भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

४९० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां तु सर्व्वेति चेत्, तुल्यम् । प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः सञ्जातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत्। तुल्यमेतत् ॥ ननु ज्ञानं न सविकल्पकग्राह्यं, तस्य निर्विकल्पकपूर्वकत्वाद् निर्विकल्पकगृही- तस्य तावत्कालानवस्थानात् तस्य तेनैव विनाशात् । नापि केवलनिर्विकल्पक- वेद्यम् । तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात् । न च समवायाभाव- वन्निर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं ज्ञानस्येति साम्प्रतम् । तयोर्विशेपणां- शस्य प्राग्ग्रहणादनुमानादिवत्तदुपपत्तेः । प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीत- प्रकाशः। सम्भवेऽप्यात्मज्ञाततायां मनःसम्बन्धविच्छेदो न सम्भवतीत्यर्थः ॥ तुल्यमिति ॥ ज्ञानमपि किञ्चिदुद्भूतत्वाभावात्तद्ग्राहकात्ममनःसंयोगविशेषाभावाद्वा न ज्ञायते इत्यर्थः । पूर्वोत्पन्न- ज्ञाततायाः सामान्यतोऽग्रहादिदानीन्तन्यापि ज्ञातता ज्ञातेवेति तत्संस्काराधीनज्ञाततासामान्यजिज्ञासा- यामिन्द्रियसन्निकर्षादिदानीन्तनी ज्ञातता ज्ञायते इत्येवमनवस्थापरीहारो ज्ञानप्रत्यक्षत्वेऽपि तुल्य इति शङ्कोत्तराभ्यामाह प्रागिति ॥ तावत्कालेति ॥ घटज्ञानस्य तन्निर्विकल्पकाज्ज्ञानत्वविशि- ष्टज्ञानकाल एव नाशाद् विशेष्यनाशे सति तद्विशेष्यकज्ञानत्वविशिष्टज्ञानानुत्पादः स्यात् । प्रत्यक्ष- विशिष्टज्ञानस्य स्वसमानकालीनविशेष्यकत्वनियमादित्यर्थः ॥ तस्येति ॥ निर्विकल्पकस्यातीन्द्रिय- त्वाभ्युपगमेन सविकल्पकैकोन्नेयतया तदभावे तत्र मानान्तराभावादित्यर्थः ॥ समवायेति ॥ समवायवदभाववच्चेत्यर्थः ॥ तयोरिति ॥ समवायाभावयोर्विशेषणयोः सम्बन्धिप्रतियोगिनोर्ज्ञाना- नन्तरमेव ज्ञानाद्विशिष्टज्ञानसामग्रीनियमेन तथात्वेऽपि ज्ञाने ज्ञानत्वरूपविशेषणस्य पूर्वमज्ञानात् कथं तद्विशिष्टज्ञानमित्यर्थः। तथाच जानामीति वर्त्तमानज्ञानवैशिष्ट्यज्ञानमात्मनि न जायेतेति भावः। अत्र किञ्चिज्ज्ञानं निर्विकल्पकैकवेद्यं किञ्चित्सविकल्पकैकवेद्यं किञ्चिच्चावेद्यमेवेत्यऽनियम प्रकाशिका। सङ्गतिरिति निपुणेन निरूपणीयम् । उद्भूतत्वाभावादिति । योग्यविशेषगुणत्वेन ज्ञानेऽप्युद्भूत- त्वस्वीकार इति भावः। मनःसंयोगेति । अन्यतरकर्म्मजत्वव्याप्यजातिविशेषविशिष्टसंयोगाभावा- दित्यर्थः । इदं च समाधिद्वयमापाततो वस्तुतः फलवलेन विषयान्तरज्ञानसामग्री सुखादिसामग्री च प्रतिवन्धिकेति कल्पनीयमिति सिद्धान्तो द्रष्टव्यः । ननु विषयस्य पूर्ववर्त्तितामात्रेव साक्षात्कारहेतु- त्वमिति ज्ञाननाशक्षणे अनुव्यवसायोत्पत्तौ न विरोध इत्यत आह तथाचेति । तथा स्वीका- रेऽपि जानामीति वर्त्तमानतत्प्रतीतिरनुपपन्नैवेत्यर्थः । निर्विकल्पकैकेति । निर्विकल्पकत्वं च ज्ञानत्वांशे विषयस्य पूर्वज्ञातत्वेन तदंशे विशिष्टज्ञानसामग्रीसत्त्वादित्यवधेयम् । इदञ्चाग्रे वस्तुतो मकरन्दः। नाभवमित्यर्थः । एवञ्चेति । वर्त्तमानज्ञाततासम्बन्धस्यापि तदानीमभावादिति भावः। उद्भूतत्वाभा- वादिति, प्राचीनमते । निर्विकल्पकैकेति । तज्जन्याग्रिमविशिष्टज्ञानस्यैव तत्र मानत्वान्न पूर्व- टिप्पणी सम्भवात् । एतेन ज्ञाततायाः क्षणिकत्वस्य तदभिमतत्वेऽपि न क्षतिः। संयोगविशेषाभावाद्वा न- ज्ञायत इत्यर्थ इति । इदमापातः, वस्तुतः फलवलेन बहिरर्थज्ञानसामग्र्याः सुखादिसाम- ग्र्याश्च प्रतिबन्धकत्वकल्पनाद् विषयान्तरसञ्चारसम्भवः । तथा च जानामीति वर्त्तमान- ज्ञानेति । विषयस्य पूर्ववर्त्तित्वेनैव हेतुत्वे निर्विकल्पकोत्तरं ज्ञानप्रत्यक्षसम्भव इत्यत आह वर्त्त- मानेति । तथा च विषयस्यावर्त्तमानत्वेन वर्त्तमानाभासो न स्यादिति भावः । किञ्चिज्ज्ञानं निर्विकल्पकैकेति । प्रथमज्ञानं तस्य सविकल्पकासम्भवात् । किञ्चित् सविकल्पकैकवेद्य-

चतुर्थस्तवके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४७१ विशेषणायाश्च बुद्धेर्विशेष्यानुपसंक्रमात् कथमेवं स्यात् । न । उत्पन्नमात्रस्यैव बाह्यविषयज्ञानस्यालोचनात् । ततस्तत्पुरःसरं प्रथमत एव तज्जातीयस्य ज्ञानान्त- रस्य विकल्पनात् । इन्द्रियसन्निकर्षस्य तदैव विशेषणग्रहणलक्षणसहकारिसम्पत्तेः । व्यक्त्यन्तरसमवेतमपि हि सामान्यं गृहीतं तदेवेत्युपयुज्यते, अन्यथा अनुमानादि- प्रकाशः । इति नोक्तदोष इत्यभिप्रेत्याह उत्पन्नेति ॥ व्यवसायानाशक्षणोत्पन्नज्ञानान्तरे ज्ञानत्वविशिष्टज्ञानं प्रथमत एव जायते, व्यवसायानिष्ठविशेषणस्य ज्ञानत्वस्य निर्विकल्पकेन विषयीकृततया सम्भूतसामग्रीकत्वात् , तन्निष्ठतया विशेषणज्ञानस्य गौरवेणाप्रयोजकत्वात् । नन्वन्यव्यक्तिसमवेतत्वेन विशेषणज्ञानं न विशिष्टज्ञानजनकं, घटान्तरवृत्तित्वेन गुणक्रियादीनां विशेषणानां ज्ञानेऽपि घटान्तरे तद्विशिष्टज्ञाना- नुत्पादात् । ग्राह्यव्यक्तिवृत्तितया च तस्य प्रकृतेऽसम्भवात् । तदुत्पादानन्तरं ग्राह्यज्ञानव्यक्ति- नाशात् प्रत्यक्षानुपपत्तेरित्यत आह व्यक्त्यन्तरेति ॥ व्यक्त्यन्तरवृत्तित्वेनापि ज्ञानत्वस्य ज्ञानं तज्जातीयव्यक्त्यन्तरेषु विशिष्टज्ञानं जनयति, विशेषणस्य ज्ञानत्वस्याभेदात् । यथा पर्वतोऽ- भिमानित्यनुमितिमन्त्यव्यक्तिनिष्ठतया वह्निमत्त्वस्य विशेषणस्य ज्ञानं जनयति, वह्निभेदेऽपि वह्नि- मत्त्वस्य उपाधिर्विशेषणस्याभेदात् , अन्यथा अनुमित्युच्छेद इत्यर्थः ॥ ननु ज्ञानान्तरस्य निर्विकल्पकविषयस्य सविकल्पकवेद्यस्योत्पत्तौ हेत्वभावः, अनुमिनो- मीत्यनुव्यवसाये तदसम्भवश्च, सामग्र्यऽभावात् । उच्यते । आत्ममनःसंयोगस्य ज्ञानात्म- प्रकाशिका: । ज्ञानस्येत्यादिग्रन्थेन प्रकाशकृदेव व्यक्तीकरिष्यति । अत एव तत्र मानान्तराभावादिति पूर्वदूषणम- पास्तम् , तादृशनिर्विकल्पके प्रत्यक्षस्यैव मानत्वात् । तज्जन्यविशिष्टज्ञानस्य वा मानत्वात् । ननु इन्द्रिय- सन्निकर्षादिसामग्रीवलादेव तादृशं प्रत्यक्षं स्यादत आह अनुमिनोमीति । तत्रानुमित्यनन्तरस्य सिद्धयप्रतिबन्धकत्वादिति भावः । व्यवसायानाशक्षणे तद्विशेष्यकं न ज्ञानं किन्त्वात्मविशेष्यकमिति मकरन्दः । दोष इति भावः । ननु सामग्रीवलात्प्रत्यक्षं सम्भवत्येवेत्यत आह अनुमिनोमीति । क्वचित् प्रत्य- क्षस्य सम्भवेऽपि तत्रानुमितित्वस्य बाधादनुमित्यन्तरस्य सिद्धसावनेनानुत्पादात्तत्रासम्भव एवे- टिप्पणी । मिति । प्रथमज्ञानाशक्षणोत्पन्नस्वस्थितिक्षणोत्पन्नसविकल्पकविषयीभूतं तदानीं तस्य निर्विकल्पका- सम्भवात् सविकल्पकारणस्य विशेषणनिर्विकल्पककस्य प्राग्भूतत्वात् । किञ्चिच्चावेद्यमिति । प्रतिबन्धकीभूतबहिरर्थप्रत्यक्षसामग्रीक्षणोत्पन्नन्तदुत्तरक्षणे बहिरर्थप्रत्यक्षस्यैवोत्यादात् । प्रथमत एव जायत इति । एतेन तन्निर्विकल्पकापेक्षाप्यवच्छेदः, विशेष्यज्ञानस्याकारणत्वात् । ग्राह्य- व्यक्तिवृत्तितयेति । तथाचान्यवृत्तित्वज्ञानस्य प्रतिबन्धकत्वं वाच्यं स्यात् तदभावस्य च कारणत्वं तदपेक्षया लाघवात्तद्वृत्तितया विशेषणज्ञानस्य कारणत्वमेव वाच्यमिति भावः । एतेन ग्राह्यव्यक्ति- वृत्तितयेत्यस्य नासङ्गतिः । विशेषणज्ञानत्वस्याभेदादिति । तथाचैतादृशस्थले नोक्तप्रतिबन्ध- कत्वस्य कारणत्वस्य चावश्यकत्वमिति भावः । विशेषणस्याभेदादिति । इदञ्च सामान्यलक्षणान- भ्युपगमेन तदभ्युपमे क्वचित् पर्वते कस्यचिद् वह्निज्ञाने तत्पर्वतवृत्तितयापि तद्वह्नेर्ज्ञानात् । यद्वा यत्रानुमितिपूर्वं महानसादावेव वह्निमत्वं गृहीतं तदभिप्रायेण योजनेयम् । अन्यथानुमित्यु- च्छेद इति । उक्तप्रतिबन्धकत्वे कारणत्वे च । उत्पत्तौ हेत्वभाव इति । बहिरर्थविषयकप्रथम- ज्ञानसामग्र्यास्तदुत्पत्तिक्षणे सत्त्वे तस्याः प्रतिबन्धकत्वाज्ज्ञानत्वनिर्विकल्पकमेव न स्यात् । ज्ञानोत्प-

४७२ व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां चिकलपानामनुत्पादप्रसङ्गः। तद्गतस्य विशेषणस्याऽग्रहणाद्, अन्यगतस्य चानुप- प्रकाशः। समवायस्य च पूर्वसिद्धत्वेनोत्पन्नं ज्ञानं मनसा सम्बद्धञ्चेत्येकः कालः। ततो ज्ञातत्वनिर्विकल्पकस्यो- त्पादो ग्राह्यज्ञानस्य विनश्यत्ता सविकल्पकस्योत्पद्यमानतेत्येकः कालः। ततः सविकल्पकस्योत्पादो ग्राह्यज्ञानस्य विनाशो निर्विकल्पकस्य विनश्यत्तेत्येकः काल इत्येवमसमानकालत्वेन विशेष्यस्य ज्ञानस्य नाशक्षण एव ज्ञाने ज्ञातत्वविशिष्टज्ञानम्। विशेष्यस्य ज्ञानस्य विशिष्टज्ञानाव्यवहितपूर्ववर्तितया कारणत्वाविरोधात्। प्रत्यक्षस्य सम्बद्धवर्त्तमानार्थजन्यत्वेऽपि स्वसमानकालतया विशेष्यस्याऽहेतु- त्वात्, गौरवात्, यथा द्वे द्रव्ये इत्यत्र यथार्थविशिष्टज्ञानं द्वित्वनाशकालेऽपि, अन्यव्यवहितपूर्व- कालवर्त्तितया द्वित्वस्य विशेषणस्य विशिष्टज्ञानहेतोर्ज्ञानात्। विशिष्टज्ञानं जानामीति च वर्त्तमानत्वेन स्थूलकालोपाधिर्भासते, न तु क्षणः, तस्यातीन्द्रियत्वात्। यद्वा ज्ञानं ज्ञातत्वञ्च निर्वि- कल्पके भासते, ततो ज्ञातत्ववैशिष्ट्यं ज्ञाने, ज्ञानवैशिष्ट्यञ्चात्मनि भासते, विशेष्ये विशेषणं विशेषणे विशेषणान्तरं भासते इत्येव विशिष्टवैशिष्ट्यार्थः। वस्तुतो ज्ञानस्य विषय- निरूप्यतया समवायाभावयोरिव विशिष्टज्ञानसामग्रीसत्त्वाद् निर्विकल्पकं नास्त्येव, ज्ञाने विषयस्य विशेषणत्वात् तज्ज्ञाननैयत्येन सविकल्पकस्यैव सम्भूतसामग्रीकत्वात्। तथाच तदेव ज्ञानं ज्ञातत्वांशे प्रकाशिका। विशेष्यस्य समानकालत्वेन साक्षात्कारजनकत्वेऽपि विशेषणस्य च यथार्थविशिष्टज्ञानं प्रति स्वरूपतो जनकत्वेऽपि च न विरोध इत्याशयेनाह यद्वेति। तदेवेति। नरसिंहाकारकज्ञान इत्यर्थः। एवं प्रत्यक्षे विशेष्यसमसमयत्वं जानामीत्यत्र तमेव क्षणमादाय वर्त्तमानत्वञ्चोपपन्नम्। विशेष्ये विशेषण- मकरन्दः। त्यर्थः। व्यवसायनाशक्षणे तद्विशेष्यकं न ज्ञानं, किन्त्वर्थविशेष्यकमेव, तथा च विशेष्यस्य स्वस- मयवर्त्तितया प्रत्यक्षहेतुत्वेऽपि न दोष इत्याशयेनाह यद्वेति। विषयांशे इति। तथा च सविक- ल्पकतया तस्य योग्यत्वात्तत्रैव ज्ञातत्वविशिष्टधीस्तदात्मकस्यैव ज्ञातत्वरूपविशेषणज्ञानस्य पूर्वं टिप्पणी त्तिक्षणे विनष्टाया निर्विकल्पकक्षणे पुनः सम्पत्तेर्दुष्करत्वात्। प्रथमज्ञानाविषयार्थस्य तृतीयक्षणे विशिष्ट- बुद्धे सर्वथैवासम्भवः तद्धेतोर्निर्विकल्पकस्य प्रागनुत्पत्तेरुत्पत्तौ ज्ञातत्वनिर्विकल्पकासम्भवादिति भावः। अनुमिनोमीत्यनुव्यवसाय इति। उत्पन्नज्ञानुमित्यनन्तरनिर्विकल्पकेनानुमितित्वग्रहे तदनन्तरमनु- मितिव्यक्त्यन्तरोत्पादासम्भवात् सिद्धेः प्रतिबन्धकत्वात् क्षणविलम्बोत्पादेऽपि तदन्यस्य तत्क्षणे तत्प्रत्यक्षस्यासम्भवाद्यौगपद्यात्, तदात्मकस्य जातिसाङ्कर्येणासम्भवादुत्तरकालं विशेषणज्ञानविर- हेणासम्भवादिति भावः। ज्ञातत्वविशिष्टज्ञानमिति। अत्र पक्षे आत्मनोऽपि ज्ञाने विशेषण- त्वमेव मयि ज्ञानमित्यनुव्यवसायाकारः। विशिष्टज्ञाने = विशिष्टज्ञानस्थले। द्वित्वनाशकालेऽ- पीति। इदञ्चापेक्षाबुद्धेर्द्विक्षणव्यवस्थायित्वमेव स्वीकारणीयम्, अन्यथा विभुविशेषगुणनाशत्वा- वच्छिन्नं प्रति स्वोत्तरोत्पन्नविभुविशेषगुणत्वेन कारणतायां नावश्यतावच्छेदकेऽपेक्षाबुद्धयन्यत्वप्रवेशेन गौरवं स्यात्, तच्च निष्प्रामाणिकं द्वित्वप्रत्यक्षस्य विषयस्य पूर्ववर्तित्वमात्रेण कारणतायाव्युपपत्तेः समकालत्वस्य तत्र गौरवेणाप्रवेश्यत्वादित्यभिप्रायेण। स्थूलोपाधिर्भासते तेन ज्ञाननाशकालेऽपि तादृशप्रत्यक्षस्य नार्थोपत्तिः।। यद्वा ज्ञानं ज्ञातत्वञ्च निर्विकल्पक इति। अत्र पक्षे ज्ञानस्यापि विशेषणतया तज्ज्ञानार्थनिर्विकल्पे ज्ञानस्यापि विषयत्वकथनम्। विशिष्टवैशिष्ट्यार्थ इति। अत्र पक्षे आत्ममनोविशेष्यत्वेन प्रत्यक्षज्ञाने विषयस्य समानकालत्वेऽपि न क्षतिः। ज्ञानं ज्ञातत्वञ्च

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४७३ योगात्, किं लिङ्गग्रहणसहकारि स्यादिति । एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति । स्यादेतत् । विषयनिरूप्यं हि ज्ञानमिष्यते । न चातीन्द्रियस्य परमाण्वादेर्म- नसा वेदनमस्ति । न चागृहीतस्य विशेषणत्वम् । न च नित्यपरोक्षस्यापरोक्ष- विशिष्टबुद्धिविषयत्वं व्याघातादिति । न । बाह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्व- ज्ञानोपनीतस्यैव मनसा वेदनात् । अन्यथाऽतीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात् । इयांस्तु विशेषः—तस्मिन् सति तद्बलादेव, असति तु तज्जनितवासनावलात् । न चैवंसति स्मरणमेतत् । अगृहीतज्ञानगोचरत्वात् । न च विषयांशे तत्तथा प्रकाशः। निर्विकल्पकं, विषयांशे सविकल्पकमित्युभयरूपमेव, अंशभेदेनाविरोधात् । अनुमिनोमीत्यादौ तु न तथा, अनुव्यवसाये अनुमितित्वाभावात् । ग्रन्थस्तु ज्ञानान्तरस्य सामग्रीसत्त्वाद् यत्र सम्भवस्तत्परतया नेयः ॥ एतेनेति ॥ एकगकारादिनिष्ठतया गत्वादिनिर्विकल्पकेन गत्वादिविशिष्टज्ञानकाले एकगादि- व्यक्तेर्नशेऽपि गादिव्यक्त्यन्तरे गत्वादिविशिष्टज्ञानमित्यर्थः । ननु ज्ञानस्य विषयावच्छिन्नस्यैव मानसप्रत्यक्षत्वादतीन्द्रियार्थविषयज्ञानस्य न मानसत्वं, परमाण्वादेरतीन्द्रियत्वात्• अतस्तद्दृष्टान्ते- नैतज्ज्ञानस्याप्यमानसत्वमनुमेयम्, न चाप्रयोजकत्वम्, वाह्येन सह मनसः सन्निकर्षाभावलक्षण- प्रतिकूलतर्कस्य विपक्षबाधकत्वादिति शङ्कते स्यादेतदिति ॥ ज्ञानोपनीतविषयेण संयुक्तसमवेत- विशेषणताऽऽत्मकज्ञानरूपमनःप्रत्यासत्त्या मनसैव प्रत्यक्षाऽप्रत्यक्षविषयग्रहः, न चाऽतीन्द्रियत्व- व्याघातः, योगजधर्माजन्य-जन्यस्वविषयकसविकल्पकाजन्यजन्यप्रत्यक्षाऽविषयस्यातीन्द्रियत्वादिति परिहरति बाह्येति ॥ यदि च ज्ञानसंस्काराद्यपेक्षमपि मनो नातीन्द्रियार्थग्राहकं ततस्तत्करणिका स्मृतिरतीन्द्रिये न स्यादित्याह अन्यथेति ॥ ननु यदि ज्ञानादनुव्यवसायः स्मरणञ्च स्यात्, तदाऽनुव्यवसायः साक्षात्कारी, न तु स्मरणमिति कुतो नियम इत्यत आह इयांस्त्विति ॥ तस्मिन्निति ॥ ज्ञाने विद्यमाने तद्रूपप्रत्यासत्तेस्तदनुव्यवसायः साक्षात्कारी, ज्ञाने त्वऽसति संस्कार- रूपप्रत्यासत्तेस्तदन्यप्रत्यासत्त्यभावान्च्च स्मरणं परोक्षमेवेत्यर्थः । तथाप्यनुव्यवसायो व्यवसायगृहीत- गोचरत्वेन गृहीतग्राहित्वात् स्मृतिः स्यादित्यत आह न चैवमिति ॥ अगृहीतेति ॥ ज्ञानस्य व्यवसायाविषयस्यैवानुव्यवसायविषयत्वादित्यर्थः । अर्थांशे गृहीतग्राहित्वेऽपि न घटस्य विशेष्यता, प्रकाशिका। मिति न्यायेन नरसिंहाकारज्ञानोत्पत्त्यनन्तरमेव जानामीति प्रत्ययोत्पत्तेरिति भावः । अनुमिनो- मीति । आदिपदादुपमिनोमीत्यादिसंग्रहः । इदमुपलक्षणम्—पश्यामीत्यादावपि नेयं गतिरिति द्रष्टव्यम् । योगजेति । सामान्यलक्षणप्रत्यासत्त्यजन्येत्यपि विशेषणमत्र द्रष्टव्यम् । संयुक्त- विशेषणताया इति । इदमुपलक्षणम्—संस्कारातिरिक्तविशेष्यसन्निकर्षसत्त्वादित्यत्र तात्पर्यम् । मकरन्दः। सत्त्वादिति भावः । अत एवाह अनुमिनोमीत्यादाविति । योगजधर्माज्न्येति । अत्र सामान्यलक्षणप्रत्यासत्त्यजन्येत्यपि विशेषणं बोध्यम् । टिप्पणी निर्विकल्पके भासते इति यदुक्तं तत्राह वस्तुत इत्यादि । अनुमिनोमीत्यादाविति । तथा च व्यवसायात्तरक्षणे व्यवसायगृहीतविषयविशिष्टत्वेन ज्ञानविषयकतया सविकल्पकस्य ज्ञानत्वविष- ६० न्या० कु०

४७४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यार्था स्येदिति युक्तम् । अवच्छेदकतया प्रागवस्थावदवभासनात् । न च प्रत्यभिज्ञान- मपि ग्रहणस्मरणोकारम् । विरोधात् । अथ ग्रहणस्मरणयोः कियती सामग्री ? अधिकोऽर्थसन्निकर्षो ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य । अथ ग्रहणत्वेऽपि कुत एतदपरोक्षाकारम् ? कारणान्तरनिरपेक्षेण संस्कारा- धिकसन्निकर्षवतेन्द्रियेण जनितत्वात् । अथ कः संनिकर्षः ? ज्ञानेन संयुक्त- समवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति । मनसो निरपेक्षस्य वहि- र्व्यापारेऽन्धवधिराद्यभावप्रसङ्ग इति चेत् । ज्ञानावच्छेदकं प्रति नायं दोषः । न च ज्ञानापेक्षया वहिरित्यस्ति । नापि तद्विषयापेक्षयां निरपेक्षत्वं, तस्यैव ज्ञानस्या- पेक्षणात् । अथापि ज्ञानं प्रत्यक्षमित्यत्र किं प्रमाणम् ? प्रत्यक्षमेव । यदसूत्रयत्- 'ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्' ( न्याय० ५. १. ३१ ) इति ॥ ४ ॥ प्रकाशः । किन्तु ज्ञाने विशेषणता तत्तावदित्याह अवच्छेदकतयेति ॥ यथा प्रागवस्थास्मरणसहकारिणा चक्षुषा जनिते प्रत्यभिज्ञाने प्रागवस्थायाः संयुक्तविशेषणतया स्फुरणं, न स्मरणं, तथा व्यवसाय- सहकारिणा मनसा जनितेऽनुव्यवसाये संयुक्तसमवेतविशेषणतया विषयस्फुरणेऽपि न तस्य स्मरण- त्वमित्यर्थः । ननु प्रत्यभिज्ञानमपि तत्तांशे स्मरणमेव, इदन्त्वांशे त्वनुभव इत्यत आह न चेति ॥ स्मृतित्वानुभूतित्वजात्योर्व्याप्यवृत्तित्वेनांशाऽस्त्वेरित्यर्थः ॥ अथेति ॥ संस्कारजत्वाविशेषात् प्रत्य- भिज्ञानमनुभवो, न स्मृतिरिति कुतो नियम इत्यर्थः । अधिक इति ॥ संस्कारातिरिक्तायाः संयुक्त- विशेषणतायाः प्रत्यासत्तेः प्रत्यभिज्ञाने सत्त्वादित्यर्थः ॥ अथ संस्कारजन्यत्वेन स्मृतिवत्प्रत्यभिज्ञानं परोक्षमेव कुतो नेत्याशयेन पृच्छति अथेति ॥ उत्तरं- कारणान्तरेति ॥ लिङ्गाद्यनपेक्षेनेत्यर्थः । न च विनिगमकाभावः । प्रत्यभिज्ञाने अनुभवामीत्य- नुव्यवसायसाक्षिकत्वादनुभवत्वस्येति भावः । वस्तुतस्तत्तास्मृतिजन्यमेव प्रत्यभिज्ञानं, न संस्कार- जन्यम्, अन्यथा संस्कारद्वारा पूर्व्वानुभवस्य तत्करणतया ज्ञानकरणतया तस्य परोक्षतापत्तिः, तत्तास्मृतेश्च निर्व्यापारत्वेनाऽकरणत्वादिति तत्त्वम् ॥ ज्ञानेति ॥ इन्द्रियादिजनितव्यवसायापेक्षस्य मनसो वहिःप्रवृत्तेर्न स्वातन्त्र्येणेति नोक्तदोष इत्यर्थः । समाधानान्तरमाह न चेति ॥ साधकबाधकाभावात् संशयः स्यादित्याशयेन पृच्छति अथेति ॥ उत्तरं-प्रत्यक्षमेवेति ॥ जानामीति मानसप्रत्यक्षमेव ज्ञानप्रत्यक्षत्वे मानमित्यर्थः । तत्र सूत्रकारसम्मतिमाह यदिति ॥ ज्ञानविकल्पानां ज्ञानभेदानां प्रत्यक्षादीनां भावाभावौ, अस्ति प्रकाशिका । न तु तत्तयैव समं संयुक्तविशेषणतेत्यस्यार्थोऽतीतेन विषयेण सह लौकिकसन्निकर्षस्याजनकत्वात् । न च स्मृतिघटिता संयुक्तसमवेतविशेषणतेति तत्परोऽयं ग्रन्थ इति वाच्यम् । संस्कारजन्यत्वं प्रत्यभिज्ञानस्येति मतेनैतद्ग्रन्थावतार इति, अन्यथा स्वसंस्कारजन्यत्वेनेत्यग्रिमग्रन्थानुपथानात् । न च विनिगमकेति । इन्द्रियजन्यतया तत्प्रत्यक्षत्वे संस्कारजन्यतया च स्मृतित्व इत्यर्थः । ज्ञानावच्छेदकतयेत्यादिना समं नापि तद्विषयेत्यादिपौनरुक्त्यनिरासायाह समाधानान्तरं- मकरन्दः। न च विनिगमकेति । इन्द्रियजन्यतया प्रत्यक्षत्वं संस्कारजन्यतया स्मृतित्वं वेत्यत्र विनिगमकाभाव टिप्पणी यकत्वेन निर्विकल्पकस्यैव ज्ञानस्य जायमानस्योत्तरं विशेष्ये विशेषणमिति रीत्या ज्ञानांशे ज्ञानत्वाव-

चतुर्थस्तबके ] स्मृतेर्मितान्तरत्वखण्डनम् । ३७५ ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात् । नापि प्रमाणम् । अकारकत्वात् । अत एव न तदाश्रयः प्रमातेति । उच्यते- मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता ॥ तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ ५ ॥ समीचीनोऽनुभवः प्रमेति व्यवस्थितम् । तथा च अनित्यत्वेन विशेषण- मनर्थकम् । नित्यानुभवसिद्धौ तद्व्यवच्छेदस्यानिष्टत्वादसिद्धौ च व्यवच्छेद्या- भावात् । नचेदमनुमानम्, आश्रयासिद्धिबाधयोरन्यतराक्रान्तत्वात् । न तत्प्रमा- ॥ प्रकाशः ॥ मे प्रत्यक्षं ज्ञानं, नास्ति मे प्रत्यक्षं ज्ञानमित्याकारेणाधुना मनसा संवेद्येते इत्यर्थः । न्यायरुचिं प्रति आशुविनाश्यात्मविशेषगुणत्वेन सुखवत् प्रत्यक्षत्वमनुमेयमिति भावः ॥ नित्यत्वेनेति ॥ नित्यत्वेन फलानात्मकत्वादित्यर्थः । प्रमायाश्च क्रियात्वेन जन्यत्वादिति भावः ॥ नापीति ॥ निर्व्यापारत्वेनाकारक तया तद्विशेषकरणत्वस्याभाव इत्यर्थः ॥ अत एवेति ॥ समवायिकारणस्य प्रमातृत्वादित्यर्थः ॥ अनित्यत्वेनेति ॥ यथार्थानुभवत्वमेव प्रमात्वं नित्या- नित्यसाधारणम् । न च क्रियात्वविरोधः, धात्वर्थमात्रस्यैव नित्यानित्यसाधारणस्य सत्तादेरिव क्रियात्वात् । अनित्यत्वेन तद्विशेषणस्य गौरवेण व्यर्थत्वादित्यर्थः । दूषणान्तरमाह नित्येति ॥ न चेश्वरज्ञानं न प्रमा फलानात्मकत्वाद् गगनवदित्यनुमानमपि सम्भवतीत्याह न चेदमिति ॥ नापि प्रमाणमित्यत्र सिद्धसाधनत्वमेवेत्याह न तत्प्रमाकरणमिति ॥ स्वप्रमां प्रति तस्या- प्रकाशिका । मिति । आशुविनाशीति धर्मादौ व्यभिचारवारणाय विशेषणमिदम् । द्वित्वादौ व्यभिचार- इति विशेषेति । रूपा दौ व्यभिचार इत्यतिमेति । न चोभयत्र साध्यमेव स्वरूपयोग्यताया एव साध्यत्वात् , अन्यथा प्रत्यक्षविषयज्ञानव्यक्तौ व्यभिचारादिति वाच्यम् । मानसप्रत्यक्षविषयगुणत्व- व्याप्यजातिमत्त्वस्य साध्यत्वात् । चतुर्थक्षणवर्त्तिध्वंसप्रतियोगिताव्याप्यजातिमदात्मविशेषगुणत्वञ्च हे- तुरतो नाशुविनाशिसंस्कारव्यक्तौ व्यभिचारः । निर्व्यापारत्वेनेति । प्रमाऽनुकूलव्यापारशून्यतया प्रमां प्रत्यकारकतेत्यर्थः । न च क्रियात्वेति । तथा च न क्रियासम्बन्धनिमित्तकस्य कारण- पदस्य प्रयोग इति न प्रमातृपदप्रयोगः स्यादिति भावः । स्वप्रमामिति । स्वसमानाधिकरण- मकरन्दः । इत्यर्थः । आशुविनाशीति धर्मादौ व्यभिचारवारणार्थमिदम् । अन्त्यशब्दस्याप्रत्यक्षत्वप्रस्ते तत्र व्यभिचारादाह आत्मनीति । आत्ममनोद्वित्वे व्यभिचारादाह विशेषेति । न च निर्विकल्पकजीवन- योनियत्नयोर्व्यभिचारः, मानसप्रत्यक्षजातीयत्वस्य साध्यत्वात् । वस्तुतस्तु तदन्यत्वेन विशेषणान्न व्यभिचार इति । निर्व्यापारत्वेनेति । प्रमाऽनुकूलव्यापारशून्यतया तदाकारक तया इत्यर्थः । यद्यपि कूटलि- ङ्गादिस्थलेऽनुमितिप्रमाकरणत्वं तस्येष्यत एव, तथापि स्वप्रमां प्रति न तथात्वमिति भावः । न च क्रियात्वेति । क्रियासम्बन्धं विना कारकत्वाभावात्तद्विशेषप्रमातृत्वस्यासम्भव इत्यर्थः । स्वप्रमामिति । स्वसमानाधिकरणप्रमामित्यर्थः । टिप्पणी । गाहिज्ञानं जायते ज्ञानत्वविशिष्टवैशिष्ट्यावगाहिज्ञानस्य सम्भवात् पूर्वं ज्ञानत्वप्रकारकज्ञानस्य तत्का-

४७६ न्यायव्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [५ कारिकाव्याख्यायां करणमिति त्विष्यत एव, प्रमया संबन्धाभावात्। तदाश्रयस्य तु प्रमातृत्वमेत- देव, यत् तत्समवायः। कारकत्वे सतीति तु विशेषणं पूर्ववन्निर्थकमनुसन्धेयम्। यद्येवम् 'आप्तप्रामाण्यात्' (न्याय० २. ६. ६७) इति सूत्रविरोधः। तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेन्न। निमित्तसमावेशेन व्यवहार- समावेशाविरोधात्। प्रमासमवायो हि प्रमातृव्यवहारनिमित्तं, प्रमया स्वयोगव्यव- च्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तं, तदुभयञ्चेश्वरे। अत्रापि कार्य्येति विशे- षणं पूर्ववदनर्थक मूहनीयम्। स्यादेतत्—प्रमीयतेऽनेनेति प्रमाणं, प्रमिणोतीति प्रमातेति कारकशब्दत्व- मनयोः, तथा च कथमकारकमर्थ इति चेत्। न। एतस्य व्युत्पत्तिमात्रनिमित्त- त्वात्। प्रवृत्तिनिमित्तन्तु यथोपदर्शितमेव व्यवस्थापनात्। अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात्, सर्वत्र स्वातन्त्र्याभावात्। करणव्यवहारस्त्वन्यत्र यद्यप्यन्यनिमित्तकोऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति। एवन्तर्हि पञ्चमप्रमा- णाम्युपगमेऽपसिद्धान्तः। न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्ग- प्रकाशः। करणत्वमिष्यत एवेत्यर्थः। अस्मदादिप्रमां प्रति तु तत्करणत्वं वर्त्तत एव, तस्य सर्व्वापारत्वा- दिति भावः॥ तदाश्रयस्येति॥ प्रमासमवायित्वस्यैव प्रमातृत्वात् तत्र तत्कारणान्तर्भावस्य व्यर्थत्वादित्यर्थः॥ पूर्ववदिति॥ सिद्धयसिद्धयोरुभयोरपि व्यावर्त्याभावादित्यर्थः। यदीश्वरस्य न प्रमाणत्वमिष्यते, तदा न्यायसूत्रप्रतिपादिततत्प्रमाणत्वविरोध इत्याह यद्येवमिति॥ प्रमया त्विति॥ चक्षुरादीनामपि चरमसहकारिक्षणे प्रमया अयोगव्यवच्छेदेन सम्बन्धस्य विद्यमान- त्वादित्यर्थः॥ पूर्ववदिति॥ सिद्धयसिद्धयोरुभयोरपि व्यावर्त्त्याप्रसिद्धेरित्यर्थः॥ सर्वत्रेति॥ यदि प्रमाकर्तृत्वेन प्रमातृत्वं, तदा अस्मदादीनामपि तदभावात् प्रमातृव्यवहारो न भवेत्-तद- नुकूलप्रयत्नवत्त्वं हि स्वातन्त्र्यम्, तत्कर्तृत्वं सर्वप्रमायामस्मदादीनामपि नास्ति, अस्मदादि- प्रयत्नं विनाऽप्यस्मदादिप्रमोत्पत्तेरित्यर्थः॥ अन्यत्रेति॥ लोक इत्यर्थः॥ अन्यनिमित्तकोऽ- प्रकाशिकाः। प्रमामित्यर्थः। तदनुकूलेति। तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः। अस्म- दादीनामपीति। जन्यात्मविशेषगुणमात्रस्यैवेश्वरमात्रकर्तृकत्वाभ्युपगमादिति भावः॥ ५॥ मकरन्दः। यदीश्वरस्येति। यद्यपि पूर्वं तज्ज्ञानस्य न प्रामाण्यमित्युक्तं न तु तस्य, तथापि तुल्यन्याय- तया तदप्युक्तप्रायमेवेति भावः। तदनुकूलेति। तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः। अस्मदादीना- मिति। जन्यात्मविशेषगुणमात्रस्यैवेश्वरकर्तृकत्वेनाभ्युपगमादिति भावः॥ ५॥ टिप्पणी। रणस्याभावात्। तदुत्पत्त्यन्तरञ्च विशिष्टवैशिष्ट्यावगाहिघटमहं जानामीत्याकारकं प्रत्यक्षं जायते प्रथमस्या- नुव्यवसायस्य व्यवसायमादायापलक्षितवैशिष्ट्यावगाहिज्ञानस्यानुव्यवसायरूपमेव वर्त्तमानज्ञानमादाय

चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४७७ शब्दकरणत्वात्। न, साक्षात्कारिप्रमावत्तया प्रत्यज्ञान्तर्भावाद् इन्द्रियार्थसन्निकर्षो- त्पन्नत्वस्य च लौकिकमात्रविषयत्वात्। स्यादेतत्—तथापीश्वरज्ञानं न प्रमा, विपर्ययत्वात्। यदा खल्वेतदस्मदादि- विभ्रमानालम्बते, तदैतस्य विषयमस्पृशतो न ज्ञानावगाहनसम्भव इति तदर्थोऽ- प्यालम्बनमभ्युपेयम्, तथा च तदपि विपर्ययः, विपरीतार्थालम्बनत्वात्। तदनवगाहने वा अस्मदादेर्विभ्रमानविदुषस्तदुपशमायोपदेशानामसर्वज्ञपूर्वकत्व- मिति। न। विभ्रमस्याप्रामाण्येऽपि तद्विषयस्य तत्त्वमुल्लिखतोऽभ्रान्तत्वात्। अन्यथा भ्रान्तिसमुच्छेदप्रसङ्गः। प्रमाणाभावात्। तथाप्यारोपितार्थावच्छिन्न- ज्ञानालम्बनत्वेन कथं न भ्रान्तत्वमिति चेत्। न यद् यत्र नास्ति तत्र तस्याव- गतिरिति भ्रान्त्यर्थत्वात् एतदालम्बनस्य चैवमुल्लिखतः सर्वत्र यथार्थत्वात्। न हि न तद्रजतं, नापि तन्नासत्, नापि तन्नावगतमिति ॥ ५ ॥ प्रकाशः। पीति ॥ अयोगव्यवच्छेदेन जनकत्वनिमित्तकोऽपीत्यर्थः। कारकविशेषवाचकः प्रमाणशब्द ईश्वरे वर्त्तते, किन्त्वन्यथेति भावः॥ साक्षात्कारीति ॥ साक्षात्कारिप्रमया त्वयोगव्यवच्छेदेन सम्बन्धस्य सम्भवेन प्रत्यक्षप्रमाणान्तर्भावान्नोक्तदोष इत्यर्थः। साक्षात्कारित्वं त्वीश्वरप्रमाया धर्मि- ग्राहकमानसिद्धमित्यर्थः। यथाश्रुतं सूत्रन्तु लौकिकप्रत्यक्षविषयमित्याह इन्द्रियार्थेति ॥ नन्वीश्वरस्य सर्वज्ञत्वेन सविषयभ्रमज्ञानाच्चीश्वरोऽपि भ्रान्तः स्यात्, भ्रमस्येव तस्या अपि भ्रमविषयविषयकत्वादित्याह—तथापीति। शुक्तौ रजतत्वप्रकाशकज्ञानवानिति ज्ञानं न भ्रमः, भ्रान्तस्य तथात्वात्। शुक्ताविदं रजतमिति ज्ञाने रजतत्वं प्रकारः तेन तद्भ्रमः, ईश्वर ज्ञाने तु रजतत्वप्रकारकत्वं प्रकार इति न भ्रमत्वम्। अत एवास्मदादिरपि भ्रान्तिज्ञो न भ्रान्त इत्याह विभ्रमस्येति ॥ प्रमाणाभावा- दिति ॥ भ्रमत्वग्राहकज्ञानस्य भ्रमविषयमुल्लिखतो भ्रमस्येवायथार्थत्वादित्यर्थः। भ्रमविषय- विषयकत्वेन न भ्रमत्वं, किन्तु यद्यत्र नास्ति तत्र तज्ज्ञानत्वेन, तथाच शुक्ताविदं रजतमिति ज्ञानं रजतत्वाभाववति रजतत्वविषयमिति भ्रमः, तदनुव्यवसायश्च यत्र रजतज्ञाने रजतत्वप्रकार- कत्वमस्ति, तत्र तदुल्लिखन् न भ्रमो विषयाबाधादित्याह यद् यत्रेति ॥ तदेव स्पष्टयति न हीति ॥ एतेन यद् यत्रास्ति, तत्र तज्ज्ञानं प्रमेत्यपि निरुक्तम् ॥ ५ ॥ टिप्पणी। सूक्ष्मकालगोचरत्वेनापि वर्त्तमानावभासता उत्पद्यते विशिष्टवैशिष्ट्यावगाहिनश्चोपलक्षितवैशिष्ट्यावगा- ह्यनुव्यवसायात्मकमेव वर्त्तमानं स्वकाले ज्ञानमादाय वर्त्तमानावभास इति। नन्वनुमिनोमीति विशिष्टवै- ष्ट्यावगाह्यनुव्यवसाये कथं वर्त्तमानावभासता तत्क्षणेऽनुमितित्वाश्रयस्य व्यवसायस्य चिराती तत्वात् तदनन्तरजायमानस्या नुव्यवसायद्वयस्य प्रत्यक्षत्वेनानुमितित्वाभावादित्यत आह अनुमिनोमीत्या- दाविति। स्वगत्या दृष्टान्त एव तस्य तथात्वं सूक्ष्मकालमादायैव च तथात्वम्, तदेव चेष्टं क्षण- स्यातीन्द्रियत्वात् जानामीत्यत्र तथोपपादनं प्रौढिप्रकटनमेवेति भावः। आदिपदेन पश्याभ्युपमि-

४७८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यानो साक्षात्कारिणि नित्ययोगिनि परद्वाराऽनपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताववस्तुक्रमः । लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः ॥६॥ इति चतुर्थः स्तवकः ॥४॥ प्रकाशः । स्तवक़ार्थं शिवस्तुतिव्याजेन सङ्कलयति साक्षात्कारिणीति ॥ भूतार्थानुभवे यथार्था- नुभवे ॥ साक्षात्कारिणि-प्रत्यक्षे ॥ निविष्टो विषयीभूतो निखिलः समस्तः प्रस्ताववस्तुनां नानापदार्थानां क्रमो यस्य, स तथा । अनुभवविषयसकलविश्व इत्यर्थः ॥ नित्ययोगिनि सदा सम्बद्धे । अत एव इन्द्रियादीनां द्वाराणामनपेक्षा स्थितिर्र्यस्य । लेशा अल्पा या अदृष्टिर्विशेषादर्शनं, तन्निमित्ता या दृष्टिः रागद्वेषाऽऽत्मिका, तद्विगमेन प्रभ्रष्टः शङ्कातुषो वेदप्रामाण्यशङ्कालेशो यस्मा- दित्यर्थः । यद्वा भूतार्थोऽनुभवो यस्य, तादृशि साक्षात्कारवति शिवे । निविष्टेत्यादि पूर्ववत् । स शिवः प्रमाणं, नाप्रमाणमिति न कण्ठतः परमतनिरासः । प्रमाणं साक्षी शरणमिति ध्वनितम् । दुष्टिमिति क्वचित् पाठः । तत्र भावे क्तः ॥६॥ इति श्रीमन्महामहोपाध्यायश्रीवर्द्धमानविरचिते कुसुमाञ्जलिप्रकाशे चतुर्थः स्तवकः ॥४॥ प्रकाशिका । 'साक्षात्कारवति' शिवे प्रत्यक्षज्ञानवति स्वस्मिन्नित्यर्थः । अत्र च 'नित्ययोगिनीति' मूलस्य सदास्थितज्ञान इत्यर्थः । परेति मूलस्य इन्द्रियाद्यनपेक्षा स्थितिर्ज्ञानं यस्य तस्मिन्नित्यर्थः ॥ ६ ॥ इति महामहोपाध्याय-ठक्कुर-श्री भगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां चतुर्थस्तबकः । मकरन्दः । साक्षात्कारवति शिवे प्रत्यक्षज्ञानवति स्वस्मिन् इत्यर्थः ॥ ६ ॥ इति महामहोपाध्यायदेवदत्तात्मज-श्रीरुचिदत्तोपाध्याय-विरचिते कुसुमाञ्जलिमकरन्दे चतुर्थः स्तवकः । टिप्पणी । नैमिति 'शाब्दयामीत्यादेः परिग्रहः । अन्यत्तु ज्ञानान्तरस्येति । प्रथमत एव तज्जातीयस्य ज्ञानान्त- रस्य विकल्पनादिति अन्वयः । इति श्रीधर्मदत्तोपाध्याय (प्रसिद्धबच्चाझा) कृतकुसुमाञ्जलिचतुर्थस्तबकटिप्पणी समाप्ता ।

श्रीगणेशाय नमः ॥ न्यायकुसुमाञ्जलौ पञ्चमः स्तबकः । तत्साधकप्रमाणाभावादिति पञ्चमीं विप्रतिपत्तिं निराकर्त्तुमुपन्यस्यति— नन्वीश्वरे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात् तदेव तु न पश्याम इति चेत् । न ह्येष स्थाणोरपराधो यदेनमन्धो न पश्यति । तथाहि— कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ॥ वाक्यात् संख्याविशेषाच्च साध्यो विश्वविद्व्ययः ॥ १ ॥ क्षित्यादि कर्तृपूर्वकं कार्यत्वादिति ॥ १ ॥ प्रकाशः । नन्विति ॥ सर्वमिति ॥ प्रागुक्तान्यथासिद्ध्यादिनिरासरूपमित्यर्थः ॥ स्थाणोरीश्वरस्य, अर्थं च दारुविशेषस्य ॥ अन्धस्तत्र प्रमाणाऽदर्शी, चक्षुर्हीनश्च । कारिकायां संगृहीतं कार्यत्वं हेतुं विवृणोति । क्षित्यादीति ॥ नन्वत्र प्रत्येकं क्षित्यादि न पक्षः, तस्य स्वशब्देनाभिधातुमशक्यत्वात् । नापि मिलितम् , एकरूपाभावात् । न च शरीरीजन्यं जन्यं पक्षः । वेदाद्यव्याप्तेः, अदृष्टद्वारा शरीरिणोऽपि क्षित्या- दिकर्तृत्वात् । नाप्यदृष्टजनककृत्यजन्यं जन्यम् , ईश्वरकृतेरदृष्टजनकत्वेन क्षितौ तदभावात् । नापि प्रकाशिका । कार्येत्यादिमूलं तदर्थश्च कार्यपदम् भावपरं तेन क्षितिः सकर्तृका कार्यत्वादित्यनुमानमुक्तम् । आयूज्यते संयुज्यते ऽनेनेत्यायोजनं = परमाणुकर्म । अत्रापि भावपरतया परमाणुकर्म प्रयत्नजन्यं कर्मत्वादित्यनुमानमुक्तम् । धृतिपदमपि भावपरं, तेन ब्रह्माण्डधृतिः प्रयत्नवत्संयोगसाध्या धृति- त्वादित्यनुमानमुक्तम् । आदिपदेन च संहरणं विवक्षितम् , तथा च ब्रह्माण्डादि प्रयत्नविनाश्यं संहारात् = संहारप्रतियोगित्वादित्यनुमानमुक्तम् । पदं = वृद्धव्यवहारः, पद्यते गम्यतेऽर्थोऽनेनेति व्युत्प- त्तेतदपि भावपरम् , तथा च घटादिव्यवहारो स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वादित्यनुमानमुक्तम् । प्रत्ययशब्देन प्रामाण्यं विवक्षितम्, तथा च प्रमा गुणजन्या प्रामाण्यादिनुमानमुक्तम् । श्रुतेरिति भाव- परं, तथा च वेदाः सर्वज्ञप्रणीताः श्रुतित्वादित्यनुमानमुक्तम् । वाक्यपदमपि भावपरं, तेन वेदाः पौरुषेयो वाक्यत्वाद् भारतवदित्यनुमानमुक्तम् । संख्यापदमपि परमाणुद्वयणुकवृत्तिद्वित्वत्रित्वपरं भावपरमेवं, तेन परमाणुद्वित्वं द्वयणुकत्रित्वं वा अपेक्षाबुद्धिजम् अनेकवृत्तिसंख्यात्वादित्यनुमान- मुक्तमिति । यद्वा कार्यपदं तात्पर्यपरम् , तथा च वेदप्रामाण्यसम्पादकतात्पर्याधारतया परमेश्वरसिद्धिः । आयोजनं = व्याख्यानम् , तथा च वेदव्याख्यातुतया भगवतः सिद्धिः । धृतिरवधारणम् , तथा चार्थोवधारकोऽपि वेदस्य परमेश्वर एव । आदिपदग्राह्यमध्ययनम् , तथा चाध्येतापि वेदस्य प्रथम- मीश्वर एव । पदमीश्वरप्रणवादिपदम् , तद्वाच्यतयापि परमेश्वरसिद्धिः । प्रत्ययपदं लिङ्प्रत्ययपरम्, तथा च लिङभिधेयाप्ताभिप्रायाधिकरणतया परमेश्वरसिद्धिः । श्रुतेर्वेदादेव शब्दविधया परमेश्वर- टिप्पणी । वेदाद्यव्याप्तेरिति । पक्षतावच्छेदकेन तस्यासङ्ग्रहात् । क्षित्यादिकर्तृत्वाच्चेति । ईश्वर-

प्रकाशः। जन्यकृतिसाक्षादजन्यं जन्यम्, घटादेरपि पक्षतापत्तेः। नापि सकर्तृकत्वविवादविषयः, तत्सन्देह- विषयो वा(१) पक्षः, एकरूपाभावे क्षित्यादिसकलविषयविवादसंशययोरभावात्। किञ्च न वादिनोः संशयः, तयोर्निश्चितत्वात्। वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थसंशय इति चेत्। तर्ह्यनुमानाभ्यां तत्संशयो, मध्यस्थसंशयानन्तरञ्च वाद्यनुमानमित्यन्योन्याश्रयः। न च क्षितिरेव पक्षः, अङ्कुरेण सन्दिग्धानैकान्तिकत्वात्। हेतौ साध्याभाववद्गामित्वसंशयस्य दूषकत्वात्। तस्य च साध्याभाववति हेतुसन्देहादिव हेतुमति साध्याभावसन्देहादपि दूषकत्वात्। पक्षे तत्सद्भावेऽप्यनुमानमात्रोच्छेद- कत्वेन तस्यादूषकत्वात्। न चाङ्कुरेऽपि तत एव साध्याँनुमितिः। तस्यापक्षत्वेन स्थापनानुमाना- विषयत्वात्। अनुमानान्तरस्य च क्षित्या सन्दिग्धानैकान्तिकत्वात्। तथा चाऽन्योन्याश्रया- देकस्याप्यनुमानस्याप्रवृत्तिः। एकैकमात्राभिज्ञसिद्धावपि सकलविषयज्ञानवदसिद्धिश्च ॥ साध्यमपि न कृतिमत्सहभावः, तज्जन्यत्वं वा, अस्मदादिना सिद्धसाधनात्। नाप्युपादान- गोचरापरोक्षज्ञानादिमज्जन्यत्वं, यत्किञ्चिदुपादानविवक्षायां घटोपादानगोचरज्ञानादिमताऽस्मदादिना- ऽर्थान्तरात्। न च ज्ञानादीनामपि जनकत्वं विवक्षितम्। न च घटोपादानगोचरज्ञानादेः क्षित्यादि- जनकत्वसम्भव इति वाच्यम्। तथापि क्षितिजनकादृष्टजनकज्ञानादीनामुपादानविषयत्वनियमेनादृष्ट- द्वारा तैरेव सिद्धसाधनात्। न च साक्षात्तज्जन्यत्वं विवक्षितम्। घटादेर्दृष्टान्तस्य साध्यवैकल्या- पत्तेः। न च शरीरक्रिया दृष्टान्तः। घटे व्यभिचारात्, तत्क्रियात्वस्यैवोपाधित्वाच्च। क्षित्युपादान- विवक्षायामप्रसिद्धिः। न चोपादानशब्दस्य सम्बन्धिशब्दतया तत्तत्समभिव्याहारात्तत्तदुपादान- बोधकत्वम्। शाब्द एव बोधे तथा व्युत्पत्तेः। अनुमितौ च येन रूपेण व्यापकत्वं, तेनैव रूपेण तस्य विषयत्वात्। तच्चोपादानत्वमेवेत्युक्तदोषानुपरोहात्। किञ्च घटे चिकीर्षाद्वारा कृतिसाध्येष्ट- साधनताज्ञानमनुमितिरूपं जनकमिति साध्यविकलो दृष्टान्तः, साध्याप्रसिद्धित्वाँ। प्रत्युत घटेऽनुमिति- प्रकाशिका । सिद्धिः। वाक्यपदं संसर्गविशेषप्रतिपादकशब्दपरम्, तादृशशब्दकारणसंसर्गज्ञानाधिकरणतया पर- मेश्वरसिद्धिः। संख्यापदं उत्तमपुरुषाभिधेयसंख्यापरम् कठकलापादिसंज्ञाविशेषपरं वा, तथा च वेदस्योत्तमपुरुषाभिधेयसंख्याधिकरणत्वेन. समाख्यानिबन्धनतत्सजातीयशरीरावच्छिन्नोच्चारणकर्तृ- त्वाश्रयतया वा परमेश्वरसिद्धिरिति । सन्देहविषयत्वं वा पक्ष इति पाठे पक्षपदं पक्षतावच्छेदकपरम्। अपक्षत्वेनेति प्रतिज्ञाविषय- स्यैव पक्षत्वमित्यभिमानेनेदम्। नन्वङ्कुरे सकर्तृकत्वमनुमाय क्षितौ तदनुमेयमत आह अनुमाना- न्तरस्येति। मकरन्द । सन्देहविषयत्वं वा पक्षः इति पाठे पक्षपदं पक्षतावच्छेदकपरम्। अपक्षत्वेनेति प्रति- ज्ञाविषयस्यैव पक्षत्वमित्यभिमानः। ननु प्रथममङ्कुरे तदनुमाय क्षितौ तदनुमेयमित्यत आह अनुमानान्तरस्येति । टिप्पणी । भिन्नशरीरिणमादायार्थान्तरात् सिद्धसाधनाद्वा पक्षासिद्धेरित्यर्थः। पक्षतागतेरिति । अर्थान्तर- तादवस्थ्यञ्च सन्देहविषयत्वम्। वापक्षः पक्षोध्येयः। पक्षतावच्छेदकमिति। यावत् सिद्धसा- धनादिति। अदृष्टद्वाराऽस्मदादेरपि जनकत्वात् विवक्षायामप्रसिद्धिः दृष्टान्तेऽसत्त्वम् तच्चोपादानत्व- मिति । व्यापकतावच्छेदकचेत्यर्थः। उक्तदोषपरिहारात् सिद्धसाधनम् ॥ साध्यप्रसिद्ध्यनुरोधेनापरोक्ष प्रवेशे त्वाह प्रत्युतेति । (१) सन्देहविषयत्वं वा पक्ष इति प्रकाशिकाममितोऽयं पाठोद्रष्टव्यः ।

पंचमस्तबके ] ईश्वरसिद्धिः । ४८१ प्रकाशः। जन्यत्वदर्शनादीश्वरेऽनुमितिः सिद्ध्येत् । यथा च प्रत्यक्षस्येन्द्रियजन्यत्वेऽपि नित्यं तदीश्वरे, तथाऽनुमितेर्लिङ्गजन्यत्वेऽपि नित्यैव सा तत्र स्यात् । द्वेषयोनिकृतिसाध्ये चिकीर्षाविरहाद्व्यभिचारश्च । तद्दृष्टान्तेन क्षित्यादौ द्वेषसाध्यत्वानुमानादीश्वरे द्वेषोऽपि सिद्ध्येत् । द्वेषवत्त्वश्च संसारित्वे भगद- तोऽपि(२) तथा स्यात् । कथं वा उपादानगोचरा चिकीर्षा, असिद्धत्वात् । किञ्च कार्यत्वं न योगोपस्थितकृत्यर्हत्वम् , असिद्धेः । नापि कदाचित्कत्वं, प्रागभावे व्यभि- चारात् । नापि प्रागभावप्रतियोगित्वं, ध्वंसे व्यभिचारात् । न च सत्त्वेन हेतुविशेषणम् । सत्ताजातेः परं प्रत्यसिद्धेः, स्वरूपसत्त्वस्य ध्वंसेऽपि सत्त्वात् । नापि पूर्वकालसम्बन्धित्वत्वे सत्युत्तरकाल- सम्बन्धः, सकलपूर्वकालस्याप्रसिद्धेः, तत्तत्पूर्वकालस्य चाननुगमात् ॥ घटादिरपि दृष्टान्तः साध्यविकलः , अन्वयव्यतिरेकाभ्यां ज्ञानादेव जनकत्या तदाश्रयस्या- जनकत्वात् , धर्मिप्रा‍हकस्यान्वयव्यतिरेकस्य वा तद्ग्राहकस्यानुकूलाभावात् । न च ज्ञानवत्कार्यत्वेनात्म- जन्यत्वमनुमेयम् , आत्मसमवेतत्वस्यैवोपाधित्वात्, अन्यथ। शब्दवदाकाशजन्यत्वानुमानापत्तेः । एतेन-सर्गाद्यकालीनद्व्यणुकं ज्ञानेच्छाकृतिसमानकालीनसामग्रीजन्यं, कार्यत्वात् , अदृष्टसामग्री- प्रकाशिका। रागवत इति । चिकीर्षावत इत्यर्थः । कचित्तु भगवत इति पाठः । तत्र च द्वेषवत्त्वे इष्टा- पत्तौ संसारित्वं मिथ्याज्ञानलक्षणं प्रसज्येत भगवत इत्यर्थः । यद्वा द्वेषवत्त्वे संसारित्वं नोपाधिः, तस्याव्याप्यत्वादित्यर्थः । आत्मसमवेतत्वस्येति । आत्मवृत्तित्वस्येत्यर्थः । तेन न सुखादिध्वंसे साध्याव्यापकत्वम् । नन्वदृष्टद्वारा प्राग्भवीयज्ञानादिसमानकालीनादृष्टसामग्रीजन्यत्वेनार्थान्तरमत आह अदृष्टेति । नचाधिकस्यादृष्टस्यैव कारणतया न तदापत्तिरिति वाच्यम्, तथा सत्यदृष्टसामग्र्यामधिका- नुप्रवेशेन जायमानस्य द्व्यणुकस्यादृष्टविशेषत्वापत्तेः, वृक्षसामग्र्यामधिकानुप्रवेशेन जायमानायाः शिंशपाया वृक्षविशेषत्ववत् लाघवेनादृष्टसामग्रीजन्यत्वस्यैवादृष्टत्वनियामकत्वाच्च , तथा चादृष्ट- मकरन्दः। रागवत इति चिकीर्षावत इत्यर्थः । ननु ज्ञानेच्छाकृतिसमानकालीनसर्गान्तरीयादृष्टजनकसामग्र्याैवादृष्टद्वारा द्व्यणुकजनकतायाऽर्था- न्तरमत आह अदृष्टसामग्रीजन्यत्वे चेति । न चादृष्टमधिकं कारणमिति न तदापत्तिरिति वाच्यम् । तथात्वे क्षित्यादेरदृष्टविशेषत्वापत्तेः, यथा शिंशपावृक्षविशेष इत्याशयात् , लाघवाददृष्ट- सामग्रीजन्यत्वस्यैवादृष्टत्वप्रयोजकत्वाच्च, तथा चादृष्टसामग्री अदृष्टप्रागभावादिघटिता नान्यत्र जनिकेति भावः । टिप्पणी । न योगोपस्थितेति । अन्वयगृहीतेत्यर्थः । अवयवव्युत्पस्थितस्य वा । असिद्धेरिति । पक्ष इति शेषः । कालस्याप्रसिद्धेरिति । असम्बन्धित्वस्येत्यादि । न च ज्ञानवत्कार्य- त्त्वेनेति । ज्ञानवत्कृतिसाधनत्वेन । ननु दृष्टान्तद्वारा प्राग्भवीयज्ञानादिसमानकालीनादृष्टोत्पाद- कंसामग्रीजन्यत्वमादायार्थान्तरमाह अदृष्टेति । अदृष्टद्वारेकेति । वीणादिगोचरकृतिजन्ये शब्दे संग्राद्ये वीणाया अपि स्वकीय रूपाद्युपादानतया तद्गोचरकृतिजन्यत्वात् पक्षतावच्छेदकस्त्वं स्यादिति स्वोपादानेति वाच्यम्, तथा सति पृथिव्याद्युपादानगोचरकृतौ जन्यत्वाभावादप्रसिद्धिरिति स्वोपादान- गोचरकृतिजन्यं यत्तद्भिन्नत्वं विवक्षणीयम्, तत्र चैहिकपुष्टशरीरकामनाकृतप्रयागस्नानजन्यपुष्ट- शरीरस्येश्वरकर्तृकस्य प्रयागस्नानानुकूलशरीरावयवगोचरकृतिजन्यत्वात् तत्संग्रहो न स्यादित्यदृष्टा- ( २ ) रागवत इति प्रकाशिकामिमतोऽत्र पाठो द्रष्टव्यः । ६१ न्या० कु०

४८२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रकाशः। जन्यत्वे चादृष्टत्वापत्तिः । द्व्यणुकासमवायिकारणसमानकालीनकृतिजन्यमिति वा साध्य- -मित्यपास्तम् । आद्ये, ज्ञानादिसिद्धावपि द्व्यणुकाजनकत्वादुदासीनसिद्धावप्रयोजकत्वात् । अन्त्ये, गौरवाद् द्व्यणुकासमानकालीनकृतित्वेनाजनकत्वात् । अपि च सामान्यज्ञानादिप्रत्यासत्तिजन्योपादान- ज्ञानादिमत्तार्थान्तरम् । न चानागतगोचर-प्रत्यक्षजनकप्रत्यासत्त्यजन्यं ज्ञानविशेषणम् । तादृशप्रत्या- सत्तेस्तज्जन्यत्वस्य च परं प्रत्यसिद्धेः ॥ अत्रोच्यते—अदृष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यं समवेतं जन्यम्, अदृष्टप्रागभावव्याप्य- प्रागभावाप्रतियोग्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यम् समवेतत्वे सति प्रागभावप्रति- योगित्वात्, यदेवं तदेवं, यथा घटः, तथा चैतत्, तस्मात्तथा । एवञ्च शब्दफूत्कारादीनां पक्षत्वान्न प्रकाशिका । प्रागभावादिघटिता सामग्री नान्यत्र जनिकेति भावः । अदृष्टसामग्र्यार्थान्तरवारणाय प्रकारान्तरेण साध्यमाह द्व्यणुकेति । स्वासमवायिकारणसमानकालीनकृतिजन्यत्वं साध्यम्, अतो नोक्तार्था- न्तरतादवस्थ्यम् । तज्जन्यत्वस्येति । तथा च तदजन्यत्वस्याप्यप्रसिद्धिरिति भावः । पक्ष- समेऽपि सन्दिग्धानैकान्तिकमिति सम्प्रदायमतानुसारेण अनुगतं पक्षतावच्छेदकमाह अदृष्टाद्वार- केति । मृदङ्गादिगोचरकृतिजन्यशब्दादिसंग्रहायोपादानपदम्, तच्च स्वोपादानपरम्, अन्यथा तद- संग्रहात् । स्वोपादानगोचरजन्यकृतिजन्यान्यत्वं पक्षतावच्छेदकमतो न क्षित्याद्युपादानगोचरजन्य- कृत्यप्रसिद्ध्या तदप्रसिद्धिः । ऐहिकशरीरपुष्टिकामनया तीर्थस्नानाव्यभिचारेण पुष्टशरीरं जायते तन्नास्मदादिकर्त्तृकं शरीरान्तरवत् । तथा च प्रयागस्नानानुकूलशरीरावयवगोचरकृत्यादृष्टद्वारा जनिते पुष्टशरीरेऽव्याप्तिवारणायादृष्टाद्वारकेति । साध्ये चोपादानगोचरत्वे न जनकताविवक्षितेति न मृदङ्गगोचरकृत्यादिजन्यत्वमादाय शब्दांशतः सिद्धसाधनम् । स्वविषयसमवेतकार्यं प्रत्येव तथा जनकत्वात्, निरुक्ते पुष्टशरीरेऽशतःसिद्धसाधनवारणायादृष्टप्रागभावेत्यादिविशेषणमित्यन्यत्र मकरन्दः । सम्प्रदायमते उक्तसन्दिग्धानैकान्तिकभियाऽनुगतं पक्षतावच्छेदकमाह अदृष्टाद्वारकेति । तत्रोपादानपदं स्वोपादानपरम् । तथा च स्वोपादानगोचरजन्यकृतिजन्या घटादयः प्रसिद्धाः, तदन्यत्वं पक्षतावच्छेदकम् । एतेन उपादानपदं यदि यत्किञ्चिदुपादानपरं तदा अदृष्टद्वारकरूपा- द्युपादानमृदङ्गादिगोचरास्मदादिकृतिजन्यानां शब्दादीनां पक्षता न स्यात्, क्षित्याद्युपादानपरत्वेऽ- प्रसिद्धिरित्यपास्तम् । नन्वेवमदृष्टाद्वारकेति व्यर्थं अदृष्टद्वारककृतिमादाय प्रकृते दोषास्पर्शनादिति चेत् । अत्राहुः । कालीशरीरे यद् गौरं रूपमुत्पन्नं, तत् कालीशरीरगोचरतपश्चरणादिकृत्या जन्यते सा च कृतिरहष्टद्वारिका तद्रूपोपादानकालीशरीरगोचरा चेति तद्रूपेऽव्याप्तिवारणाय तद्विशेषणमिति । केचित्तु ऐहिकपुष्टशरीरकामनया कामनार्तीर्थस्नानानन्तरं चिराद् यदिहैव पुष्टं शरीरमुत्पद्यते, तन्न शरीरान्तरवदस्मदादिकर्तृकम् । तथा च प्रयागस्नानानुकूल-शरीरावयवगोचरकृत्याऽदृष्ट- द्वारा जनिते पुष्टशरीरेऽव्याप्तिवारणाय तदित्याहुः । साध्येऽप्युपादानगोचरत्वेन जनकता विवक्षिता, तेन मृदङ्गगोचरकृतिजन्यत्वमादायं न शब्दांशे सिद्धसाधनम् । एवञ्च कालीरूपाद्यंशे सिद्धसाधन- वारणाय तत्रादृष्टेत्यादिविशेषणमित्यवधेयम् । शेषं प्रपञ्चितमनुमानप्रकाशेऽनुसन्धेयम् । टिप्पणी । द्वारककृतिजन्यत्वं विवक्षणीयमिति भावः । प्रतियोग्युपादानगोचरेति । वीणादिगोचरकृति- -जन्ये-शब्दे त्वंशतः सिद्धसाधनवारणायोपादानेति । उपादानगोचरत्वेन जनकता विवक्षिता सा च स्वविषयसमवेतप्रत्येवेति शब्दे न तज्जन्यत्वप्रसङ्गः । पुष्टशरीरेऽशतः सिद्धसाधनवारणाया-

पंचमस्तवके ] ईश्वरसिद्धिः । [ ४८३

प्रकाशः । तैः सन्दिग्धानैकान्तिकत्वम् । यदि च कस्यचित् पक्षे नान्तर्भावः, तदा तमादाय निरुक्तस्य पक्षत्वे समूहालम्बनानुमितावविरोधः । जन्यकृत्यजन्यत्वञ्च जन्यकृतिजन्यान्यत्वमित्यन्यत्वेन रूपेण सामान्यलक्षणप्रत्यासत्त्या तावतामुपस्थितिः । जन्यत्वञ्च कृतौ स्वपक्षे विशेषणं, परं प्रत्युपरञ्जक- मात्रं प्रमेयो घट इतिवत् तत्प्रकारकज्ञानोपयोगि । उभयसिद्धसप्रयोजनत्वमात्रं तन्त्रं, न तु प्रयो- जनस्योभयसिद्धत्वम् । क्षितिरेव वा पक्षः । पक्षपक्षसमनैरपेक्ष्येण घटादौ निश्चितव्याप्तिलिङ्गस्य तयोर्दर्शनेनोभयत्रानुमित्यविरोधान्न सन्दिग्धानैकान्तिकम् । अनुमित्योरन्योन्यानपेक्षाज्ञानान्यो- न्यायश्रयः । न चाङ्कुरे पक्षधर्मताज्ञानाभावः, सिषाधयिषाविरहसहकृतसाधकप्रमाणाभाववत, एव पक्षत्वात् । तच्च क्षितौ पञ्चावयववाक्येनाङ्कुरेऽन्यत इति न विशेषः ॥ यदि च क्षितौ लिङ्गनिर्णयदशायां तद्वत्तयाऽङ्कुरस्य न निश्चयः तदा क्व सन्दिग्धानैकान्तिकम् । पक्षसमे साध्याभावसामानाधिकरण्यसन्देहाल्लिङ्गे व्याप्तिग्रह एव नोत्पद्यते इति चेत् । तर्हि धूमेऽपि व्याप्तिग्रहो न स्यात् । सन्दिग्धवह्निपर्वतधूमवतामेकधर्माभावेन अपक्षत्वात् । तस्मादनुमानोच्छेद- प्रसङ्गात् सन्दिग्धसाध्ये लिङ्गनिर्णयो न दोषः । लाघवादेकज्ञानसिद्धावुत्पत्तिमतोऽनादिकार्यप्रवाहाऽ- जनकत्वे नित्यत्वसिद्धौ, कारणं ततो निवर्त्तमानं नियतविषयतामादायैव निवर्त्तते, तस्याः कारणा- धीनत्वात् । अनित्यसर्वविषयकज्ञानाजन्यत्वेन पक्षविशेषणाद्वा ज्ञानस्य सर्वविषयकत्वसिद्धिः ॥ साध्ये च ज्ञानादीनां विशेषणतया विशिष्टस्य साधनत्वेन विवक्षितत्वान्न तदुपलक्षितक्षेत्रज्ञेनार्था- न्तरम् । अदृष्टप्रागभावेति विशेषणाच्चादृष्टद्वारा नास्मदादिभिः सिद्धसाधनम् । नापि साध्याप्रसिद्धिः।

प्रकाशिका । विस्तारः । निश्चितसाध्याभाववद्धर्मित्वज्ञानमेव प्रतिबन्धकमिति मनसि कृत्याह यदि चेति । पक्षसमे व्यभिचारसन्देहस्यादोषत्वे किमिति गुरु पक्षतावच्छेदकमुपादेयमित्याशयेनाह क्षितिरेवेति । अनुमित्योरिति । एतच्च समाधिसौकर्येण । वस्तुतः समूहालम्बन रूपैकैवानुमितिरिति ध्येयम् । पक्षविशेषणादिति । यद्यपि तादृशज्ञानजन्यत्ववाधावतारं विनापि पक्षविशेषणमभिमतसिद्धिः वाधा- नवतारे तु पक्षविशेपणासिद्धावाश्रयासिद्धिः, तथापि वाधावतारदशायामेवोपक्षकानुमित्याभिमत- सिद्धिरित्येतावन्मात्रतात्पर्य्यम् । ननूपादानप्रत्यक्षं न प्रवृत्तिकरणम् तद्विनापि शोकार्थिनःप्रवृत्ते-

मकरन्द । पक्षसमे सन्दिग्धानैकान्तिकं न दोष इत्यनुपदवक्ष्यमाणांशमभ्युपगमवादेनाह यदि चेति । तमादाय समूहालम्बनानुमितार्वित्यर्थः । अनुमित्योरिति एतच्च पराम्युपगमरीत्योक्तं, पक्षभेदमाश्रित्य भेदारोपाद्वा । वस्तुत एकैव समूहालम्बनाऽनुमितिरिति ध्येयम् । ननूपादानप्रत्यक्षं विनाऽपि शब्दार्थप्रवृत्तेर्व्यभिचार इत्यत आह प्रवृत्तितिविषयेति । न ह्युपादानप्रत्यक्षत्वेन हेतुत्वं ब्रूमः, किन्तु प्रवृत्तिविधेयप्रत्यक्षत्वेनेति न व्यभिचार इत्यर्थः । यः स्पन्द इत्याद्यनुमानप्रकाशे द्रष्टव्यम् । असमवायीति असमवायिपदं प्रकृताभिप्रायेण स्वरूपनिर्वचनम् । यद्यप्यङ्गुलीतरुसंयोगा- समवायिकारणे शरीरतरुसंयोगेऽङ्गुली न कारणमिति व्यभिचारः, तथापि क्रियायामेवेत्याशय इत्यन्ये । तत्राप्यङ्गुली कारणमित्येके । सन्दिग्धव्यतिरेकित्वमप्रयोजकत्वम् ।

टिप्पणी । दृष्टप्रागभावेत्याद्यप्रतियोगित्वान्तं बोध्यम् । अदृष्टप्रागभावव्याप्येति । प्रागभावविशेषणं तेन साध्यवैकल्यम् । पक्षधर्म्मताज्ञानाभाव इति । अनुमित्युद्देश्यतया निर्दिश्यमानत्वमेव पक्षत्वम् ।

९८४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां ॥ प्रकाशः ॥ सिद्धस्त्वत्यसिद्धविषया हि कृतिः सिद्धविषयप्रत्यक्षे सति भवति, न हि मृद्वयवानां संस्थानविशेषे कृतिसाध्येष्टसाधनत्वानुमितावपि अवयवानां प्रत्यक्षेणोपस्थितिं विना प्रवृत्तिः। न चोपादानप्रत्यक्षं प्रवर्त्तकज्ञानोपक्षीणम्, अप्रत्यक्षे परमाणौ तत्क्रियायामिष्टसाधनताज्ञानेऽप्यप्रवृत्तेः। प्रवृत्तिविषय- मृदङ्गादेः प्रत्यक्षत्वाद् न शब्दादिना व्यभिचारः। न चेश्वरेऽनुमित्यापत्तिः, स्वसुखादिसाधन- तानुमितेर्हेतुताया गृहीताया ईश्वरे धर्म्मिणभावेन बाधाद्, अनुमितिमात्रस्य च हेतुत्वाग्रहात्। उपादानस्य सिद्धत्वेऽप्युपादेयवत्त्वेन चिकीर्षाविषयत्वात्। न च द्वेषसिद्धिः, तस्य कृतिद्वारा कार्य्यहेतुत्वात्। प्रयोजनं विना द्वेषमात्राच्छत्रुनाशनानुकूलकृतेरनुत्पत्तेः। किन्तु दुःखसाधनध्वंसं तत्साध्यदुःखानुत्पादं वा फलमुद्दिश्य तत्साधनताज्ञानात् कृतिः। तथाचेष्टसाधनताज्ञानात्तत्रेच्छाऽ- स्त्येवेति सैव कृतिकारणम्, क्लृप्तत्वात्। द्वेषस्तु परम्परया तदुपक्षीणः। शत्रुं द्वेष्मीत्यनुवाधित- मानसप्रत्यक्षाच्च तत्सिद्धिः॥ नापि साध्यविकलो दृष्टान्तः, प्रयत्नवदात्मसंयोगस्य चेष्टाद्वारा घटहेतुतया प्रयत्नस्येवात्मनोऽपि हेतुत्वात्। न चात्मसंयोगे सत्यपि प्रयत्नं विना न चेष्टेति प्रयत्न एव तत्कारणं संयोगपरिचायक- मात्रमात्मेति वाच्यम्। संयोगमात्रस्याकारणत्वेन संयोगिविशेषितस्य तस्य हेतुत्वात्। नात्मसंयोगः क्रियाहेतुः, संयोगाभावेन तदभावादर्शनादिति चेत्। न। यः स्पन्दो व्यधिकरणगुणजन्यः स तत्संयोगाऽसमवायिकारणकः, यथा स्पर्शवद्वेगवत्संयोगजा क्रियेति तत्सिद्धेः। असमवायिकारण- संयोगाश्रयस्य तत्कार्य्यजनकत्वनियमाच्च। केचित्तु अनुकूलकृतिसमवायित्वमेव कर्तृत्वं, न तु जनकत्वविशेषितं, गौरवात्, तथाच ज्ञानेच्छा- कृतिजन्यत्वस्यैव साध्यत्वात् तदाश्रयत्वमेवेश्वरस्य कर्तृत्वमित्याहुः। सामान्यादिगोचरप्रत्यासत्त्या कपालगोचरप्रत्यक्षेऽपि घटादावकर्तृत्वात् कर्तृत्वेन ज्ञानं सिध्यत्तद्विलक्षणमेव सिध्यतीति संक्षेपः॥१॥ यद्यपि बाधस्तृतीयस्तवक एव निरस्तः, तथापि प्राधान्येन तत्र योग्यानुपलब्धिबाधो निरस्त इह त्वनुमानबाधो निरस्यः। तत्र व्यापकानुपलब्धिविरोधेन बाधो विवक्षितः, प्रतिरोधो वा? आद्ये, न बाधोऽस्य कार्य्यत्वस्य धर्मिसिद्ध्यर्थमन्वेहेतुभिः कर्तृत्वादिभिरुपजीव्यत्वात्। अन्त्ये, प्रतिबन्धः प्रतिरोधो न। हीनोत्तमबलयोस्तदभावादित्यर्थः। ननु परव्याप्तिस्तम्मनार्थं विपरीतेन्यथाप्युपदर्शनेन प्रकाशिका। रित्यत आह प्रवृत्तिविषयेति। नोपादानप्रत्यक्षं प्रवृत्तिकारणं ब्रूमः, किन्तु प्रवृत्तिविषयप्रत्यक्षमतोन व्यभिचार इत्यर्थः। स्वसुखादेरिति। यद्यपि स्वसुखसाधनतानुमित्यादिना हेतुत्वेऽननुगमात् इष्टसाधनतानुमितित्वेन हेतुत्वं वाच्यम्, दृष्टवान्स्मदादिसुखादिकमेवेश्वरस्येति न तादृशानुमितौ बाधः, तथापीष्टसाधनताज्ञानत्वेनैव हेतुत्वं लाघवादित्युपादनप्रत्यक्षानुरोधेनैक्रमेव ज्ञानं प्रत्यक्षत्मकं सिद्ध्यति लाघवादित्यत्र तात्पर्य्यम्। सैवेति। समानविषयत्वादित्यपि द्रष्टव्यम्। संयोगमात्रस्यैवे- त्यादिहेतौ हेत्वन्तरं समुच्चिनोति असमवायीति। असमवायीति प्रकृताभिप्रायेण स्वरूपनिर्व- चनपरम्। नचाङ्गुलितरुसंयोगजशरीरतरुसंयोगे नाङ्गुलिकारणमिति व्यभिचार इति वाच्यम्। तत्रा- प्यङ्गुल्याः कारणत्वात्, क्रियारूपकार्य्येऽयं नियम इत्याशयाद्वा। सन्दिग्धव्यतिरेकित्वमप्रयोजकत्वम्॥ क्रमेण हेतूनाह विपक्षेति। टिप्पणी यदा च क्षितिः सकर्तृकेत्यादि न्यायस्तदाङ्कुरस्य पक्षत्वमेव नास्तीति क्क तत्र पक्षधर्म्मताज्ञान- मिति भावः। कर्त्तृत्वादिभिरुपजीव्यत्वादिति। शरीरित्वसाधकः क्षितिरकर्तृका शरीरिजन्य- त्वादित्यनुमानोत्थापकैरित्यादिः। तत्र प्रतियोगिविशेषणतायामित्यादि। तत्रर्थस्य यत् प्रतियोगिजन्यत्वं शरीरस्य तद्विशेषणतायामित्यर्थः।

पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४८५ न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः ॥ सिद्ध्यसिद्ध्योर्विरोधो नो नासिद्धिर्निबन्धना ॥ २ ॥ तथाहि—अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति, कस्तेषामाशयः ? । किमीश्वरं पक्षयित्वा कर्तृत्वान्छरीरित्वं, ततः शरीरव्यावृत्तेरकत्तृत्वम् । अथ क्षित्यादिक- मेव पक्षयित्वा कार्यत्वाच्छरीरिकर्तृ कत्वम् । यद्वा शरीराऽजन्यत्वादकार्यत्वम्, परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनमात्रं वेति । तत्र प्रथमद्वितीययोराश्र- यासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधाः। तृतीये तु व्याप्तौ सत्यां चेदमनिष्टम्, असत्यान्तु न प्रसङ्गः । चतुर्थे बाधानैकान्तिकौ । पञ्चमे त्वसमर्थविशेषणत्वम् । षष्ठेऽपि नागृह्यमाणविशेषया व्याप्त्या बाधः । न चागृह्यमाणविशेषव्याप्त्या गृह्यमाणविशेषायाः सत्प्रतिपक्षत्वम् । अस्ति च कार्यत्वव्याप्तेः पक्षधर्मतापरिग्रहो विशेषः। कर्त्ता शरीरी, विपरीतो न कर्त्तेति चानयोस्तद्विरहः ॥

प्रकाशः । तद्विरोधमात्रं स्यात् , यद्वा व्याप्तिपक्षधर्मतोपस्थाप्यविशेषयोर्विरोधेन विशेषविरोधः स्यादित्यत आह सिद्ध्यसिद्धयोरिति ॥ आद्ये कार्यत्वस्य पक्षधर्मत्वसिद्धौ कर्तृत्वादेश्च तदसिद्धौ सत्यां तुल्यबलत्वाभावेन विरोधाभावादित्यर्थः । अन्त्ये अभिमतविशेषसिद्धयसिद्धयोः सहोपलम्भविरोधि- विशेषानुपलम्भाभ्यां विरोधस्य प्रत्येतुमशक्यत्वादित्यर्थः । सन्दिग्धव्यतिरेकित्वाप्रतीतव्याप्ति- कत्वोपाधिभिरसिद्धिरपि नेत्याह नासिद्धिरिति ॥ विपक्षबाधकोपदर्शनन्यासिद्धानापायोपाधि- विरहप्रतिपादनेरसिद्धि निबन्धनस्याभावादित्यर्थः ॥ कारिकार्थं सङ्कलयितुं पराभिप्रायं विकल्पयति तथाहीति ॥ सत्तयानुपलब्धेः प्रागेव निरासाज्ज्ञातायास्तथात्वं वाच्यम् , तत्र पक्षांदिविभागं पृच्छति किमीश्वरमिति ॥ कर्तृत्वा- दिति ॥ तथा चाशरीरस्य कार्यनिर्माणशक्त्यभावतापत्तिरिति भावः ॥ तत एव-शरीराजन्यत्वादि- त्यर्थः ॥ परव्याप्तिः-कार्यत्वसकर्तृकत्वव्याप्तिः ॥ तत्रेति ॥ ईश्वरस्य धर्मिणः प्रमाणेन ज्ञानाज्ञानयो- र्धर्मिपाहकमानबाधाश्रयासिद्धी । ईश्वरद्वेषिणः परस्य कर्तृत्वात् तच्छरीरित्वस्वीकारेऽपसिद्धान्तः। ईश्वरः शरीरकर्त्ता वेत्यत्र माता वन्ध्येतिवत् प्रतिज्ञापदयोर्व्याघातः । ईश्वरपदस्याशरीरकर्तृवाचक- त्वादित्यर्थः । कार्यत्वशरीरिकर्तृत्वयोर्व्याप्तिवलात् क्षित्यादौ शरीरिकर्तृसाधनेऽपि नाऽशरीरिकर्तृ- निरास इत्याह तृतीय इति ॥ क्षित्यादौ शरीरिणः कर्तुर्याग्याऽनुपलम्भेन बाध इति भावः । वस्तुतः शरीरकर्त्रभावेऽप्यङ्कुरादौ कार्यत्वाव्यभिचारेण न व्याप्तिरित्याहं असत्यान्विति ॥ क्षित्यादेः सर्वस्य पक्षत्वे बाधः, कस्यचिदपक्षत्वे तत्रानैकान्तः, प्रमितसाध्याऽभाववद्धर्मिकस्यैव बाधत्वादित्याह चतुर्थ इति । जन्यत्वमात्रस्यैव गमकत्वे शरीरं व्यर्थं व्याप्यतानवच्छेदकत्व- रूपम् । शरीरजन्यत्वाभावादिति नञः प्रतियोगिविशेषणतायामखण्डस्यैव हेतुतायामजन्यत्वमेवोपा- धिरिति न साधनं साध्यव्याप्यमित्याह पञ्चमे त्विति । स्तम्भनं बाधः प्रतिरोधो वा न सम्भ- वतीति क्रमेणाह षष्ठेऽपीति । विशेषः पक्षधर्मता । अस्ति चेति, चो हेतौ । यस्मादस्मद्व्याप्तौ पक्षधर्मतास्ति, त्वदीयव्याप्तौ च सा नास्ति धर्म्यज्ञानात् । ज्ञाने वा धर्मिपाहकमानबाधः । केवल- व्याप्तेश्चासाधकत्वमित्यर्थः । ननु क्षित्यादिकं न बुद्धिमद्धेतुकं शरीराजन्यत्वादित्यत्र यद् बुद्धिमद्धेतुकं तच्छरीरजन्यमिति व्यतिरेकव्याप्तौ पक्षधर्मतालाभः स्यादित्यत आह—

४८६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां ननु यद् बुद्धिमद्धेतुकं तच्छरीरहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद्बुद्धिमद्धेतुकमपि न भवति इति विपर्ययनियमोऽपि स्यात् , तथाच पक्षधर्म- ताऽपि लभ्यते इति चेत्। न गगनादेः सपक्षभागस्यापि सम्भवात् केवलव्यतिरे- कित्वानुपपत्तेः। अन्वये तु विशेषणासामर्थ्यात्। हेतुव्यावृत्तिमात्रमेव हि तत्र कर्त्तृव्यावृत्तिव्याप्तं, न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम्। व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्योऽतिप्रसङ्गात् ॥ एतेन तद्व्यापकरहितत्वादिति सामान्योपसंहारस्याऽसिद्धत्वं वेदितव्यम्। न हि यद्व्यावृत्तिर्यदभावेऽन्वयव्यतिरेकाभ्यामुपसंहर्त्तुमशक्या, तत् तस्य व्यापकं प्रकाशः। नन्विति । इदं केवलव्यतिरेकितया साधनम् अन्वयव्याप्तिसत्त्वेऽपि व्यतिरेकिण्याप्तिवलेन, अन्वयव्यतिरेकितया वा ? । तत्र नाय इत्याह गगनादेरिति । असत्सपक्षस्यैव केवलव्यतिरे- कित्वादित्यर्थः। शरीररूपविशेषणवैयर्थ्येनान्वयव्याप्त्यभावाद्यतिरेकेऽपि तदभावान्वय इत्याह अन्वये त्विति । व्याप्यत्वासिद्धिं परिहरतश्च स्वरूपासिद्धिप्रसङ्ग इति भावः । केवलायाश्च पक्षध- र्मताया असाधकत्वाद्याप्यभावे साऽप्यनुपयोगिनीत्याह व्याप्तश्चेति । ननु ज्ञानमनित्यमेवेत्यादिप्राथमिकव्याप्तिप्रत्यक्षविरोधाद् नाऽशरीरनित्यज्ञानादिकर्तृसिद्धिः, अतएव शरीरमनित्यमेवेति नियमान्न कर्तृत्वेन नित्यातीन्द्रियतत्सिद्धिरीश्वरे । न चाप्रयोजकत्वम् । निरुपाधित्वात् । कार्यत्वसकर्तृकत्वयोरपि यदि निरुपाधित्वमस्ति, तदा तुल्यबलत्वेन ज्ञातात् सत्प्र- तिपक्षवत् प्रतिबन्धोऽस्तु । मैवम् । पक्षधर्मताबलाद् नित्यज्ञानादिसिद्धौ ज्ञानमनित्यमेवेत्यादिन्या- प्तिग्रहस्याऽप्रतिबन्धकत्वात् । अस्मदादिज्ञानमात्रविषयत्वेन तत्प्राथमिकव्याप्तिप्रत्यक्षस्य तस्य भिन्न- विषयत्वात् । एकविषयकविरोधिज्ञानस्यैव प्रतिबन्धकत्वात् । नित्यत्वानित्यत्वयोरेकजातीये द्रव्येऽ- विरोधात् । न च ज्ञानत्वं नित्यावृत्त्येवेति ज्ञातमतस्तन्न नित्यवृत्तित्वज्ञानमिति वाच्यम् । उभय- सिद्धनित्यावृत्तित्वज्ञानेऽप्यतिरिक्त नित्यवृत्तित्वज्ञातावविरोधात् । अत एव कर्त्ता शरीर्येवेत्याद्यपि ज्ञानं प्रतिबन्धकमपास्तम् । ननु क्षित्याद्यकर्तृकं कर्तृव्यापकरहितत्वादित्यत्र नोक्तदोष इत्यऽत आह एतेनेति । दृष्टान्ते विशेषणासामर्थ्यप्रदर्शनेन सामान्यतः कर्तृव्यापकरहितत्वमसिद्धम् । शरीरजन्यत्वादेश्च रहितत्व- मसमर्थविशेषणतयेत्यर्थः। तदेव स्पष्टयति न हीति । यद्व्यावृत्तिः, शरीरव्यावृत्तिः । यद्- भावे कर्त्रभावे । तच्छरीरं तस्य कर्तुर्व्यापकमित्यर्थः। स एवं तस्य व्यापको यस्याभावे साध्ये दृष्टान्ते अन्वयव्यतिरेकाभ्यां पक्षे उपसंहर्तुं शक्यते, यथा वहेरभावो धूमाभावे । प्रकृते चान्व- यिनि दृष्टान्ते विशेषणासामर्थ्यं तदप्रयोजकत्वस्योक्तत्वाद्यतिरेकोऽप्यप्रयोजक इति भावः । ननु किं विशेषणस्यासामर्थ्यं ? न तावन्निष्प्रयोजनकत्वं, व्याप्तिग्रहोपयुक्तविशेषणस्येव पक्षध- प्रकाशिका। ननु कर्तृव्यापकरहितत्वादित्येवं प्रयोगे व्यर्थविशेषणतेत्यत आह सामान्यत इति । असिद्धमप्रसिद्धं तादृशप्रमेयत्वस्य सत्त्वात् । न च यत्किञ्चित्कर्तृव्यापकरहितत्वं हेतुः तथा सति स्वरूपासिद्धिरित्यर्थः । असमर्थविशेषणतयेति असिद्धमित्यनुषज्यते, तदर्थश्च व्याप्यत्वा- सिद्धत्वम् । विशिष्टे व्याप्तिरित्थस्य विशेषणविशेष्ययोरेकैव व्याप्तिर्व्यासज्यवृत्तिरिति वार्थः । मकरन्दः। ननु कर्तृव्यापकरहितत्वादित्यत्र कुतो विशेषणासामर्थ्यमित्यत आह सामान्यत इति । अस- मर्थविशेषणतयेति असिद्धमित्यनुषज्यते । शरीरजन्यत्वाश्रयमात्रप्रतियोगिकयावदन्योन्याभाव- हेतुत्वे वैयर्थ्येऽपि शरीरजन्यत्वात्यन्ताभावेऽखण्डे न वैयर्थ्यं, शरीरं विना तस्याज्ञानेन तत्र व्याप्ति-

पञ्चमस्तबके ] ईश्वराबाधकखण्डनम् । ४८७ प्रकाशः। मर्तौपयिकस्यापि तस्य सप्रयोजनकत्वात् । व्यभिचारवारकस्यापि सार्थकत्वेऽनुमितिप्रयोजकत्वस्यै- व तन्त्रत्वात् । नापि व्यभिचारवारकविशेषणवत्येव व्याप्तिरिति तच्छून्यत्वं, निर्विशेषणेऽपि गोत्वादौ व्याप्तेः । तत्र व्यक्तेरेव विशेषणत्वेऽन्योन्याश्रयात् । नाऽपि व्यभिचारवारकं विशेषणं विशिष्टे व्याप्तिग्राहकं, सहचारदर्शनादिसत्त्वे तदभावे व्याप्तिग्रहाविलम्बात् । न च व्यभिचारावारकविशेषण- शून्य एव व्याप्तिग्रहः । प्रमेयत्वेन ज्ञायमाने धूमे व्याप्तिग्रहात्तत्रोपात्तव्यभिचारावारकविशेषणशून्य- त्वस्य च विवक्षितत्वे विरोधः । तत्रोपात्तं तेन शून्यञ्चेत्यस्यासम्भवात् । अथ शरीरजन्यत्वाभावे न व्याप्तिः, एकवृत्तित्त्वबाधे सत्येव व्यासज्जद्वृत्तित्वात् , विशेष्यतावच्छेदकस्य व्याप्यतानवच्छेदकत्वे सत्येव विशेषणस्य तदवच्छेदकत्वाच्च, किन्तु जन्य- त्वाभावे व्याप्तिः तत्र स्वरूपासिद्धिः, तन्निरासार्थं विशेषणाभिधाने व्याप्यत्वासिद्धिः । न, अन्य- भिचारानौपाधिकत्वयोर्विशिष्टे सत्त्वेन तदभावसाधने बाधात् । किञ्चैवं निर्धूमोऽयम् आर्देन्धनप्रभ- ववह्रिरहितत्वादित्याद्यप्यनुमानं न स्यात् । यद्वा शरीरजन्यत्वाभावोऽखण्ड एवं हेतुरस्तु, तत्र व्यर्थविशेषणत्वाभावात् । अत्राहः। शरीराजन्यत्वस्य व्याप्यत्वेऽपि शरीरं न व्याप्यतावच्छेदकं, गौरवात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते, तस्यैव व्याप्यतावच्छेदकत्वनियमात् । अत एव गन्धस्यैव व्यञ्जकत्वादित्यत्राप्रसिद्धत्वेन गन्धादिषु मध्ये इति विशेषणं विना व्याप्तिर्गृहीतुं न शक्यते इत्यसि- द्विवारकमपि विशेषणं सार्थकम् । व्याप्यतावच्छेदकस्यैव हेतुतावच्छेदकत्वात् । धूमे च वह्निविशे- षस्य कारणत्वात् कारणाभावस्य च कार्याभावव्याप्यत्वान्न तत्रोक्तदोषः । शरीरजन्यत्वाभावोऽप्यखण्डो न हेतुः । यदि शरीरजन्यत्वप्रयुक्तं सकर्तृत्वं स्यात् , तदा तदभावप्रयुक्तः सकर्तृत्वाभाव इति तस्य साध्यव्याप्यता स्यात् । न चैवम् , किन्तु जन्यत्वप्रयुक्तं, प्रकाशिका । विशेषणं व्याप्यतावच्छेदकं विशेष्यञ्च व्याप्तिराश्रय इति वा । आद्ये एकवृत्तित्वेति । अन्त्ये विशेष्ये- तेति । ननु शरीरजन्यत्वाश्रयप्रतियोगिकयावदन्योन्याभावरूपे हेतौ वैय्यर्थ्येऽपि शरीरजन्यत्वाभावे- ऽखण्डहेतौ न व्यर्थता शरीरं विना तस्याज्ञानेन शरीररूपविशेषणस्य व्याप्तिग्रहोपयिकत्वादित्याशये- नाह यद्वेति । येन विशेषणेनेति । यद्यपि नीलधूमत्वादौ व्याप्तिरस्त्येव, तथापि नीलधूमत्वा- वच्छिन्ने व्याप्तिविरहोऽस्त्येव, गौरवेण नीलधूमत्वस्य व्याप्त्यनवच्छेदकत्वात् । न च नीलधूमत्वावच्छिन्ने व्याप्तेरप्रसिद्धिः, वह्निविशेषं प्रति नीलधूमत्वस्यैव व्याप्यतावच्छेदकत्वात् । न च वह्निविशेषप्रतियो- गिकनीलधूमत्वावच्छिन्नव्याप्तेस्सत्त्वात्तद्विरहोऽसिद्ध इति वाच्यम् । नीलधूमत्वावच्छिन्नव्याप्तिप्रतियो- गित्वाभावस्य वह्नित्वावच्छिन्नेऽसिद्धिरूपत्वात् । केचित्तु गौरवेण नीलधूमत्वस्यावच्छेदकत्वाग्रहात् तदवच्छिन्नव्याप्त्यज्ञानरूपैवासिद्धिरित्याहुः । यन्निष्ठेति । यद्विशेष्यतावच्छेदकाश्रयनिष्ठेत्यर्थः । अभावनिष्ठेति । अभावत्वविशेष्यतावच्छेदकाश्रयनिष्ठव्याप्तावित्यर्थः । न शरीरजन्यत्वमिति । अभावत्वाश्रये जन्यत्वाभावे शरीरं विनैवाकर्त्तृत्वनिरूपितव्याप्तिग्रहान्न विशिष्टे व्याप्तिरित्यर्थः । नन्वेवं जन्यत्वमपि न व्याप्यतावच्छेदकं सकारणकत्वाभावेऽभावत्वाश्रये तेन विनैवाकर्त्तृकत्वव्या- मकरन्दः। रग्रहादित्याह यद्वेति । येन विशेषणेन विनेति । यद्यप्येवमपि नीलधूमादौ व्यभिचाराभाव- विशिष्टसहचारादिरूपव्याप्तेः सत्त्वात् कथं व्याप्यत्वासिद्धिः, तथाप्यनुमानप्रकाशोक्तमनुसन्धेयम् । यन्निष्ठेति । यद्विशेष्यतावच्छेदकविशिष्टनिष्ठेत्यर्थः । अभावनिष्ठव्याप्तौ = अभावत्वरूपविशेष्य-

नामेति। विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्भेन तदसिद्धौ मिथोधर्मपरि- हारानुपलम्भेन निरस्तो नाशङ्कामप्यधिरोहतीति ॥

प्रकाशः। लाघवात् , तथा चाजन्यत्वमेवोपाधिः। न च सत्प्रतिपक्षोच्छेदात् पूर्वसाधनव्यतिरेको नोपाधिः, आभाससंस्थापनायां पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वेन तत्र सत्प्रतिपक्षावकाशात् ॥ यद्वा यन्निरूपिता यन्निष्ठा व्याप्तिर्येन विशेषणेन विना न गृह्यते, तत्र विशिष्टं व्याप्यताव- च्छेदकम्। अकर्तृकत्वनिरूपिताभावनिष्ठव्याप्तौ च शरीरं विनैव प्रतियोगिता जन्यत्वमवच्छे- दकं क्लृप्तमिति न शरीरजन्यत्वमवच्छेदकम्। अतो गौरवेण शरीरजन्यत्वमप्रतियोगितया च जन्यत्वं नावच्छेदकमिति व्याप्यतावच्छेदकाभावान्न शरीरजन्यत्वाभावोऽकर्तृकत्वव्याप्यः, अन्यथाऽ- दृष्टाजन्यत्वस्यापि क्षित्यादावनुमित्यापत्तेः। अस्मत्पितृचरणास्तु—प्रतिपक्षानुमानस्य प्रसिद्धकर्तृजन्यत्वाभावविषयत्वात् , अप्रतीतप्र- तियोगिकाभावस्य निरूपयितुमशक्यत्वात्। स्थापनानुमानस्य च पक्षधर्मताबलात् प्रसिद्धकर्तृसाधक- त्वाद् भिन्नविषयतया न प्रतिबध्यप्रतिबन्धकभावः। न च कर्तृजन्यत्वस्योपाधेः स्थापनाविषयतया तदभावः साध्यः, तस्याप्यप्रसिद्धकर्तृव्यक्तिमादाय पर्यवसानात्। न चैवं सत्प्रतिपक्षोच्छेदः। तस्य गोत्वाद्येकभावाभावसाधकविषयत्वादित्याहुः। अर्थान्तरेण सिद्धयसिद्धयोरिति व्याचष्टे विशेषेति। व्याप्तिपक्षधर्मताभ्यामानीयमान- शरीरत्वाशरीरित्वसिद्धौ रूपरसवत् कर्त्तरि सहोपलम्भेन, तदसिद्धौ कर्तरि तदुभयासिद्धौ

प्रकाशिका। विग्रहादित्यानुशयेनाह अस्मत्पितृचरणा इति। सामान्यलक्षणानङ्गीकारेण, तन्मते विभिन्न- विषयत्वमिति केचित्। वस्तुतो नित्यज्ञानादिमतः कर्तुरप्रामाणिकतया न सामान्यलक्षणयापि मन्मते उपस्थितिः, अन्यथा शशशृङ्गादेरपि शृङ्गत्वेनोपस्थित्यापत्तिरिति परं प्रति विरोधोद्भावनं द्रष्टव्यम्। इदञ्चापाततः, वस्तुतः स्थापनानुमानेऽस्य तर्कसहायत्वात् प्रत्यनुमानस्य चातथात्वाद् व्यर्थविशेषणत्वाच्च न तुल्यबलवत्तेति न सत्प्रतिपक्ष इति तात्पर्यम्। तस्य गोत्वेति। गोत्वा- द्येकभावाभावविषयत्वेन त्वया वाच्यत्वादित्यर्थः। रूपरसवदिति। यद्यपि शरीरित्वाशरीरि-

मकरन्दः। तावच्छेदकविशिष्टनिष्ठव्याप्तावित्यर्थः। न शरीरेति। अभावत्वावच्छिन्ने जन्यत्वाभावे शरीरं विनैवाकर्तृकत्वनिरूपितव्याप्तिग्रहान्न तद्विशिष्टे व्याप्तिरित्यर्थः। नन्वेवं जन्यत्वाभावोऽपि तद्व्याप्यो न स्यात् सकारणकत्वाभावादौ जन्यत्वविशेषणं विनाऽपि अभावत्वावच्छिन्ननिष्ठव्याप्तेर्ग्रहादित्यनुशयादाह अस्मत्पितृचरणास्त्विति। सामान्यलक्षणाऽ- नङ्गीकारेण तन्मते भिन्नविषयत्वं बोध्यम्। वस्तुतस्तु स्थापनानुमानस्य तर्कसचिवत्वादस्य च तदभावाद् व्यर्थविशेषणत्वादिदोषाच्च न्यूनबलत्वमिति न सत्प्रतिपक्ष इति भावः। तस्येति। गोत्वाद्येकभावाभावसाधकत्वविषयत्वेन त्वया समाधेयत्वादित्यर्थः। रूपरसवत् कर्त्तरीति। यद्यपि शरीरित्वाशरीरित्वयोस्तथा न सहोपलम्भः, तथापि कर्तृजातीये तथोपलम्भ

टिप्पणी। शरीरित्वाशरीरित्वसिद्धाविति। अथ घटादिकर्त्र्यैव शरीरित्वं प्रमाणेन प्रत्यक्षेण सिद्धं तत्र न व्याप्ताद्युपयोग इति न व्याप्त्याद्यानीयमानत्वमिति चेन्न। आनीयमाने क्षितिः सकर्तृका कार्यत्वा- दित्यनुमानोपस्थिते क्षित्यादिकर्त्तरि शरीरित्वाशरीरित्वयोः सिद्धावित्यत्र तात्पर्यात्।

पंचमस्तबके ] ईश्‍वरबाधकखण्डनम् । ४८६ स्यादेतत् । अस्ति तावत् कार्यस्यावान्तरविशेषो यतः शरीरिकर्तृकत्वमनु- मीयते, तथाच तत्प्रयुक्तामेव व्याप्तिमुपजीवेत् कार्यत्वसामान्यमिति स्यात् । प्रकाशः । यो मिथो धर्मिपरिहारोऽन्योन्यधर्मिप्रतिक्षेपः, तस्यानुपलम्भेन निरस्तो विशेषविरोधो न शङ्काम- प्यधिरोहतीत्यर्थः । असिद्धिनिबन्धनमुपाधिमाह अस्तीति । शरीरजन्यकार्ये यदवच्छेदेन शरीरस्य कारणत्वं गृह्यते, तत् सामान्यत्मकमेकमङ्गीकार्यम् , अतस्तत्सामान्यवत्त्वमेवोपाधिरिति न कार्यत्वसामान्यं कर्तृजन्य- प्रकाशिका । त्वयोः कदापि न सहोपलम्भः, तथापि कर्तृत्वाशरीरित्वयोः सहोपलम्भ इत्यर्थः । कर्तृजातीये शरीरित्वाशरीरित्वयोर्विरोध इति वा पङ्किकार्थः । यो मिथ इति । शरीरिकर्तृत्वा- शरीरिकर्तृत्वयोरिति शेषः । कर्तृत्वाशरीरित्वयोश्च मिथो धर्मिपरिहारोपलम्भेऽपि तद्विरोधस्य प्रसिद्धमात्रविषयकत्वे पक्षधर्मतावलभ्याप्रसिद्धकर्तृबाधकत्वादप्रसिद्धविषयत्वे च तत्साधकमानेन तयोस्सहोपलम्भेन विरोधस्यैवासिद्धेरत एवावयवो महानेवेत्यादिव्याप्तिविरोधान्न परमाण्वाद्य- सिद्धिरित्यत्र तात्पर्यम् । ननु घटत्वादिकमेव शरीरजन्यतावच्छेदकमिति न शरीरजन्यता- मकरन्दः । एव सहोपलम्भो बोध्यः । यद्वा कर्तृत्वाशरीरित्वयोः सहोपलम्भो बोध्यः । यो मिथो धर्मेति । शरीरिकर्तृत्वाशरीरिकर्तृत्वयोरिति शेषः । न च कर्तृत्वाशरीरित्वयोः प्रत्यक्षविरोधात्तथापि कथं समावेश इति वाच्यम् । तस्य प्रसिद्धमात्रविषयकत्वेन पक्षधर्मतावल्लभ्यकर्त्तरि तदुभयसिद्धौ विरो- धाभावात् , अन्यथा अवयवो महानेवेत्यादिधीविरोधात् परमाण्वादेरसिद्धिप्रसङ्गादिति भावः । टिप्पणी । न चैकत्र धर्मिणि विरुद्धयोः शरीरित्वाशरीरित्वयोः कथं सिद्धिः किञ्च साधकमिति वाच्यम् । 'स वै शरीरी प्रथम' इत्यादि 'अपाणिपादो जवनो गृहीते'त्यादिश्रुतयो हि मानम्, तत्प्रामाण्याभ्युपगमेऽनाहार्य्यशरीराभिमानस्य शरीरित्वप्रयोजकस्य मुख्यस्य विरहेणाशरीरित्व- स्याहार्य्याभिमानस्य शरीरप्रयुक्तकार्यप्रयोजकस्य मुख्यस्य शरीरित्वप्रयोजकस्य सत्त्वेन शरीरी- त्वस्य चोपपन्नतया तत्सिद्धौ बाधकाभावात् । एवञ्च शरीर्यकर्त्तृत्वस्य मुख्यशरीरित्वघटितस्य प्रत्यक्षोपलब्धस्य न सकर्त्तकत्वप्रतिक्षेपकत्वम् । यद्वा शरीरित्ववदशरीरित्वस्य सिद्धावित्यर्थः । अभ्युपगम्यमान इति शेषः । कर्त्तरीत्यनन्तरं कर्तृत्वाशरीरित्वयोरिति शेषः । तथा च यथाकथञ्चित् कर्त्ता शरीरी प्रमाणेन प्रत्यक्षादिना सिद्धस्तथा कश्चित् कर्त्तानुमानादिना ह्यशरीरी सिद्धोऽस्तीति त्वया यद्युपेयते तदा रूपरसवत् कर्तृत्वाशरीरित्वयोः सह गृहीतत्वेन क्षित्यादेः शरीर्यकर्तृत्वेऽ- प्यशरीरिकर्तृत्वमादाय सकर्तृकत्वस्य सम्भवेन तत्प्रतिक्षेपकत्वलक्षणविरोधासम्भवेन तदग्रहण- विशेषविरोधो निरस्त इति पर्य्यवसितार्थः । तदसिद्धाविति । श्रुतेः प्रामाण्यानभ्युपगमे क्षित्यादि- कर्त्तरि शरीरित्वाशरीरित्वयोरसिद्धावित्यर्थः । यद्वा प्रत्यक्षप्रमाणसिद्धशरीरकर्त्तृत्वसिद्धावभ्युपगम- मवेड(?)प्यनभ्युपगनेनाशरीरिकर्तृसिद्धावित्यर्थः । तदुभयासिद्धाविति । शरीरित्वाशरीरित्वोभया- सिद्धावित्यर्थः । कर्तृत्वाशरीरित्वोभयासिद्धावित्यर्थः । मिथ इति । सकर्तृकत्वशरीर्यकर्तृकत्वयो- रन्योन्यमित्यर्थः । तस्यानुपलम्भेनेति । अशरीरिणः कर्तुरप्रसिद्धौ तदभावस्य प्रमाणेन क्षित्यादौ ग्रहीतुमशक्यतयाऽशरीरिकर्तृनिर्वाह्यस्य सामान्यरूपस्य सकर्तृकस्य तत्राभावनिश्चयासम्भवे तत्प्रतिक्षेपस्य विरोधस्याग्रहणेनेत्यर्थः । तत्तामान्यत्मकमकमङ्गीकार्यमिति । शरीरकर्तृभय- जन्यतावच्छेदकमेकमेवादारणीयं लाघवात् न तु भिन्नमिति भावः ॥ सामान्यवत्त्वमेवोपाधिरिति । ६२ न्या० कु०