न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
स्तवकः ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते ९ बोधनी । केचित्तु न केवलं कुसुमाञ्जलिना न्यायो निरूप्यते मननात्मकेन ज्ञानयोगेनेव कुसुमाञ्जलिप्रदाना- त्मकेन कर्मयोगेनापि परमात्मसमाराधनतया परिकल्पितेनाविघ्नपरिसमाप्तिराशास्यत इति व्याच- प्रकाशः । हिता क्रिया, उत्पत्तिरिति यावत् । तदेव माध्वीकं मधु, तस्य भूरुत्पत्तिस्थानम् । रसपदेन स्वरूपत इष्यमाणतां दर्शयता दुःखभावोऽपि नावेद्यः पुरुषार्थ इति निरस्तम् । माध्वीकपदेन चोत्कटेच्छाविषयत्वं दर्शयता सुखहानावपि तुल्याऽऽव्ययतया नायमपुरुषार्थ इति दर्शितम् । अमृतं = मोक्षः, तस्य रस = इच्छा, तस्य प्रस्यन्दः = प्रवाह उत्तरोत्तराऽनुवृत्तिः, स एव माध्वीकम् , तस्य भूरुत्पत्तिस्थानम्—इति तु न व्याख्यानम् । मोक्षेच्छायाः पूर्वं मोक्षज्ञानादेव सञ्जातत्वाद् , उत्तरोत्तरानुवृत्तेरपि उत्तरोत्तरज्ञानसाध्यत्वात् । एतावता मोक्षजनकेश्वरविषयकानु- मितिकरणलिङ्गपरामर्शविषयलिङ्गप्रतिपादनद्वारा मोक्षानुकूलत्वमस्य दर्शितम् । प्रकाशिका । शब्दस्य कर्मविशेषवाचकस्यासम्बद्धसम्बन्धोपहितधात्वर्थरूपक्रियावाचकत्वमजहत्स्वार्थलक्षणया, कर्मणोऽसम्बद्धदेशसम्बन्धोपहितत्वमुत्पत्तेरप्यसम्बद्धलक्षणायक्षणसम्बन्धोपहितत्वम्, तथा च भव- त्यसम्वद्भावक्षणसम्बन्धरूपोत्पत्तिः प्रस्यन्दपदवाच्येति भावः । अत्रापि "कृदभिहित" इति न्यायात् प्रस्यन्दमानेत्यर्थः, तेनोत्कटेच्छाविषयत्वं दर्शयतेत्यग्रिमग्रन्थविरोधो न भवति, अन्यथोत्पत्तेरुत्कटे- च्छाऽविषयतया तद्विरोधात् । उत्पत्तिरिति यावदिति । नचोत्पत्तेरुत्पत्तिस्थानमिति पर्यवसितं तथा चानन्वय इति वाच्यम् । भूरित्यस्य व्याख्यानं स्थानम्, उत्पत्तिरित्यनुवादमात्रमिति भावात् । रसपदेनेति । इदमुपलक्षणम् , प्रस्यन्दपदेनोत्पन्नत्वं दर्शयताऽत्यन्ताभावरूपतया कृत्यसाध्यत्वेना- पुरुषार्थत्वशङ्का निराकृतेत्यपि बोध्यम् । अञ्जलेः करसंस्थानभेदस्य न माध्वीकोत्पत्त्यधिकरणत्वमित्य- मकरन्दः । तस्य माध्वीकपदादुत्कटेच्छाविषयत्वमिति नाग्रिमग्रन्थविरोधः । अन्यथोत्पत्तेरुत्कटेच्छाविषयत्वं दर्शनाप्राप्तौ तद्विरुद्धध्येतेत्यवधेयम् । रसपदेनेति । एतच्चोपलक्षणम् । प्रस्यन्दपदेनोत्पन्नत्वं दर्श- यताऽत्यन्ताभावत्त्वादिना अपुरुषार्थत्वशङ्का निराकृतेत्यपि बोध्यम् । संयुक्तकरद्वयात्मकस्याञ्जलेर्मा- टिप्पणी । रस्यमानममृतमित्यत्र कृदन्तपदार्थस्य विशेष्यीभूतं यद् द्रव्यं लिङ्गसङ्ख्यान्वययोग्यं भावस्य धात्वर्थस्य कारकममृतादिकं यथा 'प्रकाशने' शाब्दविषयो भवति, तथैवामृतरस इत्यत्र द्रव्यपदार्थ विशेष्यतया प्रतीयमानभावार्थाभिधायिना कृदन्तपदेनापि तात्पर्थ्यवशाल्लक्षणया शाब्दविषयो- भवतीति न्यायार्थः । भावप्राधान्यप्रतिपत्तिरूपप्रयोजनाभिसन्धिना भावकारकपदमप्रयुज्य यत्र भावपदं प्रयुक्तं तत्र तद्भावपदं विवक्षितातिशयविशिष्टभावकारकं प्रकृतवाक्यार्थान्वययोग्यं लक्षयतीत्यत्र तात्पर्थ्यम् । तेन पाक इत्यादौ पाककर्म्मादिप्रतीतेर्नापत्तिः, स्वायत्ते शब्दप्रयोगे विवक्षिते च पक्त्वे पक्वपदमप्रयुज्य पाकपदप्रयोगे कारणस्य प्रयोजनविशेषप्रतिपित्साया अभावात् । अत्र हि यथा गङ्गायां घोष इत्यत्र गङ्गातारे घोष इति प्रयोगे सहृदयलभ्यस्य शैत्यपावनत्वविशे- षप्रतिपत्तिरूपप्रयोजनस्यानिरूप्तेः तत्सम्पादयिषया गङ्गापदप्रयोगः, तथा रस्यमानपदप्रयोगे स्वतः प्रयोजनार्थविषयकत्वरूपप्राधान्यरूपविशेषविशिष्टेच्छाप्रतिपत्तिरूपप्रयोजनस्य सहृदयलभ्य- स्य दुर्लभतया तत्सम्पादयिषया रसपदप्रयोगः । स च रस्यमानस्य रसात्मताप्रतिपत्तिमुखेन रसप्राधान्यपर्यवसायी शक्नोति प्रयोजनं सम्पादयितुमिति भावः । अमृतप्रायो यो रसस्तं २ न्या० कु०
१० न्यायकुसुमाञ्जलौ [ प्रथमः- बोधनी । क्षते, तत्र न्यायेनोपार्जितः प्रसूनाञ्जलिर्न्यायप्रसूनाञ्जलिरिति ॥ १ ॥ ननु देहादिव्यतिरिक्तस्य नित्यस्यापरस्यात्मनस्तत्त्वज्ञानं संसारनिदानतद्विषयमिथ्याज्ञानादि- निवृत्तिद्वारेण निर्वाणकारणं वर्णयन्ति । यथाहुः—"दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापा- यात्तदनन्तराभावादपवर्गः"(१) (न्या. सू. १. १. २) इति । विवेचितश्चायमात्मतत्त्वविवेक इति प्रकाशः । अथ च न्याय इव प्रसूनाञ्जलिः = अञ्जलिस्थानि कुसुमानि, तत्रानघत्वं न्यायोपात्तत्वमप र्युषितत्वादि च । रूपकपक्षेऽपि न साधर्म्यं विना तदिति तदुभयसाधर्म्यमाह--सत्पक्षेति । "पचि व्यक्तीकरणे" इति धात्वनुसारात् पक्षशब्दो दलवचनः । सत्पक्षाणां प्रसरो यत्र, सता पक्षेणानुकूलेन रविकरणादिना विकासो यस्येति वा । तेन हस्तादिना कलिकाप्रकाशो निषिद्धः । यद्वा, सत्पक्षप्रसरः = सदनुकूलविकासः । सतां = सुकृतिनामनुपहतघ्राणानां, परिमलः = सौरभविशेषः, तस्य यः प्रोद्बोधः = प्रकृष्टज्ञानम् । तेन बद्धः = स्थिरीकृत उत्सवो येन स तथा। विमर्दने = करपुटसम्पर्के, न विम्लानो = नान्यथाभूतसंस्थानः । अमृतप्रायो रसः, तं प्रस्यन्दते इति प्रस्यन्दः । कर्मण्यण् । अमृतरसप्रस्यन्द एव माध्वीकम् , तस्य भूरुत्पत्तिस्था- नम् । यद्वा, अमृतमिव रसो यस्य । प्रस्यन्दते इति प्रस्यन्दः । अनयोः कर्मधारयः ॥ १ ॥ ननु कर्मसु विद्यमानेषु जन्मानुच्छेदात् , तेषां चाभुक्तानामक्षयाद् भोगेन च तद्धेतुना पुनः कर्मान्तरार्जनात् काशेषविशेषगुणोच्छेदो मोक्षः । नापीश्वरे प्रमाणव्युत्पादनस्य मोक्षहेतुत्वे मानमिति तन्निष्फलम् । किञ्च, ईश्वरमननस्य मोक्षहेतुत्वे मानाभावः "आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्य"इति श्रुतौ सामानाधिकरण्याद् यद्विषयकः साक्षात्कारो मोक्षजनक- स्तद्विषयकं मननं मोक्षहेतुः । साक्षात्कारश्च न जीवात्ममात्रगोचरो, न वेश्वरविषयकस्तथा । मिथ्या- ज्ञानध्वंसद्वारा ह्यस्य तद्धेतुत्वम् । न च जीवात्ममात्रगोचरमीश्वरगोचरं वा मिथ्याज्ञानं संसारहेतु- र्येन तदुच्छेदस्तद्द्वारं स्यात् । किन्तु स्वात्मगोचरं मिथ्याज्ञानमिति तत्तत्त्वसाक्षात्कार एव मोक्ष- हेतुरित्यत आह । प्रकाशिका । न्यथा व्याचष्टे । अञ्जलिस्थानीति । नन्वमृतप्रायो रस इत्यत्र रसशब्दस्य गुणपरत्वे तं प्रस्यन्दत इत्यनन्वयः तस्य कर्मविशेषवाचकत्वात् , द्रव्यपरत्वे सुतरां तत एव । न च जनयतीति तस्यार्थः, तथाच गुणपरतयैव सङ्गतिरिति वाच्यम् । लक्षणापत्तेरित्यरुचेराह । यद्वेति ॥ १ ॥ नन्वीश्वरमननद्वारा प्रमाणव्युत्पादनं मोक्षोपयोगि स्यादित्यत आह--किञ्चेति । जीवा- मकरन्दः । ध्वीकोत्पत्तिस्थानकत्वादिकमसम्भवदित्यत आह । अञ्जलिस्थानीति ॥ १ ॥ किञ्चेति। तथाचेश्वरमननद्वाराऽपि तद्व्युत्पादनं न मोक्षप्रयोजनमिति भावः। ननु प्रमाणव्युत्पाद- टिप्पणी । प्रस्यन्दत इति अन्तर्भावितणिचः प्रयोगः, तेन स्यन्दधातोरकर्मकत्वेऽपि न क्षतिः ॥ १ ॥ नन्वीश्वरमननद्वारा प्रमाणव्युत्पादनं मोक्षोपयोगि स्यादित्यत आह--किञ्चेति । साक्षा- त्कारश्च न जीवात्ममात्रगोचर इति । नायं प्रकृतोपयोगी किन्तु विवेचनमात्रं, दृष्टान्तार्थं ( १ ) दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति विश्व- नाथपञ्चाननसम्मतः पाठः । तदनन्तराभावादिति न्यायसूचीनिबन्धे न्यायसूत्रविवरणे च पाठः ।
स्तवकः १ ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते ११ स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः ।
· बोधनी । किमनेन परमात्मनिरूपणेनेत्यत्राह—स्वर्गापवर्गयोः इति। साक्षात्कृतपरमेश्वरप्रसादसहकृतमेव हि जीवात्मज्ञानमपवर्गमातनोति । तथाचामनन्ति—“द्वे ब्रह्मणी वेदितव्ये परं चापरं च” “द्वा सुपर्णा सयुजा सखाया” इत्यादि । गुडजिह्विकया रागिजनमात्रर्जयितुमत्र स्वर्गोपादानं, तेऽपि दुःखसन्तमससन्तप्तासु सुखखद्योतिकासु निर्विद्य मुमुक्षवो भविष्यन्तीति भावः । न चैकस्या एवो- पास्तेः कथं परस्परविरोधिस्वर्गापवर्गहेतुत्वमिति वाच्यम् । उपासकसङ्कल्पादिसहकारिविशेषेण सामग्रीभेदादुपपत्तेः । यद्वा, अत्र पूर्वत्र सूचितयोर्विषयप्रयोजनयोः स्पष्टी करणेनेश्वरोपास्तेरपवर्ग-
प्रकाशः। स्वर्गेति । स्वर्गायो रुत्कटरागगोचरयोः, अपवर्गयोरपरपरयोर्मुक्तयोः, मार्गमुपायमित्यर्थः । तथा च परापरमुक्त्योरेकानुष्ठानसाध्यतां दर्शयता जीवन्मुक्तिसहिता परममुक्तिः साध्येति दर्शितम् । तेन च न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य देहिन इत्यपूर्वकर्म्मोपार्जनशङ्का निरस्ता। ईश्वर- मननञ्च न तद्गोचरं प्रमाणमव्युत्पाद्य शक्यं व्युत्पादयितुमिति तद्बोधक(१)प्रमाणव्युत्पादनमपि मोक्षहेतुः । प्रमाणव्युत्पादने च तत एव मननसिद्धौ न मननपर्यन्तं ग्रन्थव्यापारः, धूमोऽस्तीति
प्रकाशिका। त्समात्रगोचर इति दृष्टान्तार्थम् । ननु तत्प्रमाणव्युत्पादनस्य ग्रन्थरूपस्य शाब्दात्मकतया तस्या- नुमितिजनकत्वे शाब्दत्वानुमितित्वयोः सङ्करः स्यादत आह—प्रमाणव्युत्पादने चेति ।
मकरन्दः। नरूपग्रन्थस्य शाब्दात्मकस्येश्वरानुमितिजनकत्वे जातिसङ्कर इत्यत आह। प्रमाणव्युत्पादने चेति।
टिप्पणी । वेति ध्येयम् । हीनक्लेशस्य जीवन्मुक्तस्य प्रवृत्तिः, 'प्रतिसन्धानाय' अपूर्वकर्म्मणे न भवतीत्यर्थः। इति हेतौ, अयं शङ्कानिरासेऽन्वेति तथा च मुक्तिर्नास्तीति भावः । जीवन्मुक्तानां मद्यस्त्रीनिषेवणं, ब्रह्महत्यादिकं, तपो यज्ञादिकं च, केवलपूर्वकृतकर्म्मणां फलीभूतसुखदुःखादिहेतुतयैवावतिष्ठते न पुनः फलाय । तथा च श्रुतिः “जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे” “अभयं वै जनक प्राप्तो- ऽसीत्याद्या, एवं “तत्सुकृतदुष्कृते विधुनुते” “एनं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरव”मित्याद्यापीति। तद्द्वारेति। द्वारताया जन्यत्वव्याप्यत्वेनेश्वरमननस्य तत्त्वे शाब्दा- नुमितित्वयोः सङ्करप्रसङ्गोऽत आह—प्रमाणव्युत्पादने चेति । तत एव प्रमाणादेवेत्यर्थः । यागादेः स्वर्गपर्यन्तव्यापारत्वमदृष्टस्यान्यथाहेतुत्वानुपपत्त्या कल्प्यते । अनुमानप्रमाणस्यान्यत्र हेतुतायाः क्लृप्तत्वादिति भाव । ग्रन्थव्यापार इति । साक्षाद्व्यापार इत्यर्थः । येन तत्र शाब्दत्वं स्यात् । साक्षाद्व्यापारस्तु प्रमाणप्रतिपत्तिपर्यन्तमेवेति भावः । द्वारता च परम्परयेति बोध्यम् । ननु प्रमाणव्युत्पादनस्य मननपर्यन्तव्यापाराभावेऽमृतस्येत्यादिना सूचितस्य प्रयोजनवत्त्वस्यानिर्वाह इत्यत आह—धूमोऽस्तीत्यादि । प्रमाणव्युत्पादनस्य सन्निहितत्वेन न मनने कश्चिद्विलक्षणो व्यापारः, अपि तु धूमोऽस्तीत्यादिवाक्यस्य व्यवहितस्यैव साधारणो व्यापारोऽस्त्येवेति भावः ।
( १ ) तद्वारेति पाठान्तरम् ।
. १२ न्यायकुसुमाञ्जलौ [ प्रथमः- यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ २ ॥ बोधनी। हेतुत्वे श्रुतीः प्रमाणयतीति ॥ २ ॥ प्रकाशः। वाक्यस्य यथा वह्निविषयानुमितिपर्यन्तव्यापारत्वमिति । ईश्वरमननाङ्गतया तत्प्रमाणव्युत्पादन- मपि प्रयोजनवदिति सूचितम् । ईश्वरमननञ्च मोक्षहेतुः । “तमेव विदित्वाऽतिमृत्युमेति” इति श्रुत्या स्वात्मज्ञानस्येव ईश्वरज्ञानस्यापि तद्धेतुत्वप्रतिपादनात् । “द्वे ब्रह्मणी वेदितव्ये” इत्यत्र वेदनमात्रस्याकाङ्क्षितत्वेन प्रकृतत्वात् । श्रोतव्यो मन्तव्य इत्यादेरन्वयाच्च । ईश्वरमननञ्च यद्यपि मिथ्याज्ञानोन्मूलनद्वारा नोपयोगि, तथापि स्वात्मसाक्षात्कार एवोपयुज्यते । यदाहुः— “स हि तत्त्वतो ज्ञातः स्वात्मसाक्षात्कारस्योपकरोति” इति । यद्वा, श्रुत्या तद्धेतुत्वे प्रमापिते तदनुपप- त्त्याऽदृष्टमेव तद्द्वारं कल्प्यते । केचित्तु मोक्षस्यात्र प्रस्तुतत्वात् स्वर्गपदं मुख्यमेव दृष्टान्तार्थमु- पात्तमित्याहुः । उपास्तीत्यत्र, “ण्यासश्रन्थो युच्” [ पा० सू० ३।३।१०७ ] इति युज्न भवति । “क्वचिदपवादविषयेऽप्युत्सर्गः प्रवर्त्तते”—इति न्यायाद्, बहुलवचनाद्वा । यद्वा धातुनिर्देशे शित्पोऽयं प्रयोगः । तस्य च धातुरूपशब्दाभिधायकत्वेऽप्यर्थे द्विरेफपदवल्लक्षणा ॥ २ ॥ प्रकाशिका । तमेवेति। प्रकरणादीश्वरस्यैव तत्पदादुपस्थितेरिति भावः। ननूक्तयुक्त्येश्वरमननस्य मुक्त्यहेतुत्वेऽ- योग्यतया प्रकृतमपीश्वरमपहाय योग्यतयाऽऽत्मन एव तत्पदेन परामर्शः स्यादिति साशङ्कं प्रमाणमप- हाय निश्शङ्कमागमं प्रमाणयति। द्वे इति। वेदनमात्रस्येति । वेदनसामान्यस्येत्यर्थः। नन्वीश्वरम- ननानुपदमेव स्वात्मसाक्षात्कारानुत्पादाददृष्टद्वारा तद्धेतुत्वं वाच्यम्, एवं च लाघवाददृष्टद्वारा मुक्तावेव तत्कारणमस्तु, उपकारित्वं सहकारितैवास्त्विति तथैव सिद्धान्तयति। यद्वेति । उक्तबाधकान् मुक्त्य- सम्भव इत्याशङ्कानुद्धारान्नैवं स्यादित्यरुचिं विभावयति। केचिदिति । तस्य चेति । नन्वत्र शित्- पदे वा लक्षणा उपास् पदे वा ? नाद्यः, तस्य प्रकृतेः स्वबोधकत्वतात्पर्यग्राहकत्वेन उपसर्गवदशक्तत्वात् , अन्यथा तत्तद्धातूपसन्धानेनानन्तशक्त्यापत्तेः, स्वपरेणोपास्पदेन सह पौनरुक्त्यापत्तेश्च । नान्त्यः, तस्यार्थे शक्तत्वादेवेति चेत् । मैवम् । धातुत्वेन रूपेण शित्पो धातुमात्रे शक्तेः, उपास्धातुरिति उपास्तीति पदात् प्रतीतेः, अत एवोक्तं तस्य च धातुरूपेति । धातुत्वं च क्रियावाचित्वमेव। नचैवं यागपाकादौ पदे तिप्प्रयोगापत्तिः, केवलस्यासाधुत्वात्, धातुसमभिव्याहारे च तदुपस्थापकत्वादेव । एवं च प्रकृतिप्र- मकरन्दः। तमेवेति । प्रकरणादीश्वरस्यैव तत्पदादुपस्थितेरिति भावः । ननूक्तयुक्त्येश्वरज्ञानस्य मुक्त्यहेतुत्वेनायोग्यतया तदपरामर्शे स्वात्मैव तेन परामृष्यत इति यदि ब्रूयात्तत्राह । द्वे इति । नन्वेवमपि मननं नायातमित्यत आह । वेदनमात्रस्येति । वेदनसामान्य- स्येत्यर्थः । नन्वनुपदं स्वात्मसाक्षात्कारानुत्पत्तेरदृष्टद्वारा तद्धेतुत्वं तस्य वाच्यमेवञ्च तद्द्वारा- मुक्तावेव तद्धेतुत्वमस्तु लाघवात् , तदुपकारश्च तत्सहकारितयाऽप्युपपद्यत इत्यरुचेराह । यद्वे- ति । केचित्त्विति । उक्तबाधकान्मुक्त्यसम्भव इत्याशङ्कायां नैवं समाधानमित्यस्वरसो बोध्यः । तस्येति । ननु शित्पस्तन्न न लक्षणा, तस्य प्रकृतेः स्वपरत्वतात्पर्यग्राहकत्वमात्रेणोपपत्ता- वुपसर्गवदशक्तत्वात् । किञ्च, तस्यार्थे शक्तत्वे किं लक्षणया, शब्दशक्तत्वे तस्योपास्पदादेव स्वल- टिप्पणी । किञ्चेत्यादेरुत्तरमाह- ईश्वरमननेति । मोक्षहेतुरत्रापि प्रयोजकत्वमेव हेतुत्वमिति
स्तवकः ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते १३ प्रकाशिका । त्यगाभ्यां लक्षण्या शक्त्या वोपास्धातुज्ञाने जाते ज्ञाप्यसम्बन्धिन्युपासनारूपेऽर्थे श्तिप्पदस्य लक्षणा गम्भीरायां नद्यामित्यत्र गम्भीरनदीतीरे नदीपदस्येव, अस्तु वा क्रियावाचित्वरूपे धर्ममात्र एव शक्ति- र्लाघवात् । अत्रापि कल्पे विशिष्टलक्षणा पूर्वकल्पवदेव। नचैवमेकलक्षणैवेति द्विरेफपददृष्टान्तोपादानम सङ्गतमिति वाच्यम् । न हि द्विरेफपदे लक्षणाद्वयं किन्तु शब्दघटितसम्बन्धेनैकेव लक्षणा, तथाचा- त्रापि शब्दघटितेन सम्बन्धेन शब्दोपस्थापकस्यार्थे लक्षणेत्यत्रैव च तद्दृष्टान्तोपादानात् । न च तत्र द्विरेफपदेन भ्रमरपदोपस्थितिः, तेन चार्थस्य शक्यस्योपस्थितिरिति नोक्तक्रमेणापि तद्दृष्टान्ततेति वाच्यम् । तथा सति द्विरेफपदोत्तरविभक्त्यर्थस्यार्थेऽन्वयापत्तेरिति । वस्तुतस्तु उपास्तिपदस्यार्थे लक्षणेति कल्प एवायमसङ्गतः, "इक्श्तिपौ धातुनिर्देशे" इति वार्त्तिकेन शब्दपरतायामेव तस्य साधु- त्वानुशासनात् अन्यथाऽपादानानुशिष्टायाः पञ्चम्याः कर्मणि लक्षण्या प्रयोगापत्तेः । न च सुब्विभक्तौ लक्षणाविरहान्न तथेति वाच्यम् । तत्कल्पनायामपि साधुत्वविरहस्यैव मूलत्वात् । अत एव व्यत्य- यानुशासनस्थले लक्षणा स्वीक्रियत एव । न च तत्र शक्तिरेव, अन्यथा व्यत्ययानुशासनवैयर्थ्यमिति वाच्यम् । गौरवात्, व्यत्ययानुशासनस्य लक्ष्यविशेषे साधुत्वज्ञापकत्वात् । श्तिपो धातुत्वविशिष्टे शक्तिरित्यपि न युक्तम् । तस्य प्रकृतेः स्वरूपपरतायां तात्पर्यमात्रग्राहकत्वात् , अन्यथाऽस्तिर्धातु रित्यादिप्रयोगे पौनरुक्त्यापत्तेरिति ॥ २ ॥ मकरन्दः । क्षणया लाभे तच्छक्यकल्पनात् । अन्यथा पौनरुक्त्यापत्तेः । तत्तद्धातुसमभिव्याहारे तत्तदनन्त शक्त्यापत्तेश्च । नचोपास्पद एव लक्षणा । तस्योपासनारूपार्थशक्तत्वादेव । प्रत्युत स्वलक्षणाभ्यु- पगमादिति चेत् । अत्राहुः । उपास्तीत्यादिना उपास्धातुरित्यादिप्रत्ययाद् धातुत्वेन धातौ श्तिपः शक्तिः । तदिदमुक्तं, धातुरूपशब्दाभिधायकत्वेऽपीति । तथाच न शक्त्यानन्त्यादिदोषः । अन्यथा धातुत्वप्रकारकप्रत्ययानुपपत्तेः । न च धातुत्वं नानुगतमिति वाच्यम् । क्रियावाचित्वस्य तथात्वा- त् । नचैवं यागपाकपदादपि तत्प्रयोगापत्तिः । केवलस्यासाधुत्वात् । धातुसमभिव्याहारे च तत्त- द्धात्वन्वयबोधजनननियमेन तदप्रतिपादकत्वात् । अत एव परमते कार्यत्वं लिङः प्रवृत्तिनिमित्तम् । अस्तु वा क्रियावाचित्वे धर्ममात्र एव शक्तिः, धर्मिणः प्रकृतिलभ्यत्वात् । एवञ्च प्रकृतिप्रत्ययाभ्यां स्वलक्षण्या शक्त्या च उपास्धातुरिति विशिष्टानुभवे जनिते स्वज्ञाप्यधातुत्वविशिष्टोपास्सम्ब- न्धिनि उपासनारूपेऽर्थे गभीरनदीतीरे तीरपदस्येव श्तिप्पदे लक्षणा । ज्ञाप्यसम्बन्धमात्रस्य लक्षणा- त्वात् । एवञ्च धातुशक्तत्वेऽपि लक्षण्या धात्वर्थमात्रलाभः स्यान्न तूपासनारूपार्थलाभ इति निर- स्तम् । नचैवमेकलक्षणैव, न तु लक्षितलक्षणेति द्विरेफपददृष्टान्तोपादानमसङ्गतमिति वाच्यम् । शब्दोपस्थापकस्यार्थे लक्षणेत्यत्र दृष्टान्तात् । किञ्च, द्विरेफपदेऽप्येकलक्षणैव परम्परासम्बन्धेनार्थो- पस्थापिका । यदि च तत्र भ्रमरपदं लक्षयित्वाऽर्थो लक्ष्यते इति लक्षणाद्वयं, तदा प्रकृतेऽप्युपास्- पदं लक्षयित्वैवार्थो लक्ष्यते इति तुल्यम् । इयांस्तु विशेषो यत्तत्रैकमेवोभयलक्षकम् अत्र तु न तथेति । न हि सर्वप्रकारेण दृष्टान्तत्वम् । असम्भवात् । नचान्यपदार्थोपस्थितभ्रमरपदादेव भ्रमरपदार्थो- पस्थितिसम्भवे द्विरेफपदे कथमर्थलक्षणेति वाच्यम् । तथात्वे द्विरेफपदोत्तरविभक्त्यर्थस्य तत्रान- न्वयापत्तेरिति दिक् ॥ २ ॥ टिप्पणी । भावः ॥ २ ॥
१४ न्यायकुसुमाञ्जलौ [ प्रथमः- इह यद्यपि यं कमपि पुरुषार्थमर्थयमानाः, शुद्धबुद्धस्वभाव इत्यौप- निषदाः, आदिविद्वान् सिद्ध इति कापिलाः, क्लेशकर्म्मविपाकाशयैरपरामृष्टो- बोधनी । प्रकरणारम्भमाक्षिपति । इहेत्यादिना । किं निरूपणीयमित्यन्तेन । सन्दिग्धे न्यायः प्रवर्त्तते न हि सिद्धे । सिद्धश्चायमात्मा सर्ववादिनाम् । तस्मादस्य न्यायविषयत्वासम्भवात् तद्विषयकन्यायव्युत्पा- दकं प्रकरणं नारम्भणीयमिति तात्पर्य्यम् । इह=परमात्मनि प्रकरणे वा, किं निरूपणीयमिति सम्ब- न्धः, अर्थयमाना इत्यस्य चोपासते इत्यनेन । सर्ववादिसम्प्रतिपत्तिदर्शनं शुद्धेत्यादि । शुद्धः= केवलः, अद्वितीय इति यावत् । अत एव बुद्धः=स्वप्रकाशः । द्वितीयाभावे परप्रकाशयत्वासम्भवात् । आदिविद्वान्=स्वारसिकचैतन्यः, न तु बुद्धिवदिति; छायापत्त्या तथात्वे सत्यादिविद्वत्ताविरोधात् । सिद्धः=कूटस्थनित्यः, न तु प्रकृत्यादिवत् केनचिदपि रूपेण साध्य इति । अविद्यास्मितारागद्वेषाभि- निवेशाः क्लेशाः । तत्र विपरीतख्यातिरविद्या । अहमस्मीत्यभिमानोऽस्मिता । रागद्वेषौ सुखदुःख प्रकाशः । भगवदुपासना फलवती, निरूपणञ्च क्रियते, इत्यसङ्गतिं परिहरन् वादिनां विप्रतिपत्त्यभावेन न्यायाङ्गं संशयमाक्षिपति— इहेति । इह = विचारे । सन्देह एव न्यायपूर्वाङ्गं कुतः । अत्र हेतुः प्रसिद्धानुभावे । अनुभावः असाधारणीं कारणतामाह—यं कमपीति । यं कमपि=मोक्षादिकं स्वाभिमतं पुरु- षार्थमर्थयमानाः, यमीश्वरमुपासते मननविषयीकुर्वन्तीत्यौपनिषदा इत्यादौ सर्वत्र सम्ब- न्धः । शुद्धः = एको, द्वितीयाभावात् । बुद्धः = स्वप्रकाशज्ञानात्मकः । द्वितीयाभावेन परप्रकाशय- त्वानुपपत्तेः, एतदुभयवेदान्तिसाधारणम् । आदीति । आदौ=प्रथमतः, विद्वांश्चिद्रूपः स्वभाव- तश्चेतनो, न तु प्रकृतिवच्चेतनोपरागादौपाधिकं चैतन्यं तस्येत्यर्थः । सिद्धो = नित्यो, न तु बुद्ध्या- दिवत् साध्यः । तेन कूटस्थनित्यो, न तु प्रकृतिवत् परिणामिनित्य इत्यर्थः । एतच्च सकलक्षेत्रज्ञसा- धारणत्वान्न परमात्मोत्कर्षाभिधायकमित्यन्यथा व्याख्येयम् । आदौ=सर्गादौ । विद्वान् = ज्ञानवान्, सिद्धो = योगर्द्धिसम्पदुत्पादिताष्टाविधैश्वर्य्यसम्पद्युक्त इत्यर्थः । यथोक्तं तत्त्वकौमुद्यां वाचस्पति- मिश्रैः—“सर्गादावादिविद्वानत्रभवान् कपिलो महामुनिर्धर्मज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रादुर्भूवेति स्मरन्तीति” । क्लेशेति । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । कर्म्म=धर्माधर्महेतु- प्रकाशिका । परिहरन्निति वर्त्तमानसामीप्ये, तेन परिहरिष्यन्नित्यर्थः । अन्यथा परिहारस्य सिद्धान्ते- नाभिधानादाक्षिपतीत्यनेनानन्वयापत्तेः । ननु सन्देहाभावे का क्षतिरत आह—न्यायेति । उभ- मकरन्दः । ननु माऽस्तु सन्देह इत्यत आह । न्यायेति ॥ त्रिदण्डिमतमेकदण्डिमतञ्चेत्युभयम् । बुद्धद्यात्मनोरेकत्वेन ज्ञानमस्मितेत्येके । अहङ्कार टिप्पणी । परिहरन् वादिनां विप्रतिपत्त्यभावेनेति । परिहन्निति वर्त्तमानसामीप्ये तेन परिहरिष्यन्नित्यर्थः । अन्यथा परिहारस्य सिद्धान्तेनाभिधानादाक्षिपतीत्यनन्वयापत्तेरिति । अनुभा- वोऽत्रासाधारणीङ्कारणतामाहेति । प्रसिद्धोऽनुभावोऽसाधारणकार्य्यं यस्येति व्युत्पत्त्या प्रसि- द्धस्वकार्यकत्वरूपकारणत्वस्य लाभानानुभावशब्दस्याग्रेऽसाधारणकार्ये व्याख्यानेन विरोधः । उपा- सनास्वरूपमाह । शुद्ध एको द्वितीयाभावादिति । एतदुभयवेदान्तिसाधारणमिति ।
निर्म्माणकायमधिप्राय (१)सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जलाः, लोकवेद- बोधनी । तत्साधनविषयौ प्रसिद्धौ । प्राप्तेश्वर्यभङ्गभीतिरभिनिवेशः । धर्माधर्मसाधनमश्वमेधादिब्रह्महत्यादि कर्म । जात्यायुर्भोगा विपाकाः । तत्र जातिर्देवत्वमनुष्यत्वादिः। प्राणाख्यस्य वायोः कायावच्छिन्नः सम्बन्ध आयुः । स्वसमवेतसुखदुःखान्यतरसाक्षात्कारो भोगः । आफलनिष्पत्तेरात्मनि शेत इत्याशयो धर्माधर्मरूपमपूर्वम् । एतैरपरामृष्टः सर्वदा सर्वथाऽसंसृष्टः । कथं तर्हि कर्माद्यभावे शरीरसम्बन्धः, कथं वा तदभावे सम्प्रदायप्रवर्त्तकत्वं, कथं वानुग्राहकत्वमित्यत उक्तं—निर्माण इति । जगन्निर्माणार्थं स्वेच्छामात्रनिर्मितानि संसारिचेतनवर्गनिर्मितानि वा शरीराणि व्युत्पाद्यव्युत्पादकभावेनाधितिष्ठति । सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो = वेदो घटपटव्यवहारश्च, तत्प्रवर्त्तको वक्ता प्रवक्ता च वेदे कर्त्ता ग्राहयिता चान्यत्र, अनुग्राहकः = स्वर्गापवर्गादिफलप्रदानादिनेति । लोकवेदविरुद्धैः = चिताभस्मोद्धूलन देवदारुवनद्विजवधूविप्लवादिभिरनुष्ठितैरलेपः लोकगर्ह्याऽधर्मेण रहितः । क्लेशसलिलाव- सिक्तायामात्मभूमौ उप्तं कर्मबीजमधर्माङ्कुरमारभते, न च नित्यसर्वज्ञस्य क्लेशसम्भवः । प्रकाशः । र्भावनासाध्यं यागहिंसादि । विपाको=जात्यायुर्भोगाः । फलपर्य्यन्तमाशेरत इत्याशया = धर्मा- धर्म्माः । तैरपरामृष्टोऽसम्बद्ध इत्यर्थः । शरीरैकनिष्पाद्यवेदादिनिर्म्माणार्थं कायो निर्माण- कायः । सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो वेदः । स चानादिरेव भगवता द्योत्यते । भगवतश्चादृष्टाभावेऽपि तच्छरीरसाध्यघटादिजन्यभोगजनकास्मदाद्यदृष्टैरेव तन्निष्पाद्यते । अनु- ग्राहको घटादिनिर्माणे शिक्षाद्वारेत्यर्थः । लोकेति । लोकविरुद्धैः = सर्पदहनधारणादिभिः, (२) प्रकाशिका । येति । एकदण्डित्रिदण्डीत्यर्थः । यद्यपि शुद्धमद्वैतं त्रिदण्डिमते नास्ति तेन भेदास्याङ्गीकारात् । तथाप्यभेदोऽपि तेन स्वीक्रियत एवेत्यभिप्रायेणेदमुक्तम् । बुद्धत्वमात्राभिप्रायेण वा साधारण्यमुक्तम्। एतदुभयमिति क्वचित् पाठः । तत्र केवलोपनिषदुपजीवी औपनिषदशब्दार्थः, तन्मूलकवेदान्त- सूत्रोपजीवी वेदान्तिपदार्थ इति बोध्यम्। लेपपदस्य पापपरतायां तृतीयायाः करणार्थत्वमसम्भवि निर्लेपत्वप्रतियोगिनि लोकविरुद्धहेतुकस्यानन्वयादनुयोगिनि चोभयस्यैवानन्वयादित्यपलक्षणं मकरन्दः । इत्यन्ये । वेदे नित्यपाल्यत्वमुच्चार्यत्वं, न तूह्याद्यत्वम् । स चेत्याद्यग्रिमग्रन्थानुरोधात् । ननु लेप शब्दस्य पापपरत्वे तृतीयायाः करणार्थत्वमयुक्तम् । लोकविरुद्धहेतुकलेपस्याप्रसिद्धेरित्यत आह । टिप्पणी । एकदण्डित्रिदण्डिसाधारणम् । यद्यपि शुद्धमद्वैतं त्रिदण्डिमते नास्ति तेन भेदाङ्गीकारात् , तथाप्य- भेदोऽपि तेनाङ्गीक्रियत एवेत्यभिप्रायोक्तिः । जात्यायुर्भोगा इति । जातिः ब्राह्म- ण्यादि । आयुः = श्वासप्रश्वासपरिच्छिन्नकालविशेषावधिकप्राणशरीरसंयोगः । भोगः = सुखदुःखादिः । फलपर्य्यन्तमाशेरते इत्याशया धर्माधर्मा इति तैरपरामृष्टोऽसम्बद्ध इत्यर्थः । ( १ ) सम्प्रदायप्रवर्तक इति वरदराजाभिमतः पाठः । ( २ ) सर्पदहनेत्यत्र द्वन्द्वः ।
१६ न्यायकुसुमाञ्जलौ [ प्रथमः- विरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति बोधनी । स्वतन्त्रः कर्त्ता । महापाशुपताः = महाव्रतचारिणः पाशुपताः । शिवः = निस्त्रै- गुण्यः । पुरुषोत्तमः = पुरुषेभ्य उत्तमः । उत्तमत्वं च सर्वज्ञत्वमसंसारित्वं चेति स्वयमेव प्रकाशः। वेदविरुद्धैः=दारुवनद्विजवधूविध्वंसनैरुपलक्षितः(१)। इत्थम्भूतलक्षणे तृतीया । सोऽयमित्थम्भूतो- ऽपि निर्लेपः = पापरूपलेपरहित इत्यर्थः । करणे वा तृतीया । वेदविरुद्धहेतुक-भोगजनकविशेषगुण- रहित इत्यर्थः । स च सुखं दुःखं धर्म्माधर्म्मौ चेति । मिथ्याज्ञानसलिलावसिक्तायामात्म- भूमौ कर्म्मबीजं धर्म्माधर्म्माङ्कुरमारभते, न तु तत्त्वज्ञाननिदाघनिपीतसलिलतयोपरायामिति भावः । स्वतन्त्रो = जगत्कर्त्ता । शिवो = निस्त्रैगुण्यः । पुरुषेषूत्तमः सर्व्वज्ञत्वात् । प्रकाशिका । तृतीयार्थ इति मत्वा व्याचष्टे । उपलक्षित इति । लेपपदं दुःखस्यापि वाचकमिति प्रतियोगिन्येव करणस्यान्वयः, लोकविरुद्धहेतुकस्य दुःखस्यैव प्रसिद्धेरिति मत्वा व्याचष्टे । करण इति । ननु वेदवि- रुद्धेनापि कथं न पापमतमाह । मिथ्याज्ञानेति । ननु कर्मधारये उत्तमपदस्य सर्वज्ञार्थकस्य विशे- षणपदतया पूर्वनिपातापत्तिः, षष्ठीसमासे च “न निर्द्धारणे” इति षष्ठीसमासनिषेध इति सप्तमीसमा- समाह । पुरुषेष्विति । नच षष्ठीसमासनिषेधकस्य सप्तमीसमासनिषेधेऽपि तात्पर्यमन्यथा वैयर्थ्या- पत्तिः सप्तमीसमासेनेव तदर्थकपदसाधुत्वात् षष्ठीसप्तम्योरभिन्नार्थकत्वादिति वाच्यम्। षष्ठीसमासनिषे- धस्य षष्ठीसमासनिषेधपरतयैवोपपत्तौ सप्तमीसमासनिषेधपरत्वाभावात्। वस्तुतो निर्द्धारणमेव नास्त्यत्र समस्यमानपदातिरिक्तमुखेन निर्द्धारणं पृथक्करणं यत्र समुदायादेकदेशस्य तत्रैव षष्ठीसमासनिषेधात्। अत एव नराणां क्षत्रियः शूरतम इत्यत्र नरक्षत्रिय इति पदं प्रतिषेधोदाहरणत्वेन वृत्तिकारो दर्श- मकरन्दः । उपलक्षित इति । लेपपदे दुःखसाधारणतया व्याख्याते लोकविरुद्धकरणकलेपत्वं दुःख एव प्रसिद्धमित्याह । स चेति । कर्मधारये उत्तमपदस्य विशेषणपदतया पूर्वनिपातापत्तिः। षष्ठीसमासश्च “न निर्द्धारणे” [पा० सू०२।२।१०] इति निषिद्ध एवेति सप्तमीसमासमालम्बते । पुरुषेष्विति । यद्यपि षष्ठीसप्तम्योरभे- दात् सोऽपि निषिद्ध एव । अन्यथा तत्र तत्र सप्तमीसमासेनैवोपपत्तौ षष्ठीसमासनिषेधवैयर्थ्यापत्तेः। तथापि निर्द्धारणस्याऽविवक्षायामयं समास इति ऋजवः । वस्तुतो जातिगुणक्रियाभिः समुदायादे- कदेशस्य पृथक्करणं निर्द्धारणम् । यथा नराणां क्षत्रियः शूरतम इत्यत्र । तच्चात्र नास्तीति न निषेधः । तथाच समुदायसमुदायिवाचकपदयोः समासनिषेधस्यैव तत्सूत्रार्थत्वान्न निर्द्धारणप्रयोज कगुणादिविशेषवाचिपदसमासनिषेधोऽपीति तात्पर्यम् । एवञ्च षष्ठीसमासेऽप्यदोष इत्यवधेयम् । टिप्पणी । वेदविरुद्धेनापि न पापमत आह । मिथ्याज्ञानसलिलेति । कर्मधारय उत्तमपदस्य विशेषण- परत्वेन पूर्वनिपातप्रसङ्गाद्निर्द्धारणसप्तमीसमासमाह । पुरुषेषूत्तम इति । पुरुषशब्दस्यार्थमात्रे- ( १ ) अत्र च पौराणिकी कथा शिवपुराणे कोटिरुद्रसंहितायां द्वादशाध्याये, लिङ्गपुराणे चैकोनत्रिंशादध्याये द्रष्टव्या ।
प्रथमस्तबके ] ईश्वरे संशयाभावेन तन्निरूपणाक्षेपः । २७ वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, सर्वज्ञ इति सौगताः, निरावरण इति दिगम्बराः, उपास्यत्वेन देशित(१) इति मीमांसकाः, लोकव्यवहारसिद्ध इति चार्वाकाः, यावदुक्तोपपन्न इति नैयायिकाः, किं बोधनी । व्याख्यास्यति। पितामहः = जगतामुत्पादकः । यज्ञपुरुषः = यज्ञाधिष्ठातृदेवता । सर्वज्ञः = क्षणिक- सर्वज्ञः । निरावरणः = सर्वविषयकचैतन्याच्छादकत्वेन स्वकर्मार्जितं शरीरमावरणम् ; यद्वा वस्त्रादिभिरिव शरीरं धर्माधर्माभ्यामाश्रियते पुरुष इति तावेवावरणं, तद्रहितः । उपास्यत्वेन चोदितः चोदनासिद्धमुपास्यत्वं हविःप्रतियोगित्वं स्तुतिप्रतियोगित्वं चैव तस्य रूपं, न तु सर्ववित्त्वसर्व- कर्तृत्वादिकमिति । लोकव्यवहारसिद्धः = राजादिर्दृश्यमानः, चतुर्भुजादिरूपा प्रतिमा वा । याव- प्रकाशः । पितामहो = जनकस्यापि जनकः । यज्ञे प्रधानमिज्यं यज्ञपुरुषः । सर्वज्ञः = क्षणिकसर्वज्ञः । निरावरण इति । आवरणमदृष्टमविद्या स्वकर्मोपार्जितञ्च शरीरमस्य नास्तीत्यर्थः । उपास्य- त्वेनेति । वेदोपदिष्टोपास्यभावः कश्चिन्मन्त्रादिरित्यर्थः । लोकेति । यथा लोके व्यवह्रियते चतुर्भुजाद्युपेतदेहवान्, नत्वदृश्य इत्यर्थः । यावदुक्तेति । यावदुक्तेषु यदुपपन्नं युक्तिमत् सर्वज्ञत्वादि, तेनोपपन्नः सम्पन्न इति मध्यपदलोपी समासस्तत्पुरुषः । यावदुक्तेषु उपपन्नः प्रमाणिको धर्मो यस्येति बहुव्रीहिर्वा । न तु यावद्भिरुक्तैरुपपन्नः सहित इत्यर्थः , अद्वैता- थनङ्गीकारेण यावद्यथाव्याख्याताथैस्य नैयायिकैरनङ्गीकारात् । यद्वा सन्देह एव कुत इत्युपसंहारात् सर्वाण्येव दर्शनान्येकार्थपरतया व्याख्यायन्ते । शुद्धधो = दोषहीनः, बुद्धधस्वभावो = घटादिभिन्नत्वे सत्यौपाधिकचैतन्यरहितः, आदौ = प्रकाशिका । यतिस्मेति । पुरुषशब्दस्यार्थमात्रमतिप्रसक्तमत आह । प्रधानमिति । न्यायमतभेदाय व्याचष्टे । क्षणिकेति । एकार्थपरतयेति । अविरुद्धार्थतयेत्यर्थः । घटादीति । औपाधिकं चैतन्य- मकरन्दः । इज्यत्वमात्रमतिप्रसक्तमत आह । प्रधानमिति । न्यायमतसाधारण्यमपाकरोति । क्षणि- केति । एकार्थेति । अविरुद्धार्थेत्यर्थः । घटाद्वाविति । औपाधिकं चैतन्यमन्यत्रोपाधिभूतं चैतन्यं घटादिभिन्नत्वसमानाधिकर णौपाधिकचैतन्यशून्यत्वमित्यर्थः, तथा च परमते विशेषणा- भावात्, स्वमते च विशेष्याभावाद् विशिष्टाभावोऽविशिष्ट इति भावः । मिश्रास्तु औपाधिकं चैतन्यं जन्यचैतन्यम् , एवं च विशिष्टाभावस्तन्मत उभयाभावादस्मन्मते च विशेष्याभावादिति टिप्पणी । ऽसङ्गतिरत आह-प्रधानमिज्यं यज्ञपुरुष इति । न्यायमतभेदायाह । क्षणिकसर्वज्ञ इति । वेदोपदिष्टोपास्यभावः कश्चिन्मन्त्रादिरिति । तन्मते मन्त्रादिभिन्नाया इन्द्रा- दिदेवताया अस्वीकारात् , यत इन्द्रोऽपीन्द्राय स्वाहेत्यादिना इन्द्रमुद्दिश्य यजते, स्वमुद्दिश्य स्वकर्तृकत्यागासम्भवात् , इन्द्रान्तरस्वीकारेऽनवस्थानादतो मन्त्र एवोपासितः स्वरूपविशेष- परिणतः फलाय कल्पत इत्यादि तेषाममतमिति । बुद्धस्वभावो घटादिभिन्नत्वे सत्यौपा- धिकचैतन्यरहित इति । अन्यत्रोपाधिभूतचैतन्यात्मकत्वमौपाधिकचैतन्यं घटादिभिन्नत्वञ्च विशेषणम् । तेन परमते घटादिभिन्नत्वे द्वैतापत्त्या विशेष्यवति तन्न; विशिष्टाभावो विशेषणा- ( १ ) उपास्यत्वेन नोदित इति मुद्रितबोधन्युद्धृतः पाठः । ३ न्या० कु०
१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकावतरणिकायां बहुना, कारवोऽपि यं विश्वकर्मेत्युपासते, तस्मिन्नेवं जातिगोत्रप्रवरचरण बोधनी । दुक्तोपपन्नः=तया यानि विशेषणान्युक्तानि तेषुयावदुपपन्नं तेनोपपन्नः । यद्वा, यावदुक्तेन यथाश्रुतेन न तु व्याख्यातेनोपपन्नः, यथा शुद्धः = देहादिरहितः, बुद्धः = बोधे कर्त्ता कर्म वा, आदिविद्वान्=नित्यज्ञातलोकव्यवहारः । सिद्धः=सर्वजनप्रसिद्धिगम्यः, सुगममन्यत्। जातिर्ब्रा- ह्मणत्वादिः। गोत्रं=कूटस्थऋषिनाम्ना सङ्कीर्त्तनम्। प्रवरः=वंश्यऋषिगणानुकीर्त्तनम् । चरणः = प्रकाशः । सर्गादौ, विद्वान् = ज्ञानवान् , सिद्धो = नित्यः, सम्प्रदायप्रद्योतको वेदं प्रणीय सर्गादिसमुत्पन्नाध्यापकः, अनुग्राहकः = कुलालादिकृतेऽपि घटादौ सहकारीत्यादिक्रमेण । नचैवमैकमत्येन दर्शनभेदानुपपत्तिः । (१) फलैकमत्येऽपि प्रकारभेदात् । सर्वथा विरोधाभावे विचा- रोपयोगिसंशयस्याप्यभावप्रसङ्गात् । यद्यपि मीमांसकानीश्वरसांख्यमते नेश्वरे सम्प्रतिपत्तिः, तथा- प्युपास्यत्वेन धर्मिणि सम्प्रतिपत्तिरस्त्येव । कारुः=शिल्पी । विश्वं सर्व्वमुत्पत्तिमत् कर्म्म कार्य्यं यस्य स तथा । जातिः = ब्राह्मणत्वादि । गोत्रं=काश्यपादि । ऋषय एव यज्ञे व्रियमाणाः प्रव- राः । चरणं = शाखा । अनुभावोऽसाधारणं कार्यं वेदादि । अत एव भवत्यस्मादिति भवः । प्रकाशिका । मन्यत्रोपाधिभूतचैतन्यात्मकत्वं तद् घटादिभिन्नत्वं च प्रतियोगिविशेषणं तेन विशिष्टाभावः परमते विशेषणाभावात्, अस्मन्मते च विशेष्याभावाद्विशिष्ट इति भावः । मिश्रास्तु औपाधिकं चैतन्यं जन्यचैतन्यमित्यर्थः, एवं च विशिष्टाभावोऽस्मन्मते विशेष्याभावात्, परमते चोभयाभावाद्विशिष्ट इति वदन्ति । तच्चिन्त्यम् । तथासति विशेष्याभावमात्रस्यैवोभयसाधारये विशेषणोपादानानुप- पत्तेः । यत्तु घटाद्यतिप्रसङ्गवारणार्थमेव विशेषणपदसद्भावस्यैव च विशेषणन्तदभिधेयमिति । तत्तु- च्छम् । अतिप्रसङ्गस्यादोषत्वात् । अन्यथा दोषहीन इत्यादावपि तद्विशेषणोपादानापत्तेः । किञ्चाभा- वविशेषणतायां वेदान्तिमतसाधारण्यानुपपत्तिरेव । फलैकमत्येऽपीति । उक्तधर्मेणाविरोधेऽपि धर्मा- न्तरेण विरोधादित्यर्थः । तमेवोपपादयति । सर्वथेति । अनुभावोऽसाधारणमिति । न च पूर्व- मकरन्दः । वदन्ति । तच्चिन्त्यम् । तथा सति विशेष्याभावस्यैवोभयमतसाधारणत्वे विशेषणवैयर्थ्यापत्तेः । यत्तु घटाद्यतिप्रसङ्गवारणार्थमेव सत्यन्तमिति । तच्चिन्त्यम् । तदतिप्रसङ्गस्यादोषत्वात् । अन्यथा दोषहीनत्वनित्यत्वादावपि तथात्वप्रसङ्गादिति । फलैक्येति । उक्तप्रकारावच्छिन्नधर्मिण्यैकमत्येऽपि प्रकारान्तरभेदेन दर्शनभेदादित्यर्थः । तदेवोपपादयति । सर्वथेति । टिप्पणी । भावात् । स्वमते द्वैताङ्गीकारेण घटादिभिन्ने तत्र विशिष्टाभावो विशेष्याभावादित्यविशिष्ट एव विशिष्टाभाव इति । न च चैतन्यात्मकत्वमात्रमुपेयं न्यायमते चैतन्यस्येश्वरधर्मत्वेन तदात्मक- त्वाभावादिति वाच्यम् । साङ्ख्यमतसाधारणाय तदुपादानात्, तन्मते चेतनस्य घटादिभिन्नत्वात् चैतन्यात्मकत्वाच्च विशिष्टाभावसत्त्वासम्भवात् । तदुपादानप्रकृतेः कार्यजनने स्वतन्त्रत्वेन चेत- नस्याकारणतया चैतन्यस्यान्यत्र कार्यजनने प्रयोजकत्वलक्षणोपाधित्वासम्भवात् । न्यायवेदान्तमत- योरिश्वरस्य कारणतयोपादानसाक्षात्कारत्मकस्य मायावृत्तिप्रतिविम्वितचैतन्यात्मकस्य च ज्ञानपदा- भिधेयस्य चैतन्यस्य कार्यजननप्रयोजकत्वेनास्त्युपाधित्वमिति भावः । सम्प्रदायप्रद्योतको वेदं (१) फलैक्येऽपीति पाठान्तरम् ।
प्रथमस्तबके ] ईश्वरनिरूपणाक्षेपसमाधानम् । १६ कुलधर्मादिवदाखंसारं प्रसिद्धानुभावे भगवति भवे सन्देह एव कुतः ? किं निरूपणीयम् । तथापि, न्यायचर्चयमीशस्य मननव्यपदेशभाक् । उपासनैव क्रियते श्रवणानन्तरागता ॥ ३ ॥ श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेष्विदानीं मन्तव्यो भवति, बोधनी । बह्वृचत्वाद्यवान्तरजातिः । कुलधर्मः=प्रतिकुलं व्यवच्छिन्नः शिखासन्निवेशादिः । यथा जात्या- दयः संसारमभिव्याप्य प्रमाणसिद्धाः, एवमीश्वरोऽपि । किं निरूपणीयम् ? न किञ्चिदित्यर्थः । समाधत्ते—तथापि न्यायेति । तत्रैव हि सन्दिग्धविषयत्वनियमो न्यायस्य यत्र दृष्टमेव संशयनिरासः प्रयोजनम् , अयं तु विहितोपासनात्मकत्वाददृष्टरूपस्वर्गापव- र्गादिफल इति सिद्धेऽपि विषये प्रवर्त्तत इति भावः । विहितत्वप्रदर्शनार्थ—मननेति । “मन्तव्य” इति मननं विहितम् , मननाख्या चेयं न्यायचिन्तेति । यद्वा, यद्युपासनेयं न्यायचर्चा, न तु संशयनिरासफला, तर्हि श्रवणादिचतुर्विधायां कतमेयमित्यत उक्तं— मननेति । श्रवणानन्तरेति मननस्यावसरप्राप्तिर्दर्शिता इति । तद् व्याचष्टे—श्रुतो हीति । प्रकाशः । तथा च जातिगोत्रादिवत्संसारमभिव्याप्य श्रुत्यादिप्रमाणसिद्धे परमात्मनि न सन्देहः, अतस्तत्रे- श्वरे किं निरूपणीयमित्यर्थः । तथापि धर्मिणि भगवति विहितमनने प्रकाराकाङ्क्षायां तत्र विप्रति- पत्त्या सन्देहोऽस्तीति मनसिकृत्य मननरूपोपासनैव क्रियते इति समाधत्ते— तथापीति । न्यायेन चर्चा न्यायचर्चा अनुमितिरूपा, उपासनैवेति सम्बन्धः । श्रवणानन्तरा- गतेत्यनेन श्रुतिप्रामाण्यग्राहकन्यायनिरूपणमपि सूचितम् । श्रवणानन्तरागतेति संगृहीतं विवृ- णोति । श्रुतो हीति । श्रुतिमूलकत्वात् स्मृतेरपि तत्समानविषयतया स्वबोधदार्थार्थं श्रवण प्रकाशिका । मनुभावोऽसाधारणीं कारणतामाहेति व्याख्यानेन विरोध इति वाच्यम् । तत्रानुभावोऽनुभावशब्दार्थो- ऽसाधारणकार्यरूपो नान्तरीयकत्याऽसाधारणीं कारणतामाहेत्यर्थात् , इह तु पदार्थव्याख्यानादिति । तत्र विप्रतिपत्त्येति । इदं च तथापि (१)विप्रतिपत्ति विनेत्यादिवक्ष्यमाणं मनसिकृत्योक्तम् । वस्तुतो मननरूपानुमितौ सन्देहोऽनङ्गमेवेति स्वयमेवोक्तेरिति । श्रुतिमूलकत्वादिति । अत्र मिश्राः “श्रोतव्यः श्रुतिवाक्येभ्य” इत्यादि नियमविध्यवष्टम्भेनेदमुक्तम् । वस्तुतस्तस्य नियमविधित्वेऽदृष्ट- कल्पनाभिया श्रुतिवाक्यपदमजहत्स्वार्थलक्षणया आत्मप्रतिपादकप्रमाणवाक्यपरम् । अत एवोत्तरो- त्तरप्रतिपत्तिरेव पूर्वपूर्वप्रतिपत्तेर्द्वारमिति सिद्धान्तः । अत एव “द्रष्टव्य” इत्यादिपाठक्रमत्यागो- मकरन्दः । श्रुतिमूलकत्वादिति । एतच्च ‘श्रोतव्यः श्रुतिवाक्येभ्य’’ इति नियमविध्यवष्टम्भेनो क्तम् । वस्तुतस्त्वात्मप्रतिपादकप्रमाणवाक्यपरमेव श्रुतिपदम् । अन्यथा अदृष्टार्थकतापत्तेः । पूर्व- टिप्पणी । प्रणीयेति । प्रणयनं हि तत्प्रत्यक्षजनककण्ठताल्वाद्यभिघातविशेषः । तथा च वेदस्य नित्यत्वपक्षेऽपि तत्सम्भवोऽनित्यत्वपक्षेऽपि चेति न क्षतिः । स्मृतेरपि तत्समानविषयतयेत्यादि । इदं तु ( १ ) संशयं विनेति मुद्रितप्रकाशे पाठः ।
२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां “श्रोतव्यो मन्तव्यः" इति श्रुतेः , आगमेनानुमानेन ध्यानभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ इति स्मृतेश्च ॥ ३ ॥ बोधनी । प्रज्ञा=साक्षात्कारः, योगं=योगफलं निःश्रेयसमिति ॥ ३ ॥ प्रकाशः । उपयोग उक्तः । उत्तमो योगः = आत्मतत्त्वसाक्षात्कारः ॥ ३ ॥ ननु भगवति सन्देहाभावेन सिद्धसाधनात् कथमनुमितिः ? । सिद्धसाधनं हि स्वार्थानुमाने न दोषः प्रमाणसंप्लवस्य संस्थापनादिति चेद् । न । विनिगमकाभावात् , प्रकाशिका । ऽपि, अन्यथाऽदृष्टमेव तत्रापि द्वारमिति किमिति पाठिकक्रमत्यागः । एवं च स्त्रीशूद्रादीनामपि पुराणादिना श्रवणे मोक्षाधिकार इति वदन्ति । तच्चिन्त्यम् । (१)अदृष्टकल्पनाभिया श्रुतार्थपरित्यागे रथकारशब्देऽपि लक्षणापत्तेः । 'द्रष्टव्य' इत्यादौ तु क्रमत्यागमात्रं, तत्त्यागद्वारा श्रुतार्थपरित्यागः (१)अदृष्टकल्पनाभियाऽसिद्ध एव, “अग्निहोत्रं जुहोति” यवागूं पचतीत्यादावाद्यप्रतिपत्तिरूपद्वारवति उत्तरोत्तरप्रतिपत्तिर्द्वारमित्यदृष्टद्वारकत्वेऽपि विशेषणज्ञानत्वेन द्वारत्वायुुक्तमिति । अत एव त्रिसूत्री टीका ‘तपःप्रभाव एव हि तादृशस्तेषां यत एवंविधाः पाप्मानो विलीयन्त” इति । अन्यथा शूद्रादीनामप्यधिकारे तदुपदेशेन पापाननुत्पत्या तद्विरुद्धेतेति । निबन्धेऽप्येवमेवेति । योगो निदिध्या- सनमेवेत्यन्वय इत्यत आह । आत्मतत्त्वसाक्षात्कार इति ॥ ३ ॥ विनिगमकेति । सिद्धेः पक्षताविघटकतया दूषणत्वस्योभयत्राविशेषादित्यर्थः । ननु सिद्धेर- नुमितिप्रतिबन्धकत्वे मानाभावः, यावत् परामर्शमनुमित्यविरोधादिति परार्थानुमान एवार्थान्तरतया मकरन्दः । पूर्वप्रतिपत्तौ हि उत्तरोत्तरप्रतिपत्तिद्वारकता । सा च श्रुतिमात्रजनितश्रवणसाध्यतायां नियमापूर्व- कल्पनया भज्येत । द्रष्टव्य इति अदृष्टद्वारकत्वाभयेन पाठिकक्रमोल्लङ्घनमपि नोचितं तस्य स्या- दिति पुराणस्मृत्यादिना श्रुते मननादभिमतसिद्धिर्भवत्येवेत्याहुः । ननु योगो निदिध्यासनमेवेत्य- न्वय इत्यत आह । उत्तम इति ॥ ३ ॥ विनिगमकेति । सिद्धयभावरूपायाः पक्षताया अनुमितिहेतुत्वे तदभावादनुमित्यभावस्यो टिप्पणी । “श्रोतव्यः श्रुतिवाक्येभ्य” इत्यादिनियमविध्यवष्टम्भेन, अन्यथा स्मृतेरपि श्रवणे प्रतिपत्तेरविशेषात् तस्या अपि प्रामाण्याच्च श्रुतिमूलकत्वादित्युपादानमफलं स्यात् , तथापि मुख्यतया श्रुतिवा- क्येभ्य एवायं श्रोतव्यः । अवबोधदार्ढ्यार्थं श्रुतिमूलायाः स्मृतेरपीति भावः ॥ ३ ॥ नन्वित्यादिग्रन्थे शङ्कते सिद्धसाधनं हीत्यादि । ननु सिद्धसाधनस्यादोषत्वात् ज्ञानधाराप्रसङ्ग इत्यत आह--प्रमाणसंप्लवेत्यादि । यावत् प्रमाणं प्रत्यक्षस्थल इवात्रानुमानस्थलेऽपि ज्ञानाधारा सम्पद्यत एव, प्रमाणसंप्लवकारणाभावान्नेष्यत इत्यर्थः । यद्वा सिद्धसाधनस्यादोषत्वे ग्रन्थकारसम्मतिमाह । प्रमाणेति । संप्लवः = सङ्करः । व्यवस्था- पनाद् भाष्यकारेणेति शेषः । इति चेन्न विनिगमकाभावादिति । सिद्धेः पक्षतावि- ( १ ) अक्लृप्तेत्यादर्शपुस्तके पाठः ।
प्रथमस्तबके ] ईशवरनिरूपणाक्षेपसमाधानम् । २१ प्रकाशः । ग्रन्थस्य परार्थानुमानरूपत्वाच्च । यथा अग्निहोत्रं जुहोति, यवागूं पचतीत्यत्राऽर्थेन क्रमेण शाब्दः क्रमो लङ्घ्यते, तथा "श्रोतव्यो मन्तव्य" इत्यत्रापि मननानन्तरं श्रवणे श्रुतेस्तात्पर्य्यमिति चेद् । न । दृष्टान्ते, होमे द्रव्यान्तरसाधनत्वं यवागूपाकस्यादृष्टार्थत्वञ्च कल्प्यमिति गौरवात्तथाऽस्तु, प्रकृते त्वनुपपत्त्यभावः , श्रवणानन्तरं मननस्यान्वयोपपाद्यत्वात् , श्रवणानन्तरागतेति ग्रन्थ विरोधाच्च । "श्रोतव्यः श्रुतिवाक्येभ्य" इति बहुवचनं, कपिञ्जलानालभतेतिवत् त्रित्वपरम्, अतो रूपान्तरेण मननमविरुद्धमिति चेन्न । "श्रोतव्यो मन्तव्य" इति सामानाधिकरण्यश्रुतेर्लाघवाच्च येनैव प्रकाशिका । सिद्धसाधनं दोष इति ब्रूयात्तन्नाह-ग्रन्थस्येति । शाब्दत्वं पाठिकत्वं न तु शब्दप्रतिपाद्यत्वं "अध्व- र्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति" इतिवत्तादृशशब्दाभावात् । ननु श्रवणानन्तरं मननासम्भव एवानुपपत्तिरत आह । श्रवणानन्तरमिति । अन्यथेति । सिषाधयिषयेत्यर्थः । नन्वेवं सिद्धसाध- नात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह-श्रवणेति । कपिञ्जलानालभतेतीति । यावत्कपिञ्जलानामालम्भनाशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघवाद्वहुवचनं तत्र यथा त्रित्व- परं तथात्रापीत्यर्थः । धर्मिमात्रमादाय सामानाधिकरण्यं स्यादत आह । लाघवाच्चेति । मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवान्वयात् , अन्यथाऽनुपस्थितकल्पनागौरवादिति भावः । ननु सिद्धसाधनभिया प्रामाणिकं गौरवादर्तव्यं रूपान्तरेण मननसम्भवादित्यत आह । मकरन्दः । भयत्र तुल्यत्वादित्यर्थः । ननु नोक्तरीत्या सिद्धसाधनस्य दोषत्वं, किन्त्वर्थान्तरतया , तच्च शब्ददोषतया स्वार्थानुमाने न दोष इति यदि ब्रूयात् तत्राह । ग्रन्थस्येति । क्रमे शाब्दत्वं, पाठिकत्वं न तु शब्दप्रतिपाद्यत्वम् , क्रमप्रतिपादकाभावात् । ननु सिद्धसाधनान्मननानुपपत्तिरेवे- त्यत आह । श्रवणेति । अन्यथेति । सिषाधयिषयेत्यर्थः । ननु सिद्धसाधनात् कथमनुमि- तिरिति स्वपक्षः साधु समर्थित इत्यरुचेराह । श्रवणेति । कपिञ्जलेति । यावत्परत्वासम्भवेन कतिपयपरतया बहुवचनस्य प्रथमोपस्थितत्रित्वपरत्वं यथा, तथा प्रकृतेऽपीत्यर्थः । धर्मिमात्रवि- षतयापि सामानाधिकरण्यसम्भव इत्यरुचेराह । लाघवाच्चेति । श्रवणप्रकारस्योपस्थितत्वे- नानुत्थितप्रकारकत्पनायां गौरवमिति भावः । ननु सिद्धसाधनादेव प्रामाणिकं गौरवं न्याय्य- टिप्पणी । घटकत्वेन दूषकत्व उभयत्राप्यविशेषाद्विनिगमकाभावादित्यर्थः । ननु पक्षताया अनुमितौ स्वार्थे हे- तुतायाम्मानाभावः यावत्परामर्षमनुमितिर्जायत एवेत्युद्धतं प्रत्याह । ग्रन्थस्य परार्थानुमाने- ति । तस्य समस्तरूपोपपन्नलिङ्गप्रतिपादकवाक्यत्वेन परार्थानुमानत्वं, परार्थानुमाने चावश्यं सिद्ध- साधनं दोषः, सन्दिग्ध एव हेत्वादेराकाङ्क्षितत्वादिति भावः । श्रवणानन्तरं मननस्यान्थेति । सिषाधयिषयेत्यर्थः । अन्यथोपपाद्यत्वादिति । तथा चोक्तकल्पनासम्भवादिति शेषः। ननु सिद्धसाधनात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह । श्रवणानन्तरागतेति । कपि- ञ्जलानालभतेतिवदिति । यथा यावदालम्भस्याशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघ- वाद्बहुवचनस्य त्रित्वपरत्वन्तथेत्यर्थः । ननु धर्म्मिमात्रमादाय सामानाधिकरण्यं स्यादित्यत आह । लाघवाच्च । येनैव रूपेण श्रवणमिति । मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवा- न्वयात् , अन्यथानुपस्थितकल्पने गौरवादिति भावः । ननु सिद्धसाधनभिया गौरवं प्रामाणिकमिति
२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां "श्रोतव्यो मन्तव्यः" इति श्रुतेः , आगमेनानुमानेन ध्यानभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ इति स्मृतेश्च ॥ ३ ॥ बोधनी । प्रज्ञा=साक्षात्कारः, योगं=योगफलं निःश्रेयसमिति ॥ ३ ॥ प्रकाशः । उपयोग उक्तः । उत्तमो योगः = आत्मतत्त्वसाक्षात्कारः ॥ ३ ॥ ननु भगवति सन्देहाभावेन सिद्धसाधनात् कथमनुमितिः ? । सिद्धसाधनं हि स्वार्थानुमाने न दोषः प्रमाणसंप्लवस्य संस्थापनादिति चेद् । न । विनिगमकाभावात् , प्रकाशिका । ऽपि, अन्यथा अदृष्टमेव तत्रापि द्वारमिति किमिति पाठिकक्रमत्यागः । एवं च स्त्रीशूद्रादीनामपि पुराणादिना श्रवणे मोक्षाधिकार इति वदन्ति । तच्चिन्त्यम् । (१)अदृष्टकल्पनाभिया श्रुतार्थपरित्यागे रथकारशब्देऽपि लक्षणापत्तेः । ‘द्रष्टव्य’ इत्यादौ तु क्रमत्यागमात्रं, तत्त्यागद्वारा श्रुतार्थपरित्यागः (१)अदृष्टकल्पनाभियाऽसिद्ध एव, "अग्निहोत्रं जुहोति" यवागूं पचतीत्यादावद्यप्रतिपत्तिरूपद्वारवति उत्तरोत्तरप्रतिपत्तिद्वारमित्यदृष्टद्वारक्त्वेऽपि विशेषणज्ञानत्वेन द्वारत्वायुुक्तमिति । अत एव त्रिसूत्री टीका ‘तपःप्रभाव एव हि तादृशस्तेषां यंत एवंविधाः पाप्मानो विलीयन्त” इति । अन्यथा शूद्रादीनामप्यधिकारे तदुपदेशेन पापाननुत्पत्त्या तद्विरुद्धेतेति । निबन्धेऽप्येवमेवेति । योगो निदिध्या- सनमेवेत्यनन्वय इत्यत आह । आत्मतत्त्वसाक्षात्कार इति ॥ ३ ॥ विनिगमकेति । सिद्धेः पक्षताविघटकतया दूषणत्वस्योभयत्राविशेषादित्यर्थः । ननु सिद्धेर- नुमितिप्रतिबन्धकत्वे मानाभावः, यावत् परामर्शमनुमित्यविरोधादिति परार्थानुमान एवार्थान्तरतया मकरन्दः । पूर्वप्रतिपत्तौ हि उत्तरोत्तरप्रतिपत्तिद्वारकता । सा च श्रुतिमात्रजनितश्रवणसाध्यतायां नियमापूर्व- कल्पनया भज्येत । द्रष्टव्य इति अदृष्टद्वारकत्वाभयेन पाठिकक्रमोल्लङ्घनमपि नोचितं तस्य स्या- दिति पुराणस्मृत्यादिना श्रुते मननादभिमतसिद्धिर्भवत्येवेत्याहुः । ननु योगो निदिध्यासनमेवेत्य- नन्वय इत्यत आह । उत्तम इति ॥ ३ ॥ विनिगमकेति । सिद्ध्यभावरूपायाः पक्षताया अनुमितिहेतुत्वे तदभावादनुमित्यभावस्यो टिप्पणी । "श्रोतव्यः श्रुतिवाक्येभ्य" इत्यादि नियमविध्यवष्टम्भेन, अन्यथा स्मृतेरपि श्रवणे प्रतिपत्तेरविशेषात् तस्या अपि प्रामाण्याच्च श्रुतिमूलकत्वादित्युपादानमफलं स्यात्, तथापि मुख्यतया श्रुतिवा- क्येभ्य एवार्थं श्रोतव्यः । अवबोधदार्ढ्यार्थं श्रुतिमूलायाः स्मृतेरपीति भावः ॥ ३ ॥ नन्वित्यादिग्रन्थे शङ्कते सिद्धसाधनं हीत्यादि । ननु सिद्धसाधनस्यादोषत्वात् ज्ञानधाराप्रसङ्ग इत्यत आह--प्रमाणसंप्लवेत्यादि । यावत् प्रमाणं प्रत्यक्षस्थल इवात्रानुमानस्थलेऽपि ज्ञानधारा सम्पद्यत एव, प्रमाणसम्प्लवकारणाभावान्नेष्यत इत्यर्थः । यद्वा सिद्धसाधनस्यादोषत्वे ग्रन्थकारसम्मतिमाह । प्रमाणेति । संप्लवः = सङ्करः । व्यवस्था- पनाद् भाष्यकारेणेति शेषः । इति चेन्न विनिगमकाभावादिति । सिद्धेः पक्षतावि- ( १ ) अक्लृप्तेत्यादर्शपुस्तके पाठः ।
प्रथमस्तवके ] ईश्वरनिरूपणाक्षेपसमाधानम् । २१ प्रकाशः । ग्रन्थस्य परार्थानुमानरूपत्वाच्च । यथा अग्निहोत्रं जुहोति, यवागूं पचतीत्यत्राऽर्थेन क्रमेण शाब्दः क्रमो लङ्घ्यते, तथा "श्रोतव्यो मन्तव्य" इत्यत्रापि मननानन्तरं श्रवणे श्रुतेस्तात्पर्यमिति चेद् । न । दृष्टान्ते, होमे द्रव्यान्तरसाधनत्वं यवागूपाकस्यादृष्टार्थत्वञ्च कल्प्यमिति गौरवात्तथाऽस्तु, प्रकृते त्वनुपपत्त्यभावः , श्रवणानन्तरं मननस्याऽन्यथोपपाद्यत्वात् , श्रवणानन्तरागतेति ग्रन्थ विरोधाच्च । "श्रोतव्यः श्रुतिवाक्येभ्य" इति बहुवचनं, कपिञ्जलानालभेतेतिवत्, त्रित्वपरम्, अतो रूपान्तरेण मननमविरुद्धमिति चेन्न । "श्रोतव्यो मन्तव्य" इति सामानाधिकरण्यश्रुतेर्लाघवाच्च येनैव प्रकाशिका । सिद्धसाधनं दोष इति ब्रूयात्तत्राह-ग्रन्थस्येति । शाब्दत्वं पाठकत्वं न तु शब्दप्रतिपाद्यत्वं "अध्व- र्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति" इतिवत्तथादृशशब्दाभावात् । ननु श्रवणानन्तरं मननासम्भव एवानुपपत्तिरत आह । श्रवणानन्तरमिति । अन्यथेति । सिपाधयिषयेत्यर्थः । नन्वेवं सिद्धसाध- नात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह-श्रवणेति । कपिञ्जलानालभेतेतीति । यावत्कपिञ्जलानामालम्भनाशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघवाद्बहुवचनं तत्र यथा त्रित्व- परं तथात्रापीत्यर्थः । धर्मिमात्रमादाय सामानाधिकरण्यं स्यादत आह । लाघवाच्चेति । मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवान्वयात् , अन्यथाऽनुपस्थितकल्पनागौरवादिति भावः । ननु सिद्धसाधनभिया प्रामाणिकं गौरवमादर्त्तव्यं रूपान्तरेण मननसंभवादित्यत आह । मकरन्दः । भयत्र तुल्यत्वादित्यर्थः । ननु नोक्तरीत्या सिद्धसाधनस्य दोषत्वं, किन्त्वर्थान्तरतया , तच्च शाब्ददोषतया स्वार्थानुमाने न दोष इति यदि ब्रूयात् तत्राह । ग्रन्थस्येति । क्रमे शाब्दत्वं, पाठकत्वं न तु शब्दप्रतिपाद्यत्वम् , क्रमप्रतिपादकाभावात् । ननु सिद्धसाधनान्मननानुपपत्तिरेवे- त्यत आह । श्रवणेति । अन्यथेति । सिपाधयिषयेत्यर्थः । ननु सिद्धसाधनात् कथमनुमि- तिरिति स्वपक्षः साधु समर्थित इत्यरुचेराह । श्रवणेति । कपिञ्जलेति । यावत्परत्वासम्भवेन कतिपयपरतया बहुवचनस्य प्रथमोपस्थितत्रित्वपरत्वं यथा, तथा प्रकृतेऽपीत्यर्थः । धर्मिमात्रवि- षतयापि सामानाधिकरण्यसम्भव इत्यरुचेराह । लाघवाच्चेति । श्रवणप्रकारस्योपस्थितत्वे- नानुत्पस्थितप्रकारकल्पनायां गौरवादिति भावः । ननु सिद्धसाधनादेव प्रामाणिकं गौरवं न्याय्य- टिप्पणी । घटकत्वेन दूषकत्व उभयत्राप्यविशेषाद्विनिगमकाभावादित्यर्थः । ननु पक्षताया अनुमितौ स्वार्थे हे- तुतायाम्मानाभावः यावत्परामर्षमनुमितिर्जायत एवेत्युद्धतं प्रत्याह । ग्रन्थस्य परार्थानुमाने- ति । तस्य समस्तरूपोपपन्नलिङ्गप्रतिपादकवाक्यत्वेन परार्थानुमानत्वं, परार्थानुमाने चावश्यं सिद्ध- साधनं दोषः, सन्दिग्ध एव हेत्वादेराकाङ्क्षितत्वादिति भावः । श्रवणानन्तरं मननस्यान्थेथेति । सिपाधयिषयेत्यर्थः । अन्यथोपपाद्यत्वादिति । तथा चोक्तकल्पनासम्भवादिति शेषः । ननु सिद्धसाधनात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह । श्रवणानन्तरागतेति । कपि- ञ्जलानालभेततिवदिति । यथा यावदालम्भस्याशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघ- वाद्बहुवचनस्य त्रित्वपरत्वन्तथेत्यर्थः । ननु धर्मिमात्रमादाय सामानाधिकरण्यं स्यादित्यत आह । लाघवाच्च । येनैव रूपेण श्रवणमिति । मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवा- न्वयात् , अन्यथानुत्पस्थितकल्पने गौरवादिति भावः । ननु सिद्धसाधनभिया गौरवं प्रामाणिकमिति
२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [३ कारिकावतरणिकाव्याख्यायां प्रकाशः । रूपेण श्रवणं तेनैव रूपेण मननस्योचितत्वात् । न वा रूपान्तरेण श्रुतस्य रूपान्तरेण मननेऽश्रद्धामलक्षालनं शास्त्रव्यापारो निर्वहति, श्रुतस्यामननात् । अत एव धर्मस्वरूपे सन्देहाभावेऽपि क्षितिकर्तृत्वा- दौ धर्मे सन्देहात्तत्रानुमेत्यपास्तम् । तथापि धर्मिणि सन्देहानुपपादनाच्च । न वा तद्रूपमस्तीश्वरे, यन्न वेदे श्रुतमस्ति । तथा च “श्रोतव्यः श्रुतिवाक्येभ्य” इत्यत्रासङ्कोचादीश्वरपरसर्ववाक्येभ्य एव श्रवणे सति कथं मननम् । एतेन भगवति भवे सन्देह एव किं निरूपणीयमिति, कुतः = पृथिवीतः कर्तृजन्यत्वसंशयात्तत्र संशय एवेत्यपि योजनामात्रमपास्तम् । यत्तु श्रुतेऽपि भगवति श्रुतेः प्रामाण्यसन्देहात्तत्प्रतिपादितेऽपीश्वरे सन्देह इति । तन्न । “श्रोतव्यो मन्तव्य” इति प्रकाशिका । न वेति । अत एवेति । अन्यथा मनने शास्त्रव्यापारानिर्वाहादेवेत्यर्थः । तथापीति । तथाच परमा- त्मा निरूप्यत इत्यसङ्गतमेवेति भावः । ननु संशयकोटित्वं धर्मस्यैव, धर्मिणि तु विशेष्यतया स एव संशयोऽनुप्रवर्त्तक इत्यत आह । न वेति । ननु बहुवचनस्य त्रित्वपरत्वे तथापि संशयासङ्गतिरेवेत्यत आह । तथा चेति । भवेदेवं यदि कपिञ्जलन्यायावतारोऽत्र स्यात् स च सामान्यान्वयानुपपत्ति- मूलकः, न चात्रेति भावः । एतेनेति । धर्मे धर्मिणि च संशयाभावेनेत्यर्थः । सन्देह एवेति । अत्र सन्देहपदं सप्तम्यन्तम् तथा च सन्देहे किंनिरूपणीयमिति लोकोक्तेरपि सन्देहोऽस्त्येव कुतः पृथिवीत इति योजना । योजनामात्रमिदं न तु संशयोपपादकं किञ्चिदुक्तमिति मात्रार्थ इति व्याख्येति मिश्राः । कुतः कुत इति पाठपक्षे तु सन्देहोऽस्त्येव, किंनिरूपणीयमिति कुतः, अत्र हेतुः कुतः पृथिवीत इति योजनामात्रम्, मात्रपदार्थश्च तादृशपदद्वयाभावः पूर्ववच्चेति भावः । श्रोतव्य इति प्रामाण्यसंशयाहितो धर्मिणि संशयो वर्त्तत एवेति स एवानुमानाङ्गं स्यादतो न विरोध मकरन्दः । मित्यत आह । न वेति । अत एवेति । श्रुतस्यामनने उक्तशास्त्रव्यापारानिर्वाहादेवेत्यर्थः । तथापीति । तथा च परमात्मा निरूप्यत इत्यसङ्गतमेवेति भावः । ननूक्तधर्मिनिरूपणस्यैव पक्षीभूतेश्वरविषयतां विनाऽसम्भवान्नासङ्गतिरित्यत आह । न वेति । तथा च धर्मेऽपि न सन्देह इति भावः । तथा चेति । कपिञ्जले यावत्परत्वासम्भववदत्रासम्भवाभावेन त्रित्वपरत्वाभावादिति भावः । एतेनेति । उक्तरीत्या धर्मिणि धर्मे वा सन्देहाभावेनेत्यर्थः । ननु कथं सन्देह इत्यत आह । कुत इति । योजनामात्रमिति । अत्र मात्रपदेनापदार्थव्याख्यानं सूचितम् । मूले, इति कुत इति पदाभावाद् योजना कृता, न तु संशयोपपादकं किञ्चिदुक्तमिति तेन सूचितमि- त्यन्ये । श्रोतव्य इति । ननु संशयस्योभयत्र तुल्यतया श्रुतिबलेन ईश्वरविषयकमेव मननं टिप्पणी । रूपान्तरेण मननं स्यादित्यत आह । न च रूपान्तरेण श्रुतस्येति । न वेत्यर्थः । तेन पूर्वहेतोरुक्त- युक्त्याऽसम्भवेऽपि न क्षतिरन्यथा समुच्चयार्थत्वे तत्स्यादिति भावः । अत एव धर्मिणीति । रूपान्तरेण मनने शास्त्रव्यापारानिर्वाहादेवेत्यर्थः । तथापि धर्मिणि सन्देहानुपपादनादिति । तथा च परमात्मा निरूप्यत इति ग्रन्थासङ्गतिः । तत्प्रयोजकस्य परमात्मसंशयस्याभावादिति भावः । ननु तन्निरूपणमवान्तरधर्मप्रकारेण तत्प्रतिपत्त्यनुकूलव्यापारः । तत्र धर्मसंशय एवोपयुज्यते सर्वत्र धर्मस्यैव कोटित्वेन धर्मिणो विशेष्यतयैव सन्दिग्धत्वात् कर्तृत्वादिसन्देहस्यापि तथात्वादित्यत आह । न च तद्रूपमस्तीश्वर इति । श्रोतव्यः श्रुतिवाक्येभ्य इत्यत्रासङ्कोचादिति । कपि ञ्जलन्यायेन बहुवचनस्य त्रित्वाद्यपरत्वात् सामान्यान्वयानुपपत्तेर्वर्ज्याया अत्राभावादिति भावः । एतेने-
सामानाधिकरण्यविरोधात् । मननस्य प्रामाण्यविषयकत्वात् । यदि च श्रुतिरनवधृतप्रामाण्याैव, तदा कथं ततः श्रवणेऽपि बहुनायाससाध्ये प्रवृत्तिः । तथात्वेऽपि वेदप्रामाण्यानुमानमात्रौचित्यादीश्वरानुमा- नानुपपत्तिः । अथ सिद्धसाधनं न हेत्वाभासः । उभयथा हि हेत्वाभासता, करणविघटकतयाऽसिद्धिरुद्धा- नैकान्तिकयोरिव, तद्विघटनमकुर्वतः स्वत एव प्रतिबन्धकत्वाद् बाधप्रतिरोधवत् , सिद्धसाधनन्तु न व्याप्तिज्ञानविघटकं, न वा स्वत एव प्रतिबन्धकम् , अतो न हेत्वाभासः, दूषकता त्वर्थान्तरान्त- र्भावादिति मतम् । तन्न । व्याप्तिज्ञानस्येव पक्षधर्मताज्ञानस्यापि तत्कारणत्वात् तद्विघटकसिद्ध- साधनस्यापि तदौचित्यात् । पक्षधर्मताज्ञानं न तत्करणं किन्तु व्याप्तिज्ञानमिति चेन्न । लाघवात् कारणमात्रस्य प्रयोजकत्वात् । श्रुतिबोधितेऽपि भगवति बहुविधिकर्तृत्वकौटस्थ्यनिरञ्जनादिश्रुतेः इत्यरुचेराह । यदि चेति । ननु श्रवणप्रतिपादिकाया अपि श्रुतेः प्रामाण्यावधारणेऽपीश्वर- प्रतिपादिकायाः श्रुतेः प्रामाण्यसंशये बाधकाभाव इत्यरुचेराह । तथात्वेऽपीति । प्रामाण्य- संशयाहितसंशयस्य तन्निर्णयं विनार्थानुमितावप्यनिवृत्तेरिति भावः । विरुद्धेत्याद्युपलक्षणं स्वरूपासिद्धस्यापीति द्रष्टव्यम् । स्वत इति । साक्षादित्यर्थः । अर्थान्तरेति । तच्च पुरुषदोषतयाऽनुमितिप्रतिबन्धकं पुरुषः परं सापराधः पररुकारुणिकतया स्वदोषं पश्यन्नपि प्रयोगं कुर्यादिति भावः । पक्षधर्मताज्ञानस्येति । तथा च पक्षताया अपि करणकोटिप्रवेशात्तद्विघटक- सिद्धसाधनस्यापि करणविघटकत्वमिति भावः । लाघवादिति । एवं च पक्षतायाः स्वातन्त्र्येणापि कारणतया तद्विघटकतया हेत्वाभास इति सूचितम् । नन्वेवं प्रत्यक्षसामग्र्यादिकमप्याभासः स्यादिति वाच्यम् । ज्ञायमानस्य यस्य कारणविघटकत्वं तस्य हेत्वाभासत्वमित्युपगमात् । अत एव नात्ममनोयोगाभावादावप्यतिप्रसङ्गः । नन्वेवं सिद्धसाधनमपि न हेत्वाभासः, स्वरूपसत्प्रति- स्यान्न तु प्रामाण्यविषयकमतो नोक्तविरोध इति चेन्न । प्रामाण्यसंशये जागरूके कुतोऽपि न विप- र्ययसंशयव्युदासः, तन्निदानानुच्छेदादिति प्रामाण्यानुमानानुसरणावश्यंभावात्, अनन्तरञ्च तत एव विषयनिश्चयात् किं पुनर्विषयनिरूपणेनेति भावः । श्रवणेऽपीति । श्रोतव्य इत्यादिश्रुतावपि प्रामाण्यसन्देहसम्भवादित्यर्थः । यद्यपि श्रुतिभेदादन्यत्र तन्निञ्चयेऽप्यन्यत्र संशयो नासम्भवो, तथापि प्रवृत्तिसंवादाद्यभावे आप्तोक्तत्वमेव तन्निर्णायकं, तच्चोभयत्राविशिष्टमिति भावः । वस्तुतस्तु एतदस्वरसादेव प्रागुक्तं सामानाधिकरण्यविरोधं स्मारयति । तथात्वेऽपीति । विरुद्धेत्युपलक्षणं, स्वरूपासिद्धादेरपि द्रष्टव्यम् । स्वत एवेति । साक्षादित्यर्थः । अर्था- न्तरेति । तच्च पुरुषदोषो न हेतुदोष इति न्यायोपदेष्टरि सापराधोऽप्यात्ममननसिद्धिरप्रत्यहे- वेति भावः । पक्षधर्मतेति । यद्यपि पक्षधर्मतायाः स्वातन्त्र्येण पृथक्कारणत्वात् तद्विघटकत्वेऽपि न ज्ञानविघटकत्वं, तथापि यः पक्षस्तद्धर्मताज्ञानत्वेन हेतुत्वमिति पक्षताया अवच्छेदकत्वाभ्युपग- मेन यादृशज्ञानस्य हेतुत्वं तादृशज्ञानस्य विघटकत्वमस्त्येवेति भावः । कारणमात्रस्येति । तथा च पक्षतायाः पृथक्कारणत्वपक्षे तद्विघटकतयाऽपि तदौचित्यमित्यपि ध्वनितम् । न च ज्ञायमानप्रतिबन्धकत्वाभावान्न सिद्धसाधनं हेत्वाभास इति वाच्यम् । प्राचीनमतेऽनुमित्यसाध- रणदोषस्यैव तथात्वात् । एवमपि साध्यज्ञानमादाय साध्यस्य तथात्वे बाधकाभावाच्चेति भावः । ति । धर्म्मे धम्मिणि च सन्देहाभावेनेत्यर्थः । दूषकता त्वर्थान्तरान्तर्भावादिति । प्रकृता-
२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ का० अव० अवतरणिकायां प्रकाशः। कुत्र श्रुतिर्मुख्यार्था, कुत्र वोपचरितार्थेति तात्पर्य्यसन्देहात् सन्देह इति चेन्न। तथापि धर्मस्वरूपे संशयानुपपादनात् तात्पर्य्यग्राहकन्यायाभिधानमात्रस्योचितत्वात्। कर्तृत्वादौ सन्देहादुत्कटकोटिकौ धर्मिण्येव सन्देहः, अन्यथा धर्मं क्वापि संशयविषयो न स्यादिति चेन्न। “श्रोतव्यो मन्तव्य” इत्यत्रात्मज्ञानस्य मोक्षहेतुत्वं न तु तद्धर्मिककर्तृत्वादिनिश्चयस्येति तत्सन्देहस्यानुच्छेद्यत्वात् । तथापि निर्धर्मकस्य तस्य ज्ञातुमशक्यत्वात्तद्धर्मनिश्चयोऽप्यादरणीय इति चेन्न । परस्परविरुद्धप्र- कारेण तच्चिन्तनोपपत्तेरिति दिक्। अत्रोच्यते । साध्यज्ञानं न स्वतः साध्यज्ञानविरोधि , धारावाहिकसत्त्वात् । नापि साध्यानु- मितिविरोधि , प्रत्यक्षाधिगतस्याप्यनुमितिदर्शनात् , किन्तु सिषाधयिषाघटितपक्षत्वविघटन- द्वारा । सिषाधयिषा च साध्यज्ञानेच्छा , सा च द्वयी साध्यज्ञानमात्रे तद्विशेषे च। तत्र या साध्यज्ञानमात्रेच्छा सा श्रौतज्ञानान्निवर्त्तताम् , यत्किञ्चिद्विशेषसिद्ध्यैव हि सामान्येच्छाविच्छेदः, अन्यथा सकलविशेषसिद्धेरसम्भवेन तद्विच्छेदः क्वापि न स्यादेव। या त्वनुमितिरूपसाध्यज्ञान- विशेषेच्छा सा कथं निवर्त्तेत , तद्विषयस्य ज्ञानविशेषस्यासिद्धेः , इच्छायाः स्वविषयसिद्धिनिव- प्रकाशिका। र्त्तकत्वादिति वाच्यम् । तद्विषयस्य साध्यस्यैव तेन हेत्वाभासत्वोपमात् । तथापीति । यत्र संशयस्तत्रैव न्यायाभिधानस्योचितत्वात् श्रोतव्यो मन्तव्य इति प्रतीतसामानाधिकरण्यभङ्गापत्ति- रिति भावः। परस्परेति । तत्र च न संशयः, विरुद्धस्यैव संशयप्रकारत्वादिति भावः। नन्वस- ङ्गोचादीश्वरपरसर्वश्रुतिबोधिततावत्प्रकारकमननस्य मोक्षहेतुतेति तन्मध्ये विरोधप्रतिसन्धानम- स्त्येव, तथा च तन्निबन्धनः संशयोऽपि स्यादेव, तथा च मननमपि स्यादेवेत्यनुशयादाह- दिगिति । एवमपि श्रवणप्रकारीभूतयावद्धर्मप्रकारकमननासम्भवात् स्वविरुद्धप्रकारे संशयाभावात् श्रोतव्यो मन्तव्य इत्यत्र च विशिष्टसामानाधिकरण्यस्यौत्सर्गिकत्वादिति भावः। इच्छाया इति । नन्विच्छा न विषयनिष्पत्तिनिवर्त्या, जातेऽपि पुत्रे पुत्रेच्छायास्तदज्ञाने- ऽनिवृत्तेः, किन्तु विषयधीनिवर्त्या, एवं च जातायामप्यनुमितौ तदज्ञानेऽनुमितिः स्यादिति चेन्न । बाह्ये विषये विषयज्ञानस्य आन्तरे विषयस्यानन्वयव्यतिरेकाभ्यामिच्छाविरोधावधारणात् विरोधित्वञ्चा- न्येच्छाप्रतिबन्धकत्वमेव, न तु पूर्वेच्छानिवर्त्तकत्वं तस्या विरोधिगुणेनैव निवृत्तेः । मिश्रास्तु असिद्धत्वज्ञानमिच्छाकारणं तच्च बाह्ये विषये सत्यपि सिद्धत्वे भ्रमरूपं सुलभम् । आन्तरे तु सति सिद्धत्वे भ्रमरूपमप्यसिद्धत्वज्ञानं न सम्भवतीति तदभावान्नेच्छेति वदन्ति । तच्चिन्त्यम् । अन्ये- न्द्रियजन्यासिद्धत्वज्ञाने सत्यप्यन्येन्द्रियजन्यसिद्धत्वज्ञान इच्छानुत्पत्तेः, सिद्धत्वं हि तत्तत्सम्बन्धा- मकरन्दः। तात्पर्येति । यत्र सन्देहस्तत्रैव न्यायाभिधानस्योचितत्वादित्यर्थः। तात्पर्यसन्देहादपि धर्मसन्देहो न धर्मिणीति तत्र न्यायाभिधानमनुचितमेवेति भावः। परस्परेति । तथा च न संशयः, विरुद्धप्रकारकस्यैव संशयत्वादिति भावः। न चासङ्गोचादीश्वरपरसर्वश्रुतिबोधिततावत्प्र- कारेण मननं मोक्षहेतुः । तत्र च विरोधप्रतिसन्धाननिबन्धनसंशयावश्यम्भावान्ममननमस्त्विति वाच्यम् । अविरुद्धप्रकारे संशयाभावादेवमपि तावत्प्रकारकमननासम्भवात् । एतदेवाभिसन्धा- योक्तं दिगिति । · इच्छाया इति । ननु विषयसिद्धिनिवर्त्या नेच्छा, किन्तु तद्धीनिवर्त्या । अन्यथा प्राप्तध- नस्यापि तत्प्राप्तिमजानतस्तदिच्छाविच्छेदापत्तेः। एवञ्च सिद्धसाधनस्थलेऽप्युत्पन्नसिद्धेरग्रहे तदि- च्छाया अनिवृत्तेः पक्षता स्यादिति चेत् ।
प्रथमस्तवके ] सिद्धसाधनस्यानुमानदूषकत्वसमर्थनम्। २५ प्रकाशः। र्थत्वात्। अत्र च श्रोतव्यो मन्तव्य इति श्रुत्या मननस्येष्टसाधनत्वावगतेः श्रौते ज्ञाने-वृत्तेऽपि मननस्यासिद्धत्वात् तत्रेच्छा भवत्येवेति न सिषाधयिषाविघटनद्वारादूषणभावस्य सिद्धसाधन- स्यावकाशः, इच्छाविषयतावच्छेदकरूपवत्सिद्धेः सिद्धपदेन विवक्षितत्वात्। अत एव सिद्धसा- धनं दशाविशेषे दोषः, पृथक् च न दूषणम्, असिद्धयुपजीव्यत्वेऽपि बाधवत् स्वतौ दूषकत्वा- भावात्, किन्तु दूषकतायामुपाधेरिव परमुखनिरीक्षकत्वात्। भवेदेवं यदि सिषाधयिषाघटितं पक्षत्वम्। तदेव न। तस्य विशेषणतोपलक्षणतयोरुभयत्रापि दोषात्। योग्यतायाश्च तदवच्छेद- प्रकाशिका। वच्छिन्नविषयत्वरूपमेवेति। ननु सिद्धीच्छाविरोधिन्याः श्रौतप्रतेपत्तेर्विद्यमानत्वात् कथं सिपाध- यिषा अत आह— इच्छाविषयेति । नचैवं निरन्तरानुमितीच्छायामनुमित्यानन्त्यापत्तिः। परा- मर्षस्य प्राथमिकत्वे अनुमितिकाले तन्नाशात्, सिषाधयिषायाश्च तथात्वे तस्या एव तत्काले नाशात्। न च लिङ्गोपधानपक्षे प्रसङ्गः। अनुमितिद्वयस्येष्टत्वात्। उत्तरकालं च सिषाधयिषाविर- हेणाप्रसङ्गात्। मिश्रास्तु विषयान्तरसञ्चारस्य प्रतिबन्धकत्वान्नानुमित्यानन्त्यम्। अन्यथा सिषाधयिषोत्तरसिद्धिप्रागभावावच्छिन्नकालस्यैव सिषाधयिषापदार्थत्वेन लिङ्गोपहितलैङ्गिकभानपक्षे तदानन्त्यापत्तिरित्याहुः। तच्चिन्त्यम्। सर्वापेक्षया भिन्ने विषये अनुमितिसामग्र्या बलवत्वेन विषयान्तरसञ्चारास्याभावात्। यदपि तैरुक्तमेकस्योभयसामग्रीत्वे अनुमितिसामग्रीवलवत्वं भिन्ने विषये इह त्वनुमितिसञ्चारसामग्र्योर्भिन्नतया नानुमितिसामग्रीवलवत्वमिति। तदपि चिन्त्यम्। तद्देशस्थितवृक्षादीन्द्रियसन्निकर्षकालेऽनुमितेरनुभूयमानत्वादिति। अत एव = सिषाधयिषादूष- कताप्रयोजकविघटनकदाचित्कत्वादेवेत्यर्थः। पृथङ् न दूषणमित्यत्र हेतुमाह—असिद्धीति। विशेषणेति। परामर्शपूर्वमेव नाशान्न विशेषणत्वम्, अतिप्रसङ्गान्नोपलक्षणत्वमित्यर्थः। मकरन्दः। अत्राहूः विषयसिद्धिः साक्षान्नेच्छानिवर्तिका, उत्पन्नायास्तस्या विरोधिगुणनिवर्त्यत्वात्। तस्मात्तद्धेतोरसिद्धत्वज्ञानस्य विघटनद्वारा इच्छान्तरनोत्पत्तिप्रतिबन्धकत्वेन तथात्वं वाच्यम्। ततः प्रकृते सिद्धश्रुत्पादमात्रेणैव सिद्धौ सत्यां तदसिद्धत्वभ्रमसंशयाभावात्। धनादिस्थले च तत्सम्भ- वेन ज्ञप्तिपर्यन्तानुसरंणमिति। इच्छेति। न चैवं निरन्तरानुमितित्वेनेच्छायां निरन्तरानुमित्यापत्तिः, इष्टत्वात्। न चानु- मित्यानन्त्यम्। तृतीयक्षणे परामर्शस्यैव विनाशात्। न च लिङ्गोपधानमतेऽनुमित्यात्मकपरामर्ष- मादाय तदापत्तिः। अनुमितिद्वयस्येष्टत्वात्। उत्तरकालं च सिषाधयिषानाशादेव तदापत्त्य- भावात्। यत्तु विषयान्तरसञ्चारसामग्रीबलवत्त्वान्न तथाऽनुमितिरिति। तच्चिन्त्यम्। भिन्ने विषये प्रत्यक्षसामग्रीतोऽनुमितिसामग्र्या वलवत्त्वात्। अत एव परामर्शानन्तरं न परामर्शान्तरं, तदनुव्यवसायो वा। अन्यथा सिद्धसाधनस्थले तत्सामग्र्या एव प्रतिबन्धकत्वसम्भवे सिद्धेर- प्रतिवन्धकत्वे तदभावरूपपक्षताया हेतुत्व एव मानाभावात्। अत एवेति। दूषणत्वप्रयोजकसिषाधयिषाविघटनस्यासार्वदिकत्वादेवेत्यर्थः। द्वितीये हेतु- माह। असिद्धीति। वस्तुतो ज्ञायमानप्रतिवन्धकत्वाभावादेव न हेत्वाभासत्वम्। साध्यञ्च न यथा हेत्वाभासस्तथोक्तमनुमानप्रकाशे। विशेषणेति। लिङ्गदर्शनादिना तन्नाशाद् न विशेषणत्वं, सिद्धसाधनस्थलेऽप्यतिप्रसङ्गान्नोपलक्षणत्वमित्यर्थः। साधकप्रमाणपदं सिद्धिपरम्। तेन घनग- र्जितस्थले परामर्शत्मकसाधकप्रमाणमादाय; नाव्याप्तिः। सिद्धयुपहितप्रमाणपरं तदित्यन्ये। ४ न्या० कु०
२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ का० अव० अवतरणिकायां प्रकाशः । करूपपरिचेयत्वादिति चेन्न । सिषाधयिषाविरहसहकृतसाधकप्रमाणाभावस्य तत्त्वात् । स च विशिष्टाभावो यत्र साधकप्रमाणसिषाधयिषे स्तः तत्र विशेषणाभावात् , यत्रोभयाभावस्तत्र विशे- प्रकाशिका । सिषाधयिषेति । अत्र साधकमानं सिद्धिरेव । सिद्धितत्करणान्यतरद्धेति व्याख्यातमन्यत् । ननु सिद्धेः प्रतिबन्धकत्वे मानाभावः, न चानुमित्यनन्तरमनुमित्यापत्तिः, द्वितीयानुमिताविष्टा- पत्तेः, उत्तरकालं च परामर्शाभावात् । न च लिङ्गोपधानपक्षेऽनुमित्यविच्छेदः स्यादिति वाच्यम् । तदनभ्युपगमात् । अत्र केचित् । वह्निव्याप्यवत्वमेव यत्र पक्षतावच्छेदकं तत्र पक्षतावच्छेदकस्या- नुमितौ भानादनुमित्यविच्छेदः सिद्धेरप्रतिबन्धकत्व इति । तदयुक्तम् । तत्र वह्निव्याप्यवत्त्वलिङ्गि- कानुमितिरापाद्या, धूमलिङ्गिका वा, नाद्यः, तदीयवह्नित्र्याप्यत्वस्यानुमितावभानात् , न द्वितीयः, धूमत्वस्यानुमितावभानात् । न च वह्निव्याप्यधूमवत्वमेव यत्र पक्षतावच्छेदकं तत्रानन्त्यापत्तिः, धूमलिङ्गकानुमितिसामग्रीसत्त्वादिति वाच्यम् । यद्धर्मसामानाधिकरण्येन हेतुः परामर्शविषयः तस्यैव पक्षतावच्छेदकत्वेनानुमितौ भानमिति धूमलिङ्गकप्रथमानुमितेः वह्निव्याप्यधूमवत्त्वावगाहित्वे तत्सामानाधिकरण्येन धूमवत्त्वानवगाहितया द्वितीयानुमितेः पक्षतावच्छेदकत्वेन वह्निव्याप्यधूम- वत्त्वानवगाहितया अनुमितिधाराविच्छेदादिति । अत्र वयं ब्रूमः, एवं सति संशयविपर्ययोत्तरप्रत्य- क्षानुव्यवसायो न स्यादनुमितिसामग्रीसत्त्वात् । सिद्धेः प्रतिबन्धकत्वे तु प्रत्यक्षसत्त्वान्नानुमितिसाम- ग्रीति भवत्यनुव्यवसायः । नचानुव्यवसाय एव मास्तु, तथा सति तादृशप्रत्यक्षे मानाभावेनासमा- नविषयेऽनुमितिसामग्र्या बलवत्त्वमित्यपि भज्येत, तस्मादवश्यं सिद्धेरनुमितिप्रतिबन्धकत्वम् । न च तथा सत्यपि प्रत्यक्षसामग्रीसत्त्वादेव नानुव्यवसाय इति वाच्यम् । इन्द्रियसन्निकर्षविच्छेदकाले तत्सम्भवात् । न चानुव्यवसायेच्छासहकारादनुव्यवसायसामग्री बलवतीति वाच्यम् । एवमपि मकरन्दः । सिषाधयिषायाश्च विशेषणत्वमेव, तदुत्तरस्मरणलक्षणपरामर्शादनुमितौ विनश्यदवस्थसिषाधयि- पायास्तथात्वात् । ननु सिषाधयिषा तत्पुरुषीयतया तत्कालीनतया तत्साध्यीयत्वादिनिा चावश्यं विशेषणीया । अन्यथा व्यधिकरणास्रन्यकालीनामन्ससाध्यलिङ्गपक्षीयाञ्च सिषाधयिषामादाय पक्षतासत्त्वे सिद्ध- साधनेऽप्यनुमित्यापत्तिः । एवञ्च तादृशसिषाधयिषाया घनगर्जितस्थलादावप्रसिद्धेः कथं तद्घ- टिता तत्र पक्षतेति चेन्मैवम् । व्यधिकरणाया अन्यकालीनायाश्च तस्यास्तदा तत्पुरुषे विरह एवे- ति तामादायातिप्रसङ्गाभावात्तल्लिङ्गकतत्साध्यकतत्पक्षकानुमितिगोचरेच्छाया एव विवक्षितत्वात् , तादृश्याश्च घनगर्जितस्थलेऽपीश्वरेच्छाया एव प्रसिद्धत्वात् । तादृशानुमित्यसम्भवे पक्षताभावेऽपि न क्षतिः । नचैवं बाधादेरनुमितिप्रतिबन्धकत्वं न स्यात्, तत्र तादृशानुमित्यसम्भवे पक्षताविर- हादेव तदनुत्पत्तेरिति वाच्यम् । वाधायनवतारदशायामम्यदा तादृशानुमितिसम्भवे तद्घटितपक्ष- तास्त्वे तदा बाधादेव प्रतिबन्धकत्वात् । ननु तत्कालिकत्वेनाप्यनुमितिरवश्यं विशेषणीया । अन्यथाऽन्यकालिकानुमितिगोचरेच्छामादायातिप्रसङ्गादिति चेत् । अस्तेवं, तथापि पक्षतावि- रहेऽपि बाधादेव तत्रोपजीव्यत्वात् । अन्यथाऽनुमितिसत्त्वे तद्घटितपक्षताया अप्यावश्य- कत्वात् । पक्षताविरहादेवानुमित्यभावेऽन्योन्याश्रयात् । एतेन सिषाधयिषा न सिद्धित्वप्रकारिकेच्छा, प्रकृते तदभावात् । नापि सिद्धिविषयेच्छा- मात्रम् , प्रत्यक्षेण जानीयामितीच्छायामपि तदापत्तेः । नाऽप्यनुमितित्वप्रकारिकेच्छा । एकलि-