सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

१०७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
मते न च तत्र मोदते न प्रमोदते न कामाननुभवति
बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोऽनुप्रविशति मो
दते च प्रमोदते च कामांश्चैवानुभवति' इति बृहच्छ्रु
तौ प्रतिज्ञानात् ॥ २ ॥
—*—
३. अधिकरणम् ॥
( १ ) सू—ॐ ॥ आत्मा प्रकरणात् ॥ ॐ ॥ ३ ॥
भोग इति शेषः । तथा च यतो मुक्तजन एवोपपन्नोऽन्यत्रानुपपन्नः
. स्त्रयादिदिव्यभोगोऽत्रोच्यतेऽतो मुक्त एवात्रोच्यत इति योजना । ननु
ब्रह्म प्राप्य अमुक्तस्याप्यसौ भोग उपपद्यत इत्यस्योत्तरत्वेन प्रतिज्ञा
नादितिहेतुं व्याचष्टे—अहरिति । मुक्त इत्येतत् षष्ठ्यन्ततया विपरि
णतमेवशब्दशिरस्कमिहानुवर्तते । तत्र तया तस्येति शेषः । तथा च
‘अहरहरेनम’ इति श्रुतौ सुप्तौ परमात्मानं प्राप्तस्याप्यमुक्तस्य दि
व्यभोगाभावमुक्त्वा मुक्तस्यैव परमात्मादिप्राप्त्या दिव्यभोगानुभवप्र
तिपादनादित्यर्थः । अत्र तत्त्वप्रदीपे मुक्तस्य कामानुभवप्रतिज्ञानादि
ति सौत्रहेतुनैव सिद्धान्तः कृतः । तत्पक्षे बृहच्छ्रुतावुत्तरांशस्य सा
क्षादुपयोगः । टीकाकृता त्वध्याहृतहेतुना सिद्धान्तः कृतः । तत्पक्षे पू
र्वांशस्य साक्षादुपयोग इति ध्येयम् । श्रुत्यर्थस्तु—‘अहरहः' प्रतिदि
नं ‘एनं' परमात्मानं ‘उपसङ्क्रमे' सुप्तौ प्रविशति जीवः । उपस
ङ्क्रमत इति पाठे प्राप्नोति च सुप्तौ जीव इत्यर्थः । ‘तत्र’ सुप्तौ । मो
दप्रमोदशब्दार्थः पूर्ववत् । 'कामान्' कामितान् अनुभवति न तानेव
भुङ्क्ते ‘हि' यतः ‘एषः' जीवः 'तदा' सुप्तौ । न चास्य वाक्यस्यैता
वन्तं कालमित्यनुस्मृतिविरोधशङ्क्यः । सौषुप्तिकेतरदिव्यभोगाभा
वस्यात्रोक्तेः । 'अथ' देहनाशानन्तरं 'यदा' काले च मुक्तः ‘एनं'
ईश्वरमनुप्रविशति तदा मोदते प्रमोदते कामितानेवानुभवति । नेतरा
न् कामाननुभवत्येव चेत्यर्थः । चौ परस्परसमुच्चये । द्विरुक्तिस्तात्प
र्यार्था ॥ २ ॥
॥ इति मुक्ताधिकरणम् ॥
—: ❖ :—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे मुक्तप्राप्यस्य ज्योतिषो ब्रह्मत्वं साध्यते। ‘परं

[ अधि-४. सू-४. ] दीपिकासहितम्. १०७५
परंज्योतिश्शब्देन परमात्मैवोच्यते तत्प्रकरणत्वात् ।
( २ ) परंज्योतिः परंब्रह्म परमात्मादिका गिरः ।
सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथं चन ॥
इति ब्रह्माण्डे ॥ ३ ॥
--
४. अधिकरणम् ॥
( १ ) सू-ॐ ॥ अविभागेन दृष्टत्वात् ॥ ॐ ॥ ४ ॥
ज्योतिरुपसंपद्य' (छा. ८-३-४.) इति श्रुत्युक्तं ज्योतिरादित्य एव 'स
तेजसि सूर्ये सम्पन्नः' ( प्रश्न. ५-५.) इति श्रुतौ ज्योतिश्शब्दपर्यायते
जश्शब्दस्य सूर्ये प्रयोगात्, तत्समाख्यानादिति पूर्वपक्षे सिद्धान्तय
त्सूत्रमुपन्यस्यति-आत्मेति ॥ अत्र आत्मेति प्रतिज्ञांशं सावधारणं
कृत्वा सोपस्करे व्याचष्टे-परमिति । 'सम्पद्य' इति गृहीतवाक्यस्थ
परंज्योतिश्शब्देनेत्यर्थः । यद्यपि पूर्वपक्षिणा परं ज्योतिरिति भिन्नप
दत्वाभिप्रायेण ज्योतिश्शब्द एवान्यपरतयाऽऽक्षिप्तः । तथाऽपि वस्तुतः
'परंज्योतिः परंब्रह्म' इति स्मृतिपर्यालोचनया परंज्योतिरित्स्यैक
पदत्वात्तस्यैवानुवादः कृतः । कुत इत्यतः प्रकरणादित्यंशं तच्छब्दा
न्वयेन व्याचष्टे-तदिति । अस्येत्यादावुपस्कार्यम् । तथा च 'अस्य'
परंज्योतिश्शब्दस्य 'तत्प्रकरणत्वात्' परमात्मप्रकरणपठितत्वादि
त्यर्थः । 'य आत्मा अपहतपाप्मा' इति परमात्मन एवात्र उपक्रम्याधी
तत्वेनैतद्वाक्यजातस्य तत्प्रकरणत्वात्समाख्यायाश्च प्रकरणात् दुर्ब
लत्वादिति भावः ॥
( २ ) नन्वस्य परमात्मप्रकरणत्वेऽपि सावित्रप्रकरणे 'ह्वयाम्यग्नि
म' (ऋ. १-३५-१०) इत्यन्यपरोक्तिवत्प्रसङ्गादादित्योक्तिः किं न स्यादित्य
त आह-परंज्योतिरिति ॥ परंज्योतिरित्थेकं पदम् । एवं परंब्रह्मेत्यपि ।
आदिपदेन परमक्षरमित्यादिकं गृह्यते । 'गिरो' वाचः । 'सर्वत्र' सर्वा
गमेषु स्थिताः 'एकं' मुख्यं वाच्यम् । एवेत्यस्य विवरणं-नान्यमिति ।
'कथं चन' केनापि निमित्तेन । ब्रह्माण्ड इत्यनन्तरं उक्तत्वाद्वेति शेषः ।
अस्य परंज्योतिश्शब्देनेत्यादिनान्वयः ॥ ३ ॥
॥ इति आत्माधिकरणम् ॥
-
-
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वं समर्थ्य

१०७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते ।
'यानेवाहं शृणोमि यान् पश्यामि यान् जिघ्रामि ताने
वैत इदं शरीरं विमुच्यानुभवन्ति' इति दृष्टत्वाच्चतुर्वे-
दशिखायाम् ।
(२) भविष्यत्पुराणे च-
मुक्ताः प्राप्य परं विष्णुं तद्भोगाल्लेशतः क्वचित् ।
बहिष्ठान् भुञ्जते नित्यं नानन्दादीन् कथं चन ॥
ते। तत्र मुक्तभोगाः परमात्मनाऽभुक्ता अपि सन्ति न तद्भुक्ता एवेति नि-
यमः । तथा सति केषां चित्संजातभोगेच्छानामपि मुक्तानां भोगाभाव-
प्रसङ्गात् । ईश्वरस्य नित्यपूर्णानन्दत्वेन कदाचिद्भोगस्यापि सम्भवा-
त् । ततश्च मोक्षस्यापुरुषार्थत्वापत्तिरिति पूर्वपक्षे सिद्धान्तयत्सूत्रमु-
पन्यस्यति--अविभागेनेति ॥ अत्र सायुज्यभाजां भोगाः 'अविभागे-
नैव' केचित्परमात्मना भुक्ताः केचित्तदभुक्ता इति विभागमन्तरेणैव
सन्ति । ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैः भुज्यन्ते न तदभु-
क्ता इति यावत् । कुतः ? 'तथादृष्टत्वात्' तथाश्रुतेरिति योजनामभि-
प्रेत्य अविभागेनेति प्रतिज्ञांशं व्याचष्टे-य इति । 'भोगाः' स्वरूपसुखवि-
शेषव्यक्तिहेतुविषयदर्शनविषयाः, न तु तदभुक्ता इत्येवशब्दार्थः ।
'मुक्तैः' सायुज्यभाग्भिः । दृष्टत्वादिति हेत्वंशं व्याचष्टे--यानेवेति ।
अहमिति परमात्मोच्यते । 'एते' मुक्ताः 'इदं शरीरं' कर्मारब्धज-
डशरीरम् । चतुर्वेदशिखायामिति । 'दृष्टत्वात्' श्रवणादित्यन्वयः ॥
(२) ननु भगवद्भुक्ताः अशेषभोगाः मुक्तैर्भुज्यन्ते ? किं वा केचि-
त् । आद्ये मुक्तपरमात्मनोः साम्यापातः । न द्वितीयः, 'यानेव' इ-
ति सामान्यतः सर्वभोगश्रवणादित्यत आह--भविष्यदिति ॥ इति भ-
विष्यत्पुराणे उक्तत्वाद्वेति योजना । 'तद्भोगान्' तेनेश्वरेण भोग्यान्
विषयान् 'बहिष्ठान्' ईश्वरदेहाद्बहिस्स्थितान् अस्वरूपभूतान् । परमे-
श्वरस्वरूपानन्दादिव्यावृत्त्यर्थमेतत् । अत एवाह-नेति । बाह्यानामपि
न सर्वेषां भोगः, लक्ष्म्यात्मकानामभोगादत उक्तं--क्वचिदिति । प्रा-
कृतानामपि न सर्वात्मना भोगः, परमात्मेन्द्रियविषयरसादीनामभो-
गादतो-लेशत इति । कांश्चिदित्यर्थः । बहिष्ठानेव न त्वन्तःपुरस्थानि
ति तत्त्वप्रदीपोक्तिः । 'कथं चन' सामस्त्येन वा लेशतो वेत्यर्थः ।
तथा च द्वितीयपक्षमाश्रित्य विशेषश्रुत्या सामान्यश्रुतेः सङ्कोचः कार्य

[ अधि - ५. सू - ५. ] दीपिकासहितम्. १०७७
इति ॥ ४ ॥
—::—
५. अधिकरणम् ॥
( १ ) सू—ॐ ॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ॐ ॥ ५ ॥
सर्वदेहपरित्यागेन मुक्ताः सन्तो ब्राह्मेणैव देहेन भोगा
न् भुञ्जत इति जैमिनिर्मन्यते ।
इति भावः ॥ ४ ॥
॥ इति अविभागाधिकरणम् ॥
—:
:—
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मप्राप्तस्य सायुज्यमुक्तस्य भोगः समर्थ्यते।
तत्र मुक्तस्य देहभावे मुक्तत्वायोगात् तदभावे च भोगाभावप्राप्तेर्न त
स्य भोगो युज्यत इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति—ब्राह्मेणेति॥
अत्र पूर्वसूत्रात्तन्वनिर्मुक्तस्य विभागेनेति पदस्य अनुवृत्तिमभिप्रेत्य त
दर्थमाह-सर्वदेहेति ॥ सर्वशब्दः चिद

१०७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
(२) 'स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्मा
भिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति ब्रह्मणैवेदं
सर्वमनुभवति' इति माध्यन्दिनायनश्रुतावुपन्यासात् ।
(३) आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति ।
गच्छेच्च हरिपादाभ्यां मुक्तस्यैषा स्थितिर्भवेत् ॥ इति
स्मृतेः ॥
(४) गच्छामिं विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् ।
इत्यादिपूर्वस्मरणान्मुक्तस्यैतद्भविष्यति ॥
'ब्राह्मेणैव देहेन सन्तः' तदतिरिक्तदेहरहिता इत्यभ्युपगम्यते । कुतो
देहाभावः ? यतः सर्वदेहपरित्यागेन मुक्ताः । अभेदे तृतीया । सर्वदे
हपरित्यागरूपमुक्तियुक्ता इति । न च देहाभावे भोगायोगः । यतः
स्वदेहाभावेऽपि ब्राह्मेणैव ग्रहवद्भोगान् भुञ्जते अत इति जैमिनिराचा
र्यो मन्यते इति ॥
(२) कुत एतदित्यतः उपन्यासादिति हेतुं तत्पदसूचितश्रुत्युदा
हरणपूर्वकं व्याचष्टे—स इति ॥ 'उपन्यासात्' उक्तत्वादित्यर्थः । श्रु
त्यर्थस्तु—'स एष ब्रह्मनिष्ठो' ब्रह्मज्ञानी 'मर्त्यं' विनाश्यं 'इदं' प्रत्य
क्षसिद्धं स्थूलसूक्ष्माख्यं देहं 'अतिसृज्य' विसृज्य परं ब्रह्म प्राप्य
परब्रह्मणा तद्देहेन पश्यति शृणोति च, इदं सर्वं भोग्यमनुभवति ब्र
ह्मणेति ॥
(३) नन्वत्र मुक्तभोगो ब्रह्मणा श्रूयते, न पुनस्तद्देहेनेति श्रुतौ
ब्रह्मणैत्यस्य तत्प्रसादादित्यप्यर्थसम्भवादित्यत उपन्यासादित्येतच्छ्रु
त्यन्तरसूचकतया व्याचष्टे—आदत्ते इति ॥ 'हरिदृष्ट्या' विष्णुच
क्षुषा ॥
(४) ननु स्वयं देहविधुरस्य कथमन्यदेहेन भोगो युज्यते प्र
लयादावभावादित्यतः सौत्रादिशब्दगृहीतां युक्तिमसिद्धिवारणाय
स्मृत्यैव दर्शयति—गच्छामीति ॥ मुक्ताविति शेषः । तथा चाहं मुक्तौ
विष्णुपदाभ्यां गच्छामि गमिष्यामि 'विष्णुदृष्ट्या' तच्चक्षुषा तु तेनैव
मे दर्शनं भविष्यतीत्याद्युपासनानुसारेण पूर्वस्मिन् संसारकाले स्म
रणरूपोपासनात् मुक्तस्य सायुज्यमुक्तियोग्यस्य 'एतत्' अन्यदेहेन
भोजनं मुक्तौ भविष्यतीत्यर्थः । यद्वा—मुक्तेः पूर्वं संसारदशायां अहं
स्वदेहस्थविष्णुपादाभ्यां गच्छामि तत्रस्थविष्णुदृष्ट्यैव दर्शनं करो

[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०७९
इति बृहत्तन्त्रोक्तयुक्तेश्च ॥ ५ ॥
(५) सू-ॐ॥ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ॐ॥६॥
चितिमात्रो देहो मुक्तानां पृथग्विद्यते तेन भुञ्जते ।
'सर्वे वा एतदचित्परित्यज्य चिन्मात्र एवैष भवति
चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षते' इ
त्युद्दालकश्रुतेश्चिदात्मकत्वादित्यौडुलोमिर्मन्यते ॥ ६ ॥
मीत्यादिस्मरणरूपोपासनादित्यर्थः । अनेन पूर्वस्मिन् संसारे स्वदेह
गतविष्णुपदाभ्यामहं गच्छामीत्युपास्तिसद्भावादिति युक्तिरुक्ता भव
ति । पञ्चम्यन्तानां ब्राह्मेणेति प्रतिज्ञावाक्येनान्वयः ॥
(५) एवं देहाभावमभ्युपगम्य भोगं मुक्तस्य समर्थ्य देहसद्भा
वमप्यभ्युपगम्य तत्समर्थयत्सूत्रमुपन्यस्यति — चितीति ॥ अत्र मुक्ता
भुञ्जते पृथग्विद्यत इति च शेषः । तदिति व्यस्तं समस्तं च । तत्र
व्यस्तमावर्तते । चितिमात्रेणेति हेतुगर्भम् । तथा च मुक्ताः भुञ्जते ए
व तेषां भोगो युक्त एवेति यावत् । न च पृथग्देहाभावादयुक्तता । यत
स्तेषां मुक्तानां तच्छरीरं तस्माद्ब्रह्मदेहात्पृथग्विद्यते । न चैवं पुनस्सं
सारापत्त्या मुक्तत्वायोगः । यतस्ते 'चितिमात्रेण' शरीरेण भुञ्जते यत
स्तच्छरीरं केवलं चैतन्यस्वरूपमिति यावत् । न चाप्रयोजकता 'त
दात्मकत्वात्' तेषां मुक्तानां चिदात्मकत्वात् तस्य चितिमात्रशरीर
स्य च मुक्तस्वरूपत्वात् स्वरूपस्य चाकृत्रिमत्वेन संसारानापादक
त्वादिति भावः। मुक्तानां चिदात्मकत्वमेव कुतः ? 'तत्' तस्माच्छ्रु
तिवाक्यादेवेत्यौडुलोमिराचार्यो मन्यत इति योजनामभिप्रेत्य सूत्रं
व्याचष्टे—चितीति । 'पृथक्' ब्रह्मदेहात् । 'तेन' देहेन भुञ्जते मुक्ता
इति विपरिणतमनुवर्तते । 'चिदात्मकत्वात्' चिन्मात्रत्वादिति । अ
त्र मुक्तानामित्यनुषज्यते । तथा च मुक्तानां चितिमात्रत्वात्तेषां देह
श्चितिमात्रः, यत एवं अतः सर्वदेहपरित्यागेन मुक्ता इति योजना ।
श्रुत्यर्थस्तु 'तत्' प्रत्यक्षसिद्धं सर्वं 'अचित्' जडात्मकं स्थूलसूक्ष्म
शरीरं परित्यज्यैष जीवश्चिन्मात्र एव भवति तथा व्यज्यते । व्यक्तस्य
चिन्मात्रत्वस्य पुनर्नापगम इत्याह—चिन्मात्र एवावतिष्ठत इति । एष
इत्यनुषज्यते । 'तामेतां' दशां मुक्तिरित्याचक्षते विद्वांस इति ॥

१०८० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
(६) सू—ॐ॥ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरा
यणः ॥ ॐ ॥ ७ ॥
‘ स वा एष एतस्मान्मर्त्याद्विमुक्तश्चिन्मात्रो भवत्यथ
तेनैव रूपेणाभिपश्यत्यभिशृणोत्यभिमनुतेऽभिविजा
नाति तामाहुर्मुक्तिरिति ’ सौपर्णश्रुतौ चिन्मात्रेणाप्युप
न्यासाज्जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बा
दरायणो मन्यते।
(६) ननु न सूत्रद्वयोक्तपरिहारौ युक्तौ, देहभावाभावयोर्विरुद्ध
त्वादित्याशङ्कापरिहारकं सूत्रमुपन्यस्यति—एवमपीति ॥ अत्रैवं
शब्द औडुलोम्युक्तचिन्मात्रदेहसाध्यभोगपरामर्शक आवर्तते। अपिः
मुनिद्वयोक्तप्रकारद्वयसमुच्चये श्रुतिसमुच्चये च। तथा च बादरायणा
चार्य उभयोर्मतयोरविरोधं मन्यते। कुतः? ‘एवं’ औडुलोमिनोक्त
स्य चिन्मात्रेण भोगस्य प्रमाणेषु भावात् प्रामाणिकत्वादिति यावत्,
तथा ‘पूर्वभावात्’ पूर्वस्य ब्राह्मेणैव भोग इति जैमिन्युक्तस्यापि प्रमा
णेषु भावात् प्रामाणिके च विरोधाभावादिति भावः। न चौडुलोमि
मते प्रमाणाभावः। ‘सर्वं वा’ इति श्रुतौ मुक्तस्य चिच्छरीरमात्रोक्ता
वपि तस्य भोगकारणत्वानुक्तेरिति वाच्यम्। ‘एवमप्युपन्यासात्’
‘स वा एषः’ इति सौपर्णश्रुतौ औडुलोम्युक्तचिच्छरीरभोगस्याप्युप
न्यासात् प्रतिपादनात्। न केवलं माध्यंदिनायनश्रुतौ जैमिन्युक्तस्यो
पन्यास इत्यपेरर्थ इति सूत्रार्थमुपन्यासपदसूचितश्रुत्युदाहरणपूर्वमा
ह—स वा इति। भोगस्येत्युभयत्र शेषः। न केवलं ब्राह्मेण भोगस्येत्य
पेरर्थः श्रुत्युपन्यस्तत्वमात्रे समुच्चयः। न त्वेकश्रुत्युपन्यस्तत्वे। चिन्मा
त्रेण भोगस्येत्येतत् भावादित्यनेनाप्यन्वीयते। अत एव भावादिति हे
तुरनन्तरमुपन्यस्तः आदौ योजनीयः। ‘उभयत्र’ उभयोः। न केवल
मेकत्रेत्यपेरर्थः। तथा च नोभयोः पक्षयोर्विरोधोऽस्ति चिन्मात्रेण भो
गस्य ब्राह्मेण भोग इति जैमिन्युक्तस्य च प्रमाणेषु भावात् प्रमिते च
विरोधाभावात्। न चान्त्ये प्रमाणाभावः। न केवलं ‘सः’ इति श्रुतौ
ब्राह्मेण भोगस्योपन्यासः। किं नाम ? ‘सः’ इति श्रुत्यन्तरे औडुलो
म्युकस्याप्युपन्यासादिति उभयोः पक्षयोः ‘अविरोधं’ विरोधाभावं
भगवान् बादरायणो मन्यत इति योजना। श्रुत्यर्थस्तु—‘सः’ मुक्तो
‘मर्त्यात्’ विनाश्यात् कर्मारब्धजडशरीराद्विमुक्तः ‘चिन्मात्रो’ चि

[ अधि - ५. सू - ७. ] दीपिकासहितम्. १०८१
(७) नारायणाध्यात्मे च—
मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः ।
चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ॥
तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्त्तनम् ।
कुर्वन्ति भुञ्जते भोगान् तदन्तर्बहिरेव वा ॥
यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः ॥ इति ॥ ७ ॥
——
दात्मकदेहवान् व्यक्तो भवति । ‘अथ’ अनन्तरं ‘तेनैव रूपेण’ चि-
त्स्वरूपेणैवेन्द्रियेण ‘अभिपश्यति’ रूपादिकं ‘शृणोति’ शब्दान् ‘म-
नुते’ सामान्यतः स्वयोग्यं सर्वं ‘विजानाति’ विशेषतः । तां दशाम् ॥
(७) ननु देहभावाभावयोर्विरोधस्य कः परिहारो जात इत्यतो
जैमिनिमतं जडदेहाभावविषयम्, औडुलोमिमतं तु चितिमात्रदेहवि-
षयमितो न विरोध इत्याशयेन अविरोधप्रकारं अपिशब्दसूचितस्मृत्या
दर्शयति—नारायणेति ॥ ‘मर्त्यं’ विनाशिनं ‘चितिमात्रात्मदेहिनः’
केवलचिदात्मकस्वरूपदेहयुक्ताः । चस्समुच्चये । न त्वदेहिनो चिद्दे-
हिनोऽनिन्द्रियाश्चेत्येवार्थः । अव्ययं विष्णुं प्रविष्टा इति सायुज्यभाज
उच्यन्ते । अत एव ‘तदङ्गानुगृहीतैः’ भगवदङ्गानुगृहीतैरित्याद्युक्तिः।
‘स्वाङ्गैः’ स्वरूपकरचरणादिभिः । न तु भिन्नैः विष्ण्वीयैर्वेत्येवार्थः ।
‘प्रवर्त्तनं’ व्यापारं भुञ्जते चेति सम्बन्धः ‘भोगान्’ भोग्यान् ‘तद-
न्तः’ विष्णुदेहस्यान्तः बहिश्चेति सम्बन्धः । यथेष्टमेवेत्यन्वयः । ‘प-
रिवर्तन्ते’ सञ्चरन्ति ‘तस्य’ विष्णोः ‘अनुग्रहेरिताः’ प्रसादेन प्रेरि-
ताः तदिच्छया विषयीकृता इत्यर्थः । अनुग्रहैधिता इति पाठे तदभि-
वर्धिता इत्यर्थः । तस्यैवानुग्रहेरिता इत्यनेन ब्राह्मेणेति सूत्रखण्डस्य ब्र-
ह्मणः प्रसादेनेत्यप्यर्थः सूचितः, अत एव प्रमेयदीपे अनुभवशक्ति-
स्त्वीश्वरप्रसादादित्यत्र ब्राह्मेणेति सूत्रं प्रमाणीकृतम् । इति नारायणा-
ध्यात्म इत्यन्वयः ॥ ५ ॥
॥ इति ब्राह्माधिकरणम् ॥
—
-:-*-—
१३६

१०८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
६. अधिकरणम् ॥
(१) सू—ॐ ॥ सङ्कल्पादेव च तच्छ्रुतेः ॥ ॐ ॥ ८ ॥
न तेषां भोगादिषु प्रयत्नापेक्षा । 'स यदि पितृलोक-
कामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति'
६. अधिकरणम् ॥
( १ ) अत्राधिकरणे मुक्तस्य सङ्कल्पमात्रसाध्यभोगः समर्थ्यते ।
तत्र मुक्तानां भोगादिषु तत्तदुपायसाध्यसाधनापेक्षाऽवश्यकीति पूर्व-
पक्षे सिद्धान्तयत्सूत्रं पठति—सङ्कल्पादेवेति ॥ अत्र चशब्दो निपा-
तत्वेनानेकार्थत्वात् नञर्थः सन् पूर्वपक्षनिवृत्तिरूपार्थमाह । तत्त्वप्रदी-
परीत्या एवशब्दो वा एतमर्थमाहेत्याशयेन तमर्थं दर्शयति—न तेषा-
मिति । 'तेषां' मुक्तानां भोग इष्टानुभवः । आदिपदेन तत्त्वप्रदीपरी-
त्या सौत्रचशब्दार्थभूता निष्ठा परमा गृह्यते । प्रयत्नापेक्षेति । तत्तदु-
पायसाध्यसाधनापेक्षेत्यर्थः । प्रयत्नापेक्षेत्यनन्तरं किन्तु सङ्कल्पादेव
तत्सिद्ध्यतीति वाक्यशेषः । एवं सूत्रेऽपि । कुत एतदित्यतः प्रवृत्तं तच्छ्रु-
तेरिति हेतुपदं सा च सा श्रुतिश्चेति विग्रहं तच्छब्दस्य सङ्कल्पादेवे-
त्येतद्रूपपरामर्शित्वं चाभिप्रेत्य श्रुत्युदाहरणपूर्वं व्याचष्टे—स यदी-
ति । आदिपदेन 'तेन पितृलोकेन महीयते । अथ यदि मातृलोकका-
मो भवति' इत्यारभ्याम्नातं 'यं यमन्तमभिकामो भवति यं कामं का-
मयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते' इत्यन्तं
समग्रवाक्यं गृह्यते । 'स यदि' इतिच्छान्दोग्यश्रुतेरयमर्थः—'सः'
मुक्तो यदि पितॄणां विष्णुलोको भूयात् तदनन्तरं तदवलोकोऽपि म-
म भूयादिति 'पितृलोककामः' तदपेक्षो भवति । तदा 'अस्य' मुक्तस्य
'सङ्कल्पात्' अपेक्षावशादेव अस्य पितरः 'समुत्तिष्ठन्ति' स्वयोग्य-
साधनमापाद्य संसारान्मुक्ताः सन्तः पुरस्स्थिता भवन्ति । ततश्च
'तेन पितृलोकेन' तद्दर्शनेन 'सम्पन्नो' युक्तः सन् 'महीयते' स्वा-
वरैः पूज्यत इति । एवमन्यान्यपि वाक्यानि व्याख्येयानि भवन्ति ।
अत्र पित्रादयः स्वरूपपित्रादयो विवक्षिताः ते च चरमशरीरपित्राद-
य एव 'चरमे तु यथा निजम्' इति वचनात्ते च योग्या एवेति सं-
प्रदायविदः । उपसंहरति—यं यमिति । 'अन्तं' देशमवसानं निर्णयं
वा । 'कामं' काम्यम् । इति सूत्रे तदिति व्यस्तं समस्तं चावर्तते । त

[ अधि - ७. सू - ९. ] दीपिकासाहितम्. १०८३
( छा. ८-२-१०.) इत्यादिश्रुतेः ॥ ८ ॥
— * —
७. अधिकरणम् ॥
( १ ) सू—ॐ॥ अत एव चानन्याधिपतिः ॥ ॐ ॥ ९ ॥
सत्यसङ्कल्पत्वादेव ।
( २ ) परमोऽधिपतिस्तेषां विष्णुरेव न संशयः ।
ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ॥
ततः प्राणादिनामान्ताः सर्वेऽपि पतयः क्रमात् ॥
आचार्याश्चैव सर्वेऽपि यैर्ज्ञानं सुप्रतिष्ठितम् ।
था च न तेषां मुक्तानां भोगादिषु प्रयत्नापेक्षा, किन्तु सङ्कल्पादेव
तद्भोजनं सिध्यति । कुतः ? 'तच्छ्रुतेः' 'स यदि' इति श्रुतेरित्यर्थः ।
एवशब्दः श्रुतेः प्राबल्यसूचकः । सङ्कल्पानन्तरमेव, न तु विलम्बं कृ
त्वेति वा ॥ ६ ॥
॥ इति संकल्पाधिकरणम् ॥
— ःः* —
७. अधिकरणम् ॥
( १ ) अत्र ब्रह्मप्राप्तिमतां मुक्तानां स्वाधमनियाम्यत्वराहित्येन
भोगस्साध्यते । तत्र मुक्तस्याधमा अप्यधिपतयः सन्तीति पूर्वपक्षे सि
द्धान्तयत्सूत्रमुपन्यस्यति—अत एवेति । अत्र 'मुक्तः प्रतिज्ञानात्'
इत्यतो मुक्त इत्यनुवर्तते । चशब्दो विपक्षव्यावृत्त्यर्थः । तथा च मुक्तो
न संसारिसमधर्मभागिति प्रतिज्ञासिद्धौ कुत एतदित्यतो यतोऽनन्या
धिपतिरित्याह । क्लृप्तपतिभ्योऽन्याधिपतियुक्तो नेति तदर्थः । अत्रापि
हेत्वाकांक्षायां अत इत्युक्तमित्याशयेन तमंशं व्याचष्टे—सत्यसङ्कल्प
त्वादेवेति । अयमस्माकमेव नियम्यस्स्यादित्यधिपतीनां सत्यसङ्कल्प
त्वात्तदनुसारेण अहमेतेषामेव नियम्यस्स्यामिति नियम्यमुक्तस्यापि
सत्यसङ्कल्पत्वादेवेति तत्त्वप्रदीपरीत्याऽस्यार्थो ज्ञातव्यः । टीकाकृ
द्रीत्या एवकारः सिद्धान्तिहेतोः परग्रहगतत्वादिति पूर्वपक्षिहेत्वपेक्ष
या प्राबल्यमाह । नात्र हेत्वन्तरं गवेषणीयमित्यर्थो वा ॥
( २ ) अत्रार्थे स्मृतिं चाह—परम इति ॥ अनेन सौत्रचशब्दः स्मृ
तिसमुच्चायकतयाऽपि व्याख्यातः । यथोक्तं तत्त्वप्रदीपे--चकारा

१०८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
एतेभ्योऽन्यः पतिर्नैव मुक्तानां नात्र संशयः ॥
इति वाराहे ॥ ९ ॥
——
८. अधिकरणम् ॥
( १ ) सू— ॐ ॥ अभावं बादरिराह ह्येवम् ॥ ॐ ॥ १० ॥
चिन्मात्रं विनाऽन्यो देहस्तेषां न विद्यत इति बाद्-
रिः । ' अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं
दनन्याधिपतित्वे प्रमाणादिति । स्मृत्यर्थस्तु— ब्रह्मादिमानुषान्तानां
सर्वेषां तेषां मुक्तानां 'परमो' मायाः परो विष्णुरेव मुख्याधिपतिर्नात्र
सन्देहः । परम इत्यनेन लक्ष्मीरपि गृहीता । 'ततः' तदनन्तरं 'प्राणा-
दिनामान्ताः' ब्रह्माद्युषःपर्यन्ताः सर्वेऽपि स्वावराणां क्रमेणाधिपतयः।
यैरुक्तज्ञानं 'सुप्रतिष्ठितं' समुत्पन्नं त एते सर्वे आचार्या गुरवश्च पत-
यः। एतेभ्यः क्लृप्ताधिपतिभ्यः अन्योऽधिपतिः मुक्तानां नास्त्येव, नात्रं
संशय इति । वाराहे इत्यनन्तरं वचनाच्चेति शेषः । हेतुद्वयस्यापि सौ-
त्रप्रतिज्ञायाऽन्वयः ॥ ७ ॥
॥ इति अनन्याधिपत्यधिकरणम् ॥
—
ॐ *—
८. अधिकरणम् ॥
( १ ) अत्राधिकरणे परमेश्वरं प्राप्तानां भोगानुपपत्तिः परिह्रियते ।
न मुक्तानां भोगो युज्यत इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—
अभावमिति ॥ अत्र 'मुक्तः प्रतिज्ञानात्' इत्यतो मुक्त इति पदं षष्ठ्य-
न्ततया विपरिणतं चितिमात्रेनेति पदं चेहानुवर्तते । विना अन्यस्ये-
ति शेषः । देहस्येति श्रुतिरिति च लभ्यते । तथा च यतो मुक्तानां चि-
तिमात्रेण विना तदन्यस्य प्राकृतदेहस्याभावोऽसत्त्वमतो न तेषां प्रा-
कृतदेहसदसद्भावविकल्पमूलकभोगानुपपत्तिरिति शेषः । कुतः तेषां
देहाभावः ? 'हि' यस्मादेवं मुक्तानां शरीराभावं 'अशरीरो वा'
इत्यादिका श्रुतिराह, तस्मादिति बादरिः 'आह' मन्यते इति योजने-
त्यभिप्रेत्य सूत्रं व्याचष्टे—चिन्मात्रं विनेति। प्रकृतत्वाच्चिन्मात्रस्यैव
प्रतियोगित्वमिति भावः । बादरिराहेत्यन्वयः । देहाभावः कुत इत्यतः
प्रवृत्तमाह ह्येवमित्यंशं व्याचष्टे—अशरीरो वेति। इति कौण्ठरव्यश्रुता

[ अधि - ८. सू - ११. ] दीपिकासहितम्. १०८५

न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यते' इत्येवं
कौण्डरव्यश्रुतावाह हि ॥ १० ॥
(२) सू— ॐ ॥ भावं जैमिनिर्विकल्पाम्नानात् ॥ ॐ ॥ ११ ॥
'स वा एष एवं वित्परमभिपश्यत्यभिशृणोति ज्यो-
तिषैव रूपेण चिता वाऽचिता वा नित्येन वाऽनित्येन
वाऽथानन्दी ह्येवैष भवति नानानन्दं कंचिदुपस्पृश-
न्नित्यन्वयः। 'एवं' मुक्तानां प्राकृतदेहाभावं, श्रुताविति सप्तमी प्रथमा-
र्थे। 'हि' यस्मात् । अनेन आहेति सौत्रपदस्यावृत्तिस्सूचिता। श्रुत्य-
र्थस्तु— 'तदा' मुक्तिकाले 'एषः' मुक्तः 'अशरीरो वाव' प्राकृतदेह-
शून्य एव भवति यतोऽत एनं न 'प्रियाप्रिये' सुखदुःखे स्पृशतः।
अशरीरं सन्तमित्यनुवादः । प्रियाप्रियस्पृष्ट्या भवदनिष्टमाह— याभ्यां
प्रियाप्रियाभ्यामिति । अनेनात्र प्रियशब्देन 'परेयं प्रियनामकम्' इत्यु-
क्तेः पराधीनसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्यमिति सूचितम् ।
तस्यैवानित्यत्वविकारित्वादिरूपोन्मादापादकत्वादिति तत्त्वप्रदीपो-
क्तेः। यद्यपि 'न हवै शरीरस्य' (छा.८-१२-१.) इति छान्दोगेऽपि श्रुतिर-
स्ति । तथाऽपि सा परमात्मपरेति नात्रोदाहृता ॥
(२) मुक्तानां देहसद्भावमभ्युपगच्छत्सूत्रमुपन्यस्यति— भावमि-
ति ॥ पूर्ववद्विपरिणामानुवृत्त्यध्याहाराः कर्तव्याः । तथा च जैमिनिर्मु-
क्तानां चितिमात्रेणविना तदन्यस्य प्राकृतदेहस्यापि 'भावं' सद्भावं
मन्यते । कुतः ? 'विकल्पाम्नानात्' चिन्मात्रदेहेनैवावतिष्ठते इत्यनु-
क्त्वा श्रुतौ 'चिता वाऽचिता वा' इति विकल्पोक्तेरिति सूत्रार्थमभिप्रे-
त्य श्रुत्युदाहरणपूर्वकं तद्व्याचष्टे— स इति । 'परं' परमात्मानं 'एवं'
उक्तप्रकारेण 'वित्' अपरोक्षज्ञानी 'स एषः' मुक्तः 'चिता' अप्राकृ-
तचैतन्यात्मकेन वा 'अचिता' शुद्धसत्त्वात्मकप्राकृतकर्मानारब्धजडा-
त्मकेन वा 'ज्योतिषा' प्रकाशमानेन 'रूपेण' शरीरेणैव 'अभिपश्य-
त्यभिशृणोति' दर्शनश्रवणोपलक्षितसर्वविषयानुभववान्भवतीत्यर्थः।
तेन च 'आनन्द्येव' व्यक्तसुखवानेवैष भवति न दुःखी। हीति प्रसि-
द्धम् । कुतो ? 'हि' यतो 'नानानन्दं' आनन्दविरुद्धं दुःखं 'कञ्चि-
त्' कमपि मुक्तं नोपस्पृशत्यत इत्यर्थः। अत्र नित्येनेत्येतत् चितेत्यस्य
अनित्येनेत्येतत् अचितेत्यस्य विशेषणम्, न तु विकल्पद्वयमत्रोच्यते ।
उभयत्रवाशब्दोऽवधारणार्थः। तत्राचितोऽनित्यत्वं नाम स्वस्य स-

१०८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४, पा - ४. ]
ति’ इत्यौद्दालकभ्रुतौ विकल्पाज्ञानादन्यदेहस्यापि
भावं जैमिनिर्मन्यते ॥ ११ ॥
( ३) सू— ॐ ॥ द्वादशाहवदुभयविधं बादरायणोऽतः ॥ ॐ ॥ १२॥
यथा द्वादशाहः ऋत्वात्मकः सत्रात्मकश्च भवति ।
दाऽविद्यमानत्वमेव न तु सर्वथाऽनित्यत्वम् । मौकसकलपदार्थानां
मनादिनित्यत्वेन तद्योगादिति केचित् । अन्ये तु अनित्येन वेति । अने
न मुक्तानां बाह्यदेहोऽनादिनित्य एव कंचुकवृत्त्या स्वीकारादित्येतत्
निरस्तं भवति । प्राकृतशरीरादीनां मौक्तानां प्रलयात्पूर्वमुत्पत्तेः प्रल
ये विनाशाच्चेत्याहुः । विकल्पाज्ञानादिति । प्रकारद्वयाभिधानादित्य
र्थः । अन्यदेहस्येति । चिन्मात्रं विनैवेत्यनुषज्यते । तथा च चिन्मात्रं
विना तदन्यदेहस्यापीत्यर्थः । न केवलं चिन्मात्रस्येत्यपेरर्थः । ‘भा
वं’ सत्त्वम् ॥
( ३) नन्वेसन्मतद्वयस्य परस्परविरुद्धत्वात्किं तत्स्वमतमित्याश
ङ्कां परिहरत्सूत्रं पठति—द्वादशेति ॥ अत्र मुक्तानां देहभावाभावा
ख्यमुभयविधमपि मतं स्वमतमेव । कुतः ? अतः उभयविधस्यापि म
तद्वयोक्तप्रमाणवत्त्वात् इति सूत्रखण्डार्थमभिप्रेत्य कथमुभयं विरुद्धं
स्वमतं भवेदित्याशङ्कापरिहाराय प्रवृत्तं द्वादशाहवदित्यंशं व्याचष्टे-
यथेति । क्रतुरहीनः । यथोक्तं तत्त्वप्रदीपे—ऋतुरित्यहीनो विवक्ष्यते। अ
हीनैकाहेष्वस्य श्रेष्ठत्वात्क्रतुशब्दः प्रयुक्तः । तथा च श्रुतिः—‘श्रेष्ठोयज्ञो
वा एष यद्द्वादशाहः’( ) इति । अत्र द्विविधो द्वादशाहः सत्र
महीनश्चेति । तत्रैकादशाहपर्यन्तमहर्गणा अहीना एव । त्रयोदशाहादि
कं सत्रमेव । मध्यमं तु यजमानेच्छया एकयजमानकत्वेऽहीनसंज्ञकं, अ
नेकयजमानत्वे सत्रसंज्ञकम् । सतित्तचैवं अहीनात्मकः सत्रात्मक इति व
क्तव्ये ऋतुविशेषेऽहीने क्रतुपदप्रयोगः कुरुपाण्डवन्यायेनेति प्राचीनग्र
न्थोक्तो विशेषो ज्ञातव्यः । द्वादशाहवदिति दृष्टान्तवाक्येन लब्धमर्थं
दर्शयति—एवमिति । ‘भोगः’ इच्छया भोगः ‘बाह्यशरीरकृतः’ प्रा
कृतदेहनिमित्तः ‘चिन्मात्रकृतः’ स्वरूपदेहकृतः । चस्समुच्चये । भव
तीत्यनन्तरमतो मुक्तस्येच्छया भोगार्थं देहभावाभावयोरविरोधेनोपप
त्तिरिति बादरायणो मन्यत इति वाक्यशेषः । एतत्सूत्राभिप्रायस्तु मु
क्तानां स्वतः इच्छां विना प्राकृतदेहाभावमवरेषामिच्छयाऽप्यभावं
बादरिराचार्यो मन्यते । न च द्वितीये मुक्तानां सत्यकामत्वविरोधः ।

[ अधि - ८. सू - १४. ] दीपिकासहितम्. १०८७
एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवती
ति बादरायणो मन्यते ॥ १२ ॥
(४) उपपत्तिश्च -
सू- ॐ ॥ तन्वभावे सन्ध्यवदुपपत्तेः ॥ ॐ ॥ १३ ॥
सन्ध्यं स्वप्नः 'सन्ध्यं तृतीयं स्वप्नस्थानम्' (बृ. ६-
३-९.) इति श्रुतेः ॥ १३ ॥
(५) सू- ॐ ॥ भावे जाग्रद्वत् ॥ ॐ ॥ १४ ॥
यतस्तेषामिच्छाऽपि नास्ति तद्भोगस्याल्पीयस्त्वेन तदर्थं शरीरान्त
राक्षेपाभावात् । जैमिन्याचार्यस्तु कदाचिन्मुक्तस्यापि कस्य चिदुत्त
मस्य भोगार्थमिच्छया प्राकृतदेहस्यापि भावं मन्यते । सर्वेषामपि चि
दात्मकदेहेनैव भोगः, केषां चिदिच्छयैव बाह्यदेहेनापि । तत्रापि वि
शेषः - चिन्मात्रदेहेन भोगे बाह्यदेहापेक्षा नास्ति, बाह्यदेहेन भोगे तु
चिदात्मकदेहोऽधिष्ठानत्वेन अपेक्षित इति । यद्यपि चिद्देहेनैव समस्त
भोगो युज्यते, चिद्देहानां बहुरूपत्वात् । तथाऽपि वश्यप्रकृतीनां वैचि
त्र्यकौतुकवतां शरीरयोगेन च सुशक इति गुण एव । अतो मुनिमत
द्वयं साध्विति मुनिद्वयगुरवो मन्यन्त इति तत्त्वप्रदीपेऽभिहितः ॥
(४) ननु भवतु देहभावाभावयोरविरोधः । तथाऽपि कथं भोगो
पपत्तिः । देहसत्त्वे सदुःखादिः स्यात्, न चेद्भोगायोग इत्यनुपपत्तेरु
क्तत्वादित्यत आह - उपपत्तिश्चेति ॥ चोऽवधारणे । तथा च पक्षद्व
येऽपि भोगस्य युक्ततैवेत्यर्थः । कथमुपपत्तिरित्याशङ्कां परिहर्तुं देहा
भावे भोगोपपत्तिप्रतिपादनाय सूत्रं पठित्वा दुर्गमांशं सप्रमाणकं व्या
चष्टे - तन्विति । जाग्रत्सुषुप्तद्यपेक्षया तृतीयं स्वप्नावस्थाख्यं स्थानं
'सन्ध्यं' जाग्रत्सुषुप्तिसन्धौ भवमिति वाजसनेयश्रुत्यर्थः । अनेन सप्त
म्यर्थे वतिः । तन्वभाव इत्यावर्तते । भोगेत्युपस्कार्यम् । अत एवेत्यत
श्चोऽनुवर्तते, स च विपक्षव्यावृत्त्यर्थोऽप्यर्थश्च । तथा च न देहाभावे
भोगानुपपत्तिः । कुतः ? 'सन्ध्यवत्' यथा स्वप्नावस्थायां 'तन्वभा
वे' शरीराभावेऽपि तदभिमानाभावेऽपि भोगो दृष्टस्तथा 'तन्वभावे'
तद्दशायां मुक्तौ 'तन्वभावे' देहाभावेऽपि भोगोपपत्तिरिति सूत्रार्थ उ
क्तो भवति ॥
(५) देहसद्भावे तत्र तत्त्वप्रदीपरीत्या मिथ्याभिनिवेशरूपाभिमाना
भावेऽपि लक्ष्म्यादिसाधारणस्य स्वकीयत्वज्ञानमात्ररूपाऽभिमानस्या

१०८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
(६) ब्रह्मवैवर्ते च---
स्वप्नस्थानां यथा भोगो विना देहेन युज्यते ।
एवं मुक्तावपि भवेद्विना देहेन भोजनम् ॥
स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् ।
स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदा चन ॥ इति ॥ १४ ॥
पि भावात्सुतरां भोगोपपत्तिरिति भावेन सूत्रमुपन्यस्यति—भाव
इति ॥ अत्र भाव इत्यतः पूर्वं तन्वा इति विपरिणत्यान्वेति । सप्तम्यन्ता
द्वृतिः । तन्वभावेऽपि भोगोपपत्तेरिति हेतुरत्रापि सम्बध्यते । तथा
च ‘जाग्रद्वत्’ यथा जाग्रद्दशायां तनोर्भावे देहसत्त्वेऽपि भोगोपपत्तिस्त
था ‘तन्वभावे’ मुक्तावपि तनोर्भावेऽपि भोगोपपत्तेः न तदनुपपत्ति
रिति सूत्रार्थस्य स्मृत्यैवोक्तत्वान्न पृथगुक्तः। ननु देह सद्भावे भोगानु
पपत्तेरनापादितत्वान्न परिहारायेदं सूत्रं व्यर्थमिति चेन्न, अस्य सूत्र
स्य प्रदीपवदावेश इत्यत्र वक्ष्यमाणं यदुःखादिप्राप्तिरूपदूषणस्य निरा
करणं तत्प्रस्तावाय तत्प्रतियोगिप्रसञ्जकप्रतिपादनाय प्रवृत्तत्वेन सा
र्थकत्वात् ॥
(६) ननु सन्ध्यवत् जाग्रद्वद्भोग इव सुषुप्तथादिवद्भोगाभावोऽपि
किं न स्यादिति प्रतिदृष्टान्तस्यापि वक्तुं शक्यत्वात् । देहाभावे स्वप्न
वद्देहसद्भावे जाग्रद्वद्भोग इत्येतत्कुत इत्यतः पूर्वसूत्रसहितैतत्सूत्रार्थे
स्मृतिं चाह ब्रह्मवैवर्त चेति ॥ उक्तमिति शेषः । न केवलं सूत्रकृता
इदमुक्तमिति चशब्दार्थः । ‘स्वप्नस्थानां’ स्वप्नावस्थापन्नानां ‘देहे
न विना’ तदभिमानेन विनाऽपि । अनभिमानस्याऽपि भोगाभावापादक
त्वेनाभावसाम्यादेवमुक्तिः । ‘देहेन’ प्राकृतेन ‘भोजनं’ भोगः । युज्य
त इत्यनुषज्यते । ‘शरीराणि’ प्राकृतानि ‘कदा चन’ भोगानन्तर
काले । इतिशब्दस्य ब्रह्मवैवर्त इत्यनेनान्वयः । बृहद्भाष्यरीत्या तु सू
क्ष्मस्यैव स्वरूपदेहस्य मुक्तौ वृद्धयङ्गीकारेण भोगः । तदुक्तं बृहद्भाष्ये
षष्ठाध्याये—
अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ ।
तथा च सुमहत्तेजः करोति भगवान् महत् ॥
अतो नवतरं चैतत् ब्रह्मादीनां करोत्यजः ॥ इति ॥
व्यासतीर्थैः अल्पं परिमाणवत भगवान् मुक्तौ रूपं सुमहत् तेजो मह

[ अधि - ८. सू - १५. ] दीपिकासहितम्. १०८९
(७) सू - ॐ ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ ॐ ॥ १५ ॥
शरीरमनुविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगान
नुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादि
षु प्रविष्टः तत्स्थं तैलाद्येव भुङ्क्ते न तु काष्र्ण्यादि ।
' तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति '
त्करोतीत्यर्थ इति । अत्र स्वरूपदेहस्य महत्त्वं च स्वस्वचरमशरीरसम
त्वेन तूलपिण्डवत् प्रचय एव । न च प्रचयशब्दितविकाराङ्गीकारे
ऽनित्यत्वापत्तिः । ईश्वरशक्त्या तद्भावोपपत्तेः । उक्तं हि गीताभा
ष्ये 'शरीरं जायते तेषाम्' इति द्वितीयाध्यायव्याख्यानावसरे । प्रमे
यदीपे तु विकारित्वाद्धिनाशः स्यादित्यत उक्तं-ईश्वरशक्त्येतीति ॥
(७) ननु देहसद्भावे भोगोपपत्तावपि दुःखमप्यापद्यते एवेत्युक्त
मेवेत्याशङ्कां परिहरत्सूत्रं पठति—प्रदीपवदिति ॥ अत्र मुक्तानामिति
प्रकरणाल्लभ्यते । प्रदीपवदिति षष्ठ्यन्ताद्वतिः । आवेशः प्रवेशः । स्व
कीयत्वज्ञानरूपाभिमानः । तथा च 'अपि' यद्यपि मुक्तानां 'आवेशः'
शुद्धप्रकृतिमयज्योतिरूपसुखैकायतनबाह्यदेहप्रवेशः तदभिमानोऽस्ति
तथापि न ते दुःखादीननुभवन्ति किंतु साधूनेव प्रदीपवदिति सद्द
ष्टान्तं प्रतिज्ञावाक्यस्य अर्थमभिप्रेत्याह—शरीरमिति । शुद्धप्रकृतिम
यज्योतिरूपशरीरमित्यर्थः । समुदायेकवचनमेतत् । 'अनुप्रविश्य'
इच्छानुसारेण प्रविश्य तदभिमानिनो भूत्वा । तत्कार्यमाह-तदिति ।
'पुण्यान्' तत्साध्यान् साधून् 'भोगान्' भाग्यान् । पुण्यानित्यनेनाग्नि
होत्रादित्यत्र ज्ञानोत्तरपुण्यभाजो यद्भोगबाहुल्यमुक्तं तत्सूचयतीत्यु
क्तं तत्त्वप्रदीपे । मुक्ताः न तु दुःखादीननुभवन्ति, किन्तु पुण्यानेवेति यो
जना । न पापसाध्यानसाधून् दुःखादीनित्येवार्थः । आदिशब्देनासह्मा
विषया गृह्यन्ते । 'तत्स्थं' दीपिकास्यितं 'भुङ्क्ते' गृह्णाति । द्वितीया
न्तप्रथमादिशब्देन घृताद्युच्यते द्वितीयेन धूल्यादिकम् । तुरप्यर्थः ।
'काष्र्ण्यादीन्' मालिन्यादीनपीति । भुङ्क्ते इत्यनुषज्यते । तथेति शे
षः । तथेत्यन्तं भाष्यं शरीरमित्यादेः प्राक् संयोज्यम् । 'तत्' शरीरं
प्रकाशयन्तः चित्स्वरूपादिविवेचयन्तः आत्मज्योतिषा प्रकाशयन्तो वा
इत्यनेन प्रदीपवदिति प्रदीपदृष्टान्ते वक्तुः सूत्रकारस्य यथा प्रदीपो
दीपिकां प्रकाशयन् तत्स्थं तैलाद्येव भुङ्क्ते, न प्रकाशविरोधीन् का
१३७

१०९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
( बृ. ६-३-२२. ) इति हि दर्शयति ॥ १५ ॥
(८) न च ' स्वर्गे लोके न भयं किञ्चनास्ति' ( कठ. १-१२. )
इत्यादिना स्वर्गादिस्थस्यैतदिति वाच्यम् । यतः—
ख्यादीन् । तथा मुक्ताः जडशरीरं प्रकाशयन्तो देहविवेकज्ञानवत्त्वाद्गु-
णानेव भोग्याननुभवन्ति, न तन्निमित्तकं दुःखादीति विवक्षोक्ता भवति।
न च ' न ह वै सशरीरस्य' (छा. ८-१२-१.) इति श्रुतिविरोधः । तस्याः
कर्मारब्धदेहविषयत्वादिति भावः । ननु देहसद्भावे कुतो मुक्तस्य दुः-
खाभावः, कुतश्च श्रुतेरर्थान्तरपरत्वं दृष्टान्तमात्रस्यासाधकत्वादित्यतः
प्रवृत्तं तथा हि दर्शयतीति हेत्वंशं व्याचष्टे—तीर्णो हीति । श्रुतिरिति
शेषः । ' हि' यस्मात् तं

[ अधि - ८. सू - १६. ] दीपिकाসহিতम्. १०९१
सू - ॐ ॥ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं
हि ॥ ॐ ॥ १६ ॥
सुप्तौ मोक्षे वा तदुच्यते । 'अत्र पिताऽपिता भवति ..
ज्यम् । हेत्वर्थे चायं, अतो न वाच्यमित्यन्वयः । यद्वा-सुप्तौ मोक्ष
इति विषयसप्तमी । 'तत्' तीर्णो हीति वाक्यं 'उच्यते' पठ्यत इत्य
र्थः । यद्यपि सूत्रनिर्देशानुसारेण मोक्षे सुप्तौ चेति वक्तव्यम् । तथा
पि 'तीर्णो हि' इति वाक्यस्योभयपरत्वेऽपि मुख्यत्वमेव, न त्वेकत्र
मुख्यताऽन्यत्रामुख्येतेति ज्ञापनायैवं व्यत्यासेनोक्तिः । कुतोऽस्य वाक्य
स्य सुप्त्यादिविषयतेत्यतः प्रवृत्तमाविष्कृतं हीत्यंशं व्याचष्टे-अत्रेति ।
इत्यादीति । आदिशब्दस्योभयत्र सम्बन्धः । 'अत्र पिताऽपिता भव
ति' इत्यादिना वाजसनेयवाक्येनेति । अत्रत्यादिशब्देन 'माताऽमाता
भवति' (बृ. ६-३-२२.) इत्यादिशिष्टवाक्यं गृह्यते । 'अनन्वागतं पुण्ये
नानन्वागतं पापेन' (बृ. ६-३-२२. ) इत्यादिशब्देन लिङ्गान्तरबोधकं
वाक्यान्तरं गृह्यते । आविष्कृतत्वादिति । व्यक्तीकृतत्वादित्यर्थः । ए
तद्वाक्यस्य सुप्त्यादिविषयत्वस्येति शेषः । अनेन हिशब्दो हेत्वर्थतया
व्याख्यातः । भगवत्सम्परिष्वक्तो जीवः पूर्वं स्वपुत्राणां पिता 'अत्र'
सुप्तौ मुक्तौ चापिता भवति । दायादानात् तेषां दुःखाददुःखाच्चेति
भावः । पूर्वं माता अमाता भवति । एवमनिष्टपुण्येन पापेन च 'अन
न्वागतं' अन्वागमनं न भवतीति श्रुत्यर्थः । नन्वपितृत्वादिलिङ्गं पुण्य
पापाद्यसङ्गत्वादिलिङ्गं च कथं सुप्ते सङ्गतमिति चेदुच्यते । सुप्तिसम
ये स्वपुत्राणां दायादानेन पुत्रेष्वभिमानाभावेन च सुप्तस्यापितृत्व
ममातृत्वं च युक्तम् । यथोक्तं बृहद्भाष्ये-
तेनाश्लिष्टः स्वपुत्राणां दायादानात् न वै पिता ।
तेषां दुःखाददुःखित्वान्न माता लोकमान्यपि ॥ इति ॥
एवं सुप्ते वृत्तिसुखदुःखयोरभावेन तत्साधनपुण्यपापयोरसम्बन्धो भा
विदुःखशङ्काभावेन शोकतरणं च युक्तमिति द्रष्टव्यम् । सूत्रार्थस्तु-
'तीर्णो हि' इति वाक्यं 'स्वाप्ययसम्पत्त्योः' मुक्तिसुप्त्योर्मध्ये 'अन्य
तरापेक्षं' उभयापेक्षमुभयविषयमेव, न स्वर्गविषयम् । कुतो ? 'हि'
यस्मात् अस्योभयविषयत्वं 'अत्र पिता' इत्यादिना 'आविष्कृतं' प्र
कटितं तस्मादिति । सूत्राक्षरस्वारस्यं तु कर्मनिर्णयटीकायां बृहद्भा
ष्ये चोक्तम् । तथा हि-यदि स्वाप्ययसम्पत्त्यपेक्षमित्युच्यते, तदा

भङ्गलक्षणपरमुक्तियुक्तस्यैव तस्य पुत्रकृतश्राद्धादिभोक्तुरपितृLine 23:त्वायसम्भवात्, पुण्याद्यनन्वागमनाद्योगाच्च ॥Line 24:(९) अधिकरणार्थं स्मृत्तिमुदाहरति — ब्रह्मवैवर्ते चेति ॥ 'विश्वLine 25:मोक्षिणः' सर्वे मुक्ताः 'गुणमात्रस्वरूपिणः' ज्ञानानन्दादिगुणैकस्वरूLine 26:पिणः सर्वशोकान् तीर्णाश्च भवन्ति 'हि' यस्मात्ते गुणमात्रस्वरूपिLine 27:णः तस्मात्स्वेच्छागृहीतेषु 'ज्योतिर्मयेषु' शुद्धसत्त्वात्मकेषु देहेषु 'सुLine 28:सुखान्येव' दुःखासम्भिन्नसुखादीन्येव भुञ्जते यस्मात् ते सर्वशोकान्Line 29:तीर्णाः तस्मात् कदाचन दुःखादीन् नैव भुञ्जते इत्यन्वयः । ते मुक्ताःLine 30:अनिष्टकाम्यपुण्यपापादिवर्जिताः सर्वदोषनिवृत्ता इत्यनुवादः । गुणLine 31:मात्रस्वरूपिणः सर्वशोकान् तीर्णा इत्यनेन भुञ्ज

[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०९३
तीर्णा हि सर्वशोकांस्ते पुण्यपापादिवर्जिताः ।
निवृत्तसर्वदोषास्ते गुणमात्रस्वरूपिणः ॥ इति ॥ १६ ॥
९. अधिकरणम् ॥
( १ ) सू— ॐ ॥ जगद्व्यापारवर्जम् ॥ ॐ ॥ १७ ॥
‘सर्वान् कामानाप्त्वाऽमृतः समभवत्’ ( ऐ. आ. २-
५-४. ) इत्युच्यते। तत्र सृष्ट्यादिभ्योऽन्यान् व्यापा
रानाप्नोति ॥ १७ ॥
( २ ) कुतः ?
खादीनित्यनेन वा, अस्यार्थस्य प्राप्तत्वात् । ननु सर्वेषां ज्योतिर्मयदेहाभा
वात्कथं विश्वमोक्षिण इत्युक्तिरिति चेत्, अत्र केचित्—विश्वपदस्य
सङ्कोच इति । अन्ये तु—एतद्वाक्यबलादस्तु विश्वेषां ज्योतिर्मयदेह
इत्याहुः । एके तु—विश्वमोक्षिण इत्यस्य कर्मक्षयोत्क्रान्तिमार्गभोगाख्य
चतुर्विधमोक्षवन्त इत्यर्थः । तेन नोत्क्रामन्तीति वक्ष्यमाणमुक्तव्यावृ
त्तिरित्याहुः । इति ब्रह्मवैवर्ते इत्यन्वयः ॥ ८ ॥
॥ इति अभावाधिकरणम् ॥
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मप्राप्तस्य मुक्तस्य भोगेयत्ता समर्थ्यते । त
त्र ‘सर्वान् कामान्’ इति श्रुतेर्मुक्ता जगत्सृष्ट्यादिसर्वकाम्यान्प्राप्नुव
न्तीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—जगदिति ॥ आप्नो
तीत्यनन्तरमेवशब्दशिरस्कमुच्यत इत्येतदनुषज्यते। अपीति शेषः। त
था च अपि यद्यपि ‘सर्वान् कामानाप्त्वाऽमृतः समभवत्’ इत्यैतरेये ‘अ
मृतो’ मुक्तः सर्वान् काम्यभोगानाप्नोतीत्युच्यते। तथाऽपि ‘तत्र’ स
र्वपदोदितेषु मध्ये सृष्ट्यादिभ्योऽन्यानेव सर्वानाप्नोति । न च श्रुतिवि
रोधः । यतस्तत्र श्रुतौ सृष्ट्यादिभ्योऽन्यान् कामानाप्नोतीत्येवोच्यते,
न तु सृष्ट्याद्याप्नोतीति योजना । अनेन सूत्रे मुक्त इत्यनुवर्तते । सर्वा
न् कामानाप्नोतीति श्रुत्यर्थ इति शेषः । जगद्व्यापारवर्जमिति सावधा
रणम् । मुक्तो जगद्व्यापारवर्जं सर्वान् कामानाप्नोति । न च श्रुतिवि
रोधः । यतो मुक्तो जगद्व्यापारवर्जमेव सर्वान् कामानाप्नोतीति श्रुत्य
र्थो युज्यत इति सूत्रार्थ उक्तो भवति ॥