भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पञ्चमस्तबके ] ईश्वराबाधकखण्डनम् । ४८७ प्रकाशः। मर्तौपयिकस्यापि तस्य सप्रयोजनकत्वात् । व्यभिचारवारकस्यापि सार्थकत्वेऽनुमितिप्रयोजकत्वस्यै- व तन्त्रत्वात् । नापि व्यभिचारवारकविशेषणवत्येव व्याप्तिरिति तच्छून्यत्वं, निर्विशेषणेऽपि गोत्वादौ व्याप्तेः । तत्र व्यक्तेरेव विशेषणत्वेऽन्योन्याश्रयात् । नाऽपि व्यभिचारवारकं विशेषणं विशिष्टे व्याप्तिग्राहकं, सहचारदर्शनादिसत्त्वे तदभावे व्याप्तिग्रहाविलम्बात् । न च व्यभिचारावारकविशेषण- शून्य एव व्याप्तिग्रहः । प्रमेयत्वेन ज्ञायमाने धूमे व्याप्तिग्रहात्तत्रोपात्तव्यभिचारावारकविशेषणशून्य- त्वस्य च विवक्षितत्वे विरोधः । तत्रोपात्तं तेन शून्यञ्चेत्यस्यासम्भवात् । अथ शरीरजन्यत्वाभावे न व्याप्तिः, एकवृत्तित्त्वबाधे सत्येव व्यासज्जद्वृत्तित्वात् , विशेष्यतावच्छेदकस्य व्याप्यतानवच्छेदकत्वे सत्येव विशेषणस्य तदवच्छेदकत्वाच्च, किन्तु जन्य- त्वाभावे व्याप्तिः तत्र स्वरूपासिद्धिः, तन्निरासार्थं विशेषणाभिधाने व्याप्यत्वासिद्धिः । न, अन्य- भिचारानौपाधिकत्वयोर्विशिष्टे सत्त्वेन तदभावसाधने बाधात् । किञ्चैवं निर्धूमोऽयम् आर्देन्धनप्रभ- ववह्रिरहितत्वादित्याद्यप्यनुमानं न स्यात् । यद्वा शरीरजन्यत्वाभावोऽखण्ड एवं हेतुरस्तु, तत्र व्यर्थविशेषणत्वाभावात् । अत्राहः। शरीराजन्यत्वस्य व्याप्यत्वेऽपि शरीरं न व्याप्यतावच्छेदकं, गौरवात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते, तस्यैव व्याप्यतावच्छेदकत्वनियमात् । अत एव गन्धस्यैव व्यञ्जकत्वादित्यत्राप्रसिद्धत्वेन गन्धादिषु मध्ये इति विशेषणं विना व्याप्तिर्गृहीतुं न शक्यते इत्यसि- द्विवारकमपि विशेषणं सार्थकम् । व्याप्यतावच्छेदकस्यैव हेतुतावच्छेदकत्वात् । धूमे च वह्निविशे- षस्य कारणत्वात् कारणाभावस्य च कार्याभावव्याप्यत्वान्न तत्रोक्तदोषः । शरीरजन्यत्वाभावोऽप्यखण्डो न हेतुः । यदि शरीरजन्यत्वप्रयुक्तं सकर्तृत्वं स्यात् , तदा तदभावप्रयुक्तः सकर्तृत्वाभाव इति तस्य साध्यव्याप्यता स्यात् । न चैवम् , किन्तु जन्यत्वप्रयुक्तं, प्रकाशिका । विशेषणं व्याप्यतावच्छेदकं विशेष्यञ्च व्याप्तिराश्रय इति वा । आद्ये एकवृत्तित्वेति । अन्त्ये विशेष्ये- तेति । ननु शरीरजन्यत्वाश्रयप्रतियोगिकयावदन्योन्याभावरूपे हेतौ वैय्यर्थ्येऽपि शरीरजन्यत्वाभावे- ऽखण्डहेतौ न व्यर्थता शरीरं विना तस्याज्ञानेन शरीररूपविशेषणस्य व्याप्तिग्रहोपयिकत्वादित्याशये- नाह यद्वेति । येन विशेषणेनेति । यद्यपि नीलधूमत्वादौ व्याप्तिरस्त्येव, तथापि नीलधूमत्वा- वच्छिन्ने व्याप्तिविरहोऽस्त्येव, गौरवेण नीलधूमत्वस्य व्याप्त्यनवच्छेदकत्वात् । न च नीलधूमत्वावच्छिन्ने व्याप्तेरप्रसिद्धिः, वह्निविशेषं प्रति नीलधूमत्वस्यैव व्याप्यतावच्छेदकत्वात् । न च वह्निविशेषप्रतियो- गिकनीलधूमत्वावच्छिन्नव्याप्तेस्सत्त्वात्तद्विरहोऽसिद्ध इति वाच्यम् । नीलधूमत्वावच्छिन्नव्याप्तिप्रतियो- गित्वाभावस्य वह्नित्वावच्छिन्नेऽसिद्धिरूपत्वात् । केचित्तु गौरवेण नीलधूमत्वस्यावच्छेदकत्वाग्रहात् तदवच्छिन्नव्याप्त्यज्ञानरूपैवासिद्धिरित्याहुः । यन्निष्ठेति । यद्विशेष्यतावच्छेदकाश्रयनिष्ठेत्यर्थः । अभावनिष्ठेति । अभावत्वविशेष्यतावच्छेदकाश्रयनिष्ठव्याप्तावित्यर्थः । न शरीरजन्यत्वमिति । अभावत्वाश्रये जन्यत्वाभावे शरीरं विनैवाकर्त्तृत्वनिरूपितव्याप्तिग्रहान्न विशिष्टे व्याप्तिरित्यर्थः । नन्वेवं जन्यत्वमपि न व्याप्यतावच्छेदकं सकारणकत्वाभावेऽभावत्वाश्रये तेन विनैवाकर्त्तृकत्वव्या- मकरन्दः। रग्रहादित्याह यद्वेति । येन विशेषणेन विनेति । यद्यप्येवमपि नीलधूमादौ व्यभिचाराभाव- विशिष्टसहचारादिरूपव्याप्तेः सत्त्वात् कथं व्याप्यत्वासिद्धिः, तथाप्यनुमानप्रकाशोक्तमनुसन्धेयम् । यन्निष्ठेति । यद्विशेष्यतावच्छेदकविशिष्टनिष्ठेत्यर्थः । अभावनिष्ठव्याप्तौ = अभावत्वरूपविशेष्य-

नामेति। विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्भेन तदसिद्धौ मिथोधर्मपरि- हारानुपलम्भेन निरस्तो नाशङ्कामप्यधिरोहतीति ॥

प्रकाशः। लाघवात् , तथा चाजन्यत्वमेवोपाधिः। न च सत्प्रतिपक्षोच्छेदात् पूर्वसाधनव्यतिरेको नोपाधिः, आभाससंस्थापनायां पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वेन तत्र सत्प्रतिपक्षावकाशात् ॥ यद्वा यन्निरूपिता यन्निष्ठा व्याप्तिर्येन विशेषणेन विना न गृह्यते, तत्र विशिष्टं व्याप्यताव- च्छेदकम्। अकर्तृकत्वनिरूपिताभावनिष्ठव्याप्तौ च शरीरं विनैव प्रतियोगिता जन्यत्वमवच्छे- दकं क्लृप्तमिति न शरीरजन्यत्वमवच्छेदकम्। अतो गौरवेण शरीरजन्यत्वमप्रतियोगितया च जन्यत्वं नावच्छेदकमिति व्याप्यतावच्छेदकाभावान्न शरीरजन्यत्वाभावोऽकर्तृकत्वव्याप्यः, अन्यथाऽ- दृष्टाजन्यत्वस्यापि क्षित्यादावनुमित्यापत्तेः। अस्मत्पितृचरणास्तु—प्रतिपक्षानुमानस्य प्रसिद्धकर्तृजन्यत्वाभावविषयत्वात् , अप्रतीतप्र- तियोगिकाभावस्य निरूपयितुमशक्यत्वात्। स्थापनानुमानस्य च पक्षधर्मताबलात् प्रसिद्धकर्तृसाधक- त्वाद् भिन्नविषयतया न प्रतिबध्यप्रतिबन्धकभावः। न च कर्तृजन्यत्वस्योपाधेः स्थापनाविषयतया तदभावः साध्यः, तस्याप्यप्रसिद्धकर्तृव्यक्तिमादाय पर्यवसानात्। न चैवं सत्प्रतिपक्षोच्छेदः। तस्य गोत्वाद्येकभावाभावसाधकविषयत्वादित्याहुः। अर्थान्तरेण सिद्धयसिद्धयोरिति व्याचष्टे विशेषेति। व्याप्तिपक्षधर्मताभ्यामानीयमान- शरीरत्वाशरीरित्वसिद्धौ रूपरसवत् कर्त्तरि सहोपलम्भेन, तदसिद्धौ कर्तरि तदुभयासिद्धौ

प्रकाशिका। विग्रहादित्यानुशयेनाह अस्मत्पितृचरणा इति। सामान्यलक्षणानङ्गीकारेण, तन्मते विभिन्न- विषयत्वमिति केचित्। वस्तुतो नित्यज्ञानादिमतः कर्तुरप्रामाणिकतया न सामान्यलक्षणयापि मन्मते उपस्थितिः, अन्यथा शशशृङ्गादेरपि शृङ्गत्वेनोपस्थित्यापत्तिरिति परं प्रति विरोधोद्भावनं द्रष्टव्यम्। इदञ्चापाततः, वस्तुतः स्थापनानुमानेऽस्य तर्कसहायत्वात् प्रत्यनुमानस्य चातथात्वाद् व्यर्थविशेषणत्वाच्च न तुल्यबलवत्तेति न सत्प्रतिपक्ष इति तात्पर्यम्। तस्य गोत्वेति। गोत्वा- द्येकभावाभावविषयत्वेन त्वया वाच्यत्वादित्यर्थः। रूपरसवदिति। यद्यपि शरीरित्वाशरीरि-

मकरन्दः। तावच्छेदकविशिष्टनिष्ठव्याप्तावित्यर्थः। न शरीरेति। अभावत्वावच्छिन्ने जन्यत्वाभावे शरीरं विनैवाकर्तृकत्वनिरूपितव्याप्तिग्रहान्न तद्विशिष्टे व्याप्तिरित्यर्थः। नन्वेवं जन्यत्वाभावोऽपि तद्व्याप्यो न स्यात् सकारणकत्वाभावादौ जन्यत्वविशेषणं विनाऽपि अभावत्वावच्छिन्ननिष्ठव्याप्तेर्ग्रहादित्यनुशयादाह अस्मत्पितृचरणास्त्विति। सामान्यलक्षणाऽ- नङ्गीकारेण तन्मते भिन्नविषयत्वं बोध्यम्। वस्तुतस्तु स्थापनानुमानस्य तर्कसचिवत्वादस्य च तदभावाद् व्यर्थविशेषणत्वादिदोषाच्च न्यूनबलत्वमिति न सत्प्रतिपक्ष इति भावः। तस्येति। गोत्वाद्येकभावाभावसाधकत्वविषयत्वेन त्वया समाधेयत्वादित्यर्थः। रूपरसवत् कर्त्तरीति। यद्यपि शरीरित्वाशरीरित्वयोस्तथा न सहोपलम्भः, तथापि कर्तृजातीये तथोपलम्भ

टिप्पणी। शरीरित्वाशरीरित्वसिद्धाविति। अथ घटादिकर्त्र्यैव शरीरित्वं प्रमाणेन प्रत्यक्षेण सिद्धं तत्र न व्याप्ताद्युपयोग इति न व्याप्त्याद्यानीयमानत्वमिति चेन्न। आनीयमाने क्षितिः सकर्तृका कार्यत्वा- दित्यनुमानोपस्थिते क्षित्यादिकर्त्तरि शरीरित्वाशरीरित्वयोः सिद्धावित्यत्र तात्पर्यात्।

पंचमस्तबके ] ईश्‍वरबाधकखण्डनम् । ४८६ स्यादेतत् । अस्ति तावत् कार्यस्यावान्तरविशेषो यतः शरीरिकर्तृकत्वमनु- मीयते, तथाच तत्प्रयुक्तामेव व्याप्तिमुपजीवेत् कार्यत्वसामान्यमिति स्यात् । प्रकाशः । यो मिथो धर्मिपरिहारोऽन्योन्यधर्मिप्रतिक्षेपः, तस्यानुपलम्भेन निरस्तो विशेषविरोधो न शङ्काम- प्यधिरोहतीत्यर्थः । असिद्धिनिबन्धनमुपाधिमाह अस्तीति । शरीरजन्यकार्ये यदवच्छेदेन शरीरस्य कारणत्वं गृह्यते, तत् सामान्यत्मकमेकमङ्गीकार्यम् , अतस्तत्सामान्यवत्त्वमेवोपाधिरिति न कार्यत्वसामान्यं कर्तृजन्य- प्रकाशिका । त्वयोः कदापि न सहोपलम्भः, तथापि कर्तृत्वाशरीरित्वयोः सहोपलम्भ इत्यर्थः । कर्तृजातीये शरीरित्वाशरीरित्वयोर्विरोध इति वा पङ्किकार्थः । यो मिथ इति । शरीरिकर्तृत्वा- शरीरिकर्तृत्वयोरिति शेषः । कर्तृत्वाशरीरित्वयोश्च मिथो धर्मिपरिहारोपलम्भेऽपि तद्विरोधस्य प्रसिद्धमात्रविषयकत्वे पक्षधर्मतावलभ्याप्रसिद्धकर्तृबाधकत्वादप्रसिद्धविषयत्वे च तत्साधकमानेन तयोस्सहोपलम्भेन विरोधस्यैवासिद्धेरत एवावयवो महानेवेत्यादिव्याप्तिविरोधान्न परमाण्वाद्य- सिद्धिरित्यत्र तात्पर्यम् । ननु घटत्वादिकमेव शरीरजन्यतावच्छेदकमिति न शरीरजन्यता- मकरन्दः । एव सहोपलम्भो बोध्यः । यद्वा कर्तृत्वाशरीरित्वयोः सहोपलम्भो बोध्यः । यो मिथो धर्मेति । शरीरिकर्तृत्वाशरीरिकर्तृत्वयोरिति शेषः । न च कर्तृत्वाशरीरित्वयोः प्रत्यक्षविरोधात्तथापि कथं समावेश इति वाच्यम् । तस्य प्रसिद्धमात्रविषयकत्वेन पक्षधर्मतावल्लभ्यकर्त्तरि तदुभयसिद्धौ विरो- धाभावात् , अन्यथा अवयवो महानेवेत्यादिधीविरोधात् परमाण्वादेरसिद्धिप्रसङ्गादिति भावः । टिप्पणी । न चैकत्र धर्मिणि विरुद्धयोः शरीरित्वाशरीरित्वयोः कथं सिद्धिः किञ्च साधकमिति वाच्यम् । 'स वै शरीरी प्रथम' इत्यादि 'अपाणिपादो जवनो गृहीते'त्यादिश्रुतयो हि मानम्, तत्प्रामाण्याभ्युपगमेऽनाहार्य्यशरीराभिमानस्य शरीरित्वप्रयोजकस्य मुख्यस्य विरहेणाशरीरित्व- स्याहार्य्याभिमानस्य शरीरप्रयुक्तकार्यप्रयोजकस्य मुख्यस्य शरीरित्वप्रयोजकस्य सत्त्वेन शरीरी- त्वस्य चोपपन्नतया तत्सिद्धौ बाधकाभावात् । एवञ्च शरीर्यकर्त्तृत्वस्य मुख्यशरीरित्वघटितस्य प्रत्यक्षोपलब्धस्य न सकर्त्तकत्वप्रतिक्षेपकत्वम् । यद्वा शरीरित्ववदशरीरित्वस्य सिद्धावित्यर्थः । अभ्युपगम्यमान इति शेषः । कर्त्तरीत्यनन्तरं कर्तृत्वाशरीरित्वयोरिति शेषः । तथा च यथाकथञ्चित् कर्त्ता शरीरी प्रमाणेन प्रत्यक्षादिना सिद्धस्तथा कश्चित् कर्त्तानुमानादिना ह्यशरीरी सिद्धोऽस्तीति त्वया यद्युपेयते तदा रूपरसवत् कर्तृत्वाशरीरित्वयोः सह गृहीतत्वेन क्षित्यादेः शरीर्यकर्तृत्वेऽ- प्यशरीरिकर्तृत्वमादाय सकर्तृकत्वस्य सम्भवेन तत्प्रतिक्षेपकत्वलक्षणविरोधासम्भवेन तदग्रहण- विशेषविरोधो निरस्त इति पर्य्यवसितार्थः । तदसिद्धाविति । श्रुतेः प्रामाण्यानभ्युपगमे क्षित्यादि- कर्त्तरि शरीरित्वाशरीरित्वयोरसिद्धावित्यर्थः । यद्वा प्रत्यक्षप्रमाणसिद्धशरीरकर्त्तृत्वसिद्धावभ्युपगम- मवेड(?)प्यनभ्युपगनेनाशरीरिकर्तृसिद्धावित्यर्थः । तदुभयासिद्धाविति । शरीरित्वाशरीरित्वोभया- सिद्धावित्यर्थः । कर्तृत्वाशरीरित्वोभयासिद्धावित्यर्थः । मिथ इति । सकर्तृकत्वशरीर्यकर्तृकत्वयो- रन्योन्यमित्यर्थः । तस्यानुपलम्भेनेति । अशरीरिणः कर्तुरप्रसिद्धौ तदभावस्य प्रमाणेन क्षित्यादौ ग्रहीतुमशक्यतयाऽशरीरिकर्तृनिर्वाह्यस्य सामान्यरूपस्य सकर्तृकस्य तत्राभावनिश्चयासम्भवे तत्प्रतिक्षेपस्य विरोधस्याग्रहणेनेत्यर्थः । तत्तामान्यत्मकमकमङ्गीकार्यमिति । शरीरकर्तृभय- जन्यतावच्छेदकमेकमेवादारणीयं लाघवात् न तु भिन्नमिति भावः ॥ सामान्यवत्त्वमेवोपाधिरिति । ६२ न्या० कु०

न स्यात् । न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् । तथा सति सौरभकटुत्व- नीलिमाऽदिविशेषे सति न धूमसामान्यमग्निङ्गमयेत् । किं नाम साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्त्तमाने तद्विशेषः साध्यविशेषव्याप्तिमाश्रयेद् , न तु विशेषे सति सामान्यमकिञ्चित्करम् । तस्यापि विशेषान्तरापेक्षयाऽकिञ्चित्करत्व- प्रसङ्गात् । सौरभादिविशेषं विहायाऽपि धूमे वह्निर्द्दष्टो, न तु विशेषं विहाय कार्ये कर्त्तेति चेत् । न । कार्यविशेषः कारणविशेषे व्यवतिष्ठते, न तु कार्यकारणसामा- न्ययोः प्रतिबन्धमन्यथाकुर्यादिति । किं न दृष्टं कार्यं कारणमात्रे अङ्कुरो बीजे

प्रकाशः ।

त्वव्याप्यमित्यर्थः । तत्सामान्याऽनङ्गीकारेऽपि घटत्वादिकमेव कर्तृजन्यत्वे प्रयोजकम् , अग्नि- जन्यतायां धूमत्वादेरिवाननुगतस्यापि जन्यतावच्छेदकत्वादिति भावः । तथापि कार्यत्वसामान्यस्य कर्तृसामान्येन व्याप्तौ विशेषो नोपाधिः, न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् , तथात्वे वाऽ- म्निजन्यत्वे धूमविशेषस्य प्रयोजकत्वान्न धूमसामान्यमग्निं गमयेत् , तस्माद् यद्विशेषयोः कार्यकारण- भावः, तत्सामान्ययोरपि बाधकं विना तथात्वनियम इत्याह न हीति ॥ नन्वग्निधूमसामान्ययो- र्व्याप्तौ धूमविशेषो नोपाधिः, प्रत्येकं साध्याव्याप्तेः । कर्तृकार्यसामान्ययोर्व्याप्तौ शरीरप्रयोज्यजा- तिर्न साध्याव्यापिकेत्याशयमविद्वान् शङ्कते सौरभादीति ॥ सा जातिर्न कर्तृमात्रप्रयोज्यतया कल्पिता, किन्तु शरीरप्रयोज्यतयेति तदभावाच्छरीरमेव कारणं निवर्त्तते, न कर्तृसामान्यम्, तस्यैव कार्यकारणभावप्रवृत्तौ कर्तृमात्रनिवृत्तावप्रयोजकत्वादिति परिहरति कार्यविशेष इति॥ शरीरकर्तृत्वानुमानञ्च घटत्वादिभिरेवोपपन्नमिति तज्जातौ मानाभावः । तेषाञ्च नोपाधित्वं, प्रत्येकं साध्याव्यापकत्वादिति भावः। नन्वत्र बाधकाभावादस्तु तथा, प्रकृते तु ज्ञानमनित्यमेवेत्यादिप्राथमिक-

प्रकाशिका ।

वच्छेदकैकजातिसिद्धिरित्यत आह तत्सामान्येति । तथा सति कर्तृजन्यत्वावच्छेदकमपि- तदेवेति कर्तृजन्यत्वमप्रयोजकमित्यर्थः । केचित्तु अस्तु तथा, तथापि तदेव शरीरजन्य- तावच्छेदकत्वेनानुगतीकृतं कर्तृजन्यत्वं उपाधिरित्यर्थः । कर्तृजन्यत्वे शरीरिकर्तृजन्यत्वे इति व्याचक्षते । आशयमविद्वानिति शङ्कत इति योजना । अप्रयोजकत्वादित्यनन्तर- माशयेनेति शेषः । तेषाञ्चेति । शरीरजन्यतावच्छेदकरूपवत्त्वञ्च नोपाधिः, शरीरविशे- षणान्तर्भावेण व्यर्थतया व्यापकत्वाग्रहात् लाघवेन जन्यत्वस्योभयसिद्धस्य कर्तृजन्यतावच्छेदक-

मकरन्द ।

तत्सामान्यानङ्गीकारे इति । न च घटत्वादीनां प्रत्येकं साध्यव्यापकत्वं, शरीरजन्यतावच्छेदक- रूपवस्त्वस्य विवक्षितत्वात् । तावदन्यतमत्त्वं तथेत्यप्याहुः। केचित्तु तदनङ्गीकारातस्तस्यानुपाधित्वेऽपि घटत्वादिकमेव कर्तृजन्यतावच्छेदकमस्तु न तु जन्यत्वमित्यप्रयोजकमेवास्त्विति तात्पर्यमित्याहुः । इत्याशयमविद्वानिति इति शङ्कते इत्यन्वयः । तेषाञ्चेति । घटत्वादीनामित्यर्थः । यद्यपि विवक्षितोपाधौ नाऽयं दोषः, तथापि यथाश्रुताभि-

टिप्पणी ।

कार्यस्य कर्तृजन्यतायामवच्छेदकं साध्यव्यापकत्वे सति साधनव्यापकत्वं च, तथा च शरीरजन्यता- वच्छेदककार्यनिष्ठधर्मविशेष एव कर्तृजन्यत्वव्याप्यो न कार्यमिति भावः ॥ तत्सामान्यानङ्गीका- रेऽपीति । क्लृप्तस्यावच्छेदकत्वसम्भव उफलाघवं कल्प्यविषयमकिञ्चित्करमित्याशयेनाह तदिति । तथा हि क्षित्यादिनिष्ठस्यैकस्य कार्यत्वाभावात् क्षितित्वस्य कर्तृजन्यतावच्छेदकत्वे ग्राहकाभावात् क्षितित्वावच्छिन्नकार्यत्वस्यापि कर्तृजन्यताव्याप्यत्वासम्भव इति भावः ॥ चक्षुर्व्यतिरिक्तप्रत्यक्ष-

: पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६१ तद्विशेषो धान्ये तद्विशेषः शालौ तद्विशेषः कलमे इत्यादि बहुलं लोके । क्व वा दृष्टमनुद्भूद्रव्यारभ्यं द्रव्यं नित्यरूपाद्यारब्धं रूपादि । तथापि सामान्यव्याप्तेरविरो- प्रकाशः । बहुव्याप्तिकप्रत्यक्षबाधः, तुल्यत्वेऽपि व्याप्तिसंशयाधायकत्वात् । न च कार्यकारणभावमूलकत्वेन कार्य- त्वसकर्तृकत्वव्याप्तिर्बलीयसीति वाच्यम् । विरोधिप्रत्यक्षेण कार्यकारणभावस्यैवासिद्धेरित्यत आह क्व वेति ॥ एवं सति अवयवो महानेव रूपारम्भकं रूपमनित्यमेव, तेज उद्भूतरूपमेवेत्यादि-व्या- प्तिग्रहात् परमाणुतद्रूपचक्षुरादेरप्यसिद्धिः स्यात् ॥ अथ द्रव्यचाक्षुषत्वेऽनेकद्रव्यवत्त्वस्य रूपे स्वाश्रयसमानाधिकरणरूपस्य साक्षात्कारे विषयेन्द्रि- यसन्निकर्षस्य कारणत्वात् तन्मूलविपक्षबाधकेन परमाण्वादिसाधकस्य बलवत्त्वात् परमाण्वादिसिद्धौ विरोधिव्याप्तेर्बाधो, न तु वैपरीत्यम् , विपक्षबाधकाभावेन तस्या बलवत्त्वात् । तर्हि ज्ञानादिकार्योः कार्यकारणभावावधारणात् तन्मूलविपक्षबाधकेन व्याप्तिग्रहात् पक्षधर्मतासचिवाग्नित्यज्ञानादिसिद्धौ व्यभिचारान्न व्याप्तिः । न च कार्यकारणभावे बाधः, साध्यं पक्षातिरिक्त एव, सुखं दुःखसम्भिन्नमेवे- त्यादिव्याप्तिग्रहात् कार्यात् कारणानुमानोच्छेदे निरीहं जगज्जायेतेत्यर्थः ॥ ननु शरीरजन्यत्वमुपाधिः, पक्षेतरत्ववत् पक्षमात्रव्यावर्त्तकविशेषणत्वात् साधनविशेषितत्वात् साधनतुल्ययोगक्षेमत्वेन साध्यव्यापकत्वानिश्चयाच्च न तदुपाधिरिति चेन्न । तेषामनुपाधित्वे साध्यग्रा- हकमानाभावस्य तन्त्रत्वात् । प्रकृते तु चेष्टेतरकार्ये शरीरव्यापारद्वारेव कर्तुः कारणत्वाच्छरीरसह- कृतस्यैव स्वकार्यजनकत्वाच्च विपक्षबाधकात्तन्निश्चयात् । अत एव बाधोन्नीतं पक्षेतरत्वममित्रत्वेन धूमवत्त्वे साध्ये आर्द्रन्धनप्रभवाग्निरत्त्वं रसवत्त्वेन गन्धवत्त्वे साध्ये पृथिवीत्वमुपाधिः, विपक्षबाध- कैस्तेषां साध्यव्यापकत्वनिश्चयात् ॥ मैवम् । कर्तुर्हि शरीरसहकारिता यदि घटादौ कर्त्तव्ये तदा शरीरं विना तस्य घटाद्यकरणेऽपि किमायातं कर्तुः कार्यमात्रकरणे । न च कार्यमात्रकरणे सा, तस्य त्वया कर्तृजन्यत्वानभ्युपगमात् । तथात्वे वा शरीराजन्यमपि कार्यं कर्तृजन्यमिति तस्य साध्याव्यापकत्वम् । नापि स्वकार्ये, तत्रैव तस्यानवच्छेदकत्वादनाद्याश्रयात् ॥ तथापि सन्दिग्धोपाधिः स्यात्तुल्ययोगक्षेमतया साध्याव्यापकतासंशयाधायकत्वादिति चेन्न । लाघवेन बाधकं विना कर्तृजन्यत्वे जन्यत्वस्यैवावच्छेदकत्वात् । न तु शरीरजन्यत्वस्य, गौरवात् । तथा च न शरीरजन्यत्वं सकर्तृकत्वव्यापकम् । घटादौ त्वर्थः समाजः, घटत्वेन शरीरजन्यत्वनि- यमाद्, न तु व्यापकत्वप्रयुक्तः ॥ प्रकाशिका । त्वमिति विपक्षबाधकेन हेतोः साध्यव्याप्यतया तदव्यापकत्या साध्याव्यापकत्वाच्चेति भावः । मकरन्दः । प्रायेणेदम् । विपक्षबाधकेन च हेतौ साध्यव्यापकत्या नायमुपाधिरित्यत्र तात्पर्यम् । रूपारम्भक- टिप्पणी बाध इति । उक्तप्रत्यक्षस्य प्रवलत्वात् तद्बाधो दोष इति भावः । तुल्यत्वेपीति । उक्तप्रत्यक्षस्य समत्वेपीत्यर्थः । व्यभिचारान्न व्याप्तिरिति । ज्ञानमनित्यमेवेत्यादिव्याप्तिः । साध्यव्यापक- त्वानिश्चयाच्चेति । यथा हि साध्यं साधनप्रयोजकमिति साधनव्यापकतानिर्णायकविपक्षबाधक तर्क- सद्भावात् साध्यसाधनव्यापकतानिर्णयः तथा साधनं साध्यप्रयोजकमिति साध्यव्यापकतानिर्णायक- तर्काभावात् साध्यव्यापकतानिर्णयो न सम्भवति, साधने एवमेव हि साधनघटितत्वेन साधनतुल्यो- गक्षेमे साधनस्य यत्प्रयोजकता तद्व्यापकतानिर्णायकतर्कसहितत्वं न यत्प्रयोजकता तद्व्यापकतानि-

४६२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां धात् सिद्ध्यत्येव । अवश्यञ्चैतदेवमङ्गीकर्त्तव्यम् । अन्यथा कार्यत्वस्याकस्मिकत्व- प्रसङ्गात् ॥ स्यादेतत् । अन्वयव्यतिरेकि तावदिदं कार्यत्वमिति परमार्थः । तत्राकाशादे- र्विपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिराहोस्वित् कारणमात्रव्यावृत्तेरिति सन्दिह्यते । तदसत् । कर्तुरपि कारणत्वात् । कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पत्तिं प्रति प्रयोजकत्वादन्यथा कारणत्वव्याघातात् । करणादिविशेष- प्रकाशः। अपि च शरीरजन्यत्वं हस्तादिजन्ये साध्याव्यापकम् । न च साक्षात्प्रयत्नाधिष्ठेयजन्यत्वं तदर्थः, साधनव्यापकत्वात्, परमाण्वादेस्तत्साक्षात्प्रयत्नाधिष्ठेयत्वात् । शरीरिकर्तृत्वमपि नोपाधिः । कार्यमात्रे कर्तुः शरीरसहकारित्वाभावात्, तस्य साध्यव्यापकत्वाऽनिश्चयात् ॥ ननु घटादौ कृतिसाध्यता शरीरव्यापारद्वारैव, न साक्षात् । न चाऽशरीरस्य तत्सम्भव इति तद्बाधात् कर्तुरपि बाध एव । शरीरव्यापारजन्यत्वं वोपाधिः । मैवम् । कार्यमात्रे हि तथा न कृति- साध्यता, क्षित्यादौ व्यभिचारात् । घटादौ च तथात्वेऽपि कार्यमात्रे कृतिमात्रस्य जनकत्वाविरोधात् । विशेषयोर्हेतुहेतुमद्भावे बाधकं विना सामान्ययोरपि तथात्वात् । न च चेष्टेतरकार्ये शरीरव्यापार- द्वारैव कृतेर्जनकत्वम्, क्षित्यादौ व्यभिचारात् किन्तु घटादावित्युकम् ॥ अत एव सहभावनिरूपकत्वे सति नियतपूर्ववर्त्तित्वं कारणत्वम् । न च कृतेः कार्यसहभावनि- रूपकत्वं, स्वतः कार्यकाले तदभावात्, तथा च तत्परिचायितव्यापारद्वारा तस्याः सहभावनिरूप- कत्वम् । अतः शरीरव्यापारद्वारैव कृतेर्जनकत्वं न तु केवलाया इत्यऽपास्तम् । कार्यमात्रे तथा- त्वाभावात् ॥ कार्यत्वसकर्तृकत्वव्याप्तौ विपक्षबाधकमाह अन्यथेति ॥ कारणान्तरस्येव कर्तुरप्यभावेन कार्याभावात् कर्त्रभावे कारणान्तरस्याऽप्यनुत्पादकत्वे कार्यमाकस्मिकं स्यादित्यर्थः । यदि व्यतिरेकसन्देहात् प्रकृते नानुमानं, तदा तादृशव्यतिरेकसन्देहश्च कार्यात् कारणविशे- षानुमानेष्वपि कर्तुं शक्यते इति तेषामप्यनुमानाभासत्वं स्यादिति शङ्कोत्तराभ्यामाह-स्यादेतदिति॥ प्रकाशिका। साधनव्यापकत्वादिति । नचादृष्टाद्वारकचेष्टाश्रयजन्यत्वमुपाधिश्चेष्टात्वञ्च जातिरिति वाच्यम् । विपक्षबाधकेनेत्यादिसमाधेरनुपदमेवोक्तत्वादिति भावः । ननु कारणान्तरसत्त्वे कथमाकस्मिकत्व- मित्यत आह कारणान्तरस्येति । कारणविशेषेति । उपादानाद्यनुमानेष्वपीत्यर्थः । संयोग- मकरन्दः। मनतिप्रयोजकं बोध्यम् । साधनव्यापकत्वादिति । ननु चेष्टाश्रयजन्यत्वमुपाधिरस्तु, तथा च नोक्तदोषः । न चादृष्टद्वारा क्षित्यादौ शरीरजन्यत्वादिदमपि साधनव्यापकमेवेति वाच्यम् । अदृष्टाद्वारकत्वस्यापि तद्विशेषणत्वादिति चेत् । न, विपक्षबाधकेन हेतोः साध्यव्याप्यतया तदव्याप- कत्वेनानुपाधित्वात् । ननु कारणान्तरसत्त्वे कथमाकस्मिकत्वमित्यत आह कारणान्तरस्येति । कारणविशेष उपादानादिः । शरीरव्यापारे शरीरानपेक्षत्वमसम्भवीत्यत आह स्वक्रियायामिति । टिप्पणी र्णायकतर्करहितत्वं साधन इव तदुभयवति न साध्यव्यापकतानिश्चयसम्भव इति भावः ॥ कारणा- न्तरस्यैवेति । यथा हि कारणान्तराभावात् कार्याभावो घटादिस्थले दृष्टः, तथा कर्त्रभावोऽपि स इति तुल्यत्वेऽपि क्षित्यादिस्थले तदुत्पत्तौय ?...॥ कार्यहेतौ संदिग्धव्यतिरेकत्वात्संदिग्वानैकान्तिकत्वमाशंकते स्यादेतदिति । संदिह्यत इति ।

पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६३ व्यतिरेकसन्देहप्रसङ्गाच्च । कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या कार्यत्वव्यावृत्तिः, उत करणव्यावृत्त्या । एवं किमुपादानव्यावृत्त्या, किमसमवायि- व्यावृत्त्या, किं निमित्तव्यावृत्त्येति । कार्यत्वात् करणमुपादानमसमवायि निमित्तं वा बुद्ध्यादिषु न सिद्धयेत् । कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितं, तदेव त्वसिद्ध- मिति चेत् । किं पटादौ कुविन्दादिकारणमेव कर्त्ता, प्रस्तुते चोदासीन एव साधयितुमुपक्रान्तः । तस्माद् यत्किञ्चिदेतदपीति ॥ ननु कर्त्ता कारणानामधिष्ठाता साक्षाद्वा शरीरवत्, साध्यपरम्परया वा दण्डादिवत् ? । तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात् । न द्वितीयः, द्वाराभावात् । न हि कस्यचित् साक्षादधिष्ठेयस्याऽभावे परम्परया अधिष्ठानं सम्भवति ॥ तदयं प्रमाणार्थः—परमाण्वादयो न साक्षाच्चेतनाऽधिष्ठेयाः, शरीरेतरत्वात् । यत्पुनः साक्षादधिष्ठेयं न तदेवं, यथाऽस्मच्छरीरमिति । नापि परम्परया अधिष्ठेयाः, स्वव्यापारे शरीरानपेक्षत्वात् , स्वचेष्टायामस्मच्छरीरवत् । व्यतिरेकेण वा दण्डा- प्रकाशः । अन्यथा सत्प्रतिपक्षाभिधानाय भूमिकामारचयति नन्विति ॥ यत्र प्रयत्नवदात्मसंयोगा- समवायिकरणकक्रियोत्पादको यः, स तत्र साक्षादधिष्ठाता, यथा स्वशरीरे अस्मदादिः । शरीरक्रियया यो यत्क्रियाजनकः, स तत्र परम्पराऽधिष्ठाता, यथा दण्डादौ कुलालादिः । आद्ये पर- माण्वादिः शरीरं स्यात् तादृशक्रियाश्रयत्वादित्याह परमाण्वादीनामिति ॥ स्वव्यापार इति ॥ स्वक्रियायां शरीरव्यापारानपेक्षत्वादित्यर्थः ॥ स्वचेष्टायामिति ॥ शरीरक्रियायास्त- त्क्रियानपेक्षत्वादित्यर्थः ॥ व्यतिरेकेणेति ॥ यत् परम्पराऽधिष्ठेयं तन्न स्वव्यापारे शरीरक्रियान- प्रकाशिका । लक्षणस्वव्यापारापेक्षतया स्वशरीरं दृष्टान्तः साधनविकलमित्यत आह स्वक्रियायामिति । यद- वच्छिन्न इति । यदवच्छिन्ने आत्मन्यैन्द्रियककार्यज्ञानेन प्रयत्नो भोगश्च जनयितव्यः, तस्यैवेन्द्रिया- श्रयत्वमित्यर्थः । यद्यपि मूले न भोगान्तर्भावः, तथापि तात्पर्यार्थोऽयमिति भावः । टिप्पणी । तस्माद्व्यतिरेकव्याप्तिसंदेह इत्यर्थः । तथा च कर्तृभावोऽपि कार्याभावप्रयोजकः सामान्यतः कारणा- भावोऽपीत्युभयोरेव प्रयोजकत्वम् । किं निमित्तव्यावृत्त्येति । तस्मात् कारणेष्वन्यतमव्यतिरे- कस्यापि कार्य्यानुत्पादप्रयोजकत्वं सिध्यति, अन्यथा धूमादावपि तार्णवह्नयभावप्रयुक्तोऽतार्णवह्निभाव- प्रयुक्तो वा धूमाभाव इत्यादेर्वक्तुं शक्यत्वात् क्वचिदपि व्यतिरेकव्याप्तिर्न सिध्येदित्यन्वयव्यतिरेकानु- मानमात्रमुच्छिद्येतेत्यर्थः । दूषणान्तरमप्याह कार्यत्वादिति । न सिध्येदिति । तत्रापि हि कारणाभावप्रयुक्त उपादानाद्यभावो वा कार्यत्वाभाव इति संदिहानो न व्यतिरेकव्याप्तिं परिच्छेत्तु- मर्हतीत्यर्थः । अकारणमेव कर्तेति । तथाच कुविन्दादिव्यतिरेकेऽपि पटादिः प्रादुर्भवेत् नचैवम् तस्मात् कुविन्दादेरपि कारणत्वमिष्टमेव, कारणेषु चोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमतो भवति कर्तृत्वं नाकारणस्येत्यर्थः । प्रस्तुते सकर्तृकत्वानुमाने, यदि कर्ता कारणं न स्यात् तदा कथं कार्यत्वेन हेतुना स सिध्येत्, न चेष्टापत्तिः प्रकरणपराह तत्वा दिति । प्रकारान्तरेण सत्प्रतिपक्षत्वमाशंकते ननु कर्तेत्यादिना । तदर्थमेव-अधिष्ठानार्थमेव । तथासति-अधिष्ठितस्याप्यधिष्ठानापेक्षितत्वे सति । ईश्वराधिष्ठितस्यापि कारणस्य कुविन्दादिरूपाधिष्ठानापेक्षायामविशेषात् कुविन्दाधिष्ठितस्याप्यधिष्ठा- नापेक्षा स्यात्, एवं क्रमेणानवस्था स्यादित्यर्थः । कार्यत्वेन हेतुना बुद्धिमत्पूर्वकत्वे साध्ये जन्यप्रयत्न-

४६४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां द्युदाहरणम् । एवं क्षित्यादि न चेतनाधिष्ठितहेतुकं शरीरेतरहेतुकत्वादित्यति- षोड्या सत्प्रतिपक्षत्वम् ॥ अपि च पटादौ कुविन्दादेः किं कारकाधिष्ठानाथमपेक्षा, तेषामचेतनानां स्वतोऽप्रवृत्तेः, आहो कारकत्वेन ? । न पूर्वः । तेषां परमेश्वरेणैवाधिष्ठानात् । न ह्यस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन् न व्याप्नोतीति सम्भवति । न चाधिष्ठि- तानामधिष्ठात्रन्तरापेक्षा तदर्थमेव । तथा सत्यनवस्थानादेवाऽविशेषात् । न द्वितीयः । अधिष्ठातृत्वस्यानङ्गत्त्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः । न च हेतुत्वेनैव तस्यापेक्षाऽस्त्विति वाच्यम् । एवन्तर्हि यत्कार्यं तत्सहेतुकमिति व्याप्तिः, न तु सकर्तृकमिति । तथा च तथैव प्रयोगे सिद्धसाधनात् ॥ किञ्चानित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन स्वभावप्रतिबद्धम् । न ह्यनित्यप्रयत्नोऽपि बुद्ध्या शरीरवत् कारणत्वेनाऽपेक्ष्यते, येन तन्निवृत्तावष्यकार्यबुद्धिर्न निवर्त्तते इति ॥ तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते । तथाहि—साक्षादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वं, यत् प्रसज्यते ? यदि साक्षात्प्रयत्नवदधिष्ठेयत्वं तदिष्यत एव । न च ततोऽन्यत् प्रसञ्जकमपि । अथेन्द्रि-


प्रकाशः । पेक्षमपि तु तदपेक्षमेव, यथा दण्डादीति व्यतिरेकीत्यर्थः । एवं कारणपक्षकानुमानमुक्तवा कार्यपक्ष- कमाह एवमिति । सिद्धसाधनमभिधातुं भूमिकामारचयति अपि चेति । अधिष्ठातृत्व- स्येति । क्षित्यादेश्चेतनाधिष्ठितहेतुजन्यत्वे साध्ये पटादिदृष्टान्तः साध्यविकलः, कुविन्दादेः कार- कत्वेनैवापेक्षणीयतया कारणाधिष्ठातृत्वेन तदभावादित्यर्थः । तथा चेति । कर्तृजन्यत्वेऽप्यचेतन- समवायादिहेतुकत्वस्य मयाऽप्युपगमादित्यर्थः । उपाधिमाह किञ्चेति । न हीति । यथा शरीरनिवृत्तावप्यकार्या बुद्धिर्न निवर्त्तते, तद्वद- नित्यप्रयत्ननिवृत्तावप्यकार्यबुद्धिर्न निवर्त्तते इति न । शरीरं हि बुद्ध्या कारणत्वेनापेक्ष्यते इति शरीरनिवृत्तौ कार्या बुद्धिर्निवर्त्तते इति युक्तं, न पुनरनित्यप्रयत्नो बुद्ध्या कारणत्वेनापेक्ष्यते, येना- नित्यप्रयत्ननिवृत्तौ कार्या बुद्धिर्निवर्त्तते न नित्येति स्यात्, अपि तु व्यापकत्वमात्रेणेत्यर्थः । शरीर- वदिति प्रथमासमर्थाद्वतिः । बुद्ध्या शरीरं यथा कारणतयाऽपेक्ष्यते, न तद्वदनित्यः प्रयत्नः कारण- तयेत्यर्थः । तन्निवृत्तावपीति । अनित्यप्रयत्ननिवृत्तावपीत्यर्थः । तदेतदिति । विशेषस्य विशेषं प्रति प्रयोजकत्वादित्यादिना । अत्र प्रसङ्गदशायां तावद् दूषणमाह यदीति । इष्टापादनमित्यर्थः । न चेति । आपाद्यादापादकस्याविशेष इत्यर्थः ।


टिप्पणी पूर्वकत्वस्योपाधित्वं तस्य द्यणुकादौ साधनाव्यापकत्वात्, उपाध्यभावेन च बुद्धिमत्पूर्वकत्वमात्रं निवर्तते नतु जन्यबुद्धिपूर्वकत्वमित्याह किञ्चेति । व्याप्तिम्-बुद्धिमत्पूर्वकत्वनिरूपिताम् । यथाऽस्मिन्ननु- माने शरीरपूर्वकत्वं नोपाधिरुद्भावर्नाहः यतो बुद्धिं प्रति शरीरस्य कारणतया उपाध्यभावेन (शरीरा- भावेन) कार्यबुद्धयभावस्यैव सिद्धिः स्यान्न तु नित्यबुद्ध्यभावस्यापीति नित्यबुद्धिसिद्धौ बाघकाभावात्, एवमनित्यप्रयत्नोऽपि यदि बुद्धिम्र्पति शरीरमिव कारणं स्यात्तदाऽयमपि नोद्भावनीयः स्यान्न त्वेवं बुद्धिम्र्पत्यनित्यप्रयत्नस्याकारणत्वादिति प्रघट्टकार्थः । शरीरत्वसाक्षाच्चेतनाधिष्ठितत्वयोरापाद्यापादक- योरैक्यमप्याह नचेति । अर्थाश्रयत्वमिति । अर्थः प्रयोजनं स्वीयसुखसाक्षात्कारात्मको भोगः तदाश्रयत्वमवच्छेदकतासम्बन्धेन, नित्यसुखसाक्षात्कारात्मकमीश्वरज्ञानं यद्युपेयेत यदि वा भोगभिन्नमेव

पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६५ याश्रयत्वम् ? । तन्न । तदवच्छिन्नप्रयत्नोत्पत्तौ तदवच्छिन्नज्ञानजननद्वारेणेन्द्रिया- णामुपयोगात् । अनवच्छिन्ने प्रयत्ने नायं विधिः । नित्यत्वात् । अत एव नाऽर्थाश्र- यत्वम् । न हि नित्यज्ञानं भोगरूपमभोगरूपं वा यत्नमपेक्षते तस्य कारणविशेष- त्वात् । न च नित्यसर्वज्ञस्य भोगसम्भावनाऽपि । विशेषादर्शनाभावे मिथ्याज्ञाना- नवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात् ॥ तस्मात् साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्या- विशिष्टम् । अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रय- मप्यन्यथासिद्धम् । अभोगायतनत्वादनिन्द्रियाश्रयोऽपि, भोक्तृकर्मानुपग्रहादभोगा- यतनमपि, स्पर्शवद्वेगवद्द्रव्यानुद्यत्वात्तदनपेक्षमपि स्यात् । अचेतनत्वाच्चेतनाधि- ष्ठितमपि स्यादिति को विरोधः ॥ प्रकाशः। अथेति । तथा च आपाद्यापादकयोर्भेद इत्यर्थः । तत्राप्रयोजकत्वमाह तदवच्छिन्नेति । साक्षात्प्र- यत्नाधिष्ठितत्वेऽपि तस्यैवेन्द्रियाश्रयत्वम् । यदवच्छिन्न आत्मनि प्रयत्नस्तदवच्छिन्नात्मनिष्ठज्ञाने- नेन्द्रियकार्येण भोगो जनयितव्यः । अकार्यो तु ज्ञानप्रयत्नाविनिन्द्रियाश्रयत्वं विनाऽपि स्यातामिति न विरोध इति मूलशैथिल्यमित्यर्थः । प्रयत्नोत्पत्ताविति, निमित्तसप्तमी । अत एवेति । सोपाधित्त्वेन मूलशैथिल्यादेवेत्यर्थः । उपाधिमाह न हीति । ज्ञानानित्यत्वमुपाधि- रित्यर्थः । न च नित्येति । यदवच्छिन्नात्मन्यर्था भोगं जनयन्ति तस्यार्थाश्रयत्वम् , नित्यज्ञा- नाश parse: नाशparse: नाशparse: नाश्रियस्य त्वीश्वरस्य भोगाभावान्न तदर्थं तदपेक्षेत्यर्थः । प्रसङ्गदूषणेनैव तदनुग्राह्यो हेतुरपि दूषित इत्याह तस्मादिति । शरीरत्वं यदि साक्षात्प्र- यत्नाधिष्ठेयत्वं, तदा शरीरेतरत्वं साक्षात्प्रयत्नानधिष्ठितत्वम् । तथा स्वव्यापारे शरीरानपेक्षत्वं साक्षात्प्रयत्नाऽधिष्ठेयानपेक्षत्वमेव, तथाच साध्याविशेष इत्यर्थः । यदि चेन्द्रियाऽऽश्रयत्वं भोगाश्रयत्वं वा शरीरत्वं, तदा शरीरेतरत्वादित्यस्यानिरिन्द्रियाश्रयत्वादभोगायतनत्वादित्यर्थः । स्वव्यापारे इन्द्रियाश्रयानपेक्षत्वाद्रोगायतानापेक्षत्वादिति वा द्वितीयहेत्वर्थः । तदेतत् सर्वमन्यथासिद्धमित्याह अनिन्द्रियाश्रयत्वादिति । अन्यथासिद्धिमेवाह अभोगायतनत्वादिति । ईश्वरे ह्यदृष्टा- भावेन भोगाभावात् परमाण्वादिर्भोगानवच्छेदकत्वेनानिन्द्रियाश्रयोऽपि स्यात्, स्पर्शवद्वेगवद्द्रव्या- प्रकाशिका । ज्ञानानित्यत्वमिति । अनित्यज्ञानवत्त्वमित्यर्थः । अर्थाश्रयत्वमर्थप्रयोज्यभोगाश्रयत्वमित्यर्थः। तथेति । स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयानपेक्षत्वमेव परम्परानधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः। तदनपेक्षत्वादित्यत्र तच्छब्देनोभयपरामर्शाद्धेतुद्वयलाभ इत्याह स्वव्यापार इति । एवं च त्रयमिति मूलमग्रिमसाध्यहेत्वोस्तत्साध्यकत्वेनैकत्वं विवक्षित्वा समाधेयम् । वस्तुतस्तुष्टयमिति बोध्यम् । मकरन्दः । ज्ञानानित्यत्वमिति । अनित्यज्ञानवत्त्वमित्यर्थः । अर्थाश्रयत्वं = अर्थप्रयोज्यभोगाश्रयत्वमि- त्यर्थः । तथेति । स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयापेक्षत्वमेव परम्पराधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः । यदवच्छिन्ने आत्मनि ऐन्द्रियकार्यज्ञानेन प्रयत्नो भोगश्च जनयितव्यस्तस्यैवेन्द्रियाश्रयत्व- मित्यर्थः । यद्यपि भोगान्तर्भावेन न मूलार्थस्तथापि तात्पर्यार्थोऽयमिति भावः । टिप्पणी । तज्ज्ञानमुपेयेत उभयथापि नित्यत्वान्न प्रयत्नमपेक्षते इत्यर्थः । कारणविशेष(रूप)त्वात्-तथा च तत्तत्कार्यनिरूपितमेव कारणं यत्नः स्यादित्यर्थः । अनुद्यत्वात्-प्रदर्शितद्रव्येण नोदनाख्यसंयोगाभा-

४६६ व्याख्यायात्रोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकान्याख्यायो तथा च साक्षात्प्रयत्नाऽधिष्ठितेतरजन्यत्वादिति साध्यसमः। इन्द्रियाश्रयेतर- जन्यत्वाद् भोगायतनेतरजन्यत्वादिति द्वयमप्यन्यथासिद्धम्। कार्यज्ञानाद्यनपेक्ष- त्वाच्छरीरेतरजन्यमपि स्यात्। अचेतनहेतुकत्वाच्चेतनाधिष्ठितमपीति को विरोधः॥ अप्रसिद्धविशेषणश्च पक्षः। नहि चेतनानधिष्ठितहेतुकत्वं क्वचित् प्रमाण- सिद्धम्। न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरसाधारण्यप्रसङ्गात्। गगनादेरपि सपक्षाद्व्यावृत्तेः॥ यत् पुनरुक्तं-कुविन्दादेः पटादौ कथमपेक्षेति। तत्र कारकतयेति कः सन्देहः। किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतो न स्वरूपतः। तदैव चाऽधि- ष्ठातृत्वम्॥ यत्त्वधिष्ठिते किमधिष्ठानेनेति। तत् किं कुविन्द उद्धार्यते, ईश्वरो वा, अनवस्था वाऽऽपाद्यते। न प्रथमः। अन्वयव्यतिरेकसिद्धत्वात्। न द्वितीयः। प्रकाशः। न्तराप्रेर्यमाणत्वाच्छरीरानपेक्षक्रियोऽपि स्याद्, न विरोध इत्यर्थः। क्षित्यादिकं न चेतनाधिष्ठितहे- तुकं शरीरेतरजन्यत्वादित्यत्रापि शरीरपदार्थस्य विकल्पत्रये दोषमाह-तथा चेति। दूषणान्तरमाह अप्रसिद्धेति। ननु चेतनाऽधिष्ठितहेतुकत्वं तावदन्यत्रावगतमतः प्रतीतप्रति- योगिकत्वे तन्निषेधः शक्यसाधनः स्यादित्यत आह न चेति। कुविन्द इति। ईश्वरेणैव तन्त्वादेरधिष्ठानात् किं तदर्थं कुविन्देनेत्यर्थः। ईश्वरो वेति। कुविन्देनैव च तन्त्वादेरधिष्ठानात् किं तदर्थमीश्वरेणेत्यर्थः। अनवस्था वेति। घटादेर्द्विकर्तृकतया तद्दृष्टान्तेन कार्यत्वात् क्षित्यादे- रपि द्विकर्तृकत्वापत्तौ तस्यापि पक्षधर्मतावलात् सर्वज्ञेन सर्वज्ञाधिष्ठातृसिद्धौ पुनर्पटादिदृष्टान्तेन क्षित्यादौ कर्तृत्रयं स्यादिति पुनर्धटवत् क्षितिः क्षितिवद् घट इत्यादीश्वरानन्त्यं स्यादित्यर्थः। अन्व- येति। कुविन्दव्यापारस्यान्यवयव्यतिरेकादित्यर्थः। ईश्वरज्ञानादीनां नित्यत्वेन सर्वविषयत्वात् पटा- प्रकाशिकाः। क्षित्यादिकमिति। यद्यपि यथाश्रुते न साध्याविशेषः, उपाधिभेदात्। तथापि चेतनाधिष्ठानमपि प्रयत्नाधिष्ठानद्वारैवेति प्रयत्नाधिष्ठितहेतुकत्वमेव फलतः साध्यमिति साध्याविशेषो द्रष्टव्यः। वस्तुतः साध्यवदसिद्धो हेतुरित्येव साध्यसम इति द्रष्टव्यम्। मास्तु सर्वविषयत्वं तथापि प्रकारान्त- मकरन्दः। तदनपेक्षत्वादित्यत्र तत्पदेनोभयपरामर्शाद्धेतुद्वये तात्पर्यमित्याह स्वव्यापार इति। एवं च त्रयमिति मूलस्य चतुष्टयमिति तात्पर्यम्। क्षित्यादिकमिति। यद्यपि यथाश्रुते न साध्याविशेष उपाधिभेदात्, तथापि चेतनाधिष्ठानप्रयत्नद्वारैवेति प्रयत्नानधिष्ठितहेतुकत्वमेव साध्यमभिप्रेतम्। यद्वा साध्याविशेष उक्तः। यद्वा साध्यवद्धेतुरप्यसिद्ध इति साध्यसमः। ननु सर्वविषयत्वमेव तस्या- टिप्पणी। वात्। हेतोः-शरीरेतरजन्यत्वस्य। व्यावृत्तेः-विपक्षात्तु घटादेर्व्यावृत्तिः स्फुटैव। अनवस्था चेति। अयमाशयः द्यणुकादिकं द्विकर्तृकं कार्यत्वात् घटवत् इत्यनुमानेन शरीरिकर्तृकत्वबाधात् पक्षधर्मता- बलात् सर्वाधिष्ठातेव द्वितीयोऽपि कर्ता (ईश्वरः) सिध्येत् घटादेरपि कर्ता स्यात् तथा च घटादेस्त्रि- कर्तृकत्वमायातुम्। एवं द्यणुकादित्रिकर्तृकः कार्यत्वात् घटादिवत् इत्यनुमानेन सिध्यत् तृतीयोऽपि कर्ता पक्षधर्मतावलात् सर्वाधिष्ठाता ईश्वर एवानुमितिगोचरः स्यात् एवं क्रमेणानवस्था प्रसज्यते इति!

पंचमस्तवके ] ईश्वरबाधकखण्डनम् । ४६७ परमाण्वदृष्टाद्यधिष्ठतृत्वसिद्धौ ज्ञानाऽऽदीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् । न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः ॥ न तृतीयः । तस्मिन् प्रमाणाभावात् । तथाप्येकाऽधिष्ठितमपरः किमर्थमधि- तिष्ठतीति प्रश्ने किमुत्तरमिति चेत् । हेतुप्रश्नोऽयं, प्रयोजनप्रश्नो वा ? । नाद्यः । ईश्वराधिष्ठानस्य नित्यत्वात् । कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् । न द्वितीयः । कार्यनिष्पादनेन भोगसिद्धेः स्पष्टत्वात् ॥ एकाधिष्ठानेनैव कार्यं स्यादिति चेत् । स्यादेव । तथापि न सम्भेदेऽन्यतर- वैयर्थ्यम् । परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामर्थ्योपलब्धौ सम्भू- यकारित्वोपपत्तेः ॥ अस्ति तत्र वैजात्यमिति चेत् । इहापि किञ्चिद्भविष्यतीति । न चाकुर्वतः कुलालादेः कायसङ्क्षोभादिसाध्यो भोगः सिद्ध्येदिति तदर्थमस्य कर्तृत्वमीश्वरोऽनु- मन्यते, तदर्थमात्रत्वादैश्वर्यस्येति ॥ यच्चानित्यप्रयत्नेत्यादि । भवेदप्येवं यद्यनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निव- र्त्तेत, न त्वेतदस्ति, उदासीनस्य प्रयत्नाभावेऽपि बुद्धिसद्भावात् । हेतुभूता बुद्धिनिर्वर्त्तत इति चेन्न । उदासीनबुद्धेरपि संस्कारं प्रति हेतुत्वात् । कारकविषया बुद्धिनिर्वर्त्तत इति चेन्न । उदासीनस्यापि कारकोद्भूतत्वात् । न हि घटादिकम- प्रकाशः । द्युपादानविषयत्वमपीति कथं न तेषां पटादिकारणत्वं, कुविन्दज्ञानादितुल्यत्वादित्याह परमा- ण्विति । पटाकाशसंयोगादिकं प्रति ईश्वरस्य कर्तृत्वात् पटादिगोचरमपि ज्ञानं सिद्धमिति भावः । न त्विति । न त्वधिष्ठिताधिष्ठानार्थमेवेत्यर्थः । यथा कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां तथेश्वर- स्याधिष्ठानं, ज्ञानादीनां नित्यतया' सर्वविषयत्वात् । तद्वदधिष्ठात्रन्तरकल्पनायां न मानमस्ति, येनानवस्था स्यात् । कार्ये हि कर्तृत्वेन कारणता, न द्विकर्तृत्वादिनेति न तत्सिद्धिरित्याह प्रमाणा- भावादिति । वैजात्यमिति । प्रत्येकजन्यव्यावृत्तं कारणमेलकव्यङ्ग्यमित्यर्थः । इहापीति । द्विकर्तृके घटादावेककर्तृकक्षित्यादेर्वैजात्यमित्यर्थः । उदासीनस्येति । कारणानि अव्यापारयत प्रकाशिका । रेणापि घटादिगोचरत्वं तस्य सिद्धमित्याह पटाकाशेति । ननूदासीनो निःप्रयत्न एवोच्यते तथा च प्रयत्नाभावेपीति व्यर्थमत आह कारणानीति । उदासीनशब्दस्य कारकाव्यापारयितृत्वमर्थपूर्व- मकरन्दः । सिद्धमिति पटादिविषयत्वासिद्धेस्तदुपादानाधिष्ठानं न स्यादित्यत आह पटाकाशेति । वस्तुतो नियतविषयता कारणाधीनेति नित्यतयैव सर्वविषयत्वमिति भावः । तदिदमाह नित्यतयेति । टिप्पणी । प्रमाणाभावादिति । कार्यं प्रति कर्तृत्वेन कारणता नतु द्विकर्तृत्वेन तथा च द्विकर्तुकत्वानुमान- मनुकूलतर्कशून्यमित्यर्थः। संभेदे-द्वयोः प्राप्तौ सत्याम् । सम्भूयेति । प्रचयजन्यतूलकपरिमाणोत्प- त्तिस्थले प्रत्येकं स्वस्वकार्यं प्रति कारणयोरपि संख्यापरिमाणयोरवर्जनीयतयाऽऽसङ्गतत्वात् यथा त्रयाणां सन्निपातस्त्येत्यर्थः । त्रयाणां सन्निपातस्थलेवैजात्यमाशङ्कते अस्तीति । स्वीकारोति इहापीति । कायसंक्षोभादिः-कायव्यापारादिः । किंचित्कार्यमकुर्वतः कुलालादेः कायव्यापारसाध्यो भोगश्च न सिध्ये- दतः कुलालादेरपि कर्तृत्वमित्याह नचेति । अनित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीव्यकर्तृत्वमि- त्यादिनाऽभिहितमुपाधिं निरस्यति यद्विवति । अनित्यप्रयत्नस्य बुद्धिव्यापकत्वे तन्निवृत्तौ बुद्धिनिवर्ते- तातस्तस्य व्यापकत्वं विघटयति उदासीनस्येति । अव्यवहितपूर्वत्वसम्बन्धेन कृतिविशिष्टा या ६३ न्या० कृ०

कुर्वन्तश्चक्रादिकं नेष्टामहे। हेतुभूता कारकबुद्धिर्निवर्त्तते इति चेन्न। अयतमान- स्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेरभावात्। चिकीर्षाहेतुभूतोऽ- नुभवो निवर्त्तते इति चेन्न। केनचिन्निमित्तेनाऽकुर्वतोऽपि चिकीर्षातद्धेतुबुद्धिसम्भ- वात्। अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिर्निवर्त्तते इति चेद्, न तर्हि बुद्धिमात्रम्। तथाचानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वकत्वमिति तन्निवृत्तौ तदेव निवर्त्ततां, न तु बुद्धिमत्पूर्वकत्वमात्रम् , तत्र तस्याप्रयोजकत्वा- दिति बुद्धिमत्पूर्वकत्वसाध्यपक्षे परीहारः। सकर्तृकमिति प्रयत्नप्रधानपक्षे शङ्कव नास्ति, तस्यैव तत्रोपाधित्वात्॥ एतेन शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपा-

प्रकाशः। इत्यर्थः। उदासीनबुद्धेरिति कर्मधारयः। दुःखहेत्विति। दुःखहेतुश्चासौ कण्टकस्पर्शश्चेति विग्रहः। तस्य बुद्धेरित्यर्थः। तत्रेति। बुद्धिमत्पूर्वकत्वे साध्ये । तस्य-अनित्यप्रयत्नस्य । प्रयोजकत्वे चोदासीनबुद्धेर्निवृ- त्तिप्रसङ्ग इति भावः। तदनेन प्रबन्धेन यो बुद्धिमत्पूर्वकमिति साध्यं प्रतिजानीते, तदनुकूलतया परिहृतम्। यदा तु सकर्तृकमिति प्रधानीभूतकृतिविषयाप्रधानीभूतबुद्धिमत्पूर्वकत्वं प्रतिज्ञायते, तदानीमनित्यप्रत्नस्योपाधित्वशङ्काऽपि नास्तीत्याह बुद्धिमदिति। ननु प्रधानीभूतकृतिपूर्वकत्वसाध्यपक्षे बुद्धिरप्रधानीभूता कुतः सिद्ध्येत्? न हि यत्नात्त- त्सिद्धिः, शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्वस्योपाधेः सुवच- त्वात्, तथा च कृतिमात्रशाली कर्त्ता प्राप्त इत्यत आह— एतेनेति। प्रयत्ननित्यत्वस्यानुपाधित्वेनेत्यर्थः। कार्यत्वादेकैकजन्यत्वं सिद्ध्येत् त्रित- येजन्यत्वमपि सिद्ध्यति। आर्थस्तु समाजः। अत एव—ज्ञानादित्रयव्यतिरेकान्न कार्यव्यतिरेकः, किन्त्वेकैकव्यतिरेकादिति व्यर्थविशेषणत्वेन विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न हेतो-

प्रकाशिका। मुक्तमिति तदर्थत्वे प्रयत्नाभावान्नोन स्यादिति प्रयत्नजनकपरेण उदासीनपदेन कर्मधारयसमासात्तदर्थ- लाभः स्यादित्यभिप्रेत्याह कर्मधारय इति। कर्मधारये बुद्धेर्हेतुत्वं पृथगेवोक्तमिति विषयस्य कार- कत्वलाभायाह दुःखहेतुश्चासाविति। तदानीमनित्येति। यद्यपि विशिष्टाविशिष्टभेदाद्युपाध्युपा- धिमद्भावः संभवत्येव, तथापि व्याप्यव्यापककोटौ निवेशयत एव प्रमाणस्य व्याप्तिग्राहकत्वमिति मते विशिष्टस्य व्यापकताग्रहानुपपत्तेरुपाधित्वाभाव इति भावः। वस्तुतो हेतौ विपक्षबाधकादेव नायमुपाधिरिति स्मर्त्तव्यम्। प्रयत्ननित्यत्वस्येति। तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः।

मकरन्दः। नन्वूदासीनो निष्प्रयत्न इत्यनर्थान्तरम्, तथा च प्रयत्नाभावेऽपीति व्यर्थमत आह कारणा- नीति। प्रयत्नाभावलाभार्थमाह उदासीनबुद्धेरिति। पूर्वोक्तव्याख्यानेन तदलभेऽपि प्रयत्नाजन- कबुद्धेरिति कर्मधारयात्तदर्थपर्यवसाने तल्लाभ इत्यर्थः। पौनरुक्त्यभ्रमं निवारयति दुःखहेतुश्चेति। एतच्च कारकत्वद्योतनार्थम्। यदा त्विति। यदि कृतिजन्यत्वमेव साध्यमित्यर्थः। एवञ्च बुद्धि- मत्पूर्वकत्वस्याप्राधान्यमनुपादानमेवेति बोध्यम्। यद्यपि विशिष्टाविशिष्टभेदादुपोधित्वं सम्भवति, तथापि व्याप्यं व्यापककोटावनिवेशयत एव व्याप्तिग्राहकत्वमिति मते साध्यव्यापकत्वाग्रहादुपाधित्व- मिति भावः। वस्तुतो हेतौ विपक्षबाधकसंभवादत्र न तदभावान्न तथात्वमिति। प्रयत्ननित्यत्वस्येति। तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः। वस्तुतस्तु समूहालम्ब-

धिरिति निरस्तम् । यो हि बुद्ध्या शरीरवच्छरीरनिवृत्त्या बुद्धिनिवृत्तिवद्वा प्रय- त्नेन बुद्धिं बुद्धिनिवृत्त्या प्रयत्ननिवृत्तिं साधयेत्, स एवं कदाचिदुपालभ्यः । वयं त्ववगतहेतुभावं कलितसकलशक्तिकारकप्रयोक्तारं कार्यादेवानुमिमाना नैवमा- स्कन्दनीयाः, तत्र तस्यानुपाधित्वात् । न च प्रयत्न आत्मलाभार्थमेव मतिमपे- क्षते । विषयलाभार्थमप्यपेक्षणात् । ततः प्रयत्नाद् बुद्धिः, तन्निवृत्तेश्च प्रयत्न- निवृत्तिः सिद्धयत्येवेति विस्तृतमन्यत्र । कार्यबुद्धिनिवृत्त्या तु कार्य एव प्रयत्नो निवर्त्तते, न नित्यः । नित्ये च प्रयत्ने नित्यैव बुद्धिः प्रवर्त्तते, नानित्या । न हि तया तस्य विषयलाभसम्भवः । शरीरादेः प्राक् तदसम्भवे देहानुपपत्तौ सर्वानु- पपत्तेः । शरीराजन्यत्ववच्चानित्यप्रयत्नाजन्यत्वमिति संक्षेपः ।

प्रकाशः । र्विशिष्टसिद्धिः, साध्याभावव्यापकाभावप्रतियोगिन एव साध्यगमकत्वात्—इत्यपास्तम्, ज्ञानाद्येकै- कजन्यत्वस्यैव साध्यत्वात्, तयैव व्याप्तेरिति भावः । तत्रेति । ज्ञानाद्येकैकजन्यत्वे साध्ये इत्यर्थः । तस्य प्रयत्नगतकार्यत्वस्येत्यर्थः । किञ्च यदि- प्रयत्नेन बुद्धिः स्वोत्पत्त्यर्थमेवापेक्ष्यते, तदा प्रयत्नगतकार्यत्वमेवोपाधिः स्यात्, न चैवम्, प्रय- त्नस्य निर्विषयकत्वेन ज्ञानविषयेषु कार्यजनकमिति तदर्थं बुद्ध्यपेक्षा स्यादेवेत्याह, न च प्रयत्न इति । तथापि नित्या बुद्धिः कुतः सिद्ध्यतीत्याह नित्ये च प्रयत्न इति । न हीति । बुद्धेरनि- त्यत्वे तद्धेतुशरीरात् प्राक् तदभावे शरीरोत्पत्तिरेव न स्यादिति कदाऽपि सा बुद्धिर्न जायेतेत्यर्थः । अनित्यप्रयत्नाजन्यत्वात् क्षित्यादेरकर्तृकत्वे साध्ये शरीराजन्यत्ववद्व्यर्थविशेषणत्वमित्याह शरीरा- जन्यत्ववदिति ।

प्रकाशिका । वस्तुतो न प्रयत्नात्तत्सिद्धिरपि तु तत्समूहलम्बन्यरूपैवानुमितित्रितयगोचरेत्याह कार्यत्व- स्येति । ज्ञानाद्येकैकेति । प्रत्येकव्याप्तिरिति भावः । प्रयत्नगतेति । बुद्धिजन्यत्वे साध्येऽनित्यप्र- यत्नजत्वं नोपाधिः, प्रयत्न एव साध्याव्यापकत्वात्, प्रयत्नजत्वे च तन्नोपाधिः, सामान्ये विशेषस्या- नुपाधित्वादिति भावः । प्रयत्नस्य निर्विषयकत्वेनेति । ज्ञानवत् स्वाभाविकसविषयकत्वाभावे- नेत्यर्थः । तथा च समानाधिकरणस्वाधिकरणक्षणाव्यवहितपूर्ववर्त्तिताज्ञानमेवेच्छाप्रयत्नविषयतेति ।-

मकरन्दः । नरूपैवानुमितिर्न तु प्रयत्नात्तत्सिद्धिरित्येकदैव त्रितयजन्यत्वं सिद्ध्यतीत्याह कार्यत्वादिति । ज्ञानाद्येकैकेति । प्रत्येकव्याप्तिभिरिति शेषः ।

टिप्पणी । चिकीर्षा तत्कारणं या बुद्धिस्तद्व्यापकत्वमनित्यप्रयत्नस्येति शंकते अनपेक्षेत्यादि । ननु क्षित्यादौ बुद्धिपूर्वकत्वेन हेतुना शरीरपूर्वकत्वानुमाने यथा कार्यबुद्धिपूर्वकत्वमुपाधिर्मा प्रत्यभिधीयते, एवं भव- त्पन्थेऽपि प्रयत्नेन बुद्धद्यनुमाने कार्यप्रयत्नस्योपाधित्वं स्यादित्याशंकामपाकरोति एतेनेति । तत्र हेतुमाह यो हीति । बुद्धिनिवृत्त्येति । तत्र व्यतिरेकव्याप्तौ प्रयत्नेन बुद्धिः साध्या तत्र जन्यप्रयत्न- स्योपाधित्वमिति भावः । वयं त्विति । तथा च क्षितिः सकर्तृका कार्यत्वादित्यनुमाने यदि जन्यप्रयत्ना- दिरुपाधिः स्यात् तदा उपाधेस्तस्याभावेन सकर्तृकत्वाभावोऽनुमीयेत, तत्र यदि क्षित्यादिकं सकर्तृकं न स्यात्कार्यमेव न स्यादिति प्रतिकूलतर्कस्य जागरूकत्वान्नौपाधिरिति भावः । आत्मलाभः-उत्प- त्तिः । विषयलाभार्थमिति । मतिविषयविषयक एव भवति प्रयत्नोऽतस्तां विना प्रयत्नस्वरूपमेव न निष्पद्येतातोऽपि प्रयत्नस्य निरुपाधिकी बुद्धिव्याप्तिरित्यर्थः । बुद्धिरिति सिद्ध्यत्येवेत्यन्वयः ।

५०० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यांयो तर्काभासतयाऽन्येषां तर्कशुद्धिरदूषणम् । अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम् ॥ ३ ॥ कारकव्यापारविगमे हि कार्यानुत्पत्तिप्रसङ्गः । चेतनाचेतनव्यापारयोर्हेतुक- र्तृभावावधारणात्कारणान्तराभावे इव कर्त्रभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपि कारणत्वात् । यस्त्वह—प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः । प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात्, धूमाग्निवत्, कम्प- मारुतवच्च । न हि धूमः कार्योऽनलस्येति उदर्थस्यापि, न हि शाखाकम्पो मात- रिश्वन इति स्तिमितस्यापि स्यात्, किन्तु भौमस्पृश्ययोरेव । तथेहापि शरीरवत एव कारणत्वमवगन्तुमुचितं, नान्यस्येति । प्रकाश । तर्कपरिशुद्धिश्च यदि प्रतिकूलतर्कप्रतिघातस्तदा तेषां यदि ईश्वरः कर्त्ता स्याच्छरीरी स्या- दित्यादीनां तर्काणामीश्वरसिद्धयसिद्धिभ्यां व्याघातेनाभासत्वान्न दूषणत्वमित्याह- तर्काभास- तयेति । अथानुकूलतर्काभावरूपा सा ?, तत्राह अनुकूलस्त्विति । कर्तुः कारणस्याभावे कार्यं न स्यादित्येवानुकूलस्तर्क इत्यर्थः ॥ ननु कर्त्रभावेऽपि कारणान्तरव्यापारात् कार्यं स्यादित्यत आह- कारकव्यापारेति । कार- कान्तरव्यापारं प्रति चेतनव्यापारस्य हेतुत्वात् कर्त्रभावे सोऽपि न स्यादित्यर्थः । कारणान्तरव्या- पारसत्त्वेऽपि कर्त्रभावे कार्यं न स्यात् यत्किञ्चित्कारणाभावस्य कार्यानुत्पत्तिव्याप्यत्वादित्याह-कार- णान्तरेति । सौगतमाह यस्त्विति । कृतिमात्रकार्यमात्रयोर्नान्वयव्यतिरेकाभ्यां व्याप्तिग्रहः, तन्मते व्यापककृतेः सत्त्वेनार्योग्यकृतेर्व्यतिरेकाऽनिरूपणात् । यदि च कृतिमात्रेण व्याप्तिग्रहाददृश्यकर्तृ- सिद्धिः, तदा वह्निमात्रव्याप्यधूमाददृश्यजाठर्यादिवह्निरपि सिद्ध्येत् । शाखाकम्पे चायोग्यस्यापि स्तिमितवायोः कारणताग्रहश्च स्यादित्यर्थः । प्रकाशिका । तदर्थतो तत्सिद्धिरिति भावः । न चैवं घटपटगोचरज्ञानेन पटेष्टसाधनतानवगाहिना जनितायां घटमा- त्रगोचरेच्छायां पटगोचरतापतिरिति वाच्यम् । तज्ज्ञानस्य घटांश एवेच्छाविषयतात्मकत्वात् ज्ञानरूप- संबन्धस्य फलवलकल्पनीयत्वादिति । अयोग्यस्यापीति । अयोग्यत्वम् = उद्भूतस्पर्शशून्य- मकरन्दः । अयोग्यस्यापीति । उद्भूतस्पर्शवेगशून्यवायोरित्यर्थः । आलोकात्मकस्येति । आलोक- टिप्पणी । प्रयत्नपूर्वकत्वसाधने कार्यबुद्धेरुपाधित्वं प्रतिक्षिपति कार्यबुद्धीति । तर्काभासतयेति । अन्येषाम् क्षित्यादिकं यदि सकर्तृकं स्यात् शरीरजन्यं स्यात्, यदि बुद्धिमत्पूर्वकं स्यात् अनित्ययत्नजन्यं स्यात्, यदि नित्यप्रयत्नजन्यं स्यात् बुद्धीच्छाजन्यं न स्यात् ईश्वरो यदि कर्ता स्यात् शरीरी स्यादिति तर्का- णामाभासत्वात्प्रतिकूलतर्केण या क्षितिः सकर्तृका कार्यत्वादित्यनुमानेऽशुद्धिरीश्वरास्तित्वनिराकरणरू- पोद्भाव्यते सा न दूषणम् तत्र हेतुमाह । मदीये त्वनुमाने क्षित्यादिकं सकर्तृकं न स्यात् कार्यमेव न स्यात् कार्यलोपः स्यात् इत्यनुकूलस्तर्को भूषणमस्तीत्यर्थः । दृश्ययोरेव कार्यकारणभावो नादृश्ययोः यतोऽयं प्रत्यक्षानुपलम्भाभ्याम् 'तत्सत्त्वे तत्सत्त्वं तदभावे तदभाव' इत्यन्वयव्यतिरेकाभ्याम् अवधार्यते न चादृश्ययोरेतौ सम्भवत इति सौगतमतमाह यस्त्विथ-

पञ्चमस्तबके ] ईश्‍वरबाधकखण्डनम् । ५०१ तदसत् । प्रत्यक्षाऽनुपलम्भौ हि दृश्यविषयावुपायस्तदुत्पत्तिनिश्चये, न तु दृश्यतैव तत्रोपेया । किन्नाम दृश्याश्रितं सामान्यद्वयम् । तदालीढस्य हि तदुत्प- त्तिनिश्चये दृश्यमदृश्यं वा सर्वमेव तज्जातीयं तदुत्पत्तिमत्तया निश्चितं भवति । यथा स्पर्शरूपरसगन्धानामुत्तरोत्तरनिमित्ततायां तव, अस्माकञ्चातीन्द्रियसमवा- यादिसिद्धौ । न चेदेवमुदाहृतयोरेव दहनपचनयोरालोकरूपवतोस्तदुत्पत्तिनिश्चये कथमनालोकनिरस्तरूपयोः सिद्धिर्यदुद्दर्शितस्तिमितसाधारणी सिद्धिः स्यादिति । तद्ब्वदेवैवं यदि शरीरादिकं विना कार्यमिव भौमं स्पर्शवद्वेगवत्तञ्च विनाऽ-

प्रकाशः । कृतिविशेषकार्यविशेषयोरन्वयव्यतिरेकग्रहो बाधकं विना कृतिमात्रकार्यमात्रयोर्व्याप्तिग्रहो- पायः, न तु पक्षधर्मतालब्धविशेषयोरन्वयादिग्रहः, यथा वह्निधूमविशेषयोरन्वयादिना तत्सामा- न्ययोरपि व्याप्तिग्रहः, अन्यथाऽनुमानमात्रोच्छेदादित्याह—प्रत्यक्षाऽनुपलम्भाविति । अन्यथा पाकं प्रत्यालोकात्मकस्यैव वन्हेः कम्पं प्रति रूपवत एव दण्डादेः प्रत्यक्षानुपलम्भाभ्यां कारण- त्वनिश्चयादनालोकात्मकजाठर्यदहनस्य निरस्तरूपस्य पवनस्य च कथं सिद्धिः स्यादित्याह न चेदेवमिति । उदाहृतयोः पूर्वोक्तयोरित्यर्थः । दहनपचनयोरालोकनिरस्तरूपयोः कुतः सिद्धि- रालोकरूपवतोरेव तदुत्पत्तिनिश्चये सतीति योजना । आलोकवत एव वन्हेर्धूमोत्पत्तिनिश्चये रूपवत एव हस्तादेर्लङ्घादौ कम्पनिश्चये सतीत्यर्थः । अदृश्यवह्नेर्धूमानुत्पत्तेः पवनमात्राच्च कम्पानुत्पत्तेस्तत्र

प्रकाशिका । त्वम् । स्तिमितत्वं = वेगशून्यत्वम् । कृतिविशेषेति । अतिप्रसक्तत्वेनाज्ञातस्यान्यन्वयव्यतिरेक- विषयवृत्तितया ज्ञायमानस्य व्यवच्छेदकत्वग्रह इति भावः । आलोकात्मकस्येति । आलोकवत इत्यर्थः । तथा च पाकेन जाठर्यवन्हिसिद्धिः कम्पेन च पवनो नानुमीयेतेत्यर्थः । पूर्वोक्तयोरिति । यद्यपि पवनस्तिमित एव पूर्वमुक्तम् , स च न कम्पानुमेयः, तथापि च कम्पमारुतवच्चेत्यनेन कम्पजनकतयारोपि पूर्वोक्तत्वमिति भावः । दहनस्तु जाठर्य एव बोध्यो न तु धूमामिवदित्यनेनोदा- हृतः, अत एवोदाहृतयोरित्यस्य पूर्वोक्तयोरिति व्याख्या कृता, अन्यथा दृष्टान्तकृतयोरित्यर्थे धूमजनका- मिलाभे प्रकृतासङ्गतेः । पाकोत्पत्तिनिश्चय इति प्रामाणिकः पाठः । क्वचिद् धूमोत्पत्तिनिश्चय इति पाठः, तत्र धूमपदं पाकपरम् । एवमूष्ममात्रादित्यत्राप्यूष्मपदं वाष्पमात्रपरम् । क्वचित् पाठ एव तथा ।

मकरन्दः । वत इत्यर्थः । तथा च पाकेन जाठर्य्यवह्निः कम्पेन पवनो नानुमीयेतेत्यर्थः । पूर्वोक्तयोरिति । यद्यपि पवनः स्तिमित एव पूर्वोक्तः स च न कम्पानुमेयस्तथापि कम्पमारुतवच्चेत्यनेन कम्पज- नकवायोरपि पूर्वोक्तत्वमिति भावः । दहनस्तु धूमाग्निवदित्यनेनोक्तो न बोध्यः, किन्तु जाठर्य्य एव। उदाहृतस्थल एवेति जाठर्य्यलाभात् पूर्वोक्तयोरित्यर्थ इति व्याख्यातमिति ध्येयम् । धूमोत्पत्तिनिश्चय इति पाठे धूमपदेनैव पाक उपलक्षितः । तस्यैव जाठर्य्यवह्रिसाधकत्वादुपक्रान्तत्वाच्चेति । तेनापि जाठर्य्यवह्रिसिद्धिर्न स्यादित्यर्थः । ऊष्ममात्राच्चेति यदि पाठस्तदा ऊष्मपदं वायुपरमेवेति बोध्यम् । दोषान्तरमाह प्रकृतादिति ।

टिप्पणी । ति। कार्यतावच्छेदककोटौ कारणतावच्छेदककोटौ च दृश्यत्वमप्रवेश्यैव तेन तेन सामान्यरूपेण कार्य- कारणभाव इत्याह नतु दृश्यतैवेत्यादि । तदालीढस्य-उक्तसामान्यधर्मावच्छिन्नस्य ॥ ३ ॥

ग्निमात्रात् पवनमात्राद्वा धूमकम्पौ स्याताम्; न त्वेवम् । नचैवं चेतनव्यभिचा- रोऽपि शक्याऽभिधान इत्यलं बालप्रलापानां समाधानैः। तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ यदि कर्त्तार- मतिपत्य कार्यं स्यात् स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति । एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते । एवञ्च सिद्धे प्रति- बन्धे न प्रतिवन्ध्यादेः क्षुद्रोपद्रवस्यावकाशः। प्रतिवन्धसिद्धाविष्टापादनात्। तद- सिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति । ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वर- पक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगर- दाहः । तन्न । स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् । ॐमिति ब्रुवतः सौग- तस्य दत्तमुत्तरं प्राक् । आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥

प्रकाशः । दृश्यत्वमेव तन्त्रमिति न धूमाददृश्यवहिसिद्धिर्न वा कम्पात् पवनमात्रस्यानुद्भूतस्पर्शस्य सिद्धिरि- त्याह न त्विति । कारणत्वसिद्धावपि प्रकारान्तरेण कार्यलोपप्रसङ्गं वक्तुमाह तदुत्पत्तेरिति । ननूपा- धिविधूननमेव कथमित्याह एतच्चेति । प्रतिवन्ध्यादेरिति । शशे पशुत्वाद् दृश्यशृङ्गवा- धेऽप्यऽदृश्यशृङ्गसिद्धिरित्यादेरित्यर्थः । प्रतिवन्धसिद्धाविति । वस्तुतो विपक्षाबाधकाभावाद्या- प्त्यभाव इत्यर्थः । प्रकृतादर्थादर्थान्तरं शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्वेनायोग्यं शृङ्गं विरोधा- च्छङ्कितुमप्यशक्यं शशे शृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षवाधश्चेति भावः । तत एवें प्रतिवन्धासिद्धेरेवेत्यर्थः । अप्रसङ्ग इति शेषः शशशृङ्गादेरित्यर्थः । दत्तमिति । कार्यस्याहेतुकत्वे कादाचित्कत्वानुपपत्तिरित्यादिनेत्यर्थः । नन्वागमादेवेश्वरसिद्धौ तत्रे न्यायप्रदर्शनं व्यर्थमित्यत आह आर्षमिति । तर्कानुसन्धानं विनाऽऽर्षधर्मोपदेशे तात्पर्यमेव निश्चेतुमशक्यमित्यर्थः । यद्वा आगमाविरोधं न्यायमाह

प्रकाशिका । शृङ्गत्वस्येति । यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्ववदात्मत्वस्यापि योग्योपाधिव्यङ्ग्यत्व- नियमः, यदि तत् संसारिमात्राविश्रान्तं तदेदमपि योग्यशृङ्गनियतमिति नायोग्यप्रत्यक्षबाधः, तथापि विपक्षबाधकाभाव एव दूषणम्, शृङ्गस्य व्यतिरेकानिश्चये पशुत्वस्य केवलान्वयित्वस्वीकारे मीमांसकस्यापसिद्धान्तश्चेति भावः। शेष इति। तदसिद्धौ तत एवाप्रसङ्ग इति मूलपाठपते पूरण- मिदम्। क्वचित्तु तदसिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति पाठः, तत्र च न पूरणापेक्षा। न त्वेतावतापि तर्कप्रदर्शनमुचितम्, न तु न्यायप्रदर्शनमित्यत आह यद्वेति । अनेन समानविषयताप्रतिपाद-

मकरन्दः । शृङ्गत्वस्येति । यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्ववदात्मनोऽपि योग्योपाधिमत्त्वनियमः। यदि च तत्संसारिमात्राविश्रान्तं तदा तदपि योग्यशृङ्गविश्रान्तमिति अयोग्यस्य न बाधः प्रत्यक्षे- णापि, तथापि विपक्षबाधकाभाव एव मूलम्; अन्यथा पशुत्वस्य केवलान्वयित्वापत्तेः, तस्य च त्वयाऽनभ्युपगमादिति भावः । नन्वेवमपि तर्कोपदर्शनमात्रमहं न तु न्यायोपदर्शनमित्यत आह यद्वेति। अनेनोभयोः समानविषयत्वप्रतिपादनात् विरोधमाह इत्यर्थः ॥३॥ मूलोक्तस्य तस्य व्योमादौ

तमिममर्थमागमः संवदति, विसंवदति तु परेषां विचारम्— विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । संबाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एकः ॥ अत्र प्रथमेन सर्वज्ञत्वं, चक्षुषा दृष्टेरुपलक्षणात् । द्वितीयेन सर्ववक्तृत्वं, मुखेन वागुपलक्षणात् । तृतीयेन सर्वसहकारित्वं, बाहुना सहकारित्वोपलक्षणात् । चतु- र्थेन व्यापकत्वं, पदा व्याप्तेरुपलक्षणात् । पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वं, तौ हि लोकयात्रावहनाद् बाहू । षष्ठेन परमाणुरूपप्रधानाधिष्ठेयत्वं, ते हि गतिशील- त्वात् पतत्त्रव्यपदेशाः-पतन्तीति । सन्धमति, सञ्जनयन्निति च व्यवहितोप- सर्गसम्बन्धः । तेन संयोजयति समुत्पादयन्नित्यर्थः । द्यावा इत्यूर्ध्वसप्तलोकोपल- क्षणम्, भूमीत्यधस्तात्, एक इत्यनादितेति । स्मृतिरपि—अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्त्तते-इत्यादि । एतेन ब्रह्मादिप्रतिपादका आगमा वोद्धव्याः ॥ ३ ॥ आयोजनात् खल्वपि— स्वातन्त्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् । हेत्वभावे फलाभावो विशेषस्तु विशेषवान् ॥ ४ ॥ परमाण्वादयो हि चेतनायोजिताः प्रवर्त्तन्ते अचेतनत्वाद् वास्यादिवत् । अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः । अचेतनक्रियायाश्चेतनाधिष्ठानकार्य-

प्रकाशः ।

आर्षमिति । अस्मन्न्याये नागमविरोधोऽपि तु तत्संवादः, परोक्तन्याये तु नैवमित्याह तमिम- मिति । व्यवहितेति । व्यवहिताश्चेत्यनेन उपसर्गसंज्ञाविधानादिति भावः । एतेन ब्रह्मादीति । ब्रह्मादिशरीरमधिष्ठाय ईश्वर एव जगत् सृजतीत्यर्थः ॥ ३ ॥ खल्वपीति निपातसमुदायः, उदाह्रियते-इत्यर्थे वर्त्तते, न समुच्चयार्थः । स, साध्यो विश्व- विदव्यय इत्यनेनान्वीयते इत्येके । साद्ध्यते इत्यनुवर्त्तते इत्यन्ये । एवमग्रेऽपि । आ युज्यते संयुज्यतेऽन्योन्यं द्रव्यमनेनेत्यायोजनं द्व्यणुकारम्भकसंयोजनकं सर्गाद्यकालीन- परमाणुकर्मेह विवक्षितम् । तद् यदि स्वप्रयत्नादेव तेषां स्यात्, तदा परमाणूनामचैतन्याद्युपपत्ति- रित्याह स्वातन्त्र्ये इति । यदि च प्रयत्ननिरपेक्षाददृष्टादेव तत् स्यात्, तदा द्व्यणुकादीनामपि तत एवोत्पादः स्यादिति हेत्वन्तरोच्छेद इत्याह नादृष्टमिति । चेतनव्यापारसहितात्तस्मादिति भावः । तथाच सर्गाद्यकालीनद्व्यणुकोत्पादकं कर्म स्वसमानकालीनप्रयत्नजन्यं कर्मत्वाच्चेष्टावदिति मानार्थः । विपक्षे किं बाधकमित्याह हेत्वभाव इति । हेतोश्चेतनव्यापारस्यान्यत्रोपलब्धस्या- भावे क्रियारूपफलाभाव इत्यर्थः । ननु चेष्टारूपः क्रियाविशेषस्तथा, न तु क्रियामात्रमित्यत आह विशेषस्त्विति । चेष्टा हि भोक्तृगतप्रयत्नस्य प्रयोज्या, न तु प्रयत्नमात्रस्येत्यर्थः । तर्कोपकार्यं मानमाह परमाण्वादयो हीति । आयोजिता उत्पादितकर्माणः प्रवर्त्तन्ते कार्यमारभन्ते इत्यर्थः । विशेषणीभूतकर्मपक्षत्वे पूर्वदर्शितानुमाने तात्पर्यम् । विशेषस्त्वित्यि-

प्रकाशिका ।

नादुभयोरगमानुरोधमाहेत्यर्थः ॥ ३ ॥ मूलोक्तानुमानस्य व्याप्यमादौ व्यभिचारादाह सर्गाद्यका-

मकरन्दः ।

व्यभिचारात्रापरितुष्यन् स्वयं तर्कोपकार्यमानमाह सर्गाद्यकालीनेति । अत एवाह विशेष-

टिप्पणि ।

स्वातन्त्र्ये जडताहानिरित्यादि । आयोजनं (-कर्मविशेषः.) प्रयत्नजन्यं कर्मत्वात् मदीय-

५०४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां

त्वावधारणात्। क्रियाविशेषविश्रान्तोऽयमर्थो, न तु तन्मात्रगोचरः। चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत्। अथ केयं चेष्टा नाम?। यदि प्रयत्नवदात्मसंयोगाऽ- समवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम्। तन्न। तस्यैव तत्रानुपाधित्वात्। अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम्। तन्न। विषभक्षणो- द्वन्धनाद्युद्वापनाद् इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत्। कर्त्तारं प्रत्यन्यं वा?। उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः। भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च। शरीरसमवायिक्रियात्वं तदिति चेन्न। मृतशरीर- क्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः। जीवत इति चेन्न। नेत्रस्पन्दादेश्चेतनाधिष्ठा-

·प्रकाशः। निराकार्यं चेष्टात्वमुपाधिमाह क्रियाविशेषेति। तस्यैवेति। प्रयत्नवदात्मसंयोगाऽसमवायि- कारणकत्वे हि परमाणुक्रियायां चेतनायोजितत्वमिति साध्यम्, तच्च नोपाधिः, साधनव्यापक- त्वादित्यर्थः। विषेति। विषभक्षणादिक्रियाया अहितमरणादिप्रापकत्वादित्यर्थः। इष्टेति। विष- भक्षणानुकूलक्रियाया अपि इच्छाविषयविषभक्षणादिप्रापकत्वमस्त्येव, इच्छां विना तत्र प्रवृत्त्य- भावादित्यर्थः। उभयथाऽपीति। परमाण्वादिक्रियायास्तत्कर्तुरीश्वरस्याऽस्मदादेश्चेच्छाविषयार्थ- हेतुत्वादित्यर्थः। तथाच साधनव्यापकत्वादद्यनुपाधित्वमिति भावः। साध्याव्यापकत्वमप्याह भ्रान्तेति। भ्रमप्रवृत्तस्पन्दस्येष्टरजता प्रापकत्वादनिष्टशुक्त्यपरी- हारकत्वाच्च तत्र साध्याव्यापकत्वादित्यर्थः। न च रजतत्वेनेच्छाविषयस्य शुक्तेः प्रापकत्वमस्त्येवे- ति वाच्यम्। येन रूपेणेष्टं तद्रूपेण प्राप्तेर्विवक्षितत्वादिति भावः। मृतेति। वाय्वाऽऽदिना।

प्रकाशिका। लीनेति। अत एवाह विशेषणीभूतेति। अत एव चेष्टात्वस्योपाधित्वशङ्कापीति भावः। साधनव्यापकत्वादीति। प्रयत्न जन्यत्वञ्चेत्, तत् कर्ममात्रे -तदा तदाश्रयसंयोगासमवायि- कारणकत्वमपि तत्र यः स्पन्द इत्यादिप्रव्याप्तेरिति भावः। साध्याव्याप्तेरिति। तन्मत इति शेषः। इदमपीत्युपलक्षणम् त्वन्मतेनेत्यपि द्रष्टव्यम् मन्मते तत्र साध्यसत्त्वात्। त्वन्मत इति। स्पर्शव- दद्रव्यान्र्तराप्रयुक्तक्रियार्थवत्त्वमेवोपाधिरित्यत्र दूषणमिदम्। यदि तु शरीरसमवायित्वस्य विशे- षणमिदं तदा मूलोक्तान्योन्याश्रय एव दूषणम्। ननु साक्षात्परम्परया वेति। न समुच्चयः एक त्र्रोभयाधिष्ठानाभावात्। प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिबद्धपतनमिति।

मकरन्दः। णोभूतेति। अत एवं चेष्टात्वस्योपाधित्वशङ्काऽपीति भावः। साधनव्यापकत्वादिति। न च कर्म्ममात्रस्य तत्प्रयत्नजन्यत्वेऽपि तत्संयोगसमवायिकारणत्वे मानाभाव इति वाच्यम्। यः स्पन्द इत्यादिप्रागुक्तन्यासेस्तथात्वादिति भावः। मृतशरीरे क्रियैव कथमित्यत आह वाय्वादिनेति। तन्नोदनादिनेति भावः। इदमपीत्युपलक्षणं, त्वन्मतेनेत्यपि द्रष्टव्यम्। मन्मते तत एव साध्यापत्तेरि- ष्टत्वात् त्वन्मत इति। यद्यपि सत्यन्तं शरीरगर्भमुपाधिविशेषणमिति ज्वलनक्रियायां तदभावादन्नो- क्तिसम्भवाभावस्तथापि तद्गर्भतायामिदं, तद्गर्भत्वेऽन्योन्याश्रय इति विकल्प्य दूषणे तात्पर्य्यम्। ननु साक्षात् परम्परया वेति न समुच्चयः, एकत्रोभयथाऽधिष्ठानाभावात्, प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिवद्धपतनमिति। एतेन मूले व्यर्थविशेषणमपि सूचितम्।

टिप्पणी। व्यवहारवदित्यनेनाप्यनुमानेनेश्वरः सिध्यति, अत्रापि कार्यत्वादेव निरूपाधित्वम्।

पञ्चमस्तबके ] ईश्वरसाधनम् । ५०५ नाभ्युपगमप्रसङ्गात् । स्पर्शवद्द्रव्यान्तराप्रयोगे सतीतिचेन्न । ज्वलनपवनादौ तथा- भावाभ्युपगमापत्तेः । शरीरस्य स्पर्शवद्द्रव्यान्तराप्रयुक्तस्येति चेन्न । चेष्टयैव शरीरस्य लक्ष्यमाणत्वात् । सामान्यविशेषश्चेष्टातृत्वं, यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेन्न । क्रियामात्रेणैव तदुन्नयनात् । भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत्, तर्हि तद्विश्रान्तत्वमेव तस्य । न चैतावत्तैव क्रियामात्रं प्रत्यचेतनमात्रस्य चेतना- धिष्ठानेन व्याप्तिरपसार्यते । विशेषस्य विशेषं प्रति प्रयोजकतया सामान्यव्याप्तिं प्रत्यविरोधकत्वात् । अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम् ॥ एतेनाऽशरीरत्त्वादिना सत्प्रतिपक्षत्वमपास्तम् । अत्राप्यागमसंवादः— यदा स देवो जागर्त्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ॥ मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् । तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ॥ इत्यादि ॥ अत्र जागरस्वप्नौ सहकारिलाभालाभौ । ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वञ्च हेतू दर्शितौ परमाण्वादिसाधारणौ । स्वर्गश्वभ्रे चेष्टानिष्ठोपलक्षणे । एतदेव सर्वा- धिष्ठानमुत्तरत्र विभाव्यते-मयेत्यादिना । न केवलं प्रेरणायामहमधिष्ठाता, अपितु प्रतिरोधेऽपि । यो हि यत्र प्रभवति, स तस्य प्रेरणावद्धारणेऽपि समर्थः । यथाऽ- र्वाचीनः शरीरप्राणप्रेरणधारणयोरिति दर्शितं तपामीत्यादिना ॥ ४ ॥ प्रकाशः । मृतशरीरक्रियायां साध्याव्याप्तिरित्यर्थः । एतच्च समव्याप्तोपाध्यभिप्रायेण । मृतेत्युपलक्षणं, जीवशरीरस्याऽपि वायुवशात् क्रियायां तथात्वमिति भावः । विषमव्याप्तोपाधिपक्षे तु शरीरावयव- क्रियायां साध्याव्यापकत्वं मन्तव्यम् । नचेति । इदमपि दूषणं समव्याप्तोपाधिपक्षे । विषमव्याप्तौ तु करादिक्रियायां साध्याव्यापकम् । स्पर्शवदिति । नेत्रादिस्पन्दनन्तु स्पर्शवद्वायुनोदनजन्यमिति नोक्तदोष इत्यर्थः । ज्वलनेति । तन्मते ज्वलनादिक्रिया न प्रयत्नजन्या, किन्त्वदृष्टवदात्मसंयो- गजन्येत्यतस्तत्रापि समव्याप्तोपाधिपक्षे साध्यापत्तिरित्यर्थः । चेष्टयैवेति । चेष्टाश्रयः शरीरमिति लक्षणपक्षेऽन्योन्याऽऽश्रय इत्यर्थः । लक्षणान्तरे तु करादिक्रियायां साध्याव्याप्तिरिति भावः । सामान्येति । अतो नोक्तदोष इति भावः । तत्र मानमाह यत इति । क्रियामात्रेणेति । क्रियामात्रस्यैव मया प्रयत्नजन्यत्वानुमापकत्वाङ्गीकारादिति न तेनैषा जातिः सिद्ध्यतीत्यर्थः । विशेषस्येति । क्रियाप्रयत्नयोः सामान्यतः कार्यकारणभावनिश्चये साध्याऽव्यापकत्वमावश्यकमिति भावः । यद्वा प्रयत्नवदात्मसंयोगजसंयोग एव साध्याव्यापकत्वमिति भावः । ननु परमाणवो न चेतनाधिष्ठिताः प्रवर्त्तन्ते शरीरेतरत्वादिति सत्प्रतिपक्षता स्यादित्यत आह—एतेनेति । शरीरेतरक्रियायाश्चेष्टात्वाभावाद्वोक्तृप्रयत्नजन्यत्वं निवर्त्तते, क्रियामात्रे तु प्रयत्न- जन्यत्वं स्यादेवेत्यर्थः । 'यदा स देव' इत्यादिपरकीयविचारे आगमविरोधप्रदर्शनम् । अध्यक्षेण प्रकाशिका । तत्साध्येऽन्तर्भावयतीति सामान्योपादानेनायमपि विशेषः संगृहीत इति द्योतयतीत्यर्थः । ६४ न्या० कु०

५०६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां धृतेः खल्वपि। क्षित्यादिब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यऽपतनधर्मकत्वाद् वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्यवच्च। एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अप्यागमा व्याख्या- ताः। सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः-आत्मैवेदं सर्वमिति। यथैक एव मायावी अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र इत्यादि। अदृष्टादेव तदुपपत्तेरन्यथासिद्धमिदमिति चेत्। तद्भावेऽपि प्रयत्नस्यान्वयव्य- तिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात्। कारणैकदेशस्य च कार- णान्तरं प्रत्यनुपाधित्वात्, उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात्। शरीरस्थिति- रेवं नत्वन्यस्थिति रितिचेत्। न। प्राणेन्द्रिययोः स्थितेर्व्यापनात्, प्राङ्न्यायेना- पास्तत्वाच्च। अत्राप्यागमः-'एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ- विधृते तिष्ठतः' इति। प्रशासनं-दण्डभूतः प्रयत्नः। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः॥ इति स्मृतिः। अत्रोत्तमत्वमसं- सारित्वं सर्वज्ञत्वादि च। परत्वं सर्वोपास्यता। लोकत्रयमिति सर्वोपलक्षणम्। आवेशो ज्ञानचिकीर्षाप्रयत्नवतः संयोगः। भरणं धारणम्। अव्ययत्वमागन्तुक- विशेषगुणशून्यत्वम्। ऐश्वर्यं संकल्पाप्रतिघातः इति। एतेन कूर्मादिविषया अप्या- गमा व्याख्याताः। प्रकाशः। अधिष्ठात्रा प्रकृतिः परमाणुः। क्षित्यादीति। क्षित्यादिकं प्रयत्नप्रतिबद्धपतनं(१) गुरुत्वे सत्यपातित्वादित्यर्थः। विहंगादिसंयुक्तद्रव्यान्तरेण व्यभिचारनिरासाय तत् साध्येऽन्तर्भावयति साक्षात् परम्परया वेति। तत्र दृष्टान्तमाह तत्संयुक्तेति। एतेन धारकप्रयत्नधृतत्व- व्युत्पादनेन। व्याख्याताः, मुख्यार्थतयेति शेषः। नन्विन्द्रादिदेवताभेदप्रतिपादकागमस्य मुख्यार्थतायामभेदप्रतिपादकागमविरोध इत्यत आह सर्वावेशेति। आवेशो ज्ञानादिमत्संयोग- इति वक्ष्यते। तद्भावेऽपीति। पतनप्रतिबन्धकसंयोगभेदः स्थितिः। अत एव वायुसंयोगाद- प्रकाशिका। तत्र दृष्टान्तमिति। तद्विशेषपुरस्कारेण सामान्यदृष्टान्तमित्यर्थः। शेष इति। तल्लोक- धारकप्रयत्नाश्रयतया तेषां परस्परमन्त्राच्च भेदसिद्धावद्वैतनिरासे मुख्यार्था एवेन्द्रादिदेवताभेदप्रति- पादकागमा इत्यर्थः। आवेश इति। ज्ञानादिमत्ता ईश्वरेण संयोगः सम्बन्धः साक्षात्परम्परासाधारणः यथाश्रुते व्यापकेऽव्याप्तेः। अत एवेति। अन्वयव्यतिरेकाभ्यां स्थितिं प्रति प्रयत्नस्य हेतुत्वादेवेत्यर्थः। अदृष्टद्वाराऽस्मदादिनाश्रयत्वेनार्थान्तरमित्यनुशयादाह स्वजनकेति। स्वजनकप्रयत्नेन समानका- मकरन्दः। मुख्यार्थतयेति शेष इति। धारकप्रयत्नात्तदाश्रयाच्च भेदसिद्धावद्वैतनिरासे इन्द्रादिदेवतानां पर- स्परभेदप्रतिपादकागमा मुख्यार्था एवेत्यर्थः। आवेश इति। ज्ञानादिमता ईश्वरेण संयोगः सम्बन्धः साक्षात्परम्परासाधारण इत्यर्थः। वक्ष्यते इति। यो लोकत्रयमाविश्येत्यत्रावेशपदव्यख्यानावसरे मूल एव। अत एवेति। प्रयत्नान्वयव्यतिरेकानुविधानेन स्थितिं प्रति तद्धेतुत्वादेवेत्यर्थः। नन्वदृष्ट- द्वारा अस्मदादिनाश्रयत्वेनार्थान्तरमित्यनुशयादाह स्वजनकेति। स्वजनकप्रयत्नेन समानकालीनं (१) प्रयत्नप्रतिरुद्धेति प्रकाशिकाभिमतः पाठः।