भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

३६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्याया- भावोऽसिद्धिः। इयं च व्याप्तिपक्षधर्मतास्वरूपाणामन्यतमाप्रतीत्या भवन्ती यथा- सङ्ख्यमन्यथासिद्धिरश्रयासिद्धिः स्वरूपासिद्धिरित्याख्यायते। मध्यमाऽप्याश्रय- स्वरूपाप्रतीत्या तद्विशेषणपक्षत्वाप्रतीत्या वेति द्वयी। तत्र चरमा सिद्धसाधनमिति व्यपदिश्यते। व्याप्तिस्थितौ पक्षत्वस्याहत्य विघटनात्। न त्वेवं बाधे, व्याप्तेरेव प्रथमं विघटनादिति विशेषः॥ बोधनी। सिद्धसाधनमिति, तत्र कालातीतविलोपप्रसङ्ग उक्त इति चेत्तत्राह व्याप्तिस्थितौ—इति। सिद्धसाधने हि सत्यामेव व्याप्तौ पक्षत्वमात्रविघटनादाश्रयासिद्धिरेव, बाधितविषये तु व्याप्ते रेवाह्त्य भङ्गः, पश्चात्तु साध्यविपर्ययनिर्णयात् पक्षत्वातिपात इत्यनयोर्विशेष इति अप्रयोजकस्य व्या- प्रकाशः। त्। अन्यथा शास्त्रे परिभाषाच्छेदोपत्तेः। सव्यभिचारादेश्च एवंरूपत्वेऽप्युपजीव्यत्वेन पार्थक्यम्। उपधेयसङ्करेऽप्युपाधेरसङ्करात् ॥ इयं चेति। विशिष्टाभावस्य विशेषणाभावव्याप्यत्वादित्यर्थः। अन्यथासिद्धिः = सोपाधि- त्वम्। स्वरूपासिद्धिः=अपक्षधर्मत्वम्। मध्यमाऽपीति। आश्रयासिद्धेः सन्दिग्धसाध्यधर्मवद्धर्म्यप्रमी- तिरूपत्वाद् यत्र विशेष्यस्य धर्मिण एवाज्ञानं तत्रैकाऽऽश्रयासिद्धिरन्या च तद्विशेषणसाध्यसन्देहाभा- वात् सिद्धसाधनमुच्यते इत्यर्थः। न च सिद्धसाधनं न हेत्वाभासोऽनैकान्तिकवदनुमितिकारणाविघटक- त्वात्। सत्प्रतिपक्षवत् स्वत एवाप्रतिबन्धकत्वादिति वाच्यम्। लाघवात् कारणविघटकत्वेनैव प्रतिब- न्धकतया तद्विशेषकरणत्वस्य व्यर्थत्वात् साध्यज्ञानस्य तद्विशेषितसाध्यानुमित्यविरोधित्वेऽपि साध्य मात्रानुमितिविरोधित्वमस्त्येवेति तस्य हेत्वाभासत्वमपि। साध्यसाक्षात्कारे सति लिङ्गज्ञानेऽप्यनुमिनो- मीत्यनुव्यवसायाभावात्। न च केवलान्वयिनि संशयाभावः। तत्रापि साध्यं पक्षनिष्ठात्यन्ताभावप्रति- योगि न वेति संशयात्। पक्षविशेष्यकत्वस्य चातन्त्रत्वात् ॥ पक्षत्वस्येति। सन्दिग्धसाध्यत्वस्येत्यर्थः। व्याप्तेरेवेति। यद्यपि जलह्रदोऽग्निमान् धूमवत्त्वा दित्यत्र बाधेऽपि न व्याप्तिभङ्गः। तथापि धर्मिणियत्र साधनाभिमतस्य वृत्तंस्तदभिप्रायकोऽयं ग्रन्थः। प्रकाशिका। सव्यभिचारादेरिति। व्यभिचार्यादेरित्यर्थः। व्यभिचारादिहेत्वाभासोपाधिभिन्नहेत्वाभासोपाधित्व- मेवानुगमकमिति केचित्। कारणविघटकत्वेनेति। यद्यपि सिद्धयभावरूपकारणविरह एव सिद्धसाधनं न कारणविघटकम्, तथापि सन्देह एव पक्षतेति मतमवलम्ब्येदमुक्तम्। तद्वि- शेषेति। सिषाधयिषाकालीनत्वविशेषितानुमित्यविरोधित्वेऽपि तद्विशेषितसाध्यानुमितिविरो- धित्वमस्त्येवेत्यर्थः। तदेव दर्शयति। साध्यसाक्षात्कार इति। सिषाधयिषाविरहे सतीति शेषः। एवं च साक्षात्कारत्वमविवक्षितम्। ज्ञानमात्रमेव विवक्षितम्। एतच्च सर्वमनुमित्यसा- धारणदोषत्वमेव हेत्वाभासत्वमिति मतमाश्रित्योक्तम्। व्यभिचारे पक्षभिन्नत्वस्येत्यादिका फक्किका मकरन्दः। एवं रूपत्वेऽपीति। परामर्शविषयाभावत्वेऽपीत्यर्थः। उपधेयेति। ननु यद्युपाध्यसङ्करमात्रेण पार्थक्यं, तदा आश्रयासिद्ध्यादीनामपि तथात्वे विभागव्याघात एव। यदि चोक्तानुगतरूपसंगृहीततया न तथात्वं, तदा व्यभिचारादावपि तुल्यम्। अत एव नोपजीव्योपजीवकभावोऽपि। अभेदे तदभावात्। अन्यथा आश्रयासिद्ध्यादेरपि तथात्वापत्तिरिति चिन्त्यम्। वस्तुतो व्यभिचारादिभिन्नपरामर्शविषया- भावत्वं, व्यभिचारादिचतुष्टयभिन्नहेत्वाभासत्वं वा विभाजकोपाधिरिति तत्त्वम्। तद्विशेषितेति। साध्यविशेषितसाध्यान्तरानुमित्यविरोधित्वेऽपि साध्यमात्रानुमितिविरोधित्वमस्त्येवेत्यर्थः। तदेव दर्श- यति साध्यसाक्षात्कारे इति। सिषाधयिषाविरहे सतीति द्रष्टव्यम्। एवञ्च साक्षात्कारत्वमविवक्षितं बोध्यम्। एतच्च सर्वं प्राचीनमतेनेत्यवधेयम्। व्यभिचारे पक्षभिन्नत्वस्येति फक्किका साध्याभाव- टिप्पणी। तद्विशेषितसाध्यानुमित्यविरोधित्वेऽपीति। सिषाधयिषाकालीनत्वविशेषितेत्यर्थः।

तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३६६ प्रकाशः । ननु साध्याभाववति पक्षत्वाभिमेते हेतोः सत्त्वाज्ञानादसिद्धिः । तज्ज्ञाने च व्यभिचारः । साध्या- भावप्रमितौ सन्देहाभावेन पक्षत्वाभावादाश्रयासिद्धिश्च । व्यभिचारे पक्षभिन्नत्वस्य व्यर्थत्वेनातन्त्रत्वा- त् । सर्वोपसंहारप्रवृत्त्याप्तेः साध्याभाववति साधनमिति ज्ञानादेव भङ्गात् । न चोपजीव्यत्वाद् बाधः पृथक् । तद्धि न तमवगम्यैवावगमः । एकत्र हेतुसाध्याभावावित्येकवित्तिवेद्यतया व्यभिचारज्ञानस्य तदनुपजीवरूपत्वात् । नाप्युद्भावितव्यभिचारनिर्वाहार्थं तदुद्भावनम् । इदं व्यभिचारीत्युक्ते कथमिति परानुयोगस्यानवश्यकत्वात् । तथात्वेऽपि निर्वाहायमेव दूषणमस्तु बलवत्त्वात् । अथ अर्थान्तरोपनायकस्मृत्यादिसहकारिता सामान्यत एव प्रमाणस्य क्लृप्ता प्रत्यभिज्ञानादौ, तदिह समीचीनव्याप्तिपक्षधर्मताकलिङ्गपरामर्शस्यासदर्थकाञ्जनमयत्वादिस्मृत्यादिसहकारिवशाद् यत्र आभासधीकारणत्वं तत्र बाधः पृथक्, न व्याप्तिपक्षधर्मतोपनीतादन्यस्यानुमितौ भाने मानाभावात् । प्रत्यभिज्ञानादौ प्रतीतिबलेन तत्कल्पनात् । अन्यथा पूर्वानुभूतसकलार्थभानेऽनुमितेर्याथार्थ्योच्छे- दापत्तेः । भानेऽपि तस्य विप्रतिपत्त्यविषयतया तेन हेत्वाभासत्वानिरूपणात् । अन्यथाऽतिप्रसङ्गात् । अथ प्रत्यक्षादौ प्रमामात्रं प्रति स्वातन्त्र्येण बाधस्य दोषत्वेन क्लृप्तत्वादमुमितावपि स एव दोष इति चेत् । न तर्हि हेत्वाभासः । अनुमित्यसाधारणदोषस्यैव तत्त्वात् । अथ पक्षाभिमेते साध्याभावग्रहवत् साध्याभावव्याप्यग्रहोऽपि दूषकः, विरोधित्वाविशेषात् । एवञ्च, साध्याभावसामानाधिकरण्यमनैकान्तिकत्वं, साध्याभावव्याप्यसामानाधिकरण्यं च बाधः । तादृशं चाग्नित्वाद्येवेति । मैवम् । पक्षाभिमेते साध्याभावग्रहस्य दूषकत्वासिद्धौ दृष्टान्तत्वानुपपत्तेः, सिद्धौ वा तस्योक्तरूपवाधानन्तर्भावे षष्ठहेत्वाभासत्वापत्तेः । उक्तरूपश्च बाधः पक्षाभिमतविषयसाध्याभावबुद्धौ सत्यामसत्यां वा ? । आद्येऽनैकान्तिकत्वमेव, साध्याभावसामानाधिकरण्यग्रहात् । अन्त्ये लिङ्गतया- भिमतसाध्याभावव्याप्ययोरगृह्यमाणविशेषतया सत्प्रतिपक्ष एव दोषो न बाधः । तत्र तुल्यबलत्वं प्रयोजकं, बाधे त्वधिकबलत्वमिति चेन्न । गमकताप्रयोजकरूपसम्पत्तेरेव बलत्वेन तस्य द्वयोरपि ज्ञातत्वात् । टिप्पणी । प्रकृतसाध्यविशेषितसाध्यान्तरानुमितीत्यर्थ इति साध्यवत्पक्षविधेयकानुमितीत्यर्थ इति यावत् । तत्रा- पिप्राचां साध्यव्यवहारादिति कश्चित् । वस्तुतः साध्यज्ञानं न पक्षे साध्यनिश्चयः, किन्तु साध्यज्ञानमात्रम् तस्यापि व्यतिरेकिमात्रानुमितिविरोधित्वमस्त्येवेति तदपि संग्राह्यम्, तथाच तद्विशेषितेत्यस्याव्यवहितो- त्तरत्वसम्बन्धेन साध्यज्ञानविशिष्टेत्यर्थः, अन्वयव्याप्तिज्ञानजन्येति तदर्थः । एतेन सिषाधयिषाकालीन- त्वस्याप्रकृततया तत्पदेन तद्ग्रहणस्याशक्यत्वेऽपि न क्षतिः, साध्यविशेषितसाध्यानुमितेरप्रतिबन्धकत्व- कथनस्याप्रसक्तत्वेऽपि न क्षतिः। साध्यमात्रानुमितीति। सिषाधयिषाकालीनत्वविशेषितानुमितीत्यर्थः। साध्यमात्रविषयकानुमितीत्यर्थ इति कश्चित् । वस्तुतो व्यतिरेकव्याप्तिज्ञानजन्यानुमितिरेव साध्यमात्रानु- मितिः। साध्यस्य ज्ञानत्वेन तन्मात्रस्यैव तत्रानुमितिनिरूपितविलक्षणविषयत्वादान्वयव्याप्तिस्थले साध्यस्य ज्ञातत्वेन तन्मात्रस्यातथात्वात् पक्षसाध्यसम्बन्धस्यैव तथात्वादिति भावः । तादृशञ्चानित्वाद्येवेति अयोगोलके धूमसाधने तत्र धूमाभावनिश्चये वह्निः साध्याभावसमानाधिकरणो व्यभिचारी धूमव्यापकत्वेन गृहीताद्रेन्धनसम्बन्धाभावस्य धूमाभावव्याप्यस्य पक्षे निश्चितस्य वह्नावपि निश्चितत्वेन तत्समा- नाधिकरणवह्नित्वं हेतुकृतं बाधितं तादृशं साध्याभावव्याप्यसमानाधिकरणत्वेन बाधितमित्यर्थः । तत्र तुल्यबलत्वप्रयोजकमिति । अगृह्यमाणविशेषत्वमात्रञ्च सत्प्रतिपक्षत्वप्रयोजकमपि तु तुल्य बलत्वं गृह्यमाणमूलञ्च प्रामाण्यग्रहन्तच्चोभयत्र न समानम् यत्रैकत्र दोषादपरत्र सत्त्या प्रमामरूपाद् गृह्यते तत्र सत्प्रतिपक्षो यत्र साध्याभावव्याप्यग्रह एव तद्ग्रहणन्तत्र बाधः यत्र साध्यव्याप्ये ग्रहणं यत्र न किमपीत्याशङ्कयते अग्रेति । सत्प्रतिपक्ष इत्यर्थः । इति चेन्न गमकत्वप्रयोजकरूपसम्पत्तेरिति । ४७ न्या० कु०

३८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [७ कारिकाव्याख्यायां प्रकाशः । अथ हेतुतः साध्यसिद्धिसम्भावनायामनैकान्तिकत्वासिद्धेः पक्षाभिमत धर्मिणि साध्याभावप्रमितेः साधनाभिमतात् साध्यसिद्धिसम्भावना विरह एवानैकान्तिकावतार इत्युपजीव्यत्वाद् बाधः पृथक् । अन्यथा हेतोरसाधकत्वे सिद्धे साध्यसिद्धिसम्भावना विरहादनैकान्तिकत्वबुद्धिस्तस्यां च सत्यां हेतो- रसाधकत्वधीरित्यन्योन्याश्रयः । मैवम् । साध्यसिद्धयुन्मुखहेतुज्ञानस्य प्रमितसाध्याभावसहचरितहेतु- विषयत्वेनानैकान्तिकत्वज्ञानतया दूषकत्वात् । यद्यप्यनैकान्तिकत्वेऽपि साध्याभावप्रमैव प्रयोजिका तां विना तदभावादिति तस्या एव दोषत्वमर्हं, तथापि तस्याः साध्याभावसमानाधिकरणहेतुज्ञानत्वेन दूषकत्वं, कॢप्तत्वात् । न तु साध्याभावप्रमात्वेन, तस्यावश्यकत्वेऽपि तेन रूपेण दूषकत्वाकल्पनात् । अत्रोच्यते । गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादित्यत्र बाधः पृथक्, न च तत्रा- प्यनैकान्तिकमेव दोषः । साध्यात्यन्ताभाववद्वृत्तित्वस्य तत्त्वात् । अन्यथा द्रव्यत्वेन गुणानुमाना- पत्तेः । आद्यक्षणे साध्याभाववद्वृत्तित्वात् । न च वस्तुतो यो गन्धप्रागभावावच्छिन्नस्तत्र साध्यम- स्त्येवेति सिद्धसाधनमेव तत्र दोषः । पक्षतावच्छेदकधर्मविशिष्टे साध्यवैशिष्टयस्यानुमेयत्वात् । प्रकाशिका । साध्याभावप्रमितावित्यस्य पूर्वं युज्यत इति प्राहुः । गन्धप्रागभावावच्छिन्न इति । यद्यपि धर्मिणि गन्धासिद्धाविष्टापत्तिः, गन्धप्रागभावसमयावच्छेदेन च न गन्धसिद्धिः साधकाभावात्। न च पक्षधर्मता- बलमेव. साधकं पक्षधर्मता हि हेतोः पक्षवृत्तित्ता सा च साध्यसामान्यव्याप्तस्य तस्य पक्षीयं साध्यं विना नेति तादृशं साध्यं सिद्धयति, न तु पक्षतावच्छेदकावच्छिन्नं तेन विनापि पृथिवीत्वे व्याप्तिपक्ष- धर्मतयोरुपपत्तेः । तथापि सामान्यत एव विना बाधकं विशिष्टवैशिष्टयज्ञानजनकत्वं प्रमाणानां स्वभाव इति गन्धप्रागभावावच्छेदेनैव गन्धमनुमितिविषयीकुर्यादित्यादि न बाधो दूषणमित्यत्र तात्पर्यम् । केचित्तु शब्दे तात्पर्यस्येव सिषाधयिषाया अनुमितौ विषयतानियामकतया तदवच्छिन्नसिषाधयिषायां तथानुमितिः स्यादेव यदि न बाधो दूषणमिति तात्पर्यमित्याहुः । तन्न । सिषाधयिषाया अनुमित्यकार- मकरन्दः । प्रमितावित्यस्य पूर्वं युज्यते इति प्राहुः । गन्धप्रागभावावच्छिन्न इति । यद्यपि गन्धप्रागभावसमयावच्छे- देन गन्ध साधकाभावादेव न गन्धानुमितिर्न तु बाधात्, न च पक्षधर्मताबलात् तथा, पक्षधर्मता हि लिङ्गस्य पक्षे वृत्तिरेव, सा च साध्यसामान्यव्याप्तिमत्तस्तस्य पक्षीयं साध्यविशेषं विनाऽनुपपन्नेत्यतो व्याप्त्या सह परामृश्यमाना पक्षसम्बन्धं साध्यं साधयति, न तु पक्षतावच्छेदकत्वेन यदुपादीयते तदवच्छेदेन साध्यस्य पक्षे सम्बन्धं, बीजाभावात्, तं विना तस्या अनुपपत्त्यभावात् । तदवच्छेदेन पक्षे साध्यसम्बन्धं विनाऽ पि प्रकृते पृथिवीत्वादिहेतोर्व्याप्तिपक्षधर्मताया उपपन्नत्वात् । तथापि प्रमाणस्यायं स्वभावो यद्बाधकं विना विशिष्टवैशिष्टयज्ञानमेव जनयति, तथा च ज्ञानसामान्यसामग्रीवलादेव तदवच्छेदेनानुमितिः स्यात्, यदि न बाधो दोष इति प्राहुः । यत्तु यथा शब्दतात्पर्यवशेन क्व चिदेकस्य द्वयं क्व चिद्वि- शिष्टवैशिष्टयमित्यन्वयबोधद्वैविध्यं, तथा सिषाधयिषावशादनुमितिद्वैविध्यमपीति, तन्न, सिषाधयिषा- टिप्पणी । प्रामाण्यानञ्च बलं तस्य साधकत्वदूषकत्वयोरनुपयोगात् अप्रामाण्यज्ञानाभावे सति गृहीतव्याप्तिपक्ष- धर्मतैव बलन्तदुभयत्र तुल्यमेवेवास्तीति सत्प्रतिपक्ष इति समाधत्ते नेति । तथाचैकत्राप्रामाण्यज्ञाने बाधोऽपि न स्यात् साध्यव्याप्यवत्त्वपरामर्शे तदग्रहे तत एवानुमित्यनुत्पत्तेर्बाधस्य दूषकत्वकल्पने मानाभावात् । बाधग्रहे च तदग्रहे दूषकत्वासम्भवादुभयत्र तदग्रहे सत्प्रतिपक्ष एव दोष इति भावः । साध्यसिद्धयुन्मुखहेतुज्ञानस्येति । साध्यवत्ता साधनीये धर्मिणि हेतोर्वृत्त्यवगाहित्वं साध्यसि- द्ध्युन्मुखत्वम् । ज्ञानत्वेन दूषकत्वं क्लृप्तत्वादिति । पक्षादन्यत्र साध्याभावसमानाधिकरण्यग्रहे दूषकत्वेन क्लृप्तत्वादिति ॥ ७ ॥

तृतीयस्तवके ] उपमानस्य प्रामाणान्तरत्वखण्डनम् । ३७१ यत्त्वप्रयोजकः सन्दिग्धोनैकान्तिक इत्यनैकान्तिकेऽन्तर्भाव्यते । तदसत् । व्या- प्यसिद्ध्या हि निमित्तेन व्यभिचारः शङ्कनीयः, अन्यथा वा ? । प्रथमे, असिद्धिरेव दूषणमुपजीव्यत्वात्, 'नानैकान्तिकम्, उपजीवकत्वात्। अन्यथा शङ्का त्वदूषणमेव; निर्णीते तदनवकाशादिति ॥ ७ ॥ उपमानन्तु बाधकम्नशङ्कनीयमेव, विषयाव्यतिरेकादिति केचित् । तथाहि। न तावदस्य विषयः सादृश्यव्यपदेश्यं पदार्थान्तरमेव सम्भावनीयम् । बोधनी । प्त्यसिद्धावन्तर्भावं मन्यमानो मतान्तरमाशङ्क्य दूषयति यत्त्विति । प्रथमव्याप्यसिद्धिं निमि- त्तीकृत्य व्यभिचारशङ्केत्यत्र पूर्वसिद्धासिद्धिरेव दूषणं स्यान्न तु तदुपजीवनेन प्रवृत्ता व्यभिचारशङ्का, अन्यथा व्याप्तिनिर्णये तु, व्यभिचारशङ्कात्मकं दूषणमेव नोदेतीति निर्णीते विषये शङ्काया निरव- काशत्वादिति ॥ ७ ॥ तदेवं प्रत्यक्षातुमानयोस्तदभावावेदकत्वं निराकृत्य संप्रत्युपमानस्य निराचिकीर्षुरेकेषां मतं तावदुपम्यस्यति उपमानं त्विति । कॢप्तप्रमाणविषयातिरिक्तविषयासंभवादुपमानस्य पृथक्प्रामा- ण्यमेव नास्ति कुतस्तेन बाध आशङ्कयेतेति । विषयाव्यतिरेकमेवाह न तावत्-इति । पदार्थान्तरं हि भवत् सादृश्यं किं भावाभावाभ्यामन्यत्किं वोभयात्मकं किमुत भावात्मकमेव षट्पदार्थातिरेकेणेति विकल्पं हृदि निघाय सामान्येन कोटिद्वयातिरेकस्यापि न संभवतीत्याह । प्रकाशः । अथैवं विद्यमानेयं नदी, उपरि देशे वृष्टिमती, विशिष्टपूरवत्त्वादित्यत्र विद्यमानवृष्ट्यनुमाना- पत्तिः । न चेष्टापादनं, विद्यमानवृष्टेर्वर्तमाननदीपूरं प्रत्यहेतुत्वादिति चेन्न । तत्र समयभेदेनैव व्या- प्तिग्रहात्तथैव साध्यसिद्धेः । किञ्चैवं सिद्धसाधने प्रागभावतत्प्रतियोगिनोरेकदेशवृत्तित्वेनैककालवृत्ति- त्वमपि स्यात् । यदि न तयोरेकसमयावच्छेदेनैकत्रानुत्तेर्न तथात्वं, तर्हि तत्प्रागभावावच्छिन्ने धर्मिणि तत्प्रतियोग्यनुमितावपि न सिद्धसाधनमपि तु बाध एव । अधिकन्तु न्यायनिबन्धनप्रकाशे विपश्चि- तमस्माभिः । मतान्तरं विकल्प्य निराकरोति । यत्त्विति ॥ ७ ॥ अनुमानादिभ्यः फलव्यापारवैजात्याभावादुपमानं न मानान्तरमिति तन्नेश्वरबाधकमित्याह- उपमानं त्विति ॥ ननु सादृश्यमेव तद्विषयः स्यात् । न हि तदिन्द्रियगम्यं, तदापातमात्रे- णाज्ञानात् । नापि लिङ्गादिगम्यं, तदभावेऽपि सादृश्यज्ञानात् । तच्च न द्रव्यमगुणत्वात् । न गुणः कर्म वा गुणेऽपि वृत्तेः । न सामान्यं, सप्रतियोगिकत्वात् । न च विशेषसमवायौ, प्रत्यक्षत्वाद्वि- त्याह। तथा हीति । प्रकाशिका । णतया तद्विषयतानियामकत्वायोगादिति । विद्यमानेति । एतत्कालावच्छिन्नेत्यर्थः । तन्न समये- ति । तथा च तत्तत्कालावच्छिन्नानुमितौ व्याप्तिविरोध एव बाधक इति भावः । वस्तुतस्तत्रापि बाधादेव नानुमितिरितीदमपि बाधोदाहरणं द्रष्टव्यम् ॥ ७ ॥ प्रत्यक्षत्वादिति । समवायप्रत्यक्षत्वे सतीत्यस्य हेतुरन्यथा तु समवायभेदसाधनेऽनेकत्वं लि- मकरन्दः । याः पक्षताशरीरनिष्पादकत्वेनान्यथासिद्धतया व्यभिचारेण चानुमित्यहेतुत्वात् । न चानुमितिविशेषे तद्धेतुत्वं, मानाभावात्, पक्षताया अहेतुत्वापाताच्चेति सङ्क्षेपः । विद्यमानेति । वर्तमानकालाव- च्छिन्नेत्यर्थः । तत्रेति । पूर्वकालीनवृष्ट्यैव व्याप्तेस्तस्या एव सिद्धिरित्यर्थः । बाधादेव न तत्सिद्धिर- बाधे चेष्टापत्तिरित्युपि बोध्यम् ॥ ७ ॥ प्रत्यक्षत्वादिति वैशेषिकमतेन । न्यायमते समवायभेदसाधनेऽनेकत्वादिकं लिङ्गमिति ध्येयम् ।

३८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [८ कारिकाव्याख्यायां परस्परविरोधे हि न प्रकारान्तरस्थितिः ॥ नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः ॥ ८ ॥ न हि भावाभावाभ्यामन्यः प्रकारः सम्भावनीयः, परस्परविधिनिषेधरूपत्वात् । न भाव इति भावनिषेधमात्रेणैवाभावविधिः। ततस्तं विहाय कथं स्ववचनेनैव पुनः सहृदयो निषेधेन्नाभाव इति । एवं, नाभाव इति निषेध एव भावविधिः । ततस्तं विहाय स्ववाचैवानुन्मत्तः कथं पुनर्निषेधेन्न भाव इति । अत एवम्भूतानामेकता- प्यशक्यप्रतिपत्तिः । प्रतिषेधविध्योरेकत्रासम्भवात् । तस्माद्भावाभावावेव तत्त्वम् ॥ भावत्वेऽपि गुणवन्निर्गुणं वेति द्वयमेव पूर्ववत् । पूर्वं द्रव्यमेव । उत्तरञ्चाश्रित- मनाश्रितं वेति द्वयमेव पूर्ववत् । तत्रोत्तरं समवाय एव । अनवस्थाभयात् । आश्रि- बोधनी । परस्पर-इति । भावाभावयोः परस्परप्रतिक्षेपत्वलक्षणस्वरूपत्वाद्भावनिषेधोऽभावविधिः स्यात् तन्निषेधश्च भावविधिः, तेन ताभ्यामन्यः प्रकारः संभवति न कस्यापीति शेषः । हि यस्मात्तस्माद्दूरे सादृश्यस्य विशेषस्य प्रकारान्तरस्थितिवार्तेति भावः । न च क्वापि विरुद्धानामैकात्म्यं विरुद्धत्वादेव अन्यथा विरोध एव न स्यात् । तथा च कथं परस्परविरुद्धभावाभावात्मकं भवेत्सा दृश्यमिति भावः । किं च आस्तां तावद्वस्तुगतो विरोधः, वचनमात्रस्यैव विरोधात् भावाभावात्मता निरस्तेत्याह उक्ति-इति ॥ एतेनैव भावत्वेऽपि षट्पदार्थातिरेको निरस्तः । परस्परविरोधिगुणनिर्गुणादिव्यतिरेकेण प्रकारान्तरासंभवाद्द्वयात्मकत्वासंभवाच्चेति व्याचष्टे न हि-इति । भवतु भावात्मकमेव तत्त्वान्तर- मित्यत्रापि श्लोकं व्याचक्षाण आह भावत्वेऽपि-इति । पूर्ववत्-इति । भावाभावयोरिव परस्पर- विधिनिषेधरूपत्वातसगुणनिर्गुणयोरित्यर्थः । एवमुत्तरेष्वपि द्रष्टव्यम् । समवायस्याश्रितत्वे बाधकमन- वस्था इति । आश्रितत्वं नाम समवायस्य समवायित्वमेवाद्रव्यत्वेन संयोगासम्भवात् । तत्र च सम- प्रकाशः । 'परस्परेति ॥ विरोधोऽत्र न परस्पराभावव्याप्यत्वम् । नीलपीतयोरन्यतरनिषेधेऽप्यन्यतर- स्याविधेः । किन्तु परस्पराभावरूपत्वम् । पूर्ववदिति । परस्परविरोधे प्रकारान्तराभावादित्यर्थः । एवमग्रेऽपि । नन्वेतादृशविकल्पेन परिशेषे सामान्यविशेषसमवायानामपि द्रव्यादित्रयसाधर्म्यात्तदन्तर्भावः स्यात् । अथानुगतव्यवहारान्यथानुपपत्त्या तेषां तद्बहिर्भावः । तुल्यं सादृश्येऽपि । न हि तत् सामान्यं, तत्रोत्कर्षादिव्यवहारानुपपत्तेः सामान्यस्यैकरूपत्वात् । सामान्यस्याश्रयभेदेऽप्यभेदात् । सादृश्यस्य च प्रत्याश्रयं भेदात् । अथ तद्भेदे सति तद्गतभूयःसामान्यवत्त्वं सादृश्यं, भेदश्च प्रत्याश्रयं भिन्नः सप्रतियोगिकश्चेति चेन्न । सादृश्यस्य भेदघटितत्वेन सावधित्त्वे तस्मात् सदृश इति प्रतीत्यापत्तेः । प्रकाशिका । द्वमिति द्रष्टव्यम् । तदन्तर्भाव इति । गुणवन्निर्गुणं वा, अन्तेऽपि कर्मभिन्नं कर्म वा यथाक्रमं द्रव्यगुणकर्मान्तर्भाव इत्यर्थः । व्यवहारान्यथानुपपत्तिमेवाह । न हीति । भेदघटितरत्वेनेति । भेदो- मकरन्दः । व्यवहारान्यथानुपपत्तिमेवाह न हीति । भेदघटितत्वेनेति । यद्यपि भेदोऽन्योन्याभावः, स च न सावधिः, किन्तु सप्रतियोगिकः अन्यथा घटो नेत्यत्र घटान्नेति प्रतीत्यापत्तेः, तथापि भेदपदमत्र टिप्पणी । द्रव्यादित्रयसाधर्म्यादिति । द्रव्यं द्विविधं स्पन्दवन्निःस्पन्दञ्च निःस्पन्देष्वन्तर्भवतु सामान्यादिकमित्यर्थः । अनुगतव्यवहारान्यथानुपपत्तेरिति । अनुगतव्यवहारान्यथानुपपत्त्या सिद्धं सामान्यं न द्रव्यं न गुणो न कर्म्म गुणकर्मणोरनुगतव्यवहाराभावप्रसङ्गादिति सामा- न्यस्य द्रव्यादिवहिर्भाव इति भावः । भेदश्च प्रत्याश्रयं भिन्न इति । पृथक्त्वञ्चेत्यर्थः । तेन

तृतीयस्तवके ] उपमानस्यप्रमाणान्तरत्वखण्डनम् । ३७३ तन्तु सामान्यवन्निःसामान्यञ्चेति पूर्ववत् द्वयमेव । तत्र प्रथममपि स्पन्दोऽस्पन्द इति द्वयमेव । एतच्च यथासङ्ख्यं कर्म गुण इति व्यपदिश्यते । निःसामान्यं निर्गुण- माश्रितन्त्वेकाश्रितमनेकाश्रितं वेति प्रागिव द्वयमेव । एतदपि यथासंख्यं विशेषः सामान्यञ्चेत्यभिधीयते । तदेतत्सादृश्यमेतास्वेकां विधामसादयन्नातिरिच्यते । अनासादयन्न पदार्थीभूय स्थातुमुत्सहते ॥ एतेन शक्तिसंख्यादयो व्याख्याताः । ततोऽभावेन सह सप्तैव पदार्था इति नियमः । अतो नोपमानविषयोऽर्थान्तरमिति ॥ ८ ॥ बोधनी । वायस्याश्रितत्वाभ्युपगमेऽनवस्था स्यात् । इह पटे रूपसमुदाय इति प्रतीतिस्तु विशेषणविशेष्यमात्र- निबन्धनेति, तदेवं पदार्थव्यवस्थितौ यदि सादृश्यं सगुणत्वादिविधास्वन्तर्भवेत् पदार्थषट्कानातिरि- च्येत, अनन्तर्भावे वा पदार्थ एव न स्यादित्याह तत्-इति । शक्तिसंख्यादीनामपि षट्पदार्थान्तर- त्वमनेनैव मार्गेण निराकृतमिति प्रसङ्गादाह एतेन-इति । उपसंहरति ततः-इति । तत्तत्प्रमाण- त्वादेव न बाधकमिति ॥ ८ ॥ तदेवं तत्त्वान्तरभूततन्त्रान्तर्भूतसादृश्यविषयमुपमानं पृथक्प्रमाणमिति गुरुमतं निराकृत्य प्रकाशः । पदार्थान्तरत्वे च सप्रतियोगिकत्वेऽपि सावधित्वाभावेन तदभावोपपत्तेः । न च सप्रतियोगित्वमेव सावधित्वं, घटान्नेति प्रतीत्यापत्तेः । अत्राहूः। असाधारणान्यतद्गतबहुधर्मवत्त्वं तत्सादृश्यं जात्यादिसाधारणं, भेदाघटितत्वाच्च निरवधि । तद्गतबहुधर्मवत्त्वं च तन्निरूप्यमितीतरनिरूप्यत्वमेव तस्य सप्रतियोगिकत्वम् । तत्रापि सादृश्ये तदेव सप्रतियोगिकत्वं, न तु भेददीर्घादिवत् सावधिकत्वम् । तस्मात्सदृश इति प्रतीत्या- पत्तेः । किञ्च यादृशं तद्गतबहुधर्मवत्वमनतिप्रसक्तं तव सादृश्यव्यञ्जकं, तदेव सदृशव्यवहारनिमि- त्तमस्तु, किमधिकेनेति सङ्क्षेपः । एतेनेति ॥ षट्पदार्थानतिरेकेण्येत्यर्थः । तत इति ॥ भावरूपपदार्थाः षडभावस्यापि मान- सिद्धतया पदार्थत्वोपगमादिति भावः । प्रत्यक्षादिविषयद्रव्यादिपदार्थातिरिक्तं सादृश्यमुपमानपरि- च्छेद्यमित्यसिद्धमित्याह । अत इति ॥ ८ ॥ मा भूत् सादृश्यं पदार्थान्तरं, तथापि तदेवोपमानपरिच्छेद्यम् , प्रत्यक्षाद्यपरिच्छेद्यत्वात् , इन्द्रियसन्निकर्षेऽपि तदज्ञानात् , लिङ्गाद्यज्ञानेऽपि ज्ञायमानत्वाच्चेति जरन्मीमांसकमतमाह- प्रकाशिका । ऽत्र पृथक्त्वं न त्वन्योन्याभावः, तस्य सावधित्वाभावात्, अन्यथा घटान्नेति प्रतीत्यापत्तेः । असाधारणेति । तदसाधारणधर्माभावे सति तस्य तद्गतबहुधर्मवत्त्वमित्यर्थः । तेन नाभेदे सादृ- श्यप्रसङ्गः । तत्र चेष्टापत्तावसाधारणेऽन्यपदवैय्यर्थ्यापत्तेरिति ध्येयम् ॥ ८ ॥ मकरन्दः । पृथक्त्वपरम् । अत एव भेदाघटितत्वादिति सिद्धान्तोऽपि सङ्गच्छते । अन्यथा तस्याप्यन्योन्याभाव- घटितत्वे विरोधापत्तेः । असाधारणेति । असाधारणान्यमात्रेत्यर्थः । एतच्च स्वस्मिन्नपि स्वसह- शत्वप्रसङ्गवारणाय ॥ ८ ॥ टिप्पणी । भेदघटितत्वेन सावधित्व इति ग्रन्थस्य नासङ्गतिः । भेदस्य सप्रतियोगिकत्वेऽपि सावधित्वाभावात् । सावधित्वाभावेनेति । तादृशव्यवहाराभावेन निरवधितयैव कल्पनात् ॥ ८ ॥ ९ ॥ १० ॥ ११ ॥

३७४ · व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ८ कारिकाव्याख्यायां स्यादेतत् । भवतु सामान्यमेव सादृश्यं; तदेव तस्य विषयः स्यात् । तत्सदृशो- ऽयमिति हि प्रत्ययो नेन्द्रियजन्यः, तदापातमात्रेणानुपपत्तेरिति चेन्न । पूर्वपिण्डानुस- न्धानरूपसहकारिवैधुर्य्येणानुपपत्तेः । सोऽयमिति प्रत्यभिज्ञानवदिति ॥ नन्वेतत्सदृशः स इति नेन्द्रियजन्यम् । तेन तस्यासम्बन्धात् । न चेदं स्मर- णम् । तत्पिण्डानुभवेऽपि विशिष्टस्याननुभवात् । न चैतदपि, अयं स इति विप- रीतप्रत्यभिज्ञानवदुपपादनीयम् । तत्तेदन्तोपस्थानक्रमविपर्ययेऽपि विशेष्यस्ये- न्द्रियेण सन्निकर्षाविरोधात् । तस्य सन्निहितवर्त्तमानगोचरत्वात् । प्रकृते तु तद- बोधनी । भाट्टमतं निराचिकीर्षुः शङ्कते स्यादेतत्-इति । पदार्थान्तरावयवादिवर्त्तीनि सामान्यान्येव पदार्था- न्तरस्यावयवादिषु वर्त्तमानानि सादृश्यं न तु तत्त्वान्तरम्, तथाहुः-“सामान्यान्येव भूयांसि गुण- वयवकर्मणाम् । भिन्नप्रधानसामान्यवर्त्ति सादृश्यमुच्यते” इति । न च तत् प्रत्यक्षविषयः संभवतीत्याह गोसदृशोऽयम्-इति । न पूर्व-इति । प्रतियोग्यनुसन्धानस्येन्द्रियसहकारिणो वैधुर्य्येणेन्द्रियसन्नि- पातमात्रात्सा दृश्यज्ञानानुपपत्तिः । न च तावतेन्द्रियजन्यत्वहानिः प्रत्यभिज्ञानवदिति । तस्मिन्सन्नि- हितपदार्थप्रतियोगिकसादृश्यविशिष्टासन्निहितपदार्थविषयमेतत्सदृशः स इति ज्ञानमुपमानफलं भवि- ष्यति । न ह्येतदिन्द्रियेण जन्यते व्यवहितस्येन्द्रियेण संबन्धाभावादित्याह ननु-इति । न चेदं स्मरणं व्यवहितस्य पिण्डस्य सादृश्यविशिष्टतयाऽननुभूतत्वादित्याह न चेदम्-इति । ननु तत्सदृशो- ऽयमिति ज्ञानं तावदैन्द्रियकं, तस्माच्चैतत्सदृशः स इति ज्ञानस्य तत्तेदन्ताक्रमविपर्यय एव विशेषः । न च तावता प्रत्यक्षत्वहानिः सोऽयमिति प्रत्यभिज्ञानवदयं स इति विपरीतप्रत्यभिज्ञानस्याप्यैन्द्रिकत्वे- नेष्टत्वादित्यत्राह न चैतत्-इति । उभयमपि प्रत्यभिज्ञायां विशेष्यस्यैकत्वात्तस्य च संनिहितवर्त्तमा- नत्वादिन्द्रियसन्निकर्षे न कश्चिद्विशेषः, एतत्सदृशः स इत्यत्र तु विशेष्यस्यासंनिहितत्वेनेन्द्रियसन्नि- कर्षासंभवात्तत्सदृशोऽयमित्येतस्मान्महान्विशेष इति । तस्मादसंनिहितपिण्डस्मरणसहायं तत्प्रतियो- गिकसंनिहितपिण्डवर्त्तिसादृश्यज्ञानमेव तथाविधसंनिहितपिण्डप्रतियोगिकासंनिहितपिण्डवर्त्तिसादृश्य- प्रकाशः । स्यादेतदिति । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वस्य सादृश्यत्वाद्भूयोदर्शस्य च प्रतियोगि- ज्ञानज्ञेयत्वात् सहकारिवैधुर्यादापातः प्रत्यक्षेण ज्ञानेऽपि तत्समवधाने तत एव तज्ज्ञानोत्पत्तिरि- त्याह । पूर्वेति । यथा तत्तास्मरणाभावादापातः प्रत्यभिज्ञानाभावेऽपि तत्समवहितादिन्द्रियादे- र्नैव तदुत्पत्तिरित्याह । सोऽयमिति । सादृश्यमात्रस्योपमानापरिच्छेद्यत्वेऽपि गोप्रतियोगिकगवयनिष्ठसादृश्यज्ञानकरणकगवयप्रतियो- गिकगोनिष्ठसादृश्यधीरुपमानफलमिति शाबरमतमाह । नन्विति । न च सा प्रत्यक्षफलम् । विशे- ष्यस्य गोरसन्निकर्षादित्याह । नेन्द्रियेति । गत्यन्तरमाशङ्क्य निराकरोति । न चेति । गोपि- ण्डानुभवेऽपि गवयस्याज्ञानात् तत्प्रतियोगिकसादृश्यवैशिष्ट्याननुभवादित्यर्थः । न चेति । ऋजु- प्रत्यभिज्ञाने तत्ताविशिष्टे इदन्ताविशिष्टाभेदो भासते अयं स इत्यत्र तु इदन्ताविशिष्टे तत्ताविशिष्टाभेद इति तत्तेदन्तयोरनुयोगित्वप्रतियोगित्वावच्छेदकभेदात् प्रत्यभिज्ञानयोर्भेदेऽपि तत्र विशेष्यसन्निकर्षा- दत्र तु तदभावादित्यर्थः । प्रकाशिका । तद्भिन्नत्वे सतीति । तदन्यत्वे सतीत्यर्थः । ऋजु प्रत्यभिज्ञान इति । उद्देश्यतावच्छेदकवि- शष्टे विधेयवैशिष्ट्यप्रतीतेर्व्युत्पत्तिसिद्धत्वात् प्रथमप्रतीतस्यैवोद्देश्यतावच्छेदकत्वादिति भावः । मकरन्दः । तद्भिन्नत्वे इति । तदन्यत्वे सतीत्यर्थः ।

तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३७५ भावात् । तस्मात्, तत्पिण्डस्मरणसहायमेतत्पिण्डवृत्तिसादृश्यज्ञानमेव तथाविधं ज्ञानमुत्पादयदुपमानं प्रमाणमिति । एतदपि नास्ति ॥ साधर्म्यमिव वैधर्म्यं मानमेवं प्रसज्यते ॥ अर्थापत्तिरसौ व्यक्तामिति चेत् प्रकृतं न किम् ॥ ९ ॥ यदा हि एतद्विसदृशोऽसौ इति प्रत्येति, तत्रापि तुल्यमेतत् । न हि तत्प्रत्यक्ष- मसन्निकृष्टविषयत्वात् । न स्मरणम् । विशिष्टस्याननुभवात् । नोपमानमसादृश्य- विषयत्वात् । नन्वेतद्धर्माभावविशिष्टत्वमेव तस्य वैधर्म्यं, तच्चाभावगम्यमेवेष्यते । न च प्रकृतेऽपि तथाऽस्तु । सादृश्यस्य भावरूपत्वादिति चेन्न । इतो व्यावृत्तधर्म- विशिष्टताया अपि वैधर्म्यरूपत्वात् । तस्य च भावरूपत्वात् ॥ बोधनी । विषयं विज्ञानं जनयत्तदुपमानं नाम प्रमाणान्तरमास्थेयमित्युपसंहरति तस्मात्-इति । सदेतदति- प्रसङ्गापादनेन दूषयति एतदपि-इति । तद्यथासंनिहितपिण्डवृत्तिवैसादृश्यज्ञानं जनयत्तत्प्रतियोगिकसंनिहितपिण्डवृत्तिवैधर्म्यज्ञानं सप्तमं प्रमाणं प्रसज्येत, तुल्यन्यायत्वात् । अथ तद्वैधर्म्यमेतस्य प्रत्यक्षसिद्धमन्यथानुपपद्यमानं तस्यैतद्वैधर्म्यं कल्पयतीति न तत्र प्रमाणान्तरप्रसक्तिरिति चेत् तर्हि तत्सादृश्यविशिष्टत्वमेतस्य प्रत्यक्षसिद्धं तस्यै- त्तत्सादृश्यं विनानुपपन्नं तस्यैतत्सादृश्यं कल्पयदर्थापत्तिरेव स्यादिति व्याचष्टे यदा हि-इति । ननु संनिहितपिण्डगतधर्माभावविशिष्टत्वमेव संनिहितस्य तद्वैधर्म्यं तत्राभावरूपत्वादभावप्रमाणस्यैव विषयः, सादृश्यस्य तु भावरूपत्वात्प्रमाणान्तरमन्वेषणीयमित्याशङ्कायादाह न चेति । न इति । प्रकाशः । तादृशी धीः प्रत्यक्षायफलमप्यर्थापत्तिफलमिति नैतत्करणमुपमानं मानान्तरं सिद्ध्यति । अन्यथा तद्दिर्घायमिति बुद्धयनन्तरमेतद्दिर्धोऽसाविति धीकरणं मानान्तरं स्यादित्याह । साधर्म्यमिति । गवि करभवैधर्म्यं हि करभवृत्तिधर्माभाववत्त्वम् । तच्च स्मृते गवि प्राङ्नास्तितावदनुपलब्धिगम्य- मेवेति न तत्र मानान्तरापत्तिरित्याह । नन्वेतदिति । करभावृत्तिधर्मवत्त्वं गवि तद्वैधर्म्यं, तच्च भाव एवेति नानुलब्धिगम्यमित्याह । इत इति । नन्विदमप्युपमानमेव । तथाहि, सप्रतियोगिकपदार्थज्ञानेन तत्प्रतियोगिकपदार्थज्ञानमुपमानम् । अन्यथैतद्दिर्घर्मा स एतस्माद्दीर्घ इति प्रतीतिः कुतः ? न तावदनुमानात् । विशेषासन्निकर्षे तद्ग- तैतन्निष्ठसादृश्यप्रतियोगित्वादैर्लिङ्गस्याज्ञानात् । नाप्यर्थापत्तेः, तस्या व्यतिरेक्यनुमानरूपत्वात् । न च तत्प्रतियोगिकैतन्निष्ठसादृश्यादौ भासमाने समानसंवित्संवेद्यतया एतत्प्रतियोगिकतन्निष्ठसादृश्यादिरपि भासते इति वाच्यम् । विशेषणविशेष्यप्रतियोगिभेदेन समानसंविद्वेद्यत्वासिद्धेः । एतत्सदृश एतद्दिर्घर्मा स इति तद्विशेष्यकज्ञानानुदयाच्च । तद्विशेष्यकप्रत्यक्षे तत्सन्निकर्षस्य हेतुत्वात् । न च प्रत्यक्षे विशेष्यसन्निकर्षो हेतुः, न तु यावद्विशेष्यसन्निकर्षो गौरवात् । अन्यथा अतीतानागतव्याप्यविशेष्यकं व्याप्तिप्रत्यक्षं न स्यादिति वाच्यम् । अतीतानागतविशेष्ये सामान्यलक्षणायाः प्रत्यासत्तेः सत्त्वात् । प्रकाशिका । अतीतानागतविशेष्य इति । यद्यपि गौरवेमेतावतापि नापाहृतम् । तथापि तद्विषयकप्रत्यक्षे तदिन्द्रियसन्निकर्षत्वेन कारणत्वमवश्यं वाच्यम् । अन्यथा घटसन्निकर्षमात्रेण घटापटोभयविशेष्य- कप्रमुहालम्बनापत्तेरिति गौरवं प्रामाणिकतया न दूषणमिति भावः ॥ ९ ॥ मकरन्दः । अतीतानागतेति । यद्यप्येवमपि गौरवं नापाहृतं तथापि प्रमाणिकं तदिति भावः। अन्यथा घटसन्निकर्षात् पटविशेष्यकस्यापि समूहालम्बनस्यापत्तेः । तथा च तत्तद्विशेष्यकप्रत्यक्षे तत्तद्विशेष्य- सन्निकर्षो हेतुः, अत एव सामान्यलक्षणाभ्युपगमोऽपीति ॥९॥

३७६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [९ कारिकाव्याख्यायां स्यादेतत्। तद्धर्मा इह न सन्तीत्यवगते, अर्थादापद्यते इहाविद्यमानास्तत्र सन्तीति। न हि तद्विधर्मत्वमेतस्योपपद्यते, यद्येतद्विधर्माऽसौ न भवतीति चेत्। एवं तर्हि प्रकृतमप्यर्थापत्तिरेव। न हि तत्सादृश्यविशिष्टत्वं मेतस्य प्रत्यक्षसिद्धमपि तस्यैतत्सादृश्यविशिष्टत्वं विनोपपद्यते ॥ एतेन दृष्टासन्निकृष्टप्रत्यभिज्ञानं व्याख्यातम्। तत्रापि तद्धर्मशालित्वं तस्य स्मरणाभिव्यक्तमनुपपद्यमानं तदिदन्तास्पदस्यैकतां व्यवस्थापयति। तस्मान्नोप- मानमधिकमिति ॥ ९ ॥ बोधनी। इतः पुरोवर्त्तिनः पिण्डाद्व्यावृत्तधर्मयोगोऽपि वैधर्म्यं, तस्य च भावरूपाभावप्रमाणविषयतेति। उत्तरार्धं व्याचष्टे स्यादेतत्-इति। व्यवहितपिण्डवर्त्तिधर्माभाववत्त्वं तत्राविद्यमानधर्मत्वं वा- संनिहितस्य तावत्प्रत्यक्षं, तच्च व्यवहितस्यैतद्धर्माभाववत्त्वेनात्राविद्यमानधर्मवत्त्वेन वा विनानुपपद्य- मानं तत्कल्पयतीति न तदर्थं प्रमाणान्तरं मृग्यमिति। तर्हि सादृश्यमप्यर्थापत्तिरेव गमयेत् तुल्य- न्यायत्वादित्याह एवं तर्हि-इति। एतेन इति। पूर्वं मथुरायां पश्चादुज्जयिन्यां दृष्टस्य पुनः प्रत्यभिज्ञानसमये चाथ संनिकृष्टस्य यत्प्रत्यभिज्ञानं य एव मथुरायां दृष्टः स एवोज्जयिन्यां दृष्ट इति तदप्यर्था- पत्तिरिति व्याख्यातं कथमिति तत्राह तत्रापि-इति। मथुरायां दृष्टपुरुषवर्त्तिस्वरवर्णादि- शालित्वमुज्जयिनीदृष्टस्येदानीं स्मर्यमाणमुभयत्रापि दृष्टस्यैकतामन्तरेणानुपपद्यमानं तां कल्पयतीति। यद्वा, दृष्टस्यासंनिकृष्टस्य चैकगोचरं यत्प्रत्यभिज्ञानमयं स इति विपरीतप्रत्यभिज्ञानं तदप्यर्थापत्तिरेव, तत्र संनिकृष्टस्य पिण्डस्य ये धर्मा उपलभ्यन्ते तद्धर्मशालित्वमसंनिकृष्टस्य स्मर्यमाणं तस्य संनिकृ- ष्टस्य चैकतामन्तरेणानुपपद्यमानं तयोस्तां कल्पयति, इदन्ताश्रय एव तत्ताश्रय इति व्यवस्थापयति। न हि तत् प्रत्यक्षफलम्, अयं स इत्यसंनिकृष्टपर्यवसायित्वात्तेन चेन्द्रियसन्निकर्षाभावादिति। तस्मा- त्सामान्यरूपसादृश्यविषयत्वेऽप्युपमानस्य प्रमाणान्तरत्वाभावात् सिद्धं 'विषयानतिरेकाद्वाधफत्व- मिति उपसंहरति तस्मात्-इति। ॥ ९ ॥ प्रकाशः। अथ गवयसादृश्यं गवि गवयगतशृङ्गित्वादिधर्मवत्त्वं, तच्च गवये गोसादृश्ये भासमाने गवि भासत एव। सामान्यस्यैकत्वेनेन्द्रियसन्निकर्षादिति चेत्। न। तथापि गोविशेष्यकगवयगतशृङ्गित्वादिज्ञा- नस्य गोरसन्निकर्षेणेन्द्रियाजन्यत्वात्। मैवम्। अन्योन्यसदृशवस्तुप्रत्यक्षेण जानतो यो यत्सा दृश्यप्रतियोगी स तत्सदृश इति सामा- न्यतो व्याप्तिज्ञाने सति गौर्गवयसदृशः तत्सादृश्यप्रतियोगित्वात् यथा भ्रात्रा भगिनी गवयगतसादृ- श्यप्रतियोगित्वञ्च गोर्गवयगतसादृश्यवित्तिवेद्यमेव। सादृश्ये गोः प्रतियोगित्वेनैव ज्ञानात्। यत्तुद्रूपं सामान्यतो व्याप्तिग्रहञ्च विना गवयसदृशो गौरिति फलासिद्धेः। ताद्रूप्येण व्याप्तिग्रहेऽस्माकं व्यति- रेकी, परेषामर्थापत्तिरित्यन्यदेतत्। ननु प्रत्यभिज्ञायमानस्य पूर्वापरकालमध्यावस्थानं नाध्यक्षगम्यम्। मध्ये इन्द्रियासम्बन्धात्। न लिङ्गादिगम्यम्। तदज्ञानेऽपि ज्ञानात्। तदिदमेवोपमानपरिच्छेद्यं स्यादित्यत आह। एतेनेति। साधर्म्यवैधर्म्ययोरर्थापत्त्यन्तर्भावनेत्यर्थः। दृष्टञ्च तन्मध्येऽसन्निकृष्टं चेति तत् तथा, तस्य प्रत्यभिज्ञा- नम्। तदेव स्फुटयति। तत्रापीति। तत्तेदन्ताविशिष्टाभेदो मध्यासन्निकृष्टस्य मध्यसत्त्वं विना अनु- पपन्नो मध्यस्य सत्त्वं कल्पयतीत्यर्थः ॥ ९ ॥

तृतीयस्तबके ] उपमानस्य प्रमाणान्तरत्वखननम् । ३७७ एवं प्राप्ते अभिधीयते— सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह ॥ प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ १० ॥ यथा गौस्तथा गवय इति श्रुतातिदेशवाक्यस्य गोसदृशं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयमसौ गवयशब्दवाच्य इति भवति मतिः । सेयं न तावद् वाक्यमात्रफलम् , अनुपलब्धपिण्डस्यापि प्रसङ्गात् । नापि प्रत्यक्षफलम् , अश्रुत- वाक्यस्यापि प्रसङ्गात् । नापि समाहारफलम् , वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् । वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बन्धेनापीन्द्रियेण तद्गतसादृ- श्यानुपलम्भे समयपरिच्छेदासिद्धेः । फलसमाहारे तु तदन्तर्भावे अनुमानादेरपि प्रत्यक्षत्वप्रसङ्गः । तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव ?, अन्तर्भावे वा कियतो सीमा ? । तत्तदसाधारणेन्द्रियादिसाहित्यम् । बोधनी । अथ सिद्धान्ती प्रमाणान्तरत्वमङ्गीकृत्योपमानस्य नियतविषयत्वादबाधकत्वं वक्तुमुपक्रमते एवम्—इति । गवयादिसंज्ञायाः संज्ञिना गवयादिना सह संज्ञासंज्ञिलक्षणस्य संबन्धस्य प्रमिति- रूपमानस्यैव फलं प्रत्यभिज्ञानादिना तदसिद्धेरिति संज्ञासंज्ञिसंबन्धप्रतीतिस्तावदस्तीत्याह यथा गौ- रिति । तस्याः प्रत्यक्षादिभिरसाध्यत्वमाह सेयम्-इति । ननु नगरस्थस्य गवये नेन्द्रियसन्निकर्ष इति भिन्नकालतया तयोः स्वरूपतः समाहाराभावेऽपीन्द्रियसन्निकर्षसमये वाक्यतदर्थयोः स्मर्यमाणत्वेन समाहारसंभवात्तत्फलमेवास्त्वित्यत्राह वाक्यतदर्थयोरिति । न ह्यसत्येवेन्द्रियसंबन्धे उत्पद्यमानं प्रत्यक्षेऽन्तर्भवतीति । ननु सादृश्योपलम्भे तावदुत्पद्यते, तच्च प्रत्यक्षफलं, तेन वाक्यफलस्य वाक्यार्थ- स्मरणस्य प्रत्यक्षफलस्य सादृश्यज्ञानस्य च समाहारादुत्पद्यमानः समयपरिच्छेदस्तयोरेवान्तर्भवेदित्य- त्राह फलसमाहार इति । अनुमेयादिज्ञानमपि हि प्रत्यक्षफललिङ्गादिज्ञानहेतुकमेवेति । ननु यदि समयं परिच्छिन्दतः सादृश्यज्ञानस्य समाहारादुत्पद्यमानप्रत्यक्षफलस्यापि प्रत्यक्षेऽनन्तर्भावः, तर्हि विक- ल्पजनकं निर्विकल्पकमपि प्रत्यक्षे नान्तर्भवेत् अनुमानादिकमपि तथा स्यादिति नियमहेतुर्वाच्य इति पृच्छति तत्किम् इति । नियमहेतुमासाक्षात्कारादिरूपस्य यस्य ज्ञानविशेषस्य यदसाधारणं प्रकाशः। उपमानफलं विदुरित्यनयोर्मध्ये, इतरित्याहार्य इति सम्प्रदायविदः । ननु प्रत्येकं व्यभिचारेऽपि समुदितयोस्तयोः फलं स्यादित्यत आह नापीति ॥ नन्विन्द्रियसम्बद्धे गवये वाक्यतदर्थस्मृतौ च सत्यां प्रमाणसमाहारः स्यादित्यत आह वाक्येति ॥ गवयगतगोसादृश्यावेदने समयपरिच्छेदो न भवत्येवेत्यर्थः । फलसमाहारमाशङ्क्य निराकरोति फलेति ॥ प्रत्यक्षफलं हि प्रायशो लिङ्ग- परामर्शोऽनुमितिकरणम् , श्रौत्रानुभवजनितपदज्ञानञ्च वाक्यार्थप्रमायां प्रत्यक्षं स्यादित्यर्थः । ननु तत्फलस्य तदनन्तर्भावे विकल्पोऽप्यालोचनफलं प्रत्यक्षं न स्यात्, अन्तर्भावे वा लिङ्गसादृश्या- ध्यक्षयोः कः प्रक्षेप इति पृच्छति तत् किमिति ॥ उत्तरं-तत्तदिति ॥ यत्र व्यापारिण इन्द्रि- प्रकाशिका । फलमित्यस्य प्रथमान्तत्वे विदुरिति कर्त्राख्यातानुपपत्तिः, द्वितीयान्तत्वे च परिच्छेद इत्य- नेन प्रथमान्तत्वेन सामानाधिकरण्यानुपपत्तिरत आह इतरितीति । तथा चेति विदुरित्यन्वये इति- किमित्याकाङ्क्षायां शुद्धप्रातिपदिकोपस्थितस्य परिच्छेदः, फलमित्यस्यानवय इति भावः । सम्प्र- दाय विद इति। इदमरुचिविभावनम् , तद्वीजन्तु फलमिति द्वितीयान्तमेव, किन्तदिति शुद्धप्रातिपदि- कार्यकाङ्क्षायां परिच्छेद इत्यर्थेति वाक्यार्थ एव वा कर्मेति ॥ १० ॥ ४८ न्या० कु०

३९८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां अस्ति तर्हि सादृश्यादिज्ञानकाले विस्फारितस्य चक्षुषो व्यापारः । न । उप- लब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमत्तः कालान्तरेऽप्यनुसन्धा- नबलात् समयपरिच्छेदोपपत्तेः ॥ १० ॥ ननु च वाक्यादेवानेन समयः परिच्छिन्नः-गोसदृशस्य गवयशब्दः संज्ञेति, केवलमिदानीं प्रत्यभिजानात्ययमसाविति । प्रयोगाद्वाऽनुमितः-यो यत्रासति वृत्त्य- न्तरे वृद्धैः प्रयुज्यते स तस्य वाचको यथा गोशब्द एव गोः, प्रयुज्यते चायं गोसदृशे, इति किमुपमानेनेति । न- बोधनी । कारणमिन्द्रियादि तदनुवृत्तौ जायमानं ज्ञानं तस्य प्रमाणस्य फलं भवति, तन्निवृत्तौ तु ततो बहिर्भव- तीति । यदीन्द्रियव्यापारानुवृत्तावुत्पद्यमानं प्रत्यक्षफलं तर्हि समयं परिच्छिन्दतः सादृश्यज्ञानस्य काले- ऽप्यस्ति चक्षुर्व्यापार इति समयपरिच्छेदोऽपि प्रत्यक्षफलं स्यादित्याह अस्ति तर्हि इति । न- इति । न खलु तत्र सन्नपि चक्षुर्व्यापारः कारणं व्यभिचाराद्-भवति हि वाक्यार्थस्मरणा- भावेन केवलं सादृश्यविशिष्टतया पिण्डमनुभूतवतः पश्चादुपरतेन्द्रियव्यापारस्यैव वाक्यार्थस्मरणे सति गोसदृशपिण्डस्मरणादेव समयपरिच्छेदः, यो गवयपदवाच्यः स गोसदृश इति ॥ १० ॥ अत्र जरन्नैयायिक आह ननु इति । नगरस्थेनैव वाक्यमात्रात्समयः परिच्छिन्नः, वनस्थेन तु केवलं प्रत्यभिज्ञायते सोऽयं गवयशब्दवाच्य इति, तेन शब्दप्रमाणक एव समय इति । आधु- निकस्त्वाह प्रयोगाद्वा इति । गोसदृशो गवय इत्यत्र गोसदृशे वस्तुनि गवयशब्दप्रयोगमुपलभ्य तस्मादेव हेतोर्गोसदृशस्य गवयवाच्यत्वमनुमीयत इति । तदेव दर्शयति यो यत्र इति । गौण- लाक्षणिकप्रयोगे व्यभिचारो मा भूदित्युक्तं असति वृत्त्यन्तरे इति । पक्षद्वयमप्युपसंहरति तत्- किम्(१)इति । प्रकाशः । यत्सन्निकर्षादेरवस्थितिस्तत्र तत्फलस्यावान्तरव्यापारता, यत्र तु तस्यानवस्थितिस्तत्र प्रमाणबहिर्भूत- त्वमित्यर्थः । इममेव विशेषमादाय शङ्कते अस्तीति ॥ उक्तयुक्त्या परिहरति उपलब्धेति ॥ इन्द्रियव्यापारोपरतौ लिङ्गशब्दानुसन्धानस्येव वाक्यार्थस्मृतिसचिवस्य सादृश्यज्ञानस्यापि मानान्तर- त्वादित्यर्थः ॥ १० ॥ निमित्तम्-प्रवृत्तिनिमित्तम्(२) ॥ समय इति ॥ गवयत्वप्रवृत्तिनिमित्तकगवयपदवाच्योऽयं पिण्ड इत्याकार इत्यर्थः । गवयपदस्यागृहीतसमयत्वेनाप्रत्यायकत्वादुगोसदृशपदस्य च सादृश्यमात्रबोध- कत्वादिति भावः ॥ अयमसाविति ॥ यो गोसदृशो धर्मी गवयशब्दवाच्यतयाऽवगतस्तं साक्षात्करोमीति प्रत्यभि- जानातीत्यर्थः ॥ प्रकाशिका । कर्म्मणि सङ्केतः पूर्ववाक्यादेव गृहीत इत्यत आह । गवयत्वप्रवृत्तिनिमित्तकेति । ननु गवय- पदादेव गवयत्वप्रतीतिरस्त्वित्यत आह गवयपदस्येति । तर्केति लाघवेत्यर्थः ॥ १० ॥ मकरन्दः । धर्मिणि समयस्य पूर्वं गृहीतत्वादाह गवयत्वप्रवृत्तिनिमित्तकेति । ननु गवयपदादेव गव- यत्वं प्रतीत्य तद्विशिष्टे समयं ग्रहीष्यत्यत आह गवयपदस्येति । ( १ ) एतन्मतेनात्र 'तत्किमुपमानेति' मूले पाठो द्रष्टव्यः । ( २ ) एतद्व्याख्यानमूलं 'निमित्त'मिति पदं मूले नोपलभ्यत इति द्रष्टव्यम् ।

तृतीयस्तबके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३७६ सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः ॥ समयो दुर्ग्रहः पूर्वं शब्देनानुमयाऽपि वा ॥ ११ ॥ न हि गवयशब्दस्य सादृश्यं प्रवृत्तिनिमित्तम् , अप्रतीतगोनामव्यवहारप्रस- ङ्गात् । न चोभयमपि निमित्तम् , स्वयं प्रतीतसमयसंक्रान्तयेऽतिदेशवाक्यप्रयो- गानुपपत्तेः । गवयत्वे ह्यर्थं व्युत्पन्नो वृद्धव्यवहारान्न सादृश्ये । कथमेतन्निर्धारणीय- मिति चेत् । वस्तुगतिस्तावदियं, तदापातः सन्देहेऽपि न फलसिद्धिः । गन्ध- वत्त्वमिव पृथिवीत्वस्य, गोसादृश्यं गवयशब्दप्रवृत्तिनिमित्तस्योपलक्षणमिदमेव वा निमित्तमित्यनिर्धारणात् ॥ ११ ॥ स्यादेतत् । पूर्वं निमित्तानुपलब्धेर्न फलसिद्धिरिदानीन्तु तस्मिन्नुपलब्धे तदेव बोधनी । सादृश्यस्य इति । प्रतीते हि प्रवृत्तिनिमित्ते संबन्धग्रहस्तदत्र वाक्ये शक्यग्रहः प्रतीतं सादृश्यं च निमित्तं, निमित्ति तु गवयत्वं न प्रतीतम्, तस्मान्न तावद्वाक्यमात्रेण सम्बन्धग्रहः, नाप्यनुमानेन तद्वाचकत्वज्ञानमन्तरेणासति वृत्त्यन्तर इति विशेषणस्यासिद्धेरिति । नहि इति । यदि गोसादृश्यं निमित्तं स्यात् तदा नित्यवनवासिनां गवयपदेन व्यवहारो न स्यात् , तेषां गोरप्रतीतौ तत्प्रतियोगिकस्य सादृश्यस्य गवयेऽवगन्तुमशक्तेरिति । तर्हि तेषां गवयत्वं नागरिकाणां तु गोसादृश्यमित्युभयं विकल्पेन निमित्तमस्त्वित्यत आह न चोभयम् इति । तदा हि कथमारण्यकस्तेनाप्रतीतं गोसादृश्यविषयं समयं परस्मै प्रतिपादयितुमतिदेशवाक्यं प्रयुञ्जीतेति । कथमेतत् इति । गवयत्व एव न सादृश्येऽपीत्येतत्तत्राप्रतीतगोत्वेन तस्य सादृश्ये व्युत्पत्तिर्न संभवतीत्युक्तप्रायमेवेति मन्वानोऽन्यथा परिहरति वस्तुगतिरिति । ननु वस्तुगतिरित्येतावता न तत्प्रतिपादनमन्तरेण निर्धारणा सिध्यतीत्यत्राह तदापातः इति । तत्रापातः प्रतिपादनं यावन्निमित्तसन्देहेऽपि न पराभिमतस्य वाक्यादेव समयपरिच्छेद इत्यस्य फलस्य सिद्धिरिति कुत इत्यत आह गन्धवत्त्वम् इति । यथा हि गन्धवती पृथिवीत्यत्र गन्धवत्त्वं पृथिवीशब्दप्रवृत्ति- निमित्तस्य पृथिवीत्वस्योपलक्षणं, तथा गोसादृश्यं निमित्तस्योपलक्षणम् । यद्वा इदं सादृश्यमेव निमित्तमिति निर्धारणाधीनश्च वाक्यादेव संबन्धग्रह इति न पराभिमतसिद्धिरिति ॥ ११ ॥ स्यादेतत् इति । मा भूत् सादृश्यं निमित्तं मा च भून्निमित्तस्य गवयत्वस्याप्रतीतेः पूर्वं सम- प्रकाशः । अप्रतीतेति । गवयत्वस्य जातितया लघुत्वात्, सादृश्यस्य चोपाधितया गुरुत्वादिति भावः । उभयं समुचितं निमित्तं विकल्पो वा ? । आद्योऽप्रतीतगोनामव्यवहारापातादेव निरस्तः । द्वितीये त्वाह स्वयमिति । स्वयं यत्र प्रवृत्तिनिमित्ते व्युत्पत्तिर्गृहीता, तत्र परस्यापि सा भवतीति धियाऽ- प्यारण्यको वाक्यं प्रयुङ्क्ते, तेन च सा गवयत्व एव ज्ञातेति तदेव प्रवृत्तिनिमित्तं बोधयेदित्यर्थः । वस्तुगतिरिति । तर्कादिपुरस्कारादित्यर्थः । सन्देहेऽपीति । गोसादृश्यं प्रवृत्तिनिमित्तं तदुपल- क्षितं वा धर्मान्तरमिति संशये सति न प्रवृत्तिनिमित्तविशेषनिश्चय इत्यर्थः । सन्देहाकारमाह गन्धवत्त्वमिवेति ॥ ११ ॥ पूर्वमिति । गवयपिण्डदर्शनादित्यर्थः । फलसिद्धिः प्रवृत्तिनिमित्तविशेषनिश्चय इत्यर्थः । इदा- प्रकाशिका । पूर्वत्वस्य किन्निरूप्यत्वमित्यत आह गवयपिण्डेति । लक्षणयेति वाक्य एव लक्षणयेति मकरन्दः । तर्कादीति । लाघवपुरस्कारादित्यर्थः ॥ ११ ॥

३८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां वाक्यं स्मृतिसमारूढं फलिष्यति, अध्ययनसमयगृहीत इव वेदराशिरङ्गोपाङ्गपर्य- वदातस्य कालान्तरे । न च वाच्यं-'वाक्येन स्वार्थस्य प्रागेव बोधितत्वात् प्रागेव पर्यवसितमिति' । गोसादृश्यस्योपलक्षणनिमित्तत्वयोरन्यतरत्र तात्पर्य्यसन्देहात्, इदानीन्तु गवयत्वेऽवगते तर्कपुरस्कारात् सादृश्यस्योपलक्षणतायां व्यवस्थितायां, गङ्गायां घोष इतिवदन्वयप्रतिपत्तिरिति चेत्, न— श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ॥ पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ॥ १२ ॥ गोसदृशो गवयशब्दवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ विशेष- सन्देहेऽपि वाक्यस्य पर्यवसितत्वेन मानान्तरोपानीतानपेक्षणात् । रक्तरक्तसन्दे- हेऽपि घटो भवति इति वाक्यवत्, अन्यथा वाक्यभेददोषात् । न च गङ्गायां बोधनी। यद्गृहस्तथापि पश्चाद्भवगतस्य प्रवृत्तिनिमित्तोपलम्भे सति तत्सहकृतप्रागनुभूतमतिदेशवाक्यमेव स्मृ- तिस्थं तत्फलिष्यति संबन्धग्रहं, यथा ह्यध्ययनसमये पाठमात्रगृहीतो वेदः पश्चादङ्गोपाङ्गसंस्कृतः तस्य वाक्यार्थज्ञानं प्रसूत इति । ननु युक्तं तत्राऽध्ययनात्पूर्वं वाक्यार्थप्रतिपादनाय गृहीतस्य वेदस्यापर्य- वसानादङ्गादिसहकृतस्य तस्यैव धर्मद्विज्ञानहेतुत्वम् , अत्र त्वतिदेशवाक्यस्य स्वार्थप्रतिपादनेन पर्य- वसानादयुक्तः समयपरिच्छेदहेतुभाव इत्याशङ्कयाह न च वाच्यम् इति । अतिदेशवाक्यमपि न तावत्पर्यवस्यति गोसदृशपदस्य तात्पर्यानवधारणेनार्थानिश्चयात्पदार्थपूर्वकत्वाच्च वाक्यार्थस्य गवयत्वावगतौ तु तर्क पुरस्कृत्य गोसदृशपदस्योपलक्षणपरत्वसिद्धौ च गवयत्वविषयं समयवाक्यमेव प्रतिपादयति । यथा गङ्गायां घोष इत्यत्र मुख्यार्थबाधेन गङ्गापदस्य तीरोप लक्षणत्वस्थितौ पश्चा- दन्वयप्रतिपादनम् । तर्कश्चात्र-सादृश्यस्य गवयत्वातिरेकिणः निमित्तत्वे क्लृप्तकल्प्यविरोधः, सादृश्यमात्रनिमित्तत्वेऽतिप्रसङ्गः, सादृश्यस्य निमित्तत्वे विशेषगस्य गौरप्यभिधानेऽशक्ति कल्पना- गौरवमिति वक्ष्यते । तस्माच्छब्द एव समये प्रमाणमिति । न, श्रुतान्वयात् इति । तदर्थनामाकाङ्क्षा संनिधियोग्यतावशेन परस्परमन्वयादेव पर्यवसितम- तिदेशवाक्यं नान्यत्पक्षोपनीतं गवयत्वादिकमाकाङ्क्षति वाक्यार्थप्रतिपादनायेति शेषः । गङ्गायां घोष इत्यत्र तु गङ्गापदस्य मुख्यार्थेन पदार्थान्तरा गामनन्वयात् मुख्यार्थलक्षितेन तु कूलेन सह संगतिरिति व्याचष्टे गोसदृश इति । कोऽसौ गोसदृश इति विशेषसंदेहेऽपि यो गोसदृशः स गवयशब्द- वाच्य इति सामान्येनैवान्वयसिद्धेर्न मानान्तरोपमेयविशेषाकाङ्क्षा वाक्यस्य, न हि पटो भवतीति वाक्यं रक्तरत्वादिनिश्चयादृते न पर्यवस्यतीति, यदि हि वाक्यमेव सामान्येनान्वयं प्रतिपाद्य विशेषा- प्रकाशः। नीमिति । गवयत्वविशिष्टपिण्डप्रत्यक्षकाल इत्यर्थः । तर्केनेति । प्रागुक्ततर्काद्गवयत्वे प्रवृत्ति- निमित्ते तात्पर्यनिश्चयाद् गोसदृशपदं लक्षणया गवयत्वबोधकमित्यर्थः । उपलक्षणत्वनिमित्तत्वसन्देहेऽपि यो गोसदृशः स गवयपदवाच्य इति सामानाधिकरण्यरूपयथाश्रुतप- दार्थान्वयेनैव वाक्ये पर्यवसिते पश्चाल्लक्षणा न कल्प्यते, यत्र त्वयोग्यतया मुख्यार्थान्वयाऽसम्भवः, तत्रैव सेत्याह श्रुतेति । मानान्तरेति । मानान्तरं प्रत्यक्षं, तेनोपनीतं दर्शितमित्यर्थः । अन्यथेति । यदि पर्यवसिं- प्रकाशिका। मतेनेदमुपपादनीयम् । वस्तुतो गम्भीरायां नद्यामितिवदेकपदे एव लक्षणा पदान्तरन्तु नियामक- मकरन्दः। पूर्वत्वस्य किञ्चिन्निरूप्यत्त्वादह गवयपिण्डेति । गोसदृशपदमिति । यद्यप्येतन्न पदं किन्तु

तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३८१ घोष इतिवत् पदार्था एवान्वयायोग्याः, येन प्रमाणान्तरोपनीतेनाऽन्वयः स्यात् । प्रतीतवाक्यार्थबलायातोऽप्यर्थो यदि वाक्यस्यैव, दिवाभोजननिषेधवाक्यस्यापि रात्रिभोजनमर्थः स्यात् । तस्माद्यथा गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयोगादिति सामान्यतो निश्चितेऽपि विशेषे मानान्तरापेक्षा, तथा गोसदृशस्य गवयशब्दो वाचक इति वाक्यान्निश्चितेऽपि सामान्ये विशेषवाचकत्वेऽस्य मानान्तरमनुस- रणीयमिति ॥ अस्त्वनुमानम्–तथाहि-गवयशब्दो गवयस्य वाचकः, असति वृत्त्यन्तरेऽभि- युक्तैस्तत्र प्रयुज्यमानत्वात्, गवि गोशब्दवदिति-चेन्न, असिद्धेः । न ह्यसति बोधनी । वगस्र्युत्तरकालं तदन्वयमपि प्रतिपादयेत्, तदा वाक्यभेदः स्यादित्याह अन्यथा इति । गङ्गायां घोष इत्यत्र मुख्यार्थस्यान्वयायोग्यत्वात्तीरलक्षणयैवान्वयप्रतीतिः, नैवमत्र सामान्यस्यैवान्वययोग्यत्वा- दिति विशेष इत्याह न च इति । ननु पर्यवस्यतां नाम वाक्यं, तथापि तत्प्रतिपादितार्थवलायत्तः समयपरिच्छेदस्तस्यैव वाक्यस्यार्थः स्यादित्यत्राह अथ इति । यथा हि भवतः साधुत्वादेव गव- यपदस्य सामान्यतोऽर्थवत्त्वे सिद्धेऽपि विशेषज्ञानार्थं वाक्यार्थापेक्षा तथा गोसदृशस्य वाचक इति वाक्यावगतेऽपि तद्विशेषार्थं मानान्तरमित्युपसंहरति तस्मात्-इति । अस्तु तर्ह्यनुमानं प्रमाणं संज्ञासंज्ञिसम्बन्धे इत्याह अस्तु इति । नासिद्धेरिति । विशेष- णासिद्धिमेवाह न हि इति । संगतिग्रहे हि सति मुख्यवृत्त्यवगमेन वृत्त्यन्तरासत्त्वं ज्ञातुं शक्यते, प्रकाशः । तेऽपि वाक्ये तत्तदाकांक्षायां तत्तद्वाक्याऽर्थज्ञानं स्यात्तदा वाक्यभेद इत्यर्थः । यत्र तु लक्षणा, तत्र नैवं वाक्यपर्यवसानमित्याह न चेति । ननु प्रतीत्यपर्यवसानाभावेऽपि प्रतीताऽपर्यवसानाद् येन विनाऽनुपपत्तिः, सोऽपि वाक्यार्थः स्यादित्याह प्रतीतेति । यदि कल्पनावौरवाद् गोसादृश्यस्य प्रवृत्तिनिमित्तत्वानुपपत्तौ गवयत्वस्य तथात्वकल्पनाऽपि वाक्यार्थः स्यात्, तदा दिवाऽभोजिनः पीन- त्वानुपपत्त्या रात्रिभोजनकल्पनापि वाक्याऽर्थः स्यादित्यर्थः । तस्मादिति । ननु सामानाधिकरण्यमात्रेणान्वयोपपत्तावपि तात्पर्यानुपपत्त्या यष्टीः प्रवेशयेति- वल्लक्षणाऽस्तु, गवयपदव्युत्पित्सुं प्रति व्युत्पत्तये हि वाक्यमासेनोक्तम् , तच्च न प्रवृत्तिनिमित्तप्रति- पादनं विना, न च गोसादृश्यं तथेति तात्पर्यतो गोसदृशपदेन गोसादृश्यसमानाधिकरणं गवयत्व- मुपलक्षितमिति कल्प्यते । न च यथा धूमोऽस्तीत्यत्राग्नौ तात्पर्यमनुमानेन निर्वहतीति न लक्षणा, तथाऽत्र मानान्तरमस्ति, येन तन्निर्वाहम् । उपमानस्यासिद्धेः । न च वाक्ये न लक्षणा, तस्या वृत्ति- त्वेन शक्तिवच्छुद्धधर्मत्वादिति वाच्यम् । एकपद एव लक्षणा, पदान्तरं तन्नियामकमित्युपगमात् । न च गोसदृशपदस्य गवयत्वे साक्षात्तात्पर्यग्रह एव लक्षणा, सा च मानाभावान्नास्ति, अन्यथा धूमोऽ- स्तीत्यत्रापि सा स्यादिति वाच्यम् । उपस्थापकान्तराभावे सति तत्तातपर्यस्यैव साक्षात्तात्पर्यरूपत्वात् । अत्राहुः । यत्र प्रवृत्तिनिमित्तविशेषबोधने न तात्पर्यं, किन्तु यो गोसदृशः स गवयशब्दवाच्य इति स्वरूपाख्यानमात्रं तत्राप्युक्तसामग्रीतः प्रवृत्तिनिमित्तविशेषपरिच्छेदः । न च तत्र तात्पर्यं, यद- नुपपत्तिर्लक्षणात्रीजं स्यात् । यत्र वा करभनिन्दातात्पर्यकं धिक्करभमित्यादिकं, तत्रापि तादृशं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयङ्करभशब्दवाच्य इति धीः । न च प्रवृत्तिनिमित्तविशेषे .तत्र तात्पर्यम् । प्रकाशिका । मात्रमित्येवमित्याकार एवाग्रे व्यक्तम् । शक्यसम्बन्धमाह गोसादृश्यसमानाधिकरणमिति । मकरन्दः । .वाक्यं, तत्र च न लक्षणा तस्याः पदधर्मत्वात् , तथाप्येकपद एव लक्षणा पदान्तरञ्च नियामक मिति

३८२ व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां वृत्त्यन्तरे तद्विषयतया प्रयोगः सङ्गतिम्‌विज्ञाय ज्ञातुं शक्यते । सामानाधिकरण्या- दिति चेन्न । पिण्डमात्रे सिद्धसाधनात्‌, निमित्ते चासिद्धेः, सादृश्यस्यानिमित्त- त्वादित्युक्तम् ॥ ननु व्याप्तिपरमिदं वाक्यं स्यात्‌-यो गोसदृशः स गवयपदार्थ-इति, तथा च वाक्यादवगतप्रतिबन्धोऽनुमिनुयात्‌-अयमसौ गवयो गोसदृशत्वादतिदेशवाक्या- वगंतपिण्डवदिति । न । विपर्ययात्‌, न हि गोसदृशं बुद्ध्यारोप्यानेन पृष्टः स किंशब्दवाच्य इति, किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदृगिति । तथा बोधनी । तदसत्त्वविशेषिताच्च प्रयोगारसङ्गतिग्रह इतीतरेतराश्रयप्रसङ्ग इति । अस्तु तर्हि गोसदृशपदेन सामानाधिकरण्यात्‌ गवयपदस्य गोसदृशविषयत्वसिद्धेर्गवयत्वस्य तत्सदृशत्वात्तद्वाचकत्वसिद्धिरित्याह सामानाधिकरण्यात्‌ इति। न इति । सामानाधिकरण्येन गोसदृशपिण्डमात्रविषयताप्रयोगः स्यात्‌, तेन च तन्मात्रवाचकत्वमेव सिध्येत् नाभिमतं गवयत्ववाचकत्वमिति । न च निमित्तेन च गवयत्वेन सामानाधिकरण्यं सिद्धं गवयत्वस्याप्रतीतेः, प्रतीतेन तु सादृश्येन सामानाधिकरण्यसिद्धावपि नास्त्यु- पयोगस्तस्यानिमित्तत्वादित्याह निमित्ते इति । नन्विति । गवयपदवाच्यं पृष्टः साक्षात्तत्प्रतिपादनाशक्तः तदनुमानसम्पन्नौ व्याप्तिमेवावष्टे यो प्रकाशः। अस्मत्पितृचरणास्तु, सर्वत्रान्वयानुपपत्तिरेव लक्षणाबीजम् । यष्टीः प्रवेशयेत्यत्रापि प्रकर- णादिना भोजनादिप्रयोजनकप्रवेशनस्य ज्ञानात् तादृशे च प्रवेशने यष्ट्यारेरनन्वयात, तात्पर्यग्रहार्थ- मपि प्रकरणादेरवश्योपजीव्यत्वादित्याहुः । मानान्तरमिति । तर्कः प्रमाणसहकारी, न च तस्यां दशायां मानान्तरमस्तीत्युपमानं तर्कोपकार्यमास्थेयमित्यर्थः । असिद्धेरिति । वस्तुतो गवयव्यक्तिवाचकत्वसिद्धावपि गवयत्वस्य प्रवृत्तिनिमित्तत्वं न सिद्ध्यतीति भावः । गवयसामानाधिकरण्येन गोसदृशो गवय इतिवाक्यप्रतिपाद- नाद्गवयवाचकत्वं गवयपदस्य ज्ञायते इत्याह सामानाधिकरण्यादिति । गवयसामानाधिकरण्येनेत्यत्र यदि पिण्डसामानाधिकरण्यं विवक्षितं, तदा पिण्डवाचकत्वसिद्धावपि गवयत्वविशिष्टवाच्यत्वासिद्धे- र्नोपमानपरिच्छेद्यस्य मानान्तरात् प्रतीतिरित्याह पिण्डेति । गवयत्वजातिसामानाधिकरण्यं तु मानाभावादसिद्धमित्याह निमित्ते चेति ॥ प्रकाशिका । सर्वत्रान्वयेति । यद्यप्येवमपि प्रकृते लक्षणा स्यादेव प्रकरणसाचिव्येनेव प्रवृत्तिनिमित्तविशिष्टपर- त्वनिश्चयात् तस्य धर्मिमात्रेऽनन्वयात, तथापि तात्पर्यानुपपत्त्या लक्ष्णैत्येतावन्निराकरणपरोऽयं ग्रन्थः । बाधकन्तु लक्षणायां तादृशप्रकरणाद्यभावेऽपि गवयत्वप्रवृत्तिनिमित्तत्वपरिच्छेद इत्येवेति स्मर्त्तव्यम् । असिद्धिरिति, मूलं विशिष्टस्य हेतोरिति शेषः । अत एवाग्रे विशेष्यसिद्धये सामानाधिकरण्यादिति मूलम् । वस्तुत इति । गवयत्वविशिष्टवाचकत्वे च साध्ये साध्याप्रसि- द्धिरिति भावः । गवयवाचकत्वमिति । गवये प्रयुज्यमानत्वमित्यर्थः । एवमग्रेऽपि वाचकत्वपदं प्रयुज्यमानत्वपरम् । केचित्तु सामानाधिकरण्यादिति मूलं न पूर्वहेतोर्विशेष्यसिद्धिपरं किन्तु गवयप- दस्य गवयत्ववाचकत्वे साध्ये हेत्वन्तरोपदर्शनपरमेवेति यथाश्रुतप्रकाश एव सम्यगित्याहुः । पिण्ड- सामानाधिकरण्यमिति । तादृशहेतौ गवयत्वविशिष्टवाचकत्वे साध्ये द्रव्यं प्रमेयमिति वाक्ये मकरन्दः। भावः । वाक्येऽपि लक्षणेतिमतेन पदमिह वाक्यमेवोक्तमित्यन्ये । शक्यसम्बन्धमाह गोसादृश्य- समानाधिकरणमिति । सर्वत्रान्वयेति । यद्यप्येवमपि प्रकृते लक्षणा स्यादेव, उक्तप्रकरणादिना प्रवृत्तिनिमित्तवाच्यत्वज्ञानात्, तस्य च धर्मिमात्रेऽनन्वयात्, तथापि तात्पर्यानुपपत्त्या लक्षणेति परोक्तनिराकरणमात्रपरोऽयं ग्रन्थ इति प्रतिभाति । यदीति । उद्देश्यस्य व्याप्यत्वं विधेयस्य

तृतीयस्तबके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३८३ च यद्योगप्राथम्यास्यां तस्यैव व्याप्यत्वं, ततः किं तेन ? प्रकृतानुपयोगात् । अथ किंलक्षणकोऽसाविति प्रश्नार्थः । तदा व्यतिरेकपरं स्यात् , लक्षणस्य तथाभावात् । तथा च गोसदृशो गवय इत्यस्यार्थो यो गवय इति 'न व्यवह्रियते नासौ गोसदृश इति । एवञ्च प्रयोक्तव्यम्—अयमसौ गवय इति व्यवहर्त्तव्यः गोसदृशत्वात्, यस्तु न तथा, नासौ गोसदृशो यथा हस्ती । न च हस्त्याऽऽदीनां विपक्षत्वे प्रमाणमस्ति, सर्व्वाप्रयोगस्य दुरवधारणत्वात् , कतिपयव्यवहारस्य चानैकान्तिकत्वात् ॥ बोधनी । गोसदृशः स गवयपदवाच्य इति, ततः श्रोतुरनुमानप्रवृत्तेर्नावकाशः प्रमाणान्तरस्य इति । न इति । व्याप्यव्यापकयोर्विपर्ययादिति । तमेवाह न हि इति । अस्तु तर्हि यो गवयपदार्थः स गोसदृश इति वाक्यार्थः, तत्राह ततः किम् इति । न हि गवयपदार्थं जिज्ञासमानस्य व्याप्यत्वेन तस्य निर्देश उपयुज्यत इति । अथ इति । असौ-गवयपदार्थवाच्य इति । तदा इति । लक्षणप्रश्ने सत्युत्तरवाक्यं केवल- व्यतिरेकिहेतुप्रतिपादनपरं स्यात् लक्षणस्य केवलव्यतिरेकित्वात् । तदुक्तं तार्किकरक्षायां—“असा- धारणधर्मत्वात् व्यतिरेक्येव लक्षणम्” इति । विवृतश्च सारसंग्रहेऽस्यार्थ इति । व्यतिरेकिपरत्वे चातिदेशवाक्यस्यायमर्थः स्यादित्याह तथा च इति । एवं वाक्यावगतव्यतिरेकव्याप्तिना च नाग- रिकेण लक्षणज्ञानार्थमेवमनुमानप्रयोगः कार्य इत्याह एवं च इति । तथा नाम प्रयुक्तम् इत्यत्राह न च इति । येन विपक्षाद्व्यतिरेकः सिध्येदिति । हस्त्यादिषु गवयपदाप्रयोगस्तेषां विपक्षत्वे प्रमाण- मित्याशङ्कयाह सर्व्वेति । मा भूतर्हि व्यतिरेकिरूपलक्षणविशेषप्रश्नः, सामान्यप्रश्नस्तु भविष्यति- प्रकाशः। न हीति ॥ येन सादृश्यस्य व्याप्यत्वं स्यादिति शेषः । यदि गोसदृशः किंशब्दवाच्य इति पृच्छेत् , तदा तमुद्दिश्य गवयशब्दवाच्य इति विदध्यादपि तु कीदृग्गवय इति पृष्टः, तथा च यो गवयशब्दवाच्यः स गोसदृश इति उत्तरयतो विपरीत एव व्याप्यव्यापकभाव इत्यर्थः । यद्योगेति । व्याप्यं यच्छब्देन पूर्वमुद्दिश्यते यथा यो धूमवान् सोऽग्निमानित्यर्थः ॥ यद्योगप्राथम्याभावेऽपि गन्धवती पृथिवीत्यादिवद्व्यतिरेकिरूपलक्षणपरत्वं स्यादित्याह— अथेति ॥ हस्त्यादीनां गवयव्यवहाराविषयत्वं तत्राप्रयोगेण निश्चेयं, तत्राह सर्व्वेति । न चैवं व्यवहारसाध्ये सर्वत्र लक्षणोच्छेदः स्यादिति वाच्यम् । यथा पृथिवीत्वेन पृथिवीपदवाच्यत्वं साध्यते, तथा गवयत्वेन निमित्तेन गवयपदवाच्यत्वस्य साधयितुमशक्यत्वात् , गवयत्वस्यातिदेश- वाक्यादप्रतीतेः । प्रकाशिका । प्रमेयपदे व्यभिचार इति धर्मिवाचकत्वमात्रं साध्यम् , तथा च तत्सिद्धावपि न विशिष्टवाचकत्वसि- द्धिरित्यर्थः । विदध्यादिति । तथा सति च विधेयस्य गवयशब्दवाच्यत्वस्य व्यापकता प्रतीये- तेति भावः । कीदृग् गवय इति । गवयपदवाच्यः कीदृगित्यर्थः । तथा चेति । न तु यो गोस- दृशः स गवयपदवाच्य इत्युत्तरम् येन ययोगादिना गोसादृश्यस्य व्याप्यत्वं प्रतीयेतेति भावः । पृथिवी- त्वेनेति । पृथिवीत्वनिमित्तकपृथिवीपदवाच्यत्वेनेत्यर्थः । एवमग्रे गवयत्वेनेत्यत्रापि धर्मिमात्रवा- मकरन्दः । व्यापकत्वं प्रतीयते इति भावः । कीदृग् गवय इति । गवयपदवाच्यः कीदृगित्यर्थः । गवयत्व- विशिष्टत्ववाच्यत्वमेवमपि न सिद्ध्यतीत्यपि बोध्यम् । तथा चेति । न तु यो गोसदृशः स गवयपद- वाच्य इत्युत्तरं, येन गोसादृश्यस्य वाच्यत्वं यद्योगादिना लभ्येतेति भावः । पृथिवीत्वेनेति । पृथिवीत्वनिमित्तकपृथिवीपदवाच्यत्वमित्यर्थः । गवयत्वेनेति । गवयत्वनिमित्तकगवयपदवाच्यत्व-

३८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां ननु लिङ्गमात्रे प्रश्नो भविष्यति - कीदृक् किं लिङ्गमिति । न । न ह्यनेन लिङ्गम- विज्ञाय गवयशब्दस्य वाचकत्वं कस्यचिद्वाच्यत्वं वाऽवगतं, येन तदर्थः प्रश्नः स्यात् । प्रवृत्तिनिमित्तविशेषलिङ्गे प्रश्नो, येन निमित्तेन गवयशब्दः प्रवर्त्तते तस्य किं लिङ्गमिति चेन्न । न हि तद्वश्यमनुमेयमेवेत्यनेन निश्चितं, यत इदं स्यात् । ज्ञानोपायमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेन्न । अविशेषादिन्द्रियसन्निकर्षमप्युत्तर- येत्। पर्यायान्तरं वा, —यथा गवयमहं कथं जानीयामिति प्रश्ने, वनं गतो द्रक्ष्य- सीति। यथा वा कः पिक इत्यत्र, कोकिल इति । तस्मान्निमित्तभेदप्रश्न एवार्थं, गवयो गवयपदवाच्यः कीदृक् केन निमित्तेनेति युक्तमुत्पश्यामः ॥ · बोधनी । केन लिङ्गेन गवयपदार्थं जानीम—इति तदेतदाह ननु इति । न इति । जिज्ञासितविषयो हि प्रश्नः, यद्यनेन प्रष्ट्रा गवयपदप्रवृत्तिनिमित्तं ज्ञात्वा तस्य लिङ्गमात्रमेवाविज्ञातं जिज्ञास्येत तदा हि तदेव पृष्टं भवेदस्य तु प्रवृत्तिनिमित्तमेवावगतं जिज्ञासमानस्य तदेव प्रष्टुं युक्तमिति । तर्हि प्रवृत्ति- निमित्तमेव जिज्ञासमानस्य तत्र ज्ञानोत्पादाय लिङ्गप्रश्नो भविष्यतीत्याह प्रवृत्तिनिमित्तेति । न इति । स्पष्टम् । ननु ज्ञानोपायमात्रे जिज्ञासुराप्राक्षीदितरस्तु लिङ्गस्य तदुपायत्वात् तेनैवोप- येनोदतीतरदित्याह ज्ञानोपायेति । तर्हि ज्ञानोपायत्वाविशेषात्प्रत्यक्षं पर्यायान्तरं वोत्तरयेदित्याह न इति । न हि तल्लिङ्गैकवेद्यमिति भावः । गत्यन्तराभावादयमेव प्रश्नवाक्यार्थ इत्याह तस्मात् इति । तर्हि गवयत्वमेवोप दिशेत् न गोसादृश्यं तत्राह तस्य च इति । किमनेनोपमानस्य सिध्यतीत्यत्राह तच्च इति । तद्वाक्यं सादृश्यात्मकमुपलक्षणं चोपमानसामग्री वाक्यार्थस्मरणसह- प्रकाशः । न ह्यनेनेति । अज्ञातसामान्यस्य विशेषजिज्ञासा न युक्तेति भावः । उपसंहरति । तस्मादिति । ननु यदि निमित्तप्रश्नस्तत् किं तदेव नोत्तरयतीत्यत आह तस्य चेति । व्युत्पाद्यस्याप्रती- तगवयत्वजातिकत्वादिति भावः । तच्चेति । सामग्र्युत्थानानुकूलमित्यर्थः ॥ ननु सादृश्यप्रवृत्तिनिमित्ततायां गौरवानवतारे नोपमानस्याऽप्यवतारः, तथा च तर्केणेतरा- प्रवृत्तिनिमित्तकत्वे निश्चिते गवयपदं गवयत्वप्रवृत्तिनिमित्तकम् इतरप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् , यन्नैवं तन्नैवमिति चेन्न । तर्कस्यानिश्चायकत्वात् । न चायं तर्को व्याप्ति- मूलको येन विपर्ययानुमानादर्थसिद्धिः स्यात् । न च गवयपदं किञ्चित्प्रवृत्तिनिमित्तकमिति सामान्यतो दृष्टमेव तर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकतां परिच्छिनत्ति, न तु मानान्तरं कल्पयित्वा तर्कः सहकारी कल्प्यते इति वाच्यम् । इदं सप्रवृत्तिनिमित्तमन्यच्च न प्रवृत्तिनिमित्तमिति बुद्धावपि प्रकाशिका । चकत्वस्य शब्दादेव प्रतीतेरिति भावः । अज्ञातेति । धर्म्मितावच्छेदकविशिष्टधर्म्यज्ञानेन तद्धर्म्म- विशेषजिज्ञासेत्यर्थः । तथा च, गवयपदवाच्यप्रतीतौ तल्लिङ्गमपि प्रतीतमेव प्रकारान्तरेण तदप्रतीते- रिति लिङ्गस्य तदप्रतीतत्वादेव न तत्र प्रश्नो गवयपदवाच्याज्ञाने न धर्म्मप्रतीतिरेव न तत्र प्रश्न इत्यर्थः । यद्वा गवयपदवाच्यस्य किञ्चिल्लिङ्गमस्तीति यदा न ज्ञानं तदा कथं लिङ्गविशेषजिज्ञासा अज्ञातसामान्यस्य विशेषजिज्ञासाविरहादित्यर्थः । अत्र च पठेऽविज्ञायेत्यस्य मूलस्य सामान्यतो ज्ञात्वेत्यर्थः । अयमिति । लाघवाद्य इत्यर्थः । अन्यच्च न प्रवृत्तिनिमित्तमिति । विशेषंत मकरन्दः । स्येत्यर्थः । धर्मिमात्रवाच्यत्वस्य शब्दादेव प्रतीतेरिति भावः । अज्ञातेति । गवयपदवाच्यस्य प्रतीतौ स किंलिङ्गक इति प्रश्नः, तत्प्रतीतिश्च तस्य लिङ्गादेव जातेति लिङ्गस्य ज्ञातत्वान्न तत्र प्रश्न इति भावः । अयमिति । लाघवाख्य इत्यर्थः । अनुमितेरिति । तथा चेतराप्रवृत्तिनिमित्तकतां परिच्छिनत्ती-

तृतीयस्तवके] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३८५ तस्य च निमित्तविशेषस्य साक्षादुपदर्शयितुमशक्यत्वात् पृष्टस्तदुपलक्षणं किञ्चिदाचष्टे, तच्चोपमानसामग्रीसमुत्थापनमेव । तस्य च प्रमाणस्य सतस्तर्कः सहायतामापद्यते, सादृश्यस्यैव निमित्ततायां कल्पनागौरवम्, निमित्तान्तरकल्पने च क्लृप्तकल्प्यविरोध इति तदेव निमित्तमवगच्छतीति ॥ बोधनी। कृतसादृश्यप्रत्यभिज्ञानरूपमुत्था प्यतीति किमेतावता गवयत्वमेव प्रवृत्तिनिमित्तमिति सिध्यतीत्याह- तस्य च इति । तर्कस्वरूपमाह - सादृश्यस्य इति । प्रकाशः । गवयत्वप्रवृत्तिनिमित्तकं गवयपदमिति मानान्तरमन्तरेणाप्रतीतेः, अनुमितेर्व्यापकतावच्छेदकप्र- कारकत्वात् ॥ ननु यथेच्छायां सामान्यतोदृष्टेन विशेषबाधकसहकृतेनाष्टद्रव्यानाश्रयत्वं ज्ञायते, अन्यथा विशेषबाधकानां पृथिव्याद्येकैकमात्रव्यतिरेकविषयत्वेनाष्टद्रव्यानाश्रयत्वं केन ग्राह्यम् , तथात्रापि गौरवाऽऽढ्यतर्कसहकृतसामान्यतोदृष्टादितराप्रवृत्तिनिमित्तकत्वे निश्चिते पश्चाद्व्यतिरेकि स्यात् , कल्प्यमानान्तरसहकारित्वापेक्षया क्लृप्तप्रमाणसहकारित्वस्य युक्तत्वात् ॥ मैवम् । इच्छायामेकैकबाधसहकृतापरापरबाधकैरेव तावद्विशिष्टवैशिष्ट्यरूपमष्टद्रव्यानाश्रयत्वप- रिच्छेदात् , न तु सामान्यतोदृष्टेन, विशेषणद्वयोपस्थित्यैव विशिष्टवैशिष्ट्यज्ञाननिर्वाहात् , तर्का- नवतारदशायां तस्य तदपरिच्छेदकत्वाच्चेति सङ्क्षेपः ॥ प्रकाशिका। उपस्थितं गोसादृश्यादित्यर्थः । मानान्तरमन्तरेणेति । सामान्यत इतराप्रवृत्तिनिमित्तकत्वज्ञा- नाभावेन व्यतिरेकिणोऽप्रवृत्तेरिति भावः । ननु सामान्यतोदृष्टादेवेतराप्रवृत्तिनिमित्तकत्वसिद्धि- रित्यदूषितमेवेत्यत आह अनुमितेरिति । तथात्रापीति । उक्तान्यथानुपपत्त्याऽनुमितेर्व्यापक- तावच्छेदकमात्रप्रकारकत्वमसिद्धमेवेत्याशयः । व्यतिरेकीति । पूर्वोक्तव्यतिरेकीत्यर्थः । अनु- मितेर्व्यापकतावच्छेदकप्रकारकत्वनियमभङ्गो यत्रानुपपत्त्या स्वीकरणीयः, तमेव खण्डयति इच्छा- यामिति । इदमुपलक्षणम् पृथिव्यनाश्रितत्वादिकं प्रत्येकमेव हेतुविशेषणमिति द्रष्टव्यम् । तर्काऽनवतारेति । सामान्यतोदृष्टस्येतराप्रवृत्तिनिमित्तकत्वापरिच्छेदकत्वादित्यर्थः । तथा च मकरन्दः। त्यप्युक्तमिति । तथाऽत्रापीति । अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमोऽसिद्ध एवेत्याशयः। व्यतिरेकीति । पूर्वोक्तव्यतिरेकीत्यर्थः । तस्य सामान्यतोदृष्टस्य । तदपरिच्छेदकत्वात् इतरा- प्रवृत्तिनिमित्तकत्वापरिच्छेदकत्वात्, तर्कसहकारेणैव तस्य तथात्वाभ्युपगमादिति भावः । यद्यपि तद्दशायां नोपमानस्याप्यवतारः, तथापि तर्कावतारे सामान्यतोदृष्टस्य किञ्चित्प्रवृत्तिनिमित्तकत्व- मात्रमनुमाय पर्यवसितत्वादग्रे पुनस्तर्कावतारे उपमानप्रवृत्तिरप्रत्यूहैवेति भावः । अत्रेदमलोच- नीयम्—क्लृप्तप्रमाणभावस्य सामान्यतोदृष्टस्य पुनरनुसन्धानमात्रं कल्पयितुमर्हं लाघवात् , न तु मानान्तरं, गौरवात् । न च पुनरनुसन्धीयमानादपि तर्कसहकृतादपि तस्मादितराप्रवृत्तिनिमित्तकत्व- परिच्छेदोऽनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमादिति वाच्यम् । लाघवगौरवसहकारेण व्यापक- तानवच्छेदकस्यापि भानाभ्युपगमात् , अत एवेश्वरानुमाने क्षित्यादिकमेकमात्रकर्तृकत्वानुमितिः, अस्तु वा तथा, तथापि इतरद् न प्रवृत्तिनिमित्तं गुरुत्वादिति मानान्तरादितराप्रवृत्तिनिमित्तकत्वनिश्चये उक्तव्यतिरेकिणा गवयत्वप्रवृत्तिनिमित्तकत्वसिद्धिरविकलैव । न च साध्याप्रसिद्धेनं तत्सिद्धिरिति वाच्यम् । तथा सत्युपमानादपि तद्विशिष्टबुद्ध्यनुदयापत्तेः, विशेषणज्ञानं विना तदभावात् । टिप्पणी । तर्काऽनवतारदशायां तस्य तदपरिच्छेदकत्वाच्चेति । तदानीम्पर्यवसितस्य तस्य प्रत्य- ४६ न्या० कु०

३८६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां लक्षणन्तत्त्वस्य - अनवगतसङ्गतिसंज्ञासमभिव्याहृतवाक्यार्थस्य संज्ञिन्यनुसन्धा- नमुपमानम् । वाक्यार्थश्च क्वचित् साध्यर्म्यं क्वचिद्वैधर्म्यमतो नाव्यापकम्, तस्मान्नि- यतविषयत्वादेव न तेन बाधो, न त्वनतिरेकादिति स्थितिः ॥ १२ ॥ बोधनी । एवमुपमानस्य प्रमाणान्तरेभ्यो विषयभेदाद् भेदं दर्शयित्वा लक्षणतोऽप्याह लक्षणं तु इति । अनवगतस्वार्थसम्बन्धया गवयादिसंज्ञया समभिव्याहृतं यद्वाक्यमतिदेशवाक्यमिति यावत्, तस्य योऽर्थस्तस्य संज्ञिनि गवयादिपिण्डे यदनुसंधानमयमसो गोसदृश इत्यादि प्रत्यभिज्ञानं तदुपमानमिति। नन्वव्यापकमेतत्, कीदृगश्व इति हि प्रश्ने गवयादिविलक्षणः केसरादिमानश्व इति वैधर्म्यरूप- वाक्यार्थप्रत्यभिज्ञानस्याप्युपमानत्वेनेष्टत्वादित्यत्राह वाक्यार्थश्च इति । ननु तथाप्यव्यापकं 'कीदृक्करभ' इति पृष्टेनोदीच्येनोदीरितं 'दीर्घग्रीवः प्रलम्बोष्ठः कठोरतीक्ष्णकण्टकाशी पशुः करभ' इति वाक्यं श्रुतवतो दाक्षिणात्यस्योत्तरपथे पुनस्तादृशपिण्डे तांस्तान् धर्मान् प्रत्यभिजानानस्यायं करभशब्दवाच्य इति । यथोक्तं तार्किकरक्षायाम्- अत्रातिदेशवाक्यार्थस्त्रिविधः परिगृह्यते । साधर्म्यं धर्ममात्रं च वैधर्म्यं चेति भेदतः ॥ इति । परमप्रकृतमुपसंहरति तस्मात्-इति । नियतविषयत्वात्संज्ञासंज्ञिसंबन्धमात्रविषयत्वादिति ॥१२॥ प्रकाशः । एवमुपमानस्य क्लृप्तमानातिरेकं प्रसाध्याव्याप्तिं परिहर्तुं लक्षणमाह लक्षणन्त्विति ॥ अनव- गतसङ्गतिकासौ संज्ञा चेति कर्मधारयः । न च गोविसदृशो न गवयपदवाच्य इत्यत्र अर्थादापद्यते -गोसदृशो गवयपदवाच्य इति, तथा च नात्र वाक्यार्थानुसन्धानमस्तीति वाच्यम् । परम्परया तत्रापि -वाक्य तात्पर्यात् । वस्तुतस्तु उपमितिकरणत्वमुपमानत्वम्, उपमितित्वञ्च जातिः । न च तदसिद्धिः। -सामग्रीविशेषे कार्यवैजात्यमावश्यकमिति कारणव्यङ्ग्यत्वात्, सैव सामग्री अनवगतसङ्गतिरित्यादिना -दर्शिता । क्वचिद्वैधर्म्यमिति ॥ धिक्करभमतिदीर्घग्रीवमित्यादौ ॥ प्रकृतमुपसंहरति तस्मादिति ॥१२॥ प्रकाशिका । तदनवतारदशायां सामान्यतोदृष्टे पर्यवसिते यत्रोत्तरकालं तर्कावतारः, तत्रोपमानं मानान्तरं सामान्यतोदृष्टपुनरनुसन्धानस्यानुभवकलहग्रस्तत्वादिति भावः । वस्तुतोऽनुमितेर्व्यापकतावच्छे- दकप्रकारेकेत्यादिपूर्वोक्तबाधकमेव सम्यगिति । अत्र वदन्ति-प्रमाणान्तरकल्पनापेक्षया सामा- न्यतोदृष्टानुसन्धानकल्पनमेव लघु, अन्यथा प्राङ्नास्तितास्थले लिङ्गानुसंधानकल्पनं न स्यादि- त्यनुपलब्धेर्मानान्तरतापत्तिः । न चानुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमः, क्षित्यादौ लाघवेनैक- मात्रकर्तृकत्वानुमानाभावापत्तिः । न चेष्टापत्तिः, एकानककर्तृकत्वसंशयापत्तेः, तस्मात् सप्रवृत्तितिनिमि- त्तिकत्वानु ( रोधेन ) मानमेवेतरप्रवृत्तिनिमित्तकत्वं विषयीकरोति, पक्षादुक्तव्यतिरेकिणा गवयत्व- मकरन्दः । यदि च गवयत्वं किञ्चित्पदप्रवृत्तिनिमित्तं जातिविशेषत्वादित्यादिना तस्य तुल्यवित्तिवेद्यतया किञ्चित्पदे तत्प्रसिद्धिसम्भवात्तथात्वं, तदा प्रकृतेऽपि तुल्यम् । व्यतिरेक्यन्तरेऽपीयमेव गतिः । किञ्च यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टं तर्कसहकृतं पुनरनु- सन्धीयमानं जीवित्वप्रकारकं ज्ञानं जनयति, तथा गवयपदं गवयत्वतदितरान्यतरप्रवृत्तिनिमित्तकं पदत्वादिति सामान्यतोदृष्टं तर्कसहकृतमनुसन्धीयमानं गवयत्वप्रवृत्तिनिमित्तकत्वं परिच्छिनत्तु, कृतं मानान्तरेण । तदाह गङ्गेशः- 'विचित्रसहकारिवलेनैकस्यापि विचित्रफलजनकत्वादिति' । अन्यथा टिप्पणी । चेण परत्वोपस्थितौ तर्कसाम्राज्ये पुनः परिच्छेदकत्वासम्भवादिति भावः ।

तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३६७

प्रकाशिका । प्रवृत्तिनिमित्तकत्वं गृह्यते । सामान्यतोदृष्टमेव वा गवयत्वप्रवृत्तिनिमित्तकत्वप्रकारकमुकलाघवसह- कारादिति । तदयुक्तम्—लाघवस्य विशेषविषयीकरणमात्रे सामर्थ्येन इतराप्रवृत्तिनिमित्तकत्ववि- षयतायां मानाभावात् तस्य व्यापकतावच्छेदक(ना)क्रान्तत्वात् । अत एव गवयत्वप्रवृत्तिनिमित्तप्रकार- कत्वमपि, सामान्यतोदृष्टस्यासंभवितस्य व्यापकतानवच्छेदकतया प्रकारत्वासम्भवात् , ईश्वरातुमानेऽ- प्येकमात्रकर्तृकत्वं प्रमाणान्तरगम्यमेव । यत्तु इतरन्न प्रवृत्तिनिमित्तं गुरुत्वादित्यनुमानेनेतराप्रवृत्तिनिमि- त्तकत्वावधारणमिति । तत्तूच्छम् । जात्यात्मकस्याप्यन्यस्य पक्षीकरणे हेतोरसिद्धेः । अपक्षीकरणे च तस्यैवोदासात् । न चैवमुपमानेनापि कथं गवयत्वस्य प्रवृत्तिनिमित्तपरिच्छेदः, अनुपस्थितानां तत्त्वेनोपस्थितानाञ्चातिप्रसङ्गौरवादिना निरासात् । न च स्वन्मते तथा घटेत, तदप्रवृत्तिनिमित्त- कस्य लिङ्गीभूतस्यानिश्चयात् । अस्तु वा इतराप्रवृत्तिनिमित्तकत्वपरिच्छेदो यथातथा, तथापि न व्यतिरेकिप्रवृत्तिः, गवयत्वप्रवृत्तिनिमित्तकत्वसाध्याप्रसिद्धेः । न च गवयत्वं किञ्चित्पदप्रवृत्ति- मकरन्दः । तत्र लिङ्गविशेषणजीविन्त्वानिश्चये अर्थापत्तिर्लब्धावकाशा स्यात् । तस्मात् त्यज चोपमानं मानान्तरं, स्वीकुरु वाऽर्थापत्ति संशयकरणिकामन्यामिति । वस्तुतस्तु संज्ञासंज्ञिपरिच्छेद उपमानार्थ इत्याकर एव स्फुटं, न तु प्रवृत्तिनिमित्तपर्य्यन्तपरिच्छेदोऽपि, तस्य शक्यत्वे शक्यवृत्तित्वे इत्यादिघटितस्य नियमत'उपस्थितौ मानाभावात् , तद्गृहस्य व्यवहारानङ्गत्वेनानुद्देश्यत्वाच्च, तथा च गवयत्वविशिष्ट- वाच्यत्वसिद्धिरवोद्देश्या । तदिदमुक्तम्—पिण्डवाचकत्वसिद्धावपि गवयत्वसिद्धावपि गवयत्वविशिष्ट- वाच्यत्वासिद्धेर्नोपमानपरिच्छेदस्य मानान्तरात् प्रतीतिरिति । एवञ्च शब्दाद्विशेष्यवाच्यत्वावगमेऽपि गवयत्ववाच्यत्वपरिच्छेदार्थमुपमानस्वीकार इति परमार्थः । तदिदमुक्तमाकरे 'सामान्यविशेषवाचक- त्वेऽस्य मानान्तरमनुसरणीयमिति' । तन्न ब्रूमः । एवं व्यवहारादेरपि शक्तिग्राहकस्य व्यक्तिग्राहकस्य व्यक्तिमात्रविषयत्वात् घटत्वादिवाच्यत्वग्रहार्थं मानान्तरमनुस्रियेत, यदि च लाघवादिसहकृतं व्यक्तिशक्तिग्राहकमेव तद्ग्राहकं, तदा प्रकृतेऽपि तुल्यम् । तदिदमुक्तं गङ्गेशेन—'शक्तिग्राहकमेव लाघवादिसहकृतं निमित्तमप्यवधारयति, यथा क्षित्यादौ कर्तृग्राहकं कर्तुरेकतामिति' । ननु प्रकृते विशिष्टशक्तिग्राहकं नास्ति शब्दस्य गवयत्वोपस्थितिकाले पर्य्यवसितत्वादिति चेत् । न । गवयत्व- विशिष्टोऽयं गवयपदवाच्यः गोसदृशत्वादित्यादेर्लाघवसहकृतस्य सत्त्वात् लिङ्गाभासादिनाप्यनुमित्य- विरोधाच्च । अन्यथा व्यवहारादिना घटत्वादिविशिष्टशक्तिग्रहोऽप्यशक्यः । यद्वा धर्मिवाच्यत्वे शब्दादेव सिद्धे गवयत्वं गवयपदवाच्यं गवयत्वादिति व्यतिरेकिणा लाघवसहकृतेन तद्वाच्यत्व- सिद्धिः । तस्मात् पिण्डादेः सपक्षाद्व्यावृत्तावसाधारण्यं, तस्य सत्प्रतिपक्षोत्थापकतया दोषत्वादस्य च तर्कसहकारेणाधिकबलत्वात् । अस्तु वा गवयपदप्रवृत्तिनिमित्तत्वमेव साध्यम्, तथा च सपक्षा- भावान्नासाधारण्यम् । न च साध्याप्रसिद्धिः, गवयपदं किञ्चित्प्रवृत्तिनिमित्तकमिति सामान्यतोदृष्टादेव सामान्यतस्तत्सिद्धेः । न च व्याप्त्याद्यप्रतिसन्धानदशायामपि तत्परिच्छेदान्नैवमिति वाच्यम्, माना- भावात् । अन्यथा मूलप्रकाशयोरनुमानदूषणप्रयासस्यासङ्गतत्वापातात् । तददुष्टत्वेऽपि तदनवतारे उपमानावतारसम्भवात् । तथा च यन्न यत्परिच्छेदस्तत्र क्लुप्तप्रमाणभावस्यैवावतारः कल्प्यते, लाघवात् , अतीन्द्रियादिलिङ्गे व्याप्यत्वपरामर्शवदुपपनयसहकृतेन मनसा विशिष्टवाच्यत्वपरिच्छेद- सम्भवाच्च । न चोपमिनोमीत्यनुव्यवसायबलाद्विजातीयप्रमासिद्धौ तत्करणसिद्धिरिति वाच्यम् । संज्ञासंज्ञिसम्बन्धबुद्धौ तादृशानुव्यवसायासिद्धेः । गव। गवयमुपमिनोमीत्यनुव्यवसायस्य सादृश्यबुद्धि- विषयत्वात् , अत एवान्यत्रापि मुखचन्द्रादिसादृश्यप्रतीतौ तथेति विद्वद्भिः परिचिन्तनीयमिति । नन्विदमुपमित्यावेवातिव्याप्तं लिङ्गोपहितलैङ्गिकभानवत् सादृश्यज्ञानोपनीतस्य तत्र भानसम्भवादित्य- रुचेराह वस्तुतस्त्विति ॥ १२ ॥