न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
३४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्वयाध्यायौ तथापि, अतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् । न वै कश्चि- दतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति, यस्याभावे प्रमाणमन्वेषणीयम् । केवलं सा- हचर्ये निबन्धनान्तरमात्रं शङ्क्यते ततः शङ्कैव फलतः स्वरूपतश्च निवर्त्तनीया । तत्र फलमस्या विपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्त्तते । ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्वं सुस्थम् । न चैतदनागमं, न्यायाङ्गतया तर्कं व्युत्पादय- बोधनी । निषेधेनैव निवर्तनीया, तत्रैन्द्रियकस्य योग्यानुपलम्भेन निषेधेऽप्यतीन्द्रियस्य कथं निषेध इत्याह तथापि-इति । न वै कश्चित्-इति । प्रसक्तं हि प्रतिषिध्यत इति । तर्हि भूयोदर्शनेनैव प्रतिबन्ध- सिद्धेस्तर्कः शङ्कावधिरित्यादिकमरण्यरुदितं स्यादित्यत्राह केवलम्-इति । न तावत् भूयोदर्शनमात्रा- त्प्रतिबन्धनिश्चयः, नापि सर्वत्रोपाध्याशङ्का, किन्तु निबन्धनान्तरकृतस्यापि साहचर्यस्य क्वचिद्दर्शनात् किमत्रापि निबन्धनान्तरमस्ति वा न वेति क्वचिच्छङ्का जायते, सा च हेतोर्विपक्षसंसर्गशङ्कां फलति, ततो न प्रतिबन्धनिश्चयः स्यात्, तेन हेतोः साध्यसंसर्गे निबन्धनान्तरशङ्का स्वरूपतः फलतश्च प्रतिबन्धनिश्चयार्थं निबन्धनीया । तत्र या फलभूता धूमवानपि पर्वतः किमनग्निः स्यादिति पक्ष एव विपक्षत्वेनं जिज्ञासा सा तर्केण साक्षान्निवर्तते । यदि तथा स्याद् धूमस्याकारणत्वेन कादा- चित्कत्वभङ्गप्रसङ्गः दुष्टत्वं वाग्नेरनियतत्वान्नियतस्य च हेत्वन्तरस्याभावादिति । ततो निवृत्तव्यभि- चारशङ्को निष्कलङ्को भूयोदर्शनेनावधृतप्रतिबन्धाल्लिङ्गाल्लिङ्गिनमनुमिनोति, तत उपाधिशङ्कास्वरूपमपि निवर्तते, न चोपाधिशङ्काऽप्यनुमानप्रवृत्तेः पूर्वमेव निवर्तनीया विपक्षजिज्ञासानिवृत्त्यैवानुमानप्रवृत्तेः पाश्चात्त्या तूपाधिशङ्कानिवृत्तिर्वस्तुगत्योक्ता, न त्वनुमानप्रवृत्त्युपयोगित्वेनेति । न च तर्कसनाथेन भूयोदर्शनेन निश्चितप्रतिबन्धं लिङ्गमनुमानाङ्गमित्ययमर्थः स्वमनीषिकामान्रकल्पित इत्याह न चैतत्-इति । प्रकाशः। द्वे योग्यानुपलब्धेरभावनिश्चयेऽप्ययोग्योपाधिव्यतिरेकस्य अनुमानाधीनज्ञानत्वेनानवस्थापातादित्याह तथापीति ॥ उपाधिनिश्चितः, शङ्कितो वा ? । आद्ये, न वै कश्चिदिति ॥ शङ्काऽपि भवि- ष्यति कश्चिदत्रोपाधिरित्यात्मिका, सकललोकयात्राविलोपकत्या नाद्रियत एवेति । साध्यव्यापकतया निश्चितमिदं साधनान्यापकं स्यादिति शङ्का स्यात्तत्राह । केवलमिति ॥ साधने साध्यसम्ब- न्धितावच्छेदकान्तरमित्यर्थः ॥ अथ व्याप्तिविशिष्टपक्षधर्मताज्ञानमनुमितिजनकम्, तत्र का व्याप्तिर्यत्र तर्कोपयोगः । न तावत् स्वाभाविकत्वम् । स्वभावजन्यत्वस्याव्याप्तेः, स्वभावाश्रितत्वस्य चातिव्याप्तेः। नापि विशिष्टवै- प्रकाशिका। विशिष्टेति । साधनविशिष्टे साध्यवैशिष्टयमित्यर्थः । व्यापकत्वं व्याप्तिघटितं स्वसमानाधिकरणात्यन्ता- मकरन्दः । ष्यतीत्यपि शङ्का स्यादिति सर्व्वासत्त्वप्रसङ्ग इत्यर्थः । सकलेति । शङ्कापिशाचीसत्त्वेनातिप्रसङ्गान् सा प्रतिबन्धिकेत्यर्थः । यद्यपि शयसहितजिज्ञासाया एव शङ्कानिवर्त्तकत्वेनोक्तत्वात् तथैव युक्तत्वाच्च ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति मूलमयुक्तं, तथापि मतान्तरेणोदमित्येके । 'अनुमानप्रवृत्ताविति न सतिसप्तमी किन्तु निमित्तसप्तमी, न च कर्म्मयोगाभावान्न तथेति वाच्यम् । शङ्कास्वरूपस्य कर्म्म कर्त्तृत्वादित्यन्ये । विशिष्टेति । साधनविशिष्टे साध्यवैशिष्टयमित्यर्थः । व्यापकत्वं व्याप्तिघटितं तत् टिप्पणी। सर्वमिन्द्रजालवन्मिथ्या भविष्यतीति शङ्कितासत्त्वं सर्वस्य तथेति भावः । स्वाभाविकत्वं स्वभावेन साध्यस्य जन्यत्वम् स्वभावतः साध्यसम्बन्धित्वं चेति विकल्प्यन् दूषयति स्वभावजन्यत्वस्या-
तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४१ प्रकाशः । शिष्टार्थं, रासभादिविशिष्टेऽपि वह्निवैशिष्ट्यात् । नापि निमित्तनैमित्तिकत्वं, रूपरसयोरभावात् । निमित्तत्वस्य नियमघटितत्वाच्च । नाऽपि कात्स्न्र्येन सम्बन्धः । एकव्यक्तिाव्याप्तेः । नानाव्य- क्तिकेऽपि धूमादौ सकलधूमसम्बन्धस्य प्रत्येकं वहावसम्भवात् । अत एव, न कृत्स्नेन साध्येन सम्बन्धः । नापि यावत्साधनाश्रयाश्रितसम्बन्धः । साधनाश्रये महानसादौ सकले प्रत्येकवहेराश्रित- त्वाभावात् । नाप्यविनाभावः । केवलान्वयिनि अव्याप्तेः । नापि साधनसमानाधिकरण्यावद्धर्म- समानाधिकरणसाध्यसामानाधिकरणयम् । यावद्धर्मसामानाधिकरण्यं हि यावद्धर्माधिकरणाधिकरण- त्वम् । तच्चाप्रसिद्धम् । साधनसमानाधिकरणसकलमहानसत्वाद्यधिकरणाप्रतीतेः । नाप्यव्यभिचारि- त्वम्। तद्धि न साध्यात्यन्ताभाववदवृत्तित्वं, साध्यवदन्योन्याभाववदवृत्तित्वं वा। केवलान्वयिन्यव्याप्तेः। नापि साध्यवैयधिकरण्यानधिकरणत्वं, साध्यसामानाधिकरण्याऽनधिकरणत्वं वा। तदुभयमपि साध्यानाधिकरणानधिकरणत्वम् । तच्च केवलान्वयिन्यसम्भवि । यत्किञ्चित्साध्यानाधिकरणाधिकरण्ये धूमादौ चासिद्धम् । नापि व्यापकसामानाधिकरण्यं, व्याप्तिनिरूप्यत्वात् । नापि स्वसमानाधिकर- णात्यन्ताभावाप्रतियोगिना सामानाधिकरण्यम् । पर्वतीयाग्नेर्महानसीयधूमसमानाधिकरणात्यन्ताभा- वप्रतियोगित्वात् । न च धूमवन्निष्ठात्यन्ताभावप्रतियोगि न वह्निसामान्यमिति वाच्यम् । न हि विशेषाभावादन्यः सामान्यावच्छिन्नप्रतियोगिकोऽभावः । विशेषाभावसमुहादेव तद्व्यवहारोपपत्तेस्तत्र मानाभावात् । अव्याप्यवृत्तिसंयोगादेर्द्रव्यत्वाद्यव्याप्यतापत्तेश्च । न च प्रतियोगिविरोधित्वमभाववि- शेषणम् । संयोगे साध्ये सत्त्वादेरनकान्तिकत्वाभावप्रसङ्गात् । न हि प्रतियोगिविरोधी संयोगादेर- स्त्यन्योऽभावः, अधिकरणभेदेनामावभेदाभावात् । एतेन प्रतियोगिसमानाधिकरणात्यन्ताभावेतर- त्वेनाऽपि विशेषणं परास्तम् । वह्नेर्धूमवनिष्ठात्यन्ताभावप्रतियोगित्वात् ॥ अथ साधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवत्कत्वम् । न च द्रव्यत्ववनिष्ठान्योन्याभावप्रति- योगि संयोगवत्, द्रव्यं न संयोगवदित्यप्रतीतेरिति चेत् । न । मूले वृक्षः कपिसंयोगवान्नेत्यबाधि- तानुभवादवच्छेदकभेदेन संयोगवदन्योन्याभावस्याप्यव्याप्यवृत्तित्वात् । न चैवं भेदाभेदापातः । ईदृश- स्यावच्छेदकभेदमादाय तदुपगमात् । वह्निमत्पर्वतस्य धूमवन्महानसनिष्ठान्योन्याभावप्रतियोगि- त्वाच्च । न च सामान्यावच्छिन्नप्रतियोगिकोऽन्योन्याभावः, प्रमाणाभावादित्युक्तम् । किञ्च, साधनव- न्निष्ठान्योन्याभावाप्रतियोगि साध्यवद् यस्येत्यत्र षष्ठ्यर्थो न व्याप्यव्यापकभावः । तस्यानिरूपणात् । नान्येाऽतिव्याप्तेः । साध्यञ्च यदि सिद्धिकर्म विवक्षितं, तदा पर्वतवह्निधूमयोरेव व्याप्तिः । व्यापक- श्चेत्तदाऽन्योन्याश्रयः । नापि साधनसमानाधिकरण्यावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसा- मानाधिकरण्यम् । साधनसमानाधिकरणस्य प्रमेयत्वादेर्वैयधिकरण्याऽप्रसिद्धेः । नाप्यनौपाधिकः सम्बन्धो व्याप्तिः । तथाहि । उपाधिः साधना व्यापकत्वे सति साध्यव्यापको वाच्यः । तत्र यद्यपि व्यापकत्वं न व्याप्तिनिरूपकत्वमात्माश्रयत्वाद्, किन्तु तदन्निष्ठात्यन्ताभावाप्रतियोगित्वम् । प्रतियो- गित्वमपि न विरोधित्वं सहानवस्थाननियमलक्षणम् । गोत्वाश्वत्वयोरतिव्याप्तेः । अन्योऽन्याभावप्र- तियोगिन्यव्याप्तेश्च किन्त्वभावविरहात्मत्वम् । तथापि यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मनिषेधो धूमादावसिद्धः। प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मश्च सिद्धयसिद्धिम्यां निषेद्धुमशक्यः। यावत्साध्य- प्रकाशिका । भावाप्रतियोगित्वं वा, आद्ये दोषमाह व्याप्तिनिरूप्यत्वादिति। अन्त्यमाशङ्कथ निराकरोति 'नापीति। मकरन्दः। समानाधिकरणात्यन्ताभावाप्रतियोगित्वं वा विवक्षितम् । आद्ये दोषमाह व्याप्तिनिरूप्यत्वादिति । अन्त्यमाशङ्कथ निराकरोति नापीति । टिप्पणी । व्याप्तेरिति । प्रत्येकम् वहावसम्भवात् इति । धूमे सकले प्रत्येकं वह्निनिरु-
२४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यानं प्रकाशः। व्यापके प्रमेयत्वादौ साधनान्यापकत्वं, यावत्साधनाव्यापके घटत्वादौ साध्यव्यापकत्वं निषिध्यते इति चेत् । न । व्यधिकरणत्वात् । यावत्साध्यव्यापकव्याप्यत्वमनौपाधिकत्वमिति चेत् । न । आत्माश्र- यात् । एतेन, यावत्साधनाव्यापकमव्यापकं यस्य, यावत्साध्यव्यापकं व्यापकं वा यस्य, तत्त्वमनौ- पाधिकत्वमित्यपास्तम् ॥ अथ यावत्साधनसमानाधिकरणात्यन्ताभावप्रतियोगिधर्मप्रतियोगिकात्यन्ताभावसमानाधिकरण- साध्यसामानाधिकरण्यमनौपाधिकत्वम् । न ह्येवं सोपाधिः, साधनसमानाधिकरणात्यन्ताभावप्रति- योगिन उपाधेरार्द्रेन्धनवत्त्वादेर्योऽत्यन्ताभावस्तेन समं साध्यस्य धूमादेः सामानाधिकरण्याभावात् । आर्द्वेन्धनविरहिणि धूमस्यावृत्तेरिति चेत् । न । सोपाधौ गतत्वात् । तथाहि । वह्निः साधनं, तत्स- मानाधिकरणो योऽत्यन्ताभावस्तप्तप्रायःपिण्डे तत्प्रतियोगि, चत्वरवत्त्यार्द्वेन्धनं, तत्प्रतियोगिको यो- ऽत्यन्ताभावो महानसे, तत्समानाधिकरणं साध्यो धूमस्तेन सामानाधिकरण्यं वहेः साधनस्य । तथा प्यार्द्वेन्धनसामान्याभाववति धूमो न वर्त्तते इति चेत् । न । सामान्यावच्छिन्नाभावस्यामानकत्वात् । नापि यावत्साधनव्यभिचारितव्यभिचारि यत् साध्यं तेन सामानाधिकरण्यं व्याप्तिः । अनेक- व्यक्तिकोपाधिमति प्रसङ्गतादवस्थ्यात् । अथ केवलान्वयिनि केवलान्वयिसाध्यसामानाधिकरण्यं व्याप्तिः, साध्यवदन्यावृत्तित्वं व्यतिरे- किणि । एतयोरनुमितिविशेषे प्रयोजकत्वम् । अनुमितिमात्रे पक्षधर्मतैव प्रयोजिका । न च तन्मा- त्रादनुमित्यापत्तिः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्या जनकत्वनियमादिति चेत् । न । धूमे साध्यवदन्यावृत्तित्वस्याभावात् । वह्निमत्पर्वतादन्यत्र महानसे धूमस्य वृत्तेः । सकलसाध्य- वदन्यवृत्तित्वं न धूमे इति चेत् । न वह्निमतां प्रत्येकं सकलसाध्यवदन्यत्वात् ॥ अथ सम्बन्धमात्रं व्याप्तिः । व्यभिचारिणोऽपि सम्बन्धस्य केनचित् सह व्याप्तित्वात् वह्नि- धूमादिन्यासिस्तु विशिष्ट्यैव वक्तव्येति चेत् । न । अनुमितिकारणलिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरु- पणप्रस्तावे सम्बन्धमात्राभिधानस्यार्थान्तरत्वात् । तज्ज्ञानादनुमित्यनुत्पत्तेः । नापि व्याप्तिपदप्रवृत्ति- निमित्तमिदं, सम्बन्धज्ञानेऽपि व्याप्तिपदाप्रयोगात् ॥ अत्रोच्यते । यत्सम्बन्धितावच्छेदकावच्छिन्नत्वं यस्य, तस्य सा व्याप्तिः । तथाहि ! धूमस्य वह्निसम्बन्धित्वे धूमत्वमवच्छेदकं, धूममात्रस्य वह्निसम्बन्धित्वात् । वह्नेस्तु धूमसम्बन्धित्वे न वह्नित्वमवच्छेदकं, धूमासम्बन्धिनि गतत्वात् । न ह्यतिप्रसक्तमवच्छेदकम् । संयोगादौ तथात्वादर्श- नात् । किन्तु वहावार्द्रेन्धनप्रभववह्नित्वं धूमसम्बन्धितावच्छेदकं, तादृशञ्च व्याप्यमेव । यद्वा, यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यद्यस्य रूपं, तदेव तस्य व्याप्यत्वम् । वह्निसमानाधिकरण्ये च धूमे धूमत्वेनावच्छिद्यते, सोपाधौ तूपाधिना । यद्वा प्रतियोगिवैयधिकरण्यावच्छिन्नस्वसमाना- धिकरणत्यन्ताभावप्रतियोगितानवच्छेदकावच्छिन्नेन सामानाधिकरण्यं व्याप्तिः । न च धूमवन्निष्ठा- त्यन्ताभावप्रतियोगिता वह्नित्वेनावच्छिद्यते, धूमवति वह्निर्नास्तीत्यप्रतीतेः । रासभत्वन्तु तथा, धूमवति रासभो नास्तीति प्रतीतेः सामान्यावच्छिन्नप्रतियोगिकाभावधान्यः, विशेषाभावप्रमायामपि सामान्ये संशयात् । न चैवं संयोगित्वव्याप्यत्वं सत्त्वस्य स्यात्, कर्मणि संयोगात्यन्ताभावस्य प्रति- योगिवैयधिकरण्यात् एतदेवानौपाधिकत्वमित्युच्यते इति संक्षेपः । प्रकाशिका । सम्बन्धज्ञानेऽपीति । इदमुपलक्षणम् । एवम् अर्थान्तरमित्यपि द्रष्टव्यम् । इतरदन्यत्र व्याख्यातम्। मकरन्दः । सम्बन्धज्ञानेऽपीत्युपलक्षणम् । एवमप्यर्थान्तरतादवस्थ्यादित्यपि द्रष्टव्यम् । व्याप्तिलक्षणान्यनु- मानप्रकाशे द्रष्टव्यानि ।
यस्तबके ] अनुमानप्रामाण्योपपादनम् । २५१ तः सूत्रकारस्याभिमतत्वात् । अन्यथा तद्व्युत्पादनवैयर्थ्यात् ॥ तदयं संक्षेपः । यत्रानुकूलतर्को नास्ति सोऽप्रयोजकः । स च द्विविधः, शङ्कि- तोपाधिर्निश्चितोपाधिश्च । यत्रेदमूच्यते— यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते । विपक्षस्य कुतस्तावद् हेतोर्गमकताबलम् ॥ बोधनी । “अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क” इति तर्कं लक्षयित्वा वादसूत्रे प्रमाण- तर्कसाधनोपालम्भ इति न्यायाङ्गत्वं तर्कस्य व्युत्पादयतः सूत्रकृतो न्यायोपकारकत्वस्याभिमतत्वात् , अन्यथा तर्कस्य न्यायाङ्गत्वे तद्व्युत्पादनमनर्थकं स्यात् प्रयोजनान्तराभावादिति विस्तरतः प्रतिपादितमर्थं शिष्यानुकम्पया संक्षिप्य वक्ष्याम इत्याह तदयम्-इति । यत्र हेतावुपाधिविधूननेन भूयोदर्शनसहायकमाचरन्ननुकूलतर्को नास्ति सोऽप्रयोजकः, उपाधिमानप्रयोजक इत्युक्तं भवति तत्र शङ्कितोपाधेरप्रयोजकत्वे मीमांसावार्तिकमुदाहरति यावच्च-इति । कोऽसावुपाधिर्नाम यद्वा- प्रकाशः । भूयोदर्शनाविलवे कोऽयमप्रयोजको नामेत्यत्रोत्तरमाह-तदयमिति । अनुकूलत्वञ्च तर्कस्य व्याप्तिग्राहकत्वं व्यभिचारशङ्कानिवर्त्तनद्वारेत्युक्तम् । सोऽयमप्रयोजकः शङ्कितोपाधिः, साधनाऽव्यापक- त्वेन साध्यव्यापकत्वेनोभयथा वा सन्दिग्धः । यथा, मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वम् । यथा तुल्ययोगक्षेमत्वेन उपाधेः साध्यव्यपकतया सन्देहे ईश्वरानुमाने शरीरजन्यत्वादि । यथा, मित्रा- तनयत्वे शाकपाकजत्वस्य साध्यव्यापकतासन्देह इति क्रमेणोदाहरणम् । न चोपाधिसन्देहो नोपा- धिर्न वा हेत्वाभासान्तरमिति तदुद्भावने निरनुयोज्यानुयोग इति वाच्यम् ! व्यभिचारशङ्काऽऽधाय- कत्वेन सन्दिग्धानैकान्तिकस्येव दूषकत्वात् । अत्रैव वृद्धसम्मतिमाह ॥ यत्रेति ॥ विपक्षस्याव्यति- रेकित्वं यावच्छङ्क्यते, तावन्न हेतुर्गमक इत्यर्थः । उपाधिसन्देहस्य च ज्ञायमानत्वेनानुमितिप्रति- बन्धकत्वाभावान्न हेत्वाभासान्तरत्वं, स्वरूपसति सन्देहे कारणाभावादेवानुमित्यनुत्पत्तेरिति भावः ॥ प्रकाशिको । शरीरजन्यत्वादिरिति । यद्यपि वस्तुगत्या न्यायमते नायमुपाधिरीश्वरानुमानभङ्गापत्तेः, तथापि विशेषदर्शनदशायामेव तत्सन्देहे, प्रतिबन्धक इत्युपन्यस्तः । वस्तुतो धूमवत्त्वे साध्ये आर्द्रे- न्धनप्रभववह्निमत्त्वमेव कार्यकारणभावाग्रहदशायामुदाहरणं द्रष्टव्यम् । सन्दिग्धेति दूषकत्वमात्रे दृष्टान्तोऽयम् । विपक्षस्येति विपक्षगामित्वं हेतोरित्यर्थः । ज्ञायमानत्वेनेति । इदमापातः । पर- मार्थतोऽनुमिति परामर्शान्यतरसाक्षाद्विरोधाभावादिति द्रष्टव्यम् । अन्यथोपाधेरेव हेत्वाभासतापत्तेरिति सो मकरन्दः । ·यथा तुल्येति । यद्यप्यस्योपाधित्वभावान्न सन्दिग्धोपाधित्वं, अन्यथेश्वरानुमानस्य सोपाधि- त्वापत्तेः, तथापि विशेषादर्शनदशायां कदाचित् तत्सन्देहोऽप्यनुमितिप्रतिबन्धक इति तदपि तथात्वे- नोदाहृतम् । वस्तुतः शाकपाकजत्वादिकमेव साध्यव्यापकत्वमात्रसन्देहदशायां तथेति बोध्यम् । सन्दिग्धेति । दूषकत्वमात्रे दृष्टान्तोऽयम् । विपक्षस्येति । विपक्षगामित्वमित्यर्थः । ज्ञायमानत्वेनेत्यापाततः, परमुखनिरीक्षकत्वेनेति बोध्यम् । अन्यथोपाधेस्तथात्वं स्यादेवेति । टिप्पणी । पितस्य सम्बन्धस्यासम्भवात् । क्षित्यङ्कुरादौ साध्यव्यापकताया सन्देह इति । क्षित्यङ्कुरादौ सन्देहे तथा च साध्यव्यापकत्वसाधनव्यापकत्वसन्देहः । शाकपाकजत्वस्य साध्यव्यापक- तया सन्देह इति । पक्षधर्ममित्रातनयत्वावच्छिन्नश्यामत्ववति मित्रातनये शाकपाकजत्वसन्देहात्
३५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्या तत्रोपाधिस्तु, साधनाव्यापकत्वे सति साध्यव्यापकः । तद्धर्मभूता हि व्याप्ति- र्जपाकुसुमरक्तेव स्फटिके साधनाभिमते चकास्तीत्युपाधिरसावुच्यते इति ॥ बोधनी। नप्रयोजक इत्यत्राह उपाधिस्तु- इति । एकस्मिन्साध्ये साधनत्वेनोपलभ्यमानयोः यः साधनाव्याप- कत्वे सति साध्यसमव्याप्तिकः स इतरस्य साध्यसम्बन्धे उपाधिः स्यात्, तत्र साध्यव्यापक इत्येवो- च्यमाने अनित्यत्वसाधने सावयवत्वे कृतकत्वमुपाधिः स्यात्, अथ साधनाव्यापक इत्येवाभिधीयते तदा कृतकत्वे सावयवत्वमुपाधिः स्यात्, न चैतद्युक्तमुभयस्यापि प्रयोजकत्वादिति । एवं लक्षण- मुपाधिशब्दप्रवृत्तिनिमित्तमाह तद्धर्म-इति । संसृज्यमाने तद्धर्मविरहिणि धर्मिणि स्वधर्मप्रतिभास- प्रकाशः। साधनाव्यापकश्च इति ॥ साधनत्वाभिमताव्यापकत्वे साध्यत्वाभिमतव्यापक इत्यर्थः । व्यापक- त्वञ्च तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वमिति न व्यापकादिज्ञानेऽन्योन्याश्रयः ॥ ननु साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तिः । न च तयोरनुपाधित्वं, दूषक- ताबीजसाम्यात् । बाधानुन्नीतेपक्षेतरेऽतिव्याप्तिश्च । अथ प्रयोजको धर्म उपाधिः । तत्त्वञ्च न न्यूनाधिकदेशवृत्तेः । तस्मिन् सत्यप्यभवतस्तेन विनाऽपि भवतश्च तदप्रयोज्यत्वात् । पक्षेतरत्वन्तु प्रकाशिका। पाधौ न वास्तवः साध्यसाधनभाव इत्यत्र उभयत्राभिमतपदं पूरयति । साध्यत्वाभिमतेत्यादि । नान्योन्याश्रय इति । उपाध्यभावज्ञानाधीनं व्याप्तिज्ञानमित्यन्योन्याश्रयो नोक्तक्रमेणेत्यर्थः । साध- नावच्छिन्नेति । आत्मा प्रत्यक्षः प्रत्यक्षस्पर्शश्रयत्वादित्यत्र साधनावच्छिन्नसाध्यव्यापकं रूपवत्त्वं, वायुः प्रत्यक्षः प्रमेयत्वादित्यत्र च बहिरिन्द्रियत्वावच्छिन्नसाध्यव्यापकं रूपवत्वमुपाधिरित्युभयोरसङ्कीर्णमुदाहरणं द्रष्टव्यम् । बाधानुन्नीतेति स्वन्मत इति शेषः । अन्यथा स्वमतेनाप्यव्याप्यभिधानमप्रेतनं विरुद्ध्येत । पक्षानन्तर्भावेनैव च साध्यव्यापकताज्ञानं दूषकमिति दूषकताबीजस्यैवातिव्याप्तिरित्युद्भाव्यति । साध्यप्रयो- जकत्वे सति साधनाव्यापकत्वमुपाधिलक्षणं। तच्च पक्षेतरत्वे नातिव्याप्तमित्याशङ्कते। अथ प्रयोजक इति। मकरन्दः। साधनत्वसाध्यत्वे-व्याप्यत्वव्यापकत्वे, न च सोपाधौ वस्तुतस्तथात्वमत आह अभिमतेति । ननु व्यापकत्वं व्याप्तिनिरूपकत्वम् । तथा च व्याप्तौ गृहीतायामुपाधिप्रत्ययस्तत्प्रत्यये च तदभावरूपा नौपाधिकत्वप्रत्ययाधीनव्याप्तिप्रत्यय इत्यन्योन्याश्रय इत्यत आह व्यापकत्वञ्चेति । प्रतियोग्यस- मानाधिकरणत्वमप्यत्यन्ताभावविशेषणम् । तेन संयोगस्य द्रव्यत्वव्यापकत्वम् । पक्षेतरस्योपाधित्वं मन्यमानोऽपि नैयायिकसिद्धान्तानुसारेण तल्लक्षणेऽतिव्याप्तिं ददाति बाधानुन्नीतेति । त्वन्मते इति शेषः । एतदपि पक्षान्तर्भावेण साध्यव्यापकत्वानिश्चयात् पक्षातिरिक्तसाध्यव्यापकत्वाभिप्रायेण बोध्यम् । एतच्चाग्रे स्फुटम् । ननु साध्यप्रयोजकत्वे सतीति लक्षणविशेषणं तच्च न पक्षेतरत्वे इति नातिव्याप्तिरित्याह अथेति । न तथा, न प्रयोजकत्वघटितलक्षणवदित्यर्थः । एतेनोक्तशङ्काया टिप्पणी। सन्देहः । तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वमिति न तु व्याप्तिनिरूपकत्वमिति शेषः । न व्यापकादिज्ञानेऽन्योन्याश्रय इति । व्याप्तौ गृहीतायामुपाधिप्रत्ययः, तस्मिन् सति तदधीनानौपाधिकत्वज्ञानाधीनव्याप्तिग्रह इत्यन्योन्याश्रयः ॥ तर्कश्च त्वया व्यभिचारशङ्कानांभाव- सम्पादनाय व्याप्तिग्राहकोऽभ्युपेयते व्यभिचारज्ञानञ्चोपाध्यधीनम्, उपाधिरेव च न निर्वक्तुं शक्य इति कृतस्तर्कोऽभ्युपेय इति खण्डनरसिकः स्वेष्टासाधकमपि चार्वाकः शङ्कते नन्विति । स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वं साधनावच्छिन्नसाध्यव्यापकम् वायुः प्रत्यक्षः प्रत्यक्षगुणत्वादित्यत्रोद्भूतरूपवत्त्वम् पक्षधर्मबहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकमुपाधिः ।
तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३५३ प्रकाशः । न तथेति चेत् । न । दूषकतौपयिकप्रयोजकत्वस्य साध्यव्यापकसाधनाव्यापकत्वस्य तत्राप्यनपायात् । साध्यव्याप्यत्वस्य चादूषणत्वात् । व्यर्थविशेषणत्वादत्तनुपाधिरिति चेत् । न । तद्धि न निष्प्रयोजनकत्वं, साधनाव्याप्तिपरिहारस्यैव प्रयोजनत्वात् । नापि व्यभिचारावारकत्वम् । पक्षे स्वसिद्धस्य व्यभिचार- प्रकाशिका । दूषकतेति । तथा च प्रयोजकत्वघटितमपि लक्षणन्तत्रातिव्याप्तमेवेति भावः । अदृषण- त्वादिति । इदमुपलक्षणम् । विपर्ययाप्तिप्रदृढायावव्याप्त्यापत्तेश्चेत्यपि द्रष्टव्यम् । व्यर्थविशे- षणरहितत्वं लक्षणविशेषणमतो नातिव्याप्तिरित्याशङ्कते । व्यर्थेति । अनुपाधिरिति । उपाधिलक्ष- णानाक्रान्त इत्यर्थः । साधनाव्याप्तीति । इतरत्वस्य केवलान्वयितया साधनाव्यापकत्वात् पर्वतेतर- त्वस्य च पर्वत एव साधनाव्यापकत्वादित्यर्थः । ननु साधने साध्यव्यभिचारावारकत्वेनैवात्र व्यर्थवि- षणता साधने साध्यव्यभिचारवारकस्यैवोपाधित्वात् आर्द्रन्धनस्यैव धूमव्यभिचारवारकस्य वह्नौ । न च पर्वतेतरत्वं तथा शुद्धस्यैव धूमस्य वह्नयव्यभिचारादत आह । नापीति । स्वसिद्धस्येति । पर्वतेतरत्वस्योपाधिवादिमते धूमो वह्निव्यभिचार्येव पक्ष इति पर्वतेतरत्वविशिष्टस्यैव धूमस्य वह्निव्या- प्यत्वमिति भवत्युपाधिस्तन्मते व्यभिचारवारक इत्यर्थः । तथा चोक्तातिव्याप्तिः सुदृढैवेति भावः । मकरन्दः । अतिव्याप्तिपोषकतयाऽसङ्गतिरित्यपास्तम् । दूषकतेति । तथा च प्रयोजकत्वगर्भस्यापि तस्य तत्र सत्त्वादतिव्याप्तिस्तदवस्थैवेति भावः । ननु व्यर्थविशेषणरहितत्वं तद्विशेषणमिति नातिव्याप्तिरित्याह व्यर्थेति । अनुपाधिः उपाधिलक्षणानाक्रान्त इत्यर्थः । साधनेति । इतरत्वस्य केवलान्वयितया साधनाव्यापकत्वमिति पर्वतादिपदं विशेषणम् । ततश्च पक्ष एव साधनाव्यापकत्वमित्यर्थः । तथा च पुनरतिव्याप्तिस्तदवस्थ्येवेति भावः । ननु साधने साध्यव्यभिचारावारकतयैव व्यर्थत्वं ब्रूमः, तत्र तद्वारकतस्यैवोपाधित्वात् । यथा वह्नौ धूमव्यभिचारवारकमाईन्धनवत्वमुपाधिः, पक्षेतरत्वञ्च न धूमे वह्निव्यभिचारवारकं, तत्र तस्यैवाप्रसिद्धेरित्यत आह नापीति । स्वसिद्धस्य = पक्षेत्तरोपाधिवा- दिसिद्धस्य । तन्मते धूममात्रस्य पर्वत एव वह्निव्यभिचारित्वात्तद्वारकं धूमे पर्वतेतरत्वं विशेषणम् । पर्वतेतरधूमवत्त्वस्य वह्नयव्यभिचारित्वात् । तथा च सर्वथा व्यर्थविशेषणरहितत्वस्य तत्र सत्त्वादु- क्तातिव्याप्तिः सुदृढैवेति भावः । यद्यपि वास्तवव्यभिचारवारकत्वविवक्षायां नातिव्याप्तिः, तथापि टिप्पणी । नापि व्यभिचारावारकत्वमिति । साधननिष्ठसाध्यव्यभिचारस्य वारकः साध्यविशेषणीभवन्नुपाधि- र्भवति, अतथाभूतस्तु नोपाधिरभ्युपेयः, यथा धूमवान् वह्नेरित्यत्र स्वतोव हिधूमव्यभिचारी आर्द्रन्धन- वत्त्वविशिष्टो भवत्यव्यभिचारीति सव्यभिचारकत्वादुपाधिः, वह्निमान् धूमादित्यत्र धूमस्य नास्ति स्वतो वह्निव्यभिचार इति न तद्वारकः पक्षेतरत्वादिर्र्धूमादिहेतुविशेषणीकृतोऽपीत्याशयः । स्वसि- द्धस्य व्यभिचारस्य वारणादिति । यस्य पुरुषस्यानुमितिसम्पादनाय साधनोऽग्रहस्तेनैवोपाधि- रुम्भाविनीय इति स स्वपदार्थः । तेन गृहीतस्य व्यभिचारस्य वारकत्वादित्यर्थः । पक्षेत्तरोपाधिवादि- सिद्धस्येति तात्पर्यार्थः, यं प्रति साध्यसाधनाय हेतूत्पन्यासः क्रियते स प्रतिवादी सन्नुपाधिमुद्भाव- यतोत्युपाध्युद्भावनकर्त्ता स्वपदार्थः, तथा च यः पक्षेतरत्वमुपाधिमुद्भावयति, हेतोः पक्षे सन्दिग्ध- साध्याभाववति वृत्तित्वस्य स्वसिद्धस्य वारणाय पक्षविशेषितस्य सेदस्योपाधितामाह इति पक्षविशेषणं व्यभिचारवारकमेव । पक्षेतरत्वोपाधिवादिनामयमाशयः, यथा साध्याभाववत्तया निश्चिते हेतुसन्देहः सन्दिग्धानैकान्तिकः तथा हेतुमत्तया निश्चिते साध्याभावसन्देहोऽपीति पक्षेतर एव हेतुव्यापकत्वं साध्ये निर्णयेस्तथा पक्षेतरस्मिन् पक्षेतरत्वस्यापि साध्यव्यापकत्वं निर्णोतुं शक्यमिति पक्षेतरत्वमुपाधि- र्भवति, पक्ष एव हेतोः साध्यव्यभिचारवारकश्च सिद्धान्तिमते हेतुमति साध्याभावसन्देहस्य सन्दिग्धा ४५ न्या० कु०
३५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां प्रकाशः । स्य वारणात् । तादृशस्याप्यस्मदादिपदादेरुपादानात् । नापि पर्वतेतरान्यत्वादेरित्यत्र व्यतिरेके इतर- न्यत्वस्याप्रसिद्धेरसिद्धिधारणार्थं पर्वतपदं विशेषणमित्येव व्यर्थत्वम् । इतरान्यत्वस्याप्रसिद्ध्या विशेषणं विना व्याप्तिमहात् । येन विशेषणेन विना व्याप्तिग्रहस्तस्यैव सार्थक्त्वात् । व्यभिचारवारकस्यापि सार्थक्त्वे तस्यैव तन्त्रत्वात् । अत एव गन्धादिषु मध्ये गन्धस्यैव व्यञ्जकत्वादित्यत्रासिद्धिवारक- विशेषणस्य सार्थक्त्वम् । अन्यथा बाधोन्नीतपक्षेतरत्वस्याप्यनुपाधित्वापत्तेः । पक्षे साध्यसन्देहे साध्य- व्यापकत्वानिश्चयान्न तदुपाधिः । यत्र तु पक्षे साध्याभावप्रमा, तत्र बाधोन्नीतत्वेनोपाधिरेवेति चेन्न । पक्षाऽतिरिक्ते साध्यव्यापकत्वप्रहादेवोपाधेर्दूपकत्वात् । अन्यथा, पक्षे साध्यसन्देहादुपाधिमात्रोच्छे- दापत्तेः । विपक्षाव्यावर्त्तकविशेषणशून्येति विशेषणान्न तदुपाधिः । बाधोन्नीतपक्षेतरत्वं चोपाधिः । तत्र पक्षाभिमतस्य विपक्षत्वादिति चेत् । न । वस्तुनो विपक्षाऽव्यावर्त्तकविशेषणशून्यत्वाभावात् । सर्वत्र प्रमे- यत्वादेः सत्त्वात् । तत्रोपात्तत्वेन विशेषणे च व्याघातः । न हि तत्रोपात्तं तेन शून्यं चेति सम्भवति॥ तथापि साध्यव्यापकत्वे सति साधनाव्यापकत्वस्य पक्षेतरत्वे सत्त्वात् तद्व्यावृत्त्या साध्यव्यावृत्तिरा- प्रकाशिका । यद्यपि वास्तवव्यभिचारविवक्षायां नातिव्याप्तिः । तथापि वायुः प्रत्यक्षः प्रमेयत्वादित्यादौ व्यभिचारा- वारकस्यापि रूपवत्त्वादेरुपाधितास्वीकाराद्व्याप्तिर्दुर्वच्या । तादृशस्यापीति । असिद्धव्यभिचारवा- रकस्यापीत्यर्थः । पक्षपक्षसाधारणसाध्यव्यापकत्वघटितमेव लक्षणं तच पक्षेतरे नास्तीत्याशयेन शङ्कते । पक्ष इति । दूषकताबीजं पक्षानन्तर्भावेनैव साध्यव्यापकताज्ञानम् , अन्यथा निश्चितोपाधि- मात्रोच्छेदापत्तेरित्याशयेन दूषयति । पक्षातिरिक्त इति । परमतनेन परस्यातिव्याप्तिं दत्वा मन्मते पक्षेतरत्वस्योपाधित्वमेव । तथा च तद्वारकविशेषणप्रक्षेपेऽव्याप्तिरित्याह । तथापीति । तद्व्यावृत्त्येति । मकरन्दः । एतादृशस्याप्युपाधित्वेन सर्वसिद्धत्वात्तत्राव्याप्तिर्बोध्या । तादृशस्यापीत । स्वसिद्धव्यभिचारवा- रकस्यापीत्यर्थः । पक्षापक्षसाधारणसाध्यव्यापकत्वमेव विवक्षितमिति नोक्तातिव्याप्तिरित्याह पक्षे इति । परमतेनैव परस्यातिव्याप्तिं दत्त्वा अनुमानद्वेषी चार्वाकस्तस्योपाधित्वमेवोपपादयति तथा- पीति । तद्व्यावृत्त्येति । अत्र पक्षातिरिक्तसाध्यव्यापकत्वमेवेति तद्व्यावृत्तावपि पक्षनिष्ठसाध्याव्यावृत्तेः टिप्पणी । नैकान्तिकत्वाभावात्, पक्षेतरत्वस्य न व्यभिचारवारकत्वमिति स्वसिद्धस्येत्युक्तम् । अस्मदादिप- दादेरुपादानादिति । त्वं घटज्ञानाभाववानात्मत्वादित्यनुमानं यं प्रत्युद्भाव्यते तेनास्मदितरत्वमत्रो- पाधिरित्युद्भाव्यते तत्रास्मत्पदं स्वस्मिन् साध्याभाववत्तया निश्चिते हेतोर्वृत्तित्वग्रहः, परेषामशक्यः स्वेनैव निर्णयस्तस्य च हेतुनिष्ठस्य व्यभिचारस्य स्वसिद्धस्य वारकः अस्मदिति पदार्थः, इतरत्वमा- त्रस्य सामानाधिकरण्येन हेतुविशेषणत्वेऽपि गृहीतव्यभिचारवारणस्याशक्यत्वादिति भावः । अन्यथा असिद्धिवारकत्वमात्रेण व्यर्थत्वे । पूर्वोक्तं बाधोन्नोतपक्षेतरत्वेऽतिव्याप्तिं वारयितुं शङ्कते पक्षे साध्यसन्देह इति । विपक्षाव्यावर्त्तकेति । इदञ्च समव्याप्तोपाध्यभिप्रायेण तत्रोपाधे- र्विपक्षगतत्वे साध्यव्याप्यत्वासम्भवः स्यात् । तत्रोपात्तत्वेन विशेषण इति । उपाधावु- पात्तत्वस्य विपक्षाव्यावर्त्तकविशेषणत्वे । पराभिमतेनैव पक्षेतरत्वस्यानुपाधित्वेन परस्यातिव्याप्तिं दत्त्वाऽनुमानद्वेषी चार्वाकस्तस्योपाधित्वमेवोपपादयति । तथापीति । साध्यव्यापकतावच्छेदकत्वे सति साधनाव्यापकतावच्छेदकं यद्विपक्षाव्यावर्त्तकविशेषणशून्यं तद्धर्म्मवत्त्वोक्तौ प्रमेयत्वमादाय न दोष इत्यत आह तथापीति । उपाधेर्दूपकताबीजस्य साध्यव्यापकत्वे सति साधनाव्यापकत्वस्य सत्त्वे उपाधित्वं स्वीकरणीयमेव भवता तद्व्यावर्त्तकत्वश्च विशेषणणोपादेयमित्यनौपाधिकत्वं कथं व्याप्तिः स्यादसम्भवादित्यभिप्रायः । तद्व्यावृत्त्या साध्यव्यावृत्तिरिति । अत्र पक्षातिरिक्तत्व-
तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३५५
प्रकाशः । वश्यक्रीति हेतोर्व्यभिचारात्तत्र चावश्यकमुपाधिसत्त्वादन्तरस्येषाधेरभावात् पक्षेतरत्वमेवोपाधिः स्यात् । किञ्च, व्यभिचारान्वारकत्वं न व्याप्तिविरोधि, नाऽपि तज्ज्ञानविरोधि । नीलधूमे तदुभयसत्त्वात् ॥ अयोपाधेः स्वव्यतिरेकेण सत्प्रतिपक्षतया दूषकत्वम् । तथाहि । नास्य व्यभिचारोन्नयकतया दूषकत्वम् । वह्निमत्त्वं धूमवत्त्वव्यभिचारि तद्व्यापकार्द्रेन्धनव्यभिचारित्वात्प्रमेयत्ववदित्यत्रार्द्रेन्धनवत्त्व- स्य धूमवत्त्वव्यापकत्वासिद्धेः । धूमवत्त्वव्यापकवह्निमत्त्वाव्यापकत्वात् । व्यापकत्वे वा साधनव्याप- कत्वेनानुपाधित्वापत्तेः । न च धूमव्याप्यत्वं वह्निमत्त्वस्यासिद्धम् । तद्धि न व्यभिचारात्, स्फुटे व्यभिचारे उपाध्युपन्यासस्यानर्हत्वात् । तस्य तदर्थत्वात् । नाप्युपाधिनिश्चयात् । उपाधित्वासिद्धेः ॥ अथ यथा सहचारदर्शनव्यभिचारादर्शनाभ्यां वह्निमत्त्वंव्याप्यंधूमवत्त्वञ्च व्यापकं, तथा आर्द्वेन्धन- वत्त्वमपि व्यापकं, धूमवत्त्वञ्च व्याप्यम् । तथा च व्यापकनिवृत्त्या व्याप्यनिवृत्तिवद् व्याप्यसत्त्वाद् व्यापक- सत्त्वमावश्यकमित्यविशेषानुभयमप्यसाधकमित्युच्यते । हन्त तर्हि सिद्धमुपाधेः सत्प्रतिपक्षतया दूषकत्वम् । नापि व्याप्यत्वासिद्धिरूपत्वेन । सा हि न तावद्व्याप्तिभङ्गनिश्चयात्, तस्योपाधित्वनिश्चयसाध्य- त्वात् । प्रकृते च तदनिश्चयात् । सहचारदर्शनव्यभिचारादर्शनाभ्यां तन्निश्चय इति चेत् । न । तयोर्हता- वपि सत्त्वात् । तत्रोत्पन्नमपिव्याप्तिज्ञानमुपाधिदर्शनाद् बाध्यते इति चेत् । न । उपाधावपि तद्ब्रह्मापत्तेः। तत्राप्युपाधिसद्भावात् । तथा ह्यर्द्वेन्धनवत्त्वस्य धूमवत्त्व उपाधित्वे तदभावो धूमवत्त्वाभावव्याप्तो वाच्यः । अन्यथा आर्द्वेन्धनस्यापि धूमवत्त्वव्यापकत्वानुपपत्तेः । न हि यदभावो यदभावव्यभिचारी तत्तस्य व्यापकम् । एवं व्यतिरेके निर्वह्नित्वमुपाधिः । इदं हि निर्धूमस्य व्यापकत्तयाऽभिमतस्य व्यापकं, निर्धूमस्य वह्निमतोऽदर्शनात् । दर्शने वा व्यभिचारस्य स्फुटतयोपाध्युपन्यासस्यानर्हत्वा दित्युक्तम् । आर्द्वेन्धनविरहस्य चाऽव्यापकं, आर्द्वेन्धनाभाववति पक्षे तदसत्त्वात् । नापि व्याप्य- निश्चयाद्व्याप्यत्वासिद्धिः । व्याप्यनिश्चये हि पक्षे वह्निमत्त्वस्यार्द्वेन्धनविरहस्य च दर्शनात् । एवञ्च, प्रकाशिका । यद्यपि पक्षातिरिक्ते साध्यव्यापकत्वग्रहे तादृशसाध्यव्यावृत्तावपि पक्षीयसाध्यव्यावृत्तेः कथं व्यभिचारः तथापि पक्षासाधारणेनापि साध्यव्यापकतायाः संशयोऽस्त्येवेति व्यभिचारसंशयोऽस्त्येवेति भावः । अनौपाधिकत्वस्यापि व्याप्तितया व्याप्तिविरहरूपत्वमुपाधेरसम्भावितमेवेति तदुन्नायकत्वेन व्याप्यत्वा- सिद्धित्वं वक्तव्यं तथा सत्याह तर्हीति । निर्धूमस्येति । तथा चापातत उक्तोपाधिनोक्तोपाधौ मकरन्दः । कथं व्यभिचार इति चिन्त्यम् । अनौपाधिकरवस्य व्याप्तिरत्वानभ्युपगमान्न व्याप्यत्वासिद्धिरूपत्वमिति तदुन्नायकत्वेन तथात्वं वाच्यम्, एवं सत्याह सा हीति । निर्धूमस्येति । तथा चापातत उक्तो- टिप्पणी । विशिष्टसाध्यव्यापकत्वमेवेति तद्व्यावृत्तावपि पक्षनिष्ठसाध्याव्यावृत्तेः कथं व्यभिचार इति चिन्त्यम् । किञ्च व्यभिचारावारकत्वमिति । व्यभिचारावारकत्वं पक्षेतरत्वविशेषणो स्वीकृत्य नापि व्यभिचारा- वारकत्वमित्यत्र समाधानान्तरमाह किञ्चेति । भवतु पक्षेतरत्वे विशेषणस्य व्यभिचारवारकत्वं किं तेन उपाध्यभावेन साध्याभावसाधने उपाधिव्यभिचारेण साध्यव्यभिचारसाधने वा या व्याप्तिस्तज्ज्ञानं वा तदुभयविरोधित्वेन व्यभिचारवारकत्वस्येष्टान्याघातकत्वादित्यर्थः । सत्प्रतिपक्षतया दूषकत्वं सत्प्रतिपक्षतयेति सावधारणम्, तन्नेतरव्यवच्छेदमुपपादयति तथाहोत्यादि । आर्द्वेन्धनविर- हस्य च दर्शनादिति । आर्द्वेन्धनस्य धूमव्यापकत्वनिश्चये तदभावस्य व्यापकाभावत्वेनावधारणे धूमाभावनिश्चये व्यभिचारनिश्चयादनिश्चयो यदि स्यात् स्यादप्यसिद्धिस च नास्त्येव अपि तु धूमव्या- पकत्वेन सन्दिग्धस्य वह्निमत्त्वस्य धूमव्यापकत्वेन सन्दिग्धार्द्वेन्धनवत्त्वाभावस्य च दर्शने चेत्यर्थः व्याप्यनिश्चयो हीति । इयञ्च सत्प्रतिपक्षतैवेत्यन्वयः, इयं व्याप्यनिश्चयेन व्याप्यत्वासिद्धिः,सत्प्रं-
३५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां प्रकाशः । धूमवत्त्वनिर्धूमवत्त्वाप्रसक्तौ वस्तुनो विरुद्धद्वैरूप्याभावादेकत्र व्याप्तिभङ्गो वाच्यः । स च विनिगमका- भावादेकत्र निश्चेतुं न शक्यते इति वाच्यम् । इयं च सत्प्रतिपक्षतैव । तस्मादुपाधेः सत्प्रतिपक्षभावेन- दूषकत्वस्थितौ पक्षेतरत्वस्य नोपाधित्वम् । तद्व्यतिरेकस्य साधारणतया साध्याभावासाधकत्वादिति ॥ मैवम् । तथा सति प्रतिपक्षानुमाने सत्प्रतिपक्षान्तरस्योपाधेरनुद्भावनापत्तेः । न च, सत्प्रति- पक्षान्तरमपि तत्रोद्भाव्यम् । उत्तम्भकाऽप्रतिबद्धस्य मन्त्रस्येवाप्रतिबद्धस्यैव प्रतिबन्धकत्वादिति वा- च्यम् । सर्वत्र स्थापनाया अपि प्रतिबद्धत्वेनाप्रतिबन्धकत्वप्रसङ्गात् । न च प्रतिपक्षबाहुल्येनाधिक- बलत्वार्थमुद्भावनम् । बलं ह्यत्रानुमित्यौपयिकं व्याप्तिपक्षधर्मताऽऽत्मकं विवक्षितम् । तच्च तुल्य- मेव । न तु भूयस्त्वमपि तथा । एकस्मादनुमित्यनुदयापत्तेः । तदाहुराचार्याः- "बहवश्चेत्यन्वाचये चकारः" इति । सन्दिग्धोपाधेरदूषकत्वापाताच्च । तद्व्यतिरेकस्य पक्षे सन्दिग्धत्वात् । केवलव्य- तिरेकिणा च सत्प्रतिपक्षसम्भवाच्च । न चासाधारण्यम् । तस्यापि सत्प्रतिपक्षोत्थापकतया दूषक- त्वात् । किञ्चैवं, बाधोन्नीतं पक्षेतरत्वमपि नोपाधिः स्यात् । व्यतिरेकेऽसाधारणत्वात् केवलान्वयि- प्रकाशिका । व्याप्तिज्ञानबाधा स्यादेवेति भावः । उपसंहरन्नेव प्रकृते योजयति । तस्मादिति । तथा च दूषकता- वीजाभावान्न तस्योपाधित्वमिति न तत्राव्याप्तिर्दोष इति भावः । नन्वनयोरन्यतरद् बाध्यमिति. सामान्यतो दृष्टे विनिगमकतर्कप्रवृत्त्यर्थं सत्प्रतिपक्ष उपाध्युद्भावनं युक्तमेवेत्यरुचेराह । सन्दिग्धेति । ननु निश्चितोपाधावुक्तं दूषकताबीजं सन्दिग्धोपाधौ त्वन्यदेव तदित्यरुचेराह । केवलव्यतिरे- किणेति । ननु नेदमपि युक्तमसाधारणस्य व्याप्तिमहप्रतिबन्धकतया दोषत्वादित्यरुचेराह । किञ्चैवमिति । बाधोन्नीते साध्याभावसाधने पक्षस्यैव सपक्षत्वादयुक्तमेतदपीत्यरुचेराह केवलान्वयिनीति । केवलान्वयिसाध्यके साध्याभावाप्रसिद्ध्या व्यतिरेके सपक्षाभावान्नसाधारण्य मकरन्दः । पाधिना प्रकृतोपाधौ व्याप्तिज्ञानबाधो स्यादेवेति भावः । उपसंहरन्नेव प्रकृते योजयति तस्मादिति । ननु सन्दिग्धोपाधेर्व्यभिचारसंशयाधायकतया पृथगेव दोषत्वमभ्युपगम्यते न तु सत्प्रतिपक्षतयेत्य- रुचेर्दोषान्तरमाह केवलैवेति । व्यतिरेकव्याप्तिपुरस्कारेण तेनापि सत्प्रतिपक्षसम्भवादित्यर्थः । तस्यापीति । असाधारणस्यापीत्यर्थः । तथा च सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवत्तत्रासाधारणेऽपि न दोष इति भावः । ननु बाधेन व्यतिरेके पक्षस्यैव सपक्षत्वेन तद्व्यावृत्तत्वाभावान्नासाधारण्यमित्यरुचेराह केवलान्वयिनीति । केवलान्वयिधर्मसाध्यकानुमाने इत्यर्थः । तत्र व्यतिरेके साध्याप्रसिद्ध्या टिप्पणी । तिपक्षतामुपपादयति व्याप्य्येति । सत्प्रतिपक्षान्तरस्यैवोपाधेरनुद्भावनापत्तेरिति यत्र सत्प्रतिपक्ष उद्भाव्यते, तत्रोपाध्युद्भावनमपि क्रियते तन्न स्यादुपाधेरपि सत्प्रतिपक्षपर्यवसायित्वेन एकदोषस्य द्विधोद्भावनस्य वैयर्थ्यादिति भावः। न च सत्प्रतिपक्षान्तरमपि तत्रोद्भाव्यमिति सत्प्रतिपक्षान्तरानु- द्भावने स्थापनानुमानेन प्रतिबन्धस्य प्रत्यनुमानप्रतिबन्धकत्वं न स्यादिति सत्प्रतिपक्षान्तरोद्भावने तेनोत्तम्भकेन मन्त्रैरिव स्थापनानुमानस्य प्रतिबन्धशक्त्यपाकरणे भवत्यप्रतिबन्धम्प्रकृतसत्प्रतिपक्ष प्रतिबन्धकमित्याशयः । सर्वत्र स्थापनाया अपि प्रतिबद्धत्वेनेति । प्रकृतसत्प्रतिपक्षेण प्रति- बन्धकेन स्थापनाया अपि प्रतिबद्धत्वात् स्थापनायाः प्रतिबन्धकत्वसिद्धये उत्तेजकविधया स्थापना- न्तरोद्भावनमपि स्यात् । अन्यथा स्थापनाया अप्रतिरोधकत्वे प्रतिपक्षाभावे सत्प्रतिपक्षतैव न स्या दिति भावः । केवलव्यतिरेकिणा सत्प्रतिपक्षसम्भवाच्चेति । सत्प्रतिपक्षविधया पक्षेतर त्वस्याप्युपाधित्वसम्भवात् साध्याभावेन तदभावस्य व्यतिरेकव्याप्तेः सम्भवात् । केवलान्वयि- न्यसाधारणत्वाभावादिति । सपक्षविपक्षव्यावृत्तत्वमसाधारण्यं केवलान्वयिनि व्यतिरेकानुमाने
तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३५७ प्रकाशः। न्यसाधारणत्वाभावात् पक्षेतरत्वस्योपाधितापत्तिश्च । अपि चैवमन्धकारो द्रव्यं स्वातन्त्र्येण प्रतीय- मानत्वात् त्र्यणुकवदित्यत्राश्रावणत्वमुपाधिर्न स्यात् । तद्व्यतिरेकस्य पक्षावृत्तित्वात् । न च नाय- मुपाधिः, तल्लक्षणसत्त्वात् । पर्वतावयववृत्त्यन्यत्वादिकञ्चैवमप्युपाधिः स्यादेव । तद्व्यतिरेकस्यासा- धारणत्वाभावात् । यत्तु, पक्षेतरत्वस्य ग्राहकसाम्यात् साध्यव्यापकत्ववत् साध्याभावव्यापकत्वात्तन्नि- वृत्त्या साध्यसाध्याभावाभ्यां निवर्त्तितव्यं । न चैवमिति तस्य साध्यव्यापकत्वे सन्देह इति । तन्न । तथापि साध्यव्यापकतापक्षमाश्रित्योपाधित्वापत्तेः ॥ अथ साध्यसमव्याप्तत्वे सति साधनाव्यापक उपाधिरिति पक्षेतरत्वं नोपाधिः । युक्तञ्चैतत् । यद्धर्मोऽन्यत्र भासते तस्यैव जपापुष्पस्येवोपाधित्वात् । उपाधिवृत्ति हि साध्यव्याप्यत्वं साधनाभि- मते भासते इति तस्यैवोपाधिरङ्गप्रवृत्तिः । साध्यव्याप्यत्वमात्रञ्च न दूषकमिति तस्य साध्यव्यापक- त्वमङ्गीष्यते । मैवम् । दूषकताबीजस्य विषमव्याप्तेऽपि सत्त्वात् । दूषकतायां साध्यव्याप्यत्वस्य व्यर्थत्वात् । दूषणान्तरसंकीर्णस्य चानुपाधित्वे समव्याप्तस्यापि तत्त्वापत्तेः ॥ अथ्योपाधिः स उच्यते, यदभावो व्यभिचारविरोधी । न च विषमव्याप्तस्याभावो व्यभिचारं विरुणद्धि । यत्र हि व्यभिचारस्तत्र समव्याप्तमन्ततः साध्यमप्युपाधिर्भवेदेव, स्वस्य स्वव्यापकत्वे प्रकाशिका । भावादित्यर्थः । यद्यपि साध्याप्रसिद्धथैव तत्र सत्प्रतिपक्षाभावः, तथापि साध्याप्रसिद्धावपि अप्र- सिद्धसाध्यकव्यतिरेकिणीव व्यतिरेकव्याप्तिपक्षधर्मतापरामर्शात्स्त्यान्वयव्याप्तिपक्षधर्मतापरामर्षं प्रति- बन्धकतया सत्प्रतिपक्षत्वमुपपद्यत एवेति भावः । यद्यपि विरोधिपरामर्शसत्त्वेन प्रतिबन्धकत्वं प्रकृते च विरोधिनिरूपकाप्रसिद्धिः, तथापि विरोधप्रतिसन्धानमात्रमेव प्रयोजकं तच्च प्रमेयत्वमत्यन्ताभाव- प्रतियोगी न वेति भ्रमसंभवादस्त्येव प्रकृत इत्याशयेनेदं बोध्यम् । आकाशात्यन्ताभावादिकेवलान्वयि- परमेतत् तत्र तस्य प्रसिद्धत्वात् । तत्वत्त्वाप्रसिद्धत्वादित्यन्ये । वस्तुत इत्येवास्वरसादाह । अपि- चेति । तथापीति । व्यभिचारसंशयाधायकत्वादिति भावः । समव्याप्त एवोपाधिः, तथा च न विषमव्याप्तावाव्याप्तिर्दोष इत्युपपादयन्नाह यदभाव इति। यदिदं साधनव्यापकत्वमापादितं हेतौ साध्य- व्यभिचाराभावापादकमित्यर्थः । अभावः = साधनाव्यापकत्वाभावः । साधनव्यापकमिति यावत् । मकरन्दः । सपक्षाभावान्नासाधारण्यमिति भावः । यद्यप्येवमसाधारण्याभावेऽपि साध्याप्रसिद्धथैव व्यतिरेके सत्प्रतिपक्षत्वाभावान्न तस्योपाधित्वं स्यात्, तथाप्यसाधारण्यनिरासमात्रामिप्रायकोऽयं ग्रन्थ इत्याहुः । वस्तुतः, साध्याप्रसिद्धावप्यप्रसिद्धसाध्यकव्यतिरेकिणीव व्यतिरेकव्याप्तिपक्षधर्मतापरामर्शसम्भवातस्य प्रकृतहेतुपक्षधर्मताव्याप्तिपरामर्शसंवलनदशायां सत्प्रतिपक्षत्वमित्यभिप्रायकोऽयं ग्रन्थः । यद्यपि विरोधिपरामर्शत्वेन तथात्वं प्रकृते च विरोधिनिरूपकाप्रसिद्धिः, तथापि विरोधप्रतिसन्धानमेव तत्प्र- योजकम् । तच्च प्रमेयत्वमत्यन्ताभावप्रतियोगीति भ्रमसम्भवात् सम्भवत्येवेति मतविशेषेण तयोक्त- मिति । यद्वा, आकाशात्यन्ताभावादिकेवलान्वयिपरमेतत् । तत्र तद्वतोऽप्रसिद्धया सपक्षाभावादिति। केचित्तु पूर्वास्वरसादाह अपि चेति । तथापीति । साध्यव्यापकताकोटिमाश्चित्य सन्दिग्धोपाधि- तापत्तेरित्यर्थः । समव्याप्त एवोपाधिरित्युपपादयन्नेवाह अथेति । यदीयं प्रसञ्जितं साधनाव्यापकत्वं हेतुसाध्य- टिप्पणी । सपक्षाप्रसिद्धेः । न च तत्र साध्यव्यतिरेकस्यैवाप्रसिद्धया सत्प्रतिपक्षविधया कथं पक्षेतरत्वस्य दूषकत्व- मिति वाच्यम् । भ्रमात्मकस्यैव व्याप्तिज्ञानादेः सर्वस्य सम्भवादिति भावः । न चैवमिति । सत्प्र- तिपक्षविधयैव दूषकत्वे ॥ यदभावो व्यभिचारविरोधीति । उपाध्यभावो हि उपाधिव्याप्यत्वम् ,
३५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [७ कारिकाव्याख्यायां प्रकाशः। सति व्याप्यत्वात्। साधनाव्यापकत्वाच्च। विषमव्याप्तिके तु साध्यव्यापको यो धर्मस्तद्व्याप्यत्वमात्रेण तद्व्याप्यत्वम्। दृष्टं ह्यनित्यत्वस्य व्यापकं प्रमेयत्वं तद्व्याप्यञ्च गुणत्वम्। न च गुणत्वानित्यत्वयो मिथो व्याप्तिः। समव्याप्तिके च तद्व्यापकव्याप्तेन व्याप्तञ्च तद्व्यभिचारि चेति व्याहतम्। मैवम्। तथापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वमात्रं प्रयोजकं, लाघवात्, न तु साध्यव्या- पकव्याप्यत्वमपि व्यभिचारस्थलस्य स्वयैवोक्तत्वात्। न च साध्यव्याप्यव्याप्यत्वमेवानौपाधिकत्वं, साध्य- व्याप्यमित्यत्रापि ह्यनौपाधिकत्वं तदेव वाच्यं, तथाचानवस्थेति। व्यभिचारव्यावर्त्तनार्थमनौपाधि- त्वलक्षणे यावदिति पदं साध्यव्यापकत्वे विशेषणं प्रक्षिप्तमेव। यदि च यद्व्यतिरेकेऽनुमितिर्भवेत्येव तद् दूषणं, तदा विरुद्धत्वादेरप्यदूषणत्वमिति यस्मिन् सत्यनुमितिर्न भवति तदेव दूषणमिति विषम- व्याप्तोऽप्युपाधिः॥ अथ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः। तेन मित्रातनयत्वेन श्या- मत्वे ध्वंसस्य च जन्यत्वेन ध्वंसप्रतियोगित्वे साध्ये साधनावच्छिन्नसाध्यव्यापकं शाकपाकजत्वं भावत्वं चोपाधिः। काकादौ प्राग्भावे च केवलसाध्याव्यापकत्वादिति। तन्न। सोपाधित्वात्साधकमित्यत्र साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वादित्यर्थे साधनावच्छिन्नस्य वैयर्थ्यापत्तेः। जलं प्रमेयं रसवत्त्वादित्यत्र रसवत्त्वावच्छिन्नप्रमेयत्वव्यापकस्य पृथिवीत्वस्योपाधित्वप्रसङ्गात्। पक्षधर्मावच्छिन्नसा- ध्यव्यापकोपाध्यव्याप्तेश्च। किञ्च, विशिष्टसाध्यव्यभिचारं प्रसाध्य केवलसाध्यव्यभिचारः साध्यः तत्र वाऽर्थान्तरम्। केवल साध्ये हि विप्रतिपत्तिर्न तु विशिष्टे। प्रकृतसाध्यव्यभिचारसिद्धयर्थं विशि- ष्टव्यभिचारः साध्यत इति चेन्न। अप्राप्तकालत्वात्। प्रथमं साध्यव्यभिचार एवोद्भाव्यस्तत्रासिद्धौ प्रकाशिका। तथापीति। तथा च साध्यव्यापकोऽप्युपाधिः स्यादिति भावः। तत् किं साध्यव्यापकव्याप्यत्वमे- वानौपाधिकत्वं तथासत्यनित्यत्वव्यापकप्रमेयत्वव्याप्यगुणत्वस्यानित्यत्वव्याप्यतापत्तिरित्यत आह व्यभिचारीति। साध्यव्यापकत्वे तद्धर्मलक्ष्ये साध्यव्यापकात्यन्ताभावस्येति शेषः। यदि- चेति। यद्यपि समव्याप्तिकोपाधिव्यतिरेकिणापि नानुमितिनियमः, स्वरूपासिद्धे व्यभिचारत्तथापि पक्षवृत्तित्वे बाधप्रतिरोधाभावे च यद्व्यतिरेके सति लिङ्गस्य समीचीनत्वनियमः, तद् दूषणमित्यर्थः। विरुद्धत्वादेरिति। आदिपदाद् व्यभिचारित्वपरिग्रहः, तयोरन्यतरव्यतिरेके केवलान्वयिन्यतर- सत्त्वेन लिङ्गस्यासमीचीनत्वादित्यर्थः। साधनावच्छिन्नसाध्यव्यापकोपाधावव्याप्तिरिति यदुक्तं तत् परिहारमात्राभिप्रायेण शङ्कते। साधनेति। आर्द्वेन्धनवत्त्वादोविति। यद्यपि तन्न प्रमेयत्वमेव तथा। मकरन्दः। योव्यभिचाराभावापादकमित्यर्थः। अभावः साधनव्यापकत्वम्। तत् किं साध्यव्यापकव्याप्यत्वमेवा- नौपाधिकत्वं, तथा चोक्तगुणत्वायतिप्रसङ्ग इत्यत आह व्यभिचारीति। यदि चेति। ननु समव्याप्तव्यतिरेके व्यभिचाराभावनियमेऽप्यनुमितिनियमो नास्ति, हृदोऽग्निमान् धूमादित्यादौ तादृशोपाधेरभावेऽपि स्वरूपासिद्ध्या अनुमित्यभावादिति चेत्। न। पक्षवृत्तित्वे बाधप्रतिरोधाभावे च सति यद्व्यतिरेके लिङ्गस्य समीचीनत्वनियमस्तद् दूषणमित्यर्थात्। विरुद्धत्वादेरिति। आदि- टिप्पणी। उपाधेः साधनाव्यापकत्वगर्भत्वेन व्याप्यत्वे साधनस्य सति तदसम्भवात्। व्यभिचारस्थलस्य- स्वयैवोक्तत्वादिति। तथा चोपाध्यभावे व्यभिचारानुमाने व्यर्थविशेषणत्वं तवेति भावः। अनौ- पाधिकत्वलक्षणे यावदिति यावत्साधनाव्यापकव्याप्यत्वमित्यनौपाधिकत्वलक्षणे तथा चानुपाधित्वे- नाभ्यभिचारानुमानस्य न ममापि हानिरिति भावः। पक्षेतरत्वे दोषस्तस्त्येवाव्याप्तिमात्रवारणायाह अथ साधनावच्छिन्नसाध्येति। पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधीति। वायुः
तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३५६ प्रकाशः । पक्षात्तन्निर्वाहार्थमुपाधिर्वाच्य इति चेत् । न । एवं सति प्रकृतानुमाने उपाधेर्दूषणत्वापत्तेः । अत एव पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिरित्यपास्तम् । आर्द्रन्धनवत्त्वादौ नियततादृशधर्माभावेनाव्याप्तेश्च । शब्दोऽभिधेयः प्रमेयत्वादित्यत्र शब्दधर्म्मगुणत्वावच्छिन्नाभिधे- यत्वव्यापकस्याश्रावणत्वस्योपाधित्वापाताच्च । नापि पक्षावृत्तित्वे साध्यव्यापकत्वमुपाधित्वम् । शब्दो- ऽनित्यः गुणत्वादित्यत्र कृतकत्वस्य शब्दवृत्तेरुपाधित्वापातात् । न च स्फुटे व्यभिचारे निष्फल- मुपाध्यनुसरणमिति वाच्यम् । व्यभिचारेऽवश्यमुपाधिसत्त्वात् । अन्यथैकत्र साधने साध्यतदभावस- म्बन्धस्यावच्छेदभेदं विनाऽनुपपत्तेः ॥ अथ पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । पर्यवसितं च साध्यं पक्षधर्मता- वल्लभ्यम् । यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् प्रमेयत्वादित्यत्र यथोक्तसाध्या- व्यापकत्वेऽपि पक्षधर्मताबल्लभ्यस्यानित्यत्वस्य साध्यस्य व्यापकं कृतकत्वमुपाधिः, कृतकत्वे चैवं साध्यमानेऽनित्यत्वमुपाधिः । तन्न । पक्षधर्मताबल्लभ्यसाध्यसिद्धौ हि निष्फल उपाधिः, तदसिद्धौ च कस्य व्यापकः ? । न हि सोपाधौ पक्षधर्मताबलात् साध्यं सिद्ध्यति, यद्व्यापक प्रकाशिका । तथापि विशेषणस्य साध्येऽवच्छेदकत्वमाश्रित्येदं दूषणमुक्तम् । वस्तुत आत्मा प्रत्यक्षः प्रत्यक्षस्पर्शा- श्रयत्वादित्यत्र साधनावच्छिन्नसाध्यव्यापकरूपवत्त्वोपाधावव्याप्तिरिति दूषणं द्रष्टव्यम् । नन्वस्योपाधे- र्व्यभिचारोन्नायकत्वमसम्भवि यथाश्रुतसाध्यस्य केवलान्वयित्वात् पर्यवसितसाध्यव्यभिचारस्य प्रकृ- तानुमानादूषणत्वात् तथा च सत्प्रतिपक्षोन्नायकतया दूषणत्वं वाच्यम् तच्चासम्भावि, कृतकत्वस्या- प्युक्तरीत्या शब्दे सिद्धौ तद्व्यतिरेकस्य हेतौ स्वरूपासिद्धेरत आह । कृतकत्वे चेति । तथा चोपाधिदातृम्मते शब्दे कृतकत्वमसिद्धमेवेति तद्व्यतिरेकेण सत्प्रतिपक्षत्वमविकलमेवेति भावः । मकरन्दः । पदाद्व्यभिचारादिपरिग्रहः । अन्यतरव्यतिरेकेऽप्यन्यतरसत्वे लिङ्गस्यासमीचीनत्वादित्यर्थः । ननु साधनावच्छिन्नसाध्यस्य पक्षेऽपि सत्त्वात्तद्व्यापकत्या नातिप्रसङ्ग इत्यनुशयादाह पक्षधम्र्मेति । वायुः प्रत्यक्षः प्रमेयत्वादित्यादामुद्भूतरूपवत्त्वाद्युपाधावव्यापनादित्यर्थः । आर्द्रन्धनवत्त्वाद्विति । यद्यपि द्रव्यत्वादिकमवच्छेदकं सम्भवत्येव तथाप्यवच्छेदकस्य साध्ये व्याप्यतावच्छेदकत्वमभिप्रेत्यै- तदुक्तम् । तदिदमाह नियतेति । नियतावच्छेदकेत्यर्थः । धूमत्वस्यैवाईन्धनव्याप्यतावच्छेदकत्वा- दिति भावः । वस्तुतः प्रागभावो विनाशी जन्यत्वादित्वादौ भावत्वाद्युपाध्यव्याप्तिर्बोध्या । शब्दोऽ- भिधेय इति । एतच्च पक्षातिरिक्तसाध्यव्यापकत्वमादाय बोध्यम् । व्यभिचार इति । अस्फुट- त्वदशायां तदनुसरणसम्भवाच्चेत्यपि द्रष्टव्यम् । यथेति । यद्यप्यत्र व्यभिचाराभावान्नदथाप्तोपाधे- रनुत्पत्तिः, तथापि सत्प्रतिपक्षे विरोधमात्रस्य तन्त्रत्वेन पर्य्यवसितानित्यत्वरूपसाध्याभावसाधनद्वारा तदुत्थापकतयैवोपाधित्वमित्येतन्मततात्पर्यम् । न च कृतकत्वस्य पक्षवृत्तितया तद्व्यतिरेकस्यासिद्ध- त्वात्र तदुत्थापकत्वमपीति वाच्यम् । शब्दनित्यतावादिना उपाधिदातृर्मते शब्दस्याकृतकत्वादिति टिप्पणी । प्रत्यक्षः प्रत्यक्षगुणत्वादित्यत्र बहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकोद्भूतरूपवत्त्व इत्यर्थः । उपाधे- रदूषकतापत्तेरिति । तस्य प्रकृतसाध्यव्यभिचारोन्नायकत्वाभावाद् विशिष्टसाध्यव्यभिचारस्यैव तथा त्वादित्यर्थः । नियततादृशधर्माभावेनेति । साध्यतावच्छेदकमात्रस्यैवोपाधिव्याप्यतावच्छे- दकत्वेन व्यर्थाविशेषणघटितसाध्यतावच्छेदकस्य व्याप्यता नवच्छेदकत्वात् तद्धर्मावच्छिन्नव्यापक- त्वाप्रसिद्धेरित्यर्थः । नियततादृशधर्मेत्यस्य नियततावच्छेदकेति तात्पर्य्यार्थः । यदि स्वतः साध्य- मुपाधिव्याप्यन्न भवेद् भवेत् कश्चित् तत्सम्पादको धर्मो नियतः स नास्तीत्यक्षरार्थः ।
३६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां
प्रकाशः। उपाधिः स्यात्। द्व्यणुकस्य सावयवत्वे सिद्धे, द्व्यणुकं द्रव्यसमवेतं जन्यमहत्त्वानाधारद्रव्यत्वादित्यत्र निःस्पर्शद्रव्यसमवेतत्वं चोपाधिः स्यात् । नित्यद्रव्यसमवेतत्वस्य पर्यवसितस्य साध्यस्य व्यापकत्वात् । साधनाव्यापकत्वाच्च । अथ साध्यसाधनसम्बन्धव्यापकत्वे सति साधनाव्यापक उपाधिः, तेन ध्वंसस्य जन्यत्वेनानि- त्यत्वे साध्ये यद्यपि भावत्वं प्रागभावे साध्यव्यापकं तथापि जन्यत्वे सति यदि नित्यत्वं तद्व्यापक- त्वादुपाधिरिति । न । इदमसाधकं साध्यसाधनसम्बन्धव्यभिचारित्वादित्यत्र साध्यव्यभिचारित्वा- दित्यस्यैव गमकत्वे शेषवैयर्थ्यापत्तेः । सम्बन्धव्यभिचारानुमानेऽर्थान्तरत्वापत्तेश्च । यद्विशिष्टे साधने साध्यसामानाधिकरण्यं स उपाधिरिति चेन्न । रासभादीनामप्युपाधित्वापत्तेः । तद्विशिष्टेऽपि साधने साध्यसम्बन्धात् । यद्विशिष्ट एवेति चेत् । न । प्रमेयत्वादेरप्युपाधित्वापत्तेः । यद्विशिष्टे साधने साध्यसामानाधिकरण्यमस्त्येवेति चेत् । न । गुरुत्वेन रसवत्त्वे साध्ये गन्धवत्त्वादेः साध्याव्यापकस्या- प्युपाधित्वापत्तेः ॥ अथोपाधिमात्रस्य व्यतिरेकिधर्मत्वं, क्वचित् बाधोन्नीतस्य पक्षेतरत्वस्याप्युपाधित्वात् । तत्तदु- पाधेश्च तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वं, वह्निधूमोपाधेस्तु न लक्षणं लक्ष्याभावात् । न च पर्वतेतरत्वं वह्निधूमसम्बन्धोपाधिः स्यात् । आपाद्याप्रसिद्धेः । न च पक्षेतरत्वं वह्निव्यापकं कुतो न भवतीति वाच्यम् । एतस्योपाधिलक्षणप्रस्तावे अर्थान्तरत्वादिति मतम् । तन्न । अनुमिति- प्रतिबन्धकज्ञानविषयतावच्छेदकसमुपाधित्वमिह निरूपयितुमुपक्रान्तम्, अन्यस्याप्रयोजकत्वात् । तच्च न व्यतिरेकिधर्मत्वम् । अतिप्रसङ्गात् । किन्तु साधनाव्यापकत्वे सति साध्यव्यापकत्वम् । तच्च पक्षेतरेऽतिव्याप्तमेवेत्युक्तम् ॥ अत्राहूः। यद्व्यावृत्त्या यस्य साधनस्य साध्यं पक्षे व्यावर्त्तते, स धर्मस्तत्र हेतुरुपाधिः । स च धर्मः कतमो भवति, यस्य व्यावृत्तिः साध्यसाधनसम्बन्धविरोधिनी । यथाऽऽर्द्वेन्धनवत्त्वं वह्निमत्त्वे । व्यावर्त्तते हि तद्व्यावृत्त्या धूमवत्त्वं तप्तायःपिण्डे । व्यावर्त्तते च भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानि-
प्रकाशिका। असमवेतत्वपर्यवसानवारणायाह । सावयवत्व इति । जन्येति । जन्यमहत्त्वं महत्त्वावान्तरजाति- र्व्वेति न वैयर्थ्यम् । वस्तुतः परमाणुसिद्धौ मनसोऽणुत्वासिद्धौ चासाधारण्यं स्यादिति जन्यपदम् तथा सति च गगनमेव दृष्टान्त इति भावः । निःस्पर्शोति । द्रव्यपदमत्र समव्याप्तोपाध्यभिप्रायकम् । रासभादीनामिति । रासभविशिष्टे धूमे वह्निसामानाधिकरण्यादित्यर्थः । रासभादावतिप्रसङ्गे सत्येव दोषान्तरमाह । गुरुत्वेनेति । रसवत्त्वे रसयोग्यत्वे । अन्यथा हरीतक्यादौ व्यभिचारेण नियमा- सिद्धेः । यद्व्यावृत्त्येति । यद्व्यावृत्त्या सङ्गिङ्गीभूतमा साधनवति क्वचिदपि साध्यव्यावृत्तिरनुमातुं
मकरन्दः। भावः । असमवेतत्वपर्यवसानवारणायाह । सावयवत्वे इति । जन्येति । परमाणुसिद्धिदशायां मनसोऽणुत्वादिसिद्धिदशायाञ्च गगनादौ व्याप्तिग्रहार्थं जन्यपदम् । अखण्डाभावे न वैयर्थ्यमिति । निःस्पर्शोति । अत्र द्रव्यपदं समव्याप्तत्वाभिप्रायेण । रासभादावतिप्रसङ्गे सत्येव दूषणान्तरमाह गुरुत्वेनेति । रसवत्त्वे = रसयोग्यत्वे । अन्यथा विशिष्टस्यापि हरीतक्यादौ व्यभिचारेण नियमा- सिद्धेः । यद्व्यावृत्त्येति । पक्षे यद्व्यावृत्त्या यस्य साधनस्य साध्यव्यावृत्तिरनुमीयते इत्यर्थः । साध्यसाधनसम्बन्धव्यापकत्वाभिप्रायेण भावत्वेनेति । नन्वेवं सम्बन्धाभावसाधनेऽर्थान्तरं साध्या-
टिप्पणी। जन्यमहत्त्वानाधारद्रव्यत्वादित्यत्रेति । परमाणुसिद्धदशायां मनसोऽणुत्वासिद्धिदशायामाकाशादौ व्याप्तिग्रहार्थं जन्येति । अखण्डाभावघटकतया च सार्थक्यम् । पर्यवसितसाध्यस्य व्यापकत्वा-
तृतीयस्तबके ] \qquad अनुमानप्रामाण्योपपादनम् । \qquad ३६१ प्रकाशः। र्त्यत्वसम्बन्धः, शाकपाकजत्वव्यावृत्त्या श्यामत्वमैत्रातनयत्वयोः सम्बन्धध । पक्षधर्मताबलाच्चानित्यत्वश्यामत्वाभावयोः पर्यवसानम् । तथा, वायावुद्भूतरूपवत्त्वं व्यावर्तमानं द्रव्यत्वे सति प्रत्यक्षत्वं निवर्तयत्, प्रत्यक्षत्वाभावमादाय सिद्ध्यतीति सर्वत्र पक्षे साध्याभावसिद्ध्या साध्यसाधनसम्बन्धाभावोऽस्ति । अत एव साधनावच्छिन्नादौ साधनव्यापकोऽप्युपाधिः, यत्र पक्षावृत्ति र्हेतुः । यथा, करका पृथिवी कठिनसंयोगवत्त्वादित्यत्रानुष्णाशीतस्पर्शवत्त्वमुपाधिः । न च स्वरूपासि- द्धिरेव तत्र दोषा, सर्वत्रोपाधेर्दूषणान्तरसङ्करात् । एतेन बाधानुन्नीतपक्षेतरत्वस्योपाधित्वं निरस्तम् । स्वव्याघातकत्वेन तद्व्यतिरेकस्य साध्याव्यावर्त्तकत्वात् ॥ अस्मत्पितृचरणास्तु—यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं, स उपाधिः, लक्षणं प्रकाशिका। शक्यत इत्यर्थः । नन्वेवं सम्बन्धव्यावृत्त्यनुमानेऽपि न साध्यव्यावृत्तिरनुमितेति न तद्गर्भलक्षण- संभवस्तत्रेत्यत आह । पक्षधर्मताबलाच्चेति । अत एवेति । इदञ्चैकदेशिमतेन तन्मते च साधनवतीत्यत्र पक्ष इति लक्षणे देयम् । साध्यसाधनसम्बन्धव्यापकत्वे सति पक्षवृत्तित्वमेव चोपाधिताप्रयोजकमिति बाधोत्थापकतायामुपाधेर्दोषत्वम् । अत एवेत्यस्य यत एव तादृशोपाधि- व्यावृत्त्या पक्षसाध्यव्यावृत्त्यनुमितिरित्यर्थः । साधनेति । साधनावच्छिन्नसाध्यव्यापकोपाधौ साध्य इत्यर्थः । इदञ्चैकदेशिमतमयुक्तम् । पक्षवृत्तेरप्युपाधितापत्तेः, नचेष्टापत्तिः, घटः प्रत्यक्षो द्रव्यत्वादित्यत्र द्रव्यत्वावच्छिन्नसाध्यव्यापकप्रत्यक्षपरिमाणवत्त्वोपाधैर्व्यभिचारोन्नायकस्योपाधित्वेन व्यवहारादिति । व्यभिचारोत्थापकत्वगर्भमुपाधिस्वरूपमाह । यद्व्यभिचारित्वेनेति । साध्ये उपाधिव्याप्यता- प्रयोजको यो धर्मस्तद्वत्वविशेषणातिरिक्तविशेषणाविशेषितेन सलिङ्गीभूतेन यद्व्यभिचारित्वेन मकरन्दः । भावसिद्धेरुद्देश्यत्वादित्यत आह पक्षधर्मतेति । अत एवेति । यत एव तादृशोपाधिव्यावृत्त्याऽपि पक्षे साध्यव्यावृत्त्यनुमितिरित्यर्थः । तथा च साध्यव्यापकत्वे सति पक्षावृत्तित्वमेवोपाधित्वे प्रयोजक- मिति बाधोत्थापकतयोपाधेर्दोषत्वमित्येतन्मततात्पर्यम् । साधनेति । साधनावच्छिन्नसाध्यव्याप- कादावुपाधौ साध्ये इत्यर्थः । नन्वेवं पक्षवृत्तिरुपाधिर्न स्यात् तद्व्यतिरेकस्य पक्षे साध्याव्यापकत्वात् । न चेष्टापत्तिः, तस्याप्यु- पाधित्वेन व्यवहारात् । न च पक्षपदं साधनवत्परं, तथा चान्यत्र क्वचित् साधनवति साध्यव्यावर्त्तक- त्वाद्व्यभिचारज्ञानद्वारैव तस्य दूषणत्वमिति वाच्यम् । अनुष्णाशीतस्पर्शवत्त्वस्यैवमनुपाधितापत्तेः, तस्य साधनव्यापकत्वेन साधनवति स्वव्यावृत्त्या साध्याव्यावर्त्तकत्वादित्यरुचेराह अस्मत्पितृचर- णास्त्विति । यद्व्यभिचारित्वेन लिङ्गेन साधनस्य साध्यव्यभिचारित्वमनुमीयते, स उपाधिरि- टिप्पणी । दिति । उक्तानुमानात् प्राक् नित्यस्य परमाणोर्सिद्धेर्व्यभिचारादिति । साध्यसाधनसम्बन्धा- भावसिद्धावर्थान्तरं स्यात् साध्याभावस्यैव साधनीयत्वादित्यत आह पक्षधर्मताबलाच्चेति । द्रव्यत्वे सति प्रत्यक्षत्वनिवर्त्तयत् इति । यद्यपि प्रत्यक्षत्वं सामान्यतः साध्यं तस्य साधनेन सम्बन्धं विनाप्युद्भूतरूपन्नात्मन्यस्ति, तथापि पक्षे प्रत्यक्षत्वमनुमानात् सिद्ध्यद् वहिरिन्द्रियजन्य- प्रत्यक्षत्व एव पर्यवस्यतीति पर्यवसितसाध्यसाधनसम्बन्धव्यावृत्तौ तात्पर्यम् । अत एवेति । यत एव येनोपाधिना स्वव्यतिरेकेण पक्षे साध्यसाधनव्यावृत्तिर्भवति तस्योपाधित्वादेवेत्यर्थः । बाधोत्थापकतयैव चोपाधेर्दूषकत्वमित्येतन्मततात्पर्यम् । स्वव्याघातकत्वे न तद्व्यतिरेकस्येति । यदि पक्षे- तरत्वमुपाधिः स्यात् , क्वापि तदेव न सिद्ध्येत यत्र तत् साधनीयन्तदितरत्वस्य तत्राप्युपाधेः सम्भ- वात्। न च प्रत्यक्षसिद्धमतीन्द्रिये तथापि हि तद्व्यावृत्तं स्यात् प्रत्यक्षसिद्धेऽपि वा प्रत्यक्षसदोषतासन्दे- ४६ न्या० कु०
३६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां प्रकाशः । पुनः, पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वम्। यद्धर्मावच्छेदेन साध्यं प्रसिद्धं, तदवच्छिन्नं साध्यं पर्यवसितम् । तत्रार्द्रेन्धनप्रभवत्वाद्युपाधौ महानसत्वाद्येव तादृशो धर्मः । तदवच्छेदेन सा- ध्यस्य धूमस्य प्रसिद्धेः । पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधौ द्रव्यत्वं, साधनावच्छिन्नसाध्यव्यापको- पाधौ च साधनमेव तथा । तथा च तदवच्छिन्नसाध्यव्यापकोपाधिव्यभिचारेण साधनस्य साध्यव्य- भिचारः स्यादेव । व्यापकव्यभिचारिणस्तद्व्याप्यव्यभिचारित्वनियमादिति ॥ प्रकाशिका । साधने साध्यव्यभिचारित्वमनुमातुं शक्यत इत्यर्थः । अत एवाकाशे साध्ये घटादेरनुपाधित्वम्, आकाशव्यभिचारित्वे साध्ये घटव्यभिचारित्वस्य व्यर्थविशेषणतया सङ्क्षिप्तत्वाभावात् प्रथमविशेषण- पूरणेन चावच्छिन्नसाध्यव्यापकस्यापि संग्रहो न नातिप्रसङ्गः इदञ्च सकलसंग्राहकम् । दूषकताबीजं तु भिन्नभिन्नमेव अन्यथा निरुक्तोपाधिज्ञानकाल एव व्यभिचारस्फुरणादस्य व्यभिचारोन्नायकत्वं न स्यात् । लक्ष्यतावच्छेदकमुक्तवा सकलसंग्राहकं लक्षणमाह पर्यवसितेति । यत्र साधनाव्या- पकत्वं तद्वृत्तिधर्म्मसामानाधिकरण्यं पर्यवसितपदार्थः, तेन महानसत्वावच्छिन्नसाध्यव्यापकं व्यञ्ज- नवत्वं नोपाधिः, वह्निसाध्यकधूमसाधने, इदमपि संग्राहकमात्रम् न तु सर्वत्र प्रतिबन्धकज्ञानविषयः, शुद्धसाध्यव्यापकत्वेनापि ज्ञातस्य प्रतिबन्धकत्वात् , अवच्छिन्नसाध्यव्यापके त्विदमेव(साध्य)प्रतिब- न्धकज्ञानविषयः, तेनानुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वमुपाधित्वमिह निरूपयितुमुपक्रान्तमिति प्रागुक्तेन न विरोधः । यद्धर्म्मावच्छेदेनेति । यद्धर्म्माधिकरण इत्यर्थः, स च धर्म्मः साधना- धिकरणोपाध्यनधिकरणवृत्तिरभिमतस्तेन प्रागुक्तार्थलाभः । महानसत्त्वादौति । आर्द्रेन्धनशून्य- तत्संयुक्तमहानसवृत्तिर्धर्म इत्यर्थः । द्रव्यत्वमिति । वायुर्बहिरिन्द्रियप्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वाद्दि- त्यत्र रूपवत्त्वोपाधिरित्यर्थः । साधनमेवेति । धूमो विनाशी जन्यत्वादित्यत्र भावत्वोपाधा- मकरन्दः । त्यर्थः । न चाकाशादिसाध्यकहेतौ घटादेरुपाधिताऽऽपत्तिः, यस्य पर्य्यवसितसाध्यव्यापकस्य व्यभि- चारित्वेनेत्यर्थात् । तच्च क्वचिद्विशेषितं क विद्दिशेषितञ्च लिङ्गमित्यन्यदेतत् । साधनाव्यापकत्वं व्यभिचारिसाधनाव्यापकत्वम् । तेन महानसत्वाद्यवच्छिन्नवह्विव्यापके धूमाव्यापके व्यञ्जनवत्त्वादौ नातिप्रसङ्गः । नन्वेवमुपाधिज्ञानकाल एव व्यभिचारभाने तदुन्नायकत्वमस्य न स्यादिति चेत् । भ्रान्तोऽसि । न ह्येनेनैव रूपेण ज्ञातस्यास्य तदुन्नायकत्वं, किन्तु शुद्धसाध्यव्यापकत्वादिना । इदंन्तु सकलसंग्राहकमात्रम् । साधारणादीनामुभयकोट्युपस्थापकत्ववत् । इदञ्च सर्वैरेवाभ्युपेयम् , अन्यथा पर्य्यवसितत्त्वानहङ्कुरणे । शुद्धसाध्यव्यापकत्वस्फुरणेऽपि तदुन्नायकत्वं न स्यात् । न चानुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूपयितुमुपक्रान्तमिति प्रागुक्तं- टिप्पणी । हप्रसक्तावप्रामाणिकत्वशङ्कानिरासाय यद्युद्भावनस्य करणीयत्वात् , प्रमाणसंप्लवस्यात एवायमात्मा गौर इत्यादौ दर्शितत्वात् । अथवा साध्यव्यापकतानिर्णायकतर्कविरहेऽपि पक्षातिरिक्ते तन्निर्णयात् सामान्यतस्तत्संशयाद्वा पक्षेतरत्वस्योपाधित्वे स्वस्योपाधित्वस्यैव व्याघातात् साध्यव्यतिरेकानुमापकन्य- तिरेकप्रतियोगित्वेन साध्यव्यभिचारानुमापकंव्यभिचारकत्वेन वा वाच्यतया तत्राप्यनुमाने पक्षेतर- त्वस्यैवोपाधित्वसम्भवेनानुमानासम्भवादसम्भवादिति भावः । यद्धर्म्मावच्छेदेन साध्यप्र- सिद्धिमिति । साध्यस्य यत्राधिकरणे उपाधिव्यतिरेकस्तद्व्यावृत्तो यः कश्चन धर्म्मः प्रकृतपक्षनिष्ठः साध्यः पक्षे सिद्ध्यन् तत्समानाधिकरण एव सिद्ध्यतीति तदवच्छिन्नं साध्यम् पर्यवसितसाध्यम्। एवञ्च प्रकृतसाध्यनिष्ठोपाध्यव्यभिचारित्वनिरूपककिञ्चिद्धर्म्मावच्छिन्नसाध्यव्यापकत्वे सतीति प्रथमदलार्थः, स
द्वितीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३६३ प्रकाशः। साध्यव्यापकत्वसाधनाव्यापकत्वे एक दूषकताबीजम् । न च पक्षधर्मवावच्छिन्नसाधनावच्छिन्नसा- ध्यव्यापकोपाधिव्यभिचारेण साधनस्य साध्यव्यभिचारोन्नयनेऽर्थान्तरं, विशेषणान्यभिचारित्वेन निश्चिते साधने विशिष्टव्यभिचारस्य सिध्यतो विशेष्यसाध्यव्यभिचारमादाय पर्यवसानात्, पक्षधर्मतावलात् । न च पक्षधर्मतावललभ्यार्थसिद्धावर्थान्तरत्वं, व्यक्तिसाधकानुमानमात्रे तदापत्तेः । भवतु वार्णान्तरं, तथापि हेतुराभास एव । अर्थान्तरस्य पुरुषदोषत्वात् । हेत्वाभासान्तरस्य च तत्राभावादुपाधिरेव भावत्वा- दिकं दोषस्तत्रोद्भाव्यः । अपि च यः साधनव्यभिचारी साध्यव्यभिचारोन्नायकः स एवोपाधिः । व्यभिचारोन्नायकत्वञ्च साक्षात्परम्परया वेति नाऽर्थान्तरत्वम् । न चैवं शब्दोऽभिधेयः प्रमेयत्वादि- त्यत्राश्रावणत्वं जलं प्रमेयं रसत्त्वादित्यत्र पृथिवीत्वमुपाधिः स्यादिति वाच्यम् । केवलान्वयित्व- ग्राहकमानवाधादुपाधेर्विशिष्टायापकत्वात् । न च स्वव्याघातकत्वेनानुपाधौ पञ्चेतरत्वेऽतिव्याप्तिः । प्रकाशिका। वित्यर्थः । साध्यव्यापकत्वेति । क्वचित् शुद्धसाध्यव्यापकत्वं क्वचिदवच्छिन्नसाध्यव्यापकत्वमि- त्यर्थः । पक्षधर्मतावलादिति । इदमापातः, विशिष्टसाध्यव्यभिचारप्रकारकबुद्धावपि शुद्ध- साध्यव्यभिचारप्रकारकबुद्ध्यभावेनानुमितिप्रतिबन्धात् । तात्पर्यं तु ग्रन्थकृतो विशेषणवति विशिष्टस्य व्यापकव्यभिचारित्वेन हेतुना शुद्धसाध्यव्यभिचारानुमितौ, अत एव मणिकृतोऽस्मिन् पक्षेऽरुच्या यद्वेति कृत्वा तमेव कल्पं सिद्धान्तितवन्तः एतत्तात्पर्यानुसारेणैव प्रथम (लक्षण) विशेषण- मुपाधिलक्षणे मया पूरितम् प्रकाशलिखितपक्षाश्रयणे तु तदपि विशेषणं न देयमित्यवधेयम् । साधनव्यभिचारीति । साधनं व्यभिचारि यस्य स तथा साधनाव्यापक इति यावत् एवञ्च साधननिष्ठेन यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं साक्षात् परम्परया वानुमातुं शक्यत इत्यर्थः । परम्परा च विशिष्टव्यभिचारानुमानद्वारिका अयमेव पूर्वतो भेद इति भावः । मकरन्दः । विरोधः, तस्य यथाश्रुताभिप्रायेण साधनाव्यापकत्वसाध्यव्यापकत्वांशाभिप्रायेण वा सर्वसमा- धेयत्वात् । पर्वतत्वरूपपक्षधर्मावच्छिन्नवह्निव्यापकत्वादिन पाषाणत्ववादिप्रहेऽपि धूमे न तदुन्नयनं, वाधात् । तदवतारे व्यभिचारानुमितेर्भ्रमरूपाया इष्टत्वात् । अस्तु वा व्यभिचारिपदं व्यभिचारित्वसमनियतधर्मान्तरपरम् । न चैवं तेनैव तदुन्नयनापत्तिः, स्वरूपेणैव तस्य ज्ञानात्। तथा च नियतत्वास्फुरणदशायां तदभावात् । तथापि च तस्य तदुन्नायकत्वे बाधकानभिधानाच्च । केचित्तु यद्व्यभिचारित्वेनेत्यादिकमेव लक्षणम् । इदन्तु येन रूपेण ज्ञातस्य तस्य व्यभिचारानुमापकत्वं तन्निर्वचनम् । तथा च लक्षणमित्यस्य व्यभिचारानुमापकतावच्छेदकमित्यर्थ इत्याहुः । विस्तृतमिद- मनुमानप्रकाशे । साधनेति । साधनं व्यभिचारि यस्य, साधनाव्यापक इत्यर्थः । अत्र स्वव्यभिचा- रित्वेनेति शेषः । तेन तदुन्नायकप्रयोजकत्वादौ नातिप्रसङ्गः । एवञ्च साधनव्यभिचारिपदं स्वरूप- टिप्पणी। च यत्किञ्चिद्धर्म्म उक्तरूपो गृह्यते । साध्यव्यभिचारोन्नयनेऽर्थान्तरमिति । उक्तोपाधिव्यभि- चारेण व्याप्यीभवद्विशिष्टव्यभिचारस्यैव साधनीयता न च साभिमतेति भवत्यर्थान्तरम् । व्यक्तिसाध- कानुमानमात्रे तदापत्तेरिति नातिरेकत्वात् पक्षधर्मतावलादपिव्याप्तिनिरूपकत्वेन गृहीतैव सिद्धय- तीति व्यक्तीति । व्यक्तिषु नानाविधा साधयितुरभिमता पक्षीया व्यक्तिः न व्याप्तिनिरूपकत्वेन ग्रहीतुं शक्या, अन्या च बाधितेति सामान्यमेव साध्यते पक्षधर्मतावलादेव चाभिलषितव्यक्तिविशेषपर्यवसानम् । भवतु वार्थान्तरमिति । यद्वा प्रत्यक्षस्पर्शोश्रयत्वं द्रव्यत्वव्यभिचारि द्रव्यत्वान्यभिचारित्वे सति द्रव्यत्वविशिष्टप्रत्यक्षत्वव्यापकोद्भूतरूपव्यभिचारित्वात् महत्त्ववदिति साधने नार्थान्तरतालेशोपीति । व्यक्तं चैतच्चिन्तामणाविति । केवलान्वयित्वग्राहकमानवाधादिति । यद्व्यभिचारिसाधनमेवं
३६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्याया प्रकाशः । अनुकूलतर्काभावेन तस्य साध्यव्यापकत्वानिश्चयात् । न हि सहचारदर्शनव्यभिचारादर्शनमात्राद्या- प्तिग्रहः । अप्रयोजकेऽपि तद्ग्रहप्रसङ्गात् । न चाप्रयोजकत्वादेव तदगमकम् । न हि व्याप्तस्य पक्ष- धर्मत्वेऽप्रयोजकत्वम् । सहचारदर्शनमात्रस्य संशायकत्वाच्च । न च व्यभिचारसंशयाधायकत्वेन तथापि सन्दिग्धोपाधित्वम् । स्वव्याघातकत्वेन तस्य तत्संशयानाधायकत्वात् । बाधोन्नीते च सा- ध्यव्यापकताग्राहकानुकूलतर्कसत्त्वात् । अत एव पर्वतावयववृत्त्यन्यत्वादिकमप्युपाधित्वेन निरस्तम् । धूमवत्त्वे साध्ये आर्द्रन्धनप्रभववह्निमत्त्वस्य, बहिरिन्द्रियद्रव्यप्रत्यक्षत्वे चोद्भूतरूपवत्त्वस्य, व्यापकताग्राह- कः प्रत्यक्षावधृतः, मैत्रातनयत्वेन साध्ये श्यामत्वे साध्यशाकपाकजत्वस्य च वैद्यकाऽवधृतः कार्य- कारणभावः । एवं जन्यत्वेनानित्यत्वे साध्ये भावत्वव्यापकताग्राहको घटोन्मज्जनप्रसङ्गः । एवमन्येषाम- पि, तत्तदनुकूलतर्कात् साध्यव्यापकत्वग्रहः । यत्र च साध्योपाध्योर्हेतुसाध्ययोर्व्याप्तिग्राहकसामग्र्य- नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धोपाधित्वम् । न च यत्र सन्दिग्धोपाधिः, तत्र तत एव हेतोरु- पाधिः साध्यः । तत्रापि श्यामत्वादेरुपाधित्वात् । न चोभयमपि साध्यम् । अर्थान्तरत्वात् । केवल- साध्ये हि विप्रतिपत्तिर्न तूभयत्र । यत एवोपाधेः साध्यव्यापकत्वं तर्का निश्चेयमत एव तुल्ययोग- क्षेमत्वाभावान्न साध्यव्याप्याव्यापकत्वेन साध्यव्यापकत्वं साधनीयमिति । व्यभिचारोन्नयनद्वारा सा- ध्यव्यापकान्याप्यत्वेन व्याप्तिविरहोन्नायकतयोपाधेर्दूषकत्वम् । एवं चासिद्धेरूपजीव्योऽप्युपाधिर्न हेत्वाभासान्तरम् । सिद्धसाधनवद् दूषकतायां परमुखनिरीक्षकत्वेन स्वतो दूषकत्वाभावात् । न ह्यन्य- स्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यस्य साध्यव्याप्यत्वज्ञाने प्रतिबन्धकमिति ॥ अन्वर्थत्वमुपाधिशब्दस्याह । तद्धर्मेति । यद्धर्मोऽन्यत्र भासते स एवोपाधिपदवाच्यो यथा जवाकु- सुमं स्फटिके । तथा यद्वृत्तिव्याप्यत्वं साधनत्वाभिमते भासते, स धर्मस्तत्र हेतावुपाधिरिति सम- व्याप्तौ उपाधिपदं मुख्यं, विषमव्याप्तौ तु साध्यव्यापकत्वादिगुणयोगाद्गौणमुपाधिपदमित्यर्थः । प्रकाशिका । दूषणान्तरमाह सहचारदर्शनेति । तथा च संशयसामग्री न निश्चायिकेति भावः । न च यत्रेति पक्षे साधनाब्यापकसन्देहप्रयुक्तं यत्र सन्देहोपाधित्वं सन्दिग्धत्वं मैत्रतनयत्वादौ हेतौ शाकपाक- जत्वादेस्तत्र मैत्रतनयत्वादित्यत्र हेतोरेव शाकपाकजत्वादिकं साधनीयमिति साधने साध्यव्या- पकत्वनिश्चयान्नोपाधिरित्यर्थः । अर्थान्तरत्वादिति । इदमापाततो वस्तुत उभयसाधनेऽपि प्रत्ये- कस्य प्रत्येकमूपाधित्वमिति द्रष्टव्यम् । परमुखेति । अनुमितिपरमार्शान्यतरसाक्षाद्विरोधित्वेने- त्यर्थः । उपाधिपदं मुख्यमिति । योगरूढ्युभयपुरस्कारेणेत्यर्थः । गौणमिति । केवलरूढिपुरस्का- मकरन्दः । निवर्त्तनं बोध्यम् । तत एव हेतोरिति । मैत्रातनयत्वादेव शाकपाकजत्वमुपाधिः साध्यः । टिप्पणी । विद्येन केनापि धर्मेण साधने पक्षधर्मेण वावच्छिन्नस्य साध्यस्य व्यापकत्वात् गन्धाद्यवच्छिन्नसाध्य- व्यापकत्वेऽपि तेनोपाधिव्यभिचारेण विशिष्टसाध्यव्यभिचारे साधनीये विशेषणव्यभिचार एव तस्य पर्यवसानाद् विशेष्यव्यभिचारस्य केवलान्वयित्वग्राहकमानेन बाधितत्वात् उक्तपक्षधर्म्यन्तं हि तादृशधर्मा- भावं गमयद् विशिष्टाव्यापकत्वे हेतुरिति भावः । तर्कं विनापि सन्दिग्धोपाधौ साध्यव्यापकत्वनिश्चा- यक्त्वमाशङ्क्य निराकरोति न च यत्र सन्दिग्धोपाधिरिति । तत एव हेतोरुपाधिरिति । तस्य मैत्रातनयत्वस्य हेतोः पक्षे उपाधिसन्देहात् साध्यव्यापकत्वसन्देहस्तत्र तत एव मैत्रातनयत्वहेतोः पक्षे उपाधिनिश्चित्य साध्यव्यापकत्वं निश्चेयमित्यर्थः । अत एव तुल्ययोगक्षेमत्वाभावा- दिति । साध्यसाधनयोन्यीप्यव्यापकभावग्राहकस्तर्काभावादुपाधिसाध्ययोस्तद्ग्राहकस्तर्कसम्भवाच्च तुल्य- योगक्षेमतेत्यर्थः ।
तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३६५ तदिदमाहुः— अन्वे परप्रयुक्तानां व्याप्तीनामुपजीवकाः । तैर्दृष्टैरपि नैवेष्टा व्यापकांशऽवधारणा ॥ इति, तदनेन विपक्षदण्डभूतेन तर्केण सनाथे भूयोदर्शने, कार्यं वा कारणं वा ततो- ऽन्यद्वा समवायि वा संयोगि वा अन्यथा वा भावो वाऽभावो वा सविशेषणं वा निर्विशेषणं वा लिङ्गमिति निःशङ्कमवधारणीयम् । अन्यथा तदाभास इति रहस्यम् ॥ तादात्म्यतदुत्पत्त्योरप्येतदेव बीजम् । यदि कार्याऽऽत्मानौ कारणमात्मानञ्चाति- पतेतां, तदा तयोस्तत्त्वं व्याहन्येत । अत एव, सामग्रीनिवेशिनश्चरमकारणादपि कार्यमनुमिमते सौगता अपि । तस्माद्विपक्षबाधकमेव प्रतिबन्धलक्षणम् । तथाहि । शाकाद्याहारपरिणतिविरहिणि मित्रातनये न किञ्चिदनिष्टमिति नासौ तस्य व्या- पिका, व्यापिका तु श्यामिकायाः, कारणत्वावधारणात् । कारणञ्च तत् तस्य, तद- तिपत्य भवति चेति व्याहतम् । एवमन्यत्राप्यूहनीयमिति ॥ ॰बोधनी । निमित्तत्वमुपाधिशब्दप्रवृत्तिनिमित्तमिति । अत्रापि वार्त्तिकमुदाहरति तदिदमाहुः-इति । येऽपि वैशेषिकादयः “अस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्” इति (वै. सू. ९.२.१.) वदन्ति तेषामपि तत्प्रतिबन्धनिर्णये तर्कसनाथं भूयोदर्शनमेव निदानम् , न च तस्मि- न्सति सविशेषणनिर्विशेषयोर्बलाबलं प्रति कश्चिद्विशेषः; अन्यथा यदि तर्कसनाथं भूयोदर्शनं न स्यात् ततस्तत् सर्वं लिङ्गाभासं भवेदित्याह तदनेन-इति । तादात्म्यतदुत्पत्तिनिबन्धनः प्रतिबन्ध इति वदतामपि तन्निर्णयोपायस्तर्क एवेत्याह तादा- त्म्य—इति । तत्र तर्क दर्शयति यदि हि-इति । तयोः कार्यात्मनोस्तत्त्वं कार्यत्वमात्मत्वं चेति यतस्तर्क एव प्रतिबन्धबीजं न तु कार्यत्वमात्मत्वं वा, तत एव बौद्धानामयमभ्युपगमः सिद्धान्तीत्याह अत एव-इति । तस्माद्विपक्षे दण्डभूतस्तर्क एव प्रतिबन्धहेतुः सर्वत्रेत्युप- संहरति तस्मात्-इति । विपक्षे बाधकाभावेन सोपाधिकमुदाहरति तथाहि-इति । श्यामत्वे साध्ये मैत्रतनयत्वस्य हेतोः शाकाद्याहारपरिणतिरुपाधिः पक्षभूते मैत्रतनये शाकाद्याहारपरिणतेर्- प्रकाशः । अन्ये इति । ये सोपाधयस्ते परप्रयुक्तानामुपाधिप्रयुक्तानां व्याप्तीनामुपजीवकाः, तैः सोपाधिभिर्हेतुभिः पक्षे निधितैरपि, न साध्यव्यापकस्य सिद्धिरित्यर्थः । कार्यकारणसम्बन्धानामननुगमेऽप्यनुगमक- माह । तदनेनेति । अनौपाधिकसम्बन्धत्वमेव सर्वत्रानुगमकमित्यर्थः । भूयोदर्शन इति । अत्र न वारसङ्ख्यानियमः, किन्तु यावता दर्शनेन यस्य व्यभिचारशङ्कानिवृत्तिस्तस्य तावत्त्वं विवक्षितमिति ॥ परैरपि व्यभिचारशङ्काऽपसरणेऽस्मदुक्तप्रकारोऽभ्युपेयः; अन्यथा तन्निवृत्तिर्दुर्लभा इत्याह— तादात्म्येति ॥ व्यभिचारिण्यपि कुतस्तादात्म्यतदुत्पत्तीन स्यातामिति शङ्का सुलभेत्यर्थः । यत एव विपक्षे बाधकादविनाभावग्रहो न स्वभावकार्ययोरेवात एव वधिरादेर्मुरजाभिघातादिना शब्दाद्यनु- मानमित्याह । अत एवेति । उपसंहरति । तस्मादिति । प्रतिबन्धो लक्ष्यते निश्चीयतेऽनेनेति लक्षणं बोधकं विपक्षबाधकमित्यर्थः । यत्र तु तदभावः, तत्राप्रयोजकेन तन्निर्णयो यथाऽऽप्येत्याह । तथा हीति । अतः शाकपाकजत्वं न साधनव्यापकमित्यर्थः । मित्रातनयत्वादिना यथोपाधिर्नानुमीयते, तयोक्तमधस्तात् । तत् किं साधनाव्यापकत्वसन्देहवत् साध्यव्यापकत्वेऽपि सन्देह एव, नेत्याह । व्यापिका त्विति । मकरन्दः । पक्षेऽपीति । साधनव्यापकत्वनिश्चयान्न सन्दिग्धोपाधित्वमित्यर्थः। साध्याभावप्रमा बाध इति मतानु-
३६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यानं क्व पुनरप्रयोजकोऽन्तर्भवति ?। न क्वचिदित्येके । तथाहि, सिद्धसाधनं न बाधि- तविषयम्, । विषयापहाराभावात् । नापि निर्णये सति पक्षतातिपातादपक्षधर्मः । कालातीतविलोप्रसङ्गात् । न चानेकान्तिकादिः । व्यभिचाराद्यभावात् । तथाऽप्य- मपि । सूत्रं तूपलक्षणपरमिति ॥ तदसत् । विभागस्य न्यूनाधिकसंख्याव्यवच्छेदफलत्वात् । क्व तर्हि द्वयोरन्त- र्निवेशः । असिद्ध एव । तथाहि व्याप्तस्य हि पक्षधर्मताप्रतीतिः सिद्धिः । तद्- बोधनी । उक्तत्वे बाधकाभावेन तद्विरहसंभवेन साधनं मैत्रतनयत्वं प्रति तस्या अव्यापकत्वात् श्यामत्वां प्रति च कारणत्वेन व्यापकत्वात्कारणातिपाते च कार्यासम्भवप्रसङ्ग इति चिरन्तने वाक्येन कार्यं प्रति कारणस्य व्यापकत्वसिद्धेः । इदं च शङ्कितोपाधेः प्रयोजकस्योदाहरणं शाकादिपरिणतेर्मैत्रतनयत्वं प्रति व्यापकत्वानिश्चयात् निश्चयोपाधेस्त्वधर्मत्वसाधनं निषिद्धत्वोपाधिकं हिंसात्वं गमकमिति सव्य- भिचारादिषु कुत्रान्तर्भावो अप्रयोजकस्येति प्रसङ्गात् पृच्छति क्व पुनः-इति । तत्रैकदेश्युत्तरमाह न क्वचित्-इति । कथं सव्यभिचारादिषु पञ्चस्वनन्तर्भूतो हेत्वाभासः स्यादित्याशङ्क्याह यथा हि- इति । सिद्धसाधनद्वयमपि पृथगेव हेत्वाभास इति संदिग्धसाध्यधर्मविशिष्टस्य पक्षत्वात् साध्य- निर्णये सति तदभावादपक्षधर्मः सिद्धसाधनमिति सिद्धान्तदृष्ट्याशङ्क्याह नापि-इति । एवं काला- तीतोऽपि न पृथक् हेत्वाभासः स्यात् तत्रापि विपर्ययनिर्णयेन साध्यसन्देहाभावात् सपक्षाधर्मतोपपत्ते- रिति । न च-इति । विरुद्धत्वादेस्तत्संभावनैव नास्तीति भावः । दार्ष्टान्तिके निगमयति तथाप्य- मपि-इति । यद्यनयोर्नान्यत्रान्तर्भावः कथं तर्हि "सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा” इति विभागोद्देशसूत्रमित्यत आह सूत्रं तु-इति । विभागस्य-इति । अन्यथा विभा- गोद्देशोऽनर्थकः स्यादिति । यद्यनयोर्हेत्वाभासान्तरत्वं न स्यात् तर्हि सव्यभिचारादिषु कस्मिन्न- न्तर्भाव इत्याह क्व तर्हि-इति । असिद्ध एव-इति तयोर्निवेश इत्यनुषङ्गः, सिद्धिनिरूपणपुरःस- रमसिद्धिप्रकारानभिधाय तत्रैवानयोरन्तर्भावमुपपादयति तथाहि- इति । तत्रान्यथासिद्धोऽप्र- योजकः, मध्यमाप्याश्रयासिद्धिर्द्विधा भवति । आश्रयस्य धर्मिणोऽभावात् । तद्विशेषणस्य सन्दिग्ध- साध्यधर्मवत्त्वस्याभावाद्विशेष्याभाव इव विशेषणाभावेऽपि विशिष्टधर्मस्याविशिष्टत्वात्तयोर्द्वितीया प्रकाशः । क्व पुनरिति । पञ्चसु हेत्वाभासेष्वित्यर्थः । तत्र कस्यचिन्मतमाह । न क्वचिदिति । पञ्चभ्यो हेत्वाभासान्तरमेवेत्यर्थः । विषयेति । प्रमितसाध्याभाववद्धर्मिकत्वाभावादित्यर्थः । नापीति । साध्यनिश्चये सन्देहघटितपक्षत्वाभावादित्यर्थः । कालेति । साध्याभावस्य धर्मिणि प्रमायामपि तत्सन्देहाभावादपक्षधर्मत्वाद् बाधोऽप्यसिद्ध एवान्तर्भवत्वित्यर्थः । सूत्रं त्विति । सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः (न्याय० १. २. ४५) इति विभागोद्दे- शसूत्रमित्यर्थः । विभागस्येति । यद्यपि विभागसूत्रं न शब्दविधया न्यूनाधिकसंख्याव्यवच्छेदं प्रत्याययति युक्तिशास्त्रस्वव्याघातादिति परीक्षैकवाक्यतया च तेन प्रत्याय्यस्तथा च परीक्षाशास्त्र तात्पर्यावश्यकत्वे विभागसूत्रस्यापि तत्र तात्पर्यकल्पने मानाभावः । तथापि परीक्षैकवाक्यतया पर्यवसित एवार्थो विभागस्य दर्शितः । द्वयोरिति । सिद्धसाधनाप्रयोजकयोरित्यर्थः । व्याप्तस्ये- प्रकाशिका । राद् स्थलशङ्कवे पङ्कजपदमिवेत्यर्थः । आधिक्येऽपि क्वचिदन्तर्भाव एवेत्यत आह । पञ्चस्विति । साध्याभावप्रमावाध इति मतानुसारादाह । प्रमितेति । असावकतानुमान इति विशिष्टाभावस्य मकरन्दः । रोधादाह प्रमितेति । ननु दृष्टावनुपजीव्यत्वेऽपि स्वस्य एवोपजीव्यत्वं तस्य स्यादित्यत आह
तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३६७
प्रकाशः । ति । ननु व्याप्तिपक्षधर्मतयोः प्रत्येकमभावो नासिद्धिरननुगमादिति प्रत्येकाभावानुगतो व्याप्तिपक्ष- धर्मताविशिष्टाभावोऽसिद्धिरुवाच्यः । तथा च यत्र विशिष्टाभावज्ञाने व्याप्त्यादिप्रत्येकाभावज्ञानादनु- मितिप्रतिबन्धस्तत्राव्याप्तिः । तेषां हेत्वाभासान्तरत्वापत्तिर्वा । विशिष्टाभावस्य दोषतायामसाधक- तानुमाने व्यर्थविशेषणत्वञ्च । प्रत्येकाभावस्य समर्थत्वेनैवान्यथासिद्धेः । न च व्याप्तिपक्षधर्मताऽ- न्यतराभावोऽसिद्धिः, अन्यतरत्वज्ञानेऽपि प्रत्येकाभावस्यैव दूषकत्वेन व्यर्थविशेषणत्वात् ॥ यत्तु व्याप्तिपक्षधर्मताप्रमितिविरह आश्रयासिद्धयाद्यनुगतोऽसिद्धिः, तत् प्रमितिसत्त्वे तत्रानुमि- तिप्रमित्यापत्तेरिति । तदपि, व्यर्थविशेषणत्वात् तदभावेऽपि प्रत्येकज्ञानस्यैव दोषत्वाच्च परास्तम् । किञ्च, प्रकृतसाधनस्य व्याप्तिपक्षधर्मतावैशिष्ट्यततत्प्रमित्योरप्रसिद्ध्या तदभावो दुरवधारणः । यत्किञ्चि- द्विरहश्च सदसद्धेतुसाधारणः । स्वप्रमित्यभावो यत्किञ्चित्प्रमित्यभावो वा सद्धेतावपि । सकलतत्प्रमि- त्यभावश्च दुर्निंरूपः । न च प्रमितिविरहः स्वरूपसन्नेव दूषणं कारणाभावत्वादिति वाच्यम् । हेत्वा- भासस्य ज्ञायमानस्यैवानुमितिप्रतिबन्धकत्वात् । व्याप्त्यादिभ्रमादनुमित्यनुत्पादपत्तेश्च ॥ अथ व्याप्तिपक्षधर्मताभ्यां निश्चयः सिद्धिस्तदभावोऽसिद्धिः । अत एवाव्याप्तापक्षधर्मयोरपि तदारोपरूपा सिद्धिरित्यनुमितिर्न तु तदनिश्चये व्याप्तपक्षधर्मदपि सा । न च व्याप्यादिप्रत्येकप्र- मित्यभाव एव दूषक आवश्यकत्वादिति वाच्यम् । विशिष्टनिश्चयस्य हेतुत्वेन तदभावस्य कार्यानु- त्पादकत्वादिति । मैवम् । तथा सति सव्यभिचारादेरपि अत्रैवान्तर्भावापातात् । असिद्धेः स्वरूपसं- त्या एव दोषत्वे स्वज्ञानार्थं व्यभिचाराद्यनुपजीवनात् । यदि च तस्मात्तत्प्रमितिनोत्पद्यते इति तस्यो- पजीव्यत्वं तदाऽऽश्रयासिद्ध्यादिज्ञानात्तत्सिद्धिनेति सैव पृथग्दोषः स्यादिति ॥ अत्रास्मत्पितृचरणाः । आश्रयासिद्ध्यादीनां प्रत्येकमेव दूषकत्वं, प्रत्येकज्ञानादुद्भावनाचा- नुमितिप्रतिबन्धात् । न तु विशिष्टाभावस्य, व्यर्थविशषणत्वात् । तज्ज्ञानं विनाप्यनुमितिप्रतिबन्धा- त् । अनुमितिकारणलिङ्गपरामर्शविषयाभावत्वेन अनुगतेन त्रयाणामसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधहेत्वाभासाधिक्ये । न चैवं साक्षादनुमितिप्रतिबन्धकत्वेन बाधप्रतिरोधयोर्व्याप्ति- भङ्गलिङ्गत्वेन विरुद्धव्यभिचारयोरपि सङ्ग्रहे विभागव्याघातः । स्वतन्त्रामिप्रायस्य निषेद्धुमशक्यत्वा- प्रकाशिका । विशेषणाद्यभावत्मकत्वमिति मतमाश्रित्यश्रन्यथाविशिष्टाभावस्य भिन्नत्वेन व्यर्थविशेषणत्वानुपपत्ति- रिति । वस्तुतः पूर्वमेव दूषणं द्रष्टव्यम् इत्ताननुपजीव्यत्वे स्वरूप एवोपजीव्यत्वं स्यादित्यत आह यदि चेति । सैवेति । आश्रयासिद्धिः स्वरूपासिद्धिर्व्याप्यत्वासिद्धिश्चेत्यर्थः । वस्तुतः स एवेति पाठस्तस्य चाश्रयासिद्धादावित्यर्थः । व्यर्थविशेषणत्वादिति । एतच्चातिरिक्तविशिष्टाभा- वानभ्युपगमेऽन्यतरत्वादिकानुगमे तदभ्युपगमे तु सोऽपि दोष एव परामर्शविषयाभावत्वाविशे- षात् । परामर्शविषयाभावत्वेनेति । यद्रूपोपस्थितयद्विषयतया परामर्शस्यानुमितिजन कत्वं,तद्रूपावच्छिन्नतदभावत्वेनेत्यर्थः । तेन न व्यभिचारविरोधबाधितेष्वतिव्याप्तिः । मकरन्दः । यदि चेति । सैवेति । आश्रयासिद्धिः स्वरूपासिद्धिर्व्याप्यत्वासिद्धिरित्यर्थः । ज्ञानगर्भहेत्वाभासानुरोधा- दिति भावः । वस्तुतः, स एवेति पाठः । आश्रयासिद्ध्यादिरित्यर्थः । चिन्तामणिविरोधादेव नेति स्थाने नन्विति पाठः काचित्को हेयः, अर्थासङ्गतेश्च । व्यर्थेति । एतच्चाखण्डाभावानभ्युपगमेन तदभ्युपगमे व्यर्थत्वाभावात् । विशिष्टस्यापि ग्राह्यतया तदभावज्ञानस्यापि विरोधिस्वाच्च । विशिष्टाभावोऽपि दोष एव । अत एव तत्साधारणमेव संग्राहककमुत्तरं वदयतीत्यवधेयम् । टिप्पणी । व्यर्थविशेषणत्वञ्च प्रत्येकाभावस्य समर्थत्व इति । उक्तविशेषणं विनापि साधनस्य लघुरूपेण साध्यसिद्धयनुकूलव्याप्तिमत्त्वे तद्विशेषणघटितत्वम्प्रकृते व्यर्थविशेषणत्वम् तेन स्वावच्छि- न्नाविषयकेत्यादेरसत्त्वेपि न क्षतिः ।