भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

६८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५७ ननु तच्छीलादितृन्विषये ण्वुलपि स्यात् । न च तृन्नपवादः ; अस- रूपापवादस्य विकल्पेन बाधकत्वात्, अत आह— ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति ॥ ६८ ॥ —: ✤ :— ण्वुलि सिद्धे ‘निन्दहिंसादि’सूत्रेण एकाच्भ्यो वुञ्विधानमत्र ज्ञापकम्, तत्र ण्वुल्वुञोः स्वरे विशेषाभावात् । ताच्छीलिकेष्विति विषयसप्तमी, तेन ताच्छीलिकैरताच्छालीकैश्च वा असरूपविधिर्नेति बोध्यम् । नन्वेवं ‘कम्रा कमने’त्याद्यसिद्धिः, नमिकम्प्रीति रेणानुदात्तेतश्च हलादेरिति युचो बाधादिति चेन्न । ‘सूददीपदीक्षश्चे’त्यनेन दीपेर्युङ्निषेधेन उक्तार्थस्य अनित्यत्वात् ॥ ६८ ॥ शेषोत्तरमीत्वम् । सम्प्रसारणविषये तु नायं न्यायः प्रवर्तते, लिट्यभ्यासस्येत्यत्रोभयेषां ग्रहणेन तद्विषये एतदप्रवृत्तेर्ज्ञापनात्, तेन ‘विव्यथे’ इत्यादौ यकारस्य सम्प्रसारण- सिद्धिरिति प्राहुः ॥ ६७ ॥ अपवादप्रस्तावादाह—ननु तच्छीलादीति । ण्वुलपि स्यादिति । कर्तृसामान्ये विधीयमानस्यास्य ताच्छील्यादिविशिष्टे कर्तरि प्रवृत्तौ बाधकाभावादिति भावः । स्वरे विशेषाभावादिति । ‘निन्दक’ इत्यादौ ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वे लितीति प्रत्ययात्पूर्वस्य उदात्तत्वे वा विशेषाभावादित्यर्थः । ननु ताच्छीलिकेषु वाऽसरूपविध्यभावे ‘निराकर्ता, निराकरिष्णुरि’त्यादौ तृनिष्णुचोः पर्यायता न सिद्ध्येदत आह—विषयसप्तमीति ॥ ६८ ॥ आरभ्य ‘प्राहुः इत्यन्तं तृतीयः प्रकारः प्रतिपादितः । सोऽपि ‘केचित्तु’ मतादविशिष्ट एव प्रतीयत इति ‘बोभूयते’ इत्यस्यासिद्धेरुपेक्ष्य एवेति बोध्यम् ॥ ६७ ॥ मूले—ण्वुलिति । करणस्याधिकरणत्वविवक्षया सप्तमी । ताच्छीलिकेषु इति अभि- व्यापकाधारे सप्तमी इत्याभिमानेनाऽऽशङ्कते—नन्विति । मूले—विषयसप्तमीति । विषयता च उत्सर्गापवादयोस्तत्त्वेनापवादस्य वा, अपवादस्य तु तत्त्वं सर्वथाऽपेक्यत इति भावः, तदाह—तेनेति । ताच्छीलीकानामपवादानामिति शेषः । एवञ्च ताच्छीलिकेषु परस्परं वाऽसरूपविधिर्नेति परिभाषान्तरं न मन्तव्यम् । एकेनैव ज्ञापकेन उभयोरपि लाभात् । वस्तुतस्तु—नैतद्विषयसप्तम्याः फलम्, ‘ताच्छीलिकेषु’ इति ताच्छीलीकापवादपरम् । अभि- व्यापकाधारे सप्तमी । अस्तु ताच्छीलीकापवादप्रत्ययः, उत्सर्गस्य ताच्छीलिकत्वे वाऽसरूपन्याया- प्रवृत्तौ ‘अनुदात्तेतश्च’ इति युचासिद्धे पुनर्ज्रुचङ्क्रम्येति पदेर्युज्विधानमपि गमकं बोध्यम् ॥ ६८ ॥ ३३

२५८ परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवं ‘हसितं छात्रस्य हसनमि’त्यादौ घञ् ‘इच्छति भोक्तुमि’त्यत्र लिङ्‌लोटौ ‘ईषत्पानः सोमो भवते’त्यत्र खल् प्राप्नोतीत्यत आह— क्तल्युट्‌तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति ॥ ६९ ॥ —: ✤ :— इदं च वाऽसरूपविधेरनित्यत्वात्सिद्धम् । तदनित्यत्वे ज्ञापकं ‘चाहें कृत्यतृचश्चे’ति । तत्र हि चकारसमुच्चितलिङा कृत्यतृचो बाधो मा भूदिति कृत्यतृज्ग्रहणं क्रियत इत्यन्यत्र विस्तरः । वाऽसरूपसूत्रे भाष्ये स्पष्टा ॥ ६९ ॥ ननु ‘श्वः पक्ते’त्यत्र वाऽसरूपविधिना लृडपि प्राप्नोति, कृते आदेशे वैरूप्यादत आह— लादेशेषु वाऽसरूपविधिर्नास्ति ॥ ७० ॥ —: ✤ :— आदेशकृतवैरूप्यवत्सु लकारेषु स नास्तीत्यर्थः । घञिति । न चैवं ‘परिहास’ इत्यस्यासिद्धिरिति वाच्यम् ; हसेः पचाद्यजन्ताद् घञर्थकान्ताद्वा प्रज्ञाद्यणि णिजन्तात्पचाद्यचि वा तत्सिद्धिसम्भवात् । अत एव परीपाक- शब्दवत् परिहासे ‘उपसर्गस्य घञ्यि’ति दीर्घो नेति बोध्यम् । विधेरनित्यत्वादिति । अनेनैव पूर्वोत्तरपरिभाषयोः सिद्धौ पृथग् ज्ञापकान्तरोप- वर्णनं प्रपञ्चार्थमिति बोध्यमित्यन्यत्र विस्तरः ॥ ६९ ॥ कृते आदेशे वैरूप्यादिति । वाऽसरूपसूत्रे सरूपपदेन स्वावृत्तिरूपवान् गृह्यते, तत्र स्वपदेनाविशेषात् आदेशरूपस्यापि स्वस्य ग्रहणात् प्रकृते आदेशरूपः स्वं लुट्स्थानिक- स्तिशब्दस्तस्यापि स्थानिवत्त्वेन लुट्त्वात् तद्वृत्ति-डाशब्दत्वरूपवान् लुडस्ति इति लुटो विकल्पेन लृड्बाधकत्वापत्तिः । प्रायोगिकासारूप्यमात्रग्रहणे विकल्पासहत्वस्य पूर्वमुपपादितत्वेऽपि तत्साधारणग्रहणे बाधकाभावादिति भावः । आदेशकृतवैरूप्यवत्स्विति । उक्तज्ञापकरूपबाधकसत्त्वात् ‘वाऽसरूप’सूत्रेऽपवादपदेन ननु वाऽसरूपसूत्रे असरूपपदेन औपदेशिकसारूप्यवद्भिन्नस्य ग्रहणेन प्रकृते न दोष इति चेदाह—वाऽसरूपसूत्र इति । लृड्बाधकत्वापत्तिरिति । ननु वाऽसरूपसूत्रे प्रायोगिका- सारूप्यस्य ग्रहणं न भवतीत्यस्य ‘नानुबन्धकृतमसारूप्यम्’ इति परिभाषायामुपपादितत्वेनात्र डाशब्दत्वरूपप्रायोगिकासारूप्योपादानेन दोषदानमयुक्तमित्याशङ्कायामाह—प्रायोगिकासारूप्य- मात्रग्रहण इति । मात्रपदेन औपदेशिकस्य व्यावृत्तिः । विकल्पासहत्वस्येति । प्रयोगमात्रा- वच्छेदेन प्रयोगसामानाधिकरण्येन वैत्येवंरूपविकल्पासहत्वस्येति तदर्थः । तत्साधारणग्रहण इति । औपदेशिक-प्रायोगिकयोरुभयोरपि ग्रहणे इति तदर्थः ।

७०-७१ पृ० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५९ अत्र च 'हशश्वतोर्लङ् चे'ति लङ्-विधानं ज्ञापकम् ; अन्यथा 'परोक्षे लिडि'ति लिटा लङः समावेशोऽसारूप्यात् सिद्ध इति किं लङ्-विधानेन ? शत्रादिभिस्तिडां समावेशार्थं शतृविधायके विभाषाग्रहणानुवृत्तिः, 'लिटः कानज्वे'ति वाग्रहणं च कृतम् । तज्ज्ञापयति वाऽसरूपसूत्रे अपवाद आदेश- त्वानाक्रान्तः प्रत्यय एव गृह्यत इति कैयटादौ ध्वनितम् । तत्फलन्तु सदा- दिभ्यो भूतसामान्ये लिटा क्वसुरेव, न तु पक्षे तिडिति बोध्यम् ॥ ७० ॥ ननु 'ङमो ह्रस्वादि'त्यादौ ङमः परस्याचोऽचि परतो ङम इति वेति सन्देहः स्यादत आह— लादेशत्वानाक्रान्तस्य ग्रहणम् । तथा च वाऽसरूपसूत्रे लादेशभिन्नो यः स्वं तद्वृत्ति- रूपवान् असरूपपदेन गृह्यत इति फलति । न च लादेशभिन्नः स्वं लुट्शब्दस्तद- वृत्तिरूपं लुट्त्वं तद्वान् लृडिति दोषस्तदवस्थ एवेति वाच्यम् ; 'नानुबन्धकृतमसा- रूप्यमि'ति परिभाषया अनुबन्धरहितस्यैव स्वस्य ग्रहणेन स्वपदेन लृडित्यानुपूर्वी- मतोऽग्रहणात् । एवञ्च रूपपदेनापि अनुबन्धरहितवृत्तिन एव ग्रहणं बोध्यम् । यदि तु वाऽसरूपसूत्रे औपदेशिकसारूप्यवद्भिन्नोऽनुबन्धरहित एव गृह्यते, तदा शत्रादिभिस्तिङामसारूप्यादेव विकल्पसिद्धौ 'लटः शतृशानचौ' इत्यत्र विभाषाग्रहण- वैय्यर्थ्यादिमूलोक्तदूषणानि दुर्वारतायापद्येरन्निति ॥ ७० ॥ सन्देहः स्यादिति । ननु 'तस्मिन्नि'ति, 'तस्मादि'ति परिभाषोपस्थितपूर्वपर- पदार्थयोरभेदेनान्वयेन 'सुगण्-परमआत्मे'त्यादौ परमशब्दे तयोः सामानाधिकरण्येन विरोधाभावात् संशयानुपपत्तिरिति चेन्न । तयोः परिभाषयोः पूर्वत्व-परत्वान्यतरद्- षष्ठ्यर्थव्यवहितत्वेत्यंशत्रयोपस्थापकत्वेन यत्र स्वघटकांशः सिद्धो बाधितो वा भवति तत्र तद्रहितांशोपस्थापकत्वम्, यथा 'परञ्चे'त्यधिकारे अव्यवधानांशमात्रो- पस्थापकत्वम् । एवं चात्र संभेदेनान्यतरवैय्यर्थ्यात्, सप्तमीपरिभाषोपस्थितांशस्य लादेशत्वानाक्रान्तस्येति । ननु वाऽसरूपसूत्रे औपदेशिकस्यैवासारूप्यस्य ग्रहण- मस्तु इत्येतावतकल्पनयैव आदेशकृतवैरूप्यवत्सु लकारेषु दोषाभावेन लादेशत्वानाक्रान्त इति सङ्कोचो विफल इति चेन्न । त्वन्मते शत्रादिभिस्तिडां समावेशसिद्धये विभाषाग्रहणं व्यर्थं स्यात्, क्वसुना तिङाञ्च नित्यं बाधश्च न स्यादित्याशयेन तथासङ्कोचस्याङ्गीकारात् । तदेतत् 'यदि तु' इत्यादिनाऽग्रे स्फुटम् ॥ ७० ॥ सम्भेदेनेति । अभेदेन पूर्वस्य परस्य च परस्परमभेदान्वयेनेति यावत् । अन्यतर- वैय्यर्थ्यादिति । अन्यतरस्य = षष्ठ्यर्थस्य वैय्यर्थ्यादित्यर्थः ॥ ७१ ॥ ॥ इति श्रीवैयाकरणप्रवर 'गणपतिशास्त्रिमोकाटे' कृत-तत्त्वप्रकाशिकाभिधे 'भूति'-व्याख्याने बाधबीजनामकं द्वितीयं प्रकरणम् ॥ २ ॥

२६० परिभाषेन्दुशेखरः [ २ प्रकरणे- उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ॥ ७१ ॥ -: ❀ :- अचीति सप्तमीनिर्देशस्य ‘मय उञ्’ इत्युत्तरत्र चारितार्थ्यात् पञ्चमी- निर्देशोऽनवकाश इति ‘तस्मादित्युत्तरस्ये’त्यस्यैव प्रवृत्तिः । यत्र तु ‘ङः सि धुडि’त्यादौ उभयोरप्यचारितार्थ्यं तत्र तस्मिन्निति सूत्रापेक्षया ‘तस्मा- दित्युत्तरस्ये’त्यस्य परत्वात्तेनैव व्यवस्था । एवमुभयोश्चारितार्थ्येऽपि ; यथा ‘आमि सर्वनाम्न’ इत्यादौ । तत्रा आमीति सप्तमी ‘त्रेस्त्रय’ इत्यत्र चरि- तार्था । आदिति पञ्चम्यात् ‘जसेरसुगि’त्यत्र चरितार्थेति स्पष्टं तस्मि- न्निति सूत्रे भाष्ये कैयटे च ॥ ७१ ॥ ॥ इति बाधबीजनामकं द्वितीयं प्रकरणम् ॥ विशेष्यत्वविवक्षायां पञ्चमीपरिभाषोपस्थितस्य परस्येत्यस्य विशेषणत्वेन विशेषण- विभक्तेर्निरर्थकत्वाच्च तदुपस्थितपरत्वांशस्य श्रुतानुमितपरिभाषया अच्पदार्थेनान्वयाद् ङमः परो योऽच् तदव्यवहितपूर्वस्येत्यर्थेऽपि परतो ङमो ङमुट् प्राप्नोति । पञ्चमी- परिभाषोपस्थितस्य विशेष्यत्वे सप्तमीपरिभाषोपस्थितस्य विशेषणत्वे च पूर्वरीत्या तस्य ङम्पदार्थेऽन्वयेन अजव्यवहितपूर्वङम उत्तरस्येत्यर्थेन ङम उत्तरस्याचो ङमुट् प्राप्नोतीति सन्देहस्य सूपपादत्वात् । न च द्वयोरपि परिभाषयोः षष्ठ्यर्थोपस्थाप- कत्वे फलाभावः, ‘उदःस्था०’, ‘इको यणची’त्यादौ स्वविषये षष्ठ्याः सत्त्वादिति वाच्यम् ; ‘पदन्न’ इत्यादौ षष्ठ्यभावेन पादादीनां स्थाने आदेशसिद्ध्यर्थं तदुपस्था- पकत्वावश्यकत्वात् । बलीयानिति । तथा च प्रकृते ‘तस्मादि’ति परिभाषाया एवांशत्रयोपस्थापक- त्वेन अचो ङमुट्सिद्धिः । बलीयस्त्वे हेतुमाह—अनवकाश इति । एवं चेदं वचनं न्यायसिद्धमिति भावः, तेन यत्र सप्तमीनिर्देशस्यैवानवकाशत्वं तत्र सप्तमीनिर्देश एव बलीयान् । अत एव ‘शितुगि’त्यत्र शे परे इत्यर्थलाभः । एतेन ‘उभयनिर्देशे पञ्चमीनिर्देशो बलवानि’ति बलवत्त्वे परत्वादित्येव हेतुरिति वदन्तः परास्ताः । परत्वादिति । विप्रतिषेधाभावेन विप्रतिषेध इति सूत्रविषयाभावेऽपि ‘अणुरपि विशेष’ इति न्यायेन ‘तस्मादि’ति सूत्रस्यै- वात्र प्रवृत्तिसिद्धिः ॥ ७१ ॥ ॥ इति भूतितिलके बाधबीजनामकं द्वितीयं प्रकरणम् ॥

३प्रकरणे, ७२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६१ अथ शास्त्रशेषनामकं तृतीयं प्रकरणम् -: ❖ :- ननु ‘अतः कृकमी’ति सत्वम् ‘अयस्कुम्भी’त्यत्र न स्यात् कुम्भशब्द- स्यैवोपादानात्; अत आह— प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ॥ ७२ ॥ -: ❖ :- सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकबोधकशब्दग्रहणे सति लिङ्गबोधकप्रत्ययविशिष्टस्यापि तेन ग्रहणं बोध्यम् । अपिना केवलस्या- पीत्यर्थः । अस्याश्च ज्ञापकं समानाधिकरणाधिकारस्थे ‘कुमारः श्रमणादिभि’- रिति सूत्रे स्त्रीलिङ्गश्रमणादिशब्दपाठः । स्त्रीप्रत्ययविशिष्टश्रमणादिभिश्च कुमारीशब्दस्यैव सामानाधिकरण्यं न तु कुमारशब्दस्येति तदेतज्ज्ञापकम् । अथ भूतितिलके तृतीयं प्रकरणम् -: ❖ :- कुम्भशब्दस्यैवोपादानादिति । न च ‘एकदेशविकृत’न्यायेन ‘कुम्भी’त्यत्र तत्त्वमिति वाच्यम् ; तस्याक्तपरिमाणत्वेन परिभाषाया अप्रवृत्तेः, एकदेशविकृतत्वाभावाच्च । . कुम्भान्ते कुम्भादावुत्तरपदे इत्यर्थोऽपि नात्र, उत्तरपदाधिकारे प्रातिपदिकग्रहण इति निषेधात् , कुम्भशब्दस्य वर्णत्व-धातुत्वव्याप्यधर्मावच्छिन्नबोधकत्वाभावेन तदादिविध्य- प्रसक्तेश्च । अत एव ‘अयःकुम्भजलम्’त्यादौ सत्वं न । सामान्यरूपेणेति । प्रातिपदिकत्वेनेत्यर्थः । विशेषरूपेणेति । प्रातिपदिकत्वव्याप्य- कुम्भशब्दत्वादिनेत्यर्थः । ज्ञापकमिति । ननु कुमारशब्दत्वस्य ‘कुमारक्रीडायाम्’त्यत्र धातावपि सत्त्वात् प्रातिपदिकत्वव्याप्यत्वाभावेन कथं परिभाषाप्रवृत्तिः । यदि च प्रातिपदिकत्वव्याप्ये- त्यस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदकधर्मेत्यर्थः, ‘कुमार- श्रमणादिभिर्’त्यत्रत्य-कुमारशब्दस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन तत्प्रति- पाद्यतावच्छेदककुमारशब्दत्वस्यातिदेशसम्भव इत्युच्यते; तदा ‘अत इनी’त्यादौ अच्छब्द- अथ तत्त्वप्रकाशिकायां शास्त्रशेषनामकं तृतीयं प्रकरणम् -: ❖ :- कुम्भशब्दस्यैवोपादानादितीति । समासाक्षिप्तोत्तरपदत्वेन इति शेषः । एतेन यस्येति लोपोत्तरम् ‘एकदेशविकृत’न्यायेन कुम्भशब्दत्वात् सत्वं स्यादिति शङ्काऽपि निरस्ता वेदितव्या । प्रातिपदिकत्वेनेत्यर्थ इति । अत एव ‘ङ्याप् प्रातिपदिकात्’ इति सूत्रे प्रातिपदिक- ग्रहणेनैव सिद्धे ङ्याब्ग्रहणेन ङ्याबन्तात् तद्धितोत्पत्तिर्ज्ञापिता भाष्ये । विशेषरूपेणेतीति । धर्मिग्राहकमानादिति भावः ।

इयञ्च द्विषत्परयोरित्याद्युपपदविधौ समासान्तविधौ महदात्त्वे ञ्नित्- स्यापि प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन तत्प्रतिपाद्यतावच्छेदकादन्तत्वस्य स्त्री- प्रत्ययान्तेऽतिदेशापत्त्या 'रमा, गौरी'त्यादावपि इनिप्रत्ययापत्तेरिति चेन्न । प्रातिपदिक- मात्रवृत्तिविषयताप्रयोजकेत्यनेन प्रातिपदिकवृत्तिविषयताप्रयोजकं प्रातिपदिकेतरवृत्ति- विषयताप्रयोजकत्वाभाववच्च यत्तस्य ग्रहणम् । तत्राभावश्च सामानाधिकरण्यसम्बन्धेन पदार्थान्तरान्वयप्रयोज्यो गृह्यते । 'अत इनि'त्यत्र अत्पदस्य प्रातिपदिकपदार्थेन सह सामानाधिकरण्येनान्वयादेव प्रातिपदिकेतरवृत्तिविषयताप्रयोजकत्वाभाववत्त्वेन प्राति- पदिकमात्रवृत्तिविषयताप्रयोजकत्वाभावात् तत्प्रतिपाद्यतावच्छेदकाऽदन्तत्वस्यातिदेशा- सम्भवात् । 'कुमारश्रमणे'त्यत्र सुप्पदसम्बन्धात् कुमारधातुप्रकृतिक-सुपोऽसम्भवादेव कुमारपदस्य प्रातिपदिकेतरवृत्तिविषयताऽप्रयोजकत्वं न तु सामानाधिकरण्यसम्बन्धेन पदार्थान्तरान्वयप्रयोज्यम्, अतः कुमारपदस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन ज्ञापकत्वस्य निष्प्रत्यूहत्वात् । केचित्तु - 'युवाखलती'ति सूत्रे जरतीति स्त्रीलिङ्गनिर्देशोऽस्या ज्ञापकः ; अन्यथा युवशब्देन जरतीशब्दस्य सामानाधिकरण्यासम्भवात् तदसङ्गतिः स्यादिति वदन्ति । द्विषत्परयोरिति । 'द्विषतीताप' इत्यत्र न खश् । समासान्तविधाविति । 'मद्रराज्ञी'- त्यत्र न टच् । महदात्त्व इति । 'महतीप्रिय' इत्यत्र नाऽऽत्त्वम् । ञ्नित्स्वर इति । 'औत्सी'त्यत्र नाऽऽद्युदात्तः । राजस्वरे ब्राह्मणकुमारयोरिति । 'राजकुमारी, राज- विषयताप्रयोजकेति । विषयताऽत्र शाब्दबोधीया ग्राह्या, न तु उपस्थितीया, तस्याः सङ्कुचिताया असम्भवात् । निष्प्रत्यूहत्वादिति । नन्वेवं 'ञ्नित्यादिर्नित्यम्'ति सूत्रस्थभाष्यविरोधः, तत्र हि प्रकृतपरिभाषया लिङ्गबोधकप्रत्ययविशिष्टस्यापि प्राप्तग्रहणवारणाय अस्या अनित्यत्वमभ्युपेयते तन्न सङ्गच्छेत ; भवद्रीत्या प्रातिपदिकग्रहणाभावेन तत्प्राप्तेरभावात्, सामानाधिकरण्येनान्वयादेव प्रातिपदिकेतरवृत्तिविषयताप्रयोजकत्वाभाववत्त्वादिति चेत् - सत्यम् । 'प्रातिपदिकमात्रवृत्ति- विषयताप्रयोजके'त्यादेः प्रातिपदिकविशिष्टधर्मावच्छिन्नविषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदक- धर्म इत्यर्थकरणेनादोषात् । वैशिष्ट्यञ्च - स्ववृत्तित्व-स्वेतरीभूतधात्वितरावृत्तित्वैतदुभयसम्बन्धेन । अदन्तत्वस्य प्रातिपदिकेतरधात्वितरः प्रत्ययादिः, तद्वृत्तित्वमेवेति न दोषः । न टजिति । न चात्र टचि कृते यस्येति लोपेन ङीपो निवृत्तौ तच्छिष्टत्वेन तदन्तात् ङीपि यस्येति लोपेन टचो निवृत्तौ रूपसिद्धिर्भवत्येवेति वाच्यम् ; टजुत्तरं 'भस्याढ' इति पुंवद्भावेन 'नस्तद्धिते' इति टिलोपे टजन्तात् ङीपि 'मद्रराजी' इत्यस्यैवापत्तेः । नाऽऽत्त्वमिति । तस्मिन् सति प्रियादिपरत्वेन पुंवद्भावाप्राप्त्या 'महतीप्रियः' इति स्यात् । 'ञ्नित्स्वरे प्राचामवृद्धात्' इति फिञन्तल्लुचुकायनिशब्दात् 'इतो मनुष्यजातेः' इति ङीषि ग्लुचुकायनीशब्दे नाऽऽद्युदात्तः ।

स्वरे राजस्वरे ब्राह्मणकुमारयोः बहोर्नञ्वदुत्तरपदभूम्नि इत्यादौ समास- सङ्घातग्रहणेषु च न प्रवर्तत इति 'ङ्याप्'सूत्रे भाष्ये स्पष्टम् । विभक्ति- निमित्तककार्ये च नेत्यपि तत्रैव । तत्र समासान्तविधौ अवयवग्रहणं एव न ; समाससङ्घातग्रहणे तु प्रवर्तत एव, स्वरविधावेव समाससङ्घातग्रहणे तत्र ब्राह्मणी'त्यत्र पूर्वपदप्रकृतिस्वरो न । बहोर्नञ्वदुत्तरपदभूम्नीति । 'बहवो गोमन्तोऽस्यां सा बहुगोमती'त्यत्र नञ्वत्स्वरोऽन्तोदात्तो न । समाससङ्घातग्रहणेष्विति । इदं पूर्वान्वयि न तु पृथक् , तेन अवयवीभूतपूर्वोत्तरग्रहणे राजस्वरव्यतिरिक्ते तु एतत्परिभाषा- प्रवृत्तिरिष्टैव । तेन 'कुसूलकूपकुम्भशालं बिल' इत्यनेन बिलशब्दे परतो विधीयमानं कुसूलादीनां प्रकृतिस्वरत्वं यथा 'कुसूलबिलम्'त्यत्र भवति तथा 'कुसूलीबिलम्'- त्यत्रापि भवति ।

२६४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- दोषोक्तेः, 'बहुव्रीहेरूधस' इति सूत्रस्थभाष्याच्च । एतावत्स्वेव अनित्यत्वात्प्रवृत्तिदोषाः खल्वपि साकल्येन परिगणिता इति भाष्योक्तेः । नन्वेवं 'बहुव्रीहेरूधसो ङीषि'ति सूत्रस्थभाष्यासङ्गतिः, तत्र हि 'कुण्डो- ध्नी'त्यत्र 'नद्यृतश्चे'ति कबापादितो नद्यन्तबहुव्रीहेरित्यर्थात् नद्यन्तस्य बहु- व्रीहित्वाभावात्तदसङ्गतिः, नद्यन्तानां यः समास इत्यर्थेन च परिहृतम्। नद्यन्त- प्रकृतिकसुबन्तोत्तरपदकः समास इति चेत्-न; अनया परिभाषया स्त्रीप्रत्यय- समभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्व-तद्व्याप्यधर्माणां विशिष्टेऽपि यस्ये'त्यत्र भ्रातृशब्दान्तबहुव्रीहित्वातिदेशेन 'वन्दिते भ्रातुरि'ति कब्निषेधसिद्ध्या '

७२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६५ पर्याप्तत्वमतिदिश्यत इत्याशयात् ॥ ७२ ॥ स्वविशिष्टवर्त्तिनः प्रातिपदिकमात्रवृत्ति-विषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदकधर्मस्य अनयाऽतिदेश इत्याशयः । उभयत्र वैशिष्ट्यञ्च—स्वाव्यवहितपूर्वत्व-स्वनिष्ठविधेयता- निरूपितोद्देश्यताश्रयघटकत्वोभयसम्बन्धेनेति एकरूपमेव, तेन 'अयस्कर्णी'त्यत्र 'पाक- कर्णे'ति सूत्रेण अयस्कर्णशब्दात्ङीष्यपि कर्णशब्दस्य ङीब्विशिष्टत्वेन तद्वृत्त्यर्थवत्त्वस्य कर्णीशब्दे स्वविशिष्टेऽतिदेशेन 'अतः कृकमी'ति सत्वसिद्धिः । अत एव 'दर्शनीय- मानिनी'त्यादौ 'क्यङ्मानिनोश्चे'ति पुंवद्भाव एतस्या प्रयोजनमित्युक्तं भाष्ये । अन्यथाऽत्र 'गतिकारके'ति परिभाषया ङीबुत्पत्तेः प्राक् समासे दर्शनीयामानिन्- शब्दात्ङीपि मानिनीशब्दस्य उत्तरपदत्वाभावात्तदसङ्गतिः स्यादिति बोध्यम् । 'यतो यो विहितस्तदादेरेव तेन ग्रहणम्' इति नियमे तु न मानमिति स्पष्टं 'स्वाङ्गाच्चेत' इत्यत्र शेखरे । न च विशेषरूपेण प्रातिपदिकग्रहणे परिभाषाप्रवृत्तेः पूर्वमुक्तत्वेन बहुव्रीहित्वस्यापि तद्विशेषरूपत्वाच्छङ्काया अनुत्थितिरिति वाच्यम् ; विशेषरूपपदेन प्रातिपदिकत्वव्याप्यस्य आनुपूर्वीरूपस्य कुम्भशब्दत्वादेरेव ज्ञापकसाजात्यात् ग्रहण- मित्याशयेन शङ्कायाः सुवचत्वात् । केचित्तु—'अतः कृकमी'त्यत्र 'विश्वदेवयोर्लोहितादिडाज्भ्य' इत्यादिषु 'कुम्भश्च कुम्भी चे'त्यादिविग्रहेण 'पुमान्स्त्रिये'त्येकशेषकल्पनात् कुम्भीदेवीलोहिन्यादि- शब्देष्वपि तत्तत्कार्यप्रवृत्त्येष्टसिद्धेः 'कुमारश्रमणादिभिरि'त्यत्र कृतपुंवत्क-कुमारी- शब्दस्यैव निर्देशेन तत्सामार्थक्यपत्तेर्विशेषरूपेण ग्रहणेऽस्याः प्रवृत्तौ न किञ्चित्फलम् । न च 'अतः कृकमी'त्यादौ कुम्भशब्दस्य शब्दपरतया 'पुमान् स्त्रिये'त्यस्याप्रवृत्तिः, अत एव 'शक्तिकाङ्गले'त्यत्र 'घटघटी'त्येकशेषाभावः सङ्गच्छत इति वाच्यम् ; प्रकृतिवदनुकरणमित्यतिदेशेन कुम्भोशब्दस्य स्त्रीवाचकत्वातिदेशेन 'पुमान् स्त्रिये', त्यस्य प्रवृत्तेः सुवचत्वात् । 'घटघटी'त्यादौ तु प्रकृतिवदनुकरणमित्यस्य अनित्यत्वा- न्नैकशेषः । एवं सामान्यग्रहणेऽपि नास्याः फलम् , रमा, गौरी'त्यादौ स्वाद्युत्पत्तिस्तु

इत्युक्त्यैव सामञ्जस्ये अव्यवहितपूर्वत्वस्य घटकत्वस्य च प्रवेशश्चिन्त्यः, फलाभावात्, गौरवाच्च । उभयत्र उद्देश्यताऽऽश्रयता च अपर्याप्त्याऽपि गृह्यते, 'स्वाङ्गाच्चेतः' इति सूत्रभाष्यादिति न दोषः । अर्थवत्त्वस्य कर्णीशब्द इति । न चात्र कर्णीशब्दस्य प्रातिपदिकग्रहणत्वाभावात् अस्या अप्रवृत्तिरेव स्यादिति वाच्यम् ; 'अयःकुम्भजलम्' इत्यत्र सत्ववारणाय समासेन उत्तर- पदे इत्यस्याऽऽक्षेपेण अदोषात् , तस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वाच्च प्रातिपदिक- ग्रहणं सूपपादम् । एवञ्च कर्णवृत्त्युत्तरपदत्वं कर्णीशब्दे आरोप्यत इति तत्त्वम् । यत्तु—अर्थवत्त्वं न सुलभम्, कर्णीशब्दस्य अर्थवत्त्वासम्भवात् । तन्न ; 'कर्णस्य स्त्री, कर्णी' ( 'पुंयोगादाख्यायाम्' इति ङीष् ) इत्यर्थवतः कर्णीशब्दस्य सम्भवात् । मानिनीशब्दस्योत्तरपदत्वाभावादिति । वस्तुतस्तु—स्वैरिणीवत् ङीपः प्राग्भाग- मादाय नात्र दोषः । ३४

२६६ परिभाषेन्दुशेखरः [ ३ प्रकरणे- नन्वेवं 'यूनः पश्ये'त्यत्रेव 'युवतीः पश्ये'त्यत्रापि 'श्वयुवे'ति सम्प्रसा- रणं स्यादत आह— विभक्तौ लिङ्गविशिष्टाग्रहणम् ॥ ७३ ॥ —: ✤ :— स्पष्टा चेयं 'युवोरनाको' इत्यत्र भाष्ये । घटघटीग्रहणेन लिङ्गविशिष्ट- ङ्याब्ग्रहणादेव भविष्यति । ङ्याबन्तात् क्विबादेस्त्वनभिधानमेव । अत एव सूत्रकृन्मते 'प्राचां ष्फः तद्धिते' इत्यत्र तद्धितग्रहणं चरितार्थम् ; अन्यथा ष्फान्तस्य अनयैव प्रातिपदिकपदेन ग्रहणे सिद्धेस्तद्वैयर्थ्यापत्तिरिति वदन्ति ।। ७२ ।। युवतीः पश्येति । 'सुपथी'त्यादौ आत्वादेरुपलक्षणमिदम् । 'युवतीरि'त्यत्र तु अन्नन्तानां श्वादीनामित्यर्थकरणेन सम्प्रसारणव्यावृत्तेर्भाष्यकृतोक्तत्वात् । केचित्तु — सूत्रे श्वन्नादीनां तदन्तपरत्वेन अन एकदेशान्वयासम्भवादन इत्यस्य अन्नन्तश्वन्नाद्यन्ते लक्षणायां तात्पर्यग्राहकत्वेन अन्नन्तयुवन्शब्दत्वस्य तथात्वेन तदतिदेशे बाधकाभाव इति वदन्ति । विभक्ताविति । विषयसप्तमी, तेन विभक्त्युद्देश्यके तन्निमित्तके सर्वविध- विभक्तिसम्बन्धिनि कार्य इत्यर्थः । तेन 'शुन्ये'त्यादौ गौरादिङीषो यणि कृते उदात्त- यणो 'हल्पूर्वादि'ति विभक्त्युदात्तत्वस्याऽनया 'शुनी'त्यत्र श्वनशब्दत्वमादाय 'न गोश्वन्त्साववर्णे'ति न निषेधः, अस्य विभक्त्युद्देश्यकत्वेन तत्सम्बन्धित्वात् । एवं 'सख्यौ' इत्यत्र णिद्भावोऽपि नेति बोध्यम् । न च 'चित्रगवीणामि'त्यत्र 'कुमति चे'ति णत्वानापत्तिः, विभक्त्युद्देश्यककार्यत्वेन अनया निषेधेन ङ्यन्ते समासत्वानतिदेशात्, 'कुमतिचे'त्यस्य कवर्गवदुत्तरपदघटितसमासप्रकृतिकविभक्ति- नकारे एव प्रवृत्तेः । अत एव 'पूर्वं पापानां विपाक' इत्यत्र 'षष्ठ्या आक्रोश' इत्यलुकि वदन्तीति । न च 'अतिशयितो भ्राता यस्याः सा अतिभ्रात्री, अस्य अतिभ्रात्री आति- भ्रात्री' इति तत्पुरुषसमासे कृते ङीबन्तेऽनया बहुव्रीहित्वारोपेण परादिवद्भावेन च समुदाये आरोपात् 'नघृतश्च' इति कप्रवृत्तये इयमावश्यकीति वाच्यम्; प्रागुक्तरीत्या बहुव्रीह्यर्थालौकिक- विग्रहवाक्यत्वाभावेन सिद्धान्तेऽपि कपोऽप्राप्त्या तदर्थं तस्या अनावश्यकत्वादिति तात्पर्यम् ।।७२।। सर्वविधेति । यथाकथञ्चिदिति तदर्थः, साक्षात् पदत्वादिकारकपरम्परया वा इति यावत् । विभक्त्युद्देश्यककार्यत्वेनेति । साक्षात् परम्परया वा विभक्त्युद्देश्यककार्यत्वेन इति तदर्थः । शेखरकृन्मते तु साक्षादेव विभक्त्युद्देश्यके विभक्तिनिमित्तके वा कार्ये एव अस्याः प्रवृत्तिः, विभक्तेश्चाश्रयणं येन केनापि रूपेण भवतु । अत एव 'चित्रगवीणाम्' इत्यादौ णत्वं भवत्येव, लिङ्गविशिष्टपरिभाषया विभक्तिप्रकृतौ समासत्वात् । 'णत्वरहितपाठस्तु लेखकप्रमादात्' इति 'कुमति च' इति सूत्रस्थशेखरग्रन्थः, 'चित्रगवीणाम्' इति प्रतीकमुपादाय 'कुमति चे'ति नित्यं णत्वं न्याय्यम्' इति शब्दरत्नग्रन्थश्च सङ्गच्छते

[७३-७४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६७ परिभाषाया अनित्यत्वात् तन्मूलेषा इत्यन्ये ॥ ७३ ॥ ननु 'तस्यापत्यम्' इत्येकवचन-नपुंसकाभ्यां निर्देशाद् 'गार्ग्यो गार्ग्यौ' इत्याद्ययुक्तमत आह— सूत्रे लिङ्गवचनमतन्त्रम् ॥ ७४ ॥ —: ✿ :— 'अर्धं नपुंसकम्'ति नपुंसकग्रहणमस्या ज्ञापकम् । नित्यनपुंसकत्वार्थं तु न तदित्यन्यत्र निरूपितम् । विभक्तिकारस्य णत्वं नेति वाच्यम् ; 'अट्कुप्वाङि'ति णत्वेनेष्टसिद्धेः । 'दीर्घाह्नो'- त्यत्र 'अहन्नि'ति रुत्वस्यापि पदत्वद्वारा विभक्तिनिमित्तकत्वेन विभक्तिसम्बन्धिकार्यत्वा- दनया अहन्शब्दत्वातिदेशासम्भवान्न रुत्वमिति दिक् ॥ ७३ ॥ अयुक्तमिति । न च द्वित्व-बहुत्वयोः पुंस्त्व-स्त्रीत्वयोश्चाविवक्षायामेकवचन- नपुंसकलिङ्गप्रयुक्तकार्यप्रवृत्तिः, अत एव स्तोकादिशब्देभ्यो नपुंसकैकवचनामादि- सिद्धिरिति न प्रकृतप्रयोगासङ्गतिरिति वाच्यम् ; समवायान्पक्षमत्स्यमृगानि- त्यादिप्रयोगोपलक्षणत्वेनैतस्य 'मृगं हन्ति मार्गिक' इत्यादिप्रयोगानुपपत्तिरित्या- शयेन अदोषात् । अतन्त्रमिति । असति यत्ने अविवक्षितमित्यर्थः । अत एव 'पदात्स्वैरी'त्यादौ नपुंसकनिर्देशेन सिद्धौ बाह्या इति स्त्रीलिङ्गनिर्देशो विवक्षार्थः, तेन पुंन्नपुंसकयोः क्यबभावसिद्धिः । न च तस्याविवक्षितत्वे 'मृगानि'त्यादौ नत्वाद्यनापत्तिः, 'तस्मा- च्छस' इत्यस्य पुंस्त्वे विवक्षिते इत्यर्थादिति वाच्यम् ; पक्षिमत्स्येत्यादिशब्दैः पुंस्त्वादेर्विवक्षितत्वेऽपि तद्धितवाच्यतावच्छेदककुक्षौ अविवक्षितमित्यर्थेन अदोषा- दित्यन्यत्र विस्तरः । नित्यनपुंसकत्वार्थं तु नेति । पूर्वापराधरोत्तरार्धमित्येकयोगेन सिद्धे पृथग्योगकरणे- नैव तत्सिद्ध्या नपुंसकग्रहणवैय्यर्थ्यस्य सूपपादत्वादिति भावः । अट्कुप्वाङिति णत्वेनेति । निमित्तानधिकरण-निमित्तिमत्पदाघटितत्वरूपाखण्डपदत्व- सत्त्वादिति भावः । विभक्तौ लिङ्गविशिष्टाग्रहणात् प्रातिपदिकान्तत्वस्याप्यप्राप्तेः । तत्रापि पूर्व- पदेना आक्षिप्तसमासरूपप्रातिपदिकप्रकृतिकविभक्तेरेव ग्रहणादिति भावः । 'माषं वपतीति या माषवापी' कर्मण्यण्, तदन्तात् ङीपि आम्‌विभक्तौ 'माषवापीनाम्' इत्यत्र शेखरकृन्मते विकल्पेन णत्वं भविष्यति, टीकाकृन्मते तु नित्यं णत्वमिति फलभेदश्चिन्तनीयः । न रुत्वमिति । अत्र शेखरकृन्मतेऽपि 'अह्न' इति वक्तव्ये 'अहन्' इति नान्तानु- करणसामर्थ्यात् नान्ताहन्शब्दस्यैव रुत्वविधानान्न दोषः ॥ ७३ ॥ तद्धितवाच्यतावच्छेदककुक्षौ अविवक्षितमिति । बुद्धिस्थत्ववदुपलक्षणम्, न तु विशेषणमिति भावः । तथा च आश्रयत्वसम्बन्धावच्छिन्न-बोधविषयतातावच्छेदकप्रकारतानिरू-

धान्यपलालन्यायेन नान्तरीयकतया तयोरुपादानमिति 'तस्यापत्यम्' इत्यत्र भाष्ये स्पष्टम् । वस्तुतस्तु—तन्न युक्तमित्यत्र प्रमाणमाह—अन्यत्रेति । 'एओङ्, ऐच्' इति सूत्रयोरर्धं एकारोऽर्धं ओकार इति भाष्ये समांशवाचिनाऽपि पुंस्त्वाभिधानेन नित्य- नपुंसकत्वस्याप्रामाणिकतया न तद्ग्रहणार्थं नपुंसकग्रहणमिति तत्रैव सूत्रे प्रति- पादितमित्यर्थः । केचित्तु—भाष्येऽर्धंशब्दः खण्डत्वेन वस्तुतः समांशवाचक इति न तद्विरोध इति प्राहुः । नान्तरीयकतयेति । नान्तरीयकत्वं चाविनाभावः । विनार्थकादन्तराशब्दात् गहादित्वाच्छप्रत्यये नञ्तत्पुरुषे भाष्यप्रयोगान्नलोपाभावे स्वार्थिके कन्प्रत्यये नान्तरीयक'शब्दः साधुरिति कैयटे स्पष्टम् । एतेन नान्तरीयकतया यस्य यस्यो- पादानं तस्य सर्वस्याविवक्षितत्वमिति सूचितम्, तेन 'तदधीते' इत्यादौ कालस्य, 'तत्करोति तदाचष्टे' इत्यादौ काल-कारकयोश्चैवमेवाऽविवक्षा सिद्धयतीति भावः । भाष्ये स्पष्टमिति । तत्र हि यथा कश्चिद्धान्यार्थी शालिकलापं सतुषं सपलालमाहरति नान्तरीयकत्वात्, स यावदादेयं तावदादाय तुषपलालान्युत्सृजति, तथा कश्चिन् मत्स्यार्थी मत्स्यान् सशल्कान् सकण्टकानाहरति नान्तरीयकत्वात्, स यावदादेयं पितविशेष्यताश्रयविशेषणानां येषां बोधविषयतायां धर्मपारतन्त्र्येण विशेषणत्वं तानि विशेषणानि इत्युच्यन्ते, येषां बोधविषयतासामानाधिकरण्यमात्रं तान्युपलक्षणान्युच्यन्ते । यथा तत्पदशक्तौ बुद्धिविषयतावच्छेदकत्वम् । एवञ्च “एकत्वविशिष्टनपुंसकत्वविशिष्टापत्यत्वावच्छिन्नम् अण्पदाद् [L2

७४-७५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६९ अत एव ‘आकडार’सूत्रे एकेति चरितार्थमित्यन्यत्र विस्तरः ॥७४॥ ननु ‘भृशादिभ्यो भुव्यच्वेर्’त्यादौ विधीयमानः क्यङ् ‘क्व दिवा भूशा भवन्तो'त्यत्रापि स्यादत आह— नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः ॥ ७५ ॥ —: ❀ :— नञ्युक्तमिवयुक्तं च यत्किञ्चिद् दृश्यते तत्र तस्माद् भिन्ने तत्सदृशे अधिकरणे द्रव्ये कार्यं विज्ञायते हि यतस्तथाऽर्थगतिरस्ति । नहि ‘अब्राह्मण- मानये’त्युक्ते लोष्टमानीय कृती भवति । अतश्च्व्यन्तभिन्ने च्व्यन्तसदृशे अभूततद्भावविषये क्यङिति नोक्तदोषः । ‘ओषधेश्च विभक्तावप्रथमायामि’त्यादौ विभक्तिग्रहणमेतन्न्यायसिद्धा- र्थानुवाद एव । एतेन विभक्तावित्याद्यस

२७० परिभाषेन्दुशेखरः [ ३ प्रकरणे- परास्ताः, अनित्यत्वे भाष्यसम्मतफलाभावात् । अत एव 'अकर्तरि चे'ति सूत्रे कारकग्रहणं भाष्ये प्रत्याख्यातमिति बोध्यम् । स्पष्टा चेयं 'भृशादिभ्य' इति सूत्रे भाष्ये । अत्र 'अन्यसदृशे'त्युक्त्या सादृश्यस्य भेदाघटितत्वं सूचयति । निरू- पितं चैतन्मञ्जूषायाम् ॥ ७५ ॥ ननु 'व्याघ्री, कच्छपी'त्यादौ सुबन्तेन समासात् ततोऽप्यन्तरङ्गत्वाट् टाप्यदन्तत्वाभावाज्जातिलक्षणो ङीष् न स्यादत आह— अनित्यत्वे फलम् 'असूर्यंपश्यानि मुखानी'त्यादि सम्भवत्येवेत्यत आह—भाष्येति । शब्द- शक्तिस्वभावात्तादृशस्थले सादृश्याप्रतीतिर्लोके प्रसिद्धा, न तु तत्र ज्ञापकापेक्षेति भावः । अत एवेति । अनित्यत्वस्य भाष्यानभिमतत्वादेवेत्यर्थः । सूचयतीति । तथा च भेद-सादृश्ययोः पार्थक्येन नञर्थत्वं पूर्वोक्तं स्वरसत उपपद्यत इति भावः ॥ ७५ ॥ ननु व्याघ्रीति । ननु 'उपसञ्जनिष्यमाण'न्यायेनैव सिद्धे इदमवतरणदान- मयुक्तम् । वस्तुतस्तु 'साङ्कुटिनमि'त्यत्र संशब्देन समासात्पूर्वं स्वार्थेऽणि 'सङ्कौटन- मि'ति स्यात् , एवं 'माषवापिणी'त्यत्र माषशब्देन समासात्पूर्वं ङीपि उत्तरपदप्राति- पदिकान्तनकाराभावाद् 'गर्गभगिनी'त्यत्रेव णत्वानापत्तिरत आहेत्यवतरणं दातुं युक्तमिति—राघवेन्द्राचार्याः । तन्न मनोरमम् ; उक्तन्यायेन हि भविष्यदपवाद- विषयातिरिक्तत्वेन सङ्कोचात् केवलाद् घ्रादिशब्दाट्टाबापत्तेर्दुर्वारत्वात् । न च तेन न्यायेन भविष्यदपवादविषयघटकातिरिक्तत्वेन सङ्कोच आवश्यकः, अत एव 'क्रीतात्करणपूर्वादि'ति चरितार्थम् , अन्यथा क्रीतशब्दस्य भविष्यदपवादविषयाश्व- मूले—निरूपितं चैतन्मञ्जूषायामिति । तत्र हि सादृशादिपदशक्यतावच्छेदकतया सदृशदर्शने संस्कारोद्बोधकत्वस्य सर्वसम्मततया तत्कारणतावच्छेदकतया च सादृश्यमतिरिक्तो- ऽखण्डपदार्थश्च साधितः ॥ ७५ ॥ मूले—ततोऽपीति । सुपोऽपीति तदर्थः । मूले—अन्तरङ्गत्वादिति । स्वार्थादि- प्रयुक्तकार्याणां क्रमिकत्वस्वीकारादिति भावः । समासात्पूर्वमिति । समासस्य सुबपेक्षत्वेन बहिरङ्गत्वादिति भावः । तद्धितस्य स्वार्थिकत्वेन सुबन्तात् तद्धितोत्पत्तिरित्येतद्बीजस्य स्वार्थे परिपूर्णमिति न्यायस्य तद्विषयेऽप्रवृत्ते- रिति भावः । दुर्वारत्वादिति । नन्वेवं 'स्वाङ्गाच्चोपसर्जनात्' इति सूत्र-भाष्यविरोधः ; तत्र हि भाष्ये “स्वाङ्गात् किम् ? अशिखा "इत्युक्तम् । तत्र भवद्रीत्या 'अशिखे'त्यस्य अपवादविषयत्वेऽपि तदेकदेशस्य 'शिखे'त्यस्य अपवादविषयातिरिक्तादन्तप्रातिपदिकत्वेन अन्तरङ्गत्वात् आपि तत्सिद्धौ भाष्यासङ्गतिः स्पष्टैव इति चेन्न । 'शिखे'त्यस्यैव प्रत्युदाहरणत्वेन भाष्यतात्पर्यात् । स्पष्टञ्चेदं शेखरे उद्योते च ।

७६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७१ गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ॥ ७६ ॥ —: ❀ :— ‘उपपदम’ति सूत्रेऽतिङ्ग्रहणेन ‘कुगती’त्यत्र तदपकर्षणेनातिङन्तश्च समास इत्यर्थस्तयोः सूत्रयोः ‘सुप्सुपे’त्यस्य निवृत्त्यैकदेशानुमत्या कारकांशे च सिद्धेयम्, तेन ‘अश्वक्रीती’ति सिद्धा ; अन्यथा पूर्वं टाप्यदन्तत्वाभावात् ‘क्रीतात्करणपूर्वादि’ति ङीष् न स्यात् । अस्या अनित्यत्वात् क्वचित् सुबुत्पत्त्यनन्तरमपि समासः । यथा सा क्रीतातिरिक्तत्वेन तेन टाब्विधायकशास्त्रे सङ्कोचेऽपि टापो दुर्वारत्वापत्तिः, मम तु क्रीतशब्दस्य भविष्यदपवादविषयघटकत्वेनानेन न्यायेन टाब्बाधसिद्धिरिति वाच्यम् ; तथा सति ‘अजाक्रीती’त्यादौ अजशब्दस्य भविष्यदपवादविषयघटकत्वेन टाबनापत्तेः । न च अनेन न्यायेन भविष्यदपवादविषयान्तातिरिक्तत्वेन सङ्कोचान्न ‘अजाक्रीती’त्यादौ दोषो वाच्यम् ; ‘घन इव कपिला घनकपिले’त्यादौ ‘अन्यतो ङीषि’ति ङीषापत्तेः । कपिलशब्दस्य ‘तत्पुरुषे तुल्यार्थे’ति पूर्वपदप्रकृतिस्वरेणानुदात्ता- न्तत्वेन भविष्यदपवादविषयान्तत्वात् । सिद्धान्ते भविष्यदपवादविषयातिरिक्तत्वेन सङ्कोचे तु ‘घनकपिले’त्यस्य भविष्यदपवादविषयत्वेऽपि कपिलशब्दस्य तदभावेन टाप् सिद्ध्यति । ‘अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते’ इति परिभाषया टापेक्षया लुक्प्रयोजक समासस्य प्राबल्यं तु नेति ‘अकृतव्यूह’परिभाषान्ते प्राक् प्रदर्शितमेव । सुबुत्पत्तेरिति । सुप्पदं प्रत्ययमात्रोपलक्षणम् । अत एव साङ्कूटिनसिद्धिः । सुप्सुपेत्यस्य निवृत्त्येति । अत्र च तृतीयान्तस्य निवृत्तिर्न तु प्रथमान्तस्य । एकदेशानुमत्येति । कारकांशे ‘स्थालीपुलाक’न्यायेनेयं सिद्धेति भावः । वस्तुतस्तु—कारकांशे ज्ञापकं क्रीतात्करणपूर्वादिति बोध्यम् ; तदेवानुवदति— अन्यथेति । एतस्या अभाव इत्यर्थः । ङीष् न स्यादिति । तथा च सूत्रं व्यर्थं स्यादित्यत्र शेषो बोध्यः । अनित्यत्वादिति । एतच्च ‘कर्तृकरणे कृता बहुलम्’ति सूत्रस्थाद् बहुलग्रहण- ल्लभ्यत इति ‘उपपदमतिङि’ति सूत्रे कैयटः । प्रत्ययमात्रेति । तेन तद्धिताट्टापश्च प्राग् समास एव । साङ्कूटिनसिद्धिरिति । अन्यथा समास-तद्धितयोर्युगपत्प्राप्तौ पूर्वं तद्धित एव स्यात्, कूटन्मात्रापेक्षत्वेन अन्तरङ्गत्वात् । न च ‘कृद्ग्रहणे०’ इति परिभाषया समुदायापेक्षत्वमेव तस्येति वाच्यम् ; तस्यामवस्थायां समु- दायस्य अप्रातिपदिकत्वात् ।

२७२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- हि तस्य धनक्रीतेति । अन्ये तु अनित्यत्वे न मानम्, तत्राजादित्वाट् टाबित्याहुः । अत एव 'कुम्भकार' इत्यादौ षष्ठीसमासोऽपि सुबुत्पत्तेः पूर्वमेव । षष्ठीसमासाभावे चोपपदसमासकृत एकार्थीभाव इति न तत्र वाक्यमिति भाष्ये स्पष्टम् । तत्र हि 'षष्ठीसमासादुपपदसमासो विप्रतिषेधेने'ति वार्ति- कम् । 'अथवा विभाषा षष्ठीसमासो यदा न षष्ठीसमासतदा उपपदसमास' इति तत्प्रत्याख्यानञ्च । केचित्तु - 'अम्बाऽम्बे'त्यनेन इणन्तात् परस्य षत्वविधानमत्र मानम् ; अन्यथा 'गोष्ठे'त्यत्र सुबुत्पत्तेः पूर्वं समासे पदत्वाभावेन 'सात्पदाद्योः'ति षत्वनिषेधाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेवेत्याहुः । तन्न ; 'दधिसेचवि'त्यत्र सुबुत्पत्तेः पूर्वं समासे षत्वनिषेधा- प्राप्त्या सिद्धान्तेऽपि 'पदादादिरि'ति पञ्चमीसमासस्याऽऽवश्यकत्वेन 'गोष्ठ' इत्यत्र षत्व- निषेधप्राप्त्या अम्बाऽम्बगोभूमिसव्यापद्वित्रीणन्तात् षत्वविधानस्याऽऽवश्यकत्वात् ; तदाह- न मानमिति । फलाभावमप्याह - तत्रेति । 'गोष्ठे'त्यत्र तु 'न पदान्ते'त्यत्र पदपदस्य पदत्वयोग्यपरत्वेन स्थानिवत्त्वनिषेधसिद्धिरिति तत्रैव शेखरे स्पष्टम् । अत एवेति । परिभाषास्वीकारादेवेत्यर्थः । षष्ठीसमासोऽपीति । परिभाषायां सामान्यतः कारकोपादानेनास्यापि तत्त्वादिति भावः । अत्र प्रमाणं दर्शयति - षष्ठीत्यादि । 'यदि सुबन्ते। षष्ठीसमासतदा उपपदसमास एवान्तरङ्गत्वान् भविष्यति" भाष्यविरोध , स्पष्ट एव । एवं 'व्याघ्री'त्यत्र समासात्पूर्व टाबपि न । न च प्रकृतपरिभाषया पूर्वं समासे ततः समुदायघटक-घ्राशब्दात् अन्तरङ्गत्वान् टाब् स्यादिति वाच्यम् ; वृत्तिघटकपर्याप्तस्त्रीत्वमादाय स्त्रीप्रत्ययो न भवतीत्यभ्युपगमेन अदोषान् । अत एव 'कुककुटादीनामण्डादिषु इति वार्तिक- प्रत्याख्यानपरम्, अनुपसर्जनाधिकारसामर्थ्यात् स्त्रीप्रत्यये तदन्तविधिज्ञापकपरञ्च भाष्यं सङ्गच्छते । लिङ्गसामान्ये नपुंसकत्वविवक्षां कृत्वा 'कुक्कुटस्य अण्डम्' इति समासे कृते 'कुक्कुटाण्डम्' इत्यादि- रूपसिद्धौ निर्बाधायां वार्तिकं न कर्तव्यमिति भाष्ये प्रत्याख्यातम् । भवन्मते समासोत्तरमपि तदेकदेशे कुक्कुटशब्दे स्त्रीत्वविवक्षायां सत्यां प्रत्याख्यानकल्पे स्त्रीप्रत्ययः स्यात्, आरम्भकल्पे पुंवद्भाव- विधानेन न तस्य श्रवणमिति फलभेदः । एवमेव 'उत्से भवमिति औत्सम्, तदन्तान्तः अत्यौत्सः' इत्यत्र समासवृत्तिघटकपर्याप्तस्त्रीत्वविवक्षया प्राप्तस्य 'टिड्ढाणञ्०' इत्यादिना ङीपो वारणाय 'अनुपसर्जनादि'त्यस्य चारितार्थ्यसम्भवे तदन्तविधिज्ञापनपरं भाष्यमसङ्गतमेव स्यात् । अत्र केचित्- 'सुप्'पदं न प्रत्ययमात्रोपलक्षकम्, ज्ञापकात्तदलाभात्, फलाभावात्, राम- शब्दप्रकरण-शब्देन्दुशेखरग्रन्थविरोधाच्च । 'विआ'रूपगतिसंज्ञकसमभिव्याहारेणैव घ्राशब्दस्य अर्थ- वत्त्वेन टापोऽपि समुदायापेक्षत्वेन स्त्रीत्वस्य अधिकस्य अपेक्षत्वेन च बहिरङ्गतया समासस्य टापः पूर्वं प्रवृत्तेः सिद्धत्वात् । एवं 'साङ्कतिनम' इत्यत्र इणुगन्तत्वरूपाधिकसापेक्षत्वेन समासापेक्षया

७६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७३ यद्यपि उपपदसमासस्य अन्तरङ्गत्वाभिप्रायकं 'न वा षष्ठीसमासाभावा- दुपपदसमास' इति वार्तिककृतोक्तम् ; तथापि तदुभयप्रत्याख्यानपरम् 'अथ- वे'त्यादिभाष्यं परिभाषायां सामान्यतः कारकोपादानेन कारकविभ- क्त्यन्तेन कृद्भिः समासमात्रस्य सुबुत्पत्तेः पूर्वमेव लाभात् । एतेनैषा कारक-तद्विशेषयोरुपादान एवेति परास्तम् ; अस्या विधेयक- समासमात्रस्येति । ननु सामान्यतः कारकोपादानेनात्रैतत्प्रवृत्तौ 'प्राप्तापन्ने'त्य- नेन द्वितीयाया अ इति च्छित्त्वा अकारविधानं भाष्योक्तं व्यर्थं तत्र टाबुत्पत्तेः पूर्वं समासेन सिद्धेः ; एवम् 'अपां स्रष्ट्री'त्यत्र 'षष्ठी'ति प्राप्तसमासस्य 'तृजकाभ्या'मिति निषेधो 'लिङ्गविशिष्ट'परिभाषयेति ङ्याप्सूत्रे भाष्ये उक्तं तत्राप्यनया पूर्वं समास- प्राप्त्या निषेधसिद्धिरिति 'लिङ्गविशिष्ट'परिभाषया समाधानं भाष्योक्तमसङ्गतमिति चेन्न । आद्ये टाबुत्पत्तेः पूर्वं समासेऽपि तदुत्तरं प्राप्तटापोऽकारविधानमावश्यकमिति न भाष्यविरोधः । द्वितीयेऽपि ङीपः पूर्वं तृजन्तत्वेन समासनिषेधेऽपि ङीबुत्तरं तृजन्तत्वा- भावान्न स्यादित्याशङ्क्य लिङ्गविशिष्टपरिभाषया समाधानं सुस्थमेवेत्यदोषात् । परास्तमिति । परे तु—कारकतद्विशेषोपादाने एवैषा परिभाषा प्रवर्तते । अस्या अणिणुन इत्यस्य बहिरङ्गतया पूर्वं समासे कृते ततस्तद्धित इति दोषाभावादित्याहुः । तन्न ; टाब्विधौ प्रातिपदिकत्वस्य अपेक्षितत्वेऽपि अर्थवत्त्वस्यानपेक्षितत्वात् परम्परयाऽपि सापेक्षत्वमादाय परिभाषाप्रवृत्तौ मानाभावात्, बह्वपेक्षत्व-विशेषापेक्षत्वरूपबहिरङ्गत्वस्य नव्यैस्तिरस्कृतत्वात् पूर्व- पदोत्तरपदरूपसमुदायसापेक्षत्वरूपशब्दकृतबहिरङ्गत्वस्य समासविधायकेऽपि सत्त्वेन बहिरङ्गत्वा- समानाधिकरणान्तरङ्गत्वस्य बलवत्त्वप्रयोजकस्य तत्राविद्यमानत्वाच्च दोषतादवस्थ्यात् । यत्तु—रामशब्दप्रकरणे शब्देन्दुशेखरे इनुणन्तत्वरूपाधिकसापेक्षत्वेन 'अणिणुन' इत्यस्य बहिरङ्गत्वमुक्तम्, तत् प्राचामनुरोधेन । अत एव "सुबुत्पत्तेः प्रागित्युपलक्षणम्, लिङ्गबोधक- प्रत्ययोत्पत्तेः प्रागपि बोध्यम्" इति 'उपपदमतिङ्' इति सूत्रस्थोद्योतग्रन्थः, 'प्राक् सुबुत्पत्तेः' इति प्रतीकमुपादाय "स्त्रीप्रत्ययोत्पत्तेः प्रागित्यपि बोध्यम्" इति तत्पुरुषसमासप्रकरणस्थ- शब्देन्दुशेखरग्रन्थश्च सङ्गच्छते । 'अतिङ्' इत्यनेन सामान्यतः प्रत्ययोत्पत्तेः प्रागित्थस्य ज्ञापना- सम्भवेऽपि 'क्रीतात् करणपूर्वात्' इत्यनेन सामान्यतस्तज्ज्ञापनं सम्भवत्येव ; अन्यथा पूर्वं टाबुत्पत्तौ तदसङ्गतिः । एवञ्च कारकांशे ज्ञापनेन एकदेशानुमत्या सर्वांशे च तत्सिद्ध्यतीति बोध्यम् । एतेन "केचित्तु 'प्राक् सुबुत्पत्तेः' इत्यत्र सुब्ग्रहणं प्रत्ययमात्रोपलक्षणमित्याहुः । तन्न ; ज्ञापकात्तदलाभात्, उक्तशब्देन्दुशेखरविरोधाच्च" इति विजयाकारोक्तिः परास्ता वेदितव्या । सामान्यतः कारकोपादानेनेति । परिभाषायां ग्रहणपदोपादानाभावेन समासशास्त्रे कारकग्रहणाभावेऽपि यत्र लक्ष्ये पूर्वपदं कारकं दृश्यते तत्र सुबुत्पत्तेः पूर्वं कृद्भिः सह समासो भवति इत्येव परिभाषार्थाङ्गीकारादिति भावः ॥ ७६ ॥ ३५

२७४ परिभाषेन्दुशेखरः [ ३ प्रकरणे— वाक्यत्वाभावेन विप्रतिषेधादिशास्त्रवत् कार्यव्यवस्थापकत्वेन उपादान एवेत्यर्थलाभाच्च ॥ ७६ ॥ ननु 'उगिदचामि'त्यत्र धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति नियमेन अधातोरेव नुमि सिद्धेऽधातुग्रहणं व्यर्थमत आह— साम्प्रतिकाभावे भूतपूर्वगतिः ॥ ७७ ॥ —: ✿ :— तत्तद्वचनसामर्थ्यन्यायसिद्धेयम् । तत्सामर्थ्यादधातुभूतपूर्वस्यापीत्यर्थेन विध्येकवाक्यत्वाभावेऽपि यत्र कारकत्वव्याप्यधर्मावच्छिन्नबोधकं पदं तत्र शास्त्रे सुपेति नानुवर्तते इत्यस्य वक्तुं शक्यत्वात् । न च 'षष्ठी'ति सूत्रे कारकतद्विशेषो- पादानाभावेनैतदप्रवृत्त्या “अथवा विभाषा षष्ठीसमासो यदा न षष्ठीसमासस्तदा उप- पदसमास” इति भाष्यासङ्गतिरिति वाच्यम् ; विभाषाधिकारस्य पाक्षिकैकार्थीभाव

७७-७८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७५ गोमत्यतेः क्विपि 'गोमानि'त्यादौ नुम्सिद्धिः 'नामी'त्यादिसूत्रेषु भाष्ये स्पष्टा ॥ ७७ ॥ बहुव्रीहौ तद्गुणसंविज्ञानमपि ॥ ७८ ॥ —: ✤ :— अपिना अतद्गुणसंविज्ञानम् । तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेष्यान्वयित्वमिति तदर्थः । यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थस्तत्र प्रायस्तद्गुणसंविज्ञानम्, अन्यत्र प्रायोऽन्यत् । 'लम्बकर्णचित्रगू' उदाहरणे, 'सर्वादीनि, जक्षित्यादय' इति चोदाहरणे । सर्वनामसंज्ञासूत्रे भाष्ये स्पष्टा ॥ ७८ ॥ नामीत्यादिसूत्रेषु भाष्य इति । तत्र हि आमीति न्यासे 'राम+आमि'त्यादौ दीर्घेऽपि ह्रस्वान्तान्नुडित्येतद्वचनसामर्थ्यादनया नुडित्युक्तम् ॥ ७७ ॥ समवायेति । संयोगस्याप्युपलक्षणम् । तथा च संयोग-समवायान्यतरसम्बन्धेन सम्बन्धीत्यर्थः । संयोगेन सम्बन्धित्वं 'नागयज्ञोपवीतिनमानय' इत्यत्र । समवायेन सम्बन्धित्वं 'लम्बकर्णमानये'त्यत्र । प्रायग्रहणाद् 'नागयज्ञोपवीतिनं भोजये'त्यादौ संयोगेन तत्त्वेऽपि न तद्गुणत्वम् । अन्यत्रेति । 'चित्रगुदृष्टसागर' इत्यादावित्यर्थः । अत्र प्रायग्रहण- फलं तु यदि 'चित्रगुरि'त्यत्रैव गवानयनेऽपि तात्पर्यं तदा तद्गुणत्वमेवेति बोध्यम् । केचित्तु — यत्र वर्तिपदार्थविशिष्टस्यान्यपदार्थस्य समभिव्याहृतपदार्थे वैशिष्ट्यं तत्र तद्गुणत्वम्, यत्र तदुपलक्षितस्य वैशिष्ट्यं तत्रातद्गुणत्वमित्यनुगतं तल्लक्षणमाहुः । अन्ये तु — यत्र समभिव्याहृतपदार्थे वर्तिपदार्थानां धर्मिपारतन्त्र्येणान्वयस्तत्र तद्- गुणत्वमेव, अन्यत्रातद्गुणत्वमेवेत्याहुः । परे तु — यत्र समभिव्याहृतपदार्थेऽन्यपदार्थान्वयो वर्तिपदार्थान्वयनान्तरीयकस्तत्र तद्गुणत्वम्, यथा 'लम्बकर्णमानये'त्यत्र अन्यपदार्थानयनं कर्णं विना न सम्भवतीति । 'नागयज्ञोपवीतिनमानय, भोजये'त्यादौ तु समभिव्याहृत क्रियान्वयोऽन्यपदार्थस्य नाग- यज्ञोपवीतसम्बन्धं विनाऽपि सम्भवतीत्यतद्गुणत्वम् । एवं 'चित्रगुरि'त्यत्र गवानयन- तात्पर्येऽपि सर्वत्रातद्गुणत्वं बोध्यम् । 'सर्वादीनी'त्यत्र आदिशब्दोऽवयवत्वविशिष्टपूर्वत्व- विशिष्टवाचक इत्यन्यपदार्थगणान्वयः समभिव्याहृतपदार्थे सर्वशब्दान्वयनान्तरीयक इति तत्र तद्गुणत्वमेव । 'जक्षित्यादय' इत्यत्र आदिशब्दः केवलपूर्वत्वविशिष्टवाचीति न तत्र तद्गुणत्वम् । आदिशब्दस्य अवयवत्वविशिष्टवाचकत्वं कुत्रेत्यत्र तु व्याख्यानमेव शरणम् ; यथा 'हलि सर्वेषामि'त्यत्र सुड्दर्शनेन सर्वादीत्यत्र आदिशब्दोऽवयवत्वविशिष्टवाचीति ज्ञायत इत्याहुः ।

ननु ‘वदः सुपि क्यप् चे’ति चेनानुकृष्टस्य यतो ‘भुवो भावे’ इत्यत्रापि अनुवृत्तिः स्यादत आह— चानुकृष्टं नोत्तरत्र ॥ ७९ ॥ —: ❀ :— णमुल्यनुवर्त्तमाने ‘अव्ययेऽयथाभिप्रेते’ति सूत्रे पुनर्णमुल्रहणमस्या ज्ञापकम् ; अन्यथा क्त्वा चेति वदेत् । तद्धि उत्तरत्र उभयोः सम्बन्धार्थम् । उदाहरणानि स्फुटानि । इदमनित्यम् । अत एव ‘तृतीया च होरि’त्यत्र चानुकृष्टाया अपि द्वितीयाया ‘अन्तराऽन्तरेणे’त्यत्र सम्बन्धः । अपरे तु—अत्र चित्रगु-लम्बकर्णादौ तद्गुणत्वातद्गुणत्वविचारस्य काकदन्तपरी- क्षावन्निष्फलत्वेन तदनुरोधेन तद्गुणत्वादिलक्षणस्यानुपयोगात् केवलमाद्यादिशब्दघटित- बहुव्रीहिस्थले एव तत्फलसत्त्वेन तदनुरोधात् यत्र वर्त्तिपदार्थानामन्यपदार्थेन सह घटक- घटितभावस्तत्र तद्गुणत्वमन्यत्रान्यदित्येवं तल्लक्षणं बोध्यम् । भाष्ये सर्वादीत्यादौ तद्- गुणसंविज्ञानोऽतद्गुणसंविज्ञानो वेति सन्देहस्तु अत्राऽऽदिशब्दः शुद्धपूर्वत्वविशिष्टपूर्वत्व- विशिष्टवाची उत अवयवत्वविशिष्टपूर्वत्वविशिष्टवाचीत्येतत्सन्देहप्रयुक्त एव । तथा च ‘सर्वादी’त्यत्र आदिशब्दस्य अवयवत्वादिविशिष्टवाचकतया तद्गुणसंविज्ञान एव । ‘जक्षि- त्यादय’ इत्यत्र तदभावेनातद्गुणसंविज्ञान एवेत्याहुः ॥ ७८ ॥ चानुकृष्टमिति । चकारेणानुवर्त्तमानं परत्र सम्बध्यते इति परिभाषार्थः । इदमनित्यमिति । केचित्तु—अनित्यत्वे न मानम्, नापि फलम् । अत्र शास्त्रे चानु- वृत्तिनिवृत्तिसूचकौ चकारौ स्तः । तत्राव्यवहितसूत्रे चशब्दोऽनुवृत्तिसूचकः, व्यवहितसूत्रे तु निवृत्तिसूचकः । ‘चानुकृष्टमि’त्यत्र चशब्दो निवृत्तिसूचकपरः । तथा च निवृत्तिसूचक- शब्देनानुवर्त्तमानमुत्तरत्र न सम्बद्ध्यत इत्यर्थः, तेन ‘तृतीया च होरि’त्यत्र चशब्दस्य ‘कर्मणि द्वितीये’त्येतदव्यवहितसूत्रस्थितत्वेन निवृत्तिसूचकत्वाभावात् तेनानुवर्त्तमान- द्वितीयापदस्य ‘अन्तराऽन्तरेणे’त्यत्र सम्बन्धे बाधकाभावः । तथा च एतत्परिभाषाविषय- त्वाभाववतामनुवृत्तिसूचकानामन्यव्यवहितोत्तरसूत्रवर्त्तिनां सर्वचकाराणां प्रत्याख्याने च न भाष्यविरोधोऽपि । एवमव्यवहितपूर्वसूत्रस्थस्य ‘छोऽन्यतरस्यामि’त्यस्य चोत्तरसूत्रे ‘द्विगोः ष्ठंश्चे’त्यत्र चेनानुकृष्टस्योत्तरत्रानुवृत्तावपि तस्य निवर्त्तकत्वाभावेन उक्तपरिभाषाऽविषय- तया भाष्यविरोधाभावः स्फुट एवेति प्राहुः । अन्ये तु—अव्यवहितोत्तरसूत्रघटक-चशब्दः समुच्चायको विप्रकृष्टसूत्रस्थश्चानु- कर्षकः । तत्र समुच्चायकचशब्देन समुच्चितशब्दः स्वरितत्वादिनोत्तरत्र गन्तुमर्हति, चानुकृष्टस्तु तावत्सूत्रगमनयोग्यस्वरितत्वाभावेऽपि चकारबलादाकृष्टस्तत्र कार्यं सम्पा-