न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४७ प्रकाशः ।
- देतत्पूर्वकालवृत्तिः स्यात् । यद्वा, यद्ययमेतत्कालीनोत्पत्तिको घटः सहेतुको न स्यादेतत्पूर्वकालीनः स्यात् । यद्वा, घटो यदि घटव्यवहितकालानधिकरणपदार्थाधिकरणक्षणोत्तरत्वव्याप्योत्पत्तिर्न- स्याद् , घटव्यवहितकालः स्यात् तत्कालवृत्तिघटादिवदिति तत्र तत्र सत्त्वापादनं स्यादेवेत्य- स्यर्थः । अन्यकालानुत्पत्तिकोऽयं घटो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्कालोत्पत्तिको न प्रकाशिका । यद्ययमिति पूर्वकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । पक्षविशेषणसिद्धयेऽयमिति प्रत्यक्ष- विषय इत्यर्थः । घटो यदीति । घटव्यवहितकालोऽनधिकरणं यस्य पदार्थस्य तदधिकरणं यः क्षणः तन्निरूपितोत्तरत्वव्याप्योत्पत्तिर्नो न स्यादित्यापादकार्थः । घटानधिकरणकालवृत्तिः स्यादित्यापाद्यार्थः । अत्र च घटान्यवहितकालाधिकरणेत्येतावति कृते आकाशाधिकरणत्वमादायापादकासिद्धिरिति घटव्य- वहितकालानधिकरणत्वं पदार्थविशेषणम् , आकाशादे श्चव्यवहितकालवृत्तितया न तमादायापादकासि- द्धिः। न चान्यव्यवहितोत्पन्नरासभाद्युत्तरोत्पन्नघटे रासभादिकमादायापादकासिद्धिर्भयेनानन्यथासिद्धेः प- दार्थविशेषणत्वावश्यकत्वे तयैवाकाशादिवारणात्कथं तमादायापादकासिद्धिप्रसङ्ग इति वाच्यम्। तादृशरा- सभादिवारक्यान्यथासिद्धिविरहस्य विशेषणत्वेऽपि आकाशजनकजनकदण्डत्वादिवारकाणामन्यथासिद्धि विरहाणामप्रवेशात् । आपादके घटव्यवहितपूर्वकालत्वञ्च घटाधिकरणक्षणव्यवहितक्षणत्वं न तु घटा नधिकरणक्षणत्वं विपर्यये कारणत्वासिद्धिप्रसङ्गात् । आपादने घटसमानकालवृत्तियते व्यभिचाराच्च । विपर्यये कारणत्वासिद्धिप्रसङ्गादेव च व्याप्यत्वपर्यन्तम् । अन्यथा घटत्वावच्छिन्नोत्पत्तेरपि तत्का- लोत्पन्नरासभाधिकरणक्षणोत्तरत्वसामानाधिकरण्यात् कारणत्वासिद्धिप्रसङ्गात् । न चानन्यथासिद्ध- पदेनैव तद्वारणं, घटत्वावच्छिन्नं प्रति रासभस्यान्यथासिद्धत्वादन्यथा कारणतालक्षणे नियमप्रवेशा- वैयर्थ्यात् । प्रतियोगी च परस्यासत्ख्यात्युपनीत इति ध्येयम् । तत्कालेति । घटव्यवहितकाले- त्यर्थः । तत्रतत्रेति पूर्वकालादावित्यर्थः । एवं च सत्त्वापादनं स्यादेवेत्यस्य, असत्त्वापादनं न स्यादेवेत्यस्यार्थ इति विभाग इति भावः । अन्यकालेति । अन्यकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । तथाप्यनुत्पन्नस्यापि पक्षत्वेऽसत इष्टापत्तिरिति तद्वारणाय घट इति पक्षविशेषणम् । अयमिति प्रत्यक्षोपन्यासः । पूर्ववद् दृष्टान्तश्च अन्यकालोकात्पत्तिकः । आपादके चोत्पत्तिपदमखण्डाभा- वतया यथोक्तविशेषणविशेष्यभावेऽव्यर्थतया वा समाधेयम् । आपादके च पूर्वकालपदमव्यवहितपूर्व- कालपरं कारणताशरीरसिद्धये तथा च व्यवहितपूर्वकालोत्पन्ने तत्कालविद्यमाने व्यभिचार इत्यापाद्य उत्पत्तिपदम् । वस्तुतः पक्षविशेषणमहिम्नेत्यस्य उभयापादनान्वयितया यथाश्रुतापाद्यस्य च नित्य- मकरन्दः । यद्ययमिति पूर्वकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । घटोयदीति । घटव्यवहितकालाऽ नधिकरणत्वं घटान्यवहितकालाधिकरणत्वं पर्य्यवस्यति । यत्तु आकाशादेरपि तथात्वे तदादायापादका- सिद्धिः स्यादिति घटव्यवहितकालानधिकरणत्वं यथाश्रुतमेवाभिमतमिति । तन्न । अनन्यथासिद्ध- त्वस्य पदार्थविशेषणस्यावश्यकत्वात् । अन्यथा दण्डरूपादिकमादाय दोषतादवस्थ्यापत्तेः तस्मा- दुभयथाऽप्यदोष इति । रासभाद्युत्तरत्वसामानाधिकरण्याद्विपर्ययानुमाने कारणत्वं न सिद्धयेदिति व्याप्यत्वपर्य्यन्तम् । न चानन्यथासिद्धत्वेनैव तद्वारणमिति वाच्यम् । रासभादेरपि तथात्वात् । अन्यथा कारणतालक्षणे नियमांशोपादानमनर्थकं स्यात् । तत्र च तस्याविवक्षितत्वे प्रकृतेऽपि तथाऽस्त्विति । प्रतियोगी चासत्ख्यात्युपनीत इति स्मर्त्तव्यम् । घटव्यवहितकालत्वं घटानधिक- रणकालवृत्तित्वमापाद्यम् । अन्यति । अन्यकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । उत्त-
४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकाव्याख्यायां बोधनी। हेतुमत्त्वमवश्याश्रयणीयमिति प्रदर्शनार्थम्। अत्र कादाचित्कत्वेन सापेक्षत्वं साधितमिति। तदाह कीर्तिः— नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्। अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः॥ इति॥ ४॥ प्रकाशः। स्यात्, स्यादेव नित्यं स्यादाकाशवदिति स्वमते। तन्मते तु न स्यादेव केवलान्वय्यत्यन्ता- भावप्रतियोगि स्यात् खपुष्पवत्। उभयत्र तु कादाचित्कत्वं न स्यादिति। यद्वा, एतदुत्त- रकालानुत्पत्तिकोऽयं घटो यद्येतदुत्तरकालानुत्पत्तिकत्वे सत्येतत्पूर्वकालोत्पत्तिकानपेक्षोत्पत्तिकः स्या- प्रकाशिका। पर्यवसानमयुक्तम्। अलीकत्वस्य मन्मतेऽप्रसिद्धेरित्यरुचेराह। यद्वेति। केवलेति। सकलदेशका- लव्यापकेत्यर्थः। तन्मते सांख्यादीनां प्रसिद्धिरसत्ख्यातिरूपैवेति भावः। उभयत्रेति। अत्र च प्रत्येकमापाद्यत्वं तुशब्देन व्यवच्छेद्यमिति भावः। एतदुत्तरेति। उत्तरकालोत्पत्तिके मा भूदा- पादकासिद्धिरिति प्रथमं पक्षविशेषणम्। पूर्वकालीनपक्षत्वे मा भूदिष्टापत्तिरिति अयमिति पक्षविशे- षणं पूर्वकालावृत्तित्यर्थः। घटसमानकालोत्पत्तिकसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात् पक्षी- यव्यभिचारस्यादोषत्वादिति विशिष्य पक्षयति घट इति। उत्तरकालोत्पत्तिके व्यभिचारवारणाय सत्यन्तम्। पक्षीकृतघटसमानकालोत्पत्तिके व्यभिचार इत्येतत्पूर्वकालेत्यादि। एतदव्यवहि- तपूर्वकालेत्यर्थः। तेन चिरतरपूर्वकालोत्पत्तिको दृष्टान्तः, यथाश्रुतस्याप्रसिद्ध्या दृष्टान्तासिद्धेरि- त्यवधेयम्। चिरतरपूर्वोत्तन्नस्यापि कालाद्यपेक्षतया एतत्पूर्वकालीनानपेक्षोत्पत्तिकत्वं नास्तीति पुन- रप्यप्रसिद्धिरिति प्रथमोत्पत्तिपदम्। आपाद्ये च वृत्तिः संयोगरूपा उत्पत्तिरूपा वा विवक्षितेति कालादौ व्यभिचारवारणाय द्वितीयोत्पत्तिपदम्। न च संयोगरूपा चेद्वृत्तिरापाद्येऽभिमता तदा पूर्वोत्पन्नगु- णादौ व्यभिचार इति वाच्यम्। तत्पक्षे द्रव्यत्वस्याऽऽपादकविशेषणत्वात्। वस्तुतो नापेक्षा उत्पत्ति- र्यस्येत्यर्थे यथोक्तविशेषणविशेष्यभावे न वैयर्थ्यम् यथाश्रुतेऽपीति। मिश्रास्तु नञ्व्यत्यासेन पूर्वकालो- त्पत्तिकसापेक्षोत्पत्तिकान्यत्वमुत्तरदलार्थ इति दृष्टान्तलाभाय नावव्यवहितत्वविशेषणापेक्षाऽऽपादके एवं सति गगनादेरेव दृष्टान्तत्वात्, न वा व्यर्थविशेषणता, विशिष्टाभावत्वादित्याहुः। मकरन्दः। नन्वस्मन्मते नित्यत्वपक्ष एव पर्यवस्यति, न त्वलीकत्वमसत्ख्यात्यनभ्युपगमे सांव्यवहा- रिकस्यापि तस्य तत्रानभ्युपगमादित्यरुचेराह। यद्वेति। एतदुत्तरकालेति। एतत्तु पक्षविशेष णमुत्तरकालोत्पत्तिकघटांशे आपादकासिद्धिवारणाय। पूर्वकालीनघटैऽशतः सिद्धसाधनवारणायाय- मिति। पूर्वकालावृत्तिरित्यर्थः। एतत्कालवृत्तिसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात्, पक्षीय- व्यभिचारवारणायोगादतो विशिष्य पक्षयति। घट इति। उत्तरकालोत्पत्तिके व्यभिचारादाह सत्यन्तम्। तद्घटसमसमयोत्पत्तिकपटादौ व्यभिचारादाह। एतत्पूर्वकालेति। अव्यवहित- पूर्वकालेत्यर्थः। तथा च चिरतरपूर्वकालोत्पन्नो दृष्टान्तः। अन्यथा यथाश्रुतस्याप्रसिद्ध्या तदसि- द्धिरित्यवधेयम्। तेनापि तादृशकालाद्यपेक्षणात् दृष्टान्तासिद्धिरेवेत्यत आह प्रथमुत्पत्तिपदम्। चरममुत्पत्तिपदं चिन्त्यम्। केचित्तु वृत्तिपदेन संयोगस्य, कालस्य कालावृत्तित्वात् तत्र व्यभिचारवारणाय तदुपादानम्। न चैवं प्रागुत्पन्नगुणादौ व्यभिचारः। आपादके द्रव्यत्वस्यापि विवक्षितत्वादित्याहुः। वस्तुतस्तु नञ्व्यत्यासेन एतत्पूर्वकालोत्पत्तिकसापेक्षोत्पत्तिकत्वाभावो विवक्षितः। तथाच नान्यवहितत्ववि- वक्षा, न वा अखण्डाभावे वैयर्थ्यशङ्का, न वा नित्यस्य दृष्टान्तत्वे तदसिद्धिरिति।
प्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४७ प्रकाशः । देतत्पूर्वकालवृत्तिः स्यात् । यद्वा, यद्ययमेतत्कालीनोत्पत्तिको घटः सहेतुको न स्यादेतत्पूर्वकालीनः स्यात् । यद्वा, घटो यदि घटव्यवहितकालानधिकरणपदार्थाधिकरणक्षणोत्तरत्वव्याप्योत्पत्तिर्न- स्याद्, घटव्यवहितकालः स्यात् तत्कालवृत्तिघटादिवदिति तत्र तत्र सत्त्वापादनं स्यादेवेत्य- स्यार्थः । अन्यकालानुत्पत्तिकोऽयं घटो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्कालोत्पत्तिको न प्रकाशिका । यद्ययमिति पूर्वकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । पक्षविशेषणसिद्धयेऽयमिति प्रत्यक्ष- विषय इत्यर्थः। घटो यदिीति । घटव्यवहितकालोऽनधिकरणं यस्य पदार्थस्य तदधिकरणं यः क्षणः तन्निरूपितोत्तरत्वव्याप्योत्पत्तिर्नो स्यादित्यापादकार्थः। घटानधिकरणकालवृत्तिः स्यादित्यापाद्यार्थः । अत्र च घटाव्यवहितकालानधिकरणेत्येतावति कृते आकाशाधिकरणत्वमादायापादकासिद्धिरिति घटव्य- वहितकालानधिकरणत्वं पदार्थविशेषणम्, आकाशादे श्चव्यवहितकालवृत्तितया न तमादायापादकासि- द्धिः। नचाव्यवहितोत्पन्नरासभाद्युत्तरोत्पन्नघटे रासभादिकमादायापादकासिद्धिभयेनानन्यथासिद्धेःप- दार्थविशेषणत्वावश्यकत्वे तयैवाकाशादिवारणात्कथं तमादायापादकासिद्धिप्रसङ्ग इति वाच्यम्। तादृशरा- सभादिवारकान्यथासिद्धिविरहस्य विशेषणत्वेऽपि आकाशजनकजनकदण्डत्वादिवारकाणामन्यथासिद्धि विरहाणामप्रवेशात् । आपादके घटव्यवहितपूर्वकालत्वञ्च घटाधिकरणक्षणव्यवहितक्षणत्वं न तु घटा नधिकरणक्षणत्वं विपर्यये कारणत्वासिद्धिप्रसङ्गात् । आपादने घटसमानकालत्वनियते व्यभिचाराच्च । विपर्यये कारणत्वासिद्धिप्रसङ्गादेव च व्याप्यत्वपर्यन्तम् । अन्यथा घटत्वावच्छिन्नोत्पत्तेरपि तत्का- लोत्पन्नरासभाधिकरणक्षणोत्तरत्वसामानाधिकरण्यात् कारणत्वासिद्धिप्रसङ्गात् । न चानन्यथासिद्ध- पदेनैव तद्वारगं, घटत्वावच्छिन्नं प्रति रासभस्यान्यथासिद्धत्वादन्यथा कारणतालक्षणे नियमप्रवेश- वैयर्थ्यात् । प्रतियोगी च परस्यासत्ख्यात्युपनीत इति ध्येयम् । तत्कालेति । घटव्यवहितकाले- स्यर्थः । तत्रतत्रेति पूर्वकालादावित्यर्थः । एवं च सत्त्वापादनं स्यादेवेत्यस्य, असत्त्वापादनं न स्यादेवेत्यस्यार्थ इति विभाग इति भावः । अन्यकालेति । अन्यकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । तथाप्यनुत्पन्नस्यापि पक्षत्वेऽसत इष्टापत्तिरिति तद्वारणाय घट इति पक्षविशेषणम् । अयमिति प्रत्यक्षोपन्यासः । पूर्ववद् दृष्टान्तश्च अन्यकालोत्पत्तिकः। आपादके चोत्पत्तिपदमखण्डाभा- वतया यथोक्तविशेषणविशेष्यभावेऽव्यर्थतया वा समाधेयम् । आपादके च पूर्वकालपदमव्यवहितपूर्व- कालपरं कारणताशरीरसिद्धये तथा च व्यवहितपूर्वकालोत्पन्ने तत्कालविद्यमाने व्यभिचार इत्यापाय उत्पत्तिपदम् । वस्तुतः पक्षविशेषणमहिम्नेत्यस्य उभयापादनान्वयितया यथाश्रुतापाद्यस्य च नित्य- मकरन्दः । यद्ययमिति पूर्वकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । घटो यदीति । घटव्यवहितकालाऽ नधिकरणत्वं घटाव्यवहितकालाधिकरणत्वं पर्य्यवस्यति । यत्तु आकाशादेरपि तथात्वे तदा दायापादका- सिद्धिः स्यादिति घटव्यवहितकालानधिकरणत्वं यथाश्रुतमेवाभिमतमिति । तन्न । अनन्यथासिद्ध- त्वस्य पदार्थविशेषणस्यावश्यकत्वात् । अन्यथा दण्डरूपादिकमादाय दोपतादवस्थ्यापत्तेः तस्मा- दुभयथाऽप्यदोष इति । रासभाद्युत्तरत्वसामानाधिकरण्याद्विपर्ययानुमाने कारणत्वं न सिद्ध्येदिति व्याप्यत्वपर्यन्तम् । न चानन्यथासिद्धत्वेनैव तद्वारणमिति वाच्यम् । रासभादेरपि तथात्वात् । अन्यथा कारणतालक्षणे नियमांशोपादानमनर्थकं स्यात् । तत्र च तस्याविवक्षितत्वे प्रकृतेऽपि तथाऽस्त्विति । प्रतियोगी चासत्ख्यात्युपनीत इति स्मर्त्तव्यम् । घटव्यवहितकालत्वं घटानधिक- रणकालवृत्तित्वमापाद्यम् । अन्येति । अन्यकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । उत्त-
४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां प्रकाशः। स्यात्। यद्वा, सकलकालावृत्तिरयं घटो यदि निरपेक्षः स्यात् किञ्चित्कालावृत्तित्वे सति किञ्चित्का- लवृत्तिर्न स्यात् । तेन पक्षविशेषणमहिम्नाऽलीकत्वं सिद्ध्यति । यद्वा, एतावतकालपूर्वापरकाला- वृत्तिर्घटो यद्येतावत्कालपूर्वकालवृत्तित्वे सति एतत्कालाव्यवहितपूर्वकालवृत्तिपदार्थाधिकरणक्षणोत्तर- प्रकाशिका। त्वेनाप्युपपत्तेरन्यथा व्याख्या । तथाहि सर्वत्रोत्पत्तिपदं सत्तामात्रपरं नञ्व्यत्यास आपादके तेन पूर्वापरकालसत्तारहितोऽयं यद्येतदव्यवहितपूर्वकालोत्पत्तिसापेक्षसत्ताको न स्यादेतावत्कालसत्ताको न स्यात् पूर्वापरोत्पन्नपदाकाशादिवद्वेति दिक् । सकलकालेति । इदं च पक्षविशेषणं नित्यत्वेन इष्टाप- त्तिवारणाय, अतएवोक्तं पक्षविशेषणमहिम्नेति । अलीकत्वेन तद्वारणायमिति । प्रामाणिक इत्यर्थः किञ्चित्कालेति । किञ्चित्कालावृत्तित्वसमानाधिकरणकिञ्चित्कालवृत्तित्वस्याभाव आपाद्यः, अत्र विशेष्य- मात्रे अभावप्रतियोगिनि सति परमाण्वादौ व्यभिचार इति विशेषणमुक्तं प्रतियोगिनि, तस्य च प्राक्का- लावृत्तित्वेसतीत्यर्थोऽतो न प्रागभावे व्यभिचारः, विशेषणमात्रभावे आपाद्ये यद्यपि न व्यभिचारः, तथाप्यखण्डाभावतया न व्यर्थता । केचित्तु आकाशस्यावृत्तिकतया विशेषणाभावमात्रोपादाने तत्रैव व्यभिचार इति विशेष्यपदमित्याहुः । तन्न । वृत्तिपदमात्रोपादानेनैव तन्निरासे किञ्चित्कालपदवैय- र्थ्यात्, किञ्चित्पदद्वयञ्च विरोधभञ्जनाय । तेनेति । विशिष्टाभावः प्रकृते सकलकालवृत्तितया कालावृत्ति- तया च, तत्राद्यस्य पक्षविशेषणमहिम्ना बाधात् द्वितीयमादाय पर्यवसानं तच्चानिष्टमिति सापेक्ष- त्वसिद्धिरिति भावः । एतावदिति पूर्वापरकालवृत्तिपदार्थांशे इष्टापत्तिवारणाय पक्षविशेषणबलेना- लीकत्वासिद्ध्ये च पक्षविशेषणं, अलीकत्वेनेष्टापत्तिवारणाय घट इति विशेषणं प्रामाणिक इत्यर्थः । एतावत्कालवृत्तौ पूर्वोत्पन्ने व्यभिचार इति सत्यन्तम् । तत्रापि एतावदिति कालविशेषणमप्रसिद्धि- वारणाय, सत्यन्तमात्रं च घटसमानकालोत्पन्नपदार्थे व्यभिचारीति एतत्कालेत्यादि, तत्राप्येतत्पदं प्रतियोग्युपस्थापकतया पूर्वत्वनिरूपकपरमित्यप्रसिद्धिवारणाय । अव्यवहितपदं च दृष्टान्तलाभाय तदनुपादाने नित्य आपाद्याभावात् पूर्वकालोत्पन्ने च सत्यन्ताभावान्नूत्तरकालोत्पन्ने च पूर्वकालीन- दिगादिजन्यत्वात्तदलाभः । तदुपादाने च व्यवहितपूर्वकालतया दिगादेरुत्तरकालोत्पन्न एव दृष्टान्तः । न च दिगादेरव्यवहितपूर्वकालेऽपि सत्त्वादव्यवहितपदोपादानेऽपि तद्दोपतादवस्थ्यमिति वाच्यम् । नञ्व्यत्यासेन व्यवहितकालावृत्तित्वस्य पदार्थविशेषणत्वलाभादिति वदन्ति । तदयुक्तम् । एवमपि मकरन्दः। रकालोत्पत्तिको दृष्टान्तः । सकलेति । एतच्च पक्षविशेषणं नित्यत्वेनेष्टापत्तिवारणाय । अलीक- त्वेन तद्वारणायमिति । प्रामाणिक इत्यर्थः । किञ्चित्कालवृत्तिर्न स्यादित्येव कृते व्योमादौ व्यभिचार इत्यत आह । किञ्चिदिति । प्राक्का- लावृत्तित्वे सतीत्यर्थः । तेन न प्रागभावे व्यभिचारः । यद्यपि सत्यन्तमेव समर्थमिति व्यर्थविशे- ष्यत्वं, तथाऽप्यखण्डाभाव आपाद्य इति ध्येयम् । तेनेति । विशिष्टाभाव उभयथा सकलकाल- वृत्तितया सकलकालावृत्तितया च । तच्चाद्यस्य पक्षविशेषणमहिम्नाऽभावे द्वितीयस्य पर्यवसानम् । तच्चानिष्टमिति सापेक्षत्वसिद्धिरिति भावः । एतावदिति । पूर्वापरकालमात्रवृत्तिघटांशे सिद्धसाधनवारणाय पक्षविशेषणम् । एतावतका- लवृत्तौ पूर्वकालोत्पन्ने व्यभिचारादाह, सत्यन्तम् । एतावत्पदं कालविशेषणमात्रासिद्धिबारकम् । एतत्कालीनोत्पन्ने घटादौ सत्यन्तमात्रं व्यभिचारीत्यत आह । एतत्कालाव्यवहितेत्यादि । ननूत्तरकालोत्पत्तिक एव दृष्टान्तः, अन्यत्रापादकवैकल्यात् । तत्र चैतत्पूर्वकालवृत्तिनित्यदिगादिसा- पेक्षत्वादापादकवैकल्यमित्यत आह । अव्यवहितेति । नञ्व्यत्यासेन एतत्कालव्यवहितपूर्वका-
प्रथमस्तबके ] आकस्मिकतावादखण्डनम् । ४६ अकस्मादेव भवतीति चेन्न— हेतुभूतिनिषेधो न स्वानुपारूयविधिर्न च । बोधनी । कादाचित्कत्वहेतोरन्यथासिद्धिं शङ्कते - अकस्मादिति । तदेतद् यथासम्भवं विकल्प्य निराकरोति - हेतुभूति-इति । अकस्माद् भवतीत्यत्र प्रकाशः । त्वव्याप्यकालो न स्यादेतावत्कालवृत्तिर्न स्यादिति, न स्यादेवेत्यस्यार्थः । अत एव कालान्तरावृत्ति त्वे सत्येतत्कालवृत्तिः स्यादिति कादाचित्कत्वाभावापादनमपीति सम्प्रदायविदः ॥ ४ ॥ कार्यकारणभावग्राहकमने, कादाचित्कभावो निर्हेतुको भावत्वाद् व्योमवदिति सत्प्रतिपक्षं शङ्कते । अकस्मादिति । अत्र किंशब्दो यदा हेतुमात्रपरस्तदा तस्य नञा सम्बन्धाद्धेत्वभावे भवनं लभ्यते । यदा तु भवनक्रियया नञः सम्बन्धस्तदा प्रसज्यप्रतिषेधे भवननिषेधोऽर्थः, किंशब्द-समस्यमानेनापि नञा भवतीत्यस्यान्वयात् । असमर्थेऽप्यसूर्यंम्पश्या राजदारा इति- वत् समासः । अ-शब्दस्यैव वाऽयं समासं विना प्रयोगः । अ मानो ना प्रतिषेधवचना इति कोपात् । प्रकाशिका । चरमकारणमादायोत्तरकालोत्पन्न आपादकाभावात् । अत्र ब्रूमः । आपादके पूर्वकालवृत्तिपदं पूर्व- कालोत्पन्नपरम् , अतो न नित्यमादाय दृष्टान्तासिद्धिः, नचैवमपि तादृशादृष्टाजन्यतया उत्तरकाली- नस्यादृष्टान्तता, उत्तरकालोत्पन्नादृष्टजन्यस्यैव दृष्टान्तत्वात् । एवं चाव्यवहितपदं विपर्ययेऽन्यवधां- नघटितकारणतासिद्धये, अव्यवहितपदेनैव वा तादृशादृष्टवारणं यदव्यवहितपूर्वकालोत्पन्नादृष्टेनोत्तर- कार्यजननं तत्कालस्यैवैतत्कालपदेनोक्तत्वात् । व्याप्यत्वं पूर्वत्वं च विपर्यये पूर्वत्वनियमरूपकारण- तालाभाय, एवं च तदर्थमेवानन्यथासिद्धत्वमपि पदार्थविशेषणं प्रवेक्ष्यमिति दिक् । ननु यदिनिरपेक्षः स्यात् किञ्चित्कालावृत्तित्वे सति किञ्चित्कालवृत्तिर्न स्यादित्येव कादाचित्कत्वाभावापादनं तच्च न स्यादे- वेत्येतदर्थत्वेनैव व्याख्यातमिति, मूले न तु कदाचित् स्यादिति पुनरुक्तमत आह । अत एवेति । पौनरुक्त्यभयादेव कादाचित्कत्वाभावापादनमन्यथा वर्णयन्तीत्यर्थः । सम्प्रदायविद् इत्यरुचौ, तद्बीजन्तु किञ्चित्कालावृत्तित्वे सतीत्यादेरापादनस्य पक्षविशेषणमहिम्ना अलीकत्वे पर्यवसानम् , मकरन्दः । लावृत्तीत्यर्थः । नित्यन्तु व्यवहितेऽपि वर्त्तते इत्यदोष इति वदन्ति । तन्तुच्छम् । उत्तरकालोत्प- न्नचरमकारणमादाय दोषतादवस्थ्यापत्तेः । वयन्तु, पूर्वकालवृत्तिपदं पूर्वकालोत्पत्तिकपरमिति न नित्यमादाय दृष्टान्तासिद्धिः । न च तादृशादृष्टादिसापेक्षत्वादोषतादवस्थ्यम् । उत्तरकालोत्पन्ना- दृष्टसापेक्षस्य दृष्टान्तत्वे तथाप्यविरोधात् । अव्यवहितपदेनैव तद्वारणाद्वा । यदव्यवहितपूर्वकालो- त्पत्तिकादृष्टेन नोत्तरकालीनकार्योत्पादनम् , एतत्कालपदेन तस्यैव कालस्य विवक्षितत्वात् । प्रथ- मकल्पेऽव्यवहितपदं स्फुटार्थमिति युक्तमुत्पश्यामः । व्याप्यत्वं पूर्वत्वञ्च विपर्यये नियमादिगर्भका- रणत्वलाभाय । एवञ्चानन्यथासिद्धत्वमपि पदार्थे विशेषणमित्याहुः । अत एवेति । यत एव किञ्चित्कालावृत्तित्वे सतीत्यादौ न स्यादेवेत्यस्यैव कादाचित्कत्वाभाव- पदेन पर्य्यवसानम् अत एव मूले कदाचित् स्यादिति मूलोक्तकादाचित्कत्वाभावापादनं साम्प्र- दायिका अन्यादृशमाहुः । अन्यथा पौनरुक्त्यापत्तेरित्यर्थः । तत्र पक्षविशेषणमहिम्नाऽलीकत्व- सिद्धिरित्येव भेदो नोक्तदोष इत्यस्वरसोद्भावनं सम्प्रदायपदेनेतीति वदन्ति । केचित्तु सम्प्रदायविद इति प्रकरणान्वयीत्याहुः ॥ ४ ॥ ७ न्या० कु०
५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकायां स्वभाववर्णना नैवमवधेर्नियतत्वतः ॥ ५ ॥ बोधनी । नामयोगिनोऽपि नञः प्रतिषेधार्थत्वमाश्रित्य यदा कस्मादिति निर्दिष्टहेतुसम्बन्धो विवक्ष्यते तदा हेतुनिषेधः स्यात् । यदा तु समासान्निष्कृष्य भवनसम्बन्धस्तदा भूतिनिषेधः । यदि पुनः स्वर- सप्राप्तो हेतुसम्बन्धः पर्युदासवृत्तिश्चाऽऽश्रीयते तदा तदितरविधिपरत्वाद्धेतुतोऽन्यस्मात् स्वस्माद्- नुपाख्याच्च भवतीति स्यात् । अथवा, यदा हेतुविशिष्टभवनसम्बन्धो विवक्षितो न हेतोर्भव- तीति तदा विशेषनिषेधस्य शेषविधिपरत्वादहेतुतो भवतीति स्यात् , अहेतुश्च स्वयमनुपाख्य- श्चेति, तयोरेव विधिः प्राप्नोति । यदा त्वश्वकर्णादिवद् व्युत्पत्त्यनपेक्षं, तदा स्वभावत एव भवतीति स्यात् । न चावश्यमत्र सर्वत्र ग्रन्थसंघटनायां यतितव्यं, तात्पर्यमात्रविकल्पनात् । पञ्चानामपि कल्पानां निराकरणहेतुरवधेर्नियतत्वत इति । अवधेः = कार्यपूर्वक्षणवर्तिनः कस्यचिदन्यस्य नियतत्वात् = किञ्चिदेकमवधीकृत्य दर्शनादित्यर्थः । यद्वा, अवधिः प्रागस- दुत्तरकालसम्बन्धस्तस्य, नियतत्वतः = नियतकालत्वात् कादाचित्कत्वादिति यावत् । यद्वा, अनन्तरोक्तस्यावधेः सहेतुकोत्पत्तिनियतत्वादिति । प्रकाशः । तदुभयं निरस्यति । हेतुभूतीति । अथ हेतुभवनयोर्निषेधस्य शेषाभ्यनुज्ञाफलकत्वात् पर्युदासनञा हेतुव्यतिरिक्ताद्भवनं लभ्यते, अहेतुश्च कार्यस्वरूपमवस्तु च तदा स्वानुपाख्य- विधिः, तं निषेधति । स्वानुपाख्येति । स्वं=कार्यम् , अनुपाख्यो=निर्धर्म्मकोऽलीकः । अथाश्वकर्णादिवदव्युत्पन्न एवायमकस्माच्छब्दः, किंवा शब्दोऽस्वभावपरो वा तदा स्वभावादेव कार्य्यस्य कादाचित्कत्वमित्यर्थः, तत्राह । स्वभावेति । सर्वत्र हेतुमाह । अवधेरिति । निय- तावधिसम्बन्धित्वेनैव विवादपदस्य कादाचित्कस्य कार्यस्य सतर्केण प्रत्यक्षेण विषयीक्रियमाणत्वा- प्रकाशिका । कादाचित्कत्वाभावापादने तु न तत्पर्यवसानं तादृशपक्षविशेपणाभावादिति यथाश्रुत एव न पौन- रुक्त्याशङ्केति । केचित्तु यत एव स्यादेवेत्यापादनमेव कादाचित्कत्वाभावापादनं अत एव तदर्थतयैव कादाचित्कत्वाभावापादनमपि व्याख्यातम् । मूलेऽपि कादाचित्कत्वाभावापादनं न स्वतन्त्रमपि तु पूर्वोक्तं स्यादेवेत्यापादने पक्षधर्मतावल्लभ्यानिष्टोप्रदर्शनपरमिति व्याचक्षते । सम्प्रदायविद इति च तन्मते प्रकरणान्वयि ॥४॥ हेतुभवनयोरिति । यद्यपि हेतुप्रसक्तभवनस्य विशिष्टस्यैकस्यैव निषेधाद् द्विवचनमयुक्तम् । तथापि भवननिषेधेऽर्थतो हेतुनिषेधोऽपि लभ्यते भवनं विना हेतोरनुपपत्तेरित्ये- तावता तदुपपत्तिः । अहेतुश्चेति । हेतुव्यतिरिक्तश्चेत्यर्थः । हेतुनिषेधे भवनमुत्पत्तिरूपमसम्भवी- मकरन्दः । हेतुभवनयोरिति । यद्यपि हेतोर्यद्भवनं तस्यैव विशिष्टस्यैकस्य निषेधात् तल्लभ्यत इति द्विवचनमयुक्तम् । तथापि विशिष्टमपि तदुभयात्मकमेवेति तथोक्तमिति ध्येयम् । अहेतु- टिप्पणी । अङ्गाङ्गिभावस्य शब्दार्थत्वेन स्वतन्त्रापादने तद्विरोध इत्यर्थः ॥४॥ हेतुभवनयोरिति । यद्यपि हेतुप्रसक्तभवनस्यैकस्यैव निषेधाद् द्विवचनमयुक्तम् । तथापि भवननिषेधेऽर्थतो हेतुनिषेधोऽपि लभ्यते भवनं विना हेतोरनुपपत्तेरित्येतावता तदुपपत्तिः । अस्वभावेति । तस्य नञा सम्बन्ध
प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ५१ हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनम्, अविशेषात् । भवनप्रतिषेधे प्रागिव पश्चादप्यभवनम्, अविशेषात् । उत्पत्तेः पूर्वं स्वयमसतः स्वोत्पत्तावप्रभु- त्वेन स्वस्मादिति पक्षानुपपत्तेः । पौर्वापर्य्यनियमश्च कार्यकारणभावः । न बोधनी । तदेतदनिष्टप्रसङ्गप्रदर्शनमुखेन विवृणोति—हेतुप्रतिषेध इति । सर्वदा भवनम्=सत्त्वम् । स्यादिति शेषः । विपर्ययस्तु दृश्यत इति भावः । एतेनैतन्निरस्तं यदाहुः— कार्यत्वं कारणत्वं च सम्बन्धः सोऽसतां कुतः । सच्चैत् कारणवैयर्थ्यमसच्चेन्न चरिस्थितिः ॥ १॥ तथा—कुर्वत् कार्यमकुर्वद्वा कारणं कारणं भवेत् । कुर्वच्चेदनवस्थानमकुर्वत्यनवस्थितिः ॥ इति । पश्चादप्यभवनम्=असत्त्वम् । स्यादिति शेषः । अभवनाविशेषादुत्पत्त्यभावस्य पूर्वापर- कालयोरविशेषादिति । एतेनैतन्निरस्तं यदाहुः— न चेदुत्पत्तिरुत्पत्तेर्नित्यत्वमनवस्थितिः । उत्पत्ताचित्यतः कार्यं कारणं चानिरूपितम् ॥ उत्पत्तेरिति । न ह्यसतः प्रभुत्वं, नापि स्वस्य प्रभुत्वमिति । नन्वेकस्यैव कार्यकारण- भावे को दोषस्तत्राह—पौर्वापर्य्य-इति । चो हेत्वर्थः । यस्मात् पौर्वापर्य्यनियमतः कार्यकारण- प्रकाशः । दित्यर्थः । क्रमेण तर्कमेवाह । हेत्विति । भवनस्य सत्त्वस्याविशेषात् सदातनत्वे कार्य्यस्य कादा- चित्कत्वव्याघात इत्यर्थः । भवनेति । भवनस्योत्पत्तेः सदा प्रतिषेधे प्राक् पश्चादिव मध्येऽप्यभ- वनप्रसङ्गात् कदाचिद्द्भवनग्राहिप्रत्यक्षबाध इत्यर्थः । उत्पत्तेरिति । स्वोत्पत्तेः पूर्वं यदि स्वं भवेत् तदा नियतकालोत्पत्तौ हेतुः स्यात् । न चैवम् । असतोऽपि हेतुत्वे प्राक् पश्चादपि कार्य्यसत्त्वप्र- सङ्गेन तदनुपलब्धिविरोध इत्यर्थः । कार्यकारणयोरभेदे विरोधान्तरमाह । पौर्वापर्य्यमिति । पटा- प्रकाशिका । ख्यात आह । सत्त्वस्येति । पश्चादप्यभवनमित्यत्रेष्टापत्तिः, घटोत्पत्तिकालस्यैव पूर्वतानिरूपक- त्वेनोपस्थित्या पश्चात्त्वेऽपि तस्यावधित्वलाभात् तदा चाभवनस्यानुत्पत्तेः सत्त्वादित्यन्यथा व्या- मकरन्दः । श्चेति । हेतुव्यतिरिक्तश्चेत्यर्थः । हेतुनिषेधभवनमुत्पत्तिरूपमसम्भवत्यत आह । सत्त्वस्येति । अकारणकत्वेऽपीति । अकारणकत्वाविशेषेऽपीत्यर्थः । नियतेति । नियतदेशतद्वृ- टिप्पणी । इति शेषः । भवनस्य सत्त्वस्याविशेषादिति । हेतुं विना उत्पत्तेरसम्भवाद् भवनस्य सत्त्वमर्थः । सदा प्रतिषेधे प्राक्पश्चाद्विवेति । घटोत्पत्तिकालस्यैव पूर्वतानिरूपकत्वेनोपस्थि- त्या पश्चात्त्वेऽपि तस्यावधित्वलाभात् तदाऽभवनस्य सत्त्वादिष्टापत्तेरतः प्रागित्यादिमूलमन्यथा व्याचष्टे प्रागिति । स्वोत्पत्तेः पूर्वमिति । नियमानन्यथासिद्धत्वे आपादकविशेषणे तेनापाद्या- पादकव्याप्तेर्न भङ्गः । न चैवमिति । अत्र व्यभिचारशङ्कानिवर्त्तकतर्कमाह । असतोऽपी- ति । प्रागसतोऽपीत्यर्थः । तेन नालीकविधिपर्यवसानम्, तदाकारञ्च कार्यं यद्यविद्यमानप्राग्- हेतुकं स्यान्नियतकालोत्पत्तिकं न स्यादपि तु सदातनमेव स्यात् । अयमापादकः पराभ्युपगत एव । अथवा हेतुत्वं यदि प्रागविद्यमानावृत्ति स्यान्नियतकालोत्पत्तिनियामकताप्रयोजकं न स्यादिति । पटार्थिनः=पटनिर्म्माणेच्छावन्तः । तेन पटेच्छाभिः पट उपादीयमानेऽपि न
५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
चैकं पूर्वमपरञ्च, तत्त्वस्य भेदाऽधिष्ठानत्वात् । अनुपाख्यस्य हेतुत्वे प्रागपि स- त्त्वप्रसक्तौ पुनः सदातनत्वोपत्तेः । स्यादेतत् । नाऽकस्मादिति कारणनिषेधमात्रं वा, भवनप्रतिषेधो वा, स्वात्महे-
बोधनी । भावस्तस्मादिति । अथवैतच्च न स्वस्मादुत्पत्तिरित्याह—पौर्वापर्य्य-इति । तत्त्वस्य पूर्वा- परभावस्येत्यर्थः । निराकृतात् पक्षचतुष्टयाद् विविञ्चानः पञ्चमं पक्षं स्वभाववादपक्षमाशङ्कते—स्यादेत- दिति । यथा घटादेश्विशेषसंसर्गासंसर्गनियमः, यथा वाकाशपरमाण्वादेरशेषदेशव्यापित्वान्व्या- पित्वनियमः, यथा वानेककारकसाध्यस्यापि कार्य्यस्य कस्मिंश्चिदेव कारके समवायो न कारकान्त-
प्रकाशः । र्थिनः पटमेव नोपाददते किन्तु तत्पूर्वकालवर्त्तिनस्तन्तूनीति लोकव्यवहारसिद्धकार्य्यकारणभाव- विरोध इत्यर्थः । तत्त्वस्य = पौर्वापर्य्यस्येत्यर्थः । अनुपाख्यस्यार्थक्रियाजनकत्वाभावेऽप्यनिष्टप्रसङ्गा- न्तरमाह । अनुपाख्यस्येति । एतत्पटानुत्पत्तिकक्षणे यद्येतत्पटोत्पादकानुपाख्योत्तरक्षणः स्याद् एतत्पटाधिकरणं स्यादित्यर्थः । यद्यपि स्वभावः कार्य्यं तद्धर्म्मो वा, आद्यः अकस्मादिति निरासे- नैव निरस्तः, अन्त्ये धर्मस्य कारणत्वमङ्गीकृतमेव । तथापि यथा परमाणुत्तपरिमाणयोरकारण कत्वेऽपि स्वभावादेव नियतदेशवृत्तित्वं, यथा वा कारणत्वाविशेषेऽपि पटस्य तन्तुदेशवृत्तित्वं न तु वेमादिदेशवृत्तित्वमिति स्वभावादेव नियमः, तथा कार्य्यस्याहेतुकत्वेऽपि तत्तत्कारणत्वाभिमतनि- यतोत्तरकालवृत्तित्वं न तु कालान्तरवृत्तित्वमिति स्वभावादेव कादाचित्कत्वं स्यादिति शङ्कते ।
प्रकाशिका । चष्टे प्राक् पश्चादिव मध्येऽपीति । एतत्पटेति । अत्रापादकेऽनुपाख्येति पराभ्युपगमविषयो- त्कीर्त्तनम्, व्याप्तिस्त्वनुपाख्यत्वविशेषणं विहायैव वेतव्येत्यवधेयम्। अकारणकत्वेऽपि=अकारणकत्वावि- शेषेऽपि । नियतेति । नियतदेशत्वं नियततद्वृत्तित्वं चेत्यर्थः । तेन परमाणुत्तपरिमाणयोर्यथासं-
मकरन्दः । त्त्वमित्यर्थः । परमाणोर्द्देशत्वमपरस्य तद्वृत्तित्वमिति स्वभावादेव यथा यथा नियम इति भावः । नियतदेशवृत्तित्नियतसम्बन्धित्वं विवक्षितमित्यन्ये । परमाणुपदं भावप्रधाननिर्देशेन पर-
टिप्पणी । क्षतिः । कार्यकारणभावविरोध इति । तथा च कार्यकारणभावनियमितप्रवृत्तिनिवृत्त्योरनु- पपत्तिरिति भावः । एतत्पटेति । अत्रापादकेऽनुपाख्येति पराभ्युपगमविषयोत्कीर्त्तनम्, व्या- प्तेरनुपाख्यत्वविशेषणं विहायैव सम्भवादिति ध्येयम् । स्वभावस्यातिरिक्ततया नियामकत्वे दृष्टा- न्तमुखेन प्रामाण्यं व्यवस्थापयति । परमाणुत्तपरिमाणयोरिति । अकारणकत्वेऽपीति । अकारणकत्वाविशेषेऽपीत्यर्थः । नियतेति । नियतदेशत्वं नियततद्वृत्तित्वञ्चेत्यर्थः । तेन परमा- णुत्तपरिमाणयोर्यथासङ्ख्यमन्वयात् परमाणोर्नियतदेशवृत्तित्वाविरहेऽपि न क्षतिः । यद्यपि नित्यप- रिमाणस्यातिरिक्तवृत्तित्वे प्रमाणाभावः, अवृत्तित्वे कारणनियमेन समवायिनि सिद्धस्य जन्यपरि- माणस्य दृष्टान्तस्यानुमानस्य प्रामाण्यञ्च, तथापि तत्र नातिरिक्तस्वभावापेक्षा । एवं कारणतावच्छे- दकसम्बन्धेन कारणानामेव कार्यसत्त्वे नियामकतया तन्तुत्वेनैव तादृशसम्बन्धसत्त्वादिति न वेमा- दिदेशवृत्तित्वम् । नचोभयोः कारणत्वात् कथञ्च वेमादिना तादृशसम्बन्ध इति वाच्यम् । तन्ता- वेव तस्य प्रत्यक्षेण, कल्पनायाः फलवलकल्प्यतया तेनैव तत्कल्पनमिति तत्रापि न स्वभावस्य तथाविधस्य प्रयोजनमिति दृष्टान्तविकलतया स्वभावस्योच्छेद एव, तथापि तत्स्वीकारेऽपि न
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ५३ तुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम्, अपि त्वनपेक्ष एव कश्चिन्निय- तदेशवन्नियतकालस्वभाव इति ब्रूमः । न । निरवधित्वे अनियतावधिकत्वे वा का- दाचित्कत्वव्याघातात् । न ह्युत्तरकालसिद्धित्वमात्रं कादाचित्कत्वं, किंतु प्रागस- बोधनी । रेष्विति देशनियमो हेत्वभावेऽपि सङ्गच्छते, तथा कश्चिद् घटादिर्नियतकालसंसर्गः स्वभावत एवाकाशादिवदिति कालनियमोऽप्यहेतुक एव सङ्गंस्यत इति । अत्राप्यथचेन्नियतत्तत्त इत्येत- देवोत्तरयति—न निरवधित्व इति । किञ्चिदवधिमनुपादाय कादाचित्कत्वं निरूपयितुम- शक्यं, कदाचिदित्यस्यैवाभावे कादाचित्कत्वव्याघातात् । तन्नैवं कादाचित्कत्वम् । न हि क- स्मिंश्चिदेव देशे सत्त्वं कारणापेक्षामनिरूप्य निरूपयितुं शक्यते । किन्तु निरूपितं सत् स्वाभाविकं सहेतुकं वेति विमृश्यते । अस्ति चात्र सर्वत्रापि नियामको हेतुः, तथाचोन्मोचिता प्रतिवन्दीति भावः । ननु कालविशेषसंसर्गमात्रं कादाचित्कत्वं तच्च गगनादिवन्निरवधित्वेऽपि भविष्यति, तस्मान्न तत्स्वरूपानुप्रवेशित्वमवधेरित्याशङ्क्याह—न हीति । इतः पूर्व नासीदिदानीम- प्रकाशः । अपि त्विति । ये ये निरवधयो दृष्टास्तेषां नियमेन कादाचित्कत्वस्वभावविरहान्निरवधिकत्वका- दाचित्कत्वयोर्विरोधन्निरवधित्वे कादाचित्कत्वस्वभाव एव न निर्वहेदित्यभिप्रेत्य परिहरति । निर- वधित्व इति । अयं क्षणो यद्येतत्पटध्वंसानाश्रयः स्यान्नेतत्पटप्राग्भावाश्रयो न स्यादेतत्पटाधिक- णं स्यादिति भाव इत्यन्ये । ननूत्तरकालसंसर्गित्वं कादाचित्कत्वम् , तच्च निरवधित्वेऽप्याकाशवत् स्यादित्यत आह । न हीति । तथा सति घटाकाशयोः कादाचित्कत्वाकादाचित्कत्वलोकव्यवहारविरोध इति भावः । प्रकाशिका । इत्यन्वयः, नियतदेशत्वं नियतसम्बन्धित्वमेवाभिप्रेतमिति कश्चित् । ये ये निरवधय इति । आकाशादीनामकादाचित्कत्वं न तत्तद्धर्माधीनमननुगमादिति निरवधित्वनिबन्धनमेव मन्तव्यमिति निरवधित्वकादाचित्कत्वयोः परस्परविरोधावधारणमिति भावः । अत एवाननुगमप्रदर्शनार्थं ये य इत्युक्तम् । अयं क्षण इति । प्रागभावस्वीकारे स एवावधिः स्यादिति निरवधित्वाभ्युपगमे प्रागभाव- स्याप्यस्वीकार इति पराभ्युपगतमापादकम् । अत्र च कारणत्वमापादकविशेषणमतो न घटरूपादौ व्यभिचारः । इष्टापत्तिवारणायापाद्य एतदित्युक्तम् । दृष्टान्तलाभायापादक एतत्पदद्वयम् । अन्य इत्यरुचौ । तद्बीजन्तु उक्ततर्केण विरोधावधारणे पूर्वतनमेव सम्यक्। अनवधारणे त्विदमप्यप्रयोज- कमिति । न हीतीति । इदञ्च कादाचित्कत्वं मूलनिरुक्तं भावाभिप्रायकमिति न प्रागभावाव्याप्ति- रित्यवधेयम् । नन्वेवं गौरवमित्यत आह । तथासतीति । तथाच लोकव्यवहारविरोधभयेन गौ- मकरन्दः । र्माणुत्वपरमित्यपरे । ये ये निरवधय इति । अकादाचित्कत्वमाकाशादिषु न तत्तद्धर्माधीन- मननुगमादिति निरवधित्वनिबन्धनमेव मन्तव्यमन्यस्यासम्भवादिति परस्परविरोधावधारणेन निरवधित्वे कादाचित्कत्वस्वभावविरोध इत्यर्थः । अत एवाननुगमप्रदर्शनार्थं, ये य इत्यु- क्तमिति वदन्ति । अयं क्षण इति । अत्र च कालत्वमापादकविशेषणम् । तेन घटरूपादौ न व्यभिचार इति ध्येयम् । अन्ये इत्यस्वरसोद्भावनम् । तद्बीजन्तूक्ततर्कावष्टम्भे यथोक्तमेव युक्तम् । तदनवष्टम्भे त्वेतदप्यप्रयोजकमित्याहुः । न हीतीति । भावकादाचित्कत्वमिति न प्रागभावाऽव्याप्तिर्दोषः । नन्वेवं गौरवमित्यत आह । तथा सतीति । अन्यथा द्वयोरपि कादाचित्कत्वे घटस्य कादाचि- टिप्पणी । र्वाह इत्याह । ये य इति । आकाशादीनामकादाचित्कत्वं न तत्तद्धर्माधीनमननुगमादिति निर-
५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [५ कारिकाव्याख्यायां स्त्वे सति। सावधित्वे तु स एव प्राच्यो हेतुरित्युच्यते। अस्तु प्रागभाव एवावधि- रिति चेन्न। अन्येषामपि तत्काले सत्त्वात्। अन्यथा तस्यैव निरूपणानुपपत्तेः। बोधनी। स्तोति पूर्वकालासत्त्वे सत्युत्तरकालसत्त्वं कादाचित्कत्वम्। तच्च कालानवच्छेदे न सम्भवतीति कालावच्छेदात्मकं सावधित्वं कादाचित्कत्वस्वरूपान्तर्गतमेव। तेन निरवधित्वे कादाचित्कत्वं व्या- हन्यत एवेति भावः। नन्वेवमपि कादाचित्कत्वेन सावधित्वे सिद्धे हेतुमत्त्वे किमायातं न हि तयोः पर्यायत्वमित्याशङ्कयाह सावधित्व इति। सावधित्वमभ्युपगमे हेतुरेव स्वीकृतः स्या- दिति। अन्येषां भावानार्मापि तत्कालनियतत्वादभावेन सह तुल्ययोगक्षेमत्वं भवेदित्यभिप्रायवाना- ह। नेति। विपर्ययेऽनिष्टमाह-अन्यथा-इति। आश्रयनिरूपणीयत्वनियमाभावेऽप्यदूरवि- प्रकर्षिणा केनचिद् भावेनैवाभावो निरूप्यत इति अभावकारणत्ववादिना तन्निरूपणार्थं भावस्ताव- प्रकाशः। न च सावधित्वेऽपि न हेतुमत्त्वस्वीकारः पर्यायत्वादनायोरित्याह। सावधित्वे त्विति। न- न्वेतावताऽपि प्राचीनोऽवधिः प्रागभाव एव न तु भावोऽपीति स एव हेतुर्न भाव इति न प्राग्भा- वातिरिक्ते कारणत्वं वर्तत इति शङ्कते। अस्त्विति। किं प्रागभावकाले भावस्यासत्त्वादेवानव- धित्वं कार्येणानपेक्षितत्वाद्वा ? । आद्यं परिहरति। अन्येषामपीति। भावानार्मापि अनन्यथासिद्धा- न्वयव्यतिरेकवत्तया प्रागभावतुल्यत्वादवधित्वम्, अन्यथा प्रागभावस्यापि तन्न स्यादिति भावः। अन्यथेति। अनिरूपितस्य प्रागभावस्य प्रतिपादयितुमशक्यत्वादवश्यं घटादिप्राक्कालेऽनन्यथा- सिद्धान्वयव्यतिरेकिणः कपालादयस्तन्निरूपकाः स्वीकार्या इत्यर्थः। ननु प्रागभावनिरूपकस्य चक्षु- र्रादेर्न कारणत्वं यथा; तथा तन्निरूपकभावान्तरस्याऽपि, न च प्रागभावः प्रतियोगिसमवायिकार- णमात्रनिरूप्यस्तच्च कारणमेवेति युक्तम्। शब्दाभावप्रत्यक्षतायां तस्य निरस्तत्वात्। मैवम्। चक्षुरादेरधिकरणग्रह एवान्यथासिद्धत्वात्, चक्षुरादिव्यापाराभावेऽप्यनुमितेऽधिकरणे प्रागभावप्र- प्रकाशिका रवमपि प्रामाणिकमिति भावः। न प्रागभावातिरिक्त इति। तथा च क्षित्यादिकर्तृतया नेश्वर- सिद्धिरिति भावः। नन्विति। घटप्रागभावनिरूपकचक्षुरादेरिव न तन्निरूपककपालादेर्घटकारण त्वमित्यर्थः। वस्तुतोऽन्यथेत्यादिमूलस्य भावसत्तायां पूर्वकालीनायां परं तात्पर्यं न तु निरूपकत्वेन भावकारणत्वसिद्धाविति नैतदाक्षेपावसर इति। नचेति। अधिकरणत्वेन प्रागभावनिरूपकत्वं प्रतियोगि- गिकारणताव्याप्यमिति भावः। तस्येति। प्रतियोगिसमवायिकारणमात्रनिरूप्यत्वस्येत्यर्थः। वस्तु- तोऽयमपि नियमः कारणत्वसिद्धौ ग्राह्यस्तदेव चासिद्धमिति भावः। चक्षुरादेरिति। मकरन्दः। त्कत्वव्यवहार आकाशास्याकादाचित्कत्वव्यवहारश्च लोकानां विरुद्धयेतेत्यर्थः। तथाच गौरवमपि प्रामाणिकमिति भावः। नन्विति। घटप्रागभावनिरूपकस्य चक्षुरादेर्न घटकारणत्वं यथेत्यर्थः। न च प्रागभाव इति। अधिकरणत्वेन प्रागभावनिरूपकत्वं कारणत्वव्याप्यमिति भावः। तस्येति। प्रतियोगिसमवायिकारणमात्रनिरूप्य इत्यस्येत्यर्थः। चक्षुरादेरिति। तथाच न तस्य प्रागभावनिरूपकत्वं यस्य तु तन्निरूपकत्वं कपालादेस्तस्य हेतुत्वमेवेति नोक्तदोष इत्यर्थः। नन्विदमनुपलब्धिगम्याभाववादिमतम्, अस्माकन्तु चाक्षुष एवाभाव इत्यपसिद्धान्तः। न च प्रागभावो न चाक्षुष इति न वयं ब्रूमः, किन्तु प्रागभावत्वप्रकारकनिरूपणत्वावच्छिन्नं प्रत्यजन- कं चक्षुर्व्यभिचारादिति। तदिह सामग्रीनिविष्टाधिकरणस्य परंपरानिरूपणकारणता प्रागभावप्र- तियोगिजनकता चेति युक्तो नियम इति वाच्यम्। शब्दादिना तत्प्रकारकनिरूपणसम्भवेन व्यभि-
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ५५ तथाच न तदेकावधित्वम्, अविशेषात् । इतरनिरपेक्षस्य प्रागभावस्यावधित्वे- प्रागपि तदवधेः कार्यसत्त्वप्रसङ्गात् । सन्तु ये केचिदवधयो, न तु तेऽपेक्ष्यन्ते बोधनी । दवभ्याभ्युपगन्तव्य इति । ततः किमित्यत आह—तथाचेति । प्राक्कालनियतत्वेनाविशेषा- दिति । ननु सन्निध्यविशेषेऽपि प्रागभाव एव हेतुर्न भावा अवर्जनीयसन्निधित्वात् तेषामित्यत्राह— इतर-इति । तदवधेः प्रागभावैकावधिकस्य कार्यस्य तस्मादवधेर्वेति शङ्कते—सन्तु-इति । कार्यपूर्वक्षणे न केचिद् भावाः सन्तीति नायं स्वभाववादः किन्तु सत्स्वपि तेषु कार्येण ते नापेक्ष्य- प्रकाशः । तीतेरिति भावः । अत्रैवार्ये कादाचित्कत्वव्याघातं प्रागुक्तं विपक्षबाधकं स्मारयति । इतरेति । यद्ययं घटः प्रागभावाव्यान्यावधिको न स्यात् सकलकालीनः स्यादित्यर्थः । द्वितीयं शङ्कते । सन्त्वि- प्रकाशिका । ननु नैयायिकैरभावस्यैन्द्रियकत्वाभ्युपगमात् तदनभ्युपगमेऽपसिद्धान्तः । अत्र मिश्राः, प्रागभावो न चाक्षुष इति न ब्रूमः, किन्तु प्रागभावत्वप्रकारकनिरूपणत्वावच्छिन्नं प्रति चक्षुःकारणं शब्दादिनापि तथा निरूपणेन व्यभिचारात्, तथा च सामग्रीनिविष्टाधिकरणस्य परं तथानिरूपणकारणता प्रागभावप्रतियोगिजनकता चेति तादृशनिरूपणत्वावच्छिन्नकारणं प्रतियोगिजनकमिति युक्तो नियमः, तथाचाधिकरणग्रह एवोपक्षयादित्यनुमानिकप्रागभाव- त्वप्रकारकग्रहस्थल इति शेष इत्याहुः । तन्न । तादृशनिरूपणत्वावच्छिन्नं प्रति अधि- करणस्यापि व्यभिचारात् । प्रत्यक्षत्वावच्छिन्नं प्रत्यव्यभिचारे तु इन्द्रियत्वेन चक्षुरादेरप्य- व्यभिचारात्तस्यापि कारणतापत्तेः । किं च अस्तु चक्षुरादेरन्यथासिद्धत्वं तथाप्यधिकरणग्रहादेर नन्यथासिद्धस्य कारणत्वापत्तिः । एतेन परमतमाश्रित्यैव चक्षुरादेरन्यथासिद्धत्वाभिधानमिदमिति परास्तम् । अधिकरणग्रहादिकमादायैक्तदोषानिवृत्तेरिति । अत्र वदन्ति । अधिकरणत्वेन प्रागभाव- निरूपकस्य तत्प्रतियोगिजनकता, अधिकरणं च प्रतियोगिसमवायिवदन्यदपि वीणादि तस्यापि च शब्दकारणत्वमेवेति न व्यभिचारः । नचैवं नष्टस्यापि प्रागभावनिरूपकत्वं प्राग् वर्त्तत एवेति शब्दा- जनके तस्मिन् निरुक्तनियमव्यभिचार इति वाच्यम् । यद्धर्मपुरस्कारेण निरूपकत्वं तद्धर्माश्रयः किं- चिज्जनक इति नियमशरीरत्वात् । निरूपकत्वं च निरूपणप्रयोजकत्वमात्रमित्यधिकरणज्ञाने जनके- ऽवच्छेदकतयाधिकरणस्यापि निरूपकत्वमिति । वस्तुतः सामग्रीकाल एव प्रागभावत्वप्रकारिका प्रतीति- रिति मतेनायं ग्रन्थ इति निरूपणकारणत्वमेवाधिकरणस्य लौकिकप्रागभावसाक्षात्कारं प्रति प्रत्यास- त्तितया प्रतियोगिजनकतत्त्वञ्चेति यथाश्रुतमेव सम्यक्। नष्टस्यानिरूपकत्वादिति ग्रन्थश्चैवं योजनीयः, अधिकरणग्रह एवान्यथासिद्धत्वात् तद्धारेव कारणत्वाच्चाधिकरणत्वेनेति नन्वेवमिन्द्रियजन्याधिकर- णज्ञानस्य प्रागभावसाक्षात्कारकारणत्वे तमःसाक्षात्कारो न स्यात् तादृशाधिकरणसाक्षात्काराभा- वादित्याशङ्कायां चक्षुरादिव्यापारत्यादिग्रन्थः । तथा च क्वचित् परमिन्द्रियजन्यमधिकरणज्ञानं न तु सर्वत्रेत्यधिकरणत्वेनाधिकरणमात्र एव पूर्वपंक्तिकातात्पर्यमिति भावः । केचित्तु उपस्थिते प्रा- गभावे घटकारणत्वग्रहः, उपस्थितिश्च प्रत्यक्षेण कपालोपस्थितौ सत्यामेवेति प्रथमोपस्थितकपाल- स्यैव कारणत्वं न तु प्रागभावेनान्यथासिद्धिः, तस्य चरमोपस्थितत्वात्, चक्षुरादिकं न तदोपस्थितं नवा कपालादिवदनन्यथासिद्धमिति न तत्कारणमित्यत्र तात्पर्यम् । ग्रन्थस्तु अधिकरणग्रह एव जनकतया प्रतियोगिनं प्रत्यन्यथासिद्धत्वात् चक्षुरादिव्यापारविरहेऽपि प्रागभावप्रतीत्या तदाक्षिप्तं प्रतियोगिनं प्रति चक्षुरादेर्व्यभिचाराच्चेत्येवं परतत्वेन नेय इत्याहुः । यथाश्रुते वैयधिकरण्यादन्यथा तर्कमाह । यद्ययमिति । सकलकालीनत्वञ्चानादित्व-
५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां इति स्वभावार्थ इति चेत् । नापेक्ष्यन्ते इति कोऽर्थः, किं न नियताः ? आहोस्वि- न्नियता अप्यनुपकारकाः ? प्रथमे धूमो दहनवद्गर्दभमप्यवधीकुर्यात् , नियाम- बोधनी । न्त इति । तदेतद् विकल्प्यानिष्टप्रसङ्गेनेष्टसिद्ध्या च दूषयति - नापेक्ष्यन्त इति । कथमनिय- तस्यैवावधित्वमङ्गीकुर्वतस्तदेवानिष्टत्वेनाऽऽपाद्यते गर्दभमप्यवधीकुर्यादिति ? उच्यते । यदि यस्य कस्यचिदानन्तर्यं धूमस्य स्वभावः, तदा नित्यं यस्य कस्यचिद् भावाद् धूमस्य सदातनत्वा- पत्तेरकामेनापि नियतोऽवधिरङ्गीकार्यः, तथाच नियमो दूषणमिति । नियामकाभावादिति । प्रकाशः । ति । प्रागभावादन्येषामवधित्वेऽपि तैर्घटादिसत्ताया अनियमनान्न तानि कारणानीत्यर्थः । प्रथम इति । ननु यो दहनव्यभिचारी स रासभानन्तरं भवतीत्यत्रापादकाभावः । स्वयमपि व्याप्तेरनभ्युपगमात् । न च धूमत्वं यदि दहनव्यभिचारिवृत्ति स्यात् दहनासमवहितसामग्र्युत्त- प्रकाशिका । मतो न प्रागभावे व्यभिचारः, अत एव मूले प्रागपीत्येवोक्तम् । भावत्वे सतीत्यापादक- विशेषणाद्वा । धूमत्वमिति । ननु परमाणुत्वादौ व्यभिचारः, न च जन्यवृत्तित्वे सतीत्यापाद- कविशेषणम् , तथापि परमाणुधूमविशेषान्यतरत्वे व्यभिचारात् । न । दहनव्यभिचारि यज्जन्यं तद्वृत्तित्वस्यापादकत्वात् । दहनासमवहितत्वं तदसहकृतत्वं तद्घटितत्वं वेत्यभिप्रे- मकरन्दः । चारादधिकरणत्वस्याप्यतथात्वात् । प्रत्यक्षनिरूपणमादाय व्यभिचारश्च तुल्यः । चक्षुष्ट्वेन व्यभि- चारेऽपीन्द्रियत्वेनान्यभिचाराद् विशिष्याधिकरणेऽपि व्यभिचारात् । अस्तु वैवं, तथाप्यनन्यथा- सिद्धस्य प्रागभावनिरूपकस्याधिकरणग्रहादेर्यथा न घटकारणत्वं, तथाऽनादेरपि न तथात्वमिति दोषस्तदवस्थ एव । एतेन परमतमाश्रित्यैव चक्षुरादेरन्यथासिद्धत्वाभिधानमित्यपास्तम् । अधिक- रणग्रहमादायोक्तदोषानिवृत्तेः । किञ्च यदि चक्षुरादिव्यापाराभावेऽपि तत्प्रतीतेस्तदन्यथासिद्धं, त- दाऽधिकरणग्रहणमपि तथा स्यात् । शब्दादिना तद्विनाऽपि तत्प्रतीतेः । घटोऽप्येवं चाक्षुषो न स्यात् तद्व्यापाराभावेऽप्यनुमानादिना तत्प्रतीतेः । प्रतीतिविशेषे वा व्यभिचारस्तुल्य एवेति चेत् । अत्र ब्रूमः । अधिकरणत्वेन प्रागभावनिरूपकस्य तत्प्रतियोगिजनकतवमिति नियमः । कपालादेश्च तथात्वात्तज्जनकत्वं न चक्षुरादेरित्यत्र तात्पर्यम् । निरूपकञ्च प्रत्यक्षनिरूपण एवेत्य- वधेयम् । न च तत्राप्यधिकरणस्य न निरूपकत्वं, किन्तु तद्बुद्धेरिति वाच्यम् । प्रयोजकत्व- मात्रस्यैव विवक्षितत्वात् । न च प्रतियोगिसमवायिभिन्नस्य देशकालादेरपि तन्निरूपकत्वाभ्युपगमा- द् व्यभिचार इति वाच्यम् । तस्यापि हेतुत्वाभ्युपगमात् । ननु देशकालयोः का गतिरिति चेत् । न । तयोरपि स्वरूपयोग्यत्वात् । वस्तुतोऽधिकरणत्वेन निरूपकजातीयं किञ्चिदवश्यं कारणमिति नियम इति केचित् । उपस्थिते प्रागभावे घटकारणत्वग्रहः, उपस्थितिश्च तस्य न कपालाद्युपस्थि- तिमन्तरेणेति कारणताग्राहकमानेन प्रथमोपस्थितकपालादेरेव कारणत्वं गृह्यते, न तु प्रागभावस्या- पि । उत्पन्नानुत्पत्त्या तु तस्य तथात्वग्रहो, न तु प्रत्यक्षात् । चक्षुरादिकञ्च न तदोपस्थितं न वा- कपालादिवदनन्यथासिद्धमिति न कारणमित्यत्र तात्पर्यम् । आपादके विशेषणमित्यन्ये । न च नित्यत्वमुपाधिः । तस्याप्यापाद्यत्वादिति भावः । न च धूमत्वमिति । न च परमाण्वादौ व्य- भिचारः, जन्यवृत्तित्वे सतीत्यापादकविशेषणादित्याहुः । तन्न । परमाणुधूमसामान्यतरत्वादौ व्यभि- चारात् । तस्माद्दहनव्यभिचारिभूतजन्यवृत्ति स्यादित्यापादकमतो नोक्तदोषः । दहनासमवहित-
प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ५७ काभावात् । द्वितीये तु किमुपकारान्तरेण ? 'नियमस्यैवापेक्षार्थत्वात्, तस्यैव च कारणात्मत्वात्, ईदृशस्य च स्वभाववादस्येष्टत्वात् । नित्यस्वभावनियमव- बोधनी । अनियतत्वाविशेषे दहन एवावधिर्न रासभ इति नियामकाभावादित्यर्थः । नियमस्येति । इदमेव हि कार्यस्य कारणापेक्षित्वं नाम, यत्तस्मिन् सत्येव भवतीति । यदि नियमातिरिक्त उपकारो नाङ्गीक्रियते तर्हि स्वभाववाद एव सिद्धः स्यादित्याह— ईदृशस्येति । चश्चेदर्थे । दहनादिषु सत्स्वेव धूमादयो भवन्तीतीदृशः स्वभाववादश्चेत् स तर्ह्यस्माभिरिष्यत एवेति । तदेव- मन्यथासिद्धिं निराकृत्य सम्प्रति चार्वाकाङ्गीकृतं प्रमाणमाशङ्कते—नित्य-इति । अस्यार्थः । यथा नित्यानामाकाशादीनामाकाशत्वादयः स्वभावविशेषा निरपेक्षा अपि तैस्तैराकाशादिभिर्नियता- स्तथानपेक्षमेव कार्यं केनचिदेव कालेन संसृज्यते नान्येनेति नियम्यत इति न सदातनत्वप्रसक्तिः । अनपेक्षत्वसम्प्रतिपत्त्यर्थं नित्यग्रहणम् । अनेन दृष्टान्तावष्टम्भेन प्रयोगं सूचयति, कादाचित्कत्वस्व- भावनियमो निर्हेतुकः स्वभावनियमत्वात् नित्यस्वभावनियमवदिति । अनेन कादाचित्कत्वहेतो- प्रकाशः । रकालोत्पत्तिकवृत्ति स्यादित्यर्थः । परस्येष्टापत्तेः । मैवम् । धूमो यदि रासभसमवधानोत्पत्तिकता- वच्छेदकरूपवान् स्याद् रासभसमवधानान्तर्रोत्पत्तिकः स्यात्, धूमत्वं वा यदि दहनव्यभिचारिवृत्ति स्याद् दहनासमवहितदेशवृत्तिवृत्ति स्यादित्यापादना॑र्थत्वात् । वस्तुतो यद्यन्निर्धूमकारणं न स्यात्, तदा कथं धूमार्थी नियमतोऽग्निमुपादत्ते न रासभमिति तद्ग्राहिप्रत्यक्षव्याघात इति भावः । द्वितीये त्विति । न ह्युपकारव्यासक्ता कारणता येन तदभावे न स्यात्, उपकारेऽपि कर्त्तव्ये उपकारान्तरापेक्षयानवस्थितेः, किन्तु स्वरूपविशेषव्याप्ता, तन्निवृत्तावेव निवर्त्तत इत्य- र्थः । नियमस्यैवेति । नियतान्वयव्यतिरेकवज्जातीयस्यैवापेक्षणीयपदवाच्यतया लोकप्रसिद्ध- त्वादित्यर्थः । नित्यस्वभावेति । यथा नित्यस्याकाशस्य यः स्वभावो धर्मः शब्दाश्रयत्वम्, प्रकाशिका । त्याह । परस्येति । धूमो यदीति । ननु धूममात्रस्य पक्षत्वे आपादकासिद्धिः धूममात्रस्य रास- मसमवधानान्तरोत्पत्तिकत्वेन परेणानभ्युपगमाद्, धूमत्वस्यावच्छेदकत्वानभ्युपगमात् । न च रासभसमवधानान्तरोत्पत्तिकधूम एव पक्षः, तत्रेष्टापत्तेः । मैवम् । वह्निसमवधान नन्त- रोत्पत्तिकतावच्छेदकत्वं यदि वह्निव्यभिचारिवृत्तेरपि धूमत्वस्याभ्युपेयते तदा रासभसमवधान- न्तरोत्पत्तिकतावच्छेदकत्वमपि तस्योपेयं, परेणेति पराभ्युपगमसत्त्वात् धूममात्रपक्षत्वेऽक्षतेः । अत एव वास्वरसादाह । धूमत्वं चेति । अत्र च वृत्तिपदं समवेतत्वपरमतो न धूमत्वजाते- र्व्यापकत्या इष्टापत्तिरित्यवधेयम् । अत्र च नेष्टापत्तिः, धूमस्य वह्निजन्यतानभ्युपगमेऽपि तदस- मवहितदेशवृत्तित्वानभ्युपगमादिति भावः । ननु कश्चित् धूमो वह्निं विनापि स्यादित्याशङ्कितुरिष्टाप- त्तिरत्र, किंच एतावता व्यापकतासिद्धावपि न तद्देशोपकारणतासिद्धिरित्यरुचेराह । वस्तुत इति । तथा च व्याघातान्न तादृशी शङ्का, एवं च सति पूर्वपक्षतर्कोऽपि न सम्यगित्यनधेयम् । न रास- भमित्युपलक्षणम् । न व्यापकमप्याकाशादीति द्रष्टव्यम् । तेन व्यापकविशेषेऽपि कारणत्वं तद्भू- मकरन्दः । त्वं तदसहकृतत्वं तद्घटितत्वं वाभिप्रेत्याह । परस्येति । धूमो यदीति । धूममात्रस्य पक्षत्वे आपादकासिद्धिः, धूममात्रस्य तत्समवधानोत्तरोत्पत्तिकत्वाभावेन धूमत्वादेस्तदनवच्छेद- कत्वात् । रासभोत्तरभाविधूमस्य पक्षत्वे सिद्धसाधनं, तद्धूमत्वावच्छिन्नस्य तथाभावादिति चेद् मैवम् । धूमस्य समवधानोत्तरोत्पत्तिकत्वनियमेऽपि दहनस्य तदनियतत्वं परेणाभिप्रेतमिति त- ८ न्या० कु०
५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां देतत् , न ह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तुमुचि- बोधनी । स्तुल्यबलत्वाभिमाने सत्प्रतिपक्षत्वमन्यथा बाधः स्वपक्षसाधनं वेति । केचित् पूर्वमपि नियत- देशवदिति प्रयोगः सूचितः तस्मिन् देशनियमस्य कारणापेक्षित्वं परिहर्त्तुं दृष्टान्तन्तरेण प्रत्य- वतिष्ठन्ते, नित्यस्वभावनियमस्य कारणापेक्षायामसंभवादित्यपौनरुक्त्यं मन्यन्ते । तन्तु पौर्वापर्या- परामर्शविलसितमित्यनादरणीयमिति । उक्तमेवोपपादयति नहि—इति । तत्त्वमाकाशत्वं सर्वस्य कालादेः । तदुक्तम्— नित्यसत्त्वा भवन्त्यन्ये नित्यासत्त्वाश्च केचन । विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥ अग्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मात् स्वभावात् तद्व्यवस्थितिः ॥ प्रकाशः । आत्मनश्चात्मत्वमाकस्मिकमिति सर्वस्य तदन्यस्यापि धर्मः कुतो न स्यादिति न वक्तुमुचितम्, प्रामाणिकत्वात् । तथा आकस्मिकत्वाविशेषेऽपि सदातनत्वमाकाशादीनां, कादाचित्कत्वं घटादीनां स्वभावो, न त्वन्यस्य धर्मोऽन्यस्येत्यर्थः । यथाऽऽहुः— नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन । विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥ वह्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः । केनेदं रचितं तस्मात् स्वभावात्तद्व्यवस्थितिः ॥ इति । न च नियतदेशवन्नियतकालस्वभाव इत्यनेनास्य पौनरुक्त्यम् । पूर्वं हिसापेक्षत्वादित्यत्र यथा परमाणुतत्परिमाणादीनां निरपेक्षत्वेऽपि नियतदेशवृत्तित्वं तथा घटादीनां नियतकालत्वं स्यादि- त्यप्रयोजकत्वमुक्तम् , सम्प्रति तु कादाचित्कत्वस्वभावो निर्हेतुकः स्वभावानियतत्वात् नित्य- स्वभाववदिति सत्प्रतिपक्षत्वमुक्तमित्यर्थभेदात् । पूर्वं यन्नियतं तन्न कारणनियम्यं, यथा जातेः क्वाचित्कत्वमित्युक्तम् , सम्प्रति तु स्वभावो न नियम्य इत्युच्यत इत्यपौनरुक्त्यमित्यन्ये । प्रकाशिका । र्छादेव सिद्धमिति भावः । स्वभावानियतत्वादित्यत्र नियतपदं स्पष्टार्थम् । अन्य इत्यरुचौ । तद्बी- जन्तु जातेरपि नियतत्वं स्वभावादेव न तु कारणादेरिति स्वभावानियतं यत्तन्न कारणनियम्यमित्यर्थ- मकरन्दः । ऽव्यभिचारित्वमेव तदुत्तरोत्पत्तिकतावच्छेदकत्वेन पराभिप्रेतमिति धूममात्रस्य पक्षत्वेऽप्यदो- पादित्याहुः । स्वभावानियतत्वादिति । अत्र नियतपदं चिन्त्यम् । टिप्पणी । वधित्वनिबन्धनमेव मन्तव्यमिति निरवधित्वकादाचित्कत्वयोः परस्परविरोधावधारणमिति भावः । अथवा मास्तु चेत्तदधीनत्वं तस्य तयोरेकदेशनैयत्ये तात्पर्यं तद्ग्रन्थस्येति ध्येयम् । सापेक्ष- त्वादित्यत्रेति । कार्य्यं सहेतुकं सापेक्षत्वात् कादाचित्कत्वादित्यत्रेत्यर्थः । निरपेक्षत्वेऽपीति । निर्हेतुकत्वेऽपीत्यर्थः । सम्प्रति त्विति । स्वभावस्यातिरिक्ततया प्रयोजकत्वे बीजाभावस्योक्त- त्वात् , प्रयोजकत्वेऽपि तत्रैव कारणवादाभ्युपगमः स्यादित्यतो नियतदेशवदित्यादिग्रन्थ- मनाकलयन्निव पुनः सर्वथाकारणवादं निरसितुमभिसन्धत्ते नित्येत्यादीति ग्रन्थाशयः । अन्य इति । जातेरपि नित्यत्वं स्वभावादेव न तु कारणादिति स्वभावानियतं यत्तन्न कारण-
प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ५६ तमिति चेन्न । सर्वस्य भवतः स्वभावत्वानुपपत्तेः । न ह्येकमनेकस्वभावं नाम । व्याघातात् । नन्वेवमिहापि सर्वदा भवतः कादाचित्कत्वस्वभावव्याघात इति बोधनी । तत् परिहरति न—सर्वस्येति । स्वस्य भावः स्वभावः । न च स्वस्मादन्यदपि स्व- मेव, येन तस्यापि भवनस्य स्वभावो भवेत्, तेन सर्वस्य भवदाकाशत्वस्वभावतामेव जह्यादित्येत- देव स्पष्टयति—न ह्येकमिति । न ह्येकमेवं धर्मि चानेकेषां स्वकीयो भावस्तद्भवितुमर्हति । न ह्येकमनेकस्वभावो नामेति सम्प्रदायवतां पाठः । तत्र न ह्येकमाकाशादिकमनेकेषां कालादीनां स्वभावो भवति, स्वभावत्वव्याघातात् । स्वस्यैव भवतः स्वभावत्वादित्यर्थः । तर्ह्य- त्रापि सर्वदा भवने कदाचित्भवनस्वभावत्वव्याघातः सुवच इत्याह—नन्वेवमिति । प्रकाशः । न सर्वस्येति । एकनियतो धर्मः स्वभाव इत्युच्यते, तद् यदि सर्वस्य सम्भवेत् तदा स्वभाव- त्वमसाधारणत्वं नोपपद्यते सत्तादेरिवेति स्वभावत्वव्याघात इत्यर्थः । नन्वेवमिति । यथाकाश- स्याकाशत्वं न सर्वस्य तत्त्वव्याघातादिति विपरीतमाशङ्कनीयं, तदा कादाचित्कत्वस्वभावस्याहे- तुकत्वे सदातनत्वमप्यनाशङ्कनीयम् , कादाचित्कत्वस्वभावभङ्गप्रसङ्गादित्यर्थः । कादाचित्कत्वस्व- भावसिद्धौ तद्विपरीतकल्पनायां व्याघातः स्यात्, तत्सिद्धिश्च निरवधित्वस्वभावत्वे वा सावधित्वस्व- भावत्वे वा प्रकारान्तराभावात्, द्वितीयेऽप्यनियतावधित्वे तद्विपर्यये वा, तत्र प्रथमद्वितीययोराह । निरवधित्व इति । ये ये निरवधयोऽनियतावधयश्च भावा दृष्टास्तेषां नियमतः कादाचित्कत्वस्व- प्रकाशिका । पर्यवसानेऽभेद एवेति । न ह्येकमनेकस्वभावं नामेति मूलं यद्यप्यनेनैकस्य नानास्वभावकत्वा- भावः प्रतिपाद्यते न तु प्रकृतोपयोगी एकस्य नानास्वभावत्वाभावो, नपुंसकत्वानुपपत्तेः । तथापि एकस्य धर्मस्य नानास्वभावत्वे नानाधर्मस्यापि तुल्यन्यायतया एकधर्मत्वमापद्येत, तच्च न सम्भव- तीतीदमुक्तम् । तत्त्वेति । स्वभावत्वव्याघातादित्यर्थः । अनियतावधयश्चेति । नियतावधिशू- मकरन्दः । तत्त्वेति । स्वभावत्वव्याघातादित्यर्थः । अनियतावधयश्चेति । यद्यपि अवधित्वं कारणत्वं नियतस्यैवेत्यनियतावधित्वमप्रसिद्धम्, प्रसिद्धत्वे वाऽऽकाशादेरवधित्वमात्रस्याभावा- द्घटादावेव तदभ्युपगम इति तेषां कादाचित्कत्वस्वभावविरहादिति विरुद्धम् । तथापि नियताव- धिशून्यत्वे तात्पर्यम् । विशिष्टाविशिष्टप्रतियोगिकत्वेन च भेद इत्याहुः । अनियतावधिपदेन शश- टिप्पणी । नियम्यमित्यर्थपर्यवसानेऽभेद एवेतीत्यन्य इत्यनेन व्यज्यते । नन्वेवमितीति । न ह्येक- मनेकस्वभावमित्यादिमूलेन यद्यप्येकस्य नानास्वभावत्वाभावः प्रतिपाद्यते न तु प्रकृतोप- योगी एकस्य नानास्वभावत्वाभावः, नपुंसकत्वानुपपत्तेः । तथापि शब्दाश्रयत्वात्मत्वाद्येकधर्म्माणां गगनात्मपृथिव्यादिनानाव्यक्तीनां स्वभावत्वे शब्दाश्रयत्वात्मत्वादिनानाधर्म्माणामपि तुल्यन्याय- तया गगनाद्येकव्यक्तिस्वभावत्वमपि भवेत् तच्च न सम्भवतीत्येतद्ग्रन्थस्याशयः । नामव्याघाते- नैकस्य नानास्वभावत्वाभाव आपादकवैषम्यादिति । न सर्वस्येति । आकाशत्वमित्यनुषज्यते । तत्त्वव्याघातादिति । स्वभावत्वेत्यर्थः । इति हेतौ । सदातनत्वमिति । कार्य्यस्येति शेषः । ये ये निरवधयोऽनियतावधयश्च भावा दृष्टा इति । निरवधिपदार्था अनियतावधिपदार्थाश्च दृष्टाः प्रमाणसिद्धाः नियतावधित्वशून्या आकाशादयस्तेषान्न कादाचित्कत्वं, ये त्वदभिमता अनि- यतो योऽवधिस्तन्निरूपकास्ते न दृष्टा एवेत्यत्र तात्पर्य्यमिति नासङ्गतिः । परेणाभ्युपगतस्यै-
६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायौ तुल्यः परिहारः ? न तुल्यः, निरवधित्वेऽनियतावधित्वे वा कादाचित्कत्वव्या- घातात् । नियतावधित्वे हेतुवादाभ्युपगमात् ॥ ५ ॥ स्यादेतत् । उत्तरस्य पूर्वः पूर्वस्योत्तरों मध्यमस्योभयमवधिरस्तु, दर्श- बोधनी । सिद्धान्ती पूर्वोक्तमेव परिहारं स्मारयति — न तुल्य इति । कादाचित्कत्वसिद्धौ हि तद्विपरीत कल्पनायां व्याघातः । तत्सिद्धिश्च निरवधित्वे तावन्न सम्भवति, कादाचित्कत्वनिर्वचनव्याघात- स्योक्तत्वात् । अत एव नानियतावधित्वेऽपि कादाचित्कत्वसिद्धिः । यस्य कस्यचित् सर्वदा सम्भ- वान्नियतावधित्वेन कादाचित्कत्वाभ्युपगमे तु सम्प्रतिपत्तिरुत्तरम् । एवं च नानुमानस्य बाधविरोधादयो दोषा इति । एवं तावत् सापेक्षत्वादिति हेतुर्विवृतः ॥ ५ ॥ अथानादित्वादिति हेतुमवतारयितुं निराकरणीयामाशङ्कामाह—स्यादेतत्—इति । प्रकाशः । भावविरहादूनिरवधिस्वभावस्य अनियतावधिस्वभावस्य वा कादाचित्कत्वस्वभावविरोधः। न हि विरु- द्धयोरुण्शीतयोरेकस्वभावत्वम् । तथा च कादाचित्कत्वव्याघातः=तत्स्वभावत्वव्याघात इत्यर्थः। तृतीयमाशङ्क्य सम्प्रतिपत्तिरुत्तरमाह । नियतावधित्व इति । वस्तुतोऽस्मिन् सतीदं भवति, असति न भवतीति प्रत्यक्षेण नियतपूर्वभावस्य ग्रहात् प्रत्यक्ष- मेव कारणत्वे मानम्, तस्य चानन्यथासिद्धत्वग्राहकतर्कः स्यादेवेत्यादिना दर्शित इति रहस्यम्॥५॥ ननु कादाचित्कत्वं सापेखनिरपेक्षभ्यां व्यावृत्तत्वेनासाधारणम् । तथा हि न सामग्रीनिर- प्रकाशिका । न्या इत्यर्थः । अन्यथाऽप्रसिद्धेः । केवलविशिष्टप्रतियोगितया चं भेदः । न हि विरुद्धयोरिति । सावधिनिरवध्योरेकं कादाचित्कत्वं स्वभावो न भवतीत्यर्थः । यद्यपि विरुद्धयोरुष्णशीतयोः प्रमेयं- त्वमेकं स्वभावो यथा, तथा सावधिनिरवध्योरपि कादाचित्कत्वमेकं स्वभावो भवत्येव । तथापि तत्तत्कार्यार्थं तत्तत्कारणोपादानानुपपत्त्यैव सावधित्वसिद्धिरिति भावः । ननु कादाचित्कत्वेन संहे- तुकत्वानुमानं तवाप्यप्रसिद्धं साध्याप्रसिद्धेरतः पूर्वोक्तमेव स्मारयति । वस्तुत इति ॥ ५ ॥ अनादित्वपरिहारस्यासङ्गतित्वं मन्वानस्तत्परिहारौपथिकं पूर्वपक्षं पूरयति । ननु कादाचि- मकरन्दः । शृङ्गादयस्तन्मतेनोक्ता इत्यन्ये । न हीति । यद्यपि यथा विरुद्धयोरपि प्रमेयैकस्वभावत्वं, तथा कादाचित्काकादाचित्कयोरपि निरवधिस्वभावत्वमविरुद्धं, तथापि तत्तत्कार्यार्थं तत्तत्कारणोपादानानु- पपत्त्या सावधित्वसिद्धिरिति भावः ॥ ५ ॥ अनादित्वादित्यस्य परिहारस्यासङ्गतत्वनिरासार्थमाशयं पूरयति । नन्विति । तथाचाश- टिप्पणी । वास्य प्रसिद्धिः, वस्तुतस्तथाविधपदार्थासत्त्वात् । अथवा नियतावधिशून्यत्वमेव तत्त्वं त- च्चाकाशादावेव प्रसिद्धं, परेणावधेर्जन्यत्वनैत्यत्वस्वीकारादवध्यतिरिक्ते तत्रैव प्रसिद्धिसम्भवेन निरवधेर्भेदोऽपीति चिन्त्यम् ॥ ५ ॥ ननु उत्तरस्येत्यादिग्रन्थस्य यथाश्रुतस्य प्रागभावानुभयावधिकल्पतया अदर्शनमात्रनि- ष्ठत्वखण्डने दृष्टान्तवैकल्यतयैवोद्धार सम्भवादनादित्वेन परीहारस्यासङ्गतत्वं स्यादिति मन्वानः तत्परिहारौपयिकम्पूूर्वपक्षं तद्ग्रन्थाशयरूपमाह । नन्वित्यादिना । तथाहि दर्शनाद्धि- नापि कार्याणां सदातनत्वादिदोषभयेन पूर्वावधिकल्पनेऽप्यनवस्था स्यादित्येव नन्वित्यादेरपि निगर्भः । सापेक्षनिरपेक्षाभ्यामिति । अत्र कादाचित्कत्वं मूलनिरुक्तम् । तथाहि न
नस्य दुरपह्नवत्वात् । त्वयाप्येतदभ्युपगन्तव्यम् । न हि भाववदभावेऽप्यु- बोधनी । अयमत्र भावः-यथा निरपेक्षत्वे कादाचित्कत्वं न सम्भवति तथा सापेक्षत्वेऽप्यपेक्षणीयस्य स- दातनत्वेन कार्यस्यापि तथात्वापत्तेः, तस्मान्निरपेक्षाद् गगनादिव सापेक्षादपि व्यावर्तमानं कादा- चित्कत्वमसाधारणत्वान्न सापेक्षत्वसाधकमिति । अक्षरार्थस्तु- उत्तरस्यानुपलभ्यमानोत्तरावधे- र्भावस्य पूर्व एवावधिरस्तु, पूर्वस्यानुपलभ्यमानपूर्वावधेरुत्तर एवावधिरस्तु, मध्यमस्योपल- भ्यमानोभयावधेरुभयं पूर्व उत्तरावधिरस्तु, तथा दर्शनात् । ननु सर्वस्याप्यवधिद्वयं वक्तव्यम् अन्यतरावधेस्तदितरावधिव्याप्तत्वादित्यत आह--त्वयापि-इति । एतदेवावधित्वं त्वयाप्य- ङ्गीकार्यं प्रागभावप्रध्वंसयोरेकावधित्वस्य सिद्धत्वात् । प्राक्प्रध्वंसाभाववदनुपलभ्यमानैककोटि- केषु भावेष्वपि पूर्वैकावधित्वमुत्तरैकावधित्वं वा स्यात् । अत्रानुपलभ्यमानप्राक्कोटेर्भावस्य पूर्वा- वधिविरह एव साध्यः । अवशिष्टस्य दृष्टान्ततयोपन्यासः । अथवायमर्थः । उत्तरस्य=प्रध्वंसस्य पूर्व एवावधिरवच्छेदकः नोत्तरः, भावोन्मज्जनप्रस- प्रकाशः । पेक्षं कार्यं, सदातनत्वापत्तेः । नापि तत्सापेक्षं, सामग्र्यपि हि न तन्निरपेक्षा, तत्सदातनत्वे तत्कार्यसदातनत्वापत्तेः । नापि तत्सापेक्षा, अनवस्थानात् । ततः प्रागभाववद् यथा सामग्री निरपेक्षापि कादाचित्की तथा भावोऽपि घटादिः स्यादित्याशङ्कवानाह- स्यादेतदिति । उत्तरस्य ध्वंसस्य । पूर्वो घट एवावधिर्न तु ध्वंसः । पूर्वस्य तु प्राग- भावस्य उत्तरः प्रतियोग्येवावधिर्न तु प्रागभावः । मध्यमस्य तु घटादेः प्राग्भावो ध्वंसश्चे- त्युभयमवधिनिरूपकोऽस्त्वित्यर्थः । दर्शनस्येति । सर्वलोकसिद्धत्वादित्यर्थः । दर्शनेन चेत्कारणं सिद्धयति, तदा क्षित्यादौ कर्तुरदर्शनाद्धर्मादेश्चादर्शनात्तदसिद्धौ न तदधिष्ठातृसिद्धिरिति निगर्वः । अनङ्गीकारे दण्डमाह । न हीति । अन्यथा प्रागभावप्रध्वंसयोरप्यनुपलभ्यमानपूर्वो- प्रकाशिका । क्तत्वमिति । न च तथापि मूलस्य पूर्वपक्षानुद्धारे न्यूनता सिद्धान्तस्येति वाच्यम् । उत्तरस्थे- त्यादेर्यथाश्रुतार्थस्यैव विपक्षपदार्थतया तदुद्धारेणैव तदुद्धरणात् । सामग्रीधारास्वीकारेऽनवस्थेति निरपेक्षसामग्रीसापेक्षत्वं सामग्र्यपेक्षत्वं वा कार्यस्य वाच्यमुभयथापि कादाचित्कत्वमसाधारणं सर्वतो व्यावृत्तमसाधारणमप्रसिद्धमिति यावत् । अतो निरपेक्षत्वे सत्यपि सामग्र्याः कादाचि- मकरन्दः । यत्स्थितमनवस्थापरिहारपरत्वेन तत्सङ्गतेरिति भावः । नन्वनवस्थाभयात् प्रागभाववन्निरपेक्षापि सामग्री कादाचित्कीत्यनेन विपक्षगामितया साधारणानैकान्तिकप्रदर्शनात् कथमसाधारण्यम् ? टिप्पणी । सामग्रीति । अनवस्थाभयेन निरपेक्षसामग्रीसापेक्षन्तन्निरपेक्षत्वात्कार्यमवश्यं वाच्यम् , तथा च कादाचित्कत्वमुभयतोऽसाधारणमर्थादप्रसिद्धमित्येवार्थम्पूर्वपक्तिकाविवरणमाह । तथाहीत्याद्य- नवस्था स्यादित्यन्तेन । यद्वा अपदं व्यवच्छिद्य योजनीयम् । तेनाव्यावर्त्तत्वेन साधारणमि- त्यर्थः । अत्र तथाहीत्यादि स्यादित्यन्तेन निरपेक्षसामग्रीसापेक्षघटादौ निरपेक्षायां सामग्र्यां तस्य वृत्तित्वमिति सम्पाद्यते । ततः प्रागभाववदित्यादि । ततः=कादाचित्कत्वस्य प्रसि- द्धितः । तथा चात्र कादाचित्कत्वं न मूलनिरुक्तमपि तु यत्किञ्चित्कालासम्वन्धित्वे सति यत्किञ्चि- त्कालसम्बन्धित्वरूपं तस्यैव च व्यवहारः प्रागभावघटादावपीति न तेन हेतुमत्त्वसिद्धिः । केचित्तु तस्य तथाप्रसिद्धितः सापेक्षत्वव्याप्यत्वं न स्वीकारणीयमिति कथमव्याप्येन हेतुना हेतुमत्त्वसिद्धिः ।
६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [६ कारिकावतरणिकाव्याख्यायां भयावधित्वमस्ति । तद्भावेष्वप्यनुपलभ्यमानैकैककोटिषु स्यात् । न स्यात् । अनादित्वात् । बोधनी । ज्ञात् । पूर्वस्य प्रागभावस्योत्तर एवोवधिर्न पूर्वः, पूर्ववत्प्रसङ्गात्। मध्यमस्य प्राक्प्रध्वंसाभाव- योर्मध्यमध्यासीनस्य कार्यस्योभयमवधिरस्तुदर्शनवलात् । त्वया सिद्धान्तिनाप्येतत्त्रयं व्यवस्थितम- भ्युपगन्तव्यम् । ततः किमित्यत आह-तद्भाव-इति । तथाचानुपलभ्यमानप्राक्कोटेः कारणस्याना- दित्वसम्भवात् तदनपेक्षामलभमानानां कार्याणामपि सदातनत्वप्रसङ्ग इत्युभयत्रापि समानो वाक्य- शेषः । यद्वा, अयमत्र भावः, यस्य कार्यस्य योऽवधिर्दृश्यते पूर्व उत्तर उभयं वा तत्तदवधिक- मेवास्तु, दुर्लङ्घ्यत्वाद्-दर्शनस्य । न चान्यतरावधेरितरावधिव्याप्तिः, अभावेन व्यभिचारात् । तत्र विधात्रयेऽपि कार्यस्यावधिमत्त्वेनैव कादाचित्कत्वं सिध्यति, सदातनत्वप्रतिपक्षमात्ररूपत्वात् तस्य । तथाचानुपलभ्यमानपूर्वावधेः कार्यस्योत्तरावधिमात्रेणैव कादाचित्कत्वे सिद्धे न तेन कार- णपरम्परानुमानमित्यन्यथासिद्धिः । सर्वस्यापि कार्यस्य पक्षीकरणाद् भागे बाधितविषयत्वं चेति । हेतुमवतारयति—न स्यादनादित्वात् इति । प्रकाशः । तरावधिकल्पनप्रसङ्ग इति भावः । तद्भावेति । तथाचावधिसिद्धावपि न तत्प्राच्यत्वनियमसिद्धि प्रकाशिका । क्तत्वं स्वीकरणीयं तथा च साधारणमित्याक्षेपार्थः । यद्वा अपदं व्यवच्छिद्य योजनीयम् । तेना- व्यावृत्तत्वेन साधारणमित्यर्थः । अत एव परिमले साधारणमेवोक्तम् । वस्तुतोऽसाधारणमगमकं सा- पेक्षत्वनिरपेक्षत्वयोरसम्भवित्वेनेत्यर्थः । मिश्रास्तु सामग्रीधारायां कस्याश्चिन्निरपेक्षत्वस्वीकारे तत्रैव मकरन्दः । अत एव परिमले तदेवोक्तमिति चेत् । मैवम् । अनवस्थाभिया सामग्री निरपेक्षा आकाशादिवन्न कादाचित्की । तथाच निरपेक्षसामग्रीरूपविपक्षाद्व्यावृत्तिरुक्ता । आकाशादिविपक्षव्यावृत्तेश्च स्फुट- त्वादप्रदर्शनम् । निरपेक्षसामग्रीसापेक्षं कार्यमप्यकादाचित्कमिति सपक्षाद्व्यावृत्तं कादाचित्कत्वम- साधारणं स्यात् । तथाच तद्द्वयेन निरपेक्षस्यापि कादाचित्कत्वस्वीकारेण साधारणैकान्तिकतया नायं हेतुः सापेक्षत्वसाधक इत्याशयवानाहेत्यत्र तात्पर्यात् । न च प्रागभावरूपविपक्षव्यावृत्त- त्वाभावान्नासाधारण्यं स्यादिति वाच्यम् । प्रागसत्त्वादिघटितकादाचित्कत्वस्य प्रागेव निरुक्तेः । तद्विपक्षत्वानिश्चयदशायां वा तथात्वात् । यद्यप्येवं पक्षवृत्त्यपि न कादाचित्कत्वमित्यप्रसिद्धं, न त्वसाधारणं तथापि विशेषादर्शनदशायां तदित्येके । अगमकत्वमेव तेनोपलक्षितमित्यन्ये । के- चित्तु असाधारणमित्यत्र अ-पदं निषेधवाचकं विविच्य व्यावृत्तपदेन योजनीयम् , तथाच सपक्ष- विपक्षाभ्यामव्यावृत्तेः साधारणमित्यर्थः । अत एव साधारण्यमेवाग्रे व्युत्पादितम् । तथाच परिम- लसंवादोऽपीति वदन्ति । सामग्र्याः सापेक्षत्वेऽनवस्था, निरपेक्षत्वे व्यभिचारादसाधारणं न पक्ष- दृष्टान्तसाधारणव्याप्यमितियावदित्यर्थ इत्याहुः । टिप्पणी । न च प्रागभावेन सह दृष्टान्तासम्भवः तस्य प्रागसत्त्वाभावादिति वाच्यम् । यथा निरपेक्ष एव प्रा- गभावः कदाचित् प्रतिपाद्यस्तथा सामग्र्यादिरपीति कादाचित्कत्वान्तेन प्रतिपादनात् तत्सम्भव इदा- नीं निरपेक्षाया अपि सामग्र्या नेत्रे निमील्यैव प्रागसत्त्वं स्वीकरणीयमेव अन्यथानवस्थामात्रपरिहा- रकत्वे सदातनत्वापत्तिसन्दर्भे तत इत्यादेर्विरोधः स्यादिति विभाव्यमिति प्राहुः ॥०॥ तद्भादती- ति । तथा च नावधिसिद्धावपीति तद्वदित्यादिमूले भावः सामग्रीरूप एव द्रष्टव्यस्तेन मूलस्थाशयस्थ
प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । प्रवाहोऽनादिमानेष न विजात्येकशक्तिमान् । बोधनी । तदेतत् प्रसङ्गमभिधाय विपर्यये पर्यवसानमिति व्याचष्टे—प्रवाहो नादिमानेषः-इति । अनुपलभ्यमानपूर्वकोटेः कारणस्य पूर्वावधिविरहे तस्यानादित्वात् कादाचित्कत्वव्याघातः स्यात् । तस्मात्तस्यापि कश्चित् पूर्वावधिरस्ति, एवं तस्यापीति कारणप्रवाहोऽयमादिमान् भवति । पश्चि- मे तु व्याख्यानेऽनुपलभ्यमानपूर्वावधेरपि कार्यस्य पूर्वावधिसापेक्षत्वम्, अन्यथा तत्कार्यस्या- नादित्वप्रसङ्गादिति परिहारार्थः । नन्वस्तु कारणप्रवाहोऽनादिस्तथाप्येकजातीयं कार्यमेकजातीयात् कारणाद् भवतीति नियमो नास्ति, विजातीयेभ्य एव तृणादिभ्य एकजातीयाग्नेरुत्पत्तिदर्शनात् । न चैवमाकस्मिकः कार्यजातिनियमः, विजातीयेष्वपि कारणेषु एकशक्त्यङ्गीकारादेव तदुपपत्तेरि- त्यत आह—न विजाति-इति । विविधा जातिर्यस्य तद् विजाति । एका शक्तिर्यस्य तदेक- प्रकाशः । रिति न तावतैव कारणसिद्धिरंशतः सिद्धसाधनं चेति भावः । प्रवाह इति । एष कार्यकारणप्रवाहः । अनादिमान् । तत्तत्सामग्रीमान्, तत्तत्सामग्र्य- पि स्वसामग्रीपरम्पराधीनेति न तज्जन्यकार्यस्यानादित्वप्रसङ्गः । न चानवस्था । बीजाङ्कुरवद- नादितया प्रमाणिकत्वादित्यर्थः । प्रागभावध्वंसयोस्तु पूर्वोत्तरकोटिकल्पने भावोन्मज्जनमेव बाध- कमिति भावः । अनादित्वं च ध्वंसव्याप्यप्रागभावप्रतियोगित्वम् । तथापि यद्व्यक्तितो यत्कार्यं सैव व्यक्तिस्तत्र कारणं, न तु तज्जातीयमिति नैतावता कार्यजातीये कर्तृजातीयं प्रकाशिका । व्यभिचारेण, सर्वत्र स्वीकारे च सापेक्षत्वस्यानवस्थया कादाचित्कत्वमसाधारणे न पक्षदृष्टान्तसाधा- रणं न व्याप्ततया ग्रहीतुं शक्यमित्यर्थ इत्याहुः । अंशत इति । उभयावधित्वेनोपलभ्यमान- घटादौ स्वीकारात् उभयावधित्वस्येत्यर्थः । केचित्तु अवध्यंशस्य सिद्धस्यैव साधनादित्याहुः । तद्ध- दित्यादिमूले भावः सामग्रीरूप एव द्रष्टव्यः, तेन मूलस्थाशयस्थपूर्वपक्षयोरेकवाक्यतया न परी- हारन्यूनतेति । नन्वेकापि सामग्री न प्रागभावप्रतियोगिनीत्यत आह । अनादित्वञ्चेति । येन मकरन्दः । अंशत इति । अवधेर्धर्म्याऽपि स्वीकारेण तदंशस्य सिद्धस्यैव साधनादित्यर्थः । तत्त- दिति । तथाच नासाधारणमित्यर्थः । ननु बीजाङ्कुरादेः सादितया कथमनादित्वमित्यत आह । अनादित्वञ्चेति । ध्वंसव्याप्यत्वं सजातीयध्वंसव्याप्यत्वम् । तथाच, तद्घटत्वेन सादित्वेऽपि टिप्पणी । पूर्वपक्षयोरेकवाक्यतया न परिहारन्यूनतेति । अंशतः सिद्धसाधनञ्चेतीति । उभयावधित्वे- नोपलभ्यमानघटादौ स्वीकारादुभयावधित्वस्येत्यर्थः । केचित्ववध्यंशस्यासिद्धस्यैव साधनमित्यर्थत्व इत्याहुः । भावोन्मज्जनमेव बाधकूमिति । तथा च प्रागभावपूर्वावधिकालस्य ध्वंसोत्तराविधि- कालस्य च घटप्रागभावध्वंसयोरनधिकरणत्वेन घटाधिकरणत्वम्मवेदित्यर्थः । नन्वेकापि सामग्री न प्रागभावप्रतियोगिनीत्यत आह—अनादित्वञ्चेति । येन रूपेणानादित्वम- भिमतं तद्रूपाश्रयध्वंसव्याप्यप्रागभावप्रतियोगित्वम् । अस्ति च साक्षात् परम्परासाधारणघट- सामग्रीत्वाश्रयस्य तथात्वमिति भावः । व्याप्तिश्च कालिकी । समानाधिकरणेत्येतावति कृते तु प्रथ- मशरीरध्वंससमानाधिकरणप्रागभावप्रतियोगित्वं द्वितीयशरीरस्येति चैत्रत्वादिनाप्यनादित्वपत्तिरतो व्याप्येतिपर्यन्तानुधावनम् । यद्व्यक्ति इति । यद्व्यक्त्यनन्तरमित्यर्थः । नतायतेति ।
६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकान्याख्यायां तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः ॥ ६ ॥ बोधनी । शक्ति विजाति चक्रशक्ति च कारणं विजात्येकशक्ति, तद्वान् कारणप्रवाहो न भवति । नैकजातीयस्य विजातीयं कारणमिति चार्वाकस्य निरासः, न च तदेकशक्तिमिति प्रसङ्गान् मीमांसकस्येति । कारणवैजात्ये कार्यसाजात्यस्याऽऽकस्मिकत्वप्रसङ्गात् तृणादिभ्यो भवतोर्वान्तर- जातिभेदोऽस्तीति तत्रैव तेषामुपयोगः । स चाग्न्यवान्तरजातिभेदस्य तृणादेश्च कार्यकारणभावोऽ बहिरैरन्वयव्यतिरेकैर्गम्यः । तदुक्तं—तत्त्वे-इति । तत्त्वे-कार्यकारणभाव इति । यद्वा, तत्त्व इति साध्यानाङ्गीकारप्रदर्शनम् । ततः परअनिष्टप्रसञ्जनं विजात्येकशक्तिमत्त्वेऽङ्गीक्रियमाणेऽ न्वयव्यतिरेकयोर्यत्नवता भवितव्यम् । तावन्वेष्टव्यौ कार्यकारणभावावधारणाय, तौ तु न लभ्येते इति भावः । सूक्ष्मजात्यभ्युपगमे सर्वत्र तदाशङ्कया दृश्यजातीयोर्व्याप्तिग्रहः स्यादिति चेत्, तत्राप्येतदेवोत्तरं-तत्त्वे-इति । अन्वयव्यतिरेकयोस्तत्त्वे = याथात्म्ये यत्नवान् भव । सम्भाव्यमानेऽपि जातिभेदे दृश्यसामान्यविशेषाक्रान्तयोरन्वयव्यतिरेकाभ्यां व्याप्तिं गृहीष्वेत्यर्थः॥६॥ प्रकाशः । कारणम् । अव्यवहितप्राक्कालीनव्यक्तैरेव कारणत्वापत्तौ यागादीनामकारणत्वान्नालौकिकसाधन- सिद्धिः, अतो न क्षित्यादिकर्तृत्वेनादृष्टाधिष्ठातृत्वेन चेश्वरसिद्धिः । न चैवं नियतजातीयकार्या- नुत्पत्तिः । एकजातीयकार्यानुकूलशक्तिमत्त्वेन तदुपपत्तेरत्राह । न विजातीति । विल- क्षणजातीयेष्वेका या शक्तिस्तद्वान्न प्रवाह इति सम्बन्धः । विजातिर्विरुद्धजातिरेकशक्तिमांश्चेति वा । वक्ष्यमाणयुक्तेरित्यर्थः । तर्हि तृणादौ व्यभिचारेणाग्निकारणत्वं कथं ग्राह्यमिति तत्राह । तत्त्व इति । सामान्यविशेषाक्रान्तगोचरयोरन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे ग्राह्ये यत्नवता पुरुषेण भाव्यमित्यर्थः । प्रकाशिका रूपेणानादित्वमभिमतं तद्रूपाश्रयध्वंसव्याप्यप्रागभावप्रतियोगित्वमित्यर्थः । अस्ति च साक्षात्पर- म्परासाधारणघटसामग्रीत्वाश्रयस्य तथात्वमिति भावः । व्याप्तिश्च कालिकी । समानाधिकरणेत्येता- वति कृते प्रथमशरीरध्वंससमानाधिकरणप्रागभावप्रतियोगित्वं द्वितीयशरीरस्येति चैत्रत्वादीनामप्यना- दित्वापत्तिरतो व्याप्येति । मकरन्दः । घटत्वेन तद्घटस्याप्यनादित्वमिति ध्येयम् । व्याप्तिश्च कालगर्भा । ननु घटादेः प्रागभाव- टिप्पणी । पूर्वोक्तप्रयासेनेत्यर्थः । कर्तृजातीयमिति कर्तृपदद्धारमात्रपरमतो दण्डादेः कृत्याश्रयत्वविर- हेऽपि न क्षतिः । नालौकिकसाधनसिद्धिरिति । अत्रेयं योजना, यतो न यागकर्त्रादेः कार- णत्वमतो न सिद्धिरिति । यागस्यान्यवहितपूर्ववर्त्तित्वाभावात्तस्य कारणत्व एव फलपर्यन्तस्थायी व्यापारः कल्प्यत इति स एवादृष्टरूपः सिद्ध्यतीति तदभावे नेति भावः । क्षित्यादिकर्तृत्वेनेति । कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन सामान्यतः कारणत्व एव कार्यत्वेन सामान्यतः कर्तृजन्यत्वानुमा- नेऽस्मदादीनां तदसम्भवेनेश्वरः सिद्ध्यति तदेव न, कर्तुर्घटादिकार्यं प्रति विशिष्यैव कारणत्वादुक्ता- नुमाने व्यभिचारशङ्का स्यादिति भावः । विजातिर्विरुद्धजातिमानिति विजातीयनिष्ठैकशक्तेः सत्त्वे तन्निषेधानुपपत्तिः, असत्त्वेऽलीकप्रतियोगिकाभाव इति सिद्धयसिद्धिभ्यां व्याघात इत्यत आह विजातारित्यादि । तथाहि एकशक्तेरेकजातिमति मीमांसकमतप्रसिद्धतया विजातिमति तस्य खण्डनं नासङ्गतमिति । वस्तुतः पराभ्युपगतस्यैव तस्य खण्डनमिति । अन्यथा शक्तेरपि स्वमतेऽन-