न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तबके ] संशयस्य न्यायाङ्गत्वाक्षेपः । २७ प्रकाशः । ष्याभावात् , यत्र साधकप्रमाणाभावे सिषाधयिपामात्रमस्ति तत्र द्वयाभावात् सर्वत्राविशिष्टः । यत्र साधकप्रमाणे सत्यसति वा सिषाधयिषाया अभावस्तत्र नास्तीत्यस्मत्पितृचरणाः । तथापि संशयं विना कथं न्यायावतार इति चेदित्थम् । संशयो हि न्यायाङ्गं न तावद् न्याय- कारणतया, तस्य लिङ्गपरामर्शात्मनः संशयं विनाऽपि सम्भवात् , कारणत्वासिद्धौ फलवैजात्यस्यापि कल्पने मानाभावात् , अन्योन्याश्रयाच्च । नापि सहकारित्वेन । तद्धि न साक्षात् , लिङ्गपरामर्शा- दिना तन्नाशात्, शाब्दलिङ्गपरामर्शे तत्कारणत्वासम्भवाच्च संशयस्य कारणत्वासिद्धौ तत्कल्पनेऽपि मानाभावात् । अत एव परम्परयापि तत्सहकारित्वमपास्तम् । नाप्याश्रयतावच्छेदकत्वेन । पर्वत- त्वादेरेव तथात्वात् । अन्यथा पक्षतावच्छेदकधर्म-साध्ययोः सामानाधिकरण्यभाननैयत्येन पर्व- त्वादेरिव सन्दिग्धत्वस्याप्यनुमितौ भानापत्तेः । अथ संशयेन स्वयोग्यतोपलक्षणात् साधकबाध- प्रकाशिका । तादृशेच्छा तत्प्रयोजक सामाग्र्यन्यतरस्यैवानुमितिप्रतिबन्धकत्वकल्पनापत्तेरित्यन्यत्र विस्तर इति । सत्यसतीति । समीचीनेऽसमीचीने वेत्यर्थः । सतीति शेषः । तेन भ्रमसाधारणसिद्धावपि यत्र सिषाधयिषाविरहस्तत्र नास्तीत्यर्थः । यत्तु सत्यसति स्वरूपसतीत्यर्थ इति । तन्न । वाश- ब्दासङ्गतेः । तस्येति । यद्यपि न्यायः पञ्चावयवात्मा, तथापि तत्कारणत्वं संशयस्यानुक्ति- सम्भवमेवेति न्यायपदं परामर्शपरं वक्तव्यमिति भावः । ननु परामर्शाव्यवहितपूर्वं संशय इत्यत आह । संशयस्येति । अत एवेति । व्यभिचारादेवेत्यर्थः । आश्रयतावच्छेदकत्वेन = अ- नुमितिविशेष्यतावच्छेदकत्वेन । यथाश्रुते सन्दिग्धत्वस्यैव पक्षतात्वेन तस्यैव तदवच्छेदकत्वानुप- पत्तेः, विशिष्टाभावस्य पक्षतात्वे न तदवच्छेदकं सन्दिग्धत्वं न्यूनवृत्तित्वादिति । पर्वतत्वादेः = इदं- पर्वतत्वादेः । अन्यथेति । नियमेन विशेष्यतावच्छेदकत्वमनुमितौ सन्दिग्धत्वस्य, सामान्यतो वा, विशेषतो वा । नाद्यः, संशयं विनाप्यनुमितिरित्युपक्रम्य ग्रन्थावतारात् । नान्त्यः, विशे- षसामग्र्यन्तरकल्पनागौरवादिति -दूषणं द्रष्टव्यम् । यथाश्रुतेः कचिदिष्ट्यापत्तेः सम्भवात् । परामर्शादिना तन्नाशादित्यत्राशङ्कते । अथेति । संशयविशेषणत्वमुक्तयुक्तैरसम्भवीति दोषे मकरन्दः । ज्ञावगते लिङ्गान्तरेणानुमित्सायां तदनापत्तेरित्याद्यपास्तम् । निरुक्तानुमितिगोचरेच्छाया एव विवक्षि- तत्वात् । अधिकमनुमानप्रकाशे विपञ्चितम् । सत्यसति वेति । समीचीनेऽसमीचीने वेत्यर्थः । सतीति शेषः । तथाच भ्रमप्रमासाधा- रणसिद्धिमात्रस्य प्रतिबन्धकतया तस्मिन् सति यत्र सिषाधयिषाया अभावस्तत्र नास्तीति भावः । यत्तु सत्यसतिपदं स्वरूपार्थकमिति स्वरूपसतीत्यर्थ इति । तन्न । वाशब्दस्यासङ्गतत्वापत्तेः । तस्येति । यद्यपि न्यायो न लिङ्गपरामर्शात्मा, किन्तु पञ्चावयववाक्यम् । तथापि तत्रापि तद्धेतुत्वे मानाभावात् परामर्शपरत्वाभिप्रायेण दूषितमिति मन्तव्यम् । तदिति । तत्सहकारि- त्वासम्भवादित्यर्थः । तस्येवासत्त्वेनेति भावः । अत एवेति । व्यभिचारादेवेत्यर्थः । परामर्शादिना तन्नाशादित्यत्र शङ्कते । अथेति । उक्तबाधकादेव संशयस्यात्र न विशेष- टिप्पणी । नाकाङ्क्षाभिधानमर्थान्तरम् । सत्यसति चेति । समीचीनेऽसमीचीने वेत्यर्थः । शाब्दलिङ्गपरामर्षे तत्कारणत्वासम्भवाच्चेति । अव्यवहितपूर्वमसम्भवात् शाब्दकारणकलापेन व्यवधानात् । अत एवेति । संशयस्य व्यभिचारादेव ।
२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ का० अव० अवतरणिकायां प्रकाशः । कमानाभावो न्यायाङ्गमिति चेन्न । तथापि संशयस्यातत्त्वात् । संशययोग्यतायास्तदङ्गत्वात् । विशिष्टस्य तद्ग्राहकमानेन विशेषणस्यापि तत्त्वं विषयीकृतमिति चेन्न । मिलिताभावस्य प्रत्येक- सत्त्वेऽपि सत्त्वात् । प्रत्येकञ्च न योग्यता । केवलान्वयिनि बाधकाप्रसिद्धेश्चेत्यन्यत्र विस्तरः । तथापि संशयस्यानुमितिमात्राहतुत्वेऽपि जिज्ञासाहितार्थानुमितौ जिज्ञासाद्वारा संशयस्यानुमिति- हेतुत्वम् । यद्वा(१) सङ्कुसुकतानिवृत्तये न्यायोपासने संशयोऽङ्गमिति संशयं विना यो न परितुष्येत् तं प्रति श्रोतव्यो मन्तव्य इति श्रुतेरनन्यगत्या भिन्नविषयक एव धर्मविषयकसंशयो धर्मिविष- प्रकाशिका । सत्येवाह मिलितेति । प्रत्येकमिति । अभावद्वयमित्यर्थः । लाघवात् साधकाभावस्यैव तथा- त्वम् , अन्यथा पक्षताविरहादेव बाधस्थलेऽप्यनुमित्यनुत्पत्त्या तस्य हेत्वाभासान्तरतानुपपत्तेरिति भावः । केवलेति । साध्याभावसाधकस्यैव बाधकत्वमित्यभिप्रायेणेदम् । यदि च पक्षनिष्ठात्य- न्ताभावप्रतियोगिताग्राहकमेव बाधकपदार्थः, तदा लाघव एव तात्पर्यं, तदेवाभिसन्धायाह अन्यत्रेति । ननु जिज्ञासाद्वारा संशयस्यानुमितिहेतुत्वमत्रेत्ययुक्तम् । जिज्ञासा च द्वयी द्विकोटी- का, एककोटिका च, तत्राद्या यद्यपि संशयमपेक्षते, तथापि द्वितीया विनैव संशयमिष्टसाधनताज्ञा- नमात्रात् सा चात्र पक्षताघटिका । किञ्च जिज्ञासापि संशयवन्न तावत्कालस्थायिनीत्यरुचेराह यद्वे- ति । तथा च निवर्त्यत्वेनात्र संशयो न्यायाङ्गमित्यर्थः । य इति । तथा च दुर्द्दुरूढस्य तस्य प्रबो- धार्थं संशयबीजविप्रतिपत्तिप्रदर्शनं न तु तं विना मननासम्भव एवेति भावः । अनन्यगत्येति । ननु सर्वत्र धर्मकोटिक एव संशयो धर्मिणि न्यायाङ्गम् , न हि धर्मे क्वापि संशयकोटिः तत्र कुतोऽ- नन्यगतिकत्वोपवर्णनम् ? किञ्च न वा तद् रूपमस्तीश्वर इत्यादिग्रन्थेनासङ्कोचात् श्रुतिवाक्येभ्य इत्यनेन सर्वेषामेव श्रवणबोधनमित्यभिप्रायेण धर्मेऽपि सन्देहाभावोपपादनात् क्व धर्मेऽपि सन्देह इति चेन्न । अत्र हि विषयपदं विशेष्यपरं तथाच धर्मविशेष्यक एव संशयो धर्मिविषयकन्याय- प्रवृत्त्यङ्गमिति पङ्क्त्यर्थः । अत एव तत्तद्धर्मविशेष्यकविप्रतिपत्तिमेवोदाहरन्ति स्म ग्रन्थकृतः । एवं च धर्मविशिष्टधर्मिविशेष्यकनिश्चयेऽपि धर्मविशेष्यकधर्मविशेषणकसंशये बाधकाभाव इत्यापाततस्तात्पर्यम् । वस्तुविचारे त्विदमप्ययुक्तमेव, समानविशेष्यतया निश्चयसंशययोर्विरोधित्वे कथं धर्मिन्यायप्रवृत्त्या धर्मसंशयो निवर्तनीय इति शङ्कुकतानिवृत्तये न्यायोपासनमित्याकर- विरोधात् । समानविषयतामात्रेण च तयोर्विरोधे कथं धर्मिविशेष्यकनिश्चये सति धर्मविशेष्यक- मकरन्दः । णत्वं, किन्तूपलक्षणत्वमिति दोषे सत्येवाऽऽह । मिलितेति । ननु प्रत्येकाभावद्वयं योग्यता, तच्च प्रत्येकसत्त्वे नास्तीत्यत आह । प्रत्येकमिति । प्रत्येकाभावद्वयमित्यर्थः । साधकमाना- भावमात्रस्य तथात्वे लाघवादिति भावः । अन्यथा पक्षताविरहादेवानुमितिप्रतिबन्धे बाधो हेत्वा- भासो न स्यादित्यपि बोद्धव्यम् । केवलेति । साध्याभावसाधकस्य बाधकत्वमित्यभिप्रायेणेदम् । यद्यपि पक्षनिष्ठात्यन्ताभावप्रतियोगित्वग्राहकमानाविषयत्वं बाधकाभाव इति विवक्षिते तन्न नाप्र- सिद्धिः, तथापि लाघव एव तात्पर्यम् । एतदेवाभिसन्धायोक्तम् , अन्यत्रेति । संशयवज्जिज्ञासाऽपि न तावत्कालस्थायिनीति मतान्तरमाह । यद्वेति । तथा च निवर्त्य- त्वेन संशयस्य न्यायाङ्गत्वमिति । य इति । तथाच प्रबोधनार्थं संशयबीजविप्रतिपत्तिप्रदर्शनम् , (सं० १) “सङ्कुसुकोऽस्थिरे” इति कोशात् सङ्कुसुकता=अस्थिरता अश्रद्धा मिथ्याज्ञा- नजन्यवासनामूलाऽप्रामाण्यशङ्केति यावत् तन्निवृत्तय इत्यर्थः ।
प्रथमस्तबके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिप्रदर्शनम् । २६ तदिह सङ्क्षेपतः पञ्चतयी विप्रतिपत्तिः । अलौकिकस्य परलोकसाधनस्या- बोधनी । ननु प्रमाणायत्तं मननं, प्रमाणं त्वीश्वरविषयं तत्तदादिविप्रतिपत्तिदूषितं कथं मननसाधनमि- त्याशङ्कां निरसितुं परिच्छेदपञ्चकनिराकरणीया विप्रतिपत्तीस्तावद्दर्शयति-तदिहेति । तदिति वाक्योपक्रमे, प्रकरणाद्यारभ्यत्वादिति हेतौ वा । इह-प्रकरणे, जगत्कर्त्तरि, तद्विषये प्रमाणयुगले वा । निरस्यत इति शेषः । तत्र परमनास्तिकचार्वाकविप्रतिपत्तिं प्रथममाह-अलौकिकस्येति । अयमाशयः-अलौकिकहेतुसिद्धौ तस्य साधनानुमानायत्तसिद्धित्वात् , तदनुमानस्य च ज्ञानमन्तरे- णानुपपत्तेस्तस्य चास्मदादीनामसम्भवादुपदेशमूलेन भवितव्यम् ; उपदेशश्च न विशिष्टमुपदेष्टारं विनेति लोकोत्तरः कल्प्येतापि न त्वेवं सम्भवति, अलौकिकस्य परलोकसाधनस्यैवाभावात् तद्- प्रकाशः । यक्न्यायप्रवृत्तिहेतुरित्यास्थेयमिति विभावयंस्तत्कारणं विशेषविप्रतिपत्तिमादर्शयति— तदिहेति । तदिति वाक्योपक्रमे । संक्षेपोऽवान्तरविप्रतिपत्त्यविवक्षा । विरुद्धा प्रतिपत्ति- र्ज्ञानमभिलापो वा विप्रतिपत्तिः । विप्रतिपत्तौ विषयिण्यां विषयस्य प्रयोजकत्वं विवक्षित्वा पञ्चमी- निर्देशः । तत्राऽलौकिके तावत् , साक्षात्कारकारणेन्द्रियसन्निकर्षाश्रयत्वं प्रमेयत्वव्यापकं न वा ? इन्द्रियस्य तु न सन्निकर्षाश्रयत्वं, किन्तु प्रतियोगित्वमिति न विप्रतिपत्तिः । य एव चक्षुषा रूप- प्रकाशिका । संशय इति विरोधादिति । धिंघञ्चित्वेति । शब्दात्मकविप्रतिपत्तौ विषयस्याहेतुत्वादिति भावः । वस्तुतो ल्यब्लोपे पञ्चमी अभावं प्राप्य ज्ञात्वा विप्रतिपत्तिरिति मूलव्याख्या । यदपेक्षया संक्षेपस्त- माह साक्षादिति । इन्द्रियसन्निकर्षाश्रयत्वमलौकिकेऽपीति साक्षात्कारकारणत्वं विशेषणम् , शरी- रप्राणसंयोगस्य साक्षात्कारकारणतया प्राणेऽतिप्रसङ्ग इति तद्वारणायेन्द्रियपदम् , न च गर्भोत्पन्नविनष्टे व्यभिचारः, तन्मते प्रमाणान्तराभावेन सति प्रमेयत्वे साक्षात्कारविषयत्वात् । सन्निकर्षे च लौकिकत्वं विशेषणं तच्च संयोगाद्यन्यतमत्वाश्रयत्वम् । न च व्यावत्र्त्याप्रसिद्धिः पक्षे उपरजकस्यापि स्वीकारात् । अभिधेयत्वघटत्वयोश्च विधिनिषेधप्रसिद्धिः । ननु चक्षुर्घटसंयोगमादाय घट इव तादृशसंयोगाश्रयत्वं चक्षुषोऽपीत्यत आह इन्द्रियस्येति । इन्द्रियविशिष्टसंयोगाश्रयत्वं नेन्द्रिये अंशत आत्माश्रयात् , तच्चात्र विवक्षितमिति भावः । य एवेति । यथाश्रुते दूषणमिदम् । यदा तु स्वसाक्षात्कारकारणेति मकरन्दः । न तु तद्विना मननासम्भव एवेति तात्पर्यम् । प्रयोजकत्वमिति । शब्दात्मकविप्रतिपत्तौ विषयस्य हेतुत्वाभावादिति भावः । यस्या अविवक्षा तामवान्तरविप्रतिपत्तिमाह । साक्षादिति । अलौकिकपरमाण्वादावतिप्रसक्तिर्व्यतिरेके च बाध इत्यत उक्तं साक्षात्कारकारणेति । संयो- गाद्यन्यतमप्रत्यासत्तिजन्यसाक्षात्कारकारणेत्यर्थः । न च तन्मते व्यावत्र्त्याप्रसिद्धिः । पक्षे उपरज- कस्यापि दानात् । अत एव साक्षात्कारत्वपर्य्यन्तमपि तज्जातित्वे वैयर्थ्यमपि नेति ध्येयम् । न च गर्भर्वार्तनष्टे व्यभिचारादिदमुक्तमिति वाच्यम् । तन्मते प्रमाविषयत्वस्याप्यभावात् । भावे वाऽवश्यमिन्द्रियसन्निकृष्टत्वम् । प्रमाणान्तरात्तदसम्भवात् । योग्यतापरत्वे वा सन्निकर्षत्वे- ऽपि तथेति भावः । विधिनिषेधकोटिप्रसिद्धिः, अभिधेयत्वघटत्वयोः सुलभेति । ननु घटसाक्षा- त्कारकारणघटचक्षुःसंयोगरूपसन्निकर्षाश्रयपं चक्षुष्यपि, न च तल्लौकिकमित्यत आह । इन्द्रि- यस्येति । यद्यपि संयोगस्य द्विष्ठत्वादिदमुक्तं, तथापि नेन्द्रियविशिष्टसन्निकर्षाश्रयत्वमिन्द्रियस्य अंशत आत्माश्रयात् , किन्तु तदुपलक्षितसन्निकर्षाश्रयत्वम् । तदिदमुक्तं, किन्तु प्रतियोगि- त्वमिति । तत्र तत्प्रतियोगिकसन्निकर्षाश्रयत्वेऽपि तस्योपलक्षणत्वमित्यर्थः । य एवेति । एतच्च
३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां बोधनी । भावे च तदधिष्ठातुर्जगत्कर्त्तुरनुपपत्तेः कार्य्यत्वहेतुरपि शिथिलः स्यादिति । अस्त्वलौकिको हेतुस्त- त्साधनोपदेशश्च, तथाप्युपदेशस्य नित्यत्वपुरुषान्तरपूर्वकत्वयोरपि सम्भवादसिद्धमाप्तोक्तत्वम् , प्रकाशः । स्य संयुक्तसमवायः स एव गुरुत्वस्यापीति तस्यापि लौकिकत्वापत्तेः । किन्तु सामान्यलक्षणप्रत्या- सत्त्यजन्ययोगधर्माजन्यजन्यस्वविषयकसविकल्पकाजन्यजन्यसाक्षात्कारविषयत्वं प्रमेयत्वव्या- प्रकाशिका । विवक्षा तदा तावन्मात्रविषयत्वमेवास्तु कृतं स्वपदकारणपदगर्भतयेति तथैव सिद्धान्तयति किन्त्विति । न च तन्मते साक्षात्कारविषयत्वमेव प्रमेयत्वमिति व्याप्यव्यापकयोरभेद इति वाच्यम् । उपाधिभेदेन भेदात् । अनुमितिमादाय सिद्धसाधनमिति साक्षात्कारेति । ईश्वरसा- क्षात्कारमादाय सिद्धसाधनमिति जन्येति साक्षात्कारविशेषणम् । अलौकिकप्रत्यासत्तिजन्यजन्यसा- क्षात्कारमादाय सिद्धसाधनवारणायाद्यप्रतीकम् । तत्रापि जगत एवेश्वरज्ञानजन्यतायाऽप्रसिद्धिवार- णाय जन्येति सविकल्पकविशेषणम् । स्वविषयकपदप्रयोजनं त्वाकर एव व्यक्तम् । स्वपदेन च यो यत्र साक्षात्कारविषयत्वेनाभिमतः स एव तत्र ग्राह्यः । व्यावत्र्याप्रसिद्धिरस्तु तन्मत इति तूपर- ञ्जकतयैव समाधेयम् । ज्ञानाजन्यत्येतदेव यद्यपि प्रकृते सम्यक् , तथाप्युपरञ्जकतयाऽखण्डाभा- वघटकतया च न दोषः । मिश्रास्तु लौकिकसाक्षात्कारविषयत्वमेव प्रकृते विवक्षितमिति तल्लाभाय सविकल्पकपदम् , पक्षे उपरञ्जकस्यापि भावात् । न च लौकिकत्वमेव ज्ञानजन्यस्वविषयजन्यत्वमात्रगर्भमस्त्विति वाच्यम् । तथा सति लौकिकविशिष्टप्रत्यक्षाव्याप्तेः । न च सविकल्पके पदे दत्तेऽपि विशिष्टवैशिष्टय- प्रत्यक्षाव्याप्तिरिति वाच्यम् । सविकल्पकत्वेन तदजन्यत्वस्य विवक्षणात् । न च विशिष्टवैशिष्टय- ज्ञाने तथाजनकत्वम् , विशेष्ये विशेषणमिति न्यायेन विशिष्टवैशिष्टयधीसम्भवेन व्यभिचारात् । तथा च विशेषणज्ञानत्वेनैव तत्र जनकत्वमिति नाव्याप्तिः । नचेयं विवक्षा ज्ञानपदमात्र एवास्तु तथा सत्यपि स्वविषयकज्ञानत्वेन तदजन्यत्वमर्थो लभ्यत इति नाव्याप्तिर्विशिष्टप्रत्यक्ष इति वाच्यम् । स्वविषयकज्ञानत्वेन जनकत्वस्याप्रसिद्धेः, सविकल्पकान्तर्भावे तु तथाजनकत्वं स्मरणं प्रत्येव सिद्धम् । मकरन्दः । यथाश्रुते । स्वसाक्षात्कारविवक्षायान्तु तावन्मात्रविषयत्वमेवास्तु, कृतं स्वपदकारणादिगर्भत्वेनेति तथैव सिद्धान्तमाह । किन्त्विति । न च तन्मते साक्षात्कारस्यैव प्रमात्वेन व्याप्यव्यापका- भेदात् कथं व्याप्यव्यापकताग्रह इति वाच्यम् । उपाधिभेदेन भेदात् । तादृशानुमितिविषयत्वं सर्वेषामिति सिद्धसाधनं, व्यतिरेके च बाध इत्यत उक्तं-साक्षात्कारेति । ईश्वरसाक्षात्कार- मादाय दोषतादवस्थ्यादाह, चरमजन्यपदम् । अलौकिकप्रत्यासत्तिजन्यजन्यसाक्षात्कारमादाय दो- षतादवस्थ्यादाह, पूर्वप्रतीकम् । तत्राजन्यपदमेश्वरज्ञानजन्यताया जगतोऽप्रसिद्धिवारणार्थम् । स्वविषयकपदव्यावृत्तिस्तु मूल एव । स्वपदेन च यत्र यः साक्षात्कारविषयत्वेनाभिमतः, स एव तत्र ग्राह्यः । सविकल्पकपदञ्च यद्यपि प्रकृतेऽकिञ्चित्करम् ज्ञानपदेनैव सङ्गतेः । तथापि उपरञ्जक- स्यापि दानादखण्डाभावघटितस्य च न व्यर्थत्वम् । केचित्तु लौकिकसाक्षात्कारविषयत्वस्य प्रकृतेऽभिमतत्वेन विशिष्टोपादानम् । अन्यथा विशि- ष्टप्रत्यक्षस्य स्वविषयकनिर्विकल्पकजन्यस्य तत्रासंग्रहापत्तेः । न चैवमपि विशिष्टवैशिष्टयप्रत्यक्षा- टिप्पणी । स्वविषयकसविकल्पकाजन्यजन्यसाक्षात्कारविषयत्वमिति । जन्यज्ञानाजन्यजन्यसा- क्षात्कारविषयत्वमेव यद्यप्युपादेयम् , निर्विकल्पकमादाय सर्वत्र प्रसिद्धेर्योगजधर्माजन्यत्वान्तं नोपा-
प्रथमस्तबके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिप्रदर्शनम् । ३१ प्रकाशः । पर्कं न वा ? अभावसमवायोस्तादृशप्रतियोगिसम्बन्धिसविकल्पकजन्यसाक्षात्कारविषयत्वेऽपि प्रत्यक्षत्वात् तत्सङ्ग्रहार्थं स्वविषयकेति विशेषणम् । अत्र यद्यपि घटोऽयमिति सविकल्पके घटत्वस्य तत्कारणज्ञानविषयताऽस्ति, तथापि तज्ज्ञानाजन्यनिर्विकल्पकविषयताऽप्यस्ति । न हि तज्ज्ञान- जन्यज्ञानगोचरत्वं तज्ज्ञानाजन्यज्ञानगोचरताविरोधि । एकत्र ज्ञानद्वयस्य भावादित्याहुः । अलौकिकविशेषे त्वदृष्टे, प्रयत्नकारणमविशेषगुणनिरुपाधिविषयकारणमात्मविशेषगुणत्वं लौकि- प्रकाशिका । न च तथासति यद्यपीत्यादिग्रन्थविरोधः, तथासति सविकल्पकविषयतयापि तत्र सामञ्जस्ये तदनु- त्थानप्रसङ्गादिति वाच्यम् । यथाश्रुताभिप्रायेण तदुत्थानादिति वदन्ति । तच्चिन्त्यम्, विवक्षाया- मपि विशिष्टवैशिष्ट्यप्रत्यक्षाख्यातेः, द्विधा हि विशिष्टवैशिष्ट्यधीः, एका पुरुषेऽविशिष्टस्यैव दण्डस्य विशेषणत्वं विषयीकरोति अपरा च दण्डत्वविशिष्टस्येति तन्नियमनाय तस्यां सविकल्पकत्वेनैव- जनकत्वस्वीकारात् । अत एव न व्यभिचारोऽपि विलक्षणधीविशेष एव तथाजनकत्वोपगमा- दिति । न च तन्मते योगजधर्मादीनामप्रसिद्ध्या तदभावाप्रसिद्धिः परमतेऽसत्ख्यात्युपनीतस्यापि प्रतियोगितात् संयोगादिपडन्यतमजन्यसाक्षात्कारविषयत्वस्य वा समुदायार्थत्वादिति दिक् । सविकल्पक इति । धारावाहिकस्थले द्वितीयादिसविकल्पक इत्यर्थः । ज्ञानविषयता=स- विकल्पकविषयता, यथाश्रुते सविकल्पकाजन्यत्वस्य तथाप्यक्षतेरसङ्गते, निर्विकल्पकेत्युपलक्षणम् प्राथमिकसविकल्पकेत्यपि द्रष्टव्यम् । प्रयत्नति । प्रयत्नकारणमविशेषस्य संसारिणो गुणौ यौ इच्छाद्वेषौ तयोर्निरुपाधिविषयौ सुखदुःखे तत्कारणं य आत्मविशेषगुणः तत्त्वं लौकिकमानसव्रजा- त्याश्रयाविषये वर्तते न वेत्यर्थः । अत्र प्रयत्नकारणं गुण ईश्वरज्ञानादि तन्निरुपाधिविषयो विशिष्ट- ज्ञानं तत्कारणमात्मविशेषगुणो निर्विकल्पकमिति तदादाय सिद्धसाधनवारणाय आत्मविशेषेति । मकरन्दः । ध्याप्तिः । जन्यस्वविषयकसविकल्पकत्वेन जनकत्वाभावस्य विवक्षितत्वाद् अत्र जन्यादिपदमप्रसि- द्धिवारकमित्याहुः । तच्चिन्त्यम् । अत्र यद्यपीत्यग्रिमग्रन्थविरोधात् । तथा सति सविकल्पकविषय- तयापि सामञ्जस्ये तदनुत्थानप्रसङ्गः । यद्यपि तन्मते योगजादीनामप्रसिद्धतया तदजन्यत्वस्यापि तथात्वात् तदुपसक्तबुद्धेरप्यभावादुपरञ्जकत्वेनापि तदुपादानमसङ्गतम् । तथापि असत्ख्यातिरूपा तदुपसक्तबुद्धिरस्त्येव इति नोक्तदोष इत्येके । संयोगाद्यन्यतमप्रत्यासत्तिजन्यसाक्षात्कारविषयत्व- मनेनोपलक्षितमित्यन्ये । सविकल्पक इति । धारावाहिक इत्यर्थः । प्राथमिकसविकल्पकस्याऽजनकत्वान्निर्विकल्पक इत्यु- पलक्षणम् । प्राथमिकसविकल्पक इत्यपि द्रष्टव्यम् । प्रयत्नति । प्रयत्नकारणात्मविशेषगुणाविच्छा- द्वेषौ तयोर्निरुपाधिविषयौ सुखदुःखे तत्कारणत्वविशिष्टात्मविशेषगुणत्वं लौकिकमानसप्रत्यक्षाविषये वर्त्तते न वेत्यर्थः । न च मानसेति व्यर्थम् । मानसप्रत्यक्षपदेन मनःप्रयोज्यजातिविशेषाश्रयस्यो- टिप्पणी । देयम्, तथापि पक्षे उपरजकस्यापि भावादखण्डाभावघटकतया सार्थक्यं वोध्यम् । सविकल्पक इति द्वितीयसविकल्पे । निर्विकल्पकेति प्राथमिकसविकल्पकस्याप्युपलक्षकम् । प्रयत्न- कारणेति । प्रयत्नयोः=प्रवृत्तिनिवृत्त्योः, कारणे=साक्षात्कारकारणे, स्वविजातीयस्य प्रत्यक्षविषयस्य स्वसमानाधिकरणव्यापारस्य जनकजातीयभिन्नत्वे सति कारणे वा [साक्षात्कारकारणे ] ये व्यक्ती आत्म- विशेषस्य=संसारिणो, गुणौ=इच्छाद्वेषौ, तयोर्निरुपाधिविषयो=इष्टसाधनत्वेन विषयत्वाप्रयो- ज्यविषयताश्रयौ सुखदुःखे, तत्कारणमात्मविशेषसंसारिगुणत्वमित्यर्थः । प्रयत्नजनकेश्वरज्ञानविषयवि-
३२ व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कायत्तरणिकाव्याख्यायां प्रकाशिका। तस्य च संसारिण इत्यर्थो व्याख्यात एव । अस्मदादिज्ञानमादाय पुनस्तदेव सिद्धसा- धनमतः प्रयत्नकारणेति । तस्य च साक्षात्प्रयत्नकारणेत्यर्थः । तेन ज्ञानस्यापि प्रयत्नका- रणतया न पूर्वोक्तसिद्धसाधनप्रसङ्गः । न च साक्षात् कारणत्वं यदि व्यक्तेस्तदा फलेच्छा- द्वेषयोरपि उपायेच्छाद्वेषद्वारा जनकत्वमिति विवक्षितार्थलाभः, तज्जातीयस्य यदि तदा पूर्वोक्त सिद्धसाधनमेव उपादानप्रत्यक्षस्य साक्षाज्जनकत्वात्तज्जातीयत्वाज् ज्ञानस्येति वाच्यम् । फलेच्छायाः स्वरूपसत्त्या एव साक्षात् प्रयत्नहेतुत्वेन व्यक्तिपक्षस्यैवादुष्टत्वात् । न च फलेच्छायाः प्रयत्नकारणत्व- मेव न, कारणत्वेऽपि न साक्षाज्जनकत्वं मानाभावादिति वाच्यम् । फलेच्छोत्कट्येन प्रयत्नौत्कट्यात्तस्याः कारणत्वे चिकीर्षां प्रति च फलचिकीर्षायामेव व्यभिचारेणाकारणत्वेऽर्थतः साक्षात्कारणत्वात् । न च फलेच्छोपायेच्छोपादानप्रत्यक्षाणां युगपदसम्भवान्नेदं युक्तमिति वाच्यम् । प्रथमेच्छाया नाशेऽपि चिकीर्षाया एव समूहालम्बनात्मिकायाः फलेच्छात्वात् । न च यद्विषयकत्वेन प्रयत्नकारणत्वं स एव प्रकृते विषयपदार्थः, अन्यथा उपादानप्रत्यक्षस्यापि दैवादुपनीतप्रत्यक्षज्ञानविषयत्वात् तज्जनक- निर्विकल्पकज्ञानमादाय सिद्धसाधनात् , न च समूहालम्बनेच्छायाः फलविषयकत्वेन जनकत्वमिति वाच्यम् । प्रयत्नौत्कट्यानुरोधेन तद्विषयकत्वेनापि जनकत्वात् । यद्वा विजातीयव्यापारजनकजातीय- भिन्नत्वमेव वा साक्षाज्जनकत्वं ज्ञानन्तु विजातीयेच्छारूपव्यापारजनकजातीयमेव, न चेच्छाया अप्य- दृष्टद्वारा कार्यमात्रजनकतया विजातीयव्यापारजनकत्वमेवेति वाच्यम् । स्वविजातीयप्रत्यक्षसमा- नाधिकरणव्यापारजनकजातीयभिन्नत्वस्य विवक्षितत्वात् । निरुपधिपदन्तु इच्छासोपाधिविषय- कामिनीविशिष्टज्ञानजनननिर्विकल्पकमादाय सिद्धसाधनवारणाय । ननु तथापि निदिध्यासनजन्य- भावनामादाय सिद्धसाधनं तस्यास्तत्त्वसाक्षात्कारद्वारा इच्छानिरुपधिविषयदुःखाभावरूपमोक्षहेतु- त्वात् । न च निदिध्यासनस्यादृष्टमेव व्यापार इति वाच्यम् । दृष्टेनैवोपपत्तेः । न च तत्त्वसाक्षात्का- रस्य भावनाजन्यत्वे स्मृतित्वापत्तिरिति वाच्यम् । समानविषयकसंस्कारत्वेन जनकत्वे तथाभावात् अत्र चात्मविषयकभावनात्वेन हेतुत्वादिति चेत् । न । तत्त्वसाक्षात्कारस्यैव न मोक्षहेतुत्वम्, तत्त्व- ज्ञानादिति सूत्रे पञ्चम्याः प्रयोजकत्वपरतया टीकाकृता व्याख्यानात् । तज्जनकभावनायास्तु मोक्ष- हेतुत्वं दूरनिरस्तमेव । न च देवताप्रतिमादिदर्शनसामान्यस्यैव स्वर्गहेतुत्वश्रुतेस्तन्निर्विकल्पकमा- दाय सिद्धसाधनमिति वाच्यम् । प्रमेयत्वप्रकारकदर्शनमादायातिप्रसक्त्या विशेषप्रकारकत्वस्य वा- च्यत्वेन निर्विकल्पकस्य स्वर्गहेतुत्वात् । न चेश्वरज्ञानस्य सुखदुःखकारणतया तदादाय सिद्धसा- धनमिति वाच्यम् । द्वितीयात्मविशेषगुणपदस्यात्मविशेषस्य संसारिणो यो विशेषगुण इत्यर्थकत्वात् मध्यपदलोपिसमासात् । न च जीवनयोनियतमादाय सिद्धसाधनम् । तस्य जीवनमात्रहेतुत्वेन मकरन्दः । क्तवात्तस्य व्यर्थत्वाभावादखण्डाभावे वा न वैय्यर्थम् । लौकिकपदञ्चाप्रसिद्धिवारणार्थम् । अत्र प्रयत्नकारणं गुण ईश्वरज्ञानादिस्तन्निरुपधिविषयो विशिष्टप्रत्यक्षं तत्कारणमात्मविशेषगुणत्वं तादृश- निर्विकल्पके वर्त्तत एवेति सिद्धसाधनमत आह,.प्रथमात्मविशेषपदम् , आत्मविशेषस्य संसारा॑- त्मनो गुण इत्यर्थः । ज्ञानमादाय पूर्वोक्तसिद्धसाधनतादवस्थ्यादाह । प्रयत्नकारणेति । प्रयत्न- साक्षात्कारणेत्यर्थः । तेन न दोषतादवस्थ्यम् । · टिप्पणी । शिष्टज्ञानजनकनिर्विकल्पकत्वस्य लौकिकमानसप्रत्यक्षाविषयवृत्तित्वस्य सिद्धत्वात् सिद्धसाधनवारणाय संसारिगुणत्वमुक्तम् । संसारिगुणानुव्यवसायविषयविशिष्टज्ञानकारणनिर्विकल्पकत्वमादायसिद्धसाधन- वारणाय प्रयत्नकारणेति । फलेच्छोत्कट्येन प्रयत्नौत्कट्यानुभवात् फलेच्छायाः स्वातन्त्र्येणापि कार-
. प्रथमस्तबके ] न्यायशङ्कासंशयबीजविप्रतिपत्तिनिरूपणम् । ३३ प्रकाशिका । सुखहेतुत्वात् । आत्मपदञ्च सुखजनककामिनीरूपमादाय, विशेषपदं च तादृशात्ममनोयोगमादाय सिद्धसाधनवारणाय । केचित्तु विषयान्तस्य सुखदुःखान्यतरदर्थः, तथा च सुखदुःखान्यतरकारणात्म- विशेषगुणत्वं लौकिकमानसप्रत्यक्षविषयजातीयभिन्नवृत्ति न वेति विप्रतिपत्त्यर्थः । तज्जातीयत्वञ्च गुण- त्वसाक्षाद्व्याप्यजात्या । एवं च निर्विकल्पकादिकमीश्वरज्ञानादिकं जीवनयोनियत्नञ्चादाय न सिद्धसाध- नावकाशः, विशेषपदाऽऽत्मपदे तु पूर्ववदेव, भावना च यदि कायव्यूहादिद्वारा काचित् सुखहेतुस्तदा तदन्यत्वेनापि विशेषणम् । लौकिकत्वं च संयोगाद्यन्यतमप्रत्यासत्तिजन्यत्वं धर्माधर्मोभयसाधार- मकरन्दः । ननु साक्षाज्जनकत्वं यदि व्यक्तैस्तदा इच्छाद्वेषयोरप्युपायेच्छाद्वेषद्वारा जनकत्वमित्यसम्भवः, तज्जातीयस्य चेत्तदा ज्ञानेऽप्यतिप्रसङ्गः, उपादानप्रत्यक्षस्य साक्षात्प्रयत्नहेतुत्वादिति चेत् । न । फलेच्छायाः स्वरूपसत्याः साक्षादेव प्रयत्नहेतुत्वेन व्यक्तिपक्षस्यैव क्षोदक्षमत्वात् । विजातीयाव्या- पारकजनकजातीयस्यैव वा साक्षाज्जनकत्वेन विवक्षितत्वादित्याहुः । तच्चिन्त्यम् । फलेच्छायाः प्रयत्नजनकत्वाभ्युपगमेऽपि साक्षाज्जनकत्वे मानाभावात् । चिकीर्षादिसत्त्वे तां विना तदुत्पत्तौ विलम्बाभावात् । चिकीर्षोपादानप्रत्यक्षाभ्यां सह युगपदनवस्थानाच्च । क्षणद्वयमात्रस्थायित्वात् । चिकीर्षाद्वारेणैवोपपत्तौ समूहालम्बनकल्पने प्रमाणाभावाच्च । भावे वा तद्विषयत्वे न प्रयत्नजन- कत्वं, गौरवान्मानाभावाच्च । अन्यथोपादानप्रत्यक्षेऽपि उपनीतविशिष्टप्रत्यक्षविषयत्वसम्भवान्निर्वि- कल्पकमादाय दोषापत्तेः । फलेच्छां विनोपायचिकीर्षाविरहात्तद्धेतुत्वस्यावश्यकत्वात् । वस्तुतस्तु न तस्याः प्रयत्नं प्रति जनकत्वं, किन्त्ववच्छेदकत्वमित्युक्तमस्माभिरन्यथाख्याति- वादे । विजातीयेत्याद्यप्ययुक्तम् । साक्षाज्जनकत्वेनैव विजातीयाव्यापारकं यद् उपादानप्रत्यक्षं त- ज्जातीयं ज्ञानमादायोक्तसिद्धसाधनतादवस्थ्यात् । न च विजातीयव्यापारनजनकजातीयभिन्नत्वं वि- वक्षितं, ज्ञाने च विजातीयेच्छाव्यापारकत्वमेवेति वाच्यम् । ज्ञानादीनामदृष्टद्वारा कार्यमात्रहेतुत्वा- भ्युपगमेनेच्छाया विजातीयव्यापारकप्रयत्नजनकजातीयत्वात् । किञ्च द्वेषस्य प्रयत्नकारणत्वे माना- भावः, यथा चैतत्तथा प्रवृत्त्यनुमानप्रकाशे । मूले त्वग्रेतनं प्राचीनमतमनुपादेयम् । चिन्ताम- णिस्वरसोऽप्येवमेव । यच्चोक्तं निरुपाधिपदं सोपाधीच्छाविषयकामिनीविशिष्टज्ञानकारणाऽऽत्मविशेषगुणवस्योक्ते सत्त्वेन सिद्धसाधनवारकमेव । अग्रिमात्मविशेषगुणपदयोः कामिनीरूपात्ममनोयोगादिवृत्तित्वेन सि- द्धसाधनवारणे तात्पर्यमिति । तदपि चिन्त्यम् । निदिध्यासनजन्यभावना तत्त्वसाक्षात्कारद्वारा इच्छानिरुपाधिविषयदुःखाभावरूपमोक्षहेतुरिति तामादाय सिद्धसाधनतादवस्थ्यात् । न च निदि- ध्यासनजन्यमदृष्टमेव । दृष्टेनैवोपपत्तेः । न च तज्जन्यत्वे स्मृतित्वापत्तिः । स्वसमानविषयकसंस्का- रत्वेनैव हेतुत्वे तथात्वात् । अत्र चात्मविषयकभावनात्वेनैव हेतुत्वात् । तत्त्वसाक्षात्कारस्य विश्व- विषयकत्वाच्च । अन्यथा संस्कारध्वंसे का गतिः । अत एव मूले वक्ष्यति, अतीन्द्रियार्थदर्शनाभ्यु- पायो भावनेत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयतीति अदृष्टवत् तस्यापि प्रत्यास- त्तित्वे विरोधाभावः । अस्तु वा तथा । तथापि देवप्रतिमादिदर्शनत्वेनैव स्वर्गहेतुत्वश्रुतेस्तन्निर्विकल्पकस्यापि तथा- टिप्पणी । णत्वे व्यक्तिसाक्षात्कारणत्वगर्भप्रथमकल्पः, फलेच्छायाः साक्षादकारणत्वे द्वितीयः, ज्ञानस्य विजातीये- च्छारूपव्यापारजनकजातीयत्वात् तद्वारणम्। इच्छाया अदृष्टरूपव्यापारजनकत्वेऽपि तस्य प्रत्यक्षावि- षयत्वान्न तत्रासम्भवः, निरुपाधिपदन्तु इच्छासोपाधिविषयकामिनीज्ञानजनकनिर्विकल्पकमादाय ५ न्या० कु०
३४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां प्रकाशः। कमानसप्रत्यक्षाविषये वर्त्तते न वा ? यद्वा, लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्व्याप्यजात्यधिकरणत्व- मात्मगुणे वर्त्तते, न वा ? भावनात्वन्तु न गुणत्वसाक्षाद्व्याप्यम्, अदृष्टत्वन्तु न जातिः । प्रकाशिका। ण्यायोभयगर्भत्वम्, प्रत्येकगर्भतायान्तु विप्रतिपत्तिद्वयमेव । मानसत्वञ्चाखण्डजातिरेवेति न वैय्यर्थ्य- मिति प्रथमकल्पसाधारणमेव समाधानमिति दिक् । अत्र च कारणान्तं भावनासामान्यमादाय सिद्ध- साधनवारणाय । लौकिकेति । प्रत्यक्षाविषयत्वं न्यायमतेऽप्रसिद्धमिति लौकिकत्वं विशेषणम्, परमते च तदुपरजकमेव तदर्थश्च विषयजन्यत्वम् । सुखत्वादिकमादायर्थान्तरमित्यविषयान्तं विशेषणम् । गुरुत्वमादायर्थान्तरमिति आत्मपदम् । गुणपदं स्पष्टार्थम् । साक्षात्पदव्यावर्त्यमाह । भावना- त्वमिति । जातिपदव्यावर्त्यमाह । अदृष्टत्वमिति । जातिपदाप्रक्षेपे दर्शनानर्हगुणत्वस्य गुण- त्वव्याप्यजात्याव्याप्यतयाऽऽत्मसंयोगादिवृत्तितया च सिद्धसाधनमिति तत्पदमिति भावः । केचित्तु धर्मत्वमधर्मत्वञ्चादृष्टत्वव्याप्यतया साक्षाद्व्याप्यमेव न भवति, अदृष्टत्वं च जातिरेव नेति विधिकोटेर्बाध इत्यत आह । अदृष्टत्वमिति । यत एवादृष्टत्वं न जातिः, अत एव गुणत्व- व्याप्यजात्यव्याप्यत्वलक्षणं साक्षादून्याप्यत्वं धर्मत्वादीनामिति न बाध इति व्याचक्षते । मकरन्दः । त्वाविशेषात्तमादाय सिद्धसाधनम् । सुखदुःखकारणाऽऽत्मविशेषगुणत्वमीश्वरज्ञानादावपीति तदा- दाय सिद्धसाधनम् । न ह्यग्रिमात्मपदमपि संसारिपरतया व्याख्यातम् । तत्परत्वेऽपि पूर्वदोषानु- द्वारात् । जीवनयोनियत्नमादाय सिद्धसाधनतादवस्थ्याच्च । न च तस्य न सुखदुःखजनकत्वं, किन्तु जनकजनकतेति वाच्यम् । अन्वयव्यतिरेकाभ्यां तद्धेतुत्वात् । अन्यथा प्राणादेरपि तथात्वे तद्धेतुत्वं न स्यात् । एतेन प्रयत्नत्यादिना विषयान्तेन सुखदुःखयोरेव विवक्षितत्वात् सुखदुःखान्य- तरकारणतामविशेषगुणत्वे तात्पर्यमित्यपास्तम् । अत्र ब्रूमः । सुखदुःखान्यतरकारणात्मविशेषगुणत्वं लौकिकमानसप्रत्यक्षविषयजातीयभिन्ने वर्त्तते न वेति विवक्षितम् । साजात्यञ्च गुणत्वसाक्षाद्व्याप्यजात्या । धर्माधर्मोभयसाधारणयार्थमुभ- यगर्भत्वम् । यथाश्रुतेऽपि सुखदुःखयोरनुगमे तदेव बीजम् । प्रत्येकगर्भतया प्रत्येकं विप्रतिपत्तिद्व- यमेव वा विवक्षितम् । एवञ्चेश्वरज्ञानादिकं निर्विकल्पकं जीवनयोनियत्नञ्चादाय सिद्धसाधनानव- काशः । सर्वेषां तज्जातीयत्वात् । धर्माधर्मौ तु न तथा । न चैवं विशेषपदवैयर्थ्यं, संयोगमात्र- स्यैव तादृशप्रत्यक्षाविषयतयाऽऽत्ममनोयोगमादाय सिद्धसाधनापत्तेः । कामिनीरूपवृत्तित्वेन सिद्ध- साधनवारणायात्मपदम् । भावनावृत्तित्वेन तद्वारणार्य कारणान्तम् । यदि च निदिध्यासनजन्यभा- वना कायव्यूहादिद्वारा सुखादिकारणं, तदा तदन्यत्वमपि सुखदुःखविशेषणम् । नच लौकिकत्वं योगजधर्माद्यजन्यत्वगर्भं, तच्च तन्मतेऽप्रसिद्धम्, साध्ये उपरजकस्याप्यदानाद् व्यर्थत्वञ्चेति वाच्यम् । संयोगाद्यन्यतमप्रत्यासत्तिजन्यत्वस्य विवक्षितत्वात् । अखण्डाभावे साध्ये चावैयर्थ्यादिति । वस्तुतः पूर्वापरितोषादाह । यद्वेति । प्रत्यक्षाविषयत्वमप्रसिद्धमिति लौकिकत्वं विशेषणम् । परमते चोपरञ्जकमेतद् बोध्यम् । सुखत्वादिकमादायं सिद्धसाधनवारणायाविषयान्तम् । गुरुत्वा- दिना सिद्धसाधनवारणायात्मपदम् । गुणपदं स्पष्टार्थम् । साक्षात्पदव्यावर्त्यमाह । भावनात्व- टिप्पणी । सिद्धसाधनवारणाय, सुखजनकेश्वरज्ञानमादाय सिद्धसाधनवारणाय द्वितीयास्यात्मविशेषपदस्योपा- दानम् । अदृष्टत्वन्तु न जातिरिति । यतोऽदृष्टत्वन्न जातिरतो धर्मत्वाधर्मत्वयोरदृष्टत्वमादाय
प्रथमस्तबके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिनिरूपणम् । ३५ प्रकाशः । परलोके तु, समानकालीनानेकावृत्तिशरीरवृत्तिजातित्वं दुःखानवच्छेदकत्वासमानाधिकरणवृत्ति प्रकाशिका । समानकालीनेति । शरीरं दुःखानवच्छेदकमित्यत्र प्रसिद्धाप्रसिद्धपक्षत्वे बाधाश्रयासिद्धी, जातिपक्षत्वेऽपि तथा, अतो जातित्वं पक्षः । एककालीनेऽनेकस्मिन् न वर्त्तते अथ च शरीर- वृत्तिर्या जातिस्तत्त्वं दुःखानवच्छेदकत्वानधिकरणधिकरणवृत्ति न वेत्यर्थः । अत्र विधिप्रसिद्धिः पट- रूपवृत्तिप्रमेयत्वादौ, निषेधप्रसिद्धिरत्वाकाशादौ, विधिकोटिर्नैयायिकानां निषेधकोटिश्च परेषाम् । सत्तावृत्तित्वेन सिद्धसाधनवारणायावृत्तीत्यन्तम् । तत्राप्यनेकावृत्तिजातित्वमप्रसिद्धमिति समान- कालीनेत्यनेकविशेषणम् । न च दुःखानवच्छेदकं यदहोरात्रावच्छिन्नं भिन्नमेव शरीरं तदादाय सिद्धसाधनमिति वाच्यम् । (१) दुःखस्वरूपयोग्यत्वमात्रस्य दुःखानवच्छेदकत्वपदार्थत्वात् । यत्तु तद- धिकरणानधिकरणत्वमेवासामानाधिकरण्यमिति न तदादाय सिद्धसाधनमिति । तत्तुच्छम् । तथासति सत्तामादाय सिद्धसाधनाप्रसङ्गेनावृत्तीत्यन्तस्य वैयर्थ्यात् । परिमाणभेदभिन्ननानाकालीनकुष्माण्डादि फलवृत्तिजातिमादाय सिद्धसाधनवारणाय शरीरवृत्तीति । न च तस्यां जातौ मानाभावः, मीनादिशरीरवृत्तिजात्या सह तुल्यव्यक्तिकत्वात् । मिथ्यास्तु कारणविशेषप्रयोज्यशब्दवृत्तिजातिमा- दाय सिद्धसाधनवारणाय शरीरवृत्तिपदमित्याहुः । तच्चिन्त्यम् । कदम्बगोलकन्यायेन शब्दोत्पत्तौ मकरन्दः । न्त्विति । नन्विदं बाधितं, धर्मत्वाधर्मत्वयोः परस्पराव्याप्यत्वाददृष्टत्वस्य च जातित्वाभावादित्य त आह । अदृष्टत्वञ्चेति । यत एवादृष्टत्वं न जातिरत एव तद्व्याप्यजात्यव्याप्यतया धर्मा- धर्मत्वे साक्षाद् व्याप्ये इति भावः । समानेति । अत्र विधिकोटिर्नैयायिकानाम्। नेति बौद्धानाम् । यद्यपि तादृशजातिर्दुःखानवच्छे- दकत्वासमानाधिकरणेत्येतावत्तैव दुःखानवच्छेदकशरीरसिद्धाविष्टसिद्धिस्तथापि चैत्रत्वादेस्तादृशजातेः पक्षीकरणे बाधाद् अन्यस्याश्चाप्रसिद्धेरिति पक्षविकल्पमिया तादृशजातित्वं पक्षीकृतम् । दुःखानव- च्छेदकत्वासमानाधिकरणवृत्तित्वं दुःखानवच्छेदकत्वानधिकरणधिकरणवृत्तित्वं विवक्षितम् । एवञ्च सत्तावृत्तित्वेन सिद्धसाधनवारणार्थमाह, अवृत्त्यन्तम् । अनेकावृत्तिजातित्वमप्रसिद्धमिति समानका- लीनपदम् । तदर्थश्च समानकालोत्पत्तिकत्वम् । एवञ्चात्मत्वमनस्त्वादिवृत्तित्वेन सिद्धसाधनवारणार्थं शरीरवृत्तीति । केचित्तु कारणविशेषप्रयोज्यशब्दवृत्तिजातेस्तथात्वेन सिद्धसाधनवारणाय शरीरवृत्तिपदमित्याहुः। टिप्पणी । गुणत्वव्याप्यजात्यव्याप्यत्वरूपसाक्षाद्व्याप्यत्वस्य न हानिः । शरीरवृत्तिजातित्वमिति । स्वर्गसद्भावेऽपि नारकीयशरीरवृत्तिजातौ चार्वाकसाध्यप्रसिद्धिः स्यात्, जातित्वावच्छेदेन साध्य- तायां गौरवं स्यादतो जातित्वपर्यन्तानुधावनम् । जलदे प्रसिद्धाप्रसिद्धपक्षत्वे बाधाऽऽश्रयासिद्धी इत्यतो जातित्वानुधावनमिति । दुःखानवच्छेदकत्वासमानाधिकरणवृत्तीत्यस्य दुःखानवच्छेदक- (१) इदन्तु चिन्त्यम् । अवच्छेदकतया दुःखं प्रति तादात्म्येन तस्यकारणत्वात् तदवच्छेद- कत्वमेव योग्यत्वम् । तदवच्छेदकं च यदि दुःखानवच्छेदकचैत्रादिशरीरनिष्ठं तत्तद्व्यक्तित्वं तदोक्त- दोपतादवस्थ्यम् , यदि चैत्रत्वादिकं तदा तस्य सुखावच्छेदकेऽपि सत्त्वेन कुतो न तन्न दुःखो- त्पत्तिः । न चादृष्टविशेषादिरूपसहकारिविरहान्नेति वाच्यम् । तथासत्यनेककारणत्वापेक्षया शरी- रत्वेनैव कारणत्वे लाघवेन तस्यैव स्वीकरणीयत्वापत्तेः । स्वर्गिशरीरे च सहकारिविरहादेव न दुःखमिति साध्याप्रसिद्धिरिति ।
३६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां प्रकाशः । न वा ? इति स्वर्गे । नरके तु दुःखपदस्थाने सुखपदप्रक्षेपात् संशयः । तादृशी च जातिर्बाल्या- दिभेदभिन्नानेकशरीरवृत्तिरसाधारणी चैत्रत्वादिः प्रसिद्धेति विशेषतः । परलोकमात्रे तु सुखदुः- खोभयजनक-मच्छरीरातिरिक्तशरीरवानहं न वेति संशयः । चैत्रस्तथा प्रसिद्धः । साधने तु, प्रागभावत्वाद्यप्रतियोगि कार्यं; प्रतियोगित्वप्रागभावान्यप्रागभावाविषयकप्रतीत्य- प्रकाशिका । तज्जातेः समानकालीनानेकवृत्तित्वात् वीचीतरङ्गन्यायेनापि नाश्यनाशकशब्दयोः समानकालीनत्वेन तथात्वात् । वस्तुतः समानकालोनत्वं समानकालोत्पत्तिकत्वमिति मनस्त्वादिकमादाय सिद्धसाधनवा- रणाय शरीरवृत्तिपदम् । जातिपदन्त्वेतच्छरीराभाविघटविशेषान्यतरत्वमादाय सिद्धसाधनवारणाय । दुःखावच्छेदकेत्यत्र दुःखपदं मरणजन्यदुःखपरमिति स्वर्गिशरीरस्यापि मरणजन्यदुःखावच्छेद- कत्वाद् बाध इति दूषणं निरस्तम् । यदि च स्वर्गिशरीरे आहारपरिणामभेदे मानाभावेन नानात्वा- भावात् तादृशी जातिर्नास्ति तदा सुखानवच्छेदकत्वमप्यनेकविशेषणम् । तथा च लोकविशेषजन्य- तावच्छेदकजातिमादायैव विधिकोटिरिति ध्येयम् । स्वर्गनरकान्यतरसाधनानुकूलां विप्रतिपत्तिमाह । परलोकेति । अत्र मत्पदमप्रसिद्धिवारणाय । अयञ्च विशिष्टाभावो द्वेधा मच्छरीरातिरिक्तशरी- रवत्त्वेन वा सुखदुःखयोरन्यतरमात्रावच्छेदकशरीरवत्त्वेन वा, तत्राद्ये बाधाद् द्वितीयमादायाभिमत सिद्धिरिति भावः । साधने त्विति । साधनत्वे त्वित्यर्थः । धम्मिणो दण्डादेः प्रागभावाविषयप्र- तीतिविषयत्वात् अग्रिमाग्रिमविप्रतिपत्तेस्तत्रैवान्वयाच्च । कारणत्वन्तु प्रागभावगर्भमिति प्रमेयत्वा- दिनापि तज्ज्ञाने प्रागभावविषयतावश्यकत्वम् । प्रागभावत्वमपि प्रागभावघटितत्वेन प्रागभावाविषयक- प्रतीत्यविषय इति तत्प्रतियोगित्वमादायार्थान्तरं मा भूदिति बाधस्फोरणाय प्रागभावत्वाद्यप्रति- मकरन्दः । यद्यपि जातिपदं व्यर्थम् । न चैहिकसुखमात्रावच्छेदकशरीरवृत्तिधर्ममादायाऽर्थान्तरवारणाय तदिति वाच्यम् । ऐहिकशरीरस्य दुःखावच्छेदकत्वनियमाद् बाधेनाऽसिद्धेः । अन्यथा जातिप- ददानेऽप्यप्रतीकारादिति । यदि च दुःखावच्छेदकत्वं तत्स्वरूपयोग्यत्वं, तदा तुल्यम् । एवञ्च स- मानकालीनपदमपि व्यर्थम् । तथापि पक्षे उपरञ्जकस्यापि दानाज्जातिपदमप्रसिद्धिवारकतया तदपि सार्थकमिति । वस्तुतस्तु एतच्छरीरभाविघटाद्यन्यतमत्वादिकमादायार्थान्तरवारणाय जाति- पदम् । तस्य दुःखावच्छेदकस्वरूपयोग्यत्वानधिकरणघटाद्यधिकरणत्वादिति । विधिनिषेधप्रसि- द्धिश्च शब्दत्वादौ चैत्रत्वादौ चेति बोध्यम् । सुखेति । सुखदुःखोभयजनकमच्छरीरातिरिक्तत्वमुभयथा सुखदुःखोभयजनकत्वविशेषणाभा- वान्दीयत्वविशेषणाभावाच्च । तच्चान्त्यनिबन्धनमन्यत्र प्रसिद्धम् । आद्यनिबन्धनञ्च पक्षधर्मता- बलात् पक्षे सिद्ध्यतीति भावः । साधने त्विति । साधनत्वे त्वित्यर्थः । तत्रैवाग्रे विप्रतिपत्तिद- टिप्पणी । त्त्वानधिकरणाधिकरणवृत्तित्वमर्थः, तथा सति सत्तामादाय सिद्धसाधनवारणायावृत्तित्वान्तस्य सार्थ- कता, यथाश्रुते तद्वैयर्थ्यं स्यादिति जलदे । साङ्कर्य्यस्य जातिबाधकत्वाभावे एकजातीयसुखावच्छेदक- चैत्रमैत्रादितत्तच्छरीरव्यक्तिविशेषवृत्तिजातिमादाय सिद्धसाधनवारणाय तत्सार्थक्यसम्भव इति तु वयम् । बाल्यादिभेदभिन्नानेकशरीरवृत्तिरिति । बाल्याद्यवस्थाभेदेन प्राप्तभेदमनेकं यच्छ- रीरं तद्वृत्तिरित्यर्थः । प्रागभावत्वाद्यप्रतियोगि कार्य्यमिति । प्रागभावत्वजन्याभावत्वरू- पध्वंसत्वस्य प्रागभावघटितस्य विशिष्टरूपस्य सखण्डस्य प्रागभावं विना न प्रतीतिविषयत्वमिति तदादायार्थान्तरं स्यादिति बाधस्फोरणायाप्रतियोग्यन्तम् । प्रागभावंतत्प्रतियोगित्वपूर्ववर्तित्व-
प्रथमस्तबके ] , न्यायाङ्गसंशयबीजविप्रतिपत्तिनिरूपणम् । ३७ प्रकाशिका योगीति पक्षविशेषणम् । आदिपदग्राह्यन्तु ध्वंसत्वादि, तस्य जन्याभावत्वरूपतया जन्यत्वस्य च प्रागभावगर्भतया तादृशप्रतीतिविषयत्वात् । प्रागभावघटान्योन्याभावाविति समूहालम्बनविषया- न्योन्याभावप्रतियोगितया सिद्धसाधनमिति तद्धारणाय नञ्द्वयगर्भता प्रागभावतत्प्रतियोगित्वाभ्यां सिद्धसाधनवारणाय प्रतियोगित्वप्रागभावान्येत्यविषयविशेषणम् । न च कार्यत्वावच्छिन्नप्रतियोगि- कान्योन्याभावमादाय सिद्धसाधनम् । तस्यापि प्रमेयत्वादिना ज्ञाने तादृशप्रतीतिविषयत्वात् । अत एव ध्वंसस्य जन्याभावतया जन्यत्वस्य च प्रागभावगर्भतया ध्वंसप्रतियोगितया सिद्ध- साधनमिति निरस्तम् । प्रमेयत्वादिना ध्वंसस्यापि तादृशप्रतीतिविषयत्वात् । ननु प्रतियोगित्वमत्र स्वरूपसम्बन्धविशेषः। नच प्रतियोगित्वस्य कार्यं प्रतियोगि किन्त्वाश्रयः, तथा च प्रतियोगित्वान्येति विशेषणं व्यर्थम् । न च प्रतियोगित्वमत्र सम्बन्धित्वमात्रम् । तथासति प्रागभावत्वत्वेनापि समं कार्यस्य परम्परासम्बन्धोऽस्त्येवेति तदादाय सिद्धसाधनाऽऽपत्तेः । न च स्वरूपसम्बन्धित्वं प्रतियोगि- गित्वम् । प्रकृते परम्परासम्बन्धस्यापि स्वरूपसम्बन्धत्वात् । संयोगसमवायान्यासम्बन्धस्यैव स्व- रूपसम्बन्धत्वात् । परम्परासम्बन्धान्यत्वस्यापि स्वरूपसम्बन्धलक्षणे विशेषणत्वे परम्परासम्ब- न्धस्य सर्वत्र सत्त्वेनासम्भवापत्तेः । न च साक्षात्सम्बन्धित्वमेव प्रतियोगित्वमत्र, प्रकृते च घटस्य कारणतेति प्रतीतिबलादस्त्येव घटस्य कारणतया साक्षात्सम्बन्धित्वमिति वाच्यम् । तथा सति प्रागभावान्यत्वाश्रयत्वलक्षणोपाध्याश्रयत्वेन सिद्धसाधनापत्तेः । न च तदन्यत्वमप्यविषयविशेषणं मकरन्दः । र्शनात् । धर्मिणस्तु दण्डादेः प्रागभावाविषयप्रतीतिविषयत्वात् । साधनञ्च न तथा, तस्य प्राग- भावगर्भतया प्रमेयत्वादिनाऽपिग्रहे प्रागभावविषयत्वनियमादिति प्रागभावविषयप्रतीतिविषयप्रति- योगित्वे साध्ये सिद्धसाधनं, कार्य्यस्य घटादेः प्रागभावघटान्योन्याभावाविति समूहालम्बनविषया- न्योन्याभावप्रतियोगित्वादिति नञ्द्वयम् । प्रागभावतत्प्रतियोगित्वाभ्यां तादृशप्रतीतिविषयाभ्यां सिद्धसाधनवारणार्थं प्रतियोगित्वप्रागभावान्येति तादृशप्रतीत्यविषयविशेषणम् । प्रागभावप्रतियो- गित्वप्रागभावान्येत्यर्थः । कैश्चित्तु सामान्यत्वेन विशेषोऽपि वारित इति यथाश्रुतेऽप्यदोष इत्याहुः । न च कार्यान्योन्या- भावमादाय सिद्धसाधनम् । तस्य कार्य्यत्वावच्छिन्नप्रतियोगितया कार्य्यत्वस्य च प्रागभावप्रतियोगि- त्वरूपतया तादृशप्रतीत्यविषयत्वादिति वाच्यम् । अनेन हि रूपेणाभावग्रहे प्रतियोगितावच्छेदकग्रह- ध्रौव्यं, न त्वन्यथापीति प्रकारान्तरेण तद्ग्रहे प्रागभावाविषयप्रतीतिविषयत्वात् । अत एव ध्वंसस्य जन्याभावतया जन्यत्वस्य प्रागभावगर्भतया तत्प्रतियोगित्वेन सिद्धसाधनमपास्तम् । ध्वंसस्य प्रका- रान्तरेण तादृशबुद्धिविषयत्वात् । ध्वंसत्वस्य तादृशप्रतीत्यविषयत्वेऽपि कार्य्यस्य तदप्रतियोगित्वात् । तदिदमुक्तं, प्रागभावत्वाद्यप्रतियोगीति । तथा च बाधान्न ध्वंसत्वप्रागभावत्वादिप्रतियोगित्वेनार्था- न्तरमिति बाधस्फोरणाय पक्षविशेषणमिति मन्तव्यम् । ननु प्रागभावत्वादेरिव प्रागभावप्रतियोगित्वस्यापि न प्रतियोगि कार्यं, किन्त्वाश्रयः । तथाच तमादाय सिद्धसाधनानवकाशात्तदन्यत्वं विशेषणमयुक्तम् । न हि प्रतियोगित्वं सम्बन्धित्वमात्रं वि- वक्षितम् । तथा सति परम्परासम्बन्धेन प्रागभावत्वादेरपि तथात्वात्तदन्यत्वमपि साध्यविशेषणं टिप्पणी । प्रागभावान्यत्वाश्रयत्वादिकमादाय सिद्धसाधनवारणाय तत्तद्भिन्नत्वोपलक्षकमन्यत्वान्तम् । कार्य- त्वावच्छिन्नात्यन्ताभावस्याखण्डस्य प्रमेयत्वतद्घटित्वादिना प्रतीतौ प्रागभावस्याविषयत्वेन तमा- दाय तु न सिद्धसाधनम् । वस्तुतोऽविषयत्वान्तं स्वप्रतियोगिकान्यथासिद्धान्यवृत्तिनियतपूर्ववर्ति-
३८ व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां प्रकाशः । विषयप्रतियोगि, न वा ? यद्वा, कार्य्यप्रतियोगित्वं प्रतियोगित्वप्रागभावान्यप्रागभावाविषयबुद्ध्य- विषयवृत्ति न वा ? द्वयोरपि प्रागभावत्वे प्रसिद्धिः । यद्वा, कार्य्यपूर्ववर्त्तिनि तन्नियतत्वं वर्त्तते न प्रकाशिका । तथापि पूर्ववर्त्तित्वादिकं कारणताघटकमादाय सिद्धसाधनादिति । अत्र तत्तदन्यत्वमपि विशेषण- मिति केचित् । तत्पूर्ववर्त्तित्वमात्रमेवैतद्विप्रतिपत्तिजन्यविचारात्सिध्यति नियतत्वादिकञ्चाग्रिम- विप्रतिपत्तिमूलकविचारादेवेत्यन्ये । वस्तुतो नियतत्वे पूर्ववर्त्तित्वे च विप्रतिपत्तिरेव नास्ति किन्तु नियतपूर्ववर्त्तित्वस्य घटेन समं स्वरूपसम्बन्धविशेषे सा । अत एव स्वरूपसम्बन्धविशेष एव कारणतेति प्रामाणिकाः । तथा च प्रतीत्यविषयपर्यन्तपदेन नियतपूर्ववर्त्तित्वमेवोक्तं प्रतियोगि- त्वञ्च स्वरूपसम्बन्धविशेष एवेति नोक्तदोषावकाशः । न चैवमप्यन्यथासिद्धिविरहासिद्धिः । स्वप्र- तियोगिकान्यथासिद्धिभिन्नवृत्तिनियतपूर्ववर्त्तित्वप्रतियोगित्वस्य विधिकोटित्वात् । स्वं चरमप्रतियो- गिपदार्थः । प्रसिद्धिश्च नियतपूर्ववर्त्तित्वात्यन्ताभाव इति । कार्यप्रतियोगित्वमिति । अत्रापि प्रागभावत्वाद्यवृत्तीति विशेषणं बाधस्फोरणाय । यद्यपि पूर्वविप्रतिपत्तौ कार्यत्वस्य प्रतियोगित्वमभि- मतमत्र तु कारणतायाः, तथापि स्वरूपसम्बन्धविशेष एव प्रतियोगित्वमत्र तच्चोभयनिरूप्यमेवे- त्यविरोध इति भावः । व्याख्या तु पूर्ववदेव । द्वयोरपीति । यद्यपि प्रथमविप्रतिपत्तिविधिकोटे- स्तादृशप्रागभावत्वत्वाश्रयप्रागभावत्वे प्रसिद्धिरिति युक्तं, द्वितीयविधिकोटेस्तु कथं प्रागभावत्वे, तस्य प्रागभावत्वावृत्तित्वात् प्रागभावस्य च प्रागभावान्यत्वाभावात् । तथापि प्रागभावत्व इति सप्तमी न साक्षादधिकरणतायां किन्तु साक्षात्परम्परासाधारणाधिकरणमात्रे तथा च प्रागभावत्वत्वे द्वि- तीयविधिकोटिप्रसिद्धावपि परम्परया प्रागभावत्वस्याधिकरणत्वं सम्भवत्येव । केचित्तु प्रागभावत्व- मकरन्दः । स्यात् । पक्षविशेषणं चासिद्धं स्यात् । तथाच स्वरूपसम्बन्धविशेषो वाच्यः । स च तत्र नास्ति । किञ्च कारणतया समं स्वरूपसम्बन्धविशेषोऽन्यः प्रागभावादिना च समं कार्यस्यान्यः स इति श- ब्दमात्रसाम्यादनुमानप्रवृत्तिः । न च स्वरूपसम्बन्धत्वेनैवानुगम इति वाच्यम् । तस्य परम्परास- म्बन्धसाधारण्येनोक्तदोषानिवृत्तेः । न च तत्र परम्परासम्बन्धस्यैव सत्त्वात् सम्बन्धान्तरमन्तरेणे- त्यादिरूपं तन्न तत्रेति वाच्यम् । तस्य संयोगसमवायौ विनेत्यर्थात् । अन्यथा परम्परासम्बन्धस्य सर्वत्र सत्त्वादसम्भवापत्तेरिति चेन्न । साक्षात् सम्बन्धित्वस्य विवक्षितत्वात् । न च कारणतया समं कार्यकारणद्वारक एव सम्बन्धस्तथा च बाध इति वाच्यम् । घटाभाव इत्यत्रेव घटकारणतेत्य- त्रापि साक्षात्स्वरूपसम्बन्धानुभवात् । एवञ्च यद्यपि कारणताभिन्नं तादृशं प्रागभावगर्भं पूर्ववर्त्ति- त्वादिकं नानाधर्ममादायार्थान्तरं सिद्धसाधनं वा भवेत्येव । तथापि तत्तदन्यत्वेनापि तादृशप्रतीति- विषयो विशेषणीय इति युक्तमुत्पश्यामः । कार्यप्रतियोगित्वमिति । यद्यपि पूर्वेण कार्यस्य संप्रतियोगित्वमभिप्रेतमनेन च कारण- तायाः, तथापि साक्षात्सम्बन्धित्वमेव प्रतियोगित्वमभिप्रेतं तच्चोभयनिरूपितत्वमुभयत्र तुल्यमि- त्यविरोध इति भावः । अत एव प्रगभावादिद्वृत्तित्वेन नार्थान्तरशङ्का, कार्यसाक्षात्सम्बन्धित्वस्य तत्र बाधात् । अन्यच्च पूर्ववत् । द्वयोरपीति । ननु प्रथमविप्रतिपत्तौ प्रागभावत्वमादाय प्रसिद्धि- टिप्पणी । स्वपरमेव । प्रसिद्धिश्च तादृशपूर्ववर्त्तित्वात्यन्ताभावे । एतेन घटस्य कारणत्वमित्यादिप्रतीति- सिद्धस्य प्रतियोगित्वस्य स्वरूपसम्बन्धात्मकस्य प्रागभावादेरभावादन्यत्वान्तं व्यर्थमिति शङ्का परास्ता । द्वयोरपि प्रागभावत्वे प्रसिद्धिरिति । द्वयोर्घटकं यद्विषयत्वान्तं तस्य प्रागभा-
प्रथमस्तबके ] न्यायाङ्गसंशयवीजविप्रतिपत्तिनिरूपणम् । ३६ प्रकाशः । वा ? यद्वा, तज्जातीयोत्पत्तिप्राक्क्षणत्वप्रतियोगिव्यापकतावच्छेदकत्वमत्यन्ताभावप्रतियोगिवृत्ति न वा ? । प्रकाशिका । पदेन प्रागभाववृत्तिधर्म उक्तः, स च प्रागभावत्वं प्रमेयत्वं चेति यथासंख्यं प्रथमद्वितीयविधिकोटि- प्रसिद्धिरिति वदन्ति । यद्वा द्वयोरपि विप्रतिपत्त्योर्विषयपदान्तार्थस्य प्रागभावत्वे प्रसिद्धिरित्यर्थः । तथाच तत्प्रतियोगिनि प्रागभावे तद्वृत्तौ च प्रागभावत्वत्वे प्रसिद्धिरिति भावः । वस्तुतः कार्यपदं तद्विशेषघटादिपरं तथा च विधिकोटिरपि तत्प्रागभावान्यत्वगर्भा एवं च तादृशपटादिप्रागभाव- वृत्तितया प्रागभावत्वे प्रसिद्धिः सुलभवैति दिक् । कार्येति । अनन्यथासिद्धकार्यनियतपूर्ववर्ति- नीत्यर्थः, विशिष्टाप्रसिद्धावपि खण्डशः प्रसिद्धिः सुलभैवेति भावः । एकमेकजातीयं वा कारण- मित्यत्र संशयमाह यद्वेति । तज्जातीयोत्पत्तिप्राक्क्षणत्वं यत्र, तत्र ब्रह्माधिकरणत्वं प्रधानाधिक- रणत्वं वेत्यस्यां व्यापकतायां ब्रह्म प्रधानं वा निरूपकतावच्छेदकं तदुभयञ्च नित्यतया व्यापक- तया च नात्यन्ताभावप्रतियोगीति निषेधकोटिः । परेषां दण्डादीनां कारणतया विशिष्टप्राक्क्षणत्व- व्यापकाधिकरणताप्रतियोगितया विधिकोटिर्नैयायिकानां यद्यपि ब्रह्मणोऽप्यत्यन्ताभावप्रतियोगित्वम्। तथापि कालिकदैशिकविशेषणतासम्बन्धावच्छिन्नत्वमत्यन्ताभावविशेषणमिति । मिश्राणामवतारिका व्याख्या च वस्तुतो भवतु सा कारणता तथापि न सा व्यतिरेकिधर्मवृत्त्तिरिति नाहष्टाधिष्ठातृतया परमेश्वरसिद्धिरिति तस्या व्यतिरेकिवृत्तित्वसाधनाय विप्रतिपत्तिमाह । यद्वेति । यदा तदव्यव- हितप्राक्क्षणत्वं तदा स्वतो व्यापारतो वा दण्ड इति दण्डस्य व्यापकता, तदवच्छेदकं च तदाश्रय- मकरन्दः । सम्भवेऽपि द्वितीयायामसंभवः, न हि प्रागभावत्वस्य प्रागभावत्वे वृत्तिरपि तु प्रागभाव एव स च न प्रागभावान्य इति चेत् । प्रागभावत्वपदेन प्रागभावत्वत्वस्य विवक्षितत्वात् । तस्य च तादृ- शबुद्धयविषये प्रागभावत्वे वृत्तैः । तत्प्रतियोगित्वाच्चेत्येके । प्रागभावत्वपदेन प्रागभावधर्मः प्रमे- यत्वादिविवक्षित इत्यन्ये । यत्तु व्यासज्जयप्रतियोगिकाभावाश्रयणे प्रतियोगिताप्रागभावान्यः केवलः प्रागभावोऽपीति तद्वृत्तित्वेन यथाश्रुतमेव सम्यगिति । तत्तुच्छम् । प्रागभावमादाय सिद्धसाधनस्यैवमपरिहारात् । तथा च तदन्यत्वविशेषणं व्यर्थमापद्येत । वस्तुतस्तु कार्यपदं तद्विशेषपटादिपरम् । तथाच तत्प्रा- गभावतद्प्रागभावप्रतियोगित्वान्यप्रागभावाविषयप्रतीत्यविषयपटादिप्रागभाववृत्तित्वादिना प्रागभा- वत्वे प्रसिद्धिरिति यथाश्रुतमेव सम्यगिति । कार्येति । अनन्यथासिद्धकार्यपूर्ववर्त्तिनीत्यर्थः । विशिष्टस्याप्रसिद्धत्वेऽपि खण्डशः प्रसिद्भे- रिति भावः । एवं ब्रह्मैव कारणमेकजातीयं प्रधानं वेत्यत्र संशयमाह । यद्वेति । तज्जातीयोत्प- त्तिप्राक्क्षणत्वं यन्न, तत्र ब्रह्माधिकरणत्वं प्रधानाधिकरणत्वं वेत्यत्र व्यापकीभूताऽधिकरणत्वेऽव- च्छेदकं विशेषणीभूतं ब्रह्मैव प्रधानं वा नात्यन्ताभावप्रतियोगि व्यापकनित्यत्वादिति निषेधकोटिः परेषां, विधिकोटिरस्माकम्। अत्यन्ताभावप्रतियोगिनो दण्डादेरपि तादृशत्वाभ्युपगमादिति बोध्यम्। यद्यपि व्यापकनित्यत्वेऽप्याकाशवदत्यन्ताभावप्रतियोगित्वं ब्रह्मादेरविरुद्धं, तथापि तद्वद्वृत्तित्वान- भ्युपगमात् प्रत्युत सकलदेशकालवृत्तित्वादित्यवसेयम् । टिप्पणी । वत्वे प्रसिद्धिः, तथा च प्रथमे तादृशप्रागभावत्वमादाय प्रतियोगित्वस्य निरूपकत्वरूपस्याश्रयविधया प्रागेव प्रसिद्धिः । द्वितीये प्रागभावत्वमादाय वृत्तित्वस्य प्रागभावत्वत्वे प्रसिद्धिरिति । यद्वा सप्तम्य-
४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां भावात् । अन्यथापि परलोकसाधनानुष्ठानसम्भवात् । तदभावावेदकप्रमाणस- द्भावात् । सत्त्वेऽपि तस्याप्रमाणत्वात् । तत्साधकप्रमाणाभावाच्चेति । बोधनी । अन्यथासिद्धं वेति न विवक्षितपुरुषसिद्धिरिति मीमांसकादिविप्रतिपत्तिमाह-अन्यथेति । कार्यत्वहे- तुरपीश्वरमन्तरेणास्मदादिभिरेवादृष्टद्वारा परमाण्वादिसाधनानां प्रेरणात्मकानुष्ठानसम्भवात् सिद्धसा- धनमिति भावः । बाधितविषयं प्रमाणद्वयमित्याह-तद्भावेति । ननु सत्यपि वेदकर्त्तरि न तत्प्र- णीतत्वादागमः प्रमाणं, तत्कर्त्तुरप्रमाणत्वात् , यद्ययं प्रमाणं स्यात् तदा प्रमाणस्य प्रमातृत्वनि- यमादीश्वरस्याचैतन्यं स्यादित्यनिष्टप्रसङ्गलक्षणप्रतिकूलतर्कप्रतिहतत्वान्न साधनमुपदेशः कार्यत्वं चेत्याह-सत्त्वेऽपीति । किञ्च, प्रमासाधनस्य प्रमाणत्वान्नित्यप्रमाश्रयस्य तदसम्भवादप्रमा- णत्वम्, किञ्च, अनधिगन्तुः प्रमाणत्वान्नित्यसर्वज्ञस्य च तदसम्भवादप्रमाणत्वम् , किञ्च, ईश्वरज्ञानस्यास्मदादिभ्रमानालम्बने सर्वविषयकत्वाभावः, तदालम्बने च तद्विषयालम्बन- स्यापि नान्तरीयकत्वादस्मदादिविभ्रमवदेवाप्रमाणत्वापात इति तर्काः । अत्र सत्त्वेऽपीति सत्त्वाभ्युपगमो बाधकाभावात् सम्भावनामात्रेण, न वस्तुत इति । अस्त्वनन्यथासिद्धादुपदेशाद् विशिष्ट उपदेष्टा । तथापि कार्यत्वस्य विपक्षे बाधकाभावेन सन्दिग्धविपक्षव्यतिरेकित्वम् , उपा- प्रकाशः । विशिष्टे तु, अलौकिके परलोकसाधनत्वं वर्त्तते न वा ? परलोकसाधनेऽलौकिकत्वं वर्त्तते न वेति विप्रतिपत्तिः । तथाच कार्यकारणभावाभावे क्षित्यादिकर्त्तृत्वान्नेश्वरसिद्धिः । परलोकाभावे च तत्साधनयागादिदृष्टुरभावे तदुपदेशकत्याऽपि नेश्वरसिद्धिः । अदृष्टसिद्धौ तदधिष्ठातृतयापि नेश्वरसिद्धिरिति चार्वाकाभिप्रायः । अन्यथेति । अदृष्टादिसत्त्वेऽपि वेदानामात्रोक्तत्वेन प्रामाण्यावधारणं विना तद्बोधितस्वर्गा- दिसाधनयागादौ बहुवित्तव्ययायाससाध्ये न प्रवृत्तिरित्याप्तो वेदकारः सिद्धयतीति नास्ति, अन्य- थापि वेदानां नित्यनिर्दोषत्वेन स्वतः प्रामाण्यावधारणात् , परतः प्रामाण्येऽपि कर्मयोगसिद्ध- सर्वज्ञपूर्वकत्वात्तेषां परलोकसाधनयागाद्यनुष्ठानसम्भवादित्यर्थः । तदभावेति । भवतु वेदानां पौरुषेयत्वाद् योगसिद्धसर्वज्ञपूर्वकत्वेनाप्याप्तोक्तत्वम् । तथापि तत्र, क्षित्यादेः कर्तृजन्यत्वे च प्रत्यक्षादिबाधान्न तत्सिद्धिरित्यर्थः । सत्त्वेऽपीति । बाधकाभावात्तत्सिद्धावपि स न प्रमाणम् , प्रमाणपदं हि भावकरणकर्त्तृव्युत्पत्त्या प्रमातत् साधनतदाश्रयेषु वर्त्तते, यथार्थानधिगतार्थाधिगतिश्च प्रकाशिका । त्वमेवेति अवतारिका व्याख्या चेति प्रतिभाति । उभयत्र च कल्पेऽनन्यथासिद्धत्वे सतीति विशेषणं बोध्यम् । विशिष्टे त्विति । प्रत्येकसिद्धचनन्तरमेवेयं विप्रतिपत्तिरिति नाप्रसिद्धिरिति भावः। कार्य- कारणभावादौ विप्रतिपत्तिः कथमीश्वरे पर्यवसितेत्यत आह तथा चेति । तत्साधनेति । तत्सा- धनत्वेन यागादिदृष्टुरभाव इत्यर्थः । प्रमाणपदं हीति । तथाचाप्रमाणत्वादिति बहुव्रीहितत्पुरु- षाभ्यां प्रमितिशून्यत्वात् तत्करणशून्यत्वात् तत्समवायिभिन्नत्वाच्चेति पर्यवसितं पूर्वपक्षं पूरयति मकरन्दः । विशिष्टे त्विति : विप्रतिपत्तिरिति शेषः । एवं प्रागपि बोध्यम् । अविशिष्टप्रत्येकप्रसिद्धि- दशायामेवैतदभिमतमिति प्रसिद्धिरिति भावः । तदिति । तत्साधनत्वेन यागादिदृष्टुरभाव इत्यर्थः। प्रमाणपदं हीति । तथाचाप्रमाणत्वादिति मूलोक्तस्य बहुव्रीहितत्पुरुषाभ्यां प्रमितिशून्यत्वात्
प्रथमस्तबके ] कारणत्वव्यवस्थापनम् । ४१ तन्न प्रथमः कल्पः । यतः— सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः । बोधिनी । धिसद्भावेनाप्रयोजकत्वम्, व्याप्तिप्रमाणाभावेन व्याप्त्यसिद्धिरिति जगत्कर्त्तृत्वादिविशिष्टे परमेश्वरे प्रमाणाभावादिति बौद्धमीमांसकचार्वाकाः प्रत्यवतिष्ठन्ते तत्साधकेति । केचित् 'पूर्वमु- पदेशलिङ्गकम्अनुमानमेव चिन्तितं न कार्यलिङ्गस्य प्रस्तावः, सम्प्रत्युपदेशे सिद्धेऽपि जगत्कर्त्तरि प्रमाणाभावमेव वदन्तः प्रत्यवतिष्ठन्त' इति व्याचक्षते । अनेन विप्रतिपत्तिप्रदर्शनेन न्यायस्य स- न्दिग्धविषयत्वमपि प्रदर्शितं भवति । तत्र यथामतस्यालौकिकस्य हेतोः साधकानि सङ्कलय्याह—सापेक्षत्वादिति । अत्र तावत् सापेक्षत्वेन, सत्येव हेतौ कार्यं भवति नासतीति सर्वलोकप्रसिद्धं प्रत्यक्षं हेतुमत्त्वे प्रदर्शि- तम्; अनुमानं च—विवादाध्यासितं हेतुमत् सापेक्षत्वात् । सापेक्षत्वं च कादाचित्कत्वात् । प्रकाशः । प्रमा । तथा च यदीश्वरः कर्त्ता स्यात्, प्रमावांस्तत्करणेन्द्रियादिमांस्तत्समवायिकारणञ्च स्यात्, न चायं तथेति विपर्य्ययानुमानादित्यर्थः । अप्रमाणपुरुषस्य वचः कः श्रद्धास्यतीति भावः । तत्साधकेति । कार्यत्वादेरुपाधिदुष्टत्वात् क्षितिवेदादेः कर्त्तृजन्यत्वसाधकमेव नास्तीत्यर्थः । तत्र चार्वाकस्यायं भावः । कार्यकारणभावे प्रत्यक्षं न तावन्मानं, धर्मिस्वरूपप्रत्यक्षेऽपि तत्र संशयात् । नचान्वयव्यतिरेकानुविधानज्ञानसहकारिविरहात् स इति वाच्यम् । तन्मात्रस्य व्यभि- चारिसाधारण्यात् । नियमानन्यथासिद्धयोश्च शङ्काकलङ्कितत्वेनानवधारणात् । नाप्यनुमानं, तस्य मया मानत्वेनानभ्युपगमात् । तत्साधने क्वचिदसिद्धावन्वयिनोऽसम्भवात् । तदसिद्धौ व्यतिरे- काज्ञानात् केवलव्यतिरेक्यनववतारात् । मम त्वप्रमितस्यासत्ख्यात्यभ्युपगमान्न निषेध्याप्रसिद्धिरि- त्यत आह । तत्रेति । तेषु मध्ये न प्रथमः पक्षः कल्पो यतः, कल्पनाऽसत्ख्यातिस्तद्विषयः । प्रकाशिका । तत्रेति । तदिति । तस्य मानत्वसाधनेऽपीत्यर्थः । तदसिद्धाविति । कारणत्वासिद्धावित्यर्थः । प्रत्यक्षेण तद्ग्रहस्य निषिद्धत्वादिति भावः । नन्वेवं निषेधोऽपि कथमत आह । मम त्विति । ननु न प्रथमः कल्पः पक्ष इति सामानाधिकरण्येनान्वये यतो हेतुरस्तीति हेत्वन्वये साध्याविशेषः, हेतोरेव हेत्वभावात्मकप्रथमपक्षाभावत्वात् हेत्वभावो न प्रामाणिको यतो हेतुरस्तीति व्यधिकरण- मतोऽन्यथा व्याचष्टे । कल्पः = कल्पनेति । यद्यपि प्रथमकल्पो न प्रामाणिकोऽसत्ख्यातिविषय- त्वादित्यत्रापि पर्यवसिते साध्यादीनामप्रसिद्धिः । तथापि वचने प्रतिपत्तिकारणत्वज्ञानं प्रामाणिकं तन्निष्टत्वेन व्याहतनिषेधप्रतियोगित्वादित्यत्र तात्पर्य्यम् । अत एवाग्रे कारणत्वाभावे व्याघातमेवाहेति । केचित्तु तन्मतमवलम्ब्यैवेदमुक्तम् । तन्मते चासत्ख्यातिरूपैव साध्यादीनां प्रसिद्धिरित्याहुः । ननु मकरन्दः । तत्करणेन्द्रियादिशून्यत्वात् तत्समवायिभिन्नत्वादित्यत्र तात्पर्य्यम् । तदिति । तस्य साधन- त्वसाधनेऽपीत्यर्थः । तदिति । कारणत्वासिद्धावित्यर्थः । प्रत्यक्षेण तद्ग्रहस्य निषिद्धत्वादिति भावः । न प्रथमः पक्ष इति । न प्रथमः कल्प इति सामानाधिकरण्ये प्रथमकल्पस्य हेत्वभावरूपतया तदभावरूपस्य साध्यस्य हेतुरस्तीति पर्य्यवसाने यतो हेतुरस्तीत्यत्र साध्याविशेषेण हेतुत्वानुपपत्तिः स्यात् । यदि च न प्रथमः कल्प इत्यस्य हेत्वभावकल्पो न प्रामाणिक इत्यर्थः, तथापि यतो हेतुरस्तीति व्यधिकरणम् । तथाच हेत्वभावकल्पो न प्रामाणिकः असत्ख्यातिविषयत्वादित्यत्र नोक्तदोष इति तदर्थपरतया व्याख्यातमिति मन्तव्यम् । यद्यपि पक्षादेरप्रसिद्धौ नोक्तानुमानमपि सम्भवति, त- ६ न्या० कु०
४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकायां
बोधनी । अत्रोभयत्रापि व्यतिरेकेण गगनं दृष्टान्त इति । ननु सापेक्षत्वेऽपि कादाचित्कत्वानुपपत्तिः,-अपे- क्षणीयस्य सदातनत्वेन कार्यस्यापि सदातनत्वप्रसङ्गात् । तथाच निरपेक्षादिव सापेक्षादपि व्यावृत्तेः कादाचित्कत्वहेतुरसाधारणः स्यादित्यत्राह-अनादित्वादिति । न हि कारणस्य सदातनत्वं, तस्याप्यपेक्षणीयान्तरसम्भवात् , न चानवस्था, कार्यकारणप्रवाहस्यानादित्वा- दिति । यद्वा, कारणान्तरानपेक्षत्वेऽपि भावस्योत्तरकोटिना प्रध्वंसमात्रेण कादाचित्कत्वोपपत्तेर्नैदं सापेक्षत्वव्याप्तमित्याशङ्कयाह-अनादित्वादिति । निरपेक्षत्वे कार्यस्यानादित्वप्रसङ्गात् सापेक्ष- परम्पराप्रवाहस्यानादित्वादिति । नन्वेकमेकजातीयं वा किञ्चित् कारणमस्तु, तथा च विवक्षितकारणासिद्धेर्न तदर्थमुपदेशां- पेक्षेति तत्राह—वैचित्र्यादिति । विचित्रकारणाभावे कार्यवैचित्र्यं न स्यात् , अस्ति च तदिति । अस्तु तर्हि दृष्ट एव विचित्रो हेतुर्जगद्वैचित्र्यस्य,तथाच विवक्षितासिद्धिस्तदवस्थेत्यत्राह- विश्ववृत्तित इति । तावन्मात्रहेतुत्वे प्रेक्षावतो विश्वस्य पशुपुत्रार्थं यागादौ प्रवृत्तिर्न स्याद् , दृश्यते चासौ, तस्माद्यागादिरपि कारणमिति । तर्हि यागादिरूपमेव कारणमस्तु, तथापि
प्रकाशः। तथाहि; कार्यकारणभावानभ्युपगमे परप्रतिपत्तिफलकवचनप्रयोगानुपपत्तेः । यथा यथा तन्निरा- करणाय प्रयत्नस्तथा तथा तस्यैवापत्तेरिति व्याघात एवेत्यर्थः । तथापि साधकं विना न तत्सिद्धि- रिति चेत् , तत्राह । सापेक्षत्वादिति । विवादपदस्य सापेक्षत्वात्=सहापेक्षया वर्त्तमानत्वात् कादाचित्कत्वादित्यर्थः । तच्च किञ्चित्कालासंबंधित्वे सति किञ्चित्कालसंबन्धरूपं कार्याणां प्रत्यक्षसिद्धमित्यनन्यथासिद्धमेतत् । एतस्मादनन्तरमिदं भवतीत्यदभावे नेति प्रत्यक्षमेव कार्यकार- णभावे मानम् । अत एव प्रागभावस्य कादाचित्कत्वेऽपि न तत्र तत्सिद्धिः । प्रागसत्त्वस्य विव-
प्रकाशिका। प्रामाणिके कारणत्वे निषेधोऽपि नास्माकमिति कुतो व्याघात इत्यभिप्रेत्याह । तथापीति । सा- पेक्षत्वादित्यस्य सहेतुकत्वादित्यर्थे हेतुरस्तीति साध्यवैयधिकरण्यं सहेतुकत्वे च साध्ये साध्यावि- शेष इत्यत आह । कादाचित्कत्वादित्यर्थ इति । साध्यञ्च सहेतुकत्वमिति भावः । किञ्चि- दिति । कारणत्वाभिमानानन्तरकालासम्वन्धित्वे सति तदभिमातोत्तरकालसम्बन्धित्वमित्यर्थः । ननु- सहेतुकत्वे साध्ये साध्याप्रसिद्धिस्तदवस्थैव निरुक्तकादाचित्कत्वज्ञानसहकृतप्रत्यक्षगम्यत्वेऽपि कारणता याः प्रागभावप्रतियोगिककारणताग्रहप्रसङ्ग इति प्रत्यक्षं विशिनष्टि एतस्मादिति । मानं=करणं न तु मितिः, उक्तप्रत्यक्षस्य कारणत्वाविषयकत्वाद् । विशेषणफलमाह अतएवेति । उक्त प्रत्यक्षस्य तत्रास- म्भवादित्यर्थः । कादाचित्कत्वेऽपि यथाश्रुतकादाचित्कत्वेऽपि । लिङ्गत्वपक्षेऽपि न प्रागभावे व्य- भिचार इत्याशयेनाह प्रागिति । कार्यविशेष्यकं कारणताग्राहकं प्रत्यक्षमुक्त्वा कारणविशेष्यकं तदाह
मकरन्दः । -थापि तन्मतेनैव तत्पक्षाभावसाधनमुपन्यस्तमिति मन्तव्यम् । यद्वा एतदस्वरसादेव व्याघातमा- लम्बते । तथाहीति । यत्तु, यतः सापेक्षत्वादिति पञ्चमीद्वयमसंगलग्नमिति कुसृष्टिव्याख्यानमिति । तन्न । यतो हेतुरस्तीति हेतुहेतुत्वेन सापेक्षत्वादित्यस्य सङ्गतत्वात् । सुहृद्भावेनाह । तथापीति । एताव- न्मात्रं प्रागभावसाधारणमतः प्रत्यक्षं विशिनष्टि । एतस्मादिति । तत्फलमाह । अत एवेति । उक्तप्रत्यक्षस्य तत्रासम्भवादेवेत्यर्थः । प्रत्यक्षपरतायां प्रागभावे कादाचित्कत्वस्य व्यभिचारेऽप्य- दोषः । लिङ्गत्वेनाप्यग्रे तदभिधानात् । तदभिप्रायेणाह । प्रागिति । प्रकारान्तरेण प्रागभावव्या-
प्रथमस्तबके ] कारणत्वव्यवस्थापनम् । ४३ प्रकाशः । क्षितत्वाद्वा। अपि च, इदमस्मान्नियतपूर्वसदित्यपि प्रत्यक्षं तत्र मानम् । प्रत्यक्षे चानन्यथासि- द्धिनियमंशावधारणे हेतुशङ्कानिवर्त्तकतकॊ दर्शयिष्यत इति भावः । यद्वा, प्रत्यक्षसहकारित्वेना- ऽनुमानमेवोपन्यस्तम् । यद्वा, प्रथमतॊऽनुमानप्रामाण्यं प्रसाध्य, कार्यं सहेतुकं कादाचित्कत्वात् यन्नैवं तन्नैवम् , यथाऽऽकाशम् । न च साध्याप्रसिद्धिः । कियद्भागे प्रत्यक्षेणैव तत्सिद्धौ तद- विषयेऽनुमानात् । नचोत्पत्तेः कादाचित्कत्वेऽपि न सहेतुकत्वम्, तथात्वे वोत्पत्तिमत्त्वापत्तावनव- स्थेति वाच्यम् । कार्य्यस्याद्यक्षणेन सह स्वरूपसम्बन्ध एव ह्युत्पत्तिः, कार्य्यक्षणस्वरूपयोश्चोत्प- त्तिमत्त्वेन हेतुमत्त्वात् । यद्वा, उत्पत्तिगर्भः किञ्चित्समयसम्बन्धः कादाचित्कत्वम् । अत एव न प्रागभावे व्यभिचारः । न चोत्पत्तेरुत्पत्तिमत्त्वेन हेतुमत्त्वात् स इति न तया व्यभिचारः । एतेना- नुमानपक्षे, हेतुरस्ति सापेक्षत्वाद्-इत्यत्र हेतोरसिद्धावाश्रयासिद्धिः । सापेक्षत्वस्य कार्य्यधर्मत्वेन हेताववृत्तौ स्वरूपासिद्धिश्च । कार्य्यस्यैव पक्षत्वे, सापेक्षत्वादित्यस्य हेतुमत्त्वादित्यर्थे साध्याविशेषः, कादाचित्कत्वादित्यर्थे च प्रागभावेन व्यभिचार इत्यपास्तम् । प्रकाशिका । अपि चेति। नियतेति। अनन्यथासिद्धेत्यपि विशेषणम् । नन्वेवं कादाचित्कत्वोपन्यासमयुक्तमेवे- त्यत आह । प्रत्यक्षसहकारित्वेनेति । सहकारिता च संवादेन प्रामाण्यग्रहद्वारा वा, अन्यथा प्रत्यक्षत्वानुमितित्वसङ्करापत्तेः । ननु अनुमानसम्भवे किं प्रत्यक्षेण ? वादिनं प्रति तस्याप्यनुमान- च्छाययैव प्रवृत्तेरित्यस्वरसादाह यद्वेति । प्रसाध्येत्यनन्तरमित्थं प्रयोग इति शेषः । अन्वयि- सम्भवेऽपि व्यतिरेकिणः सामर्थ्यमित्यभिप्रेत्याह । यन्नैवमिति । स्वरूपसम्बन्ध एवेति । सूर्य्यस्पन्दात्मककालोपाधिना समं सम्बन्धान्तराभावादिति भावः । ननु यथाश्रुतं कादाचित्कत्वं प्रागभावे व्यभिचारि प्रागसत्त्वविशेषणे च व्यर्थविशेषणतेत्यरुचेराह । यद्वेति । उत्पत्तिगर्भः= उत्पत्तिरूपः । अन्यथा व्यर्थविशेषणत्वादिति । विसर्गशून्यपाठपक्षे तु उत्पत्तिगर्भः=उत्पत्तिघ- टको य आद्यसमयस्तत्सम्बन्ध इत्यर्थः । तथाप्युत्पत्तिमत्त्व एव पर्य्यवसानम् । नचोत्पत्तेरिति । यद्यप्युत्पत्तेः क्षणघटोभयरूपत्वे उभयोः सहेतुकत्वमेवेति साध्यसत्त्वादेव न व्यभिचारः । तथापि मिलितस्योत्पत्तिरूपत्वं न च तत्र सहेतुकत्वमर्थवशसम्पन्नत्वादिति हेत्वसत्त्वमेवोक्तम् । उत्पत्तिरपि स्वरूपसम्बन्धात्मिका यद्यप्युत्पत्तौ, तथापि मिलिते तादृशसम्बन्धोऽपि नास्तीत्यभिप्रायेणेदमु- क्तम् । स्वरूपातिरिक्तसम्बन्धस्यैवोत्पत्तिरूपत्वं स चानवस्थाऽऽत्माश्रयादिदोषभयादुत्पत्तौ ना- मकरन्दः । वृत्तं प्रत्यक्षमाह । अपि चेति । अनन्यथासिद्धनियतपूर्वसदित्यर्थः । नियमानन्यथासिद्धयोरि- त्यत्र समाधिमाह । प्रत्यक्षे चेति । ननु परं प्रति प्रत्यक्षमुपन्यासानर्हमेव, अनुमानच्छाययैव तत्र तस्य गमकत्वाङ्गीकारात् । किञ्च कादाचित्कत्वमुपन्यस्तमलग्नकमेवैवं स्यादित्यत आह । यद्वा प्रत्यक्षेति । नन्वनुमानप्रामाण्ये किं सहकारितया ? स्वतन्त्रस्यैव समर्थत्वात् । अप्रामाण्ये सहकारित्वमपि न स्यात् । किञ्चैवं प्रत्यक्षानुमितित्वयोः सङ्करापत्तिरित्याशयेनाह । यद्वेति । सूर्य्यस्पन्दात्मक- क्षणेन समं घटादेः सम्बन्धाऽन्तराभावादाह । स्वरूपेति । ननु यथाश्रुतं कादाचित्कत्वं प्रागभावे व्यभिचारि, प्रागसत्त्वविशेषितञ्च व्यर्थविशेषणत्वग्रस्तमित्यरुचेराह । यद्वेति । नन्वे- वमुत्पत्तिमात्रमेव हेतुरस्तु, अधिकस्य व्यर्थत्वादिति चेन्न । इष्टत्वात् । उत्पत्तिपदेनोत्पत्तिरूप- त्वस्य विवक्षितत्वात् । तथाचाद्यसमयसम्बन्धस्य हेतुत्वपर्य्यवसानम् । यद्वा, उत्पत्तिगर्भ उत्पत्ति- घटकः किञ्चित्समय आद्यसमयस्तत्सम्बन्ध इत्यर्थः । तत्रैव पर्य्यवसानं विसर्गशून्यपाठादित्याहुः ।
४४ व्याख्यातत्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकायां प्रत्यात्मनियमाद् भुक्तेरस्ति हेतुरलौकिकः ॥ ४ ॥ बोधनी । विवक्षितासिद्धिरित्यत्राह-प्रत्यात्मेति । यागादिस्वरूपस्यैव हेतुत्वे तस्य क्षणिकत्वात् कालान्तरभा- विनः फलस्य भुक्तिर्न स्यात्, तस्मात् तेनान्तरा किञ्चिदपूर्वमनेन जनयितव्यम्, तच्च प्रत्या- प्रकाशः । ननु हेतुरपि यदि सदातनस्तदा तत्सापेक्षस्य कार्य्यस्यापि तथात्वापत्तिरिति कादाचित्कत्व- महेतोर्विवाकाशादेः सहेतोरपि सपक्षात् व्यावृत्तमित्यसाधारणं स्यादिति हेतुः कादाचित्को वाच्यः, तथा च तस्यापि कादाचित्कत्वं हेत्वपेक्ष्येत्यनवस्थापत्तिः । अहेतुकत्वे च तद्गदेव कार्य्यमप्यहेतुकं कादाचित्कं स्यादित्यत आह । अनादित्वादिति । हेतोरपि कादाचित्कत्वं स्वहेतुकादाचित्कत्वा- देव, प्रामाणिकी चेयमनवस्था बीजाङ्कुरवन्न दोषायेत्यर्थः । ननु कारणमात्रसिद्धावप्येकमेकजातीयं वा कारणमस्तु कार्य्यजातस्य, तच्चास्मदादिनैव शक्यज्ञानमिति न तदर्थमुपदेशो, न वा विलक्षणसामग्रीजन्यं कार्य्यं सिद्ध्यतीत्यत आह । वैचि- त्र्यात् । भिन्नजातीयकारणान्तरे तथाभूतकार्य्यविषयकं प्रत्यक्षमेव विचित्रे साधने मानमुपन्य- स्तम् । यद्वा, वैचित्र्यं कार्य्यस्य विचित्रहेतुकत्वे लिङ्गमेव । उभयत्राप्यभिन्नत्वाभिन्नजातीयत्व- योर्हेतोः कार्य्यस्य भेदविजातीयत्वे आकस्मिके स्यातामिति तर्कः सहकारीत्यर्थः । तथापि दृश्यमानविचित्रहेतुकमेव कार्य्यमस्त्विति नादृष्टसिद्धिरित्यत आह । विश्ववृत्तितः । विश्वेषां प्रेक्षावतां वृत्तिः—परलोकार्थितया यागादौ प्रवृत्तिः प्रेक्षावत्प्रवृत्तित्वेन सफला, फल- साधनत्वञ्च यागादेराशुविनाशित्वेन न स्यादिति तज्जन्यफलानुकूलमदृष्टं कल्प्यत इत्यर्थः । तथापि तददृष्टं भोग्यनिष्ठमुत भोक्तृनिष्ठम् ? अन्त्येऽपि किं प्रतिभोक्तृनियतं, साधारणं वा ? इत्यत आह । प्रत्यात्मेति । भुक्तेः=सुखदुःखसाक्षात्कारस्य प्रत्येकात्मनियतत्वाल्लाघवाच्च प्रकाशिका । स्तर्त्यभिप्रायेणेदमिति कश्चित् । वस्तुतः सहेतुकत्वमुत्पत्तिमत्वं च द्वयमप्युत्पत्तौ विशिष्टस्या- प्यनतिरेकात् तथा च न तत्र व्यभिचारः । कादाचित्कत्वं तु प्रागभावे व्यभिचारादेव त्यक्तम् । न चोत्पत्तेरित्यादिर्न तया व्यभिचार इत्यन्तश्च ग्रन्थ एकदेशिमतेन एकदेशिनश्चाभि- प्रायो वर्णित एवेत्यवधेयम्। असाधारणमिति अगमकमित्यर्थः । अहेतुकत्वे च सदातनहेतु- कत्वे च कादाचित्कत्वानुपपत्तेरिति भावः । शक्यज्ञानमिति । अल्पतयाऽनुमानावतारसम्भ- वादिति पूर्वपक्षिणो हृदयम् । ननूपादानगोचरं प्रत्यक्षं कार्यजनकमिति नास्मदादिना ब्रह्म प्रधानं वा साक्षात्कर्तुं शक्यमित्यरुचेराह । न वेति । तथा च नादृष्टसिद्धिरिति भावः । अभिन्नेति । हेतोरभिन्नत्वेऽभिन्नजातीयत्वे चेत्यर्थः । अभिन्नाभिन्नजातीययोर्हेत्वोरिति क्वचित् पाठः । तत्रापि फलतोऽयमेवार्थः । अभिन्नत्वाभिन्नजातीयत्वयोर्हेत्वोरिति क्वचित्पाठः । तत्रा- भिन्नहेतुकत्वाभिन्नजातीयहेतुकत्वयोरापादकयोः सतोरित्यर्थः । ननु दृष्टरूपकारणसाधारण्ये- ऽपि कारणान्तरवैचित्र्यादेव भोगासाधारण्यमत आह । लाघवाच्चेति । 'सामानाधिकरण्यला- मकरन्दः । यद्यप्यत्रापि स्वरूपस्यैव तत्सम्बन्धत्वेत त्र पूर्ववदुत्पत्तिमत्त्वेन चोत्पत्तेरित्यग्रिमग्रन्थविरोधः, तथापि स्वरूपातिरिक्तसम्बन्धस्योत्पत्तिरूपत्वं, तत्र चात्माश्रयादनवस्थानाच्च नोत्पत्तिमत्त्वमिति मताभ्युपगमानुसारेणेदम् । असाधारणं स्यादिति । अगमकं स्यादित्यर्थः । ननु तद् ब्रह्माऽऽत्मकं प्रधानात्मकं वाऽती- न्द्रियं, नास्मदादीनां शक्यज्ञानमिति यदि ब्रूयातदा दोषान्तरमाह । न वेति । अभिन्नत्वेति ।
प्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४५ न ह्ययं संसारोऽनेकविधदुःखमयो निरपेक्षो भवितुमर्हति, तदा हि स्या- देव न स्यादेव वा, न तु कदाचित् स्यात् ॥ ४ ॥ बोधनी । त्मसमवेतं, भोगं प्रति नियमदर्शनात् । तथा च तस्यास्मदादिभिरशक्यज्ञानत्वात् तदुपदेष्टा तदधिष्ठाता जगत्कर्त्ता चेश्वरः सिध्यतीति प्रथमपरिच्छेदार्थसंग्रहश्लोकतात्पर्यार्थः ॥ ४ ॥ तत्र तावत् सापेक्षत्वादित्येतदुपपादयन् विवृणोति—न ह्ययमिति । संसारः=कार्यवर्गः । नैकविधः सर्वकालं नैकरूपः, कादाचित्क इति यावत् । अनेकविध इति पाठे वक्ष्यमाणहेतु- वैचित्र्योपयुक्ततया कार्यवैचित्र्यमुक्तम् । दुःखमयत्वं स्वतन्त्रप्रसिद्ध्या सर्वस्यापि दुःखत्वभावना- र्थमुक्तं, न तु साधनोपयोगितया । यद्वा, दुःखमयत्वात् तथापि हेयं हानं हेतुनिवृत्त्या । तथाच प्रकाशः । तदुपपादकं प्रतिभोक्तृनियतमेवादृष्टं कल्प्यत इति, अस्ति हेतुरलौकिक इत्याद्यस्तवकार्थसंग्रहः ॥४॥ यथोक्तप्रत्यक्षानुमानयोरन्यथासिद्धिनिरासाय तर्कमाह । न ह्ययमिति । अनेकविधेति मुमुक्षुवैराग्यार्थं कार्यवैचित्र्यस्फोरणार्थं वा । तच्च विचित्रादृष्टसाधनोपयुक्तम् । निरपेक्षत्वञ्च कि- ञ्चित्पदार्थावधिकोत्तरत्वान्याप्यकालसम्बन्धित्वम् । न च प्रतियोग्यप्रसिद्धिः । तस्यासत्ख्यातिवा दिनः सांव्यवहारिकस्य सापेक्षत्वस्यापि स्वीकारात् । ननु, निरपेक्षत्वेनैकेन व्याप्येन स्यादेव, न स्यादेवेति द्विरूपं व्यापकद्वयं विरुद्धं कथमापाद्यते? न ह्येकं मिथोविरुद्धद्वयव्याप्यम् । तुशब्दश्चासङ्गतः, कादाचित्कत्वाभावस्य स्वतन्त्रस्यैवानि- ष्टापादनार्थत्वात् । अत्राहुः । निरपेक्षत्वेन कादाचित्कत्वव्यतिरेक एवाऽऽपाद्यः । स च स्यादेव, न स्यादेवेति पक्षद्वये पर्यवस्यति, अत एव तुशब्दोऽपि सङ्गच्छते । यद्वा, कार्यं यदि निरपेक्षं प्रकाशिका । घवादित्यर्थः । वस्तुतः कृतहानाकृताभ्यागमदोषप्रसङ्गादेवाद्दष्टस्य प्रत्यात्मनियतत्वमिति ॥ ४ ॥ किञ्चिदिति । अनन्यथासिद्धकिञ्चिदित्यर्थः । असमानाधिकरणेति कृतेऽसम्भव इत्यत उक्तम- व्याप्येति । अत्र च स्वपूर्ववर्तित्वमप्यवधौ विशेषणम् , अन्यथा परमाण्ववधिकोत्तरत्वव्याप्य- कालसम्बन्धसत्वादाकाशे निरपेक्षत्वाभावापत्तेः । न चेति । तथा चापादकाप्रसिद्धिः परमते पराभ्यु- पगतस्यैव चापादकत्वात् स्वमते प्रत्यक्षेणैव प्रसिद्धिरिति परमते तामाह । तस्येति । तुशब्द इति परस्पराङ्गाङ्गिभावापन्नतवस्य तुशब्दवाच्यत्वात् प्रकृते च कादाचित्कत्वाभावस्य स्वतन्त्रस्यैवापादना- दिति भावः । अत एवेति । पर्यवसितेऽङ्गाङ्गिभावसत्त्वादिति भावः । ननु नित्यत्वालीकत्वान्यतर- मकरन्दः । हेतोर्भिन्नत्वेऽभिन्नजातीयत्वे चेत्यर्थः । हेत्वोरिति पाठेऽप्यर्थः स एवेति ॥ ४ ॥ किञ्चिदिति । अनन्यथासिद्धकिञ्चित्पदार्थावधिकोत्तरत्वव्याप्यकालसम्बन्धित्वाभाव इत्यर्थः । न चेति । परसिद्धमापादकं भवति, न च कारणत्वपर्यवसन्नप्रतियोगिनस्तन्मते प्रसिद्धिरित्यर्थः । स्व मतेप्रत्यक्षेणैव तत्प्रसिद्धेरूक्तत्वादिति भावः । अत एव तन्मतेनैवोत्तरमाह । तस्येति । तुशब्द इ- ति । परस्पराङ्गाङ्गिभावस्य तुशब्दार्थत्वादिति भावः । पक्षद्वय इति । नित्यत्वालीकत्वान्यतरपक्ष इत्यर्थः । टिप्पणी । धर्म इत्यर्थः । द्वितीये प्रमेयत्वे, प्रथमे प्रागभावत्वत्वे प्रसिद्धिरिति केचित् ॥ ४ ॥ किञ्चित्पदार्थावधिकोत्तरत्वाव्याप्येति । असमानाधिकरणेत्युक्तौ आकाशादिनिष्ठकि- ञ्चित्कालसम्बन्धित्वस्यापि तादृशोत्तरत्वसमानाधिकरणत्वादप्रसिद्धिः स्यादिति तादृशव्याप्यत्वपर्य- न्तानुधावनम् । न चाकाशादिनिष्ठकालसम्बन्धित्वस्य परमाणूत्तरत्वव्याप्यतयाऽप्रसिद्धितादवस्थ्य- मिति वाच्यम् । किञ्चित्पदार्थरूपवाधौ किञ्चित्काला सम्बन्धित्वस्य विशेषणीयत्वात् । स्वतन्त्रस्यै- चानिष्ठापादनत्वादिति ।
४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकाव्याख्यायां बोधनी। हेतुमत्त्वमवश्याश्रयणीयमिति प्रदर्शनार्थम्। अत्र कादाचित्कत्वेन सापेक्षत्वं साधितमिति। तदाह कीर्त्तिः— नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्। अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः॥ इति॥ ४॥ प्रकाशः। स्यात्, स्यादेव नित्यं स्यादाकाशवदिति स्वमते। तन्मते तु न स्यादेव केवलान्वय्यत्यन्ता- भावप्रतियोगि स्यात् खपुष्पवत्। उभयत्र तु कादाचित्कत्वं न स्यादिति। यद्वा, एतदुत्त- रकालानुत्पत्तिकोऽयं घटो यद्येतदुत्तरकालानुत्पत्तिकत्वे सत्येतत्पूर्वकालोत्पत्तिकानपेक्षोत्पत्तिकः स्या- प्रकाशिका। पर्यवसानमयुक्तम्। अलीकत्वस्य मन्मतेऽप्रसिद्धेरित्यरुचेराह। यद्वेति। केवलेति। सकलदेशका- लव्यापकेत्यर्थः। तन्मते सांख्यादीनां प्रसिद्धिरसत्ख्यातिरूपैवेति भावः। उभयत्रेति। अत्र च प्रत्येकमापाद्यत्वं तुशब्देन व्यवच्छेद्यमिति भावः। एतदुत्तरेति। उत्तरकालोत्पत्तिके मा भूदा- पादकासिद्धिरिति प्रथमं पक्षविशेषणम्। पूर्वकालीनपक्षत्वे मा भूदिष्टापत्तिरिति अयमिति पक्षविशे- षणं पूर्वकालावृत्तीत्यर्थः। घटसमानकालोत्पत्तिकसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात् पक्षी- यव्यभिचारस्यादोषत्वादिति विशिष्य पक्षयति घट इति। उत्तरकालोत्पत्तिके व्यभिचारवारणाय सत्यन्तम्। पक्षीकृतघटसमानकालोत्पत्तिके व्यभिचार इत्येतत्पूर्वकालेत्यादि। एतदव्यवहि- तपूर्वकालेत्यर्थः। तेन चिरतरपूर्वकालोत्पत्तिको दृष्टान्तः, यथाश्रुतस्याप्रसिद्ध्या दृष्टान्तासिद्धेरि- त्यवधेयम्। चिरतरपूर्वोत्पन्नस्यापि कालाद्यपेक्षतया एतत्पूर्वकालीनानपेक्षोत्पत्तिकत्वं नास्तीति पुन- रप्यप्रसिद्धिरिति प्रथमोत्पत्तिपदम्। आपाद्ये च वृत्तिः संयोगरूपा उत्पत्तिरूपा वा विवक्षितेति कालादौ व्यभिचारवारणाय द्वितीयोत्पत्तिपदम्। न च संयोगरूपा चेद्वृत्तिरापाद्येऽभिमता तदा पूर्वोत्पन्नगु- णादौ व्यभिचार इति वाच्यम्। तत्पक्षे द्रव्यत्वस्याऽऽपादकविशेषणत्वात्। वस्तुतो नापेक्षा उत्पत्ति- र्यस्येत्यर्थे यथोक्तविशेषणविशेष्यभावे न वैयर्थ्यम् यथाश्रुतेऽपीति। मिश्रास्तु नञ्द्व्यत्यासेन पूर्वकालो- त्पत्तिकसापेक्षोत्पत्तिकान्यत्वमुत्तरदलार्थ इति दृष्टान्तलाभाय नाऽव्यवहितत्वविशेषणापेक्षाऽऽपादके एवं सति गगनादेरेव दृष्टान्तत्वात्, न वा व्यर्थविशेषणता, विशिष्टाभावत्वादित्याहुः। मकरन्दः। नन्वस्मन्मते नित्यत्वपक्ष एव पर्यवस्यति, न त्वलीकत्वमसत्ख्यात्यनभ्युपगमे संव्यवहा- रिकस्यापि तस्य तत्रानभ्युपगमादित्यरुचेराह। यद्वेति। एतदुत्तरकालेति। एतत्तु पक्षविशेष- णमुत्तरकालोत्पत्तिकघटांशे आपादकासिद्धिवारणाय। पूर्वकालीनघटेऽंशतः सिद्धसाधनवारणायाय- मिति। पूर्वकालावृत्तिरित्यर्थः। एतत्कालवृत्तिसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात्, पक्षीय- व्यभिचारवारणायोगादतो विशिष्य पक्षयति। घट इति। उत्तरकालोत्पत्तिके व्यभिचारादाह सत्यन्तम्। तद्घटसमसमयोत्पत्तिकपटादौ व्यभिचारादाह। एतत्पूर्वकालेति। अव्यवहित- पूर्वकालेत्यर्थः। तथा च चिरतरपूर्वकालोत्पन्नो दृष्टान्तः। अन्यथा यथाश्रुतस्याप्रसिद्ध्या तदसि- द्धिरित्यवधेयम्। तेनापि तादृशकालाद्यपेक्षणात् दृष्टान्तासिद्धिरेवेत्यत आह प्रथममुत्पत्तिपदम्। चरममुत्पत्तिपदं चिन्त्यम्। केचित्तु वृत्तिपदेन संयोगस्य, कालस्य कालावृत्तित्वात् तत्र व्यभिचारवारणाय तदुपादानम्। न चैवं प्रागुत्पन्नगुणादौ व्यभिचारः। आपादके द्रव्यत्वस्यापि विवक्षितत्वादित्याहुः। वस्तुतस्तु नञ्द्व्यत्यासेन एतत्पूर्वकालोत्पत्तिकसापेक्षोत्पत्तिकत्वाभावो विवक्षितः। तथाच नाव्यवहितत्ववि- वक्षा, न वा अखण्डाभावे वैयर्थ्यशङ्का, न वा नित्यस्य दृष्टान्तत्वे तदसिद्धिरिति।