेनेत्यत आह । आचारादिति । उभयोरप्यनुमानमूलकत्वेनाव्यवस्थापकत्वात् तादृश- स्मृत्याचारयोर्वेदमूलकत्वव्याप्तिस्तव देशनाया एव धर्मे मानत्वाच्च तयोरमानकत्वापातादित्यर्थः । ननु नित्यानुमेयो वेदस्तन्मूलं स्यादतो न शाखोच्छेद इत्यत आह । आसंसारमिति । अनाम्ना- प्रकाशिका । अक्लृप्तेति । न्यायमूलकत्वे सत्यन्तार्थः । लोभमूलकस्मृतौ व्यभिचार इति महाज- नपरिगृहीतेति । प्रत्यक्षमूलकवाक्ये व्यभिचार इति स्मृतीति । स्मृतित्वञ्चादृष्टज्ञा- पकवाक्यत्वम् । अतो न ऋषिप्रणीतदृष्टान्तार्थकवाक्ये व्यभिचारः । नन्वनुमानमपि स्वतः प्रमाणमेवेति कथं तन्मूलकत्वे नाश्वास इत्यरुचेराह । तादृशस्मृत्याचारयोरिति । ननु तत्रापि व्याप्तावसम्भवन्मूलान्तरत्वमुपाधिरित्यरुचेराह-तव देशनाया इति । मीमांसकस्ये- मकरन्दः । वारणार्थम् । ताद्रूप्यसिद्धयेऽनुभावकान्तम् । न्यायादिमूलकस्मृतौ व्यभिचारवारणाय अक्लृ- प्तेति । असम्भवन्मूलान्तरत्वे सतीत्यर्थः । ननु महाजनपरिगृहीतपदं व्यर्थमिति चेत् । सत्यम् । भ्रम एवात्र मूलमित्यसिद्धिशङ्कानिरासाय तदुपादानात् न तु हेतुविशेषणत्वे तात्पर्य्यमित्येके । लोभादिभिन्नन्यायादिमूलकत्वाभावमात्रे सत्यन्ततात्पर्य्यम् । एवं च लोभादिमूलकस्मृताविव व्यभि- चारवारणाय तदित्यन्ये । लोभस्य वस्तुगत्या मूलत्वाभावान्मूलपदस्य प्रामाणिकमूलपरत्वाद्वा सत्यन्तेन लोभमूलकस्मृतौ व्यभिचारवारणाय तदुपादानमित्याहुः । अलौकिकेति । एतच्च द्रव्यप्रकाशे व्याख्यातम् । नन्वनुमानमूलकत्वेऽपि नान्धपरम्परा न हि प्रत्यक्षमात्रं प्रमाणमित्या- शयादाह तादृशेति । नन्वत्राप्यसम्भवन्मूलान्तरत्वमन्यथा न्यायादिमूलकस्मृतावपि तथात्वा- पत्तिरित्यनुशयादाह तवेति । मीमांसकस्येत्यर्थः । तथा च तवापसिद्धान्त इति भावः ।
द्वितीयस्तवके ] प्रलयोपपादनम् । २४५ उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निरर्थकत्वात् । बोधनी । तर्हि वेद एव स न स्यात् । वेदो नाम शुश्रूषाराधितगुरुमुखादिगतं द्विजातिभिरधीयमानं क्रमस्व- रादिविशेषोपेतं वर्णकदम्बकं न तु वर्णमात्रम्, न चैतन्नित्यमनुच्चारितस्य संभवति, तेन नित्या- नुमेयो वेद इति परस्परपराहतं वचनमिति । इत्थं न वेदत्वं तस्येत्याह-उत्पत्तितः इति । धर्माधर्मयोरवेदनाद्वेदः, वेदत्वं चानुपूर्व्या विशिष्टानां वर्णानां न केवलानाम्, आनुपूर्वी च वर्णा- नामुत्पत्तितो भवति यथा नैयायिकानाम्, अभिव्यक्तितो वा यथा वैयाकरणानाम्, अभिप्रायतो वा यथा न्यूनवाक्यप्रयोगे वक्तुरभिप्रायोपलक्षितैर्वर्णैर्वाक्यपूरणेनार्थप्रतीतिः । त्रिधा चेयमानुपूर्वी नित्यमनुच्चारितानां न संभवतीत्यनर्थकत्वाद्वेदत्वव्याघात इति । ननु मा भूद् वेदत्वं तथापि शिष्टैराचर्यमाणत्वादष्टकादेरिष्टसाधनत्वं कर्तव्यत्वं च ज्योतिष्टोमवदनुमाय तत्र चानुमेयवेदस्य प्रकाशः । तस्य = अपठितस्य । उत्पत्तित इति स्वमते, अभिव्यक्तित इति परपक्षे, अभिप्रायत इति उभयत्र । यथा मौनिश्वोकोऽपठितः श्रोत्रानभिव्यक्तश्चाभिप्रायस्थस्तथा वेदोऽपीत्यपि नेत्यर्थः । तथात्वेऽनिश्चितानुपूर्वीकपद्कदम्बस्वरूपत्त्वे नित्यानुमेयत्वव्याघात इति भावः । अत्र स्मृत्याचारमूलं वेदोऽध्ययनविषयो न वा, वेदत्वमध्ययनविषयत्वव्याप्यं न वेति विप्र- तिपत्तिः, ननु स्मृत्यर्थज्ञापकत्वेन ज्ञातस्यैव वेदस्य स्मृत्यर्थानुभावकत्वम् , न हि शाब्दबोधे निय- तपदानुपूर्वी हेतुः, गामानयानय गामित्यत्र तदभावेऽपि तत्सत्त्वात् । पदस्य वर्णविशेषानुपूर्वी- नियमेऽपि तत्तद्वर्णानुपूर्वीकपदविशेषो न हेतुः, घंटकलशंपदानां प्रत्येकं व्यभिचारात् । किन्त्व- व्यभिचारितदर्थज्ञापकत्वेन ज्ञातस्य, लाघवादावश्यकत्वाच्च । अत एव; वर्णलोपे दन्त्यादिसका- रादिसन्देहे सत्यपि वाक्यार्थधीः । न च क्रमिकपदवत्त्वं वाक्यत्वम् अनुच्चार्यमाणस्य चोच्चार- णघटितक्रमासम्भव इति वाच्यम् । गौरश्व इत्यादौ तत्सम्भवेऽपि वाक्यत्वाभावात् । विशिष्टा- र्थपरशब्दत्वंन्वत्रापि तुल्यम् । न चानुच्चार्यमाणस्य न वाक्यत्वम् । लिप्यनुमितानां मौनि- श्लोकस्य च वाक्यत्वात् । किञ्च वाक्यमुच्चार्यते, न तूच्चारणाद्वाक्यत्वम् । वाक्यमुच्चारयेदि- त्यत्रानन्वयापत्तेः । उच्चारणदशायां वाक्यत्वे वाक्यस्यासत्त्वापत्तेः । एकदा तावत्पदानामुच्चार- णाभावात् । अथ तदर्थज्ञापकत्वेन ज्ञातात् पदात् पदार्थज्ञानमात्रं स्यान्न संसर्गज्ञानम् । अन्व- यप्रकारकप्रत्यागुपस्थापकविभक्त्यादिसमभिव्याहाराभावात् । मैवम् । अनुमितवेदाद्वाक्यार्थानु- भवे सामग्र्या वैलक्षण्यात् । धर्मिग्राहकमानेन तवाशरीरेश्वरकर्तृकत्वस्यैव स्मृत्यर्थानुभावकत्वे- नैव तस्य सिद्धेः । अन्यथाऽन्यत्र कॢप्तहेतुं विना न सोऽनुभावक इत्यादौ तदसिद्धावाश्रयासि- द्धिस्तत्सिद्धौ च बाधः । अत एव स्तुतिनिन्दार्थवादकल्पितविधिनेषेधकवेदार्थमवगत्य प्रवृ- त्तिनिवृत्ती । अन्यथा विधिनिषेधकवेदानां नानाप्रकारत्वेन विभक्त्यादिविशेषवत्पदस्यानुमा- तुमशक्यत्वान्न ततोऽर्थधीः स्यात् । एवमाचारानुमितवेदादपि प्रवर्तककर्तव्यताधीः स्मृत्याचारा- नुमितो वेदोऽर्थं बोधयतीति पूर्वपूर्वानुमितवेदादुत्तरोत्तरस्मृत्याचारविति नान्धपरम्परा, स्वतन्त्र- प्रमाणमूलकत्वादिति । प्रकाशिका । त्यर्थः । तथा च तत्रापि सिद्धान्तविरोध इति भावः । घटकलशेति ।, घटपदकलसपदादीनामि- त्यर्थः । घटरूपार्थबोधे तेषां जनकत्वेनानुपूर्व्याः परस्परव्यभिचारादिति भावः । अत्र चार्यवा- मकरन्दः । घटकलशेति । घट्कलसपदानमित्यर्थः । शेषं शब्दप्रकाशे द्रष्टव्यम् ।
२६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां यदि च शिष्टाचारात्त्वादिदं हितसाधनं कर्त्तव्यं वेत्यनुमितं किं वेदानुमानेन, तदर्थ- स्यानुमानत एव सिद्धेः। न च धर्मवेदनत्वादिदमेवानुमानमनुमेयो वेदः। प्रत्यक्ष- सिद्धत्वात्। अशब्दत्वाच्च॥ अथ शिष्टाचारात् प्रमाणमूलोऽयमिति चेत्। ततः सिद्धसाधनम्। प्रत्यक्षमू- बोधनी। प्रामाण्यमपि निश्चित्य मन्वादयः स्मरिष्यन्ति अनुष्ठास्यन्ति चेत्यत्राह-यदि हिं इति। तदर्थस्य= अनुमेयवेदप्रमेयस्य शिष्टाचारात्त्वानुमानेनैव सिद्धेरिति। धर्माधर्मावेदकत्वं हि वेदत्वं, तच्च शिष्टा- च्चारानुमानस्यास्तीति तदेवानुमेयो वेदो भविष्यतीत्यत्राह-न च इति। शिष्टाचारस्य प्रत्यक्ष- त्वान्न तावदनुमेयत्वम् अशब्दात्मकत्वादिति। ननु यदि वयं शिष्टाचारत्वेन कर्तव्यत्वहितसाधनत्वे अनुमास्यामः, ततो वेदानुमानमनर्थकं स्यात्। प्रमाणमूलमात्रमनुमीयत इत्याह-अथ इति। तत्र च पक्षधर्मतावलाद्वेदमूलत्वमेव सिध्य- तीति भावः। ततः इति। आचारस्वरूपस्य प्रत्यक्षमूलत्वात्सिद्धसाधनमिति। ननु शिष्टाचार- प्रकाशः। अत्राहूः। उच्छिन्नवेदार्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः सामग्र्यन्तरकल्पने गौरवम्। अत एव च न बाधाश्रयासिद्धी। स्मृत्याचारमूलस्य वेदस्यास्माभिरभ्युपगमात्, तथा च स्मृत्या- चारयोर्वेदजन्यानुभवमूलकत्वानुमानादेव पक्षधर्मताबलेन प्रत्यक्षवेदमूलकत्वसिद्धिः। अननुभा- वकस्य मूलत्वानुपपत्तेः। स्तुतिनिन्दार्थवादाभ्यामपि प्रवृत्तिनिवृत्तिपराभ्यां प्रवृत्तिनिवृत्तिहेतुरर्थ एव कल्प्यते, लाघवात्। न तु विधिंनिषेधवाक्यं, गौरवादुक्तदोषाच्च। यत्र चार्यवादादेव तज्ज्ञानं, तत्र "तरति मृत्यु" मित्यादौ न तत्कल्पनाऽपि। न च बहुभिर्मेधाविभिरध्यात्तिकशक्तिसम्प- न्नैर्ध्रियमाणायाः शाखाया न शाखान्तरवदुच्छेदसम्भव इति वाच्यम्। एकस्य न समग्रशा- खाऽध्ययने शक्तिरित्येकेनेवापरैरपि तदनध्ययने तदुच्छेदसम्भवात्। एकानधीतायास्तस्या अप- राध्ययनविषयत्वनियमे मानाभावात्। न च शाखोच्छेदे वर्गादिवानिश्चङ्कया प्रत्यक्षवेदादपि वाक्यार्थप्रयोगयोरनिश्चये वैदिकव्यवहारोच्छेदः, श्रूयमाणमात्रस्यैव महाजनपरिगृहीतत्वेन तत एव तन्निश्चयात्, तस्माद् स्मृत्याचारानुमितो वेदः प्रत्यक्षोऽध्ययनविषयश्च वेदत्वात् संमतवत्। विपक्षे च बाधकमुक्तं गौरवमिति सङ्क्षेपः। दूषणान्तरमाह। यदि चेति। वेदेनापि हि प्रवृत्तिहेतुकार्यत्वज्ञानं तद्धेतुत्वज्ञानं वोत्पाद्य प्रवृत्तिर्जन्येत्यावश्यकत्वान्नाघवाच्च तदेवानुमीयतां, किं तद्बोधकवेदेनेत्यर्थः। तदर्थस्य = कार्यत्वज्ञानादेः। ननु धर्मवेदकत्वहेतुको वेदव्यवहारस्तच्च लिङ्गेऽप्यस्तीति तदेव नित्यनुमेयवेद- शब्देनोच्यते इत्यत आह। न चेति। प्रत्यक्षसिद्धत्वान्न नित्यनुमेयत्वम् अशब्दत्वाच्च न वेदत्व- मित्यर्थः। प्रमाणसामान्यानुमानेऽपि पक्षधर्मतावलात् तद्विशेषवेदसिद्धिः स्यादित्याह- अथेति। सामान्यबुद्धेरीश्वरप्रत्यक्षविषयत्वेनाप्युपपत्तेर्न सा विशेषमवगमयतीत्याह। प्रत्यक्षेति। ईश्वरप्रत्यक्षानभ्युपगन्तृमतेऽपि भोजनादेरिव कर्त्तव्यताज्ञानेऽनुमानमेव मूलं स्यादि- प्रकाशिका। दादेवेति बलवदनिष्टाननुबन्धित्वज्ञानञ्च न प्रवर्तकमिति भावः। तदेवेति। कार्यत्वं हि तद्धेतु- कत्वं वेत्यर्थः। तदर्थस्येति। तत्प्रयोजनस्येत्यर्थः। विशेषमिति। वेदमित्यर्थः। धर्मिग्राहकैनैव मकरन्दः। तदेवेति। कार्यत्वं तद्धेतुत्वं वेत्यर्थः। तदर्थस्येति। तत्प्रयोजनस्येत्यर्थः। प्रमाण-
यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:
द्वितीयस्तवके ] प्रलयोपपादनम् । २६७ लत्वाभ्युपगमात् । तदसम्भवेऽप्यनुमानसम्भवात् । नित्यमज्ञायमानत्वात्तदप्रत्यायकं, कथमद्युमानं, कथञ्च मूलमिति चेत् । वेदः किमज्ञायमानः प्रत्यायकोऽप्रत्यायक एव वा मूलं, येन जडतम ! तमाद्रियसे । अनुमितत्वाज्ज्ञायमान एव इति चेत् । लिङ्ग- मप्येवमेवास्तु । अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता, कारणत्वात् , न तु प- श्चातनीति चेत् । शब्दप्रतीतिरप्येवमेव । आचारस्वरूपेण शब्दमूलत्वमनुमीयते, तेन तु शब्देन कर्त्तव्यता प्रतीयते इति चेन्न । आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन बोधिनी । श्रेष्टसाधनत्वे प्रत्यक्षमूलत्वासम्भवाद्गेद एव मूलं भविष्यतीत्याह-तदसंभवेऽपि इति । तत्रापि शिष्टाचारत्वानुमानस्य मूलत्वासम्भवात्सिद्धसाधनतैवेति । अथवा धर्मादीनां कस्यचिल्लोकोत्तरस्य प्रत्यक्षत्वाभ्युपगमात् न वेदमूलत्वसिद्धिः, अर्वाचीनानां च मन्वादीनां प्रत्यक्षत्वासम्भवे शिष्टाचा- रानुमानमूलत्वासम्भवात्सिद्धसाधनतेति । नित्यम् इति । न तावदाचाराणां श्रेयःसाधनत्वेन व्याप्तं किमपि लिङ्गमिदं नामेति विशेषतो मन्वादिभिरुपगतम् । यथा हि वयं शिष्टानाचरतो दृष्ट्वा कर्तव्यताज्ञानमन्तरेण तदसंभवात्तस्य च ज्ञानस्य प्रत्यक्षमूलत्वासम्भवात् किमप्येवामंनुमानं मूल- मिति सामान्यतोऽनुमिमीमहे, तथा मन्वादयोऽपि विशिष्टानामाचारमूलं किमप्यस्त्यनुमानमिति सामान्यतोऽनुमिन्वते, न तु लिङ्गविशेषम् । नित्यं च विशेषतोऽज्ञायमानं लिङ्गं कथं प्रत्यायकं भवेत्, अप्रत्यायकं च कथमनुमानं कथं वाऽनुष्ठातॄणां कर्तव्यज्ञानस्य मूलं, ततो वेदत्वस्यैव सिद्धेः कथमनुमानेन सिद्धसाधनतेति भावः । वेदः इति । नित्यानुमेयत्वपक्षे विशेषरूपेणाज्ञातो वेदः कथं प्रत्यायको भवेत् कथं च वा मूलमिति । अनुमितत्वात् इति । अभियुक्तराचरितत्वेनाष्ट- कादेरिष्टसाधनत्वकर्त्तव्यत्वे तावदभ्युपगम्य तत्प्रतिपादक एव वेदविशेषोऽनुमीयते, तेन विशेषतो विज्ञात एवेति । लिङ्गमपि इति । शिष्टाचारात्तन्मूलत्वेनानुमीयमानं लिङ्गमपि विशिष्टमेवेति । अनुमेय इति । अत्र ह्याचारस्य हितसाधनत्वकर्त्तव्यतयोरनुमापकं लिङ्गमः अनुमेयं, तंच यदि ताभ्यामेवानुमीयते न ततोऽनुमेयप्रतीतेर्लिङ्गप्रतीतिरिति स्यात्, तच्चायुक्तमिति । तदेतद्वेदानुमा- नेऽप्यविशिष्टमित्याह - शब्द इति । आचाराद्धि कर्तव्यतां ज्ञात्वा तज्ज्ञानमूलं वेदोऽस्माभिरनु- मीयते यथा, तथा मन्वादिभिरपि प्रमेयभूतकर्तव्यतावगतेः पश्चात्निर्णायकप्रमाणभूतवेदावगति- रिति । ननु स्यादेवं यदि कर्तव्यतया वेदोऽनुमीयते न त्वेवमित्याह - आचार इति । न इति । प्रकाशः । त्याह । तदिति। विशिष्य लिङ्गाज्ञानान तद् गमकमतो न मूलमित्याह । नित्यमिति । नित्यानु- मेयो वेदोऽपि विशेषाकारेणानिश्चितत्वान्न तद्वोधकः स्यादित्याह । वेद इति । विशेषत इति शेषः । सामान्यतस्तज्ज्ञानं वेद इवानुमानेऽपि तुल्यमित्याह । अनुमितत्वादिति । आचार- कर्त्तव्यताऽनुमानमूलेत्यनुमेयपूर्वमाचारकर्त्तव्यतासिद्धौ स्यात् । सा च कर्तव्यताबोधकलिङ्गप्रतीतेः प्रागेव सिद्धेति नानुमानमित्याह । अनुमेयेति । एवं शब्दप्रतीति विनाऽपि कर्त्तव्यताबुद्धेः सिद्धत्वाद् व्यर्थं शब्दानुमानमिति तुल्यमित्याह । शब्देति । विशिष्टशिष्टाचारेण वेदमूलत्वमनु- मीयते, अतो न प्रत्यक्षादिना सिद्धसाधनमित्याह । आचारेति । आचारस्वरूपसिद्ध्यर्थं वेदानुमानं, तत्कर्त्तव्यताबोधार्थं, व्याप्तिमात्रेण वा ? नाद्यः । तत्र प्रत्यक्षस्यैव मूलत्वादित्याह । प्रत्यक्षेति । न द्वितीयः । कर्तव्यतायामज्ञातायां वेदानुमानात् तज्ज्ञाने च तदनुमानवैयर्थ्यादित्याह । प्रकाशिका । प्रमाणत्वमपि तस्य ज्ञातमित्यज्ञायमानत्वमसम्भवीत्यत आह विशिष्येति । वेदस्यापि प्रमाणत्वेन रूपेण ज्ञायमानत्वमस्त्वेवेत्यतः पूरयति-विशेषत इतीति । तथा च यथा विशिष्याज्ञातस्य मकरन्दः । स्त्वेनानुमितत्वादज्ञायमानत्वमसम्भवीत्यत आह । विशिष्येति । उक्तमभिप्रायेणाह : विशेषत ३८ न्या० कु०
२६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्या० ] मूलान्तरानपेक्षणात् । तत्कर्त्तव्यतायास्तु प्रत्यक्षाभावादप्रमिततया च शब्दानुमा- नानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्त्तव्यतामनुमाय तया मूल- शब्दानुमानम्, तथा च किन्तेन ? तदर्थस्य प्रागेव सिद्धेः । तथाप्यागममूलत्वेनैव तस्य व्याप्तेरिति चेत् । अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् । आदिम- तस्तत्त्वं स्यादयं त्वनादिरिति चेत् । आचारोऽपि तर्हि प्रथमतस्तथा स्यादयं त्वनादि- र्विनाऽप्यागमं भविष्यति । आचारकर्त्तव्यतानुमानयोरैवमनादित्वमस्तु किन्नश्छि- न्नमिरित चेत् । प्रथमं तावन्नित्यानुमेयो वेद इति, द्वितीयं च देशेनैव धर्मे प्रमाण- बोधनी । आचारकर्त्तव्यताया हि मूलान्तरापेक्षेति । तर्हि तयैव वेदोऽनुमास्यत इत्याह—तत्कर्त्तव्य- तायास्तु इति । ततः किमित्यत्राह—अप्रमिततया इति । मा भूच्छब्दानुमानं प्रत्यक्षवेदेनैव तु कर्त्तव्यताप्रतीतिरस्त्वित्यत्राह—प्रत्यक्ष इति । आचारमूलस्य नित्यानुमेयत्वाभ्युपगमादिति । तस्माच्छिष्टाचारत्वेन कर्त्तव्यतामनुमाय वेदोऽनुमातव्यः । सा चेदनुमिता किं तेनानुमितेन वेदेन, तत्प्रमेयस्य कर्त्तव्यताया अनुमानादेव सिद्धेरिति । नन्वनुमानादेवाचारकर्त्तव्यतावगमेऽपि वेदमूलतैव तस्या अनुमीयते । कर्त्तव्यताया वेदमूलत्वेन ज्योतिष्टोमादौ व्याप्तिवधारणादित्याह—तथापीति । यदि व्याप्तिबलादागमो मूलमनुमीयते तर्ह्यत एवानुमीयमानस्य वेदस्य प्रत्यक्षानुमानयोरन्यतर- मूलत्वमनुमीयताम्, आगमत्वस्य तन्मूलत्वेन लोके व्याप्तिवधारणादित्याह—त एव इति । एतच्च प्रकृतानुपयोगेऽपि परेषामनिष्टमित्येतावता प्रसञ्जितमिति । आदिमत इति । आगमस्य प्रत्यक्षानुमानमूलत्वं दृष्टम्, अयं त्वनुमीयमानो वेदागमोऽनादिरतः कथमस्य तन्मूलतेति । तदे- तदाचारेऽपि वक्तुं शक्यत इत्याह—आचारोऽपि इति । य आचार आचरित्रा स्वयमेव मूल- भूतमागममुपलभ्य प्रवर्तितः तस्यैवेदं प्रथमस्य ज्योतिष्टोमादेरागममूलत्वमुपलब्धम् । अयं त्वद्य- त्तनानाचारः पूर्वपूर्वाचारपरम्परोप लम्भमात्रेणानुष्ठीयमानोऽनादिरतोऽयमागमनिरपेक्षो भविष्य- तीति । ननु मा भूदागमो मूलमाचारस्य शिष्टाचारत्वेन कर्त्तव्यतानुमानमेव मूलं भविष्यति, शिष्टा- नामपि पूर्वानाचरतो दृष्ट्वा कर्त्तव्यतामनुमायाचारस्तेषामपि पूर्वतरानाचरतो दृष्ट्वा इत्याचारात् कर्त्तव्यतानुमानं, तदनुमानाच्चाचार इति अनन्ताभ्युपगमान्नेतरेतराश्रयत्वादिदोषप्रसक्तिरित्याह— आचार इति । किन्नश्छिन्नम् इति । स्मृत्याचारयोर्मूलभूतो वेदो नित्यानुमेयः, चोदनैव धर्मे प्रमाणमिति राद्धान्तद्वयमपि छिद्यते, अनुमानस्यैव धर्ममूलत्वाभ्युपगमादिति । पुनरपि नित्यानु- प्रकाशः । तदिति । तृतीयं शङ्कते । तथापीति । दर्शादिव्यवहारस्य वेदपूर्वकत्वसहचारदर्शनादित्यर्थः । न हि सहचारमात्राद् व्याप्तिः । पौरुषेयवाक्यस्येव वैदिकवाक्यस्यापि प्रत्यक्षानुमानविवक्षापूर्व- कत्वप्रसङ्गादिति परिहरति । अत एवेति । अत्रोपाधिमाह । आदिमत इति । आगमस्येत्यर्थः । आचारस्याप्यागमपूर्वकत्वे साध्ये स एवोपाधिरित्यनादिः स तन्निरपेक्षोऽपि स्यादित्याह । आचारोऽपीति । द्वितीयमिति । अनुमानस्यापि धर्मे प्रमाणत्वाभ्युपगमादित्यर्थः । आचार- प्रकाशिका । लिङ्गस्य न मूलत्वमेवं तादृशवेदस्यापीति भावः । आचारोऽपीतीति । साद्याचारोऽपि प्रत्यक्षवे- मकरन्दः । इति । तथा च यथा न नित्यानुमेयलिङ्गममूलत्वं तथा न नित्यानुमेयवेदमूलत्वमपीति निगमः । आचा- रोऽपीतीति । तथा च व्याप्तिबलादपि प्रत्यक्षश्रुतिमूलत्वमेव सिद्ध्यति, अन्यादृशश्रुतेरक्लृप्ततया मू-
द्वितीयस्तबके ] . प्रलयोपपादनम् । २६६ मिति । अथायमाशयः । वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते, न चैते प्रागपि नानुष्ठिता एव, तदर्थस्य वेदरा- शेरप्रामाण्यप्रसङ्गात्, समुद्रतरणोपदेशवत् । न चैवमेवास्तु, दर्शाद्युपदेशेन तुल्य- योगक्षेमत्वात् । एवं, पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्ये- ऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति न विच्छेदः । ततस्तद्वदागममूलते- तिचेत् । एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्त्तव्यत्वागमयोरनुमानादसत्यां प्रत्यक्ष- श्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः । तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचा- रस्य सा चेदानीं नास्तीति शाखोच्छेदः । अधुनाप्यस्ति सान्यत्रेति चेदत्र कथं नास्ति ? । किमुपाध्यायवंशानामन्यत्र बोधनी। मेयवेदवादिनामेवाशयमाशङ्कते-अथायम् इति । प्रत्यक्षवेदमूलानामपि न तावदाचरितपूर्वाणा- माचाराणामुच्छेदो दृश्यते, न हि ते पूर्वमप्यनाचरिता वक्तुं युक्तं तद्विषयस्य वेदस्यानुष्ठानलक्षणां- प्रामाण्यप्रसङ्गात् । न च तस्याप्रामाण्यमेवास्त्विति युक्तम्, अनुष्ठीयानार्थदर्शपौर्णमासादिवाक्यैर- श्वमेधादिवाक्यानां प्रामाण्यहेत्वविशेषात् । पूर्वकालवदुत्तरकालमनुष्ठास्यन्ते च कदाचिदश्वमेधाद- यस्तद्वदन्येऽप्यप्रत्यक्षवेदमूला आचारत्वादेवोच्छेत्स्यन्ते पुनरनुष्ठास्यन्ते चेति तेषामपि विच्छेदेन भवितव्यम् । अतोऽनादित्वाभावादाचारपरम्परामूलत्वासंभवेनाश्वमेधादीनामिव्राष्टकादीनामप्या- चारस्यागमो मूलं, स चानुमेय इति भावः । विवादपदाचारा वेदमूला उच्छेदामन्तरभावित्वात् राजसूयाश्वमेधादिवदिति । एवं तर्हि इति । यद्येषामुच्छेदस्तर्हि किं मूलाः पुनः प्रवर्त्तन्ताम् । न तावत्कर्त्तव्यतानुमानम् अनुमेयवेदो वा मूलं संभवति, तल्लिङ्गस्याचारस्य तदानीमभावात् , न चाऽश्वमेधादिवत्प्रत्यक्षश्रुतिरस्ति तदाचारस्वरूपस्य परिप्लवः स्यात्, न केवलं वेदमूलत्वमस्येत्यु- पसंहरति-तस्मात् इति । तदेवं नित्यानुमेयत्वेन शाखानामुच्छेदाभावं वदन्तो निरस्ताः । संप्रति मतान्तरमाशङ्कते-अधुनापि इति । स्मृत्याचारयोर्मूलभूता श्रुतिरिदानीमपि देशान्तरेऽ- धीयते तेन न तच्छाखोच्छेद इति । तदपि विकल्प्य दूषयति-अत्र इति । स्वाध्याय इत्यध्ययनमुच्यते अध्येतृसमानकर्तृकत्वादिति । न ह्यनधीयानानामनुष्ठेयज्ञानासंभवादनुष्ठानं संभवतीति । देशान्तरा- प्रकाशः । स्यागममूलकत्वव्याप्तौ प्रयोजकमाह । अथेति । अप्रामाण्येति । नित्यमननुष्ठानादित्यर्थः । तद्वदिति । विवादाध्यासिता आचारा वेदमूलाः, उच्छेदानन्तरभाविप्रवाहवत्त्वाद्वाजसूयवदिति न प्रत्यक्षादिना सिद्धसाधनं, नाप्यत्यन्तमुच्छेद इत्यर्थः । प्रलये स्मृत्याचारयोरुच्छेदाल्लिङ्गाभावे- नासत्यां प्रत्यक्षश्रुतौ अनुष्ठानमेव न स्यादित्यसिद्धो हेतुरित्याह । एवं तर्हीति । न च घटादि- संप्रदायप्रवर्त्तनार्थमीश्वरस्यापि शरीरपरिग्रहात् तदाचारादेव कर्त्तव्यताऽनुमितिः स्यादितिवाच्यम्। बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वाल्लाघवेन वेदरूपवाक्यस्य कल्पनादिति भावः । शाखो- च्छेद इति । व्यासादीनां ससहस्रशाखवेदज्ञातॄणां सत्त्वेऽपि साम्प्रतं तदध्ययनाभाव एव शाखोच्छेदः। स्मृत्याचारमूलं वेद इदानीमप्यन्यत्राध्ययनगोचर इति भट्टमतं शङ्कते । अधुनाऽपीति । परिहरति । अत्रेति । भारतवर्षे तदध्ययनाभावेऽप्यन्यत्र तदध्ययनकल्पनायां गौरवमिति भावः । प्रकाशिका । मूल एवान्यादृशस्य वेदस्य मूलत्वानुपपत्तेरुक्तत्वादिति भावः । असिद्धो हेतुरिति । इदमुप- मकरन्दः । लत्वानुपपत्तेरित्यभिसन्धिः। असिद्ध-इत्युपलक्षणं, चैत्यवन्दनाद्याचारप्रवाहे लौकिकाचारप्रवाहे च
३०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् ? न प्रथमद्वितीयौ । सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेद- प्रसङ्गात्, तस्याध्येतृसमानकर्तृकत्वात् । अन्यत आगतैराचारप्रवर्त्तने, अध्ययन- प्रवर्त्तनमपि स्यात् । न तृतीयः । आध्यात्मिकशक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् । तस्मादायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्त्तते । विश्वपरिग्रहाच्च न सहसा सर्वो- च्छेद इति युक्तमुत्पश्यामः । गतानुगतिको लोक इत्यप्रामाणिक एवाचारो, न तु शाखोच्छेदः, अनेकशाखा- गतेतिकर्त्तव्यतापूरणीयत्वात्, एकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत् । एवं हि महाजनपरिग्रहस्योपप्लवसम्भवे वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्ते बोधनी । दागतैरप्येतैराचाराः प्रवर्त्तिष्यन्त इत्यत्राह अन्यतः इति । आध्यात्मिकी शक्तिर्वक्ष्यमाणायु- र्ादिकम् । तस्य स्वाध्यायविच्छेदस्य । तस्मात्स्वाध्यायविच्छेदोऽपि तावदस्मत्पक्षानुगुण एव भवेदित्याह नात्तस्मात् इति । आयुरादीनां ग्रहणादिशक्तेश्च प्रत्यहमपचयादेव स्वाध्यायानुष्ठान- योर्विशेषणं न तूपचितेष्वेव तेषु । तत्र कथंचित् केषुचिदेव पुरुषेषु कस्याश्चिच्छाखायाः स्वाध्या- यानुष्ठानमनुवर्तते, परिग्रहीतॄणामनेकत्वात्तेषां युगपदनुच्छेदाच्च नैकदैव सर्वस्य स्वाध्यायस्य कर्मानुष्ठानस्य वोच्छेद इति । अनेन शक्तेः स्वाध्यायकर्मणोरित्येतद्विवृतमिति द्रष्टव्यम् । ननु यद्यष्टकाद्याचारः प्रमाणमूलः स्यात् ततस्तन्मूलस्य वेदस्येदानीमनुपलम्भादुच्छेदः कल्प्येत, अयं त्वप्रामाणिक एव । 'गतानुगतिको लोको न लोकस्तत्त्वचिन्तकः' इति तालतल- बन्धनानन्यायेन प्रवर्त्तत इत्याह-गतानुगतिकः इति। ननु महाजनपरिग्रहात्प्रामाणिकत्वमेव तेषाम- ङ्गीकृत्य शाखोच्छेद एव किमिति न कल्प्य इत्यत्राह-अनेकशाखा इति । सर्वशाखाप्रत्ययमेकं प्रकाशः । तस्येति । यद्यप्याचारस्याप्यध्येतृसमानकर्तृकतयाऽध्ययनगोचरशाखाबोधिताचारस्यानुपपत्तिः, तथाप्यत्राध्ययनाभावः शक्त्यभावप्रयुक्तः, स च नैतद्देशनियतस्त प्रागप्यत्र तदभावापत्तेः, किन्त्वे- तत्कालनियतः । अतो भारतवर्षोऽन्यदेशः, स्मृत्याचारमूलाध्ययनशून्यो, देशत्वात्, एतद्देशव- दिति भावः ॥ उच्छिन्नशाखाबोधितेतिकर्तव्यताशङ्कया एकस्मिन्नपि कर्मणीतिकर्त्तव्यतेयत्तानिश्चयो न स्या- दित्यमानक एवायमाचार इत्याह— गतेति । महाजनपरिगृहीताचारस्यामानकत्वंशङ्का वेदेऽपि स्यादित्याह । एवं हीति । प्रकाशिका । लक्षणम् लौकिकाचारे चैत्यवन्दनाचारे च प्रवाहपन्ने व्यभिचार इत्यपि द्रष्टव्यम् । किन्त्वेतत्का- लनियत इति । एतद्देशावच्छिन्नैतत्कालनियतत्वे च शक्त्यभावस्य गौरवमेव बाधकमिति भावः । स्मृत्याचारेति । ननु यथाश्रुते दृष्टान्ते साध्यवैकल्यम् । न च विवादपदे स्मृत्या- मकरन्दः । व्यभिचारोऽपीति द्रष्टव्यम् । किन्त्वेतत्कालेति । यद्यप्येतत्कालावच्छिन्नैतद्देशत्वाभ्युपगमे नोक्त- दोषस्तथापि लाघवादेतत्कालावच्छेदेनैक शक्त्यभावः कल्प्यते इति भावः । स्मृत्याचारेति । विवादपदस्मृत्याचारेत्यर्थः । इदानीं तच्छून्य इति साध्यम् । तेन दृष्टान्तस्य न साध्यवैकल्यम् ।
[द्वितीयस्तबके ] प्रलयोपपादनम् । ३०१
इति न वेदाः प्रमाणं स्युः, तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । एतमेव च कालक्रमभाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितमतो नोक- दोषोऽपि, न चायमुच्छेदो ज्ञानक्रमेण येन श्लाघ्यः स्याद्, अपि तु प्रमाद- मदमानाऽलस्यनास्तिक्यपरिपाकक्रमेण, ततश्चोच्छेदोत्तरं पुनः प्रवाहः, तदनन्तरश्च पुनरुच्छेद इति सारस्वतमेव स्रोतः, अन्यथा कृतहानप्रसङ्गात् ।
बोधनी । कर्मेति न्यायात्प्रयोगविधयः शाखान्तर्गतानप्यङ्गविधीनुपसंहृत्य कर्माणि प्रयुञ्जते, तेन नाना- शाखाविहितेतिकर्तव्यतापूरणीयेषु कर्मसु शाखोच्छेदचे कयाचिदुच्छिन्नया विहितमङ्गान्तरं किमपि कदाचित्स्यादिति शङ्कावकाशाजैकस्मिन्नपि कर्मणि एतावदिदमित्याश्वासः स्यादिति । न इति । यदि महाजनपरिगृहीतोऽप्याचारोऽप्रमाणं स्यात् तर्हि वेदा अपि तथा भवेयुः, न हि ततोऽन्यत्ते- षामपि प्रामाण्ये कारणम् । तत्र च शाखोच्छेदलक्षणाद्वृश्चिकभयादपसर्पन् कृत्स्नवेदाप्रामाण्यरूपे आशीविषमुखे निपतितः स्यादिति । इतश्च शाखोच्छेदोऽवगम्यत इत्याह-एतमेव इति । काल- क्रमवशाद्भाविना शाखोच्छेदेनानुष्ठातृणां त्वदुक्तमार्गेण भाविनमनाश्वासमाशङ्क्य कल्पसूत्रका- र्नानाशाखागतान्यङ्गान्यनुसंहृत्य स्मरद्भिरनाश्वासप्रतिविधानं कृतं शाखोच्छेदाभावे कल्पसूत्राणि निष्फलानि भवेयुरिति । ततश्च यदुक्तमेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्ग इति तदपि निरस्तमि- त्याह-अतः इति । अर्थवमित्यारभ्य वाऽनाश्वासपरिहारतया व्याख्येयमिति । उच्छिन्नस्यैव विश्वस्य पुनरपि भविता प्रवाह इति प्रतिपादयिष्यन्पुनः प्रवृत्तिविधुरादपवर्गरूपादुच्छेदस्य भेदं तावदाह-न चायम् इति । श्रवणादिगतस्य विविक्तात्मविषयस्य ज्ञानस्य क्रमेण परिपाकविशेषेण भवन्मोक्षाख्य उच्छेदः श्लाघ्यो भवति आत्यन्तिकत्वात्, अयं तु प्रमादादिपरिपाकक्रमेण । अतः प्रवाहोच्छेदयोः पुनः प्रवृत्तिरिति । 'अस्तु वर्तमानप्रवाहस्य विच्छेदः, भाविप्रवाहस्तु कुतस्त्य इत्यत्राह-अन्यथा इति । यद्युच्छेदोत्तरं पुनः प्रवाहो न स्यात् तदा कृतस्य कर्मणः फलभोगमन्तरेणैव नाशः स्यादिति । ननु भवतु भाविनः प्रवाहस्योच्छेदः पुनः प्रवाहश्च भावी, तथापीतः पूर्वमपि प्रवाहो-
प्रकाशः। वृश्चिकेति । उच्छिन्नशाखावेदाङ्गीकारेऽननुष्ठानं वृश्चिकभीः, तया पलायमानस्य सर्ववेदाप्रामा- ण्यापात आशीविषमुखे निपात इत्यर्थः । अनेकेत्यादि दूषयति । एतमिति । तत्तत्कर्मणि नाना- शाखाबोधिततिकर्तव्यताबोधनाय महर्षिप्रणीता महाजनपरिगृहीताश्च स्मृतयः सन्तीति नाऽनाश्वास इत्यर्थः । अन्यथैकस्य सकलानवगमाच्छाखान्तरबोधिततिकर्तव्यताशङ्कया एकशाखातो नार्थनि- र्णयः स्यादिति भावः । नन्वाचारस्योच्छिन्नशाखामूलकत्वे साऽपि शाखान्तरवच्छिष्यैरग्रहीष्येतेति नोच्छेदः । स चेत्तूर्न समुद्रतरणोपदेशवत्तच्छाखावैप्रामाण्यमित्यत आह । न चेति । अप्रामाणिक- धिया न तच्छाखाध्ययनमपि त्वन्यप्रयुक्तमित्यर्थः । तदेवं वेदत्वादारादनुमितवेदवद्भेदा उच्छेदंस्य- न्तीत्युपसंहरति । ततश्चेति । दिनरात्रिक्षमांसैव न व्यभिचारस्तस्यापि पक्षत्वादिति भावः । ननु वर्तमानप्रवाहोच्छेदसिद्धावपि भाविप्रवाहोच्छेदसिद्धिः कुत इत्यत आह । अन्यथेति । प्रागुपात्ता- दृष्टस्य देहाद्यभावेन भोगाजनकत्वादित्यर्थः । नन्वेवमपि प्राग्यविच्छेदसिद्धौ परतन्त्रपुरुषपूर्वकोऽ-
प्रकाशिका । चारमूलवेदशून्यत्वं साध्यम् । प्रतियोग्यप्रसिद्ध्योऽप्रसिद्धेरिति । मैवम् । तादृशवेदसिद्धौ सत्यामेवान्यत्रेच्छेदार्यमुक्तानुमानप्रवृत्तेरिति । विवादपदेत्यादिसाध्यस्यैवाऽभ्युपगमादिति । एत- त्कालातच्छिन्नमध्ययनशून्यत्वं साध्यमतो न दृष्टान्ते साध्यवैकल्यम् । भाविप्रवाहोच्छेदेति ।
मकरन्दः । भाविप्रवाहेति । भाविप्रवाइतदुच्छेदयोः सिद्धिः कुत इत्यर्थः । परैः पूज्यानामप्यत्र प्रवेशा-
३०२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां तथा च भाविप्रवाहवद्भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते । स्मरति च भगवान् व्यासो गीतासु भगवद्वचनम्— यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ इति कः पुनरयं महाजनपरिग्रहः ? । हेतुदर्शनशून्यैर्ग्रहणधारणार्थानुष्ठानादिः, न ह्यत्र न स्यादृते निमित्तम् । न ह्यत्रालस्यादिनिमित्तम् । दुःखमयकर्मप्रधानत्वात् । नाप्यन्यत्र सिद्धप्रामाण्येऽ- भ्युपायेऽनधिकारेणाऽस्मिन्ननन्यगतिकतयाऽनुप्रवेशः । परैः पूज्यानामप्यत्राप्रवेशात्। नापि भक्ष्यपेयाद्यद्वैतरागः, तद्विभागव्यवस्थापरत्वात् । नापि कुतर्काभ्यासाऽहित- व्यामोहः, आकुमारं प्रवृत्तेः । नापि सम्भवद्विप्रलम्भपाखण्डसंसर्गः, पित्रादिक्रमेण प्रवर्त्तनात् । नाऽपि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः, प्राथमिकस्य कर्मकाण्डे बोधनी । च्छेदी कथं सिध्यत इत्यत्राह-तथा च इति । वर्तमानोऽयं प्रवाहः प्रवाहोच्छेदपूर्वकः प्रवाहत्वाद्भा- विप्रवाहवत् । प्रवाहविच्छेदयोः पुनः प्रवृत्तावागमसंवादं दर्शयति-स्मरति च इति । महाजनप- रिग्रहाद् वेदस्य प्रामाण्यमित्युक्तं, तत्र कोऽयं परिग्रहो नामेत्याह-कः पुनः इति । हेतुदर्शनशू- न्यैः इति । दृष्टहेतुदर्शनशून्यैरिति । वेदपरिग्रहे न कश्चिद् दृष्टो हेतुरित्याह-न ह्यत्र इति । न च सिद्धपुरुषार्थावगत्युपाय आगमान्तरेऽनधिकारिणः केचिद् गत्यन्तराभावादर्थसंदेहादेवात्र प्रवर्त्तन्ते । यद्ययं वेदागमः प्रमाणं स्यात् ततः पुरुषार्थसिद्धिः, नो चेत् पूर्वावस्थाया न हानिरिति । न तु प्रामाण्यनिश्चयादिति वाच्यमित्याह-नापि इति । परैर्बौद्धैः, सम्मतानामप्यत्र प्रवेशो नास्ति किमु तैरपि त्यक्तानामिति । न वागमान्तराणां भक्ष्याभक्ष्यविभागपरत्वादसिद्धप्रामाण्यान्यपि तानि परि- त्यज्य स्वैरभक्षणार्थमत्र प्रवर्त्तन्त इत्याह-नापि इति । भक्ष्यस्य पेयस्य वा भक्ष्येण पेयेन च सह द्वैतं नास्ति किं तु सर्वं भक्ष्यं च पेयं चैकत्वमेव तयोरिति कामयमाना इति । नापि कुतर्काभ्यास- वन्तस्तैः कुतर्कैः प्रमाणमेवेदं प्रमाणतया निश्चित्य प्रवर्त्तन्ते तदभ्यासविरहिणामेव कुमाराणां प्रवृत्ते- रित्याह-नापि इति । नापि संभवद्विप्रलम्भैः षण्डजैः संसर्गेण तैर्विप्रलब्धाः प्रवर्त्तन्ते, पितृपितामहा- दयोऽत्र प्रवृत्ता इत्यवगम्य प्रवृत्तेरित्याह-नापि इति । 'नापि योगमभ्यस्यता मया तूष्णीमास्यत इति व्यपदेशेनाव्यग्रतां निर्व्यापारतां फलत्वेनाभिसंधायात्र प्रवृत्तिरित्याह-नापि इति । कर्मकाण्डे ह्ययं प्राथमिकः प्रवृत्ते न तु ब्रह्मकाण्डे “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति वचनात् तत्र चास्यानेकधाऽनुष्ठानव्यग्रत्वात् । यद्वा, अन्तिममोक्षाश्रममप्राप्तः प्राथमिकस्तस्य कर्मकाण्डव्यग्रत्वादिति । नापि जीविकाऽत्र प्रवृत्तेर्निमित्तं, 'दृष्टलाभफला नापि' (न्या०कु० १ । ८) प्रकाशः । नादिरेवायं संप्रदाय इत्यत्र न किञ्चिदनिष्टमित्यत आह । तथा चेति । प्रवाहत्वादिति शेषः । धर्मो = यागादिः, तस्य ग्लानिरुच्छेदः । अधर्मस्य = मण्डलीकरणादेः । संस्थापना = व्यवस्था । ननु महाजनपरिग्रहाद्वेदस्य प्रामाण्यधौः, स एव क इत्यत आह कः पुनरिति । हेतुदर्शनेति । अनन्यथासिद्धप्रवृत्तिविषयत्वमित्यर्थः । तदेवाह । न ह्यत्रेति । निमित्तमित्यग्रे सर्वत्रानुषज्ज्यते । योगेति । योग एव कर्तव्यो, न तु चित्तविक्षेपहेतुर्यागादिरित्यभिमानेनेत्यर्थः । प्राथमिकस्येति । ब्रह्मचारिण इत्यर्थः । योग्यव्यग्रताभिमानेन कर्मकाण्डे प्रवृत्तिर्न स्यात् तस्य
सुतरां व्यग्रत्वात् । नापि जीविका, प्रागुक्तेन न्यायेन दृष्टफलाभावात् । नापि कुह- कवञ्चना, प्रकृते तदसम्भवात् । सम्भवन्ति चैते हेतवो बौद्धाद्यागमपरिग्रहे । तथा हि। भूयस्तत्र कर्मलाघव- मित्यलसाः । इतः पतितानामप्यनुप्रवेश इत्यनन्यगतिकाः । भक्ष्याद्यनियम इति रागिणः । स्वेच्छया परिग्रह इति कुतर्काऽभ्यासिनः । पित्रादिक्रमाभावात् प्रवृत्ति- रिति पाषण्डसंसर्गिणः । “उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते” इत्यादिश्रव- णाद्व्यग्रताऽभिमानिनः । सप्तघटिकाभोजनादिसिद्धेर्जीविकेत्ययोग्याः । आदित्य- स्तम्भनं, पाषाणपाटनं, शाखाभङ्गो, भूतावेशः, प्रतिमाजल्पनं, धातुवाद इत्याद्युप- न्यसात् कुहकवञ्चिताः । ततस्तान् परिगृह्णन्तीति सम्भाव्यते । अतो न ते महाजन- परिगृहीता इति विभागः । स्यादेतत् । यद्येवं सर्वकर्मणां वृत्तिनिरोधो न किञ्चिदुत्पद्यते, न किञ्चिद्विन- श्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः ? । प्रकृतिपरिणते- रिति साङ्ख्यानां शोभते । ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते । वासनापरि-
⁘ बोधनी। इत्यनेन निरस्तत्वादित्याह-नापि इति । नापि कुहकानां वञ्चकानां वञ्चना प्रवृत्तेर्निमित्तं वेदागमे वञ्चनाया असम्भवादित्याह-नापि इति । न ह्यत्रादित्यस्तम्भादीनामुपाया उपदिश्यन्त इति । अत्रासंभवन्तः सर्व एवैते दृष्टहेतवो बौद्धाद्यागमपरिग्रहे संभवन्तीत्याह-संभवन्ति तु इति । संभवमेव दर्शयति-यथा हि इति । बौद्धादयोऽपि विहारकुहरकोटरेषु चक्षुषी निमील्य निर्व्यापारा आसत इत्यलसास्तान् बौद्धाद्यागमान् परिगृह्णन्तीति संबन्धः । इतः वैदिकात् पथः, रागिणः सोज्यायद्वेतरागिणः स्वेच्छया परिग्रहः पित्रादीनां नियामकानामभावात् । अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते । आदित्यस्तम्भनादीनामुपायस्य बौद्धाद्यागमेषूपदिष्टत्वात् कुहकवञ्चिताः परिगृह्णन्ति । अतः' यत एव दृष्टहेतवः संभवन्तीति । तदेवं प्रसङ्गाद्वेदप्रामाण्यहेतोर्महाजनपरिग्रहस्य स्वरूपं दर्शयित्वाऽधिकृतयोरेव सृष्टिप्रलययो र्किचनाशङ्कते-स्यादितत् इति । विश्वोत्पत्तिनाशयोर्निमित्तानां कर्मणां प्रलयावस्थायां युगपन्निरुद्धवृ- त्तित्वेन कस्यचिदपि वस्तुन उत्पत्तेर्विनाशस्य चासंभवात् स्तिमिताकाशसदृशं जगदवतिष्ठते, तदा चागन्तोः कुतो हेतुविशेषात् पुनः सर्गः ? न हि तदा हेतुविशेषः कुतश्चिदस्ति, न हि तमन्तरेणा- हेतुकः सर्गः संभवतीति । प्रकृतेर्महदादिरूपेण परिणतेः पुनः सर्गोऽस्त्वित्यत्राह-प्रकृतिपरिणतेः इति । मातुलदुहितेव दाक्षिणात्यानां न तु प्रामाणिकानाम्, प्रकृतिनित्यत्वयोरप्रामाणिकत्वात्त- त्परिणतिहेतोरागन्तुकस्याभावाच्चेति । ब्रह्मपरिणतेरिति भास्करगोत्र एव युज्यते कुलवधूरिव श्रोत्रियगोत्रे । वासना नाम = आलयसंततिपतितानां ज्ञानक्षणानां पूर्वं पूर्वं विज्ञानं, तस्य परिपाकः प्रकाशः । योगवहिर्भावादित्यर्थः । प्रागुक्तेन = विफला विश्ववृत्तिर्न-इत्यादिना ॥ बौद्धाद्यागमपरिग्रहे अन्यथासिद्धिमाह-सम्भवन्तीति । उभयोरिति । "अत्यन्तमलिनः कायो देही चाऽत्यन्तनिर्मलः"-इति पूर्वार्द्धम्। साङ्ख्या- नामिति । प्रकृतिपरिणतावपि प्रयोजनाकाङ्क्षायाः सत्त्वात् तेषामेव शोभते, न त्वस्माकमित्यर्थः । एवमग्रेऽपि । भास्करः = त्रिदण्डिमतभाष्यकारः । ननु वर्तमानापाद्यभावेऽप्यतीतसूर्यस्पन्दा
३०४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां पाकादिति सौगतमतमनुधावति । कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् । असताञ्चोपलक्षणानां न विशेषकत्वं, सर्वदा तुल्यरूपत्वात् । न च ज्ञानद्वारा । अनित्यस्य तस्य तदानीमभावात् । नित्यस्य च विषयतः स्वरूपतश्च अविशेषा- दिति चेन्न । शरीरसंक्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैक- प्रयोजनश्वाससन्तानाऽनुवृत्तिवन्महाभूतसंप्लवसंक्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमाऽऽदिभावेन कालावच्छेदकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मस- बोधनी । सहकारिलाभस्तस्मादिति सौगतमतमनुधावति वेशवनितेव धनवन्तमिति । कालविशेषावच्छिन्नया भगवतः सिसृक्षया सहकृतैर्भौक्तिककर्मभिः परमाणुषु क्रियोत्पत्तौ तेषां परस्परसंयोगाद् द्व्यणुकादिक्र- मेण पुनः सर्ग इति नैयायिकानां मतमाशङ्कयाह-कालविशेषात् इति । कालस्य स्वतः भेदाभावा- दुपाधिविशेषाद्विशेषो वक्तव्यः, प्रलये च कालावच्छेदकस्योपाधेरभावादिति न संगच्छत इति । नन्वसन्त एव तदानीमुपाधयः सर्वकालमुपलक्षयिष्यन्ति असतामेवोपलक्षणत्वादविरोधादित्यत्राह- असतां च इति । कुत इत्यत आह-सर्वदा इति । प्रलयारम्भात् प्रभृति सर्वोपाधीनामसत्त्वेन विशेषात्तैवागन्तुकसर्गकालस्य विशेषकत्वमिति । ननु मा भूवन्नसन्तो विशेषकाः सर्वदा तुल्यरूप- त्वात् तथापि तद्विषयं विज्ञानं कदाचिदुपपद्यते, ततश्चागन्तुकज्ञानावान्तरव्यापारद्वारा तेषामेव विशे- षकतवं भविष्यतीत्याशङ्कयाह-न च ज्ञानद्वारा इति । तच्च ज्ञानमस्मदादीनां भवेदीश्वरस्य वा ? नाद्यः-तस्यानित्यत्वेन प्रलये विनाशाच्छरीरेन्द्रियादिकारणाभावेन पुनरनुत्पादाच्च । न द्वितीयः- तस्य नित्यसर्वविषयस्य च स्वरूपतो विषयतश्चाविशेषकत्वात् । ततश्च सर्गादावागन्तोः कस्यचिद्धे- तोरभावानुत्पत्तिः सर्वदा उत्पत्तिर्वा सर्वस्य स्यात्, न तु कदाचिदुत्पत्तिरिति चोद्याभिप्रायः । न इति । मा भूवन्नन्ये प्रकृतिपरिणामादयः सर्गस्य निमित्तं, कालविशेषस्तु भविष्यति । अस्ति च तदानीं तस्योपाधिविशेष ईश्वरनिःश्वसितलक्षणः । कथमशरीरस्य तस्य निःश्वसितमित्यत उक्तं- परमाणूनां कर्मसंतानस्य इति । परमाणवो हीश्वरशरीरं साक्षात्प्रयत्नाधिष्ठेयत्वात्, तेन तदा श्रयं कर्मेश्वरनिःश्वसितं भवति । तथा च श्रुतिः-"अस्य महतो भूतस्य निःश्वसितमेतत्" इति ननु यदि परमाणुषु कर्म स्यात् तर्हि संयोगस्यावर्जनीयत्वाद् द्व्यणुकादिक्रमेण तदानीमेव विश्वं जगदुत्पद्येत, अत उक्तं-प्रचय इति । प्रचयाख्यमेव संयोगं तदा कर्मारभते न तु कार्यारम्भकं, तर्हि किमर्थं कर्मसंतानोऽनुवर्त्तत इत्यत उक्तं-कालावच्छेदकप्रयोजनस्य इति । इयन्तं कालं प्रलीनं ब्रह्माण्डमिति प्रलयकालावच्छेद एव प्रयोजनं तस्य नान्यत् । सर्वस्मिन्नेव प्रलीने कुतः क- र्मण एवोत्पत्तिरित्यत उक्तं-महाभूत इति । महाभूतानां पृथिव्यप्तेजोवाय्ववयविनां संप्लवो=विनाशः तदर्थं यः संक्षोभोऽभिघातस्तेन तदारम्भकेषु परमाणुषु कर्मोत्पत्तिद्वारेण वेगाख्यः संस्कार उत्प- द्यते, तेन चावयविनाशोत्तरकालमपि मन्दतरतमादिभावेन कर्मसंतानोऽनुवर्त्तते, कार्यान्तराभावेऽपि कालावच्छेदकप्रयोजनमीश्वरनिश्वसितमनुवर्त्तत इत्यत्र दृष्टान्तः-शरीर इति । यथा हि निद्राणानां प्राणिनामेतावानस्यायुषो भोग इदानीं परिपक्वः इदानीं त्वेतावानित्यायुःपरिपाकक्रमसंपादनेकप्र- प्रकाशः । उपाधयः स्युरित्यत आह । असतामिति । तस्य = ज्ञानस्येत्यर्थः । शरीरेति । यथा सुपुप्तौ कर्मणां युगपद्वृत्तिनिरोधेऽपि श्वासानुवृत्तित्वात् कदाचित् प्रबोधस्तथा परमाणूनां कर्मसन्ताना- नुवृत्तिवशात् कदाचित् सर्ग इत्यर्थः । प्रचयेति । यावत् प्रचयाख्यः संयोगोऽनुवर्त्तते, तावत् कर्मसन्तानाऽनुवृत्तिरित्यर्थः । प्रचयश्च यद्यप्यवयवमात्रवृत्तिः संयोगस्तथापि द्व्यणुकारम्भकसंयो- गमात्रमेव विवक्षितम् ।