न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
४४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां चेत्। नन्विदमेव तावत्। अन्यदप्युच्यमानमाकर्णय। तद् यथा अकारणकका- र्यप्रसङ्गो, रूपाद्युपलब्धीनामपि वाऽनिन्द्रियकरणत्वप्रसङ्गः। न ह्यनुमित्यादिभिरु- पलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपि त्वनुपलभ्यमानकरणिकाभी रूपाद्युपलब्धिभिरेव। यद्यपि साक्षात्कारिताऽपि तत्रैव पर्यवस्यति, तथापि प्रथ- मतोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने। न ह्युपलभ्यमाने कर- णान्तरे साक्षात्कारिणीष्वपि तासु चक्षुराद्यनुपलभ्यमानं कश्चित्कल्पयिष्यत्। अत एव साक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमुपागमन् धीराः। संस्कारस्त्व- र्थविशेषप्रत्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात्। भावावेशाच्च चेतसः। सर्वत्र हि बाह्यार्थानुभवे जनयितव्ये भावभूतप्रमाणा- बोधनी। देव तावद् बाधकं किमन्यन्मृग्यत इत्याह नन्विदम् इति। नन्वन्वतः सिद्धायां याप्तावेव तद्वक्तुं युक्तं तत्सिद्धिश्च विपक्षे बाधकादित्याशङ्क्याह अन्यदपि इति। इह घटो नास्तीति बुद्धिरतीन्द्रि- यजा निर्हेतुकैव स्यात् हेत्वन्तरासंभवादिति बाधकान्तरमाह रूपादीति। तासामपीन्द्रियजत्व- मज्ञातकरणत्वाधीनसिद्धीति भावः। तमेव स्फोरयति न हि इति। उपलभ्यमानकरणिकास्रनुमि- त्यादिषु इन्द्रियस्य कारणत्वेनाव्यवस्थापनादनुपलभ्यमानकरणिकासु रूपादिबुद्धिषु तद्व्यवस्थाप- नादज्ञातकरणत्वमेवेन्द्रियत्वे प्रयोजकमिति निश्चीयत इति। ननु रूपादिबुद्धीनां चक्षुरादिकारणत्व- कल्पने तासां साक्षात्कारित्वमेव प्रयोजकं न त्वज्ञातकरणत्वमित्यत्राह यद्यपीति। रूपादिबुद्धीनां सत्यपि साक्षात्कारित्वे प्रथमतः कार्यदर्शनसमय एव कारणमपेक्षमाणः कारणान्तराज्ञानेनैव चक्षु- रादि कल्पयति, नतु तासां साक्षात्कारित्वमप्यनुसंधाय, ततश्च प्रथमभाविनो ज्ञातकारणत्वस्यैव प्रयोजकत्वमिति तदेव व्यतिरेकमुखेन स्फोरयति नहि इति। अत एव इति। यत एवाज्ञातकार- णत्वमेव प्रयोजकमैन्द्रियकत्वे न तु साक्षात्कारित्वमत एवेति। संस्कारकरण एव स्मृतेः नतु मनं इति चेत् तत्राह संस्कारस्तु इति। करणस्य मनइन्द्रियस्य विषयप्राप्तिरूपतया संस्कार उपयु- ज्यते, न तु कारणत्वेनेति। तुरीयं हेतुमनूद्य व्याचष्टे भावावेशाच्च इति। बहिः स्मरणादन्तःसुखाद्यनुभवाच्चान्यत्र सर्व- त्रैन्द्रियलिङ्गादिभावात्मककरणसहायमेव मनः प्रवर्त्तमानं दृष्टमतो व्याप्तिवलादभावानुभवेऽपि किमपि भावरूपं कारणमाविश्य मनः प्रवर्त्तत इत्यनुमीयते, तच्च कारणमिन्द्रियमेवावशिष्यत इत्यर्थः। ननु प्रकाशः। व्याप्त्युच्छेद इत्याह। नन्विदमिति। उत्सर्गस्य बाधकं चिन्त्येत्याशङ्केत्यर्थः। अकारणकेति। अज्ञातकरणकत्वावच्छिन्नज्ञानं प्रतीन्द्रियस्य करणत्वादिन्र्दियं विना तन्न स्यादित्यर्थः। न हीति। ज्ञातकरणकज्ञानेन करणतया नेन्द्रियं कल्प्यते, किन्त्वज्ञातकरणकज्ञानेनेत्यर्थः। ननु नाज्ञायमानकर- णकज्ञानत्वेन चक्षुरादिकल्पनम्, अपि तु साक्षात्कारिज्ञानत्वेनेत्यत आह यद्यपीति। तत्रैव इन्द्रियकरणकत्व एवेत्यर्थः। यदि च साक्षात्कारिज्ञानमेवेन्द्रियसिद्धौ मानं स्यात्; तदा स्मृतेस्त- दभावान्नमनःकरणत्वं नानुमीयेतेत्याह अत एवेति। न चैवं स्मृतेः साक्षात्कारित्वापत्तिः। संस्कारातिरिक्तसन्निकर्षाभावादित्युक्तत्वात्। ननु स्मृतौ संस्कार एव कुतो न करणमित्यत आह संस्कारस्त्विति। इन्द्रियाणामप्राप्तानां ज्ञानाजनकत्वात्, संस्कारस्य च निर्व्यापारत्वेनाकरणत्वा- दित्यर्थः। भावावेशादिति। भावरूपासाधारणकारणसाहित्यनियमादित्यर्थः। तथा चाभावप्रमायां मनो भावभूतासाधारणकारणसहकृतमेव करणमिति भावः। प्रयोगश्च लिङ्गाद्यजन्या अभावप्रमा
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४१ विष्टमेव चेत् उपयुज्यते नातोऽन्येति व्याप्तिः । तथैव शक्तेरवधारणात् । न ह्यनु- पलब्धिमात्रसहायं तदभावे ऽप्यनुभवमाधातुमुत्सहते । शब्दलिङ्गादेरपेक्षादर्शनात् । न च यत्र यदपेक्षं यस्य जनकत्वमुपलब्धं, तदेव तस्यैव तदनपेक्षं जनकमिति न्याय- सहम् । आर्द्वेन्धनसंवन्धमन्तरेणापि दहनाद् धूमसम्भावनापत्तेः । तथाच गतं कार्य- कारणभावपरिग्रहव्यसनेन ॥ २० ॥ अपि च प्रतियोगिनि सामर्थ्याद्व्यापाराद्व्यवधानतः ॥ अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् ॥ २१ ॥ बोधनी । भावानामुपलम्भ एवार्थं नियमः, अभावानुभवे तु बहिरस्वतन्त्रमनुपलब्धिमात्रसहायं भविष्यती- त्यत्राह नहि इति । अभावानुभवेऽपि शाब्दलैङ्गिकादौ मनसः शाब्दादिभावरूपकारणापेक्षादर्शना- दिति । अन्यत्र तथादर्शनेऽपीह घटो नास्तीत्यत्रानुपलब्धिमात्रसहायं भविष्यतीत्याह न च इति । यद्वा भावानुभवे भावकारणापेक्षमप्यभावानुभवे तन्निरपेक्षमेव मनो भविष्यतीत्यत्र दोषान्तरमाह न च इति । तथा च इति । अपेक्षणीयत्वेनावधृतस्याभावेऽपि कार्योत्पत्त्यभ्युपगमे न किञ्चित्कस्य- चित्कार्यं कारणमिति वा परिगृह्येताविशेषादिति ॥ २० ॥ अपरानपि चतुरो हेतूनुपन्यस्यति अपि च प्रतियोगिनि इति । इन्द्रियाणि पक्षः, अभाव- प्रकाशः । भावभूताऽसाधारणकरणसहकृतमनोजन्या अस्मदाद्यभावप्रमात्वात् लिङ्गादिजन्याभावप्रमाव- दिति । अत एव—भावप्रमायां तथात्वेऽप्यभावप्रमायां योग्यानुपलब्धिमात्रापेक्षं मनः करणं स्याद् विपक्षे बाधकाभावा-दित्यपि निरस्तमित्याह न हीति । न च भावत्वमतन्त्रं गौरवात्, अन्यथा लिङ्गाद्यपि तत्र मानं न स्यादिन्द्रियसहकृतस्यैव मनसो बाह्यानुभावकत्वादिति वाच्यम् । वायौ रूपाभावबुद्धेरनुपलब्धिकरणत्वाभावव्यवस्थापनेन गौरवस्यापि न्यायत्वादिति भावः ॥२०॥ प्रतियोगिनीति । इन्द्रियाणीति धर्मिनिर्देशः, करणमिति साध्यं, प्रकरणात् । प्रतियोगि- प्रकाशिका । असाधारणेति । लिङ्गादीति । अनुमित्यादवंशे सिद्धसाधनवारणाय प्रथमं विशेषणम् । घटादिप्रमायां तद्वारणायाभावेति । अभावस्मरणे बाधवारणाय प्रमापदम् । असाधारणकार- णपदेन कारणाभिधानादन्यथा प्रतियोगिज्ञानमादाय सिद्धसाधनापत्तेः । न चैवमपि दुःखसुखाभाव- प्रमायां बाधः अभावपदेन बाह्याभावस्योक्तत्वात् । साध्ये च भावपदमनुपलब्ध्या सिद्धसाधनवारणाय । शरीरादिना सिद्धसाधनवारणाय साधारणेति । प्रतियोगिज्ञानादिना सिद्धसाधनवारणाय कारणपदं करणपरं बोध्यम् । क्वचित् पाठ एव तथा । हेतावीश्वरज्ञानवारणायास्मदादीति । तच्च लौकिकं परमन्यथा मानसे घटाभावज्ञाने व्यभिचारात् । सुखाभावप्रमायां व्यभिचार इत्यभावेति बाह्येत्यर्थः । अत एव नाभावपदवैयर्थ्याशङ्कापि । स्मरणे व्यभिचार इति प्रमापदं तच्चानुभवमात्रपरम् भ्रमेऽपि साध्यम् ॥ २० ॥ मकरन्दः । एतच्चानुमित्याद्यंशे सिद्धसाधनवारणाय । घटादिप्रमांशे तद्वारणायाभावेति । स्मृत्यंशे बाधवारणायाह प्रमेति । अनुपलब्धधा अर्थन्तरादाह भावेति । शरीरादिनाऽर्थान्तरादाह असाधारणेति । प्रतियोगिज्ञादिनाऽर्थान्तरादाह करणेति । अनुभवकरणेत्यर्थः । अन्यथा पक्षे हेतौ च प्रमात्वपर्य्यन्तस्य वैयर्थ्यापत्तेः । यदि न कारणेति पाठः, तदाऽपि तत्रैव तात्पर्य्यम् । ईश्वरप्रमायां व्यभिचारादाह अस्मदादीति । सुखाभावप्रमायां व्यभिचारादाह अभावेति । बाह्याभावेत्यर्थः । प्रमापदं स्मृतौ व्यभिचारवारणाय अनुभवपरं, भ्रमेऽपि साध्यसत्त्वात् ॥ २० ॥ ५६ न्या० कु०
An accurate, line-by-line Markdown transcription of the provided Sanskrit text:
३४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २१ कारिकान्याख्यायां यद्धि प्रमाणं यद्भावावगाहि, तत् तदभावावगाहि यथा लिङ्गं शब्दो वा। घटाद्यवगाहि चेन्द्रियमिति। अन्यथा हि शब्दादिकमपि नाऽभावमावेदयेद्, भाव एव सामर्थ्यावधारणात् । न चैवमेव न्याय्यम् । देवदत्तो गेहे नास्तीति शब्दाद्, मया तत्र जिज्ञासमानेनापि न दृष्टो मैत्र इत्यवगतानुपलब्ध्यनुमानादप्यवगतेः। ग्राहयतु वाश्रयमिन्द्रियं, तथापि न तेनेदं व्यवधीयते व्यापारत्वात्, अन्यथा सर्वसविकल्पकानां प्रत्यक्षत्वाय दत्तो जलाञ्जलिः स्यात् । नन्वेवं सति धूमोपलम्भोऽप्यस्य व्यापारः स्यात्, तथा च गतमनुमानेनापीति बोधनी। ज्ञानकारणमिति साध्यमध्याहार्यमभावप्रतियोगिनि घटादौ समर्थत्वात् शब्दलिङ्गादिन्द्रियस्यावान्तर- व्यापारत्वादधिकरणग्रहणेन व्यवधानाभावात् । इदं चाभावग्रहणेऽधिकरणग्रहणस्योपयोगमङ्गी- कृत्योक्तम् , अभावविषयविपर्ययज्ञानहेतूनां दोषाणामिन्द्रियाश्रयत्वात् अघटं भूतलमिति विशिष्टबुद्धे- रिन्द्रियहेतुत्वाच्चेति । तत्रायं व्याचष्टे यद्धि इति । भावग्राहिणः प्रमाणस्य तदभावेऽपि सामर्थ्या- नङ्गीकारेऽनिष्टमाह अन्यथा इति । शब्दादेरप्यभावानापादकत्वमस्त्वित्यत्राह न चैवमेव इति । मैत्रो नास्तीत्याप्तवाक्यान्न दृष्ट इत्याप्तवाक्यावगतानुपलब्धिलिङ्गादपि तदभावावगतेरिति । द्वितीयं विवृणोति ग्राहयत्विति । आश्रयग्रहणव्यापृतमपीन्द्रियमभावबुद्धेः कारणं तस्येन्द्रियावान्तरव्यापार त्वेनतद्व्यवधायकत्वादिति । यद्यवान्तरव्यापारोऽपि व्यवदध्यात् ततः सविकल्पकज्ञानानां प्रत्यक्षत्वं न स्यात् निर्विकल्पकज्ञानव्यवहितत्वादिन्द्रियस्येत्याह अन्यथा इति । यदि व्यवधानेनेन्द्रियमेवाभावज्ञाने कारणं स्यात् तर्ह्यवान्तरव्यापारीकृतधूमज्ञानमिन्द्रियमेवाग्निं ग्राहयेत् , तत्र चाभावप्रमाणवदनुमानमपि दत्तजलाञ्जलि स्यादित्याह ननु इति । तदवान्तरव्या- प्रकाशः। ग्राहकं मानं तदभावग्राहकमपि, यथा लिङ्गाद्यतीन्द्रियभावग्राहकमभावधीकरणमित्यर्थः । ननु प्रति- योगिग्राहकत्वमतन्त्रम् , अनन्यथासिद्धत्वस्योपाधित्वात् । इन्द्रियं त्वाश्रयग्रहे अन्यथासिद्धमित्यत आह व्यापारेति । अभावभ्रमस्य दुष्टकरणजन्यत्वादुपलब्धेश्च स्वरूपतो दुष्टत्वाभावात् पित्ता- दिना दुष्टमिन्द्रियं तत्करणमित्याह अद्येति । किञ्चाधिकरणाभावयोर्विशिष्टधीर्नेन्द्रियजन्या प्रभा- वबुद्धित्वात् , नानुपलब्धिजन्या भावबुद्धित्वात् , नोभयजन्या जातिसङ्करप्रसङ्गादित्यभयग्राहक- मिन्द्रियं मन्तव्यमित्याह विकल्पनादिति ॥ यद्धीति । ननु न व्यक्तिधर्मोऽयं नियमः। भावग्राहकलैङ्गिकादिव्यक्तैरेवाभावग्राहकत्वात् । नाऽपि तज्जातीयं तथा, उपमाने व्यभिचारात् , सुरभि चन्दनमितिवदुपनीताभावभानेन सिद्धसा- धनंच । मैवम् । चक्षुष्टादिकमभावग्राहकवृत्ति, भावग्राहकवृत्तिजातित्वात् शब्दत्ववत् । उपमान- त्वञ्च न जातिः, योगजधर्मजन्यजन्यस्वविषयकसविकल्पकाजन्य-सामान्यलक्षणप्रत्यासत्त्यजन्य- जन्याभावप्रमित्यसाधारणकारणतावच्छेदकं चात्र साध्यं विवक्षितमिति नोपनीताऽभावभानेन सिद्ध- साधनमित्याशयात् । अन्यथेति । इन्द्रियस्य निर्विकल्पकेनान्यथासिद्धेरित्यर्थः ॥ नन्वेवमिति । वह्नयनुमितावपि धूमज्ञानं चक्षुषो व्यापार एवेति नानुमानसम्भव इत्यर्थः । प्रकाशिका । चक्षुष्टादिकमिति । लिङ्गविधया चक्षुषोऽप्यभावकारणतया सिद्धसाधनं माभूदिति कारणताव- च्छेदकत्वपर्यन्तं साध्यम् । न च गत्वे व्यभिचारः, गकारस्यापि क्वापि गत्कत्वादिति वाच्यम् । न पद- साहित्येन तस्यापि भावग्राहकत्या साध्यंसत्वात् । योगजेति । हेतावपि जातिपदं कारणतावच्छेदक- मकरन्दः। चक्षुष्टादिकमित्यनुमानमन्यञ्च सर्वं प्रत्यक्षप्रकाशे विपश्चितम् ॥ २१ ॥
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४३ चेन्न । यथा क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव व्यापारत्वात्। न च धूमाद्युपलब्धिमन्तरेण चक्षुषो वह्निज्ञानकारणत्वं न निर्वहति, संयोगवदिति । अस्ति च भावाभावविपर्ययः । सोऽयं यस्य दोषमनुविधत्ते, तदेवेवात्र करण- मिति न्याय्यम् । न चानुपलब्धिः स्वभावतो दुष्टा, नाप्यधिकग्रहणप्रतियोगिस्मरणं वा स्वभावतो दुष्टम् । अनुत्पत्तिदशायामनुत्पत्तेरुत्पत्तिदशायाञ्च स्वार्थप्रकाशन- स्वभावतया अपराद्वृत्तेः । असंस्पृष्टयोरधिकरणप्रतियोगिनोः संस्पृष्टतया प्रतिभानं दुष्टम्, संस्पृष्टयोश्वासंस्पृष्टयेति चेत् । नन्वेवमेव विपर्ययः । तथा च आत्मा- श्रयो दोषः । तस्माद् दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्ये अदुष्टस्य तत्समीचीनज्ञान- सामर्थ्यमपि । तथा च प्रयोगः—इन्द्रियमभावप्रमाकरणं, तद्विपर्ययकरणत्वात्, यद् यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमाकरणं चक्षुरिति । बोधनी । पारलक्षणमपि दृष्टोपवलिगतमित्याह न इति । न हि यद्येन जन्यते तत्सर्वं तस्य व्यापारः, किन्तु येन विना यस्य यदुत्पादनं न संभवति स एव तस्य कारणस्य तस्मिन् कार्ये जनयितव्येऽवान्तर- व्यापारः । न च वह्निसंयोगमन्तरेणैव धूमोपलम्भमन्तरेण चक्षुर्न वह्निज्ञानमुत्पादयति पुरोवर्तिनि वह्नौ तमन्तरेणैव तदुत्पादनदर्शनादिति । तृतीयं विवृणोति अस्ति च इति । अस्ति तावद्विद्यमान एव वस्तुनि नास्तीति विपर्ययात्मं- कोऽभावप्रत्ययः यस्मिन् दुष्टे सति भवति तदेवाद्दुष्टं समीचीनाभावज्ञानकारणं भवितुं युक्तमिति । ततः किमायातमिन्द्रियकरणत्वस्येत्यत्राह न च इति । न तावदनुपलब्धेरभावात्मिकाया दोषाश्रयत्वं संभवति । न चाधिकरणग्रहणस्य प्रतियोगिस्मरणस्य वा स्वगतो दोषः संभवति । कार्यप्रतिबन्धको हि दोषः, तयोस्तावदुत्पन्नयोरर्थप्रकाशात्मनः कार्यस्य केनापि प्रतिबन्धाग्रोगात् अनुत्पन्नयोश्च कार्याभावस्य स्वभावानिवन्धनत्वेन दोषानधीनत्वात्तस्मादिन्द्रियदोषादेवाभावविपर्यय इति शिष्यत इति भावः । दुष्टं हेत्वन्तरमाशङ्कते असंस्पृष्टयोरिति । अभावे भावविपर्ययो दृष्टान्तार्थ इति । नन्वेवम् इति । तथा प्रतिभानमेव विपर्ययो न त्वन्यस्तावत्साध्यः, तथा च ततो विपर्ययोत्पत्तौ विपर्ययादेव विपर्यय इति स्यादिति परिशेषसिद्धमुपसंहरति तस्मात् इति । उक्तमर्थं प्रयोगमा- रोपयति तथा च इति । प्रकाशः । क्रियया व्यापारेणेत्यर्थः । संयोगवदिति, व्यतिरेकदृष्टान्तः । यथा संयोगं व्यापारं विना चक्षुषो वह्निशाक्षात्कारकरणत्वं न निर्वहति, न तथा धूमपरामर्शं विनेत्यर्थः । न च वह्निज्ञानमात्रे तस्य व्यापारत्वाभावेऽपि वह्न्यनुमितौ व्यापारत्वं स्यादिति वाच्यम् । शाब्दलिङ्गपरामर्शादपि वह्न्यनु- मानादिति भावः । न चेति । न चानुपलब्धेर्लिङ्गाभासादिवद् दोषस्वभावत्वाभावेऽपि पित्तादि- दोषसाहित्यमेवेन्द्रियस्येव दुष्टत्वं स्यादिति वाच्यम् । लिङ्गाभासाद्यजन्यभ्रमत्वेन इन्द्रियकरणकत्वा- नुमानादित्यर्थात् । अनुत्पत्तीति । अधिकरणादिज्ञानाभावकाले स्वाभावादेव दुष्टत्वाभावात्, तदुत्पत्तिक्राले तु स्वार्थविषयत्वमवावितमेवेत्यर्थः । आत्माश्रय इति । दोषाद् भ्रमो भ्रमस्यैव दोषत्वमिति तस्मादेव स स्यादित्यात्माश्रय इत्यर्थः ॥ तद्विपर्य्येयेति । न च यद् यद्विपर्ययजनकं तत्तत्प्रमांजनकमिति पित्तादिदोषेऽनैकान्तिकम् । इन्द्रियत्वेन दोषान्यत्वेन वा हेतुविशेषणात् । किं प्रकाशिका । जातिपरमित्यवधेयम् । इन्द्रियत्वेनेति । अत्र प्रमास्वरूपयोग्यत्वं साध्यमतो न फलानुपहितव्यक्तौ
४४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २१ कारिकाव्याख्यायां विकल्पनात् खल्वपि । अघटं भूतलमिवि हि विशिष्टधीरवश्यमिन्द्रियकरणिका स्वीकर्त्तव्या प्रमाणान्तरं वा सप्तममास्थेयम् । यथा हि विशेष्यमात्रोपक्षीणमिन्द्रि- यमकरणमत्र, तथा विशेषणमात्रोपक्षीणा अनुपलब्धिरपि न करणं स्यात् । स्वस्व- विषयमात्रप्रवृत्तयोः प्रमाणयोः समाहारः कारणमिति चेन्न । विषयभेदे फलवैजात्ये च तदनुपपत्तेः । न हि मृत्सु तन्तुषु च व्याप्रीयमाणयोः कुलालकुविन्दयोः समा- हारः स्यात् । नापि घटपटादिकारिणां चक्रवेमादीनां समाहारः क्वचिदुपयुज्यते । तत्र कर्तुरकार्याभावान्न तथा, प्रकृते तु विशिष्टप्रत्ययस्य परोक्षापरोक्षरूपस्य दर्शनात्तथेति चेन्न । विरुद्धजातिसमावेशाभावात् । भावे वा करम्बित एव कार्ये द्वयोरपि शक्तिरभ्युपगन्तव्या दर्शनबलात्, न हि नियतविषयेण सामर्थ्येन कर्तु- रकार्यसिद्धिः । अन्यत्रापि तथा प्रसङ्गात् । ननूभयोरप्युभयत्र सामर्थ्ये कोऽर्थो मिथःसन्निधानेनेति चेन्न । तत्सहितस्यैव तस्य तत्र सामर्थ्यादिति । एतेन सुरभि बोधनी । चतुर्थं हेतुं व्याचष्टे विकल्पनात् इति । नन्विन्द्रियस्य विशेष्यभूतभूतलोपक्षेप्याभावप्रमाणेन विशिष्टधीः सेत्स्यति किं समेनेत्याह यथा हि इति । अत्र इति । अघटं भूतलमिवि विशिष्टबुद्धा- विर्त्यर्थः । ननु प्रत्येकसामर्थ्ये तयोः समाहारः कारणमस्तु न तु सप्तमस्यावकाश इत्याह स्वस्व- विषय इति । न इति । भावाभावरूपविषयभेदे परोक्षापरोक्षलक्षणफलवैजात्ये च सति येनेन्द्रिया- नुपलब्ध्योः समाहारः संभवतीति विषयभेदे फलवैजात्ये च समाहाराभावमेवोदाहरणेन दर्शयति न हि इति । ननु तत्रोदाहरणे कर्बुरस्य घटपटात्मकस्य कार्यस्याभावान्समाहाराभावः न तु विषय- भेदात्फलवैजात्याद्वा, इह त्वभावविशिष्टभावविषयस्यानुपलब्धीन्द्रिययोर्युगपत्परोक्षापरोक्षात्मनः प्रत्ययस्य दर्शनाद्युक्तः समाहार इत्याह तत्र इति । न इति । न हि मिथोविरुद्धे परोक्षापरोक्षत्वे एकत्र ज्ञाने समाविशत इति दर्शनबलात्समावेक्षाङ्गीकारे तत्र विशिष्टकार्येऽनुपलब्धेरिन्द्रियत्वद्वयो- रपि शक्तिरङ्गीकार्या, तदा च प्रत्यभिज्ञानवत् प्रत्यक्षफलमेव ज्ञानं भवेदिति भावः । ननु स्वस्वविष- यमात्रपर्यवसितयोरेव समाहारः कारणमस्तु किं शक्त्यन्तरकल्पनयेत्याह न हि इति । प्रत्यभि- ज्ञादावपि नियतविषययोरेव संस्कारेन्द्रिययोः समाहारादेव सिद्धेरिन्द्रियशक्तिकल्पनं न स्यादिति । नन्वनुपलब्धीन्द्रिययोः प्रत्येकं भावाभावविषयशक्त्यभ्युपगमेऽन्यतरेणैव विशिष्टधीसिद्धेः किं परस्प- रसाहित्येनेत्याह ननु इति । न इति । अनुपलब्धिसहितस्यैवेन्द्रियस्य तत्र शक्तिर्न केवलस्य, न चान्यसाहित्येनेन्द्रियकत्वविरोधः प्रत्यभिज्ञानादिवदिति । सुरभि चन्दनमित्यादिप्रत्ययेष्विवात्रापि समाहारः कारणं स्यादित्याशङ्कयाह एतेन इति । अन्यसहितस्येन्द्रियस्य विशिष्टधीहेतुत्वप्रतिपा- प्रकाशः । प्रमाणयोः समाहारः, समाहृतयोर्वा प्रामाण्यम् ? तत्र नाद्य इत्याह विषयभेदे इति । भिन्न- भिन्नप्रमाजनकत्वेन तयोः पर्यवसितयोः प्रमान्तरजनकत्वानुपपत्तेरित्यर्थः । विषयभेदफलभेदयोः क्रमेण समाहाराभावमुदाहरति न हीति । तत्रेति । इन्द्रियजन्यत्वेन साक्षात्कारित्वे सत्यनुप- लब्धिकरणकत्वेन परोक्षत्वे कर्बुरत्वमित्यर्थः । अन्त्ये त्वभावज्ञानेऽपीन्द्रियस्य सामर्थ्यं सिद्धमि- त्याह भावे चेति । अन्यत्रापीति । घटपटसामग्रीतोऽपि करम्बितकार्यं स्यादित्यर्थः ॥ एतेनेति । घ्राणजसौरभज्ञानसहकृतेन चक्षुषा सुरभि चन्दनमिति ज्ञानं सौरभविशेषणकं प्रकाशिका । व्यभिचारः । भिन्नभिन्नेति । अन्यथा जातिसङ्करापत्तेरिति भावः । घ्राणजेति । तथा च न
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४५ चन्दनमित्यादयो व्याख्याताः । तथाचाभावविप्रषेऽपोन्द्रियसामर्थ्यस्य दुरपह्नवत्वा- दलमसद्ग्रहहेतेरिति ॥ २१ ॥ स्यादेतत्, नागृहीते विशेषणे विशिष्टबुद्धिरुदेति, तत्कार्यत्वात् । न च विशिष्टसामर्थ्ये केवलविशेषणेऽपि सामर्थ्यं, केवलसौरभेऽपि चक्षुषो वृत्तिप्रस- ङ्गात् । अतोऽभावविशेषणग्रहणाय मानान्तरसम्भवः । अपि च कथमनालोचितोऽर्थ इन्द्रियेण विकल्प्येत ? । न च मानान्तरस्या- प्येषा रीतिः । अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात् । अप्राप्तेश्च । न ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति । न च विशेषणत्वं, सम्बन्धन्तरपूर्वक- बोधिनी । दनेन तेऽपि प्रत्यया गन्धज्ञानसहकृतया त्वचा वा चक्षुषा वा जायन्ते न त्विन्द्रियसमाहारेणेति व्याख्यात इति । एवमुक्तप्रकारेण विशिष्टज्ञान इवेन्द्रियस्याभावेऽपि सामर्थ्यमवर्जनीयमित्युपसंहरति तथा च इति ॥ २१ ॥ अथानुपपत्तितुष्टयेनाभावप्रत्यक्षत्वं पूर्वपक्षी प्रतिक्षिपति स्यादेतत् इति । अघटं भूतलमिवि विशिष्टबुद्धेः पूर्वमेव विशेषणस्याभावस्य ग्रहणं वक्तव्यं विशेषणग्रहणकार्यत्वात् विशिष्टबुद्धेर्न च विशिष्टे सामर्थ्यमस्तीति विशेषणेऽपीन्द्रियस्य सामर्थ्यमतिप्रसङ्गात् , तस्मादभावात्मनो विशेषणस्य ग्रहणाय षष्ठं प्रमाणमास्थेयम् । यदि वा भाव ऐन्द्रियकः सविकल्पको ग्राह्यः, ततो निर्विकल्पकेनासौ पूर्वं ग्रहीतव्यः निर्विकल्पपूर्वकत्वात् विकल्पस्य । न चाभावे निर्विकल्पकसंभवः प्रतियोग्यवच्छेदेनैव तस्य स्फुरणात् । न च षष्ठप्रमाणवादिनोऽप्ययं प्रसङ्गः ऐन्द्रियकविकल्पस्यैव तत्पूर्वकत्वनियमात् । न चाभावस्येन्द्रियेण प्राप्तिः संभवति संयोगादीनां भावधर्मत्वात् , विशेषणविशेष्यभावलक्षणस्य च संबन्धस्य संयोगसमवायादिसम्बन्धान्तरपूर्वकत्वेनैव दण्डिनीलोत्पलादिषु दृष्टत्वात् । किंच अभावप्रत्यक्षत्ववादिनापि प्रतियोगिनोऽनुपलब्धिरवश्यमिन्द्रियसहकारित्वेनाप्यङ्गीकर्त्तव्या, तथा चोभयसिद्धा सैवाभावज्ञानहेतुरस्त्विति । प्रकाशः । चन्दनविशेष्यकं जन्यते, चन्दनसौरभमिति ज्ञानं चक्षुरुपनीतचन्दनविशेषणकं सौरभविशेष्यकं घ्राणेन जन्यते, यदिन्द्रियजन्यं यज्ज्ञानं तत्तदिन्द्रिययोग्यविशेष्यकमिति व्याप्तेरित्यर्थः ॥ २१ ॥ ननु घटाभाववद्भूतलमित्यपि धीरनुपलब्ध्युपनीताभावविशिष्टबुद्धिरिन्द्रियेण जन्यते, तथाच विशिष्टज्ञानस्यैन्द्रियकत्वेऽपि विशेषणज्ञानायानुपलब्धिर्मानान्तरं सौरभज्ञानाय घ्राणमिवेत्याह- नागृहीतेति । प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वेन व्याप्तेर्नाभावे सविकल्पकैकवेद्ये तदस्तीति नाभावज्ञानं प्रत्यक्षमित्याह अपि चेति । अनुपलब्धिजन्याभावज्ञाने तु न तज्जन्यत्व- मसाक्षात्कारित्वाच्छब्दादाविवैत्याह न चेति । अप्राप्तेश्चेति । इन्द्रियाणां प्राप्यार्थग्राहकत्वाद्वि- त्यर्थः । न च तत एव संयोगादिवाधेनैहैव विशेषणताप्राप्तिः कल्प्येत्याह न चेति । विशेषण- तायाः समवायादिसम्बन्धान्तरव्याप्तत्वात्तद्वाधे विशेषणत्वस्यापि बाधादित्यर्थः । सम्बन्धस्य सम्बन्धिभिन्नत्वनियमेण ग्राह्यस्वरूपस्यासम्बन्धत्वनिश्चयात् समवायानानभ्युपगमेनान्यत्र तदकल्प- नाच्च । न चाभावस्येन्द्रियग्राह्यत्वसिद्धाविहैव तत्कल्पनम् । विशेषणताकल्पने सत्यभावः प्रत्यक्षः, तत्सिद्धौ च तत्कल्पनमित्यन्योन्याश्रयादिति भावः । एवमभावबुद्धौ इन्द्रियाणां करणत्वं निरस्या- प्रकाशिका । तत्रापि प्रमाणसमाहार इति भावः । यदिन्द्रियेति । बहिरिन्द्रियजन्ये चायं नियम इत्यवधेयम् ॥ ननु समवायस्थल एव विशेषणता कॢप्तेत्यत आह समवायेति । समवायस्य तत्तत्प्रत्य-
४४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २२ कारिकान्याख्याया- त्वात् तस्य । अवश्यमभ्युपगन्तव्यत्वाच्चानुपलब्धेः, न हि तदुपलब्धौ तस्याभा- वोपलम्भ इति चेत् । उच्यते— अवच्छेदग्रहध्रौव्यादध्रौव्ये सिद्धसाधनात् ॥ प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः ॥ २२ ॥ स ह्यर्थविशेषणीभविष्यन् केवलोऽपि विस्फुरेद् यस्यावच्छेदकज्ञानं न व्यञ्ज- बोधनी । समाधत्ते उच्यते इति । अवच्छिद्यतेऽनेनेति अवच्छेदः प्रतियोगी, तद्ग्रहणस्याभाव- निरूपणोऽवश्यंभावः । प्रतियोगिनिरूपणाधीननिरूपणोऽभाव इति यावत् । तस्माद्विशेषणत्वे- ऽपि न केवलस्याभावस्य पूर्वग्रहणं, नापि विकल्पवेद्यत्वेऽपि पूर्वमालोचनमास्थेयम् । एतदुक्तं भवति—न हि पूर्वग्रहणे विशेषणत्वं प्रयोजकं, नाप्यालोचनीयत्वेन विकल्पवेद्यत्वं किन्तु प्रतियोगि- निरपेक्षनिरूपणीयत्वं ज्ञानसमवायादौ तथावसायात् । अथाभावज्ञानस्यावच्छेदग्रहो ध्रुवो नाङ्गीक्रियेत तर्हि केवलस्याभावस्य पूर्वग्रहणमालोचनं च को नाम नाङ्गीकुर्यात् । विशेषणविशेष्यरूपस्य संबन्धस्य संबन्धान्तरपूर्वकत्वनियमाभ्युपगमे च संबन्धान्तरस्यापि सम्बन्धपूर्वकत्वप्रसङ्गेऽनवस्था- प्रसङ्गः । न चेदयमस्मदुक्तप्रकारोऽङ्गीक्रियेत ततः प्रमाणान्तरपक्षोऽपि दुर्घटः स्यादिति । तत्राद्यचो- द्योत्तरतयाद्यं पदं व्याचष्टे स हि इति । एषां हि दण्डकुण्डलादीनामर्थानाम् अर्थान्तरज्ञाननिरपेक्षैः स्वविषयैरेव ज्ञानैरितरेतरव्यवच्छेदः सिद्ध्यति, त एव विशेषणीभवन्तः केवला अपि स्फुरेयुः । येषां तु ज्ञानसमवायाभावादीनां स्वस्वगोचरं ज्ञानव्यञ्जकमात्रं न तु व्यवच्छेदकं, न हि ते प्रतियो- गिज्ञाननिरपेक्षैरेव स्वविषयज्ञानैः स्वेतरव्यवच्छिन्नाः प्रतीयन्ते तेषां केवलस्फुरणमन्तरेणैव प्रकाशः । नुपलब्धेः करणत्वमनन्यगतिकतयोपपादयति अवश्येति । शुक्तौ रजतानुपलब्धेरभावादिनिन्द्रियसंब- द्धस्यापि रजताभावस्याग्रहेणावश्यकत्वादित्यर्थः ॥ विशिष्टज्ञानमात्रस्य न विशेषणज्ञानजन्यत्वनियमः, अवच्छेदग्रहानियतज्ञानविषयत्व- स्योपाधित्वादित्याह अवच्छेदेति । ध्रौव्यं नियमः । अभावत्वेन अभावज्ञानस्य प्रतियोग्या- दिज्ञानजन्यतया विशिष्टज्ञानसामग्र्यस्त्येवेति न केवलमभावो भासते, अतो न निर्विकल्पकविषय इत्यर्थः । अथाभावज्ञानं प्रतियोग्यादिज्ञानानपेक्षं, तर्ह्यभावोऽपि निर्विकल्पकविषय एवेति सिद्धसाध- नमित्याह अध्रौव्ये इति । अभावंश्च सम्बन्धन्तरं विनाऽपि स्वरूपेणैव विशेषणं, सम्बन्धन्तर- सत्त्वे तत्रापि तत्कल्पनादनवस्थापत्तेः । यदि च नैवं, तदा त्वन्मतेऽपि वक्ष्यमाणो दोष इत्याह प्राप्त्यन्तरे इति ॥ स हीति । अवच्छेदकस्य प्रतियोग्यादेर्विशेषणस्य जन्यज्ञानं विना यत्र विशिष्टज्ञानसामग्री प्रथमतोन भवति, स एवार्थोऽग्रे विशिष्टज्ञानविषयः पूर्वं निर्विकल्पकविषय इति विपयमुखी व्याप्ति- प्रकाशिका । क्षत्वस्य चानभ्युपगमनेत्यर्थः । विशिष्टज्ञानमात्रस्येति । विशिष्टप्रत्यक्षमात्रस्य न विशे- षणनिर्विकल्पजन्यत्वनियम इत्यर्थः । अवच्छेदग्रहेति । अवच्छेदग्रहनियतं ज्ञानं यस्य तन्मात्र- विषयकत्वस्येत्यर्थः । अभावत्वेनेति । सामान्याप्रकारकाभावज्ञानस्येत्यर्थः । तेन प्रकृतसंगतत्वम् । अवच्छेदकस्येति । विशेषणज्ञानाभावेन विशिष्टज्ञानसामग्रीविरहेऽपि यत्र ज्ञानसामान्यसामग्री तत्रैव निर्विकल्पकमित्यर्थः । पौनरुक्त्यं परिहरति विपयमुखीति । विशेष्येति । ययोक्त- मकरन्दः । विशिष्टज्ञानमात्रस्येति । विशिष्टप्रत्यक्षमात्रस्य न विशेषणनिर्विकल्पकजन्यत्वनियम इत्यर्थः ।
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ५४७ कम् । स च विकल्पयितव्य आलोच्यते, यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञा- प्यते । यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव सामर्थ्यान्नायं विधिः । स्वभावप्राप्तौ सत्यामप्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपा- दावभ्युपगता, इह त्वनवस्थादुःस्थतया न तदभ्युपगमो, न तु स्वभावप्रत्यासत्ति- रेतावत्तैव विफलायते । न चेदेवं, प्रमाणान्तरेऽपि सर्वमेतद् दुर्घटं स्यात् । तथाहि— बोधनी । विशिष्टज्ञानगोचरत्वमिति द्वितीयस्यापि चोद्यस्य तमेवोत्तरतया व्याचष्टे स च विकल्पयितव्य इति । तैरेव विकल्पवेद्यैः भवद्भिः पूर्वमालोचनविषयैर्भवितव्यं ये प्रतियोगिनिरपेक्षैरेवेन्द्रियैः ज्ञाप्यन्ते यथा घटादयः, ये तु प्रतियोगिज्ञानपुरःसरमेव जायन्ते यथा ज्ञानादयः तेषां निर्विकल्पक- वेद्यत्वासंभवात् न तत्पूर्वकत्वमिति । अथ पाठक्रममनादृत्यार्थक्रमेण द्वितीयं पादमवसरे व्याख्यास्यंस्तृतीयचोद्योत्तरतया तृतीयं व्याचष्टे स्वभावेति ॥ स्वाभाविके हि विशेषणविशेष्ये सम्बन्धे सत्यपि रूपा- दिष्वधिकः समवायादिसम्बन्धो दृष्टत्वादेव स्वीक्रियते, तद्धेतुकत्वेनाभावे तु स्वभावतः प्राप्तिरस्ति न च सम्बन्धान्तरं दृश्यत इति भावः । तथापि तदभ्युपगमोऽनवस्थादुस्थ इत्याह इह तु इति ॥ एतावता संबन्धान्तराभावमात्रेणेति तुरीयं पादं व्याचष्टे न चेदेवम् इति । दौर्घट्यमेवाह तथाहि इति । प्रत्यक्षं साक्षादनुमानादीनि तु परम्परया निर्विकल्पकपूर्वकाणि प्रकाशः । रित्यर्थः । स चेति । जन्यविशेषणज्ञानासत्कृतेन्द्रियजन्यज्ञानगोचरत्वं निर्विकल्पकप्रयोजकमिति प्रमाणमुखी व्याप्तिरित्यर्थः । अभावस्तु प्रतियोग्यादिविशेषणज्ञाननियतज्ञानविषयत्वेन विशिष्टज्ञाने- कविषयत्वान्न तथेत्याह यस्त्विति । प्राप्त्यन्तरे इति व्याचष्टे स्वभावेति । यद्यपि घटे रूप- समवाय इति नानुभवः, तथापि रूपादेः प्रत्यक्षत्वेनेन्द्रियसन्निकर्षाश्रयत्वात् संयोगावाधेनेन्द्रियसम्ब- न्धघटकतया संयुक्तसमवायादिकल्पनादित्यर्थः । ननु ज्ञानघटयोरिव द्रव्येण रूपादिभिः स्वरूपस- म्बन्धे नार्थान्तरम् , इन्द्रियसंयुक्तविशेषणतयैव रूपादिभानोपपत्तेः । मैवम् । सम्बन्धानुमितौ हि न स्वरूपसम्बन्धो विषयः, तत्स्वरूपाणामनन्तत्वेन गौरवात् , किन्तु पक्षधर्मतावलादेक एव सम्ब- न्धस्तद्विषयो लाघवादिति भावः । इह त्विति । यद्यपि सम्बन्धद्वयसिद्धौ नानवस्था, तथात्वे वा समवायोऽपि न स्यादनवस्थाऽऽपादकत्वात् , तथाप्याभावो यद्यतिरिक्तसम्बन्धवान् स्यात् सत्तावान् स्यादित्यव्यवस्थैवानवस्थेत्यर्थः । इन्द्रियञ्च नाप्राप्तग्राहकमिति संयोगादिवाधेनैहैव तत्प्राप्तिर्विशेष- णता कल्प्येति भावः ॥ प्रमाणान्तरेऽपीति । अनुपलब्ध्याख्यमानान्तरस्वीकारेऽपीत्यर्थः । निर्वि- प्रकाशिका । ज्ञानगोचरमात्रगोचरत्वनिर्विकल्पकजन्यत्वं प्रयोजकमित्यर्थः । घटे रूपसमवाय इति । सर्वसिद्ध इति शेषः । सम्बन्धघटकतयेति । सम्बन्ध्ररूपतयेत्यर्थः । तथात्व इति । अनवस्थामूलत्वेन द्वितीयसमवायत्याग इत्यर्थः । सत्तावानिति भावः स्यादित्यर्थः । तेन न सामान्यविशेषाभ्यां व्यभि- चारः, तदुभयभिन्नत्वेनापादकविशेषणाद्वा संयोगादिवाधेनेति । अद्रव्यत्वेन संयोगावाधात् ध्वंसस्य समवायिकारणनाशान्नाशप्रसङ्गेन च समवायवाधादित्यर्थः । निर्विकल्पकविश्रान्तत्वं यदि साक्षात्कारप- मकरन्दः । सम्बन्धघटकतयेति । सम्बन्ध्रूपतयेत्यर्थः । सत्तावानिति । न च सामान्यविशेषाभ्यां व्यभिचारः, तद्भिन्नतवे सतीत्यापादकविशेषणात् । वस्तुतो भावः स्यादित्यर्थः, तेन नोक्तदोषः । ननु साक्षात्कारत्वावच्छिन्नमालोचनपूर्वकंऽनुमानादिवदभावज्ञानेऽप्यस्त्येव, तद्धेतुप्रतियोग्यादिज्ञानस्य
४५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २२ कारिकान्याख्या- सर्वमेव मानं साक्षात्परम्परया वा निर्विकल्पकविश्रान्तम् । न ह्यनुमानादिकमप्य- नालोचनपूर्वकम् । ततोऽनालोचितोऽभावः कथमनुपलब्ध्याऽपि विकल्प्येत । न च तया तदालोचनमेव जन्यते, प्रतियोग्यनवच्छिन्नस्य तस्य निरूपयितुमशक्यत्वात्, शक्यत्वे वा किमपराद्धमिन्द्रियेण । तथा सम्बन्धन्तरगर्भत्वनियमेन विशेषण- त्वस्य, मानान्तरेऽपि कः प्रतीकारः ? तदभावस्य तदानीमपि समानत्वात् । परस्य तादात्म्यमस्तीति चेत् । ननु यद्यसावस्ति, अस्त्येव, न चेन्नैव । न ह्यभ्युपगमेनार्थाः क्रियन्ते, अनभ्युपगमेन वा निवर्त्तन्ते इति । अवश्यमभ्युपगन्तव्यत्वे कारणत्वं सिद्धयेद्, न तु मानान्तरत्वम् । अन्यथा भावोपलम्भेऽप्यभावानुपलब्धिरेव प्रमाणं स्याद्, नेन्द्रियम् । अभावोपलम्भे भावानुपलम्भवद् भावोपलम्भे अभावानुपलम्भ- स्यापि वज्रलेपायमानत्वादिति ॥ २२ ॥ बोधनी । तेषां प्रत्यक्षपूर्वकत्वात् तस्य च निर्विकल्पकपूर्वकत्वादिति ॥ यतः सर्वस्यापि प्रमाणस्यायं स्वभावः तस्मादनुपलब्ध्या प्रमाणान्तरभूतयाप्यालोचितपूर्व एवाभावो विकल्पनीय इत्याह तत इति । अस्तु तर्ह्यनुपलब्ध्यैवालोचनमित्याह न च इति । आलोचनविषयत्वसंभवे चाभावस्यास्माकमपीन्द्रियेण तदालोचनं भविष्यतीत्याह शक्यत्वे वा इति । एतेन द्वितीयः पादो व्याख्यातः । परेणापि प्रमाणेनाभावः कस्यचिद्विशेषणत्वेन वा ग्राह्यः, ततश्च सम्बन्धन्तरपूर्वकत्वनियमे विशेषणविशेष्यभा- वस्यानवस्थाप्रसङ्गत्वपि तुल्य इत्याह तदभावस्य इति । ननु संयोगाद्यभावेऽपि तादात्म्यात्मक- सम्बन्धन्तरमभ्युपगम्यते भाट्टैस्ततो न तुल्यत्वमित्याह परस्य इति । यदि हि तादात्म्यं प्रमाण- तोऽस्ति ततोऽस्तीति स्यात् न चैवं प्रमाणाभावादित्याशयेनाह ननु इति । नन्वस्माभिस्तथाचेदेतद- भ्युपगम्यत इत्यत्राह न हि इति । न ह्यभ्युपगमसदभावमात्राभ्यां वस्तुनः सदसत्त्वसिद्धिरिति । यत्त्ववश्याभ्युपगन्तव्यत्वादनुपलब्धेः सैव प्रमाणमस्त्विति तत्राह अवश्येति । यदावश्याभ्युप- गम्यत्वमात्रेणानुपलब्धेः प्रमाणान्तरत्वमपि सिद्धयेत् तर्हि भावोपलम्भेऽपि तदभावानुपलब्धिरेव प्रमाणं भवेत् भावोपलम्भसमयेऽभावानुपलब्धेरवर्जनीयत्वादित्याह अन्यथा इति ॥ २२ ॥ प्रकाशः । कल्पकेति । प्रमाणविषयत्वं निर्कल्पकविषयत्वव्याप्यमित्यर्थः । तदभावस्य सम्बन्धन्तराभावस्य । तदानीमपि मानान्तरस्वीकारेऽपि । परस्येति । भट्टानामधिकरणे विशेषणत्वं नाभावस्य, किन्तु तादात्म्यमित्यर्थः । भावाभावयोर्विरोधान्न तादात्म्यं, तथात्वे वा संयोगादिनेवाभावग्रहः स्यादित्या- शयेनाह नन्विति । यद्यभावोऽस्ति तदा विशेषणत्वमस्त्येवेत्यर्थः । अवश्यमभ्युपगन्तव्यत्वादि- त्यत्राह अवश्येति । अन्यथेति । अभावज्ञाने यथा भावोपलम्भः प्रतिबन्धकस्तथा भावज्ञानेऽप्य- प्रकाशिका । रम्परासाधारणनिर्विकल्पकप्रयोज्यत्वमुच्यते तदभावज्ञाने(१)ऽस्त्येवेति प्रत्यक्षविषय इत्यपीति भावः । लिङ्गासङ्गतेराह यद्यभावोस्तीति । अभावत्वे च संयोगादिनेव ग्रहापत्तेरुक्तत्वादिति भावः । अभावोपलम्भः प्रतिबन्धक इत्यनन्तरमिति तदभाव एव प्रमाणमिति शेषः । इयञ्च युक्तिरसमी- मकरन्दः । तत्पूर्वकत्वनियमादिति परस्य नानिष्टमित्यत आह प्रमाणविषयत्वमिति । तथा चाप्रयोजकत्वादिना यथा नेयं व्याप्तिस्तथा प्रत्यक्षविशिष्टज्ञानस्य निर्विकल्पकजन्यत्वव्याप्तिरपीति भावः । लिङ्गासङ्गतेराह यद्यभावोऽस्तीति । भावरूपत्वे च तस्य संयोगादिनैव ग्रहापत्तेरित्युक्तत्वादिति भावः । तथेति । (१) प्रतियोग्यादिनिर्विकल्पप्रायोज्यत्वादिति प्रकृतेऽनिष्टमत आह प्रमाणविषयत्वमिति । तथा- चेयं व्याप्तिरप्रयोजिका तथा निर्विकल्पकविषय एव ।
५. पञ्चम स्तबक: कार्यत्व, धृत्यादि नव हेतुक ईश्वर-साधन एवं उपसंहार
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम्। ४४६ प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः प्रायो यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते ॥ तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवं देवानामपि देवमुद्भवदतिश्रद्धाः प्रपद्यामहे ॥ २३ ॥ इति तृतीयः स्तवकः ॥ ३ ॥ बोधनी । अथ परमेश्वरप्रतिपत्तिव्याजेन परिच्छेदार्थमुपसंहरति प्रत्यक्षेति । बाधकत्वेन शङ्किता- नामपि सर्वेषां प्रमाणानां कार्यत्वेनेश्वरायत्तात्मलाभत्वादद्यनुमानस्याश्रयासिद्धेरपि तदधीनत्वादागमस्य च प्रामाण्येऽपि तत्परतन्त्रत्वादुक्तं यन्मुखवीक्षणेति । प्रत्यक्षस्योत्पत्तौ तदपेक्षायामपि प्रामाण्ये तदनपेक्षत्वादुक्तं प्राय इति । तदयमर्थः-एवमीश्वरस्याधरैरर्वाक्प्रवर्त्तमानैस्तमपि विषयीकर्त्तुम- शक्नुवद्भिरिति यावत् । यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते तैः प्रत्यक्षादिभिस्तस्य विरोधो बाधश्च दूरे, तमेवंभूतं सर्वेषां परमपुरुषार्थप्राप्तिहेतुत्वादनुविधेयमेकं समेनाधिकेन वा द्वितीयेन रहितं असमायां स्वच्छन्दतः प्रवणलक्षणायां लीलायामवद्धरतिं परमेश्वरमुद्भवदतिश्रद्धावन्तो वयं प्रपद्यामह इति ॥ २३ ॥ इति श्रीमद्रामदेवमिश्रसूनोर्वरदराजस्य कृतौ कुसुमाञ्जलीटीकायां तृतीयः परिच्छेदः ॥ प्रकाशः। भावोपलम्भः प्रतिबन्धकः स्यादित्यर्थः । एतच्च भावोपलब्धावभावानुपलब्धिः पृष्ठलग्नेवेति व्याच- क्षाणैरस्माभिः परिशिष्टप्रकाशे विप्रञ्चितमिति तत्रैवानुसन्धेयम् ॥ २२ ॥ स्तवकार्थमुपसंहरन्नेवेश्वरन्नतिं निवध्नाति प्रत्यक्षादिभिरिति । यस्येश्वरस्य मुखवीक्षणैक- विधुरैरैभिर्ग्राह्यकमानवाधितैः प्रत्यक्षादिभिर्विरोधोदयोऽधरः । अत एव, दूरे । सर्वमनुविधेयं वश्यं यस्य । असमा चासौ स्वच्छन्दा चेतनान्तराप्रयोज्या या लीला, सैवोत्सवो यस्य, स तथा । दुःखा- भावैकनिदानत्वात् । अत एवोद्भवदतिश्रद्धा वयं, तं देवानामपि देवं स्तुत्यं प्रपद्यामहे इत्यर्थः ॥२३॥ इति श्रीमन्महामहोपाध्यायश्रीवर्धमानविरचिते न्यायकुसुमाञ्जलिप्रकाशे तृतीयः स्तवकः ॥३॥ प्रकाशिका । चीनेत्यत्र प्रतिपादितं मयेत्याह एतच्चेति । तदधिकरणीयाभावोपलम्भाभावस्य तदधिकरणीय- भावग्राहकत्वं वाच्यमन्यथातिप्रसङ्गात् एवं तत्सम्बन्धावच्छिन्नत्वाभावोपलम्भाभावस्य तत्सम्बन्धा- वच्छिन्नभावग्राहकत्वमन्यथातिप्रसङ्गादेव । तथा च निरधिकरणाभावग्रहे निर्विकल्परूपभावग्रहेऽचेन्द्रि- मेव करणं वाच्यमित्यावश्यकत्वादन्यत्रापि तथा, अभावधीस्तु निरधिकरणा निर्विकल्पकरूपा च न सम्भवतीति वैषम्यमिति तस्य तात्पर्यम् ॥ २२-२३ ॥ इति महामहोपाध्याय परनामकमैघ ठक्कुरश्रीभगीरथविरचितायां कुसुमांजलिप्रकाशिकायां तृतीयस्तवकः ॥ मकरन्द । तथा च भावज्ञानेऽप्यभावानुपलब्धिरेव प्रमाणं स्यादिति भावः ॥ २२-२३ ॥ इति महामहोपाध्यायश्रीरुचिदत्तविरचिते कुसुमाञ्जलिमकरन्दे तृतीयः स्तवकः ॥ ५७ न्या० कु०
श्रीगणेशान नमः ॥ न्यायकुसुमाञ्जलौ चतुर्थः स्तबकः ।
ननु सदपीश्वरज्ञानं न प्रमाणं, तल्लक्षणायोगात्, अनधिगतार्थगन्तुस्तथाभा- वात्, अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् । न च नित्यस्य सर्वविषयस्य चानधि- गतार्थता, व्याघातात् । अत्रोच्यते— अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक् ॥ यथार्थानुभवो मानमनपेक्षतयेष्यते ॥ १ ॥ प्रकाशः । सत्त्वेऽपि तस्याप्रमाणत्वादिति चतुर्थीं विप्रतिपत्तिमुत्थापयति नन्विति । गन्तुर्बोधकस्य । अनधिगतार्थगन्तृत्वञ्च फलप्राक्कालिकसमानाधिकरणज्ञानाविषयविषयकत्वम् । वेदो न प्रमाण- मप्रमाऽनुभवमूलकत्वादिति भावः । तदेतल्लक्षणं यथार्थत्वेन विशेषितं, न वा ? आद्ये प्रमाभूतधारावहनबुद्धावव्यापकम्, अन्त्ये च भ्रमेऽतिव्याप्तिरित्याह अव्याप्तेरिति । दृग् दर्शनं, भावपरतया । अनधिगतार्थविषयकत्वं न लक्षणमित्यर्थः । स्वमते प्रमाणलक्षणमाह यथार्थेति । अत्रोक्तदोषाभावादित्यर्थः । ननु यथार्थानुभववद् यथार्थस्मृतिरपि प्रमा किं न स्यात् ? यथार्थत्वस्यैव तन्त्रत्वाद्वानुभवत्वस्य व्यर्थत्वादित्यत आह अनपेक्षतयेति । स्मृतेर्या- प्रकाशिका । कर्तृभ्रमनिरसाय भावपरतामाह गन्तुरिति । ननु पराधिगतेऽपि परस्य ज्ञानमेव प्रमा स्यादत आह फलेति । उत्तरकालीनं तु ज्ञानमादायाव्याप्तिरिति प्राक्कालिकान्तम् । अन्यदीयज्ञानमादा- याव्याप्तिरिति समानाधिकरणेति । ईश्वरज्ञानाप्रमात्वे का क्षतिरत आह वेद इति । यद्यपि भट्टस्येश्वरानङ्गीकारेण हेतोरसिद्धिस्तथापीश्वराङ्गीकारे वेदोऽप्रमानुभवमूलकः स्यात्तथाचाप्रमाणं स्या- दिति तर्करीत्यैतद् द्रष्टव्यम् । भ्रमेऽतिव्याप्तिरिति । अतिव्याप्तिरपीत्यर्थः । भावपरत्वेन धर्मिम- लाभेऽपि न लक्षणलाभ इति दृग्पदस्य ज्ञानत्वपरतामाह अनधिगतार्थविषयकत्वमिति ! न लक्षणं प्रमाणलक्षणम् । प्रमाणेति । प्रमाणलक्षणमित्यर्थः । जन्यानुभवमात्रस्यैव सापेक्षत्वादप्रमात्वापत्तिरत मकरन्दः । ननु पराधिगतेऽर्थे परस्य प्रमोत्पत्तेरनधिगतार्थगन्तृत्वं तत्राव्याप्तमत आह फलेति । उत्तर- कालीनस्वज्ञानमादायाव्याप्तेराह कालिकान्तम् । एतावता किमित्यत आह वेद इति । यद्यप्येवं भट्टस्य स्वतोऽसिद्धिः, तथाप्येवमप्रमाऽनुभवमूलको वेदः स्यात्, तथा चाप्रमाणं स्यादिति तर्कविधयै- तद् द्रष्टव्यम् । प्रमाणेति । प्रमालक्षणमित्यर्थः ॥ टिप्पणी । गन्तुर्बोधकस्येति । अर्थविषयकत्वेन बोधजनकस्येत्यर्थः । अनुव्यवसायं प्रति व्यवसायस्य हेतुत्वात् । अनधिगतार्थगन्तृत्वञ्चेति । अनधिगतार्थे या गतिः प्राप्तिः विषयतात्मकसम्बन्धस्त- त्कर्तृत्वं निरूपकत्वम् । फलप्राक्कालिकेति । अव्यवहितेत्यादिः ।
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५१ न ह्यधिगतेऽर्थे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात्। न चोत्पद्य- मानाऽपि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् । नापि पूर्वावि- विशिष्टतामात्रेणाप्रामाण्यम् । उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात् । तद- नपेक्षत्वेन तु तस्य प्रामाण्ये तदुत्तरस्यापि तथैव स्यादविशेषात् । छिन्ने कुठारा- दीनामिव परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पा- दानुत्पादाभ्यां विशेषात् । तत्फलं प्रमैव न भवति, गृहीतमात्रगोचरत्वात् स्मृति- वदिति चेत्। न। यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् । अनधिगतार्थत्वे प्रकाशः। यार्थ्येऽपि स्वकारणीभूतान्यूनानतिरिक्तविषयानुभवयाथार्थ्यापेक्षा, न त्वनुभवस्येत्यर्थः। अतदधी- नत्वात्- प्रमात्रपेक्षानधीनत्वादित्यर्थः । पूर्वाविशिष्टता पूर्वज्ञानान्यूनानतिरिक्तविषयतेत्यर्थः । यदि चोत्तरज्ञानानपेक्षं पूर्वज्ञानमिति स्वविषये तत् प्रमाणं, तदा पूर्वज्ञानानपेक्षमुत्तरमपि तथेत्याह तदनपेक्षत्वेनेति । यद्यप्युत्तरज्ञानं विशिष्टज्ञानत्वेन विशेषणज्ञानाऽऽत्मकपूर्वज्ञानापेक्षम् , अन्यथा सामग्रीतौल्ये धारावाहिधियां क्रमो न स्यात् । तथापि विशेषणमात्रविषयतया तथा, न विशिष्टवि- षयतयेति भावः । फलोत्पादेति । छिन्ने छिदा न सम्भवति, ज्ञाते तु ज्ञानान्तरं सम्भवत्येवेत्यर्थः । प्रकाशिका। आहान्यूनेति । धारावाहिकबुद्धेरनपेक्षत्वाभावो मा भूदिति स्वकारणीभूतेति । अन्यूनविषय- कत्वेन च कारणत्वं विवक्षितमिति नोक्तदोषः, अनतिरिक्तपदं यद्यस्ति तदप्यविवक्षितार्थम् । न च पूर्वज्ञानप्रामाण्यापेक्षा धारावहनस्थले नोत्तरज्ञान इत्येवानातिप्रसङ्गे किमिति तथा कारणता विवक्षितेति वाच्यम् । तदपेक्षितत्वं हि तन्नियतत्वम्, तच्च तत्राप्यस्त्येव स्मृतावपि तदेव तत्, अनुमितौ लिङ्ग- परामर्शप्रामाण्याधीनप्रामाण्यापातादतिव्याप्तिरित्यतोऽप्यन्यूनपदं समानाधिकरणपदमधिकं प्रवेशनी- यम् । अन्यथा वक्तृयथार्थवाक्यार्थज्ञानाधीनप्रामाण्याधीनप्रामाण्ये शाब्दे ज्ञानेऽतिव्याप्तेरिति । तदा पूर्वज्ञानानपेक्षमिति । अन्यूनविषयकत्वेन पूर्वज्ञानस्याकारणतया निरुक्तापेक्षा नास्तीत्यर्थः। इदमेवाग्रे व्यक्तीकरिष्यति । न विशिष्टविषयतयेति । क्रमो न स्यादिति । यद्यपि विशेषण- मकरन्दः। नन्वेवमनुभवोऽपि प्रमा न स्यात्, तस्यापि विशेषणज्ञानादिसापेक्षत्वादित्यत आह स्वकार- णीभूतेति । एतच्च धारावाहिके तादृशपूर्वज्ञानयाथार्थ्यापेक्षयाथार्थ्यतया उत्तरकालेऽतिव्याप्तिवारणा- यान्यूनानतिरिक्तविषयकत्वेन कारणत्वं विवक्षितम् । तस्य च विशेषणमात्रविषयतया तथात्वमिति नोक्तदोषः । न च तत्सापेक्षमेव याथार्थ्यं तस्येति वाच्यम् । तत्सापेक्षत्वं हि तन्नियतत्वम् , तच्च तत्रापि । स्मृतावपि तदेव तत् । लिङ्गज्ञानयाथार्थ्यापेक्षितवमादायातिव्याप्तिवारणायान्यूनेति । वस्तुतः पूर्वोक्तातिव्याप्तिवारणार्थमपि तत् । अनतिरिक्तपदं चिन्त्यम् , अतएव परिमले नास्तीति । किञ्च स्मृतावपि पूर्वानुभवस्यान्यूनविषयतयैव जनकत्वम् । अतिरिक्तविषयानुभवादपि तदंशे संस्का- रोद्बोधे स्मृतिदर्शनात् । एवञ्च वक्तृवाक्यार्थज्ञानयाथार्थ्यापेक्षित्यमादाय शाब्दानुभवेऽतिव्याप्तिरि- त्यपि चिन्त्यम् । अन्यथेति । यद्यपि विशेषणज्ञानत्वेनैव हेतुत्वम् तथापि क्रमासम्भवः, तथापि फलंबलेन तत्त- द्विशेषणज्ञानत्वेन विशेषसामग्रीत्वमिति क्रम इति भावः । न च स्वरूपसत्क्रमिकक्षणोत्पत्तिकत्वेन क्रमः, सामग्रीतौल्ये तदेव नेत्याशयात् ॥ टिप्पणी । तथापि विशेषणमात्रविषयतयेति । अनधिगतार्थविषयकत्वप्रामाण्यवादिनं विशेषण- विषयत्वेनापि प्रामाण्याङ्गीकारात् तद्वति तत्प्रकारकत्वप्रामाण्यवादिनामेव विशिष्टविषयकत्वे प्रामाण्या-
४५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां सिद्धसाधनात्, साध्यसमत्वाच्च। व्यवहारनिषेधे तन्निमित्तविरहौपाधिकत्वात् , बाधितत्वाच्च। न चानधिगतार्थत्वमेव तन्निमित्तं, विपर्ययेऽपि प्रमाव्यवहारप्रस- ङ्गात्। नापि यथार्थत्वविशिष्टमेतदेव, धारावहनबुद्ध्यव्याप्तेः। न च तत्तत्काल- प्रकाशः। साध्यसमत्वादिति। प्रमात्वाभावस्य गृहीतमात्रग्राहित्वरूपतया साध्याविशेषादित्यर्थः। व्यव- हारेति। प्रमाशब्दवाच्यत्वव्यतिरेके साध्ये तत्प्रवृत्तिनिमित्तरहितत्वमुपाधिरित्यर्थः। न चायमु- पाधिः साधनाध्यापक इत्याह न चेति। धारावहनेति। इन्द्रियार्थसन्निकर्षाधारस्तृतीयक्षण- स्तदिन्द्रियार्थसन्निकर्षजज्ञानोत्पत्त्याधारः, अव्यासक्तमनसो यावत्सहकारिसाकल्ये सत्यनाद्येन्द्रियस- न्निकर्षाधारक्षणत्वाद् द्वितीयक्षणवदिति धारावहनबुद्धौ मानमाहुः। ननु सूर्यगत्यादिरूपकालावच्छेदकोपाधिविशिष्टतत्तदर्थविषयत्वेन तासामप्यधिकविषयकत्वम् , एकस्मिन् क्षणे यौगपद्यनिषेधेन तस्यावश्यकत्वादित्यत आह न चेति। 'घटोऽयं घटोऽयमित्यादि- प्रकाशिका। ज्ञानत्वेनैव हेतुत्वात् क्रमसम्भव एव, तथापि फलबलेन तत्तद्व्यक्तित्वेनैव उत्तरोत्तरं तत्- ज्ञानं प्रति विशेषसामग्रीत्वमिति भावः। यद्यपि स्वरूपसत एव क्रमिकक्षणोत्पत्तिकत्वेनैव क्रमोप- पत्तिः, तथापि प्रथमज्ञानोत्पत्तिकाल विनिगमकाभावेन द्वितीयज्ञानस्यैवोत्पत्तिः स्यादिति भावः। इन्द्रियार्थेति। सन्निकर्षोत्पत्त्यधिकरणक्षणतृतीयक्षण इत्यर्थः। इतरसामग्रीसहकृतत्वं च प्रथमक्षण- पदार्थविशेषणम्। तेन प्रतिबन्धाकरणेनोत्पत्त्यव्यवधानेन यत्र सन्निकर्षेण ज्ञानं जनितं तत्र तृतीयक्षणे ज्ञानोत्पत्तेरपि नाभिमतासिद्धिरित्यर्थान्तरमिति प्रत्युक्तम्, साध्ये च पुरुषान्तरीयज्ञानमादा- यार्थान्तरमिति तदिति सन्निकर्षविशेषणम्। द्वितीयक्षणोत्पन्नज्ञानस्य तृतीयक्षणसत्त्वेनार्थान्तरमित्यु- त्पत्तीति। व्यासङ्गदशायां व्यभिचार इत्यव्यासक्तेति। व्यासङ्गदशायां ज्ञानोत्पादेऽपि तद्दि- न्द्रियार्थसन्निकर्षज्ञानाभावाद्भवति व्यभिचारः। यद्यपि व्यासङ्गदशायां तदिन्द्रियमनःसंयोगाभा- वायावदित्यादि विशेषणादेव न व्यभिचार इत्यव्यासक्तेत्यादि व्यर्थम्। तथापि तदितरयावत्सह- कारिसाकल्यमेव विशेषणं यावदित्यादिना विवक्षितम्। आलोकादिकिञ्चित्कारणसमवधानदशायां व्यभि- चार इति यावदिति विशेषणम्। साकल्ये समवधान इत्यर्थः। सन्निकर्षोत्पत्तिक्षणे व्यभिचार इत्य- नाद्येति क्षणविशेषम्। इन्द्रियपदं तदिन्द्रियपरमतो न पुरुषान्तरीयसन्निकर्षमादाय व्यभिचारः । इन्द्रिये व्यभिचार इति क्षणपदम्। नन्वेकक्षणोत्पन्नज्ञानद्वयस्थले द्वितीयज्ञाने तथाप्यव्याप्तिरत आह एकस्मिन्निति। ननु ज्ञानस्य क्षणविषयत्वे विषयीभूतनियामकाभावादेकक्षणेपि ज्ञानद्वयापत्तिरत मकरन्दः। तृतीयक्षण इति सन्निकर्षापेक्षया। एतच्च विनश्यदवस्थप्रथमज्ञानाधारत्वेनार्थान्तरप्रसङ्गिनि- रासाय तन्त्रे उत्पत्तीति। व्यासङ्गाधारक्षणे व्यभिचारवारणाय अव्यासक्तेति। यद्यपि तदा ज्ञानमुत्पद्यत एव, तथापि तदिन्द्रियार्थसन्निकर्षज्ञानाभावाद् व्यभिचारः। यद्यप्येवं व्यासङ्गाभावस्यापि हेतुत्वाद् यावत्सहकारीत्यादिविशेषणाभावादेव न व्यभिचार इति तद्वैय्यर्थ्यम्, अन्यथा तदा ज्ञानोत्पत्त्यवश्यम्भावापत्तेः। तथापि तदतिरिक्तयावत्सहकारिविवक्षापक्षे तद् द्रष्टव्यम्, प्रतिबन्धकाभावकारणतावच्छेदकत्ववादिमतेनेदमित्यन्ये। आलोकादिकिञ्चित्सहका- रिविरहदशायां व्यभिचारादाह यावदिति। साकल्यसमवधान इत्यर्थः। सन्निकर्षोत्पत्त्याधारक्षणे व्यभिचारादाह अनाद्येति क्षणविशेषणम्। इन्द्रियपदं तदिन्द्रियपरम्, अतो नेन्द्रियान्तरसन्निक- र्षमादाय व्यभिचारः। ज्ञानोत्पत्त्यनाधारेन्द्रिये व्यभिचारादाह क्षणेति। टिप्पणी। ऽङ्गीकारदतो नासङ्गतिः। अनाद्येन्द्रियसन्निकर्षेति। इन्द्रियसन्निकर्षोत्पत्तिक्षणे व्यभिचार-
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५३ कलाविशिष्टतया . तत्राप्यनधिगतार्थत्वमुपपादनीयम् । क्षणोपाधीनामनाकलनात् । न चाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टता प्रकाशते इति कल्पनीयम् , स्वरूपेण तज्जननेऽनागतादिविशिष्टानुभवविरोधात् । तज्ज्ञानेन तु तज्जनने सूर्यगत्यादी- नामज्ञाने तद्विशिष्टतानुत्पादात् । न चैतस्यां प्रमाणमस्ति । नन्वनुपकार्यानुपकार- कयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः ? । व्यवच्छित्तिप्रत्यायनेन व्यवच्छित्तौ स्वभावेन, अन्यथा तवाप्यनवस्थानादिति । प्रकाशः । बुद्धिधारायां विषयभेदानुपलम्भाज्ज्ञानायौगपद्यं स्वरूपसत्क्रमिकक्षणभेदमादायेति भावः । उपाधयो यदि स्वसत्तया विशिष्टतां जनयेयुः, तदाऽनधिगतधर्माणामविद्यमानतया तद्विशिष्टताऽनुभवो न स्यादित्याह स्वरूपेणेति । अथ स्वासत्त्वेऽपि ज्ञानसत्तया ते तां जनयन्ति, तत्राह तज्ज्ञानेनेति । नन्वसन्तस्ते सत्ता- मात्रेण, नासन्तश्च स्वज्ञानसत्तया तां जनयन्तीति नोक्तदोष इत्यत आह न चैतस्यामिति । एतस्यां विशिष्टतायाम् । विशेषणविशेष्यभावानुपपत्तिं तत्र मानमाह नन्विति । विशेषणेन विशेष्ये विशिष्टताख्यधर्मोत्पादनं विनैव स्वसम्बन्धादेव व्यावृत्तिबुद्धिजननेन तदुपपत्तिरित्याह व्यवच्छि- त्तीति । न च विशिष्टज्ञाने सा भासते, विशेषणविशेष्यसम्बन्धातिरिक्तायास्तस्या अननुभवात् । ननु चाभावविशिष्टबुद्धेर्विशिष्टज्ञानत्वात् संयोगादिबाधेन वैशिष्ट्यमेव सम्बन्धो विषयोऽस्तु । मैवम् । तद्धि प्रत्यभावव्यक्ति भिन्नमभिन्नं वा ? आद्ये तत्तत्स्वरूपरूपा विशेषणतैवास्तु, किमनन्त- वैशिष्ट्येन । अन्त्ये घटाभाववति पटवति घटाभावधीप्रसङ्गः । घटाभावपटाभाववैशिष्ट्ययोरभेदात् । तद्वैशिष्ट्यसत्त्वेऽपि तत्र पटाभावो नास्तीति चेन्न । पटाभावाभावस्य भावत्वे पटस्य प्रतिबन्धकतया तदभावस्य हेतुत्वात् । तस्य च वैशिष्ट्यसम्बन्धेन तत्र सत्त्वात् । अभावत्वे च तस्यापि वैशिष्ट्य- प्रकाशिका । आह ज्ञानायौगपद्यमिति । ननु चेति । यद्यप्यभावे वैशिष्ट्यसम्बन्धसिद्धावपि घटोऽयमित्यादि- धारावहनबुद्धावव्याप्तिर्न परिहृता, तथापि तद्दृष्टान्तेन ज्ञानकालानामपि वैशिष्ट्यं स्वीकरणीयं, तदेव चादायागृहीतग्राहित्वं धारावहनबुद्धेरुपपादनीयमित्यत्र तात्पर्यम् । घटाभाववतीति । इदञ्च वैशिष्ट्यनिराकरणाभिप्रायेण, प्रकृते त्वनुगतवैशिष्ट्यसिद्धावपि सङ्गतिः तदादायोऽप्यगृहीतग्राहि- त्वाभावादित्यवधेयम् । अभावत्वे चेति । पूर्वं घटाभावानुरोधेन पटाभाववैशिष्ट्यमस्वीकरणीयमि- त्युक्तमिदानीन्तु पटाभावाभावानुरोधेनापि तदङ्गीकारणीयमित्यत्र तात्पर्यम् । केचित्तु प्रतियोगिभावा- मकरन्दः । अभावत्वे चेति । अभावात्मनः पटाभावाभावस्य वैशिष्ट्यसम्बन्धेन सत्त्वं स्यात् , वैशि- ष्ट्यस्यैकत्वाभ्युपगमादित्यर्थः । अधिकं प्रत्यक्षप्रकाशे । टिप्पणी । धारणायानायेति, ज्ञानयौगपद्यनिषेधेन तस्यावश्यकत्वादिति ज्ञानानामयौगपद्यन्तरसिद्धान्तश्च । तृतीयज्ञानस्य द्वितीयज्ञानोत्पत्तिक्षणे दुर्वारसामग्रीसाम्राज्यात् अतोऽकामेन प्रमाणफलीभूतं सर्वमेव ज्ञानमतिरिक्तविषयकं वाच्यमित्यधिकमानार्थं सामग्रीभेदोऽपि वाच्यस्तथा च प्रथमक्षणे तृती- यसामग्र्यभावान्न यौगपद्यमतिरिक्तश्च विषयः कालोपाधिरेव तदन्यस्य सर्वस्यैव ग्राह्यस्य प्रथममपि विद्यमानतया सम्पन्नग्रहणसामग्रोकत्वादित्याशयः । तत्र पटाभावो नास्तीति चेदिति । पटां- त्मकप्रतिबन्धकसत्त्वादिति शेषः । प्रतिबन्धकतया तदभावस्य हेतुत्वादिति । प्रतिबन्धका- भावरूपकारणविघटकतयैव प्रतिबन्धकस्य प्रतिबध्यवारकत्वम् । तद् यदि प्रतिबन्धकसत्त्वेऽपि प्रति- बन्धकाभावस्य सत्त्वमुच्येत, प्रतिबन्धकसत्ता हि सम्बन्धसत्ताधीना वस्तुनः सम्बन्धश्चास्ति वैशिष्ट्यमिति स्यादेव प्रतिबन्धकाभावसत्त्वमिति भावः । अभावत्वे च तस्यापि वैशिष्ट्य-
४५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां ज्ञाततैवोपधिरिति चेत्। न निराकरिष्यमाणत्वात्। तत्सद्भावेऽपि वा स्मृते- प्रकाशः। संबन्धेन तत्र सत्त्वात् । न चाभावेऽपि समवाय एव सम्बन्धः, तत्साधकविशिष्टबुद्धेर्विशेषादिति वाच्यम् । समवेतकार्यत्वाद् ध्वंसनाशे पटायुन्मज्जनप्रसङ्गात् । न च तत्र भावत्वं तन्त्रं, गौरवाद्वैपरी- त्यापत्तेश्चेति सङ्क्षेपः । ज्ञाततैवेति । पूर्वपूर्वज्ञानाहितज्ञातताविशिष्टमुत्तरोत्तरज्ञानविषय इत्यनधिगतार्थतैव धारा- वहनबुद्धीनामित्यर्थः । तत्सद्भावेऽपीति । स्मृतिव्यावृत्त्यर्थमनधिगतेति व्यर्थविशेषणम् । तेनापि च न तद्व्यवच्छेदः । तत्रापि कारणीभूतानुभवजनितज्ञाततासत्त्वेनानधिगतार्थताऽनपायादित्यर्थः । अथ स्मृतेर्जनकज्ञानविषयमात्रविषयत्वात् सा स्मृतौ न भासते, तथापि पूर्वपूर्वस्मृतिजनितज्ञा- प्रकाशिका। भाव्योरेकत्रैकेन सम्बन्धेन सत्त्वं विरुद्धमिति पटाभावतदभावयोर्नैकः सम्बन्धः इत्यत्र तात्पर्यमि- त्याहुः । वैपरीत्यापत्तेश्चेति । अभावत्वमेव नाश्यतावच्छेदकमस्तु कार्यत्वविशेषणस्योभयपक्ष- समानत्वादित्यर्थः । न च तथासति घटनाशो न स्यादिति वाच्यम् । अप्रामाणिकभावत्वविशेषण- प्रवेशे तस्याप्यापादनीयत्वादिति भावः । तत्रापीति । कारणज्ञानाहितज्ञातताया एव त्वया कार्यज्ञान- विषयत्वाङ्गीकारादिति भावः । अथेति । स्वाव्यवहितप्राक्कालवृत्तिजनकज्ञानाहितलज्ञानतयैव ज्ञान- विषय इति नानुभावाहितज्ञातता स्मृतिविषय इत्यर्थः । तथापीति । पूर्वस्मृतेरुत्तरस्मृतिं प्रति विशे- मकरन्दः। तथापीति । यद्यपि जनकागोचरत्वमत्रापि तुल्यं, तथाप्यनुपदमेवाशङ्क्य परिहरिष्यतीति ध्येयम् । टिप्पणी सम्बन्धेनेति। पटाभावाभावसत्त्वानुरोधेनापि वैशिष्ट्यस्य स्वीकरणीयत्वात्तस्याभावत्वे सम्बन्धान्त- राभावात्, तस्य च स्वीकृतस्यैकत्वेन तेन पटाभावस्यापि तत्र सत्त्वं स्यादभावत्वाविशेषात्, तथा च विरोध एव दुर्घट इति भावः। वैपरीत्यापत्तेश्चेति । संक्षेप इति । गौरवेणावच्छेदकत्वे बाधिते भावत्वे तत्स्वीकरणमप्रामाणिकम् । न च ध्वंसनाशकारणस्य फलस्य सत्त्वेन गौरवस्य फल- मुखत्वान्न बाधकत्वमिति वाच्यम् । विशिष्टबुद्धेः सम्बन्धान्तरेणानुपपत्तेः, समवायविषयकत्वे नाश्यता- वच्छेदककोटौ भावत्वस्याधिकस्य प्रवेशे गौरवात्, कार्य्यनाशत्वावच्छिन्नं प्रति समवायेन कार्य्यत्वे- नैव कारणत्वाद् ध्वंसस्यासमवेतत्वादिति ध्वंसनाशवारणस्य फलस्यान्यथासिद्धत्वेन गौरवस्य फल- मुखत्वाभावेन बाधकत्वानपायात् । एवञ्च प्रामाणिके भावत्वस्य नाश्यतावच्छेदकत्वे स्वीक्रियमाणेऽ- भावत्वस्यैव तथाविधं तत् किन्न स्याद्, विनिगमकाभावात् । न चाभावत्वस्य तथात्वे घटादीनामनाश- प्रसङ्ग इति वाच्यम् । तेन च प्रसङ्गेन तस्याप्रामाणिकत्वमेव प्रसञ्जनीयम्; तत्स्वीकृत्यैव हि तत्स्वी- क्रियत इत्युक्तप्रसङ्गस्यादोषत्वात् । न चेष्टापत्तिर्घटादीनां नित्यत्वप्रसङ्गाद्, भवतामपि हि तन्नेष्टमिति भावः। अथ स्मृतेर्जनकज्ञानविषयमात्रेति । यतो ज्ञातता स्वान्यवहितपूर्ववर्तिज्ञानाहितैव स्वेन गोचरीक्रियते, न च स्मृतेरव्यवहितपूर्वोऽनुभव इति स्मृतेर्जनकज्ञानविषयमात्रविषयकत्वव्यवस्थितेर्ज्ञा- तता स्मृतौ न भासत इत्यर्थः, एवञ्च न तथापीत्यादिग्रन्थासङ्गतिः, अन्यथा जनकज्ञानाविषयज्ञातताया उत्तरस्मृत्या ग्रहणप्रतिपादनादसङ्गतिः स्यात्, धारावाहिकस्मृतिपक्षे समानविषयकज्ञानत्वमात्रेण स्मृत्यनुभवकार्य्यकारणभावाभ्युपगमात्, पूर्वस्मृतेरुत्तरस्मृतिजनकत्वादव्यवहितपूर्वत्वात्तजनितज्ञात- ताग्रहणस्योत्तरेण सम्भवादित्यभिप्रेत्याह तथापि पूर्वपूर्वस्मृतीति। स्मृतेः स्वजनकगृहीतग्राहि-
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५५ रपि तथैव प्रामाण्यप्रसङ्गात् । जनकागोचरत्वेऽप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणज- नितज्ञाततावभासनात् । अस्तु वा प्रत्यक्षे यथा तथा, गृहीतविस्मृतार्थश्रुतौ का वार्त्ता । अप्रमैवासाविति चेत् । गतमदानीं वेदप्रामाण्यप्रत्याशया, न ह्यनादौ संसारे स्वर्गकामो यजेतेति वाक्यार्थः केनचिन्नावगतः, सन्देहेऽपि प्रामाण्यस- न्देहात् । न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति । न चैकजन्मावच्छेदपरि- मापयेदं लक्षणं, तत्राप्यनुभूतविस्मृतवेदार्थं प्रति अप्रामाण्यप्रसङ्गात् । कथन्तर्हि स्मृतेर्व्यवच्छेदः ? अननुभवत्वेनैव । यथार्थो ह्यनुभवः प्रमेति प्रामाणिकाः पश्यन्ति । 'तत्त्वज्ञानाद्' इति सूत्रात् , 'अव्यभिचारि ज्ञानमिति' च । ननु स्मृतिः प्रमैव किं न स्याद्, यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेत् । न । सिद्धे व्यवहारे निमित्तानुसरणात् , न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम् , अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात् । न च स्मृतिहेतौ प्रमाणाभियुक्तानां महर्षीणां प्रमाणव्यवहारोऽस्ति, पृथगनपदेशात् । उक्तेष्वन्तर्भावादनुपदेश इति चेत्। न। प्रत्यक्षस्य साक्षात्त्वारिफलत्वानुपपत्तेः, लिङ्गशब्दादेश्च सत्तामात्रेण प्रती- त्य साधनत्वादिति । प्रकाशः । तताविशिष्टस्योत्तरोत्तरस्मृतौ भानादनधिगतार्थत्वसत्त्वादित्याह जनकेति । न च स्मृतता नोत्त- रोत्तरस्मृतिविषयोऽनुभवाविषयत्वादिति वाच्यम् । धारावहनबुद्धावप्युत्तरोत्तरबुद्धेः पूर्वपूर्वज्ञानाहित- ज्ञाततासमानकालोत्पत्तिकत्वेन तत्राऽपि तद्विषयत्वाभावापातादिति भावः । अन्यत्र तत्सन्देहेऽप्युभयसिद्धप्रामाण्ये वेदे अधिगतार्थगोचरे प्रामाण्यासम्भव इति दुरुत्तरं समाधानमित्याह अस्तु वेति । तत्रापीति । एकजन्मनीत्यर्थः । अननुभवत्वेनैवेति । इममर्थमनु- भवामीममर्थं स्मरामीत्यनुभवसाक्षिकावेवानुभवत्वस्मृतित्वे जातिविशेषावित्यर्थः । तत्त्वज्ञाना- दिति । ज्ञानपदमत्नुभवपरम् । एवमग्रेऽपि । नन्विति । यथार्थज्ञानत्वमेव प्रमापदप्रवृत्तिनिमित्तं लाघवाद् , न तु तद्विशेषोऽनुभवत्वमपीत्यर्थः । सिद्ध इति । स्मृतेः प्रमात्वं यदि यथार्थज्ञानत्वमेव साध्यं, तदा सिद्धसाधनं साध्याविशेषश्च स्यादिति प्रमापदवाच्यत्वं साध्यम् , तत्र च तन्निमित्तत्वमु- पाधिरित्यर्थः । ननु यथार्थज्ञानत्वमेव तन्निमित्तमित्युक्तमित्यत आह न चेति । न च स्मृतीति । यदि स्मृतौ प्रमापदस्येश्वरसङ्केतः स्यात् , तदा प्रमाणाभियुक्तानां संस्कारे प्रमाकरणत्वव्यवहारः स्यात् , न चैवमित्यर्थः । उक्तेषु प्रत्यक्षादिष्वित्यर्थः । प्रकाशिका । पणज्ञानत्वेन जनकत्वसम्भवादिति भावः । न चेति । संस्कारोपनीतस्यैव स्मृतिविषयत्वादिति भावः । धारेति । जनकीभूतेन्द्रियसन्निकर्षाश्रयस्यैव साक्षात्कारविषयत्वादिति भावः । ज्ञानपदमिति । सूत्रे तत्वज्ञानपदस्य करणव्युत्पत्त्या शास्त्रपरस्य विशेषकतया फलीभूतानुभव एव तात्पर्यत् , न हि स्मृतिकरणत्वं शास्त्रस्य । एवमव्यभिचारिपदस्यापि प्रत्यक्षफलीभूतानुभव एव तात्पर्यं सूत्रे । तत्रापि टिप्पणी त्वनियमादुक्तनियमोपपत्तावपि न ज्ञातताग्रहणसम्भव इत्याह न च स्मृतता नोत्तरोत्तरेति । अनुभवाविषयत्वादिति । ज्ञानजनकज्ञानाविषयत्वादित्यर्थः । समानकालोत्पत्तिकत्वेनेति । प्रत्यक्षस्यापि स्वप्राक्कालासन्निकृष्टग्राहित्वात् स्वोत्पत्तिक्षणोत्पन्नज्ञातताग्राहकत्वासम्भव , इत्याशयः ।
४५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां एवं व्यवस्थित तर्क्यतेऽपि—यद्यिमनुभवैकविषया सती तन्मुखनिरीक्षणेन तद्यथार्थत्वायाथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्यवस्थाप्य न यथार्थतया व्यवहर्तुं शक्यते इति। व्यवहारेऽपि पूर्वानुभव एव प्रमितिरनपेक्षत्वात्। न तु स्मृतिः, नित्यं तदपेक्षणात्। असमीचीने ह्यनुभवे स्मृतिरपि तथैव। नन्वेवमनुमानमप्यप्रमाणमापद्येत, मूलप्रत्यक्षानुविधानात्। न, विषयभेदात्। प्रकाशः। अनपेक्षतयेति विवृणोति—तर्क्यतेऽपीति। अनुभवैकविषया, अनुभवमात्रविषयेत्यर्थः। तेनास्या विषयान्तरेऽपि न प्रमात्वमिति भावः। तद्यथार्थत्वेति। स्वजनकानुभवयथार्थत्वा- यथार्थत्वव्याप्ययथार्थत्वायाथार्थत्वेत्यर्थः। तत्प्रामाण्यमिति। स्वजनकानुभवप्रामाण्यमित्यर्थः। अव्यवस्थाप्य अनवधार्य। यद्यपि स्वजनकानुभवप्रामाण्यमनिश्चित्यापि प्रवृत्तिसंवादादिना अनुभवस्येव स्मृतेरपि प्रामाण्यग्रहः सम्भवत्येव, तथाऽपि यदि स्मृतिः प्रमा स्यात्, तदा स्वान्यूनानतिरिक्तविषय- कस्वजनकानुभवप्रामाण्यव्याप्तप्रामाण्या न स्यात्। व्यतिरेके इच्छादिर्दृष्टान्तः। धारावाहनबुद्धिषु पूर्वपूर्वबुद्धेर्विशेषणमात्रविषयतयोत्तरोत्तरबुद्धिरपेक्षत्वेऽपि, स्मृतौ त्वन्यूनतिरिक्तविषयतयेति न तत्र व्यभिचारः। धारावाहनबुद्ध्यन्यत्वेन वा विशेषणम्। शक्यते इतीत्यस्यानन्तरं, न स्मृतिः प्रमेति शेषः। तदपेक्षणमेवाह असमीचीने हीति। मूलेति। कारणव्याप्त्यादिप्रत्यक्षप्रामाण्यव्याप्यप्रामाण्यादित्यर्थः। विषयेति। व्याप्त्यादिप्रत्य- क्षस्य लिङ्गलिङ्गिविषयत्वादुमितौ च पक्षतावच्छेदकधर्मभाननैयत्येन तस्याऽधिकस्य भानादित्यर्थः। प्रकाशिका। यत इत्याद्याहारेण प्रत्यक्षरूपकरणलक्षणाभिधानादिति भावः। यदि स्मृतिरिति। इदञ्चाव्यव- धानेनैव विवृतप्रायम्। अत्रापादके प्रमापदं यथार्थानुभवपरम्, अत इच्छादौ तद्व्यतिरेकः। आपाद्ये चोभयत्र यथार्थत्वपरं प्रामाण्यपदं तेनापाद्यव्यतिरेकस्तत्र अत एवाह व्यतिरेक इति। धारावह- नेति। तथा चापाद्येऽनुभवस्य तथा जनकत्वं प्रविष्टमिति विशिष्टाभावोऽस्त्येव धारावाहनबुद्धाविति भावः। तथा च जनकत्वाविवक्षायामाह धारेति। यद्यपि अनुमित्यनन्तरोत्पन्नेन्द्रियसन्निकर्षेण जनितेऽ- नुमितिसमानविषयप्रत्यक्षे विशेषणज्ञानात्मकतदनुमितिजन्य एवमपि व्यभिचार एव, तथापि स्वान्यू- नविषयकज्ञानजन्यानुभवत्वमेव धारावहनत्वमिति भावः। विशेष्यस्येति। अतीतादिविशेष्यकपू- मकरन्दः। तदास्वाऽन्यूनारिक्तेति। एतच्च प्रागेव विवृतप्रायम्। नन्वापादकस्य प्रामाण्यस्य वैकल्या- दिच्छादिकं नान्वयदृष्टान्तः, व्यतिरेकदृष्टान्तोऽपि न स्यात्, तादृशानुभवव्याप्तप्रामाण्यवत्त्वस्या- पाद्यव्यतिरेकस्य व्याप्यत्वाभिमतवैकल्यादिति चेत्। मैवम्। आपाद्ये प्रामाण्यपदद्वयस्य यथार्थत्व- मात्रपरत्वात्, आपादके च यथार्थानुभवपरत्वात्। एवञ्चेच्छादेरापाद्यव्यतिरेकस्य व्याप्यस्यापाद्य- व्यतिरेकस्य व्यापकस्य च सत्त्वाद्व्यतिरेकदृष्टान्तत्वमिति। विशेष्यस्येति। अतीतादिविशेष्यकस्यातुभवस्येत्यर्थः। टिप्पणी अनुभवप्रामाण्यव्याप्तेति। आपाद्ये प्रामाण्यं यथार्थत्वमात्रम्, आपादके च यथार्थानुभवत्वं तथाचेच्छादेर्व्यतिरेकदृष्टान्तत्वसम्भवः। विषयतयोत्तरोत्तरबुद्धिरिति। स्वान्यूनानतिरिक्त- विषयकत्वावच्छिन्नजनकत्वस्य प्रवेशाद्योक्तापाद्यापादकव्याप्तौ व्यभिचारः, पूर्वज्ञानस्य विशेषणमात्र- विषयकत्वेन जनकत्वादिति भावः। तस्य तदुपादानज्ञानेति। तस्य ज्ञाततालक्षणस्योपका-
तृतीयस्तवके ] स्मृतिर्मानान्तरत्वखण्डनम्। ४५७ आगमस्तर्हि न प्रमाणं, तद्विषयमानान्तरानुविधानात् । न । प्रमातृभेदात् । धारावाहिकबुद्धयस्तर्हि न प्रमाणम्, आद्यप्रमाणानुविधानात् । न । कारणविशुद्धि- मात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणभावात् , कारणबलायातं काक- तालीयं पौर्वापर्यमिति । यदि हि स्मृतिर्न प्रमितिः पूर्वानुभवे किं प्रमाणम् । स्मृत्यन्यथानुपपत्तिरिति चेत् । न । तया कारणमात्रसिद्धेः, न तु तेनानुभवेनैव भवितव्यमिति नियामक- मस्ति । अननुभूतेऽपि तर्हि स्मरणं स्यादिति चेत्, किं न स्यात् । न ह्यत्र प्रमा- णमस्ति । पूर्वानुभवाकारोल्लेखः स्मृतेर्दृश्यते, सोऽन्यथा न स्यादिति चेत् । तत् किं बौद्धवद्विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्तवार्थापिष्यते, तथाभूतं ज्ञानमेव वा तत्सिद्धिः ? । आद्ये तद्वदेवानैकान्तिकत्वम् । न हि यदाकारं ज्ञानं, तत्पूर्वकत्वं तस्येति नियमः, अनागतज्ञाने विभ्रमे च व्यभिचारात् । द्वितीये तु स्मृतिप्रामा- ण्यमवर्ज्जनीयम् । मा भूत् पूर्वानुभवसिद्धिः, किं नश्छिन्नमिति चेत् । न तर्हि प्रकाशः । तथापि श्रोतुर्वाक्यार्थप्रमाया वाक्यप्रयोगमूलतदर्थविषयकज्ञानप्रामाण्यापेक्षित्वात्र प्रमात्वं स्यादि- त्याह आगम इति । तथात्वेऽपि वक्तृश्रोतृरूपप्रमातृभेदोऽस्ति, स्मृतौ त्वेकस्यैव तथात्वमित्याह प्रमात्रिति । तर्हि विषयप्रमात्रोरभेदाद्धारावहनबुद्धयः पूर्वबुद्ध्यपेक्षाः प्रमा न स्युरित्याह धारेति । यद्यपि बुद्धिक्रमार्थ्यानुपपत्त्या पूर्वबुद्धेर्विशेषणज्ञानत्वेनोत्तरबुद्धिकारणत्वं, तथापि स्मृतिवदन्यूनविषयतया न कारणत्वं किन्तु विशेषणमात्रविषयत्वेनेत्युक्तम् । अन्यूनानतिरिक्तविषयत्वन्तु काकतालीयमित्याह कारणेति । नन्वतीतानुभववैशिष्ट्यरूप्रा तत्ता न मानसप्रत्यक्षवेद्या, अनुभवसत्त्वकाले तदतीतत्वाभावात् , तदत्ययकाले च विशेष्यासत्त्वादिति स्मृतिरेव तत्र मानमित्यगृहीतविषयतया सा प्रमा स्यादित्याह- यदीत्यादिना, न तर्हीत्यन्तेन । तत्किमिति । सौत्रान्तिकानां घटाद्याकारज्ञानकादाचित्कत्या- न्यथाऽनुपपत्त्या घटादिकल्पनवत् तत्ताऽऽकारान्यथाऽनुपपत्त्या पूर्वानुभवकल्पनमित्यर्थः । तथा- भूतम् । सौत्रान्तिकमते यथाऽनैकान्तिकत्वं, तथा तन्मतेऽपीत्यर्थः । तदेवाह न हीति । आकारेण ज्ञानस्यार्थजन्यत्वमनुमेयमर्थसत्त्वमात्रं वा ? आद्ये अनागतार्थस्य वर्तमानज्ञानाकारणत्वा- दनैकान्तिकम् । अन्त्ये अनागतस्य कादाचित्कत्वेऽपि शुक्तौ सर्वदा रजतत्वाकारत्वऽसत्त्वाद्रजत- त्वाकारभ्रमेऽनैकान्तिकमित्यर्थः । द्वितीये त्विति । तत्ताविषया स्मृतिरेव तत्तासिद्धिरिति सा प्रमा स्यादेवेत्यर्थः । तथा च स्मृत्यनुभवयोः कार्यकारणभावान्यथाऽनुपपत्तेः स्मृतिः प्रमेति भावः । प्रकाशिका । र्वानुभवस्येत्यर्थः । अतीतानुभववैशिष्ट्येति । यद्यप्येतावता पूर्वापरीभावसिद्धावपि न कार्य- कारणभावसिद्धिरन्यथा योऽहं घटमद्राक्षं सोऽहं घटं स्पृशामीत्यत्रापि तत्सिद्धापत्तेः, तथाप्येवमभ- योषस्थितौ ( स्मरणे ) अननुभूते स्मरणाभावादन्वयव्यतिरेकादिसहकृतमनसा तद्ग्रह इति भावः । मकरन्दः । अतीतानुभववैशिष्ट्येति । यद्यप्येवं पौर्वापर्य्यमात्रं सिध्यति, न तु कार्यकारणभावः, अन्यथा योऽहं घटमद्राक्षं सोऽहं स्पृशामीत्यादावपि तथा स्यात् । तथाप्यननुभूते स्मरणाभावादन्व- यव्यतिरेकादिसहकृतमनसा तद्ग्रह इति भावः । ५८ न्या० कु०
४५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति । न । तदप्रामाण्येऽपि पूर्वाऽपरावस्था- वदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः । योऽहमन्वभवममुमर्थं, सोऽहं स्मरा- मीति मानसप्रत्यक्षमस्तीति । न च गृहीतग्राहित्वमीश्वरज्ञानस्य, तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य । प्रकाशः । अतीतानुभवविशिष्टे स्मृतिवैशिष्ट्यप्रत्यभिज्ञानं स्मृत्यनुभवयोः कार्यकारणभावग्राहकमित्यन्यथोपपत्त्या न स्मृतिः प्रमेत्याह तदप्रामाण्येऽपीति । प्रत्यभिज्ञानस्वरूपमाह योऽहमिति । ननु केयं तत्ता ? न तावदतीतानुभवविषयत्वम् । अतीतानुभवविषयत्वस्यानुभवाविषयतया स्मृत्या तदनुल्लेखापत्तेः । न च तस्याऽनुभवाविषयत्वेऽपि यदा ज्ञानान्तरेण ग्रहणं तदा स घट इति स्मृतिः, अन्यथा प्रमुष्टतत्त्वांशो घट इति वाच्यम् । अतीतानुभवविषयत्वस्यानुमितौ भानेऽपि स इति बुद्धेरभावात् । नाप्यतीतधर्मवैशिष्ट्यम् । यदि हि यो वस्तुतोऽतीतो धर्मस्तद्वैशिष्ट्यं तत्ता, तदाऽनुभवेऽपि तद्विषयत्वात्तत्तोल्लेखापत्तिः, अतीतधर्मविशिष्टः स इति सहप्रयोगाद्यनुपपत्तिश्च । नाप्यतीतत्वेन भासते यो धर्मस्तद्वैशिष्ट्यम् । भासमानधर्मस्यातीतत्वेनानुभवाविषयत्वात् , प्रत्युत वर्त्तमानत्वेनाऽनुभवात् , स्मृतौ तत्तोल्लेखानापत्तेः । नाऽप्यतीतसमयसम्बन्धः । अनागतगोचरस्मृ- तिप्रत्यभिज्ञयोस्तत्तोल्लेखानापत्तेः । इदन्ताऽपि न तद्वृत्तिगुणादि । गुणादावभावात् । नापि प्रत्यक्ष- ज्ञानगोचरत्वम् । अचाक्षुषत्वापत्तेः । उच्यते । अनुभवे य एव धर्मः कालो वा वर्त्तमानत्वेन भासते स एव स्मृतावपि । तयोरेक- विषयत्वेऽपि स्मृतावेव तच्छब्दोल्लेखः, संस्कारजज्ञानस्यैव तच्छब्दप्रयोगहेतुत्वात् , प्रत्यभिज्ञाने तथा कल्पनात् । तत्रैव च प्रत्यक्षानुभवेनेदंशब्दप्रयोगः । विषयकृतश्च स्मृत्यनुभवयोर्विशेषो नास्त्येव । अत एवायं घट इत्यनुभवादयं घट इति न स्मृतिः । स घट इति स्मृतेश्च स घट इति नानुभवः । सह प्रयोगस्तु धर्मविशेषमादायेत्यस्मत्पितृचरणाः । परलक्षणमभ्युपगम्य अनधिगतार्थगन्तृत्वमीश्वरज्ञानेऽप्यस्तीत्याह--- न चेति । ईश्वरस्य ज्ञानान्तराभावान्न तज्ज्ञानं गृहीतग्राहीत्यर्थः । पुरुषान्तरज्ञानान्तरगोचर- त्वेन गृहीतग्राहित्वे अभिमताऽपि प्रमा न स्यात् । अथ तद्विषयज्ञानोत्तरकालवृत्तिसमानाश्रयतद्विषयकज्ञानत्वमेव गृहीतग्राहित्वम् । तन्न । बुद्धिमा- त्रस्य प्रमात्वाभावापत्तेः । यद्विषया बुद्धिरुत्पन्ना तद्विषयाया एव तस्याः स्वोत्पत्त्युत्तरक्षणेऽपि सत्त्वा- प्रकाशिका । प्रसङ्गादाह इदन्तापीति । संस्कारजेति । एतच्च प्रत्यभिज्ञायाः संस्कारजन्यत्वपक्षे यदा स्मृति- जन्यत्वं तस्यास्तदाप्यनुभवावृत्त्यात्मविशेषगुणमात्रवृत्तिधर्मवाच्छिन्नकारणताकत्वं तत्त्वोल्लेख- प्रयोजकं प्रत्यभिज्ञाने च तत्त्वोल्लेखानुरोधादेव स्मृतित्वेन कारणत्वं वाच्यमिति भावः । यद्विषया बुद्धिरिति । नचोत्तरकालपदेनान्यवहितोत्तरकालो विवक्षित इति वाच्यम् । प्रहरायनन्तरतद्विष- यकज्ञानेऽपि प्रमात्वव्यवहारेणान्याप्तितादवस्थ्यात् । बुद्धिमात्रस्येत्यादिना निराकृतमप्यर्थं मूल- मकरन्द । तद्विषयेति । न चोत्तरकालत्वं व्यवहितकालत्वं विवक्षितमिति वाच्यम् । मासाद्यनन्तरतद्विष- यज्ञानस्याप्यप्रमात्वव्यवहारादिति भावः । यद्यपि बुद्धिमात्रस्येत्यादिना निरासान्नेयं शङ्का, तथापि मूले तदनिरासात्तत्र तद्विरोध इति भावः ।
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५६ न च तदेव ज्ञानं कालभेदेनाप्रमाणम्, अनपेक्षत्वस्यापरावृत्तेः । तथापि वा ऽप्रमा- ण्येऽतिप्रसङ्गादिति ॥ १ ॥ स्यादेतत् । अनुपकारकं विषयस्य, तदीयमेतदीयं वा न भवितुमर्हत्यविशे- षात् । न च तस्येत्यनियतं तत्र प्रमाणमतिप्रसङ्गात् । न च तदभिन्नमन्तरेण तदु- पकारस्योत्पत्तिः, तथानभ्युपगमात् । अभ्युपगमे वा, कार्यत्वस्यानैकान्तिकत्वात् । अत्रोच्यते— स्वभावनियमाभावादुपकारोऽपि दुर्घटः । सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ॥ २ ॥ प्रकाशः । दिति भावः । नन्वीश्वरस्य ज्ञानान्तराभावेऽपि प्रथमक्षणे गृहीतस्यैव द्वितीयादिक्षणे ज्ञानाद् गृही- तग्राहित्वमस्त्येवेत्यत आह न चेति । अनपेक्षत्वस्येति । न हि स्मृतिवदुत्तरकालबुद्धिविषयत्वे पूर्वकालीनतद्विषयज्ञानापेक्षा ईश्वरज्ञानेऽस्तीत्यर्थः । अतिप्रसङ्गादिति । सर्वज्ञानानां द्वितीयादि- क्षणे ग्रहणरूपत्वेनाप्रमात्वापातादित्यर्थः । वस्तुतो गृहीतेत्यत्र निष्ठाऽर्थस्य ध्वंसस्यासम्भव एवेति भावः ॥ १ ॥ ननु विषयनियमान्यथानुपपत्त्या तदुपपादको विषयनिष्ठो ज्ञानजन्यो धर्मः स्वीकार्यः, तस्य च तदुपादानज्ञानजन्यत्वे तदुत्पत्तेः प्राक् तद्विषयत्वाभावात् कथं तदुत्पत्तिः, तदुपादानज्ञानाज- न्यत्वे च क्षित्यादिसकर्तृकत्वग्राहकं कार्यत्वं तत्रैवानैकान्तिकमित्याह— स्यादेतदिति । न चेति । तदीयोऽयं विषय इति नानियतं, किन्तु नियतमेव । तन्नियाम- कस्तज्जन्यधर्म एव वाच्यः । तेन तज्जन्यज्ञातताऽऽश्रयत्वमेव तद्विषयत्वमित्यर्थः । ज्ञानस्य ज्ञेयनिष्ठोपकाराधानेऽपि नियामकः स्वभाव एव वाच्यः, तथा च तत एव विषयनि- यमोपपत्तौ किमुपकाराधानेनेत्याह स्वभावेति । विद्यमानेऽर्थे ज्ञानजन्योपकारसम्भवेऽप्यतीताद्यर्थे तदसम्भवाद् यथा तत्र स्वभाव एव विषयत्वनियामकः, तथा विद्यमानेऽप्यर्थेऽस्त्वित्याह सुघटत्वेऽपीति । प्रकाशिकाः । व्याख्यानाय पुनराशङ्कते नन्वीश्वरस्येति । ननु विषयेति । इयञ्च यथार्था तटस्थशङ्का यथा- र्थान्भवत्वरूपं हि प्रामाण्यं स्वविषये वाच्यम्, विषयता चानुपपन्ना ज्ञातताऽस्वीकारे नियमका- भावात्, तत्स्वीकारे च तदुत्पत्तेः प्राक् तद्विषयकज्ञानाभावेन तदनुत्पत्तेः, उत्पत्तौ वा कार्यत्वस्य तत्रैवानैकान्तिकत्वादिति मूलप्रकाशयोः सङ्गतिः । एतेन—कार्यत्वस्यानैकान्तिकोद्भावनमत्रार्थान्तरम् । न च ज्ञाततामादायागृहीतग्राहित्वमुपपादयितुमेव तद्ग्रन्थावतार इति वाच्यम् । न तु तदभि- न्नमन्तरेणोत्यादिना तदुत्पत्त्यसम्भवोपन्यासस्य विद्धरुतवापातादिति-दूषणमपास्तम् । ननु देव- मकरन्दः । नन्विति । ननु कार्यत्वानैकान्तिकोद्भावनस्य नायमवसरः । न च ज्ञाततामादायागृहीतग्राहि- त्वमुपपादयितुं तत्साधनमेवेदमिति वाच्यम् । पूर्वंनिरस्तत्वात्, न च तदभिन्नज्ञानमित्यादिना तदु- त्पत्त्यसम्भवोपन्यासस्य विरुद्धत्वापाताच्च इति चेत् । मैवम् । यथार्थानुभवत्वादिकं प्रामाण्यं ज्ञानस्य स्वविषये स्यात्, विषयता च नियामकं विनाऽनुपपन्ना, ज्ञाततायास्तथात्वे कार्यत्वानैकान्ति- कत्वापत्त्या तदुपादानज्ञानजन्यत्वमवश्यं वाच्यम्, तच्च तदुत्पत्तेः प्राक् तद्विषयत्वाभावादसम्भवीति न प्रामाण्यव्यवस्थितिरिति तटस्थशङ्कापरत्वेनास्य सङ्गतत्वात् । टिप्पणी रस्य यदुपादानमाश्रयो विषयस्तज्ज्ञानस्येत्यर्थः । तद्विषयत्वाभावादिति । तस्य विषयत्वेना-